तर्कसंग्रह एवं न्यायबोधिनी (अन्नम्भट्ट - पं. केदारनाथ त्रिपाठी सान्वय सटीक)
Tarkasangraha with Nyayabodhini of Annambhatta by Kedarnath Tripathi
अन्नम्भट्ट द्वारा
न्यायबोधिनी-संस्कृत-कला ९९ तच्चैकमिति मूलोक्ते प्रमाणमाह—अनेकत्वे मानाभावादिति । आकाशं विभ्विति मूले प्रोक्तम्, तत्र किं विभुत्वमिति जिज्ञासायामाह—सर्वेति । सर्वैः मूर्तैः द्रव्यैः संयोगोऽस्यास्तीति सर्वमूर्तद्रव्यसंयोगी, तस्य भावः सर्वमूर्तद्रव्यसंयो- गित्वम् । इदमेव विभुत्वमिति भावः । ननु किं मूर्तत्वं ? तत्राह—मूर्तत्वञ्चेति । तथा च क्रियावत्वात् पृथिव्यप्तेजोवायुमनांसि मूर्तानि कथ्यन्ते । पृथिव्यप्ते- जोवाय्वाकाशानि पञ्च लक्षितानि, एतान्येव पञ्च भूतानि सन्तीत्याह—भूतपद- वाच्यमिति । भूतलक्षणमाह—भूतत्वं नामेति । बहिरिन्द्रियग्राह्यविशेषगुण- वत्त्वमिति । बहिरिन्द्रियैः—चक्षूरसनघ्राणत्वक्श्रोत्रैः ग्राह्या ये विशेषगुणाः— रूपरसगन्धस्पर्शशब्दास्तद्वत्त्वमित्यर्थः । न्या.बो. अतीतादिव्यवहारहेतुत्वं मूलकारकृतं काललक्षणम् । अत्रादिपदेन वर्तमान- पृ.१०. भविष्यतोर्ग्रहण्म् । अत्रैव लक्षणेऽतीतादीति विशेषणस्य फलमाह बोधिनीकारः— व्यवहारहेतुत्वस्येति । अयं भावः—यदि व्यवहारहेतुत्वमात्रं लक्षणं स्यात् तदा 'अयं घट' इत्यस्य वाक्यप्रयोगस्यापि व्यवहारत्वात्, तत्र च विषयविधया घटस्यापि हेतुत्वात्, घटेऽतिव्याप्तिरतोऽतीतादीति पदम् । तथा चातीतमिति व्यवहारहेतुत्वस्य काले एव सत्त्वान्न घटेऽतिव्याप्तिरिति भावः । न्या.बो. मूलकारकृतं दिग्लक्षणं व्याख्यातुमाह—दिशो लक्षणमाहेति । प्राच्या- पृ.११. दिसंज्ञायां हेतुमाह—उदयाचलेति । एतत् सुस्पष्टम् । मूलकृता कृतमात्मनिरूपणं व्याख्यातुमाह—आत्मानं निरूपयतीति । ज्ञानाधिकरणमितीति । अत्र ज्ञानाधिकरणमिति कथनेनात्मनि प्रमाणमपि दर्शितं भवति । तथा हि—गुणा गुणिनमाश्रित्य तिष्ठन्तीत्यस्ति नियमः । ज्ञान- मपि गुण एवास्ति । तस्याप्यवश्यं केनचिदाश्रयेण भवितव्यम् । तत्र पृथिव्यप्ते- जोवाय्वाकाशकालदिङ्मनसां ज्ञानाश्रयत्वासंभवेन आत्मैव तदधिकरणत्वेन निश्चीयते । ननु ज्ञानवानात्मेत्येव वक्तव्यम् लाघवात्, अधिकरणपदन्तु किमर्थं दत्त- मित्यत आह—अधिकरणपदमिति । अयं भावः—पदार्था हि विभिन्नसम्बन्धेन विभिन्नस्थाने तिष्ठन्ति । सम्बन्धास्तावत् न्यायनये संयोगसमवायकालिक- स्वरूपाख्याः मुख्याः । तादात्म्य, विषयित्व, विषयत्वादयस्त्वमुख्याः । तत्र संयोगसम्बन्धः पृथक्सिद्धद्रव्ययोरेव भवति । यथा घटः संयोगेन भूतले वर्तत इति । समवायसम्बन्धश्च गुणगुणिनोरवयवावयविनोः, क्रियाक्रियावतोः, जातिजाति- मतोः, नित्यद्रव्यविशेषयोश्च भवति । गुणगुणिनोर्यथा-नीलरूपं घटे समवायेन वर्तते । अवयवावयविनोर्यथा-घटः कपालयोः पटश्च तन्तुषु समवायसम्बन्धेन वर्तते । क्रियाक्रियावतोर्यथा—गमनक्रिया वाजिनि समवायेन वर्तते । जातिजाति-
९२ तर्कसंग्रहे [ प्रत्यक्षपरिच्छेदः मतोर्या—घटत्वं जातिः समवायेन घटेऽस्तीति । एवं षष्ठः पदार्थो विशेषः समवायेनैव सम्बन्धेन नित्यद्रव्येषु वर्तते । कालिकसम्बन्धेन घटादयः काले कालो- पाधिषु च वर्तन्ते, कालस्य सर्वाधारत्वात् । जन्यपदार्था एव कालोपाधय उच्यन्ते । कालोपाधयश्च काल एवेति ज्ञेयम् । येन सम्बन्धेनाभावो भूतलादौ तिष्ठति स स्वरूपसम्बन्धः । अर्थात् घटाभाववद्भूतलमित्यत्र घटाभावो भूतले स्वरूपसम्बन्धेन तिष्ठति । तदात्मनो भावः तादात्म्यम् । तेन सम्बन्धेन घटो घटे एव वर्तते । तादात्म्येन सर्वं वस्तु स्वस्मिन् सम्बद्धं भवति । ज्ञानं विषयतासम्बन्धेन विषये तिष्ठति । विषयश्च विषयितासम्बन्धेन ज्ञाने तिष्ठतीति । एवं प्रदर्शितरीत्या गुणगुणिनोः समवायात् ज्ञानमात्मनि समवायेन सम्बन्धेन स्थास्यति । तदेव च ज्ञानम् विषयतासंबन्धेन विषये वर्तते । तथा च यद्यधिकरणपदं न स्यात् किन्तु ज्ञानवानात्मा इत्येव कथ्येत, तदा विषयतासम्बन्धेन घटादिविषयस्यापि ज्ञानवत्त्वात् तत्रात्मलक्षणस्यातिव्याप्तिः स्यात्, अतोऽधिकरणपदं दत्तम् । तथा च तेन समवायसम्बन्धेन ज्ञानाश्रयत्वलाभात् समवायेन आत्मन्येव ज्ञानस्य सत्त्वात् न कोऽपि दोषः पदमादधाति । उपरिष्टादुक्ततः सम्बन्धविवेकः सदा स्मृतो रक्षणीयो येन नाग्रेऽपि काठिन्यनुभूयेत । मनोलक्षणं व्याख्यातुमारभते— मनो निरूपयतीत्यादिना । सुखाद्युप- लब्धिसाधनमिन्द्रियं मन इत्यत्रोपलब्धिपदेन साक्षात्कार एव ग्रहीतव्योऽन्यथा सुखादीनां स्मृत्यात्मकोपलब्धि प्रति चक्षुरादेरप्युद्बोधकज्ञापकतया साधनत्वात्त- त्रातिव्याप्तिः प्रसज्ज्येतेति भावः । पर्यवसितं लक्षणमाह-तथाचेति । मनसि सुखदुःखादिसाक्षात्कारकारणत्वस्येन्द्रियत्वस्य च सत्त्वाल्लक्षणसमन्वयः । अत्र यदीन्द्रियत्वमेव मनसो लक्षणं स्यात् तदा चक्षुरादेरपीन्द्रियत्वात् तत्रातिव्याप्तिः स्यात्, अतः सुखादिसाक्षात्कारकारणत्वविशेषणम् । तथा च चक्षुरादेः सुखादि- साक्षात्कारेऽकारणत्वान्नातिव्याप्तिः । एतत्सर्वमाह - इन्द्रियत्वमात्रोक्तावित्या- दिना विशेषणमित्यन्तेन । विशेष्यस्येन्द्रियत्वस्य फलमाह - विशेष्यानुपादाने इति । आत्मन्यतिव्याप्तिरिति । अत्र हेतुमाह--आत्मन इति । सुखादिकं प्रति—सुखादिसाक्षात्कारं प्रति । समवायिकारणत्वादिति । विशेष्योपादानम्- इन्द्रियत्वस्य लक्षणे प्रवेश इत्यर्थः । एवञ्चात्मन इन्द्रियत्वाभावान्न तत्र मनो- लक्षणातिव्याप्तिरिति भावः । न्या.बो. पूर्वं सर्वाणि द्रव्याणि लक्षितानि, इतो गुणान् लक्षयितुमारभमाणस्य पृ.१२. मूलकारस्य 'चक्षुर्मात्रग्राह्यो गुणो रूपमिति' रूपलक्षणं व्याख्यातुमाह-रूपं लक्षयतीति । मूलवाक्यतो लक्षणांशं पृथक्कृत्य दर्शयति-चक्षुर्मात्रग्राह्यत्व- विशिष्टगुणत्वमिति । रूपं हि केवलेन चक्षुषा ग्राह्यमर्थात् ज्ञेयमस्ति गुणश्चा- स्तीति तत्र लक्षणसमन्वयः । अत्र लक्षणे चक्षुर्मात्रग्राह्यत्वं विशेषण, गुणत्वञ्च
न्या.बो. विशेष्यमस्ति । विशेष्यस्य गुणत्वमात्रस्य लक्षणत्वे दोषमाह — विशेष्यमात्रो- पृ.१२. पादान इति । रसादावतिव्याप्तिरिति । तस्यापि गुणत्वादिति शेषः । चक्षुर्मात्रग्राह्यत्वविशेषणदाने तु नातिव्याप्तिः, रसादेः रसनादिग्राह्यत्वेन चक्षुर्ग्र्रा- ह्यत्वाभावात् । चक्षुर्मात्रग्राह्यत्वमात्रस्योपादाने गुणत्वस्य चानुपादाने दोषमाह- रूपत्वेऽतिव्याप्तिरिति । यथा रूपं चक्षुर्मात्रग्राह्यं तथा रूपत्वस्यापि चक्षुर्मात्र- ग्राह्यत्वादित्यर्थः । कथं रूपवत् रूपत्वमपि चक्षुर्मात्रग्राह्यमित्यत्र हेतुं नियममाह— यो गुण इति । रूपादिचतुर्विंशतिगुणमध्ये यो गुणो येनेन्द्रियेण गृह्यते तद्गुण- निष्ठा या रूपत्वादिजातिः सापि तेनैवेन्द्रियेण गृह्यते इति नियमार्थः । तथा च रूपत्वेऽतिव्याप्तिवारणाय गुणत्वेति विशेष्योपादानम् । एवं सति रूपत्वं सामान्यं (जातिः) न तु गुण इति नातिव्याप्तिः । चक्षुर्मात्रग्राह्यत्वमित्यस्यार्थमाह—चक्षुर्मात्रग्राह्यत्वं नामेति । चक्षु- र्भिन्नानि यानि रसनादीनीन्द्रियाणि तैरग्राह्यत्वे सति चक्षुर्ग्राह्यत्वमित्यर्थः । ननु चक्षुर्ग्राह्यत्वे सति