भारतकोश
संग्रह पर लौटें

वायु पुराण

Vayu Purana

महर्षि वेदव्यास / अनुवादक: पं० तारिणीश झा द्वारा

स्रोत: हिन्दी साहित्य सम्मेलन, प्रयाग · हिन्दी साहित्य सम्मेलन, प्रयाग (उद्गम)

DevanagariHindipublished465 पृष्ठ

३२६ श्रीमद्वैपायनमुनिप्रणीतम्- [अ०८९-९० श्लो०२३-१।२१] (सोमजन्मकथनम्) धृतेस्तु बहुलाश्वोऽभूद्बहुलाश्वसुतः कृतिः। तस्मिन्संतष्ठते वंशो जनकानां महात्मनाम्॥ इत्येते मैथिलाः प्रोक्ताः सोमस्यापि निबोधत ॥ २३ इति महापुराणे वायुप्रोक्ते मैथिलवंशानुकीर्तनं नाम नवाशीतितमोऽध्यायः॥ ८९ ॥ आदितः श्लोकानां समष्ट्यङ्काः-७१९८


अथ नवतितमोऽध्यायः।

तत्र सोमजन्मविवरणम्।

सूत उवाच-- पिता सोमस्य वै विप्रा जज्ञेऽत्रिर्भगवानृषिः। तत्रात्रिः सर्वलोकानां तस्थौ स्वेनमये धृतः॥ १ कर्मणा मनसा वाचा शुभान्येव समाचरन्। काष्ठकुड्यशिलाभूत ऊर्ध्वबाहुर्महाद्युतिः॥ २ सुदुश्चरं नाम तपो येन तप्तं महत्पुरा। त्रीणि वर्षसहस्राणि दिव्यानीति हि नः श्रुतम्॥ ३ तस्योर्ध्वरेतसस्तत्र स्थितस्यानिमिषस्पृहा। सोमत्वं तनुरापेदे महाबुद्धिः स वै द्विजः॥ ४ ऊर्ध्वमाचक्रमे तस्य सोमत्वं भावितात्मनः। सोमः सुस्राव नेत्राभ्यां दश वा द्योतयान्दिशः॥ ५ तं गर्भं विधिनाऽऽदिष्टा दश देव्यो दधुस्तदा। समेत्य धारयामासुर्नच तास्तमशक्नुवन्॥ ६ स ताभ्यः सहसैवाथ दिग्भ्यो गर्भः प्रभान्वितः। यथाऽवभासयँल्लोकांशीतांशुः सर्वभावनः॥ ७ यदा न धारणे शक्तास्तस्य गर्भस्य ताः स्त्रियः। ततः स ताभिः शीतांशुर्निपपात वसुंधराम्॥ ८ पतन्तं सोममालोक्य ब्रह्मा लोकपितामहः। रथमारोपयामास लोकानां हितकाम्यया॥ ९ स हि देवमयो विप्रा धर्मार्थी सत्यसंगरः। युक्तो वाजिसहस्रेण सितेनेति हि नः श्रुतम्॥ १० तस्मिन्निपतिते देवाः पुत्रेऽत्रेः परमात्मनि। तुष्टुवुर्ब्रह्मणः पुत्रा मानसाः सप्त विश्रुताः॥ ११ तत्रैवाङ्गिरसस्तस्य भृगोश्चैवाऽत्मजस्तथा। ऋग्भिर्यजुर्भिर्बहुभिरथर्वाङ्गिरसैरपि॥ १२ ततः संस्तूयमानस्य तेजः सोमस्य भास्वतः। आप्यायमानं लोकांस्त्रीन्भावयामास सर्वशः॥ १३ स तेन रथमुख्येन सागरान्तां वसुंधराम्। त्रिःसप्तकृत्वो विपुलश्चकाराभिप्रदक्षिणम्॥ १४ तस्य यच्चापि तत्तेजः पृथिवीमन्वपद्यत। ओषध्यस्ताः समुद्भूतास्तेजसा संज्वलन्त्युत॥ १५ ताभिर्धारयत्ययं लोकान्प्रजाश्चापि चतुर्विधाः। पोष्टा हि भगवान्सोमो जगतो हि द्विजोत्तमाः॥ १६ स लब्धतेजास्तपसा संस्तवैस्तैश्च कर्मभिः। तपस्तेपे महाभागः पद्मानां दशतीर्दश॥ १७ हिरण्यवर्णा या देव्यो धारयन्त्यात्मना जगत्। विभुस्तासां भवेत्सोमः प्रख्यातः स्वेन कर्मणा॥ १८ ततस्तस्मै ददौ राज्यं ब्रह्मा ब्रह्मविदां वरः। बीजौषधिषु विप्राणामपां च द्विजसत्तमाः॥ १९ सोऽभिषिक्तो महातेजा महाराज्येन राजराट्। लोकानां भावयामास स्वभावाश्चपतां वरः॥ २० सप्तविंशतिरिन्दोस्तु दाक्षायण्यो महाव्रताः। ददौ प्राचेतसो दक्षो नक्षत्राणीति या विदुः॥ २१

[अ० ९० श्लो० २२-४९] वायुपुराणम् । ३२७

( सोमजन्मकथनम् )

स तत्प्राप्य महद्राज्यं सोमः सोमवतां प्रभुः । समा जज्ञे राजसूयं सहस्रशतदक्षिणम् ॥ २२
हिरण्यगर्भोद्गाता ब्रह्मा ब्रह्मत्वमेयिवान् । सदस्यस्तत्र भगवान्हरिर्नारायजः प्रभुः ॥
सनत्कुमारप्रमुखैराद्यैर्ब्रह्मर्षिभिर्वृतः ॥ २३
दक्षिणामददत्सोमस्त्रींल्लोकानिति नः श्रुतम् । तेभ्यो ब्रह्मर्षिमुख्येभ्यः सदस्येभ्यण वै द्विजाः ॥
तं सिनी च कुहूश्चैव वपुः पुष्टिः प्रभा वसुः । कीर्तिर्धृतिश्च लक्ष्मीश्च नव देव्यः सिषेविरे ॥
प्राप्यावभृथमव्ययः सर्वदेवर्षिपूजितः । अतिराजातिराजेन्द्रो दशधाऽतापयाद्दिशः ॥ २६
तदा तत्प्राप्य दुष्प्रापमैश्वर्यमृषिसंस्तुतम् । स विभ्रममतिर्वीमा विनयोऽविनयाहतः ॥ २७
बृहस्पतेः स वै भार्यां तारां नाम यशस्विनीम् । जहार सहसा सर्वानवमत्याङ्गिरःसुतान ॥ २८
स याचमानो देवैश्च तथा देवर्षिभिश्च ह । नैव व्यसर्जयत्तारां तस्मायाङ्गिरसे तदा ॥ २९
लशना तस्य जग्राह पार्ष्णिमाङ्गिरसो द्विजाः । स हि शिष्यो महातेजाः पितुः पूर्वं बृहस्पते ॥ ३०
तेन स्नेहेन भगवान्रुद्रस्तस्य बृहस्पतेः । पार्ष्णिग्राहोऽभवद्देवः प्रगृह्याऽऽजगवं धनुः ॥ ३१
तेन ब्रह्मर्षिमुख्येभ्यः परमास्त्रं बहात्मना । उद्दिश्य देवानुत्सृष्टं येनेषां नाशितं यशः ॥ ३२
तत्र तद्युद्धमभवत्प्रत्यक्षं तारकामयम् । देवानां दानवानां च लोकक्षयकरं महत् ॥ ३३
तत्र शिष्टास्त्रयो देवास्तुषिताश्चैव ये स्मृताः । ब्रह्माणं शरणं जग्मुरादिदेवं पितामहम् ॥ ३४
ततो निवार्यौशनसं रुद्रं ज्येष्ठं च शंकरम् । ददावाङ्गिरसे तारां स्वयमव पितामहः ॥ ३५
अन्तर्वत्नी च तां दृष्ट्वा तारां ताराधिपाननाम् । गर्भमुत्सृजसे न त्वं विप्रः प्राह बृहस्पतिः ॥ ३६
मदीयायां तनौ योनौ गर्भो धार्यः कथं च न । अथो नावसृजत्तं तु कुमारं दस्युहन्तमम् ॥ ३७
ईषिकास्तम्बमासाद्य ज्वलन्तमिव पावकम् । जातमात्रोऽथ भगवान्देवानामाक्षिपद्वपुः ॥ ३८
ततः संशयमापन्नास्तारामकथयन्सुरः । सत्यं ब्रूहि सुतः कस्य सोमस्याथ बृहस्पतेः ॥ ३९
ह्रियमाणा यदा देवानाऽऽह सा साध्वसाधु वा । तदा तां शप्तुमारब्धः कुमारो दस्युहन्तमः ॥ ४०
तं निवार्य तदा ब्रह्मा तारां चन्द्रस्य शंस यः । यदत्र तथ्यं तद्ब्रूहि तारे कस्य सुतस्त्वयम् ॥ ४१
सा प्राञ्जलिरुवाचेदं ब्रह्माणं वरदं प्रभुम् । सोमस्येति महात्मानं कुमारं दस्युहन्तमम् ॥ ४२
ततः सुतमुपाघ्राय सोमो दाता प्रजापतिः । बुध इत्यकरोन्नाम तस्य पुत्रस्य धीमतः ॥ ४३
मतिपूर्वं च गमने समभ्युत्तिष्ठते बुधैः । उत्पादयामास तदा पुत्रं वै राजपुत्रिका ॥ ४४
तस्य पुत्रो महातेजा बभूवैलः पुरूरवाः । उर्वश्यां जज्ञिरे तस्य पुत्राः षट्सुमहौजसः ॥ ४५
प्रसह्य धर्षितस्तत्र विवशो राजयक्ष्मणा । ततो यक्ष्माभिभूतस्तु सोमः प्रक्षीणमण्डलः ॥
जगाम शरणायाथ पितरं सोऽत्रिमेव तु ॥ ४६
तस्य तत्पापशमनं चकारात्रिर्महायशाः । स राजयक्ष्मणा मुक्तः श्रिया जज्वल सर्वशः ॥ ४७
एतत्सोमस्य वै जन्म कीर्तितं द्विजसत्तमाः । वंशं तस्य द्विजश्रेष्ठाः कीर्त्यमानं निबोधत ॥ ४८
धन्यमारोग्यमायुष्यं पुण्यं कल्मषशोधनम् । सोमस्य जन्म श्रुत्वैव सर्वपापैः प्रमुच्यते ॥ ४९