गुणत्वमित्येवं रूपलक्षणमस्तु मात्रपदं किमर्थमत आह— मात्रपदानुपादान इति । अयमेको घट इत्यत्र संख्यायास्त्वचा घटस्पर्शे कृते यथा ज्ञानं भवति तथा चक्षुषाऽपि भवतीति तस्या अपि चक्षुर्ग्राह्यगुणत्वादति- व्याप्तिरिति भावः । तदेवाह—तत्रापीति । मात्रपददाने तु नातिव्याप्तिरित्याह— संख्यादेरिति । अत्र लक्षणे ग्राह्यत्वं प्रत्यक्षविषयत्वम्, चक्षुर्ग्राह्यत्वं चक्षुर्जिन्य- प्रत्यक्षविषयत्वम् इत्यनुपदं वक्ष्यति बोधिनीकारः । तथाचैतादृशचक्षुर्ग्राह्यत्वानु- पादानेऽतीन्द्रियगुरुत्वादावतिव्याप्तिः स्यादतस्तद्वाररणाय चक्षुर्ग्राह्यत्वोपादानम् । तथा सति नातिव्याप्तिः, तस्यातीन्द्रियत्वेन चक्षुषाऽग्राह्यत्वात् इत्याशनेनाह— अतीन्द्रियेति । ग्राह्यत्वार्थं उक्तः । अग्राह्यत्वस्यार्थमाह—अग्राह्यत्वं नामेति । तदविषयत्वम् — प्रत्यक्षाविषयत्वमित्यर्थः । मात्रपदार्थसहकृतमुक्त- लक्षणस्य फलितार्थमाह — तथा चेति । स्पष्टोऽस्यार्थः । एवं फलितार्थेऽपि दिवसे सूर्यस्य रात्रौ चन्द्रस्य दीपस्य वा प्रभया सह घटस्य यः संयोगस्तत्रातिव्याप्तिरित्याशङ्कते—नन्विति । अतिव्याप्तौ हेतुमाह—चक्षुर्मात्रग्राह्यगुणत्वादिति । चक्षुर्भिन्नेन्द्रिय- जन्यप्रत्यक्षाविषयत्वे सति चक्षुर्जन्यप्रत्यक्षविषयत्वे च सति गुणत्वात् इत्यर्थः । अतिव्याप्तिवारणोपायमाह—गुणपदस्येति । तथा चात्र गुणपदस्य ‘रूपं गन्धो रसः स्पर्शः’ इति श्लोके उक्ता ये विशेषगुणास्तत्परत्वात्, संयोगस्य च पठितविशेषगुणानन्तर्गतत्वात् नातिव्याप्तिरित्याशयः । ननु यदि गुणपदं विशेष- गुणपरं तदा संख्यादावतिव्याप्तिवारणाय दत्तं मात्रपदं व्यर्थमेव, संख्याया विशेषगुणत्वाभावादेव तत्रातिव्याप्तेरभावादिति शङ्कते—न चैवमिति । मात्र- पदस्य अन्यप्रयोजनप्रदर्शनेनोत्तरयति—जलमात्रेति । तथा च सांसिद्धिकद्रवत्वस्य चक्षुर्ग्राह्यविशेषगुणत्वात् तत्रैवातिव्याप्तिवारणाय मात्रपदसार्थक्यादिति भावः ।
... यथा च गुणपदं विशेषगुणपरमिति मन्तव्यमपि न भवेत्, एवं प्रभाघट- संयोगेऽतिव्याप्तिरपि न स्यात्तथा लक्षणमाह—अथवेति । चक्षुर्मात्रग्राह्या या जातिः रूपत्वजातिस्तादृशजातिमत्त्वं रूपे वर्तत इति लक्षणसमन्वयः । एवं सति प्रभाघटसंयोगेऽपि नातिव्याप्तिः, संयोगत्वजातेश्चक्षुर्मात्रग्राह्यत्वाभावात् । यतो हि घटपटसंयोगो यथा चक्षुषा गृह्यते तथा त्वचाऽपि गृह्यते । अतस्तन्निष्ठा संयोगत्वजातिरपि चक्षुष्ट्वग्भ्यां द्वाभ्यामेव गृह्यते, यो गुणो यदिन्द्रियग्राह्य इति न्यायात् । प्रभाघटसंयोगे चैकैव संयोगत्वजातिरस्ति । तथा च संयोगत्व- जातेश्चक्षुर्मात्रग्राह्यत्वाभावात्, चक्षुर्मात्रग्राह्यजातिमद्गुणत्वस्य प्रभाघटसंयोगेऽ- भावान्नातिव्याप्तिरिति भावः । जातिघटितलक्षणे गुणत्वोपादानस्य फलमाह— अन्नेति । अयं भावः—सुवर्णमिदमिति ज्ञानं चक्षुषैव भवति, चक्षुर्निमीलने केवलस्पर्शेन सुवर्णस्यापरिचयात् । तथा सुवर्णगतसुवर्णत्वजातिरपि चक्षुर्मात्र- ग्राह्या इति तादृशजातिमत्त्वस्य सुवर्णे सत्त्वादतिव्याप्तिरतस्तद्वारणाय गुणत्वोपादानमिति भावः । अग्रे रसादिलक्षणेऽपि विशेष्यविशेषणयोः प्रयोजनं सूचयति—एवमिति । न्या.बो. मूलकृत्कृतं स्पर्शलक्षणं व्याख्यातुमाह—स्पर्शं लक्षयतीति । अत्रापि पृ.१५. त्वग्भिन्नेन्द्रियाग्राह्यत्वे सति त्वगिन्द्रियग्राह्यत्वमिति स्पर्शलक्षणनिष्कर्षः । अत्र लक्षणे त्वग्भिन्नेन्द्रियाग्राह्यत्वार्थकमात्रपदस्य प्रयोजनमाह—अत्रापीति । यथा रूपलक्षणे तथा स्पर्शलक्षणेऽपीति भावः । संख्यादिसामान्येति । अयं भावः—स्पर्शलक्षणे यदि मात्रपदं न स्यात् तदा त्वगिन्द्रियग्राह्यगुणत्वमेव लक्षणं स्यात् । तथा च संख्याया अपि त्वगिन्द्रियग्राह्यगुणत्वमस्ति, यतो हि चक्षुषी पिधायापि स्पृष्ट्वैव द्वौ त्रयो वा घटा इति ज्ञानं जायत एव । तस्मात् संख्यायामुक्तलक्षणातिव्याप्तिरतो मात्रपदं देयम् । तथा सति नातिव्याप्तिः, तस्याः चक्षुषापि ग्राह्यत्वेन त्वगिन्द्रियमात्रग्राह्यत्वाभावात् । अन्यविशेषण- कृत्यम्—त्वगिन्द्रियग्राह्यत्वपदस्य गुणत्वपदस्य च प्रयोजनमित्यर्थः । पूर्ववत् रूपलक्षणे इवेत्यर्थः । अर्थात् अतीन्द्रियगुरुत्वादौ स्पर्शत्वे चातिव्याप्तिवारणं क्रमेण प्रयोजनमिति भावः । ग्राह्यत्वपदार्थोऽपि स एवेत्याह—ग्राह्यत्व- पदार्थोऽपीति । रूपरसगन्धस्पर्शाः पृथिव्यां पाकजा अत एवानित्या इति मूलकारोक्तं व्याख्यातुमाह—रूपादिचतुष्टयमिति । एतत्तत्त्वनिर्णयः—रूपादीनां पृथिव्यां पाकजत्वनिर्णय इत्यर्थः । इत्थम्—अव्यवहितोत्तरवक्ष्यमाणप्रकारेणेत्यर्थः । पाक- शब्दस्यार्थमाह—पाको नामेति । विजातीयः—विलक्षणः । एवंविधः पाकः किं करोतीत्याह—स चेति । नानाजातीयरूपजनकः—नानाप्रकाररूपोत्पादक इत्यर्थः । रूपजनको यो विजातीयस्तेजःसंयोगः, तदपेक्षया रसजनकस्तेजःसंयोगो विलक्षण
न्यायबोधिनी-संस्कृत-कला ९५ एवेत्याह—तदपेक्षयेति । रूपरसजनकविजातीयतेजःसंयोगापेक्षया गन्धजनकः, स्पर्शजनकश्च विजातीय एव तेजःसंयोग इत्याह — एवं गन्धजनकोऽपीति, एवं स्पर्शजनकोऽपीति चेति । एवं प्रकारेणेति । स्पष्टोऽस्यार्थः । उदाहरति—यथेति । तृणपुञ्जनिक्षिप्ते, धान्याद्यन्नेषु च निक्षिप्ते, आम्रादौ फले । उष्मनामकविलक्षणतेजःसंयोगात्, पूर्वरूपनाशेन अर्थात् आम्रे यत् पूर्वं हरितरूपमभूत् तस्य नाशेनेत्यर्थः, रूपान्तरस्य पीतादेरुत्पत्तिर्भवति, किन्तु रसस्तु स एवाम्लस्तिष्ठति । एतस्यैतदेव कारणं यदाम्रे एतादृशस्तेजः- संयोगो जातो येन केवलं रूपमेव परिवर्तितम्, रसस्तु अम्ल एव स्थितः । केवल- रसजनकं विलक्षणं तेजःसंयोगमुदाहरति —क्वचिदिति । रसपरावृत्तिः रसपरि- वर्तनम् । रूपं तु हरितमेव तिष्ठतीत्याशयः । एतदेवोपपादयति —विजातीय इति । निष्कर्षं ब्रूते—तस्मादिति । उक्तमनुभवं गन्धेऽपि विज्ञापयति—एवं गन्धजनक इति । रूपरस- योरिति । अपरावृत्तावपि —हरिताम्लौ एव रूपरसौ तिष्ठत इत्यर्थः । केवलो गन्ध एव सुरभिर्जायते । अत्रापि रूपादिजनकतेजःसंयोगापेक्षया विलक्षण एवायं गन्धजनकस्तेजःसंयोग इति तात्पर्यार्थम् । एतदेव स्पर्शेऽपि बोधयति—एवं स्पर्श- जनक इति । उपपादयति — पाकवशादिति । उपसंहरति—तस्मादिति । विलक्षणविलक्षणपाकस्यैवायं महिमा यत् समानेभ्यः परमाणुभ्यो जातान्यपि द्रव्याणि घट, पट, वृक्ष, पशु, मनुष्यादिनानारूपेणानुभूयन्ते इत्याह-अतएवेति । यथाकार्यं विलक्षणपाकस्वीकारादेवेत्यर्थः । पाकवशाद् विजातीयद्रव्यान्तरोत्पत्ति- मप्युदाहरति —यथेति । गोभिर्भुक्तानां खादितानां तृणानाम् । आपरमाण्वन्त- भङ्ग इति । न्यायमते परमाणूनां नित्यत्वात् तेषां नाशरूपभङ्गासंभवात्, तान् न्या.बो. विहाय द्व्यणुकपर्यन्तनाशे इत्यर्थः । तृणारम्भका ये परमाणवस्तेषु विजातीयतेजः- पृ. १६. संयोगात् पूर्वरूपादिश्चतुष्टयस्य तृणेषु ये हरितरूपादिविलक्षणरूपरसगन्धस्पर्शास्ते- षामित्यर्थः । तदनन्तरम् पूर्वरूपादिनाशानन्तरम् । दुग्धे यादृशं रूपं भवति, रसो भवति, गन्धो भवति, स्पर्शो भवति, तादृशरूपरसगन्धस्पर्शजनका विलक्षण- तेजःसंयोगाः जायन्ते, उत्पद्यन्ते इत्यर्थः । तदुत्तरं—दुग्धे यादृशं रूपादिकं भवति, तादृशरूपादिजनकविलक्षणतेजःसंयोगोत्पत्त्यनन्तरमित्यर्थः । तैरेव विलक्षणतेजः- संयोगैरेव । तादृशरूपरसादयः—दुग्धे यादृशा भवन्ति तादृशा इत्यर्थ । तादृश- रूपरसगन्धस्पर्शविशिष्टा ये दुग्धपरमाणवस्तैर्दुग्धद्व्यणुकमारभ्यते —उत्पाद्यते इत्यर्थः ! ततस्त्र्यणुकं ततो महादुग्धारम्भका अवयवाः उत्पद्यन्ते, ततो महादुग्धो- त्पत्तिर्भवतीति भावः । एवं रीत्यैव पाकमहिम्ना दुग्धस्य रूपादिनाशानन्तरं दध्युत्पाद्यते
९६ तर्कसंग्रहे [ प्रत्यक्षपरिच्छेदः इत्याह— एवं दुग्धाम्भकैरिति । एवं रीत्यैव नवनीतादिकमपीत्याह— एवं पाकमहिम्नेति । न्या.बो. विभागलक्षणं व्याख्यातुमाह— विभागं लक्षयतीति । निष्कृष्टलक्षणमाह— पृ.१७.संयोगेति । अत्र लक्षणे संयोगनाशकत्वं विशेषणम्, गुणत्वं विशेष्यम् । विशेषणा- नुपादाने गुणत्वमात्रोक्तौ रसादावतिव्याप्तिः, तद्वारणाय विशेषणोपादानम् । विशेष्यस्य स्वयं फलमाह— विशेषणमात्रोपादाने इति । यदि संयोगनाशकत्वं विभागत्वमित्युच्येत, तदा क्रियापि संयोगनाशिकाऽस्ति, नहि क्रियामन्तरा संयोगो नश्यति । तथा च क्रियायां विभागलक्षणातिव्याप्तिरतो गुणत्वमिति विशेष्योपादानम् । क्रियाया गुणभिन्नत्वात् नातिव्याप्तिरित्याशयः । न्या.बो. गुरुत्वलक्षणव्याख्यानायाह— गुरुत्वं लक्षयतीति । आद्यपतनासमवायि- पृ.१८.कारणत्वं गुरुत्वस्य लक्षणम् । समवायिकारणत्वासमवायिकारणत्वे त्वग्रे विस्तरेण प्रतिपादयिष्येते । अत्रैतावदेव ज्ञेयं यत् आद्यपतनं प्रति असमवायिकारणं गुरुत्वं, द्वितीयपतनं प्रति तु वेगोऽसमवायिकारणम् । अयं भावः— यदा लोष्ठमुपरि उत्क्षिप्यते तदा तल्लोष्ठं निमेषमात्रमाकाशे एवावस्थाय शनैः पतितुमारभते, तत्रैवारम्भिकपतने गुरुत्वमसमवायिकारणम् । यदि गुरुत्वं न स्यात्तदा लोष्ठं नभस्येवावरुद्धं स्यात्, न त्ववपतेत् । अतस्तत्र गुरुत्वमसमवायिकारणम्, किन्तु प्रारम्भिकपतनानन्तरम् शीघ्रतया यत् पतनं दृश्यते तत्र वेग एवासमवायिकारण- मित्यर्थं । तथा चाद्यपदादाने द्वितीयपतनासमवायिकारणे वेगेऽतिव्याप्तिरत आद्येति । तदेवाह— द्वितीयेति । उत्तरत्र द्रवत्वलक्षणे मूलकारेणाद्यपदं न दत्तम्, किन्तु वेगेऽतिव्याप्तिवारणाय तत्राप्याद्यपदमावश्यकमित्याह—उत्तरत्रेति । तथा चाद्यपदयोजनया आद्यस्यन्दनासमवायिकारणत्वं द्रवत्वस्य लक्षणं निष्पन्नं भवति । न्या.बो. स्नेहं लक्षणं व्याख्यातुं प्रक्रमते— स्नेहं लक्षयतीति । लक्षणस्य निष्कर्ष- पृ. १८. माह— चूर्णादीति । चूर्णशब्दस्य स्फुटार्थत्वात् पिण्डीभावशब्दार्थमाह— पिण्डी- भावो नामेति चूर्णादिर्धारणाकर्षणहेतुभूत इति । यतश्चूर्णा।दधार्यन्ते, आकृष्यते वा, स विलक्षणः संयोग एव पिण्डीभावः । ननु तादृशविलक्षणसंयोगात्मके पिण्डीभावे स्नेह एव हेतुः सिद्धान्तिना भवताऽभ्युपगम्यते, परन्तु जलादिगत- द्रवत्वमेव कारणं किं न स्यात् ? तथा चोक्तलक्षणं न युक्तमत आह— तादृश- संयोग इति । न तु जलादिगतद्रवत्वस्येति । अत्र युक्तिमाह-- तथा सतीति । तीव्राग्निसंयोगेन द्रुतं यत् सुवर्णं तत्संयोगेनापि सक्तूनां धूलीनां वा पिण्डीभावः स्यात्, किन्तु नैवं भव।त । उपसंहरति— अत इति । लक्षणे गुणपदोपादानफलमाह— विशेषणेति । कालस्य जन्यमात्रं प्रति हेतुत्वेन पिण्डीभावं प्रत्यपि हेतुत्वादिति भावः । अक्षरार्थः स्पष्टः । चूर्णादिपिण्डी-
भावं प्रति स्वमतेन यो हेतुस्तमाह बोधिनीकारः—वस्तुतस्त्विति । तत्र हेतु- माह--मानाभावादिति । अयं भावः—यदि स्नेहः पिण्डीभावहेतुः स्यात्, तदा अद्रुतं यत् करकादिरूपं जलं, तेनापि सक्तवादयः पिण्डीभावमापद्येरन्, न चैवं, तस्मात् द्रुतजलसंयोग एव पिण्डीभावे हेतुरिति । शेषं स्पष्टम् । न्या.बो. शब्दलक्षणं व्याख्यातुमाह—शब्दं लक्षयतीति । श्रोत्रग्राह्यत्वे सति पृ.१८. गुणत्वं शब्दस्य लक्षणम् । विशेष्यदलस्य फलमाह—शब्द इति । यः गुणो यदिन्द्रियग्राह्यस्तन्निष्ठा जातिरपि तदिन्द्रियग्राह्येति नियमात् शब्दत्वस्यापि श्रोत्रग्राह्यत्वादित्याशयः । श्रोत्रेति पदप्रयोजनमाह—रूपादाविति । रूपादेर्गुण- त्वेऽपि श्रोत्रग्राह्यत्वान्नातिव्याप्तिरिति भावः । शब्दानां त्रैविध्यमाह— स इति । न्या.बो. संयोगाज्जायते इति संयोगजः, विभागाज्जायते इति विभागजः, शब्दा- पृ.२०. ज्जायते इति शब्दजः । संयोगजमुदाहरति—यथेति । विभागजमुदाहरति— वंशे इति । शब्दजं शब्दमुदाहरति शब्दोत्पत्तिदेशमिति । यत्र काष्ठादौ टङ्कादिप्रतिघातेन शब्द उत्पद्यते स शब्दोत्पत्तिदेशः, तमारभ्य श्रोत्रदेशपर्यन्तम्— कर्णपर्यन्तमित्यर्थः । निमित्तपवनेन—वायुद्वारा शब्दधारा जायन्ते उत्पद्यन्त इत्यर्थः । कथङ्कारं शब्दधारा जायन्ते ? इति जिज्ञासायामाह—वीचीतरङ्ग- न्यायेन, कदम्बमुकुलन्यायेन वेति । यद्यपि वीचीतरङ्गशब्दौ पर्यायौ तथापि वीचीशब्दस्य लघुत्वद्योतकत्वात्, तरङ्गशब्दस्य च महत्त्वमाशयेन प्रयुक्तंतदान्न पुनरुक्तिदोषः । यथा हि सरसि प्रस्तरादौ प्रक्षिप्ते सति तत्रैकस्तरङ्गः पूर्वं जायते, तस्मात्तरङ्गान्तरं, ततोऽपि तरङ्गान्तरमिति रीत्या तटपर्यन्तं तरङ्गा जायन्ते; यथा वा कदम्बमुकुलं भवति, तथा शब्दानां धाराः श्रोत्रदेशपर्यन्तं जायन्ते शब्दाश्च कर्णाभ्यां श्रूयन्ते इत्याशयः । तत्रोत्तरशब्दे पूर्वपूर्वशब्दः कारणम् भवतीत्याह— तत्रेति । न्या.बो. बुद्धिलक्षणं व्याख्यातुमाह—बुद्धेरिति । सर्वव्यवहारहेतुत्वे सति गुणत्वं पृ.२१. बुद्धेर्लक्षणम् । व्यवहारपदेन घटमानय पटमानयेत्यादिशब्दप्रयोग एव ग्राह्यः । स च शब्दप्रयोगात्मको व्यवहारो ज्ञानं विना न सम्भवति । नहि घटज्ञानं विना 'घटमानय' इति कश्चिदपि व्यवहर्तुं शक्नोतीति बुद्धौ सर्वव्यवहारहेतुत्वं सिद्धम् । स्मृतिलक्षणं व्याख्यातुमाह—स्मृतिं लक्षयतीति । संस्कारमात्रेति । संस्कारमात्रजन्यत्वमित्यस्य बहिरिन्द्रियाद्यजन्यत्वे सति संस्कारजन्यत्वमर्थः । यज्ज्ञानं चक्षुरादिबहिरिन्द्रियादिभिः जन्यं न स्यादथ च संस्कारेण जन्यं स्यात्त- ज्ज्ञानं स्मृतिरिति भावः । यथा कश्चित् काश्यां कमपि पुरुषं पश्यति, तदानीं दर्शनानन्तरमेव तस्यात्मनि पुरुषविषयकः संस्कार उत्पद्यते । तत्संस्कारबलादेवा- ७