इति श्रीमहापुराणे वायुप्रोक्ते सोमोत्पत्तिकथनं नाम नवतितमोऽध्यायः ॥ ९० ॥

आदितः श्लोकानां समष्ट्यङ्कः-८००७

३२८ श्रीमद्वैपायनमुनिप्रणीतम्– [अ० ९०-९१ श्लो० १-२३] (चन्द्रवंशकथनम्)

अथैकनवतितमोऽध्यायः ।

चन्द्रवंशकीर्तनम् ।

सूत उवाच-- सोमस्य तु बुधः पुत्रो बुधस्य तु पुरूरवाः । तेजस्वी दानशीलश्च यज्वा विपुलदक्षिणः ॥ १ ब्रह्मवादी पराक्रान्तः शत्रुभिर्युधि दुर्जयः । आहर्ता चाग्निहोत्रस्य यज्वनां च ददौ महीम् ॥ २ सत्यवाक्कर्मबुद्धिश्च कान्तः संवृतमैथुनः । अतीव पुत्रो लोकेषु रूपेणाप्रतिमोऽभवत् ॥ ३ तं ब्रह्मवादिनं दान्तं धर्मज्ञं सत्यवादिनम् । उर्वशी वरयामास हित्वा मानं यशस्विनी ॥ ४ तया सहावसद्राजा दश वर्षाणि चाष्ट च । सप्त षट् सप्त चाष्टौ च दश चाष्टौ च वीर्यवान् ॥ ५ वने चैत्ररथे रम्ये तथा मन्दाकिनीतटे । अलकायां विशालायां नन्दने च वनोत्तमे ॥ ६ गन्धमादनपादेषु मेरुशृङ्गे नगोत्तमे । उत्तरांश्च कुरून्प्राप्य कलापग्राममेव च ॥ ७ एतेषु वनमुख्येषु सुरैराचरितेषु च । उर्वश्या सहितो राजा रेमे परमया मुदा ॥ ८

ऋषय ऊचुः-- गन्धर्वी चोर्वशी देवी राजानं मानुषं कथम् । देवानुत्सृज्य संप्राप्ता तन्नो ब्रूहि बहुश्रुत ॥ ९

सूत उवाच-- ब्रह्मशापाभिभूता सा मानुषं समुपस्थिता । ऐलं तु तं वरारोहा समयेन व्यवस्थिता ॥ १० आत्मनः शापमोक्षार्थं नियमं सा चकार तु । अनग्नदर्शनं चैव अकामात्सह मैथुनम् ॥ द्वौ मेषौ शयनाभ्यासे स तावदद्यवतिष्ठते । घृतमात्रं तथाऽऽहारः कालमेकं तु पार्थिव ॥ ११ यद्येष समयो राजन्यावत्कालश्च ते दृढम् । तावत्कालं तु वत्स्यामि एष नः समयः कृतः ॥ १२ तस्यास्तं समयं सर्वं स राजा पर्यपालयत् । एवं सा चावसत्तस्मिन्पुरूरवसि भामिनी ॥ १३ वर्षाण्यथ चतुःषष्टिं तद्भक्त्या शापमोहिता । उर्वशी मानुषे प्राप्ता गन्धर्वाश्चिन्तयान्विताः ॥ १४

गन्धर्वा ऊचुः--- चिन्तयध्वं महाभागा यथा सा तु वराङ्गना । आगच्छेत्तु पुनर्देवानुर्वशी स्वर्गभूषणा ॥ १५ ततो विश्वावसुर्नाम तत्राऽऽह वदतां वरः । तया तु समयस्तत्र क्रियमाणे मतोऽनघः ॥ १६ समयव्युत्क्रमात्सा वै राजानं त्यक्ष्यते यथा । तदहं वच्मि वः सर्वं यथा त्यक्ष्यति सा नृपम् ॥ १७ ससहायो गमिष्यामि युष्माकं कार्यसिद्धये । एवमुक्त्वा गतस्तत्र प्रतिष्ठानं महायशाः ॥ १८ स निशायामथाऽऽगम्य मेषमेकं जहार वै । मातृवद्वर्तते सा तु मेषयोश्चारुहासिनी ॥ १९ गन्धर्वागमनं ज्ञात्वा शयनस्था यशस्विनी । राजानमब्रवीत्सा तु पुत्रो मेऽपह्रियतेति वै ॥ २० एवमुक्तो विनिश्चित्य नग्नस्तिष्ठति वै नृपः । नग्नं द्रक्ष्यति मां देवी समयो वितथो भवेत् ॥ २१ ततो भूयस्तु गन्धर्वा द्वितीयं मेषमाददुः । द्वितीयेऽपहृते मेषे ऐलं देवी तमब्रवीत् ॥ २२ पुत्रौ मम हतौ राजन्ननाथाया इव प्रभो । एवमुक्तस्तदोत्थाय नग्नो राजा प्रधावितः ॥ २३

[ अ० ९१ श्लो० २४-५३ ] वायुपुराणम् । ३२९

( चन्द्रवंशकथनम् )