९८ तर्कसंग्रहे [ प्रत्यक्षपरिच्छेदः यस्मिन् स्थाने उद्बोधकसमवधाने सति तेन पुरुषेण साकमिन्द्रियसन्निकर्षाभावेऽपि तस्य ज्ञानं जायते, तदेव स्मृतिः । तत्र संस्कार एव कारणं भवतीति सुतरां लक्षणं समन्वेति । लक्षणे विशेषणकृत्यमाह — विशेषणानुपादाने इति । बहिरिन्द्रियाद्य- जन्यत्वविशिष्टसंस्कारजन्यत्वार्थकं 'संस्कारमात्रजन्येति' पदानुपादाने इत्यर्थः । प्रत्यक्षानुभवेऽतिव्याप्तिरिति । तस्यापि ज्ञानत्वादिति शेषः । तद्वारणाय विशेषणोपादानमिति । तथा च प्रत्यक्षानुभवस्य बहिरिन्द्रियजन्यत्वेन संस्कार- मात्रजन्यत्वाभावान्नातिव्याप्तिरिति भावः । विशेष्यस्य फलमाह — संस्कारेति । अयं भावः — संस्कारमात्र- जन्यत्वमात्रं लक्षणं स्यात् ज्ञानत्वञ्च नोपादीयेत तदा संस्कार- ध्वंसस्यापि संस्कारजन्यत्वेन तत्र स्मृतिलक्षणातिव्याप्तिः । ज्ञानत्वोपादाने तु ध्वंसस्याभावत्वान्नातिव्याप्तिः । ननु कथं संस्कारध्वंसः संस्कारजन्यस्तत्राह — ध्वंसं प्रतीति । अयमाशयः —यस्याभावः स प्रतियोगी । ध्वंसोऽपि अभाव एवेति संस्कारध्वंसस्य संस्कारः प्रतियोगी । एवं घटध्वंसं प्रति घटः प्रतियोगी भवतीत्यनयैव रीत्या अन्यत्रापि बोध्यम् । एवं यदि पूर्वं संस्कार एव न स्यात्तदा कस्य ध्वंसः स्यात् । यथा पूर्वं यदि घटो न स्यात्तदा दण्डेन कस्य ध्वंसो भवेत् । तस्मादेतन्मन्तव्यं यत् ध्वंसं प्रति प्रतियोगी कारणं भवतीति । तथा च संस्कार- ध्वंसेऽपि संस्कारजन्यत्वसिद्धौ तत्रातिव्याप्तिवारणाय ज्ञानत्वोपादानमावश्यक- मिति । यदा कश्चित् पुरुषः पूर्वमन्यत्र दृष्टः पुनरन्यत्र दृश्यते, तत्र 'सोऽयमिति' यज्ज्ञानं भवति, तदेव प्रत्यभिज्ञापदार्थः । तत्रातिव्याप्तिवारणाय मात्रपदम् । तथा सति नातिव्याप्तिः, तत्र प्रत्यभिज्ञायां तत्तांशे संस्कारजन्यत्वस्य सत्त्वेऽपि इदन्त्वांशे बहिरिन्द्रियजन्यत्वेन संस्कारमात्रजन्यत्वाभावात् । अनुभवलक्षणं व्याख्यातुमाह — अनुभवं लक्षयतीति । मूलस्थतद्द्भिन्नमित्य- स्यार्थमाह — तद्भिन्नत्वं नामेति । लक्षण य पर्यवसितं रूपमाह — तथा चेति । स्मृतिभिन्नत्वविशेषणस्य फलमाह तत्रेति । स्मृतावतिव्याप्तिरिति । तस्या अपि ज्ञानत्वादिति शेषः । विशेष्योपादानफलमाह — विशेष्यानुपादाने इति । घटादावतिव्याप्तिरिति । घटादेरपि स्मृतिभिन्नत्वादिति शेषः । घटस्य स्मृतिभिन्नत्वेऽपि ज्ञानत्वाभावान्नातिव्याप्तिरित्याशयः । न्या.बो. यथार्थानुभवलक्षणं व्याख्यातुमाह — यथार्थानुभवमिति । तद्वति तत्प्रकार- पृ.१२.कानुभवत्वं यथार्थानुभवस्य लक्षणम् । तद्वतीत्यत्र तच्छब्दार्थमाह तद्वती- त्यत्रेति । लक्षणस्य स्वयं स्वरूपमाह — तथाचेति ।
न्यायबोधिनी-संस्कृत-कला अयमाशयः- लक्ष्यताविवेचनावसरे विशेष्यता, प्रकारता, इत्युभे नाममात्रेण प्रदर्शिता । ते एवात्र विस्तरेणोच्येते । तथाहि-सर्वस्मिन्नपि सविकल्पके ज्ञाने एकं विशेष्यं भवति एकश्च प्रकारः । विशेषणमेव प्रकार इत्युच्यते । यथा 'अयं घट' इति ज्ञाने घटांशे घटत्वं प्रकारो घटश्च विशेष्योऽस्ति । घटत्वं प्रकारो यत्र तत् घटत्वप्रकारकम्, अत्र बहुव्रीहौ कप्रत्ययः । एवं घटो विशेष्यो यत्र तत् घटविशेष्यकं भवति । तथा चायं घट इति ज्ञानं घटत्वप्रकारकं घटविशेष्यकञ्चास्ति । एवं घटवद्भूतलमिति ज्ञाने घटस्य विशेषणत्वात् घट एव प्रकारः, भूतलञ्च विशेष्यमस्ति । तथाऽत्रापि घटः प्रकारो यत्रेति बहुव्रीहौ कप्रत्ययः । एवं भूतं विशेष्यं यत्रेत्यत्रापि बहुव्रीहौ कप्रत्ययः । तथा च घटवद्भूतलमिति ज्ञानं घटप्रकारकं भूतलविशेष्यकञ्चास्तीति नैयायिकानां पन्थाः । एतद्रीत्या प्रकृते तद्वतीति सप्तम्या विशेष्यत्वार्थकत्वेन तद्वद्विशेष्यकत्वे सति तत्प्रकारकानुभवत्वं यथार्थानुभवस्य लक्षणं भवति । यथा-यत्र भूतले घटो वर्तते तद् भूतं घटवद् भवति । तत्र यदि 'इदं भूतं घटवदिति, ज्ञानं क्रियते तदा इदं ज्ञानं यथार्थम् । यतो हि इदं ज्ञानं तद्वद्- विशेष्यकं तत्प्रकारकञ्चास्ति । तत्पदेन प्रकारीभूतो ( विशेषणीभूतः ) घटरूप- धर्मोऽत्र ग्रहीतव्यः । तथा च घटवद् ( भूतल ) विशेष्यकं घटप्रकारकम् ( घट- विशेषणकं ) चेदं ज्ञानमतो यथार्थम् । एवंविधमेव चान्यदपि ज्ञानं यथार्थं भवति । अत्रायं सारः- तत्प्रकारके ज्ञाने यद् विशेष्यमस्ति, तद् यदि तद्वत् स्यात् अर्थात् तस्य प्रकारस्याधिकरणं स्यात्, तदा तज्ज्ञानं यथार्थं भविष्यति, विशेष्यं यदि तद्वत् न स्यात्तदा तज्ज्ञानमयथार्थम् भविष्यति । एवमेव पटवद्गृहमिति ज्ञानं पटप्रकारकमस्ति, तस्य विशेष्यं गृहमपि पटवद् विद्यते । तस्मादिदं ज्ञानं यथार्थम्, तद्वद्विशेष्यकत्वे सति तत्प्रकारकत्वस्य यथार्थलक्षणस्य सत्त्वात् । बोधिनीकारः स्वममप्युदाहरति - रजते इदं रजतमिति ज्ञानमिति । अयमाशयः- अत्रेदंपदेन पुरोवर्ती पदार्थो ज्ञेयः । तथा च इदं पुरोवर्ती पदार्थो रजतमस्तीति ज्ञानाकारः । अत्र ज्ञाने पुरो विद्यमानं रजतमेव विशेष्यं रजतत्वञ्च प्रकारः । अर्थात् इदं ज्ञानं रजतत्वप्रकारकं रजतविशेष्यकं विद्यते । विशेष्यीभूतं रजतञ्च रजतत्वरूपप्रकारवदस्ति । अतः तद्वद् ( रजतत्ववदरजत ) विशेष्यकत्वे सति तत् ( रजतत्व ) प्रकारकत्वस्य सत्त्वाद् रजते 'इदं रजत'मिति ज्ञानं यथार्थम् ! तदेवाह- अत्रेति प्रमायथार्थशब्दयोः पर्यायत्वात् मूले उक्तम्- सैवेति । अतिप्रसङ्गवारणाय लक्षणस्य निष्कर्षमाह- तद्वदिति । तद्वन्निष्ठा या विशेष्यता, तादृशविशेष्यतानिरूपिता या तन्निष्ठा प्रकारता, तादृशप्रकारताशालित्वं
यथार्थत्वमित्यर्थः । प्रकारता हि विशेष्यतानिरूपिता भवति । अर्थात् विशेष्यता प्रकारताया निरूपिका भवति । यतो हि, यदि विशेष्यं रजतं न स्यात् तर्हि किम- पेक्ष्य रजतत्वं प्रकारः स्यात् ! एवं, यदि रजतत्वं प्रकार एव न स्यात् तदा रजतं कस्य विशेष्यं कथ्येत । तस्माद् विज्ञायते यत् प्रकारता विशेष्यनिष्ठविशेष्यतारूप- धर्मनिरूपिता भवति, एवं विशेष्यताऽपि प्रकारनिष्ठप्रकारतारूपधर्मनिरूपिता भवति । प्रकारताविशेष्यतयोः परस्परं निरूप्यनिरूपकभावो भवतीत्याशयः । एतदाशयेनैव चोक्तनिष्कर्षे तद्वन्निष्ठविशेष्यतानिरूपिततन्निष्ठप्रकारतेत्युक्तम् । तत्पदेन प्रकारीभूतं रजतत्वं धर्तव्यम् । तथा च, रजतत्ववद्रजतनिष्ठा या विशेष्यता, तन्निरूपिता या रजतत्वनिष्ठा प्रकारता, तादृशप्रकारताशालित्वम् 'इदं रजतम'ति ज्ञाने वर्तत इति लक्षणसमन्वयः । एवंविधनिष्कृष्टलक्षणस्य फलमाह- अन्यथेति । यत्र क्रमेण रङ्गरजते स्थापिते विद्येते, किन्तु भ्रमात् रङ्गस्थाने रजतं रजतस्थाने च रङ्गञ्जानाति 'इमे रजतरङ्गे' इति तत्रोक्तयथाश्रुतलक्षणस्याति- व्याप्तिरतस्तद्वारणमेव निष्कर्षस्य फलमित्याशयः । अतिव्याप्तिप्रकारं पूर्वं दर्शयति - तत्रापीति । अयं भावः- रङ्गरजतस्थाने रजतरङ्गे इति समूहालम्बनं यत् ज्ञानमस्ति, तत्र रजतत्वं रङ्गत्वञ्च प्रकारौ स्तः । अर्थात् इदं ज्ञानं रजतत्वप्रकारकं रङ्गत्वप्रकार- कञ्चास्ते । ज्ञानमिदं तदा यथार्थमेव भविष्यति यदा पूर्वोक्तप्रकारकं सत् रजतत्व- वद्विशेष्यकं रङ्गत्ववद्विशेष्यकञ्च स्यात् । इदं ज्ञानं तथा वर्ततेऽपि । यतोहि एतस्य रजतत्वरङ्गत्वप्रकारकसमूहालम्बनज्ञानस्य विशेष्यीभूते पुरोविद्यमाने रङ्ग- रजते एव विद्येते, ते च रजतत्वद् रङ्गत्ववच्चापि स्तः । तस्माद् रजतत्ववद्- विशेष्यकत्वरजतत्वप्रकारकत्वयोः, रङ्गत्ववद्विशेष्यकत्वरङ्गत्वप्रकारकत्वयो- श्चोक्तसमूहालम्बने ज्ञाने सत्त्वात् यथार्थानुभवलक्षणस्य तत्रातिव्याप्तिः । उक्त- निष्कर्षे तु नातिव्याप्तिरिति समाधत्ते - उक्तेति । अयमाशयः- पुरः क्रमेण रङ्गरजते स्तः, किन्तु वैपरीत्येन रजनरङ्गे इति जानाति । अर्थात् रङ्गं रजतं जानाति, रजतञ्च रङ्गं जानाति । रङ्गांशे रजतत्व- मवगाहते, रजतांशे च रङ्गत्वमवगाहते इति तु रहस्यम् । तथा च तदा रङ्गांशे रजतत्वमवगाहते तदा रजतत्वं प्रकारः रङ्गञ्च विशेष्यम् । प्रकारता रजतत्व- निष्ठा, विशेष्यता तु रङ्गनिष्ठा । रङ्गञ्च वस्तुतो रङ्गत्वधर्मवदस्ति न तु रजत- त्वधर्मवदिति । एवञ्च रजतत्वनिष्ठा प्रकारता यदा रजतत्ववन्निष्ठविशेष्यतानिरू- पिता स्यात् तदा तज्ज्ञानं यथार्थं भविष्यति । अत्र तु रजतत्वनिष्ठप्रकारता रङ्गत्ववन्निष्ठविशेष्यतानिरूपिता विद्यते । एवं यदा रजतांशे रङ्गत्वमवगाहते तदा रङ्गत्व प्रकारः रजतञ्च विशेष्यम् । प्रकारता रङ्गत्वनिष्ठा विशेष्यता च रजतनिष्ठा । रजतञ्च वस्तुतो रजतत्वधर्मवदस्ति न तु रङ्गत्वधर्मवदिति ।