मेषाभ्यां पदवीं राजन्गन्धर्वैर्व्युत्थितामथ । उत्पादिता तु महती माया तद्भवं महत् ॥ २४
प्रकाशिता तु सहसा ततो नग्नमवेक्ष्य सा । नग्नं दृष्ट्वा तिरोभूता अप्सरा कामरूपिणी ॥ २५
तिरोभूतां तु तां ज्ञात्वा गन्धर्वास्तत्र तावुभौ । मेषौ त्यक्त्वा च ते सर्वे तत्रैवान्तर्हिताऽभवन्* ॥ २६
उत्सृष्टावुरणौ दृष्ट्वा राजाऽऽगृह्याऽऽगतः प्रभुः । अपश्यंस्तां तु वै राजा विललाप सुदुःखितः ॥ २७
चचार पृथिवीं चैव मार्गमाणस्ततस्ततः । (+ भ्रममाणः सुदुःखेन विललाप जगत्पतिः ॥ २८
वनेषु सरितां कूलेष्वालयेषु महेषु च । विचचार गिरिश्चेको निर्झरोपवनेषु च ॥ २९
खेटखर्वटवाटीषु नगरे नगरे तथा । पप्रच्छ सकलान्सत्वान्विषादन्निदमब्रवीत् ॥ ३०
किं न पश्यसि रे मूढं मदमूढं विरुध्य माम् । क्व गताऽसि वरारोहे धिके (ङ्मे) जीवितमीदृशम् ॥ ३१
अथापश्यच्च तां राजा कुरुक्षेत्रे महाबलः ॥ ३१
प्लक्षतीर्थे पुष्कारण्यां विगाढेनाम्बुनाऽऽप्लुताम् । क्रीडन्तीमप्सरोभिश्च पञ्चाभिः सह शोभनाम् ॥ ३२
अपश्यत्सा ततः सुभ्रू राजानमविदूरतः । उर्वशी ताः सखीः प्राह अयं स पुरुषोत्तमः ॥ ३३
यस्मिन्नहमवासीति ? दर्शयामास तं नृपम् । तत आविर्बभूवुस्ताः पञ्चचूडाप्सरास्तु ताः ॥ ३४
दृष्ट्वा तु राजा तां प्रीतः प्रलापान्कुरुन्ते बहून् । आयाहि तिष्ठ मनसा घोरे वचसि तिष्ठ हे ॥ ३५
एवमादीनि सूक्ष्माणि परस्परमभाषत । उर्वशी त्वब्रवीच्चैलं सगर्भाऽहं त्वया प्रभो ॥ ३६
संवत्सरात्कुमारस्ते भविता नैव संशयः । निशामेकां तु वै राजा अवसत्तु तया सह ॥ ३७
समहृष्टो जगामाथ स्वपुरं तु महामशाः । गते संवत्सरे राजा उर्वशीं पुनरागमत् ॥ ३८
उषित्वा तु तया सार्धमेकरात्रं महामनाः । कामातँश्चाब्रवीद्दीनो भव नित्यं ममेति वै ॥ ३९
उर्वश्यथाब्रवीच्चैनं गन्धर्वास्ते वरं ददुः । तं वृणीष्व महाराज ब्रूहि चैतांस्त्वमेव हि ॥ ४०
वृणे नित्यं हि सालोक्यं गन्धर्वाणां महात्मनाम् । तथेत्युक्त्वा वरं वत्रे मन्धर्वाश्च तथाऽस्त्विति ॥
स्थालीमग्नेः पूरयित्वा गन्धर्वाश्च तमब्रुवन् । अनेन इष्ट्वा लोकं तं प्राप्स्यसि र्वं नराधिप ॥ ४२
तमादाय कुमारं तु नगरायोपचक्रमे । निक्षिप्य तमरणयां च सुपुत्रस्तु गुहान्यर्यां ॥ ४३
पुनरादाय दृश्यामिभश्वत्थं तत्र दृष्टवान् । समीपत्तस्तु तं दृष्ट्वा ह्यश्वत्थं तत्र विस्मितः ॥ ४४
गन्धर्वेभ्यस्तथाऽऽख्यातुमग्निना गां गतस्तु सः । श्रुत्वा तमर्थमखिलमरणं तु समादिशत् ॥ ४५
अश्वत्थादरणिं कृत्वा मथित्वाऽग्निं यथाविधि । तेनेष्ट्वा तु सलोकं नः प्राप्स्यासि त्वं नराधिप ॥ ४६
मथित्वाऽग्निं त्रिधा कृत्वा ह्ययजत्स नराधिपः । इष्ट्वा यज्ञैर्बहुविधैर्गतस्तेषां सलोकताम् ॥ ४७
वासार्थं च स गन्धर्वैस्त्रेतायां स महारथः । एकोऽग्निः पूर्वमासीद्वै ऐलस्त्रींस्तानकल्पयत् ॥ ४८
एवंप्रभावो राजाऽऽसीदैलस्तु द्विजसत्तमाः । देशे पुण्यतमे चैव महर्षिभिरलंकृते ॥ ४९
राज्यं स कारयामास प्रयागे पृथिवीपतिः । उत्तरे यामुने तीरे प्रतिष्ठाने महायशाः ॥ ५०
तस्य पुत्रा बभूवुर्हि षडिन्द्रोपमतेजसः । गन्धर्वलोके विदिता आयुर्धीमानमावसुः ॥ ५१
विश्वायुश्च शतायुश्च गतायुश्चोर्वशीसुताः । अमावसोतु वै जातो भीमो राजाऽथ विश्वाजित् ॥ ५२
श्रीमान्भीमस्य दायादो राजाऽऽसीत्काञ्चनप्रभः । विद्वांस्तु काञ्चनस्यापि सुहोत्रोऽभून्महाबलः ॥ ५३


* अत्र संधिराषः । + धनुश्चिह्नान्तर्गतग्रन्थः ख पुस्तके विद्यते ।
४२

उपनिन्युर्महाभागा दुहितृत्वेन जाह्नवीम् । यौवनाश्वस्य पौत्रीं तु कावेरीं जह्नुरावहत् ॥ ५८

३३० श्रीमद्वैपायनमुनिप्रणीतम्- [अ० ९१ श्लो० ५४-८१] ( चन्द्रवंशकथनम् )

सुहोत्रस्याभवज्जह्नुः कौशिकागर्भसंभवः । प्रतिगत्य ततो गङ्गा वितते यज्ञकर्मणि ॥ ५४ प्लावयामास तं देशं भाविनोऽर्थस्य दर्शनात् । गङ्गया प्लावितं दृष्ट्वा यज्ञवाटं समन्ततः ॥ ५५ सौहोत्रिवरदः क्रुद्धो गङ्गां संरक्तलोचनः । अस्य गङ्गेऽवलेपस्य सद्यः फलमवाप्नुहि ॥ ५६ एतत्ते विफलं सर्वं पीतमम्भः करोम्यहम् । राजर्षिणा ततः पीतां गङ्गां दृष्ट्वा सुरर्षयः ॥ ५७ उपनिन्युर्महाभागा दुहितृत्वेन जाह्नवीम् । यौवनाश्वस्य पौत्रीं तु कावेरीं जह्नुरावहत् ॥ ५८ युवनाश्वस्य शापेन गङ्गां येन विनिर्ममे । कावेरीं सरितां श्रेष्ठां जह्नुभार्यामनिन्दिताम् ॥ ५९ जह्नोश्च दयितं पुत्रं सुहोत्रं नाम धार्मिकम् । कावेर्यां जनयामास अजकस्तस्य चाऽऽत्मजः ॥ ६० अजकस्य तु दायादो बलाकाश्वो महायशाः । बभूवुश्च त्रयः शीलः कुशस्तस्याऽऽत्मजः स्मृतः ॥ ६१ कुशपुत्रा बभूवुश्च चत्वारो वेदवर्चसः । कुशाश्वः कुशनाभश्च अमूर्तरयशो वसुः ॥ ६२ कुशस्तम्बस्तपस्तेपे पुत्रार्थी राजसत्तमः । पूर्णे वर्षसहस्रे वै शतक्रतुमपश्यत ॥ ६३ सुदुर्गं तापसं दृष्ट्वा सहस्राक्षः पुरंदरः । समर्थः पुत्रजनने स्वयमेवास्य शाश्वतः ॥ ६४ पुत्रत्वं कल्पयामास स्वयमेव पुरंदरः । गाधिर्नामाभवत्पुत्रः कौशिकः पाकशासनः ॥ ६५ पौरुकुत्साऽभवद्भार्या गाधिस्तस्यामजायत । पूर्वकन्यां महाभागां नाम्ना सत्यवतीं शुभाम् ॥ तां गाधिः पुत्रः काव्याय ऋचीकाय ददौ प्रभुः ॥ ६६ तस्यां पुत्रस्तु वै भर्त्ता भार्गवो भृगुनन्दनः । पुत्रार्थे साधयामास चरुं गाधेस्तथैव च ॥ ६७ तथा चाऽऽहूय निधृतिमृचीको भार्गवस्तदा । उपयोज्यश्चरुरयं त्वया मात्रा च ते शुभे ॥ ६८ तस्यां जनिष्यते पुत्रो दीप्तिमान्क्षत्रियर्षभः । अजेयः क्षत्रियैर्युद्धे क्षत्रियर्षभसूदनः ॥ ६९ तवापि पुत्रं कल्याणि धृतिमन्तं तपोधनम् । शमात्मकं द्विजश्रेष्ठं चरुरेष विधास्यति ॥ ७० एवमुक्त्वा तु तां भार्यामृचीको भृगुनन्दनः । तपस्याभिरतो नित्यमरण्यं प्रविवेश ह ॥ ७१ गाधिः सदारस्तु तदा ऋचीकाश्रममभ्यगात् । तीर्थयात्राप्रसङ्गेन सुतां द्रष्टुं नरेश्वरः ॥ ७२ चरुद्वयं गृहीत्वा तु ऋषेः सत्यवती तदा । भर्तुर्वचनमव्यग्रा हृष्टा मात्रे न्यवेदयत् ॥ ७३ माता तु तस्यै देवेन दुहित्रे स्वं चरुं ददौ । तस्याश्चरुमथाज्ञानादात्मनः सा चकार ह ॥ ७४ अथ सत्यवती गर्भं क्षत्रियान्तकरं शुभम् । धारयामास दीप्तेन वपुषा घोरदर्शना ॥ ७५ तमृचीकस्ततो दृष्ट्वा योगेनाप्यनुमृश्य च । तदाऽब्रवीद्द्विजश्रेष्ठः स्वां भार्यां वरवर्णिनीम् ॥ ७६ मात्राऽसि वञ्चिता भद्रे चरुवत्या सहेतुना । जनिष्यति हि पुत्रस्ते क्रूरकर्माऽतिदारुणः ॥ ७७ माता जनिष्यतं वाऽपि तथाभूतं तपोधनम् । विश्वं हि ब्रह्म तपसा मया तत्र समर्पितम् ॥ ७८ एवमुक्त्वा महाभागा भर्त्रा सत्यवती तदा । प्रसादयामास पतिं सुतो मे नेदृशो भवेत् ॥ ब्राह्मणापसदस्त्वन्य इत्युक्तो मुनिरब्रवीत् ॥ ७९ नैष संकल्पितः कामो मया भद्रे तथा त्वया । उग्रकर्मा भवेत्पुत्रः पितुर्मातुश्च कारणात् ॥ ८० पुनः सत्यवती वाक्यमेवमुक्त्वाऽब्रवीदिदम् । इच्छंल्लोकानपि मुने सृजेथाः किंः पुनः सुतम् ॥ ८१

[अ० ९।श्लो ०८२-१०६] वायुपुराणम् ३३१ ( चन्द्रवंशकथनम् )

शमात्ममृजुं भर्तः पुत्रं मे दातुमर्हसि । काममेवंविधः पुत्रो मम स्यात्तु वद प्रभो ॥ ८२ मद्यपन्यथा न शक्यं वै कर्तुमेव द्विजोत्तम । ततः प्रसादमकरोत्स तस्यास्तपसो बलात् ॥ ८३ पुत्रे नास्ति विशेषो मे पौत्रे वा वरवर्णिनि । त्वया यथोक्तं वचनं तथा भद्रे भविष्यति ॥ ८४ तस्मात्सत्यवती पुत्रं जनयामास भार्गवम् । तपस्याभिरतं दान्तं जमदग्निं शमात्मकम् ॥ ८५ भृगोश्चरुविपर्यासे रौद्रवैष्णवयोः पुरा । जमनाद्वैष्णवस्याग्नेर्जमदग्निरजायत ॥ ८६ विश्वामित्रं तु दायादं गाधिः कुशिकनंदनः । प्राप्य ब्रह्मर्षिसमतां जगाम ब्रह्मणा वृतः ॥ ८७ सा हि सत्यवती पुण्या सत्यव्रतपरायणा । कौशिकीति समाख्याता प्रवृत्तेयं महानदी ॥ ८८ परिश्रुता महाभागा कौशकी सरितां वरा । इक्ष्वाकुवंशे त्वभवत्सुवेणुर्नाम पार्थिवः ॥ ८९ तस्य कन्या महाभागा कामली नाम रेणुका । रेणुकायां तु कामल्यां तपोद्धृतिसमन्वितः ॥ आर्चीको जनयामास जमदग्निः सुदारुणम् ॥ ९० सर्वविद्यान्तगं श्रेष्ठं धनुर्वेदस्य पारगम् । रामं क्षत्रियहन्तारं प्रदीप्तमिव पावकम् ॥ ९१ और्वस्यैवमृचीकस्य सत्यवत्यां महामनाः । जमदग्निस्तपोवीर्याज्जज्ञे ब्रह्मविदां वरः ॥ मध्यमश्च शुनःशेपः शुनःपुच्छः कनिष्ठकः ॥ ९२ विश्वामित्रस्तु धर्मात्मा नाम्ना विश्वरथः स्मृतः । जज्ञे भृगुप्रसादेन कौशिकाद्वंशवर्धनः ॥ ९३ विश्वामित्रस्य पुत्रस्तु शुनःशेपोऽभवन्मुनिः । हरिश्चन्द्रस्य यज्ञे तु पशुत्वे नियतः स वै ॥ ९४

  • देवैर्दत्तः शुनःशेपो विश्वामित्राय वै पुनः । देवैर्दत्तः स वै यस्माद्देवरातस्ततोऽभवत् ॥ ९५ विश्वामित्रस्य पुत्राणां शुनःशेपोऽग्रजः स्मृतः । मधुच्छन्दो नयश्चैव कृतदेवौ ध्रुवाष्टकौ ॥ ९६ कच्छपः पूरणश्चैव विश्वामित्रसुतास्तु वै । तेषां गोत्राणि बहुधा कौशिकानां महात्मनाम् ॥ ९७ पार्थिवा देवराताश्च याज्ञवल्क्याः समर्षणाः । उदुम्बरा उद्म्लानास्तारका यममुञ्चताः ॥ ९८ लोहिण्या रेणवश्चैव तथा कारीषवः स्मृताः । बभ्रवः पाणिनश्चैव ध्यानजप्यास्तथैव च ॥ ९९ शालावत्या हिरण्याक्षा स्यङ्कृता गालवाः स्मृताः । देवला यामदूताश्च सालङ्कायनाबाष्कलाः॥ १०० ददातिबादराश्चान्ये विश्वामित्रस्य धीमतः । ऋष्यन्तरविवाहास्ते बहवः कौशिकाः स्मृताः ॥ १०१ कौशिकाः सौश्रुताश्चैव तथाऽन्ये सैंधवायनाः । पौरोरवस्य पुण्यस्य ब्रह्मर्षेः कौशिकस्य तु ॥ १०२ दृषद्वतीसुतश्चापि विश्वामित्रात्तथाष्टकः । अष्टकस्य सुतो यो हि प्रोक्तो जह्नुगणो मया ॥ १०३

ऋषय ऊचुः--

किं लक्षणेन धर्मेण तपसेह श्रुतेन वा । ब्राह्मण्यं समनुप्राप्तं विश्वामित्रादिभिर्नृपैः ॥ १०४ येन येनाभिधानेन ब्राह्मण्यं क्षत्रिया गताः । विशेषं ज्ञातुमिच्छामस्तपसा दानतस्तथा ॥ १०५ एवमुक्तस्ततो वाक्यमब्रवीदिदमर्थवत् । अन्यायोपगतैर्द्रव्यैराहूय द्विजसत्तमान् ॥ धर्माभिकाङ्क्षी यजते न धर्मफलमश्नुते ॥ १०६


* इदमर्धं नास्ति क. पुस्तके ।

३३२ श्रीमद्वैपायनमुनिप्रणीतम्— [अ० ९१-९२ श्लो० १०७-११८ । १-८] (चन्द्रवंशकीर्तनम)

धर्मं चैतं समाख्याय पापात्मा पुरुषाधमः । ददाति दानं विप्रेभ्यो लोकानां दम्भकारणात् ॥ १०७ जपं कृत्वा तथा तीव्रं धनलोभान्निरङ्कुशः । रागमोहान्वितो ह्यन्ते पावनार्थं ददाति यः ॥ १०८ तेन दत्तानि दानानि अफलानि भवन्त्युत । तस्य धर्मप्रवृत्तस्य हिंसकस्य दुरात्मनः ॥ १०९ एवं लब्ध्वा धनं मोहाद्ददतो यजतश्च ह । संक्लिष्टकर्मणो दानं न तिष्ठति दुरात्मनः ॥ ११० न्यायागतानां द्रव्याणां तीर्थे संप्रतिपादनम् । कामाननभिसंधाय यजते च ददाति च ॥ १११ स दानफलमाप्नोति तच्च दानं सुखोदयम् । दानेन भोगानाप्नोति स्वर्गं सत्येन गच्छति ॥ ११२ तपसा तु सुगुप्तेन लोकान्विष्टभ्य तिष्ठति । विष्टभ्य स तु तेजस्वी लोकेष्वानन्त्यमश्नुते ॥ ११३ दानाच्छ्रेयस्तथा यज्ञो यज्ञाच्छ्रेयस्तथा तपः । संन्यासस्तपसः श्रेयांस्तस्माज्ज्ञानं गुरु स्मृतम् ॥ ११४ श्रूयन्ते हि तपःसिद्धाः क्षात्रोपेता द्विजातयः । विश्वामित्रो नरपतिर्मांधाता संकृतिः कपिः ॥ ११५ कपेश्च पुरुकुत्सश्च सत्यश्चानुह्ववान्पृथुः । आर्ष्टिषेणोऽजमीढश्च भागान्योऽन्यस्तथैव च ॥ ११६ कक्षीवश्चैव शिज्यस्तथाऽन्ये च महारथाः । रथीतरश्च रुन्दश्च विष्णुवृद्धादयो नृपाः ॥ ११७ क्षात्रोपेताः स्मृता ह्येते तपसा ऋषितां गताः । एते राजर्षयः सर्वे सिद्धिं सुमहतीं गताः ॥ अत ऊर्ध्वं प्रवक्ष्यामि अयोर्वंशं महात्मनः ॥ ११८

इति महापुराणे वायुप्रोक्ते अमावसुवंशानुकीर्तनम् नामैकनवतितमोऽध्यायः ॥ ९१ ॥ आदितः श्लोकानां समष्ट्यङ्काः—८१२२