एवंचात्रापि रङ्गत्वनिष्ठा प्रकारता यदा रङ्गत्ववन्निष्ठविशेष्यतानिरूपिता स्यात् तदैवैतज्ज्ञानं यथार्थं स्यात् । अत्र तु रङ्गत्वनिष्ठा प्रकारता रजतत्ववन्निष्ठविशेषे- ष्यातानिरूपिता विद्यते । तस्मात् रङ्गरजतयोः स्थाने इमे रजतरङ्गे इति समूहा- लम्बनज्ञानस्य न याथार्थ्यापत्तिः, रजतत्ववन्निष्ठविशेष्यतानिरूपितरजतत्वनिष्ठ- प्रकारताशालित्वस्य, रङ्गत्ववन्निष्ठविशेष्यतानिरूपितरङ्गत्वनिष्ठप्रकारताशालि- त्वस्य च निष्कृष्टलक्षणलब्धस्य प्रकृतसमूहालम्बनभ्रमेऽभावादिति । न्या.बो. एतदेव सर्वमाह बोधिनीकारः - तज्ज्ञानस्येति । उक्तसमूहालम्बनभ्रमस्ये- पृ.२३.त्यर्थः । रङ्गांशे रजतत्वावगाहित्वेन रजतत्वप्रकारताया रङ्गत्ववन्निष्ठविशेष्यता- निरूपितत्वेऽपि रजतत्ववन्निष्ठविशेष्यतानिरूपितत्वाभावात् इति, रजतांशे रङ्गत्ववावगाहित्वेन रङ्गत्वप्रकारताया रजतत्ववन्निष्ठविशेष्यतानिरूतितत्वेऽपि रङ्गत्ववन्निष्ठविशेष्यतानिरूपितत्वाभावादिति च रीत्यान्वयः । अत्रत्या सर्वापि रीतिः पूर्ण स्मरणीया यथाऽग्रे अयथार्थानुभवलक्षणव्याख्या न कठिना प्रतीयेत, परं सरला सती मनोमोदमुत्पादयेदिति । समूहालम्बनज्ञानस्य स्वरूपमाह— नानेति । उदाहरणन्तूक्तमेवेति । अयथार्थानुभवलक्षणं व्याख्यातुमारभते-अयथार्थानुभवं लक्षयतीति । मूले तदभाववतीति । अत्रापि लक्षणे तत्पदेन प्रकारीभूतो ( विशेषणीभूतः ) धर्मो धर्त्तव्यः । सप्तम्याश्च विशेष्यत्वमर्थो ज्ञेयः । तथा च पूर्वररीत्या तदभाववान् विशेष्यो यत्र ज्ञाने तत् तदभाववद्विशेष्यकं ज्ञानम्, एवं तत् प्रकारो यत्र ज्ञाने तत् तत्प्रकारकमित्युच्यते । तथा च तदभाववद्विशेष्यकत्वे सति तत्प्रकारकानुभवत्वम् अयथार्थानुभवस्य लक्षणम् । यथा पुरोविद्यमानायां स्वच्छतरायां शुक्तौ 'इदं रजत'मिति ज्ञानमयथार्थम् । यतो रजतं नास्ति किन्तु शुक्तिमेव रजतं जानाति । शुक्तौ शुक्तित्वमनवगाह्य रजतत्वमेवावगाहते इति तात्पर्यम् । अत्र ज्ञाने रजतत्वं प्रकारो विद्यते, शुक्तिश्च विशेष्यभूताऽस्ति । सा प्रकारीभूतरजतत्वधर्मवती नास्ति किन्तु रजतत्वाभाववती विद्यते । तथा च रजतत्वाभाववद्विशेष्यकत्वे सति रजतत्वप्रकारकत्वस्योक्तज्ञाने सत्त्वात् तज्ज्ञानमयथार्थम् । अतिप्रसङ्गवारणाय पूर्वरीत्याऽत्रापि तदभाववन्निष्ठविशेष्यतानिरूपिततन्निष्ठप्रकारताशालित्व ( शालि- ज्ञानत्वं ) निष्कृष्टलक्षणं करणीयम् इत्याह-अत्रापीति । निष्कर्षाभावे योऽति- प्रसङ्गस्तमाह - अन्यथेति । अयं भावः यत्र क्रमेण रङ्गरजते स्थापिते स्तः, तत्र च तेनैव क्रमेण "इमे रङ्गरजते, इति समूहालम्बनं ज्ञानं जायते, तज्ज्ञानं यथार्थमस्ति किन्तु निष्कृष्ट- लक्षणाभावे यथाश्रुतस्य मूलोक्तस्यायथार्थानुभवलक्षणस्य तत्रातिव्याप्तिः । यतो हि अत्र रङ्गत्वरजतत्वे प्रकारौ स्तः, रङ्गरजते च द्वे विशेष्ये स्तः । रङ्गरूपं
१०२ तर्कसंग्रहे [ प्रत्यक्षपरिच्छेदः विशेष्यं रजतत्वाभाववदस्ति, रजतरूपं विशेष्यञ्च रङ्गत्वभाववदस्तीत्यपि निर्वि- वादम् । यथा चात्र रङ्गरजतयोर्द्वयोरपि विशेष्यतया, तयोविशेष्ययोः रङ्गत्व- रजतरूपप्रकारौ प्रति वैपरीत्येन सम्बन्धमभिप्रेत्य इदं समूहालम्बनं ज्ञानं रजतत्वाभाववद्रङ्गविशेष्यकत्वे सति रजतत्वप्रकारकमस्ति, एवं रङ्गत्वभाववद्- रजतविशेष्यकत्वे सति रङ्गत्वप्रकारकमस्ति, अतोऽतिव्याप्तिरिति । तदेवाह— एतत्समूहालम्बनस्येत्यादिना सत्त्वादित्यन्तेन । न्या.बो. निष्कृष्टलक्षणस्य तु नातिव्याप्तिरित्याह—उक्तनिष्कर्ष इति । उक्त- पृ.२४.प्रमात्मकसमूहालम्बनं ज्ञानं रङ्गे रङ्गत्वमवगाहते, एवं रजते रजतत्वमवगाहते । अतोऽत्र विशेष्यवैपरीत्याभिप्रायोऽशक्यः । अर्थात् रङ्गत्वप्रकारस्य रङ्गमेवात्र विशेष्यम् एवं रजतत्वप्रकारस्य रजतमेव विशेष्यम् । तथा च रङ्गत्वनिष्ठा प्रकारता रङ्गनिष्ठविशेष्यता निरूपिताऽस्ति, रङ्गश्च रङ्गत्वभाववान्नास्ति । एवञ्च रङ्गत्वाभाववन्निष्ठविशेष्यता निरूपिता रङ्गत्वनिष्ठा प्रकारता नास्ति । तथा रजतत्वनिष्ठा प्रकारता रजतनिष्ठविशेष्यता निरूपिता अस्ति । रजतञ्च रजतत्वा- भाववन्नास्ति । एवञ्च रजतत्वनिष्ठा प्रकारताऽपि रजतत्वाभाववन्निष्ठविशेष्यता- निरूपिता नास्ति । तस्मात् तदभाववन्निष्ठविशेष्यता निरूपिततन्निष्ठप्रकारता- कत्वस्य अयथार्थानुभव लक्षणस्य रङ्गरजतयोः स्थले जायमाने 'इमे रङ्गरजते' इति समूहालम्बने प्रमात्मकज्ञानेऽसत्त्वात् नातिव्याप्तिरिति भावः । तदेतत् सर्वमाह—तादृशप्रमाया इति । उदाहृतयथार्थज्ञानस्येत्यर्थः । रजतांशे रजतत्वावगाहित्वेन रजतत्वप्रकारताया रजतत्वाभाववद्रङ्गविशेष्यता- निरूपितत्वाभावात्, एवं रङ्गांशे रङ्गत्वत्वावगाहित्वेन च रङ्गत्वप्रकारताया रङ्गत्व- भाववद्रजतनिष्ठविशेष्यतानिरूपितत्वाभावान्नातिव्याप्तिरित्यन्वयः । अयथार्थानुभवस्य स्वयमप्युदाहरणमाह—यथेति । सुव्याख्यातमेतत् । सर्वत्र द्वैविध्यत्रैविध्याद्युक्तेः विभागपरतया मूलेऽपि चतुर्विधत्वोक्तिः यथार्थानुभवविभागपरैवेत्याह—यथार्थानुभवं विभजते इति । विपूर्वकभज्- धातोर्थः —स्वसमभिव्याहृतपदार्थतावच्छेदकव्याप्यमिथोविरुद्धयावद्धर्मप्रकारक- बोधानुकूलव्यापाररूपः पूर्वमेव प्रतिपादितः । अत्रापि तत्समन्वयो यथा—स्वं विपूर्वकभज्धातुः, तत्समभिव्याहृतं पदं—यथार्थानुभवपदं, तदर्थतावच्छेदकं— यथार्थानुभवत्वम्, तद्व्याप्या मिथो विरुद्धाश्च यावन्तो धर्माः—प्रत्यक्षत्वानुमितित्वो- पमितित्वशाब्दत्वधर्माः, तावद्धर्मप्रकारकोबोधाः—इदं प्रत्यक्षम्, इयमनुमितिः, इयमु- पमितिरियं शाब्दबोध इति बोधाः, तादृशबोधानुकूलो व्यापारः—प्रत्यक्षानुमित्यु- पमितिशाब्दभेदादिति वाक्यप्रयोगरूपः । स एवात्र विभागपदार्थ इत्यर्थः ।