अथ द्विनवतितमोऽध्यायः ।

चन्द्रवंशकीर्तनम् ।

सूत उवाच— एते पुत्रा महात्मानः पञ्चैवाऽसन्महाबलाः । स्वर्भानुतनया विप्राः प्रभायां जज्ञिरे नृपाः ॥ १ नहुषः प्रथमस्तेषां पुत्रधर्मा ततः स्मृतः । धर्मवृद्धात्मजश्चैव सुतहोत्रो महायशाः ॥ २ सुतहोत्रस्य दायादास्त्रयः परमधार्मिकाः । काशः कालश्च द्वावेतौ तथा गृत्समदः प्रभुः ॥ ३ पुत्रो गृत्समदस्यापि शुनको यस्य शौनकः । ब्राह्मणाः क्षत्रियाश्चैव वैश्याः शूद्रास्तथैव च ॥ ४ एतस्य वंशे संभूता विचित्रैः कर्मभिर्द्विजाः । शलात्मजो ह्यार्ष्टिषेणश्चरन्तस्तस्य चात्मजः ॥ ५ शौनकाश्चाऽऽर्ष्टिषेणाश्च क्षात्रोपेता द्विजातयः । काशस्य काशयो राष्ट्रः पुत्रो दीर्घतपास्तथा ॥ ६ धर्मश्च दीर्घतपसो विद्वान्धन्वन्तरिस्ततः । तपसा सुमहातेजा जातो वृद्धस्य धीमतः ॥ ७ अथैनमृषयः प्रोचुः सूतं वाक्यमिमं पुनः ॥

ऋषय ऊचुः— कथं धन्वन्तरिर्देवो मानुषेष्विह जज्ञिवान् । एतद्वेदितुमिच्छामस्ततो ब्रूहि प्रियं तथा ॥ ८

[अ०९२श्लो०९-३१] वायुपुराणम् । ३३३

( चन्द्रवंशकीर्तनम् )

सूत उवाच-- धन्वन्तरेः संभवोऽयं श्रूयतामिह वै द्विजाः । स संभूतः समुद्रादन्तं मध्यमानेऽमृते पुरा ॥ ९ उत्पन्नः सकलात्पूर्वं सर्वतश्च श्रिया वृतः । सर्वसांसिद्धिकायं तं दृष्ट्वा विष्टम्भितः स्थितः ॥ अजस्त्वमिति होवाच तस्मादजस्तु स स्मृतः ॥ १० अजः प्रोवाच विष्णुं तं तनयोऽस्मि तव प्रभो । विधत्स्व भागं स्थानं च मम लोके सुरोत्तम ॥ ११ एवमुक्तः स दृष्ट्वा तु तथ्यं प्रोवाच स प्रभुः । कृतो यज्ञविभागस्तु यज्ञियैर्हि सुरैस्तथा ॥ १२ वेदेषु विधियुक्तं च विधिहोत्रं महर्षिभिः । न शक्यमि(इ)ह होमो वै तुल्यं(ल्यः) कर्तुं कदाचन ॥ अर्वाक्सुतोऽसि हे देव नाममन्त्रोऽसि वै प्रभो । द्वितीयायां तु संभूत्यां लोके ख्यातिं गमिष्यसि ॥ आणिमादियुता सिद्धिर्गर्भस्थस्य भविष्यति । तेनैव च शरीरेण देवत्वं प्राप्स्यसि प्रभो ॥ चरुमन्त्रैर्घृतैर्गन्धैर्यक्ष्यन्ति त्वां द्विजातयः ॥ १५ अथ च त्वं पुनश्चैव आयुर्वेदं विधास्यसि । अवश्यंभावी ह्यर्थोऽयं प्राक्सृष्टस्त्वब्जयोनिना ॥ १६ द्वितीयं द्वापरं प्राप्य भविता त्वं न संशयः । तस्मात्तस्मै वरं दत्त्वा विष्णुरन्तर्दधे ततः ॥ १७ द्वितीये द्वापरे प्राप्ते शौनहोत्रः प्रकाशिराट् । पुत्रकामस्तपस्तेपे नृपो दृढितपास्तथा ॥ १८ अजं देवं तु पुत्रार्थे ह्यारराधयिषुर्नृपः । वरेण च्छन्दयामास प्रीतो धन्वन्तरिर्नृपम् ॥ १९

नृप उवाच-- भगवन्यदि तुष्टस्त्वं पुत्रो मे धृतिमान्भव । तथेति समनुज्ञाय तत्रैवान्तरधायित ॥ २० तस्य गेहे समुत्पन्नो देवो धन्वन्तरिस्तदा । काशिराजो महाराजः सर्वरोगप्रणाशनः ॥ २१ आयुर्वेदं भारद्वाजश्चकार समिषक्क्रियम् । तमष्टधा पुनर्व्यस्य शिष्येभ्यः प्रत्यपादयत् ॥ २२ धन्वन्तरिसुतश्चापि केतुमानिति विश्रुतः । अथ केतुमतः पुत्रो विप्रो भीमरथो नृपः ॥ दिवोदास इति ख्यातो वाराणस्याधिपोऽभवत् ॥ २३ एतस्मिन्नेव काले तु पुरीं वाराणसीं पुरा । शून्यां निवेशयामास क्षेमको नाम राक्षसः ॥ २४ शप्ता हि सा पुरी पूर्वं निकुम्भेन महात्मना । शून्या वर्षसहस्रं वै भवित्रीति पुनः पुनः ॥ २५ तस्यां तु शप्तमात्रायां दिवोदासः प्रजेश्वरः । विषयान्ते पुरीं रम्यां गोमत्यां संन्यवेशयत् ॥ २६

ऋषय ऊचुः-- वाराणसीं किमर्थं तां निकुम्भः शप्तवान्पुरा । निकुम्भश्चापि धर्मात्मा सिद्धक्षेत्रं शशाप यः ॥ २७

सूत उवाच-- दिवोदासस्तु राजर्षिर्नगरीं प्राप्य पार्थिवः । वसते स महातेजाः स्फीतायां वै नराधिपः ॥ २८ एतस्मिन्नैव काले तु कृतदारो महेश्वरः । देव्याः स प्रियकामस्तु वसानः श्वशुरान्तिके ॥ २९ देवाज्ञया पारिषदा विश्वरूपस्तपोधनाः । पूर्वोक्तै रूपविशेषैस्तोष्यन्ति महेश्वरीम् ॥ ३० हृष्यति तैर्महादेवो मेना नैव तु हृष्यति । जुगुप्सते सा नित्यं च देवं देवीं तथैव च ॥ ३१

३३४ श्रीमद्वैपायनमुनिप्रणीतम्- [अ०१२श्लो०३२-५८] ( चन्द्रवंशकीर्तनम् )

मम पार्श्वे त्वनाचारस्तव भर्ता महेश्वरः । दरिद्रः सर्व एवेह अक्लिष्टं लडतेऽनघे ॥ ३२ मात्रा तथोक्ता वचसा स्त्रीस्वभावान्नचाक्षपत् । स्मितं कृत्वा तु वरदा ह्यपार्थमथागमत् ॥ ३३ विषण्णवदना देवी महादेवमभाषत । नेह वत्स्याम्यहं देव नय मां स्वं निवेशनम् ॥ ३४ तथोक्तस्तु महादेवः सर्वांल्लोकानवेक्ष्य ह । वासार्थं रोचयामास पृथिव्यां तु द्विजोत्तमाः ॥ वाराणसीं महातेजाः सिद्धक्षेत्रं महेश्वरः ॥ ३५ दिवोदासेन तां ज्ञात्वा निविष्टां नगरीं भवः । पार्श्वस्थं स समाहूय गणेशं क्षेमकं *ब्रवीत् ॥ ३६ गणेश्वर पुरीं गत्वा शून्यां वाराणसीं कुरु । मृदुना चाभ्युपायेन अतिवीर्यः स पार्थिवः ॥ ३७ ततो गत्वा निकुम्भस्तु पुरीं वाराणसीं पुरा । स्वप्ने संदर्शयामास मङ्कनं नाम नापितम् ॥ ३८ श्रेयस्तेऽहं करिष्यामि स्थानं मे रोचयानघ । मद्रूपां प्रतिमां कृत्वा नगर्यन्ते निवेशय ॥ ३९ तथा स्वप्ने यथा दृष्टं सर्वं कारितवान्द्विजाः । नगरीद्वार्यनुज्ञाप्य राजानं तु यथाविधि ॥ ४० पूजा तु महती चैव नित्यमेव प्रयुज्यते । गन्धैर्धूपैश्च माल्यैश्च प्रेक्षणीयैस्तथैव च ॥ ४१ अन्नप्रदानयुक्तैश्च अत्यद्भुतमिवाभवत् । एवं संपूज्यते तत्र नित्यमेव गणेश्वरः ॥ ४२ ततो वरसहस्राणि नगराणां प्रयच्छति । पुत्रान्हिरण्मयायूंषि सर्वकामांस्तथैव च ॥ ४३ राज्ञस्तु महिषी श्रेष्ठा सुयशा नाम विश्रुता । पुत्रार्थमागता साध्वी राज्ञा देवी प्रचोदिता ॥ ४४ पूजां तु विपुलां कृत्वा देवी पुत्रानयाचत । पुनः पुनरथाऽऽगम्य बहुशः पुत्रकारणात् ॥ ४५ न प्रयच्छति पुत्रांस्तु निकुम्भः कारणेन तु । राजा यदि तु क्रुध्येत ततः किंचित्प्रवर्तते ॥ ४६ अथ दीर्घेण कालेन क्रोधो राजानमाविशत् । भूतं त्विदं महाद्वारि नागराणां प्रयच्छति ॥ ४७ प्रीत्या वरांश्र्व शतशो न किंचिन्न प्रयच्छति । मामकैः पूज्यते नित्यं नगर्यां मम चैव तु ॥ ४८ तत्रार्चितश्च बहुशो देव्या मे तत्र कारणात् । न ददाति च पुत्रं मे कृतघ्नो बहुभोजनः ॥ ४९ अतो नार्हति पूजां तु मत्सकाशात्कथंचन । तस्मात्तु नाशयिष्यामि तस्य स्थानं दुरात्मनः ॥ ५० एवं तु स विनिश्चित्य दुरात्मा राजकिल्बिषी । स्थानं गणपतेस्तस्य नाशयामास दुर्मतिः ॥ ५१ भग्नमायतनं दृष्ट्वा राजानमगमत्प्रभुः । यस्माधनपराधं मे त्वया स्थानं विनाशितम् ॥ ५२ अकस्मात्तु पुरी शून्या भवित्री ते नराधिप । ततस्तेन तु शापेन शून्या वाराणसी तदा ॥ ५३ शप्त्वा पुरीं निकुम्भस्तु महादेवमथानयत् । शून्यां पुरीं महादेयो निर्ममे परमात्मना ॥ ५४ तुल्यां देवविभूत्यास्तु देव्याश्चैव महात्मनः । रमते तत्र वै देवी रममाणो महेश्वरः ॥ ५५ न रतिं तत्र वै देवी लभते गृहविस्मयात् । देव्याः क्रीडार्थमीशानो देवो वाक्यमथाब्रवीत् ॥ ५६ नाहं वेश्म विमोक्ष्यामि अविमुक्तं हि मे गृहम् । महस्यैनामथोवाच आविमुक्तं हि मे गृहम् ॥ ५७ नाहं देवि गमिष्यामि गच्छस्वैह वसाम्यहम् । तस्मात्तदाविमुक्तं हि प्रोक्तं देवेन वै स्वयम् ॥ ५८


* अत्राडभाव आर्षः ।

[अ०९२श्लो०५९-८३] वायुपुराणम् ३३५ ( चन्द्रवंशकीर्तनम् )

एवं वाराणसी शप्ता अविमुक्तं च कीर्तितम् । यस्मिन्वसति वै देवाः सर्ववेदनमयस्कृताः ॥ युगेषु त्रिषु धर्मात्मा सह देव्या महेश्वरः ॥ ५९ अन्तर्धानं कलौ याति तत्पुरं तु महात्मनः । अन्तर्हिते पुरे तस्मिन्पुरी सा वसते पुनः ॥ ६० एवं वाराणसी शप्ता निवेशं पुनरागता । भद्रश्रेण्यस्य पुत्राणां शतमुत्तमधन्विनाम् ॥ ६१ हत्वा निवेशयामास दिवोदासो नराधिपः । भद्रश्रेण्यस्य राज्यं तु हतं तेन बलीयसा ॥ ६२ भद्रश्रेण्यस्य पुत्रस्तु दुर्दमौ नाम नामतः । दिवोदासेन बालेति घृणया स विवर्जितः ॥ ६३ दिवोदासाद्दृषद्वत्यां वीरो जज्ञे प्रतर्द्दनः । तेन पुत्रेन बालेन प्रहतं तस्य वै पुनः ॥ ६४ वैरस्यान्तं महाराज्ञा तदा तेन विधित्सता । प्रतर्द्दनस्य पुत्रौ द्वौ वत्सो गर्गश्च विश्रुतः ॥ ६५ वत्सपुत्रो ह्यलर्कस्तु संततिस्तस्य चाऽऽत्मजः । अलर्कं प्रति राजर्षिगीतश्लोको पुरातनौ ॥ ६६ षष्टिवर्षसहस्त्राणि षष्टिवर्षशतानि च । युवा रूपेण संपन्नो ह्यलर्कः काशिसत्तमः ॥ लोपामुद्राप्रसादेन परमायुरवाप्तवान् ॥ ६७ शापस्यान्ते महाबाहुर्हत्वा क्षेमकराक्षसम् । रम्यमावासयामास पुरीं वाराणसीं नृपः ॥ ६८ सूनतेरपि दायादः सुनीथो नाम धार्मिकः । सुनथिस्य तु दायादः सुकेतुर्नाम धार्मिकः ॥ ६९ सुकेतुतनयश्चापि धर्मकेतुरिति श्रुतिः । धर्मकेतोस्तु दायादः सत्यकेतुर्महारथः ॥ ७० सत्यकेतुसतश्चापि विभुर्नाम प्रजेश्वरः । सुविभुस्तु विभोः पुत्रः सुकुमारस्ततः स्मृतः ॥ ७१ सुकुमारस्य पुत्रस्तु धृष्टकेतुः स धार्मिकः । धृष्टकेतोस्तु दायादो वेणुहोत्रः प्रजेश्वरः ॥ ७२ वेणुहोत्रसुतश्चापि गार्ग्यो वै नाम विश्रुतः । गार्ग्यस्य गर्भूमिस्तु वात्स्यो वत्सस्य धीमतः ॥ ७३ ब्राह्मणा क्षत्रियाश्चैव तयोः पुत्राः सुधार्मिकाः । विक्रान्ता बलवन्तश्च सिंहतुल्यपराक्रमाः ॥ ७४ इत्येते काश(श्य)पाः प्रोक्ता रजेरपि निबोधत । रजेः पुत्रशतान्यासन्पञ्च वीर्यवतो भुवि ॥ राजेयमिति विख्यातं क्षत्रमिन्द्रभयावहम् ॥ ७५ तदा दैवासुरे युद्धे समुत्पन्ने सुदारुणे । दैवाश्चैवासुराश्चैव पितामहमथाब्रुवन् ॥ ७६ आवयोर्भगवन्युद्धे विजेता को भविष्यति । ब्रूहि नः सर्वलोकेश श्रोतुमिच्छामहे वयम् ॥ ७७

ब्रह्मोवाच-- येषामर्थाय सङ्ग्रामे राजिरात्तायुधः प्रभुः । योत्स्यते ते विजेष्यन्ति त्रींल्लोकान्नात्र संशयः ॥ ७८ राजिर्यस्ततो लक्ष्मीर्यतो लक्ष्मीस्ततो धृतिः । यतो धृतिस्ततो धर्मो यतो धर्मस्ततो जयः ॥ ७९ तद्देवा दानवाः सर्वे ततः श्रुत्वा रजेर्जयम् । अभ्ययुर्जयमिच्छन्तः स्तुवन्तो राजसत्तमम् ॥ ८० ते हृष्टमनसः सर्वे राजानं देवदानवाः । ऊचुरस्मज्जय्याय त्वं गृहाण वरकार्मुकम् ॥ ८१

राजिरुवाच-- अहं जेष्यामि वा युद्धे देवाञ्शक्रपुरोगमान् । इन्द्रो भवामि धर्मात्मा ततो योत्स्यामि संयुगे ॥ ८२

दानवा ऊचुः-- अस्माकमिन्द्रः प्रह्लादस्तस्यार्थे विजयामहे । अस्मिंस्तु समये राजंस्तिष्ठेया देवनोदिते ॥ ८३

३३६ श्रीमद्वैपायनमुनिप्रणीतम्- [अ०१२-९३श्लो०८४-९९।१-४] (चन्द्रवंशवर्णनम्)

स तथेति ब्रुवन्नेव देवैरप्यभिचोदितः । भविष्यसीन्द्रो जित्वेति देवैरपि निमन्त्रितः ॥ ८४
जघान दानवान्सर्वान्समक्षं वज्रपाणिनः । स विप्रनष्टां देवानां परमश्रीः श्रियं वशी ॥ ८५
निहत्य दानवान्सर्वानाजहार रजिः प्रभुः । तं तथा तु रजिं तत्र देवैः सह शतक्रतुः ॥ ८६
रजिपुत्रोऽहमित्युक्त्वा पुनरेवाब्रवीद्वचः । इन्द्रोऽसि राजन्देवानां सर्वेषां नात्र संशयः ॥
मस्याहामिन्द्र पुत्रस्ते ख्यातिं यास्यामि शत्रुहन् ॥ ८७
स तु शक्रवचः श्रुत्वा वञ्चितस्तेन मायया । तथेत्येवाब्रवीद्राजा प्रीयमाणः शतक्रतुम् ॥ ८८
तस्मिंस्तु देवसदृशे दिवं प्राप्ते महीपतौ । दायाद्यमिन्द्रादाजह्रूरुदाचारं तनया रजेः ॥ ८९
तानि पुत्रशतान्यस्य तच्च स्थानं शचीपतेः । समक्रामन्त बहुधा स्वर्गलोकं त्रिविष्टपम् ॥ ९०
ततः काले बहुतिथे समतीते महाबलः । हतराज्योऽब्रवीच्छक्रो हतभागो बृहस्पतिम् ॥ ९१
बदरीफलमात्रं वै पुरोडाशं विधत्स्व मे । ब्रह्मर्षे येन तिष्ठयं तेजसाऽऽप्यायितस्ततः ॥ ९२
ब्रह्मन्कृशोऽयं विमना हतराज्यो हताशनः । हतौजा दुर्बलो मूढो रजिपुत्रैः प्रसीद मे ॥ ९३