न्यायबोधिनी-संस्कृत-कला १०३ न्या.बो. 'तत्करणम्'ति मूलस्थं पदं व्याख्यातुमाह—तत्करणमितीति । फलीभूता पृ.२५. ये प्रत्यक्षानुमित्युपमितिशाब्दास्तेषां करणमित्यर्थः । प्रत्यक्षादीनां चतुर्णां फलत्वोक्तिश्च इन्द्रिय, व्याप्तिज्ञान, सादृश्यज्ञान, पदज्ञानरूपसाधनजन्यत्वात् सङ्गच्छते । यथार्थानुभवकरणानि प्रत्यक्षानुमानोपमानशब्दाः । तान्येव न्याये चत्वारि प्रमाणान्युच्यन्ते । तेषां सामान्यलक्षणमाह—प्रत्यक्षादीति । विशेष- लक्षणमत्र कथं नोक्तमत आह—एकैकेति । मूलोक्तकरणलक्षणं व्याख्यातुमाह—करणलक्षणमाहेति । मूललक्षणे न्यूनतां परिजिहीर्षुः व्यापारवदिति निवेश्य व्याचष्टे—व्यापारवदिति । व्यापारवत्त्वे सति असाधारणत्वे च सति कारणत्वं करणलक्षणमित्यर्थः । यथा- दण्डो घटं प्रति असाधारणकारणत्वात् भ्रमणरूपव्यापारवत्त्वाच्च करणं भवति । असाधारणत्वं किमित्याह—असाधारणत्वञ्चेति । कार्यताकारणे अपि लक्ष्यता- विवेचनावसरे नाममात्रेण सङ्केतिते । कार्यं घटादिकं, कारणं दण्डादिकम्, कार्यता घटनिष्ठा कारणता दण्डनिष्ठा । यथा पृथिवीनिष्ठाया लक्ष्यताया अवच्छेदकं पृथिवीत्वं भवति तथा घटनिष्ठायाः कार्यताया अवच्छेदकं घटत्वं, दण्डनिष्ठायाः कारणतायाश्चावच्छेदकं दण्डत्वं भवति । पूर्वोक्तप्रकारताविशेष्यतावत् कार्यता- कारणतयोरपि निरूप्यनिरूपकभावो भवति । अर्थात् कार्यतानिरूपिता कारणता भवति, कारणतानिरूपिता च कार्यता भवति । यदि कारणं न स्यात् तर्हि कस्य कार्यं कथ्यते ? एवं यदि कार्यं न स्यात् तदा किं प्रति कारणं भवेत् ! तस्मात् तयोरेकतरान्यतरनिरूपिता भवतीति युक्तम् । एवं यो धर्मो यस्या अवच्छेदकः सा तद्धर्मावच्छिन्नेति पूर्वन्यायात् घटत्वं कार्यतायाः अवच्छेदकमतो घटनिष्ठा कार्यता घटत्वावच्छिन्ना । तथा कार्यत्वातिरिक्तः—कार्यत्वभिन्नो यो घटत्वादि- धर्मस्तदवच्छिन्ना या घटादिनिष्ठा कार्यता, तन्निरूपिता या कारणता, तच्छा- लित्वस्य दण्डे सत्त्वात् घटं प्रति दण्डोऽसाधारणं कारणम् । तदेवोदाहरति— यथेति । लक्षणं सङ्गमयति—कार्यत्वेति । दण्डेऽसाधारणं कारणत्वं वर्तत एव, भ्रमणादिरूपव्यापारवत्त्वमपि वर्तते, तस्माद् दण्डः करणमित्याह—भ्रम्येति । असाधारणकारणलक्षणे कार्यत्वातिरिक्तेति विशेषणं दत्तम्, तत्रातिरिक्तपदा- दानेन घटत्वादिपदादानेन च तदेव साधारणकारणस्य लक्षणं भवतीत्याह— साधारणत्वमिति । कार्यत्वावच्छिन्नकार्यतानिरूपितकारणताशालित्वमिति तल्लक्षणम् । अस्यायमाशयः—कार्यता विशेषरूपेण यथा घटे वर्तते तथा सामान्यरूपेण कार्यमात्रे विद्यते । घटमात्रनिष्ठायाः कार्यताया अवच्छेदकं यथा घटत्वं तथा कार्यमात्रनिष्ठायाः कार्यताया अवच्छेदकं कार्यत्वं वर्तते । तथा च कार्यत्वाव- च्छिन्नकार्यतानिरूपितकारणताशालित्वं साधारणकारणत्वम् । ईश्वरोऽदृष्टम्
कालादिकं च कार्यमात्रं प्रति कारणं भवति न तु घटमेव पटमेव वा प्रति । तथा च कार्यत्वावच्छिन्नकार्यता निरूपितकारणताशालित्वस्येश्वरादौ सत्त्वात् ईश्वरादिकं सर्वं जन्यपदार्थं प्रति साधारणकारणं भवतीत्याशयः । तदेवाह - ईश्वरेति । अदृष्टं-धर्माधर्मौ । कार्यमात्रं प्रति अदृष्टमपि कारणं भवति । स्वस्वाद्दृष्टवशादेव कश्चिद्धनी, कश्चिद्रङ्को, बधिरो, मूकः, काणो वा भवतीति भावः ।
न्या.बो. कारणलक्षणव्याख्यानायाह-कारणं लक्षयतीति । कार्यं प्रति नियतत्वे पृ.२६.सति पूर्ववृत्तित्वमिति लक्षणम् । कार्यं प्रति नियतत्वञ्च कार्यसत्त्वे निश्चितसत्ता- कत्वम् । अर्थात् यत्र कार्यं भवेत् तत्र पूर्वमवश्यं विद्यमानतयाऽपेक्षितं स्यादिति यावत् । अयमाशयः - कस्यचिद्रासभस्योपरि मृत्तिकामानीय कुम्भकारो घटं रचितवान् तर्हि रासभः पूर्वं विद्यमानोऽपि घटं प्रति कारणं न भवति । यतो हि नहि घटोत्पत्तिपूर्व सर्वत्र रासभस्तिष्ठत्येव, अन्यथापि मृत्तिकानयनस्य संभवात् । तस्माद् घटं प्रति नियतत्वाभावाद् रासभः तं प्रति कारणं न भवतीति ।
ननु घटं प्रति नियतत्वे सति पूर्ववृत्तित्वं दण्डरूपेऽपि वर्तते ऽ तो दण्डवद् दण्डरूपमपि घटं प्रति कारणं स्यादत आह नियतपूर्ववर्तिन इति । अनन्यथा- सिद्धपदमपि - अन्यथासिद्धा ये सन्ति, तद्भिन्नत्वं लक्षणे विशेषणीयमित्यर्थः । तथा च अन्यथासिद्धिभिन्नत्वे सति कार्यनियतपूर्ववृत्तित्वं कारणत्वमिति निष्कर्षः । दण्डरूपादीनामन्यथासिद्धत्वान्न तत्र कारणलक्षणातिव्याप्तिरित्याह - दण्ड- रूपादीनामिति । अन्यथासिद्धभेदा ग्रन्थान्तरतोऽनुसन्धेयाः ।
कार्यलक्षणं व्याख्यातुमाह - कार्यं लक्षयतीति । लक्षणस्वरूपमाह - प्राग्भावेति । उपपादयति - कार्योत्पत्तेरिति । घटादिकार्योत्पत्तेः पूर्वमित्यर्थः । इह घटो भविष्यतीति प्रतीतिर्या जायते, तस्यां प्रतीतौ घटोत्पत्तिप्राक्कालिको घटाभावो विषयीभूतो विद्यते स एव प्रागभावनाम्ना व्यवह्रियते । यस्याभावः स प्रतियोगीति नियमात् उक्तघटप्रागभावप्रतियोगित्वस्य घटे सत्त्वाद् घटः कार्य- मुच्यते इति भावः ।
न्या.बो. मूलकारकृतं कारणलक्षणविभागं किञ्चिद्विशिष्यानुवदति - समवायी- पृ.२७.त्यादि । समवायिकारणलक्षणं व्याख्यातुमाह - समवायिकारणं लक्षयतीति । मूलोक्तलक्षणस्यार्थमाह - यस्मिन्निति । यस्मिन् समवेतं सदित्यस्यार्थः समवायेन सम्बद्धं सदिति । अयं भावः - अवयवावयविनोः परस्परं समवायः सम्बन्ध इति पूर्वमस्माभिरुक्तम् । कपालद्वयमवयवभूतं घटश्चावयवी । तथा चावयवीभूतो घटः अवयवभूतयोः कपालयोः समवायसम्बन्धेन सम्बद्धः सन् उत्पद्यतेऽतो घटं प्रति
कपालद्वयं समवायिकारणम् । एवं गुणगुणिनोरपि समवाय एव सम्बन्ध इत्यप्युक्तम् । तथा च पटरूपात्मको गुणः समवायेन गुणिनि पटे सम्बद्धः सन् उत्पद्यतेऽतः पटरूपस्य समवायिकारणं पटः । तन्तुषु लक्षणं सङ्गमयति— तन्तुष्विति । सामान्यलक्षणमाह—सामान्यलक्षणन्विति । समवायसम्बन्धावच्छिन्ना या कार्यता, तन्निरूपितं यत् तादात्म्यसम्बन्धावच्छिन्नं कारणत्वं, तदेव समवायि- कारणत्वमित्यर्थः । अस्यायामाशयः—यथा लक्ष्यताया अवच्छेदकं पृथिवीत्वादिकमुक्तम्, तथा कार्यताया अपि घटत्वादिकमवच्छेदकं भवतीत्यप्यसाधारणकारणत्वव्याख्यायां प्रत्यपादि । तत्रेदपि बोध्यं यत् अवच्छेदकं धर्मसम्बन्धभेदेन द्विविधं भवति । येन सम्बन्धेन कार्यं कारणे तिष्ठेत् स एव कार्यतावच्छेदकः सम्बन्धः । येन सम्बन्धेन कारणं तिष्ठेत् स एव सम्बन्धः कारणतावच्छेदकः सम्बन्धो भवति । एवं यत्र कार्यमुत्पादनीयं तत्रैव कारणस्यापि सत्ताऽऽवश्यकी, अन्यथा प्रयागस्थ- मृत्तिकातः काश्यां घट उत्पद्येत । तथा च समवायेन सम्बन्धेन घटः कपालयो- रुत्पद्यतेऽतो घटनिष्ठायाः कार्यताया अवच्छेदकः सम्बन्धः समवायः । यो धर्मो यस्या अवच्छेदक इति पूर्वनियमवत् यः सम्बन्धो यस्या अवच्छेदको भवति सा तत्सम्बन्धावच्छिन्ना भवति । तथा च घटनिष्ठा कार्यता समवायसम्बन्धावच्छिन्ना, घटत्वधर्मावच्छिन्ना चास्तीति सिद्धम् । तथा कार्यकारणयोः सामानाधिकरण्या- पेक्षणात् घटो यदि समवायेन कपाले उत्पद्यते तदा तत्रैव ( कपाले ) कारणीभूतं कपालमप्यपेक्ष्यते, कपाले च कपालं तादात्म्यसम्बन्धेन तिष्ठति, स्वस्मिन् स्वस्य तादात्म्यसम्बन्धाभ्युपगमात् । तथा च कपालनिष्ठकारणताया अवच्छेदकः सम्बन्ध- स्तादात्म्यम्, एवं तन्निष्ठकारणताया अवच्छेदको धर्मः कपालत्वम् । पूर्वरीत्या च कारणता तादात्म्यसम्बन्धावच्छिन्ना कपालत्वधर्मावच्छिन्ना च सिद्धा । एवं सर्वापि कार्यता सम्बन्धस्थाने समवायसम्बन्धावच्छिन्नाऽत्र ज्ञेया, धर्मस्थाने तु घटत्वपटत्वादिस्रस्वधर्मावच्छिन्ना । एवं कारणतापि सर्वा सम्बन्धस्थाने तादा- त्म्यसम्बन्धावच्छिन्नाऽत्र ज्ञेया; धर्मस्थाने तु कपालत्वतन्तुत्वादिस्रस्वधर्मावच्छिन्ना भवतीति । तथा चेदं लक्षणं घटं प्रति समवायिकारणे कपालयांः, पटं प्रति च समवायिकारणे तन्तुष्वेव घटतेऽतो घटादिकं प्रति कपालादिकमेव समवायिकारण- मिति । लक्षणं कपालरूपे लक्ष्ये संगमयति—समवायसम्बन्धेनेत्यादि । व्याख्यातप्रायमेतत् । न्या.बो. सप्तसु पदार्थेषु मध्ये द्रव्यमेव कस्यापि समवायिकारणं भवतीति रहस्यम् पृ.२८.उक्तलक्षणरूपया युक्त्या प्रकटयति—समवायेनेति । समवायसम्बन्धावच्छिन्न-