बृहस्पतिरुवाच—

यद्येव चोदितः शक्र त्वया स्यां पूर्वमेव हि । नाभविष्यत्त्वत्प्रित्यार्थं नाकर्तव्यं ममानघ ॥ ९४
प्रयातिष्यामि देवेन्द्र त्वद्धितार्थं महाद्युते । यथा भागं च राज्यं च अचिरात्प्रतिपत्स्यसे ॥ ९५
तथा शक्र गमिष्यामि मा भूत्ते विक्लवं मनः । ततः कर्म चकारास्य तेजःसंवर्धनं महत् ॥ ९६
तेषां च बुद्धिसंमोहमकरोद्बुद्धिसत्तमः । ते यदा ससुता मूढा रागोन्मत्ता विधर्मिणः ॥ ९७
ब्रह्मद्विषश्च संवृत्ता हतवीर्यपराक्रमाः । ततो लेभे सुरैश्वर्यमैन्द्रस्थानं तथोत्तमम् ॥ ९८
हत्वा राजिसुतान्सर्वान्कामक्रोधपरायणान् । य इदं पावनं स्थानं प्रतिष्ठानं शतक्रतोः ॥
शृणुयाद्वा रजेर्वाऽपि न स दौरात्म्यपमाप्नुयात् ॥ ९९

इति श्रीमहापुराणे वायुप्रोक्ते रजियुद्धं नाम द्विनवतितमोऽध्यायः ॥ ९२ ॥
आदितः श्लोकानां समष्ट्यङ्काः—८२२२


अथ त्रिनवतितमोऽध्यायः ।

चन्द्रवंशवर्णनम् ।

ऋषय ऊचुः—

मरुत्तेन कथं कन्या राज्ञे दत्ता महात्मना । किंवीर्याश्च महात्मानो जाता मरुत्तकन्यकाः ॥ १

सूत उवाच—

आहवन्तं मरुत्सोममन्नकामः मजेश्वरम् । मासि मासि महातेजाः षष्ठिसंवत्सरान्नृपः ॥ २
तेन ते मरुतस्तस्य मरुत्सोमेन तोषिताः । अक्षय्यान्नं ददुः प्रीताः सर्वकामपरिच्छदम् ॥ ३
अन्नं तस्य सकृत्पक्कमहोरात्रे न क्षीयते । कोटिशो दीयमानं च सूर्यस्योदयनादपि ॥ ४

[अ० ९३ श्लो ०५-२८] वायुपुराणम् । ३३७ ( चन्द्रवंशवर्णनम् ) मित्रज्योतिस्तु कन्यायां मरुतस्य च धीमतः । तस्माज्जाता महासत्त्वा धर्मज्ञा मोक्षदर्शिनः ॥ ५ संन्यस्य गृहधर्माणि वैराग्यं समुपास्थिताः । यतिधर्ममवाप्येह ब्रह्मभूयाय ते गताः ॥ ६ अनपायस्ततो जातस्तदा धर्ममदत्तवान्(?) । क्षत्रधर्मस्ततो जातः प्रतिपक्षो महातपाः ॥ ७ प्रतिपक्षसुतश्चापि संजयो नाम विश्रुतः । संजयस्य जयः पुत्रो विजयस्तस्य जग्मिवान् ॥ ८ विजयस्य जयः पुत्रस्तस्य हर्यद्वतः स्मृतः । हर्यद्वतस्ततो राजा सहदेवः प्रतापवान् ॥ ९ सहदेवस्य धर्मात्मा अदीन इति विश्रुतः । अदीनस्य जयत्सेनस्तस्य पुत्रोऽथ संकृतिः ॥ १० संकृतेरपि धर्मात्मा कृतधर्मा महायशाः । इत्येते क्षत्रधर्माणो नहुषस्य निबोधत ॥ ११ नहुषस्य तु दायादाः षडिन्द्रोपमतेजसः । उत्पन्नाः पितृकन्यायां विरजायां महौजसः ॥ १२ यतियर्यातिः संयातिरायातिः पञ्च तु द्वयः(?) । यतिर्ज्येष्ठस्तु तेषां वै ययातिस्तु ततोऽवरः ॥ १३ काकुत्स्थकन्यां गां नाम लेभे पत्नीं यतिस्तदा । संयातिर्मोक्षमास्थाय ब्रह्मभूतोऽभवन्मुनिः ॥ १४ तेषां मध्ये तु पञ्चानां ययातिः पृथिवीपतिः । देवयानीमुशनसः सुतां भार्यामवाप ह ॥ १५ शर्मिष्ठामसुरीं चैव तनयां वृषपर्वणः । अजीजनन्महावीर्यान्सुतान्देवसुतोपमान् ॥ १६ द्रुह्यं चानुं च पुरुं च शर्मिष्ठा वार्षपर्वणी । अजीजनन्महावीर्यान्सुतान्देवसुतोपमान् ॥ १७ रथं तस्मै ददौ रुद्रः प्रीतः परमभास्वरम् । असङ्गं काञ्चनं दिव्यमक्षयौ च महेषुधी ॥ १८ युक्तं मनोजवैरश्वैर्यैन कन्यां समुद्वहन् । स तेन रथमुख्येन जिगाय च ततो महीम् ॥ १९ ययातिर्युधि दुर्धर्षो देवदानवमानवैः । पौरवाणां नृपाणां च सर्वेषां सोऽभवद्रथः ॥ २० यावत्सुदेशप्रभवः कौरवो जनमेजयः । कुरोः पुत्रस्य राज्ञस्तु राज्ञः पारिक्षितस्य ह ॥ जगाम स रथो नाशं शापाद्गार्ग्यस्य धीमतः ॥ २१ गार्ग्यस्य हि सुतं बालः स राजा जनमेजयः । दुर्बुद्धिर्हिंसयामास लोहगन्धं नराधिपम् ॥ २२ स लोहगन्धो राजर्षिः परिधावांस्ततस्ततः । पौरजानपदैस्त्यक्तो न लेभे शर्म कर्हिचित् ॥ २३ ततः सः दुःखसंतप्तो नालभत्संविदं क्वचित् । शशाप हेतुकमृषिं शरण्यं व्यथितस्तदा ॥ २४ इन्द्रोतो नाम विख्यातो योऽसौ मुनिरुदारधीः । याजयामास चेन्द्रोतः शौनको जनमेजयम् ॥ अश्वमेधेन राजानं पावनार्थं द्विजोत्तमः ॥ २५ स लोहगन्धो व्यनशत्तस्याऽऽवसथमेत्य ह । * स च दिव्यो रथस्तस्माद्वसोश्चेदिपतेस्तथा ॥ २६ ततः शक्रेण तुष्टेन लेभे तस्माद्बृहद्रथः । ततो हत्वा जरासंधं भिमस्तं रथमुत्तमम् ॥ प्रददौ वासुदेवाय प्रीत्या कौरवनन्दनः ॥ २७ स जरां प्राप्य राजर्षिर्ययातिर्नहुषात्मजः । पुत्रं ज्येष्ठं वरिष्ठं च यदुमित्यब्रवीद्वचः ॥ २८


* अत्रत्यग्रन्थस्य न पूर्वापरसंगतिः ।
४३

३३८ श्रीमद्वैपायनमुनिप्रणीतम्- [अ० ९३श्लो० २९-५०] ( चन्द्रवंशवर्णनम् )