[१०६] तर्कसंग्रहे [ प्रत्यक्षपरिच्छेदः
जन्यभावत्वावच्छिन्नजन्यभावनिष्ठकार्यतानिरूपिततादात्म्यसम्बन्धावच्छिन्नकारण- ताया द्रव्ये एव सत्त्वादित्यर्थः । सामान्यादीनां नित्यतया तेषु कारणापेक्षैव नास्तीत्यत आह—द्रव्यगुणकर्मसु त्रिष्विति । गुणकर्माणि प्रति द्रव्यमेव समवायिकारणं द्रव्यं प्रति तु कपालादिरूपा द्रव्यावयवा एव समवायिकारण- म इत्याह—द्रव्येत्विति । पटरूपात्मकगुणं प्रति पटात्मकं द्रव्यं समवायिकारण- मित्यदाहृतं, तदेव प्रकटयति—गुणादावपीति । असमवायिकारणलक्षणं व्याख्यातुमाह—असमवायिकारणं लक्षयतीति । स्वरूपप्रदर्शनपुरःसरं तस्य द्वैविध्यमाह—कार्येणेत्यादिना । कार्येण पटादिना सहैकस्मिन्नर्थे तन्त्वादौ समवेतं सत्—समवायसम्बन्धेन सम्बद्धं सत् यत् कारणं तदेकमसमवायिकारणं भवति । यत्र कार्यं समवायसम्बन्धेन भवेत् तत्रैव समवाय- सम्बन्धेन यत् कारणं तिष्ठेत् तत्त प्रथममित्यर्थः । एवं यत् कारणेन—स्वकार्य- समवायिकारणेनेत्यर्थः, सह एकस्मिन्नर्थे तन्त्वादौ समवेतं सत्—समवायसम्बन्धेन सम्बद्धं सत् कारणं भवति तद्द्वितीयमसमवायिकारणमित्यर्थः । न्या.बो. प्रथमलक्षणानुसारेण प्रथमसमवायिकारणं सामान्यतः प्रदर्शयति–जन्यति । पृ.२६. यावन्ति जन्यद्रव्याणि, तेषु अवयवसंयोग एवासमवायिकारणम् । यतो हि जन्यद्रव्यं घटादिरूपकार्यं समवायसम्बन्धेन कपालादौ तिष्ठति तत्रैव च कपाल- द्वयसंयोगः समवायेन तिष्ठति, गुणगुणिनोः समवायात् । तस्मात् सर्वत्र जन्यद्रव्यं प्रत्यवयवसंयोगः असमवायिकारणं भवतीति सिद्धम् । यत्र सामान्ययोः कार्यकारण- भावस्तत्र विशेषयोरपि भवतीति सिद्धान्तात् मूलकृता प्रदर्शितं विशेषोदाहरणं स्पष्टयितुमाह–पटात्मकार्ये इति । स्पष्टार्थः । मूलकृता लक्षितस्य स्वयं व्याख्यातस्य च द्वितीयासमवायिकारणस्य मूलकृतप्रदर्शितमुदाहरणं स्पष्टयितुमाह– द्वितीयमिति । अयमाशयः — यत् कारणं स्वकार्यसमवायिकारणेन सह एकस्मिन्नर्थे समवायेन सम्बद्धं सत् कारणं भवति, तदसमवायिकारणं भवति । यथा पटरूपं प्रति तन्तुरूपमसमवायिकारणम् । यादृशं हि तन्तूनां रूपं भवति, तादृशमेव पटस्यापि रूपं भवतीति सर्वविदितम् । तत्र स्वं — तन्तुरूपं, तस्य कार्यं पटरूपम्, तस्य समवायिकारणं पट इति समवायिकारणव्याख्याने प्रतिपादितम् । तथा च तन्तुरूपकार्यपटरूपसमवायिकारणीभूतः पटः समवायसम्बन्धेन तन्तुषु तिष्ठति, अत्रैव च तन्तुरूपमपि समवायसम्बन्धेन तिष्ठतीति पटरूपं प्रति तन्तुरूप- मसमवायिकारणम् । एवमेव घटरूपं प्रति कपालरूपमसमवायिकारणम् । यतो हि कपालरूपस्य यत्कार्यं घटरूपं, तस्य यत् समवायिकारणं घटः, स समवायेन कपालयोस्तिष्ठति तत्रैव समवायेन कपालरूपस्यापि सत्त्वादिति भावः । समन्वय- प्रकारमेवाह--कारणेन सहेति । स्पष्टोऽर्थः ।
द्विविधासमवायिकारणसाधारणं लक्षणमाह — सामान्यलक्षणन्त्विति । समवायसम्बन्धावच्छिन्नकार्यता निरूपिता या समवायस्वसमवायिसमवेतत्वान्यतर- सम्बन्धावच्छिन्ना कारणता तदाश्रयत्वमसमवायिकारणत्वमिति । अयं भावः — येन सम्बन्धेन कार्यं भवेत् स कार्यतावच्छेदकसम्बन्धः । एवं येन सम्बन्धेन कारणं तिष्ठेत् स कारणतावच्छेदकसम्बन्धः । कार्यं यत्रोत्पादनीयं तत्रैव कारणेनापि भवितव्यमिति सर्वं पूर्वमुक्तम् । तथा चासमवायिकारणस्य द्विविधे उदाहरणे कार्यतावच्छेदकः समवाय एव सम्बन्धः, कारणतावच्छेदकस्तु प्रथमे समवायसम्बन्धः द्वितीये च स्वसमवायिसमवेतत्वसम्बन्धो भवति । कथमिति चेत् श्रूयताम् — प्रथमे पटं प्रति तन्तुसंयोगोऽसमवायिकारणम् । तत्र पटः समवायसम्बन्धेन तन्तुषूत्पद्यते, तत्रैव तन्तुसंयोगोऽपि विद्यमानः सन् कारणं भवत्यतोऽत्र कार्यताकारणे उभे अपि समवायसम्बन्धावच्छिन्ने भवतः । द्वितीये च पटरूपं प्रति तन्तरूपमसमवायिकारणं भवति । तत्र कार्यं पटरूपं समवायेन पटे भवति, तत्रैव पटे कारणीभूतं तन्तरूपं स्वसमवायिसमवेतत्वसम्बन्धेन वर्तते । यतोऽत्र स्वपदेन तन्तुरूपं गृह्यते, तत्समवायिकारणं तन्तवः, तत्र समवेतत्वं—समवाय- सम्बन्धेन विद्यमानत्वं पटेऽस्ति । अतोऽत्र कार्यता समवायसम्बन्धावच्छिन्ना, कारणता च स्वसमवायिसमवेतत्वरूपपरम्परासम्बन्धावच्छिन्नाऽस्ति । अन्यतर- शब्दस्य वाकारार्थे प्रयुक्तत्वात् समवायसम्बन्धावच्छिन्नकार्यता निरूपिता या समवायसम्बन्धावच्छिन्ना कारणता, तदाश्रयत्वस्य प्रथमकारणनामादाय तन्तुसंयोगे समन्वयः, तथा तादृशकार्यता निरूपितस्वसमवायिसमवेतत्वसम्बन्धावच्छिन्ना या कारणता, तदाश्रयत्वस्य च लक्षणस्य द्वितीयकारणतामादाय तन्तुरूपे समन्वयः । न्या.बो.समवायमाश्रित्य समन्वयमाह न्यायबोधिनीकारः—द्रव्यासमावायिकारणी- पृ.३०.भूतेति । व्याख्यातप्रायमेतत् । आद्यपतनासमवायिकारणं गुरुत्वम्, एवमाद्यस्यन्दनासमवायिकारणं द्रवत्वम् इति पूर्वमुक्तम्, तदेवात्र प्रसङ्गात् समर्थयति — एवमिति । आद्यपतनं-कार्यम्, तत् समवायेन लोष्टादावत्पद्यते, तत्रैव लोष्टे समवायेन विद्यमानं सद् गुरुत्वं कारणं भवति । तथा च समवायसम्बन्धावच्छिन्नाद्यपतननिष्ठकार्यता निरूपितसमवाय- सम्बन्धावच्छिन्नकारणताया गुरुत्वे सत्त्वाद् गुरुत्वमाद्यपतनस्यासमवायिकारणं भवति । एवमाद्यस्यन्दनं समवायेन जले उत्पद्यते, तत्रैव समवायेन विद्यमानस्य द्रवत्वस्य कारणत्वात् द्रवत्वमसमवायिकारणं भवतीति भावः । स्वसमवायिसमवेतत्वसम्बन्धमाश्रित्य सामान्यलक्षणस्य स्वयमपि समन्वय- माह टीकाकारः—अवयवीति । घटपटरूपं हि अवयविनो घटापटादेर्गुणभूतं कपालतन्तरूपं च अवयवस्य कपालतन्त्वादेर्गुणभूतं, तस्येत्यर्थः । कारणत्वादित्य-
ग्रेण सम्बन्धः । तत्सम्बन्धावच्छिन्ना-स्वसमवायिसमवेतत्वसम्बन्धावच्छिन्नेत्यर्थः । समन्वयप्रकारं स्वयं प्रदर्शयति — अवयवगुणकपालतन्तुरूपादेरिति । न्या.बो. निमित्तकारणलक्षण स्पष्टयितुमाह—निमित्तकारणं लक्षयतीति । पृ.३१. लक्षणन्तु टीकायामेवोक्तम् । त्रिविधकारणलक्षणानि व्याख्यातानि, सम्प्रत्युपसंहृतं करणलक्षणं व्याख्या- तुमाह—तदेतदितीति । त्रिविधकारणमध्ये यदसाधारणं कारणं तत् करणमिति लक्षणम् । नन्वेवस्य लक्षणस्य कपालद्वयसंयोगे तन्तुसंयोगे चातिव्याप्तिः । पूर्वोक्तस्य कार्यत्वातिरिक्तधर्मावच्छिन्नकार्यता निरूपित कारणताशालित्वस्यैवासाधारणलक्षण- त्वात् । प्रकृते कार्यत्वानतिरिक्तघटत्वपटत्वधर्मावच्छिन्नकार्यता निरूपितकारणता- शालित्वस्य कपालसंयोगे तन्तुसंयोगे च मत्त्वादिति चेदत्राह — व्यापारवत्त्वे सतीति । तथा चोक्तासाधारणकारणत्वस्य तादृशसंयोगे सत्त्वेऽपि तस्य व्यापार- वत्त्वाभावान्नातिव्याप्तिः । दण्डादौ तु असाधारणत्वं व्यापारवत्त्वञ्चास्तीति घटादिकं प्रति दण्डादेः करणत्वं सुपपन्नम् । अक्षरार्थन्तु व्याख्ययैव गतार्थः । ननु व्यापारवत्त्वे सतीति करणलक्षणे विशेषितं, तत्र व्यापारत्वमेव किमित्याह— व्यापारत्वञ्चेति । तज्जन्यत्वे सति तज्जन्यजनकत्वमिति व्यापारलक्षणम् । अत्र तत्पदेन करणत्वेनाभिप्रेतो दण्डादिर्गृह्यते । भ्रमिभ्रमणम् । स हि दण्डाज्जन्यो भवति, अथ च दण्डजन्यो यो घटस्तस्य जनकोऽपि भवति, तस्मात् भ्रम्यादिर्व्या- पारः कथ्यते । तद्वत्त्वाच्च दण्डः करणं भवति । एवं कपालसंयोगतन्तुसंयोगादि- रपि क्रमेण कपालतन्त्वोः व्यापारो भवति । कपालसंयोगस्य कपालजन्यत्वे मति कपालजन्यस्य घटस्य जनकत्वात्, एवं तन्तुसंयोगस्य तन्तुजन्यत्वे मति तन्तु- जन्यस्य पटस्य जनकत्वात् । एतदेवाह—भवति हीत्यादिना घटपटजनकत्वा- न्या.बो. दित्यन्तेन । असाधारणत्वविशेषणस्य फलमाह — करणलक्षणे इति । ईश्वरा- पृ.३२. दृष्टादेरपि व्यापारवत्कारणत्वात् करणत्वं स्यादतः कार्यत्वातिरिक्तधर्मावच्छिन्न- कार्यतानिरूपितकारणत्वरूपमसाधारणत्वं विशेषितम् ईश्वरादेस्तु कार्यत्वसा- मान्यावच्छिन्नं प्रति कारणत्वादिति भावः । चक्षूरसनात्वग्घ्राणश्रोत्रमनांसि षडिन्द्रियाण्येव प्रत्यक्षप्रमाणपदेनोच्यन्ते । तल्लक्षणं प्रत्यक्षज्ञानकरणत्वं मूलकारेणोक्तम्, तदेव व्याख्यातुमाह-षड्विधेति । प्रमाभूतेषु प्रत्यक्षादिषु, — इत्यादिपदेन अनुमित्युपमितिशाब्दाः पूर्वोक्ता गृह्यन्ते । तत्र प्रत्यक्षात्मकं यज्ज्ञानं चाक्षुष, रासन, घ्राणज, स्पर्शन, श्रावण, मानसप्रत्यक्षं, तत् प्रति असाधारणकारणत्वात् इन्द्रियसन्निकर्षरूपव्यापारवत्त्वाच्चेन्द्रियाण्येव करणानि भवन्तीति तेषां प्रत्यक्षप्रमाणत्व सिद्धम् । पर्यवसितमाह—अत इति ।
न्यायबोधिनी-संस्कृत-कला १०९
संयोगः, संयुक्तसमवायः, संयुक्तसमवेतसमवायः, समवायः, समवेतसमवायः, विशेष्यविशेषणभावश्चेति षड्विधसन्निकर्षाः प्रत्यक्षज्ञानहेतवो लक्ष्यन्ते, त एवेन्द्रिय- जन्यज्ञाने (प्रत्यक्षे) इन्द्रियव्यापारा इति केचन मन्यन्ते। किन्तु तत्राद्यान्तिमौ विहाय शेषाणां चतुर्णां समवायरूपतया, समवायस्य च नित्यतया तेषामिन्द्रिय- जन्यत्वाभावात् तज्जन्यत्वे सति तज्जन्यजनकत्वरूपव्यापारता न संभवतीति तत्रेन्द्रियमनःसंयोग एव बाह्यप्रत्यक्षे जननीये इन्द्रियव्यापारो मन्तव्यः, बाह्यप्रत्यक्षे सर्वैरेवेन्द्रियैः साकं मनसः संयोगसत्त्वादित्याह—आद्येत्यारभ्य बोध्येत्यन्तम्। विशेषणविशेष्यभावसन्निकर्षस्याभावप्रत्यक्ष एवोपयोगितया भावप्रत्यक्षस्थलीय- व्यापाराभिप्रायेणाद्यातिरिक्तत्वमुक्तम्। सुखादीनां मानसप्रत्यक्षे चक्षुरादिप- ञ्चेन्द्रियाणामनावश्यकत्वात् तत्रेन्द्रियमनःसंयोगो व्यापारो न भवितुमर्हति, किन्तु आत्ममनः संयोग एव व्यापार इत्याह—मानसेति। न्या.बो. प्रत्यक्षप्रमालक्षणं व्याख्यातुमाह—प्रत्यक्षप्रमाणेति। इन्द्रियार्थसन्निकर्ष- पृ. ३३. जन्यज्ञानत्वं प्रत्यक्षत्वम्। ननु प्रत्यक्षपदेन प्राणिप्रत्यक्षवत् ईश्वरप्रत्यक्षमपि ग्रहीतुं शक्यते, तथा च प्राणिप्रत्यक्षस्येन्द्रियार्थसन्निकर्षजन्यत्वेऽपि ईश्वरप्रत्यक्षस्य नित्यत्वेनेन्द्रियार्थसन्निकर्षजन्यत्वाभावात् तत्र प्रत्यक्षलक्षणाव्याप्तिरित्यत आह— जन्यप्रत्यक्षस्यैवेति । तथा चेश्वरप्रत्यक्षं लक्ष्यमेव नास्ति, अतस्तत्र नैव गच्छतु लक्षणं न तावता काऽपि हानिरित्यर्थः। ज्ञानाकरणकं ज्ञानं प्रत्यक्षमिति मूलकृता कृतमीश्वरप्रत्यक्षसाधारणं लक्षणं व्याचष्टे—ज्ञानमिति। ज्ञानं करणं येषां तानि ज्ञानकरणकानि, तद्भिन्नमित्यर्थः। अत्र ज्ञानपदेन यद्ग्राह्यं तदाह— व्याप्तिज्ञानं सादृश्यज्ञानं पदज्ञानमिति। अनुमितौ व्याप्तिज्ञानस्य, उपमितौ सादृश्यज्ञानस्य शाब्दे च पदज्ञानस्य करणत्वात् तानि ज्ञानकरणकानि भवन्ती- त्याह - ज्ञानकरणकानि अनुमित्युपमितिशाब्दानीति। प्रत्यक्षे इन्द्रियाणामेव करणतया ज्ञानकरणकभिन्नत्वं सुतरां प्रत्यक्षेऽस्तीत्याह - तद्भिन्नमिति । सर्वत्र प्रत्यक्षे लक्षणं सङ्गमयति—तथा चेति। प्रत्यक्षसामान्ये—प्राणिप्रत्यक्षे ईश्वर- प्रत्यक्षे चेत्यर्थः। निर्विकल्पकस विकल्पकयोर्लक्षणे व्याख्यातुं पूर्वं प्रत्यक्षविभागं प्रदर्शयति प्रत्यक्षं विभजते इति। निष्प्रकारकं ज्ञानं निर्विकल्पकमिति मूललक्षणं व्या- न्या.बो. चष्टे—प्रकारतेति। विशेषणमेव प्रकार इति पूर्वमुक्तम्। तथा च प्रकारतया पृ. ३४. शून्यं यज्ज्ञानं तन्निर्विकल्पकमित्यर्थः। यत्र ज्ञाने किमपि विशेषणं न भवति, तन्निर्विकल्पकमिति तात्पर्यम्। यथा बालविज्ञानमस्माकञ्चोपेक्षात्मकं ज्ञानम्। सर्वं ज्ञानं सविषयकं भवति, नहि किमपि ज्ञानं निर्विषयं भवति। अतएव ज्ञानं विषयी कथ्यते, तत्र भासमानपदार्थाश्च विषयाः कथ्यन्ते। यथा 'अयं घट'
इति ज्ञाने भासमानो घटादिः विषयसंज्ञया व्यवह्रियते । विषयता विषयनिष्ठा भवति । सा च विषयता त्रिविधा भवति । एका प्रकारताख्यविषयता, द्वितीया विशेष्यताख्यविषयता, तृतीया संसर्गताख्या विषयता चेति । यथा अयं घट इति ज्ञाने प्रकारीभूते घटत्वे प्रकारताख्या विषयता विद्यते । विशेष्यीभूते घटे विशेष्य- ताख्या विषयताऽस्ति । एवं घटघटत्वयोः समवायरूपसंसर्गे संसर्गताख्यविषयता विद्यते । तथा च निर्विकल्पके ज्ञाने प्रकारताविरहात् विशेष्यताऽपि नास्ति, तयोरभावे तयोरनुचरी संसर्गताऽपि नास्ति । तथा च निर्विकल्पके ज्ञाने त्रिविध- विषयतामध्ये एकस्या अपि विषयताया अभावात् लक्षणत्रयं भवितुमर्हतीति सर्वं हृदि कृत्वाऽऽह—निर्विकल्पके इति । चतुर्थीति । विलक्षणैव काचिदित्यर्थः । सविकल्पकप्रत्यक्षलक्षणं व्याख्यातुमाह—सविकल्पकमिति । विषयतायाः ज्ञाननिरूपितत्वादिति—यदि ज्ञानं न स्यात् घटादिः कस्य विषयो भवेत्तस्मात् विषयता ज्ञाननिरूपिता भवतीत्याशयः । यदा विषयता ज्ञाननिरूपिता तदा ज्ञानं विषयतानिरूपकमित्याह—ज्ञानस्य विषयतानिरूपकत्वेनेति । अतः प्रकारता- निरूपकज्ञानत्वम् अर्थात् प्रकारताख्यविषयतानिरूपकज्ञानत्वं सविकल्पकस्य लक्षणमिति । अत्र त्रिविधाया अपि विषयतायाः सम्भवात् लक्षणान्तरमपि सम्भवीत्याह— एवमिति । उदाहरणमाह—यथेति । अयं डित्थ इति, अयं ब्राह्मण इति च ज्ञाने इदंपदार्थो विशेष्यः । डित्थत्वं ब्राह्मणत्वञ्च प्रकारौ । तथा च इदन्तवावच्छिन्न- विशेष्यता निरूपित डित्थत्वनिष्ठप्रकारताशालिज्ञानत्वात्, इदन्तवावच्छिन्नविशेष्यता- निरूपितब्राह्मणत्वनिष्ठप्रकारताशालिज्ञानत्वाच्चेमे ज्ञाने सविकल्पके भवतः न्या. बो. चाक्षुषादिषड्विधप्रत्यक्षकारणीभूताः षड्विधसन्निकर्षाः मूले प्रोक्तास्तानेव पृ. ३५. विभागप्रदर्शनपूर्वकं व्याख्यातुमारभते चाक्षुषादीति । ज्ञानं विषयीति पूर्वमुक्तम् । विषये ज्ञानं विषयतासम्बन्धेन तिष्ठति, सम्बन्धमत्ता सम्बन्धिसत्ताया नियामिका भवति यतो यत्र घटसंयोगो वर्तते तत्र संयोगसम्बन्धेन घटोऽपि विद्यत एव । तथा च ज्ञानीया विषयता विषये विद्यतेऽतो ज्ञानमपि विषये विषयतासम्बन्धेन तिष्ठति । चाक्षुषादिकं ज्ञानमपि द्रव्यादौ विषये विषयतासम्बन्धेनोत्पद्यते । तदेतत् सर्वमभिप्रेत्याह—द्रव्यवृत्तीति । द्रव्यनिष्ठेत्यर्थः । तथा च द्रव्यवृत्तिलौकिक- विषयतासम्बन्धेन चाक्षुषत्वावच्छिन्नचाक्षुषं प्रति चक्षुःसंयोगः कारणम् । यस्य द्रव्यस्य चक्षुषा प्रत्यक्षं करणीयमस्ति, तस्मिन् द्रव्ये चक्षुःसंयोग आवश्यक इत्यर्थः । एवं द्रव्यसमवेतं रूपादिकं, तद्वृत्तिविषयतासम्बन्धेन चाक्षुषत्वावच्छिन्नं प्रति—अर्थात् द्रव्यसमवेतस्य रूपादेः प्रत्यक्षे करणीये चक्षुःसंयुक्तसमवायः