जरावली च मां तात पलितानि च पर्यगुः । काव्यस्योशनसः शापान्न च तृप्तोऽस्मि यौवने ॥ २९ त्वं यदो प्रतिपद्यस्व पाप्मानं जरया सह । जरां मे प्रतिगृह्णीष्व तं यदुः प्रत्युवाच ह ॥ ३० अनिर्दिष्टा मया भिक्षा ब्राह्मणस्य प्रतिश्रुता । सा च व्यायामसाध्या वै न ग्रहीष्यामि ते जराम् ॥ ३१ जराया बहवो दोषा यानभोजनकारिणः । तस्माज्जरां न ते राजन्गृहीतुमहमुत्सहे ॥ ३२ सितश्मश्रुधरो दीनो जरया शिथिलीकृतः । वलीसंततगात्रश्च दुर्दर्शो दुर्बलाकृतिः ॥ ३३ अशक्तः कार्यकरणे परिभूतस्तु यौवने । महोपभीतिभिश्चैव तां जरां नाभिकामये ॥ ३४ सन्ति ते बहवः पुत्रा मत्तः प्रियतरा नृप । प्रतिगृह्णन्तु धर्मज्ञ पुत्रमन्यं वृणीष्व वै ॥ ३५ स एवमुक्तो यदुना तीव्रकोपसमन्वितः । उवाच वदतां श्रेष्ठो ज्येष्ठं तं गर्हयन्सुतम् ॥ ३६ आश्रमः कश्च वाऽन्योऽस्ति को वा धर्मविधिस्तव । मामनादृत्य दुर्बुद्धे यदात्थ नवदेशिक ॥ ३७ एवमुक्त्वा यदुं राजा शशापैनं स मन्युमान् । यस्त्वं मे हृदयाज्जातो वयः स्वं न प्रयच्छसि ॥ ३८ तस्मान्न राज्यभाङ्गूढ प्रजा ते वै भविष्यति । तुर्वसो प्रतिपद्यस्व पाप्मानं जरया सह ॥ ३९ (*यौवनेन चरेयं वै विषयांस्तव पुत्रक । पूर्णे वर्षसहस्रे ते प्रतिदास्यामि यौवनम् ॥ स्वं चैव प्रतिपत्स्यामि पाप्मानं जरया सह ॥ ४०

तुर्वसुरुवाच- न कामये जरां तात कामभोगप्रणाशिनीम् । जराया बहवो दोषाः पानभोजनकारिणः ॥ तस्माज्जरां न ते राजन्गृहीतुमहमुत्सहे ॥ ४१

ययातिरुवाच- यस्त्वं मे हृदयाज्जातो वयः स्वं न प्रयच्छसि । तस्मात्प्रजा समुच्छेद्यं तुर्वसो तव यास्यति ॥ ४२ असंकीर्णा च धर्मेण प्रतिलोमवरेषु च । पिशिताशिषु चान्येषु मूढ राजा भविष्यसि ॥ ४३ गुरुदारप्रसक्तेषु तिर्यग्योनिगतेषु वा । पशुधर्मेषु म्लेच्छेषु भविष्यसि न संशयः ॥ ४४

सूत उवाच- एवं तु तुर्वसुं शप्त्वा ययातिः सुतमात्मनः । शर्मिष्ठायाः सुतं द्रुह्यमिदं वचनमब्रवीत् ॥ ४५ द्रुह्य त्वं प्रतिपद्यस्व वर्णरूपविनाशिनीम् । जरां वर्षसहस्रं वै यौवनं स्वं ददस्व मे ॥ ४६ पूर्णे वर्षसहस्रे ते प्रतिदास्यामि यौवनम् । स्वं चाऽऽदास्यामि भूयोऽहं पाप्मानं जरया सह ॥ ४७

द्रुह्य उवाच- न गजं न रथं नाश्वं जीर्णो भुङ्क्ते न च स्त्रियम् । न सङ्गश्वास्य भवति न जरां तेन कामये ॥ ४८

ययातिरुवाच- यस्त्वं मे हृदयाज्जातो वयः स्वं न प्रयच्छसि । तस्माद्द्रुह्यो प्रियः कामो न ते संपत्स्यते क्वचित् ॥ नौप्लवोत्तरसंचारस्तत्र नित्यं भविष्यति । अराजभ्राजवंशस्त्वं तत्र नित्यं भविष्यसि ॥ ५०


* धनुश्चिह्नान्तर्गतग्रन्थः क. पुस्तके नास्ति ।

[अ० ९३ श्लो० ५१-७५] वायुपुराणम् । ३३९ (चंद्रवंशवर्णनम)

अनो त्वं प्रतिपद्यस्व पाप्मानं जरया सह । एवं वर्षसहस्रं तु चरेयं यौवनेन ते ॥ ५१ अनुरुवाच-- जीर्णः शिशुरहं तात जरया ह्यशुचिः सदा । न भजामि महाराज तां जरां नाभिकामये ॥ ५२ ययातिरुवाच-- यस्त्वं मे हृदयाज्जातो वयः स्वं न प्रयच्छसि । जरादोषस्तवयोकोऽयं तस्मात्ते प्रतिपत्स्यते ॥ ५३ प्रजा च यौवनं प्राप्ता विनाशिष्यत्यतस्तव । अभिम्रस्कन्दनपरस्त्वं चाप्येव भविष्यसि ॥ ५४ पुरो त्वं प्रतिपद्यस्व पाप्मानं जरया सह । जरावली च मां तात पलितानि च पर्यगुः ॥ ५५ काव्यस्योशनसः शापान्न च तृप्तोऽस्मि यौवने । कंचित्कालं चरेयं वै विषयान्वयसा तव ॥ ५६ पूर्णे वर्षसहस्रे ते प्रतिदास्यामि यौवनम् । स्वं चैव प्रतिपत्स्यामि पाप्मानं जरया सह ॥ ५७ सूत उवाच-- एवमुक्तः प्रत्युवाच पुत्रः पितरमञ्जसा । यथाऽनुमन्यसे तात करिष्यामि तथैव च ॥ ५८ प्रतिपत्स्यामि ते राजन्पाप्मानं जरया सह । गृहाण यौवनं मत्तश्चर कामान्यथेप्सितान् ॥ ५९ जरयाऽहं प्रतिच्छन्नो वयोरूपधरस्तव । यौवनं भवते दत्त्वा चरिष्यामि यथार्थवत् ॥ ६० ययातिरुवाच-- पुरो प्रीतोऽस्मि भद्रं ते प्रीतश्चेदं ददामि ते । सर्वकामसमृद्धा ते प्रजा राज्ये भविष्यति + ॥ ६१ सूत उवाच-- पुरोरनुमतो राजा ययातिः स्वां जरां ततः । संक्रामयामास तदा प्रसादाद्भार्गवस्य तु ॥ ६२ यौवनेनाथ वयसा ययातिर्नहुषात्मजः । प्रीतियुक्तो नरश्रेष्ठश्चार विषयान्स्वकान् ॥ ६३ यथाकामं यथोत्साहं यथाकालं यथासुखम् । धर्माविरोधाद्राजेन्द्रो यथाऽर्हति स एव हि ॥ ६४ देवानतर्पयद्यज्ञैः पितृञ्छ्राद्धैस्तथैव च । दीनांश्चानुग्रहैरिष्टैः कामैश्च द्विजसत्तमान् ॥ ६५ अतिथीन्नन्नपानैश्च वैश्यांश्च परिपालनैः । आनृशंस्येन शूद्रांश्च दस्युन्सन्नियहेण च ॥ ६६ धर्मेण च प्रजाः सर्वा यथावदनुरञ्जयन् । ययातिः पालयामास साक्षादिन्द्र इवापरः ॥ ६७ स राजा सिंहविक्रान्तो युवा विषयगोचरः । अविरोधेन धर्मस्य चचार सुखमुत्तमम् ॥ ६८ स मार्गमाणः कामाना मन्तदोषनिदर्शनात् । विश्वाच्या सहितो रेमे वैभ्राजे नन्दने वने ॥ ६९ अपश्यत्तत्स यदा तां वै वर्धमानां नृपस्पृहा । गत्वा पुरोः सकाशं वै स्वं जरां प्रत्यपद्यत ॥ ७० स संप्राप्य तु तान्कामांस्तृप्तः खिन्नश्च पार्थिवः । कालं वर्षसहस्रं वै सस्मार मनुजाधिपः ॥ ७१ परिसंख्याय कालं च कलाकाष्ठास्तथैव च । पूर्णं मत्वा ततः कालं पुरुं पुत्रमुवाच ह ॥ ७२ यथासुखं यथोत्साहं यथाकालमरिंदम । सेविता विषयाः पुत्र यौवनेन मया तव ॥ ७३ पुरो प्रीतोऽस्मि भद्रं ते गृहाण त्वं स्वयौवनम् । राज्यं च त्वं गृहाणेदं त्वं हि मे प्रियकृत्सुतः ॥ प्रतिपेदे जरां राजा ययातिर्नहुषात्मजः । यौवनं प्रतिपेदे च पुरुः स्वं पुनरात्मनः ॥ ७५

+ अत्राध्यायसमाप्तिः ख. पुस्तके ।

३४० श्रीमद्वैपायनमुनिप्रणीतम्- [अ०१३श्लो०७६-१०१] ( चंद्रवंशवर्णनम् )

अभिषेक्तुकामं च नृपं पुरुं पुत्रं कनीयसम् । ब्राह्मणप्रमुखा वर्णा इदं वचनमब्रुवन् ॥ ७६ कथं शुक्रस्य नप्तारं देवयान्याः सुतं प्रभो । श्रेष्ठं यदुमतिक्रम्य पुरो राज्यं प्रदास्यसि ॥ ७७ यदुर्ज्येष्ठस्तव सुतो जातस्तमनु तुर्वसुः । शर्मिष्ठाया सुतो द्रुह्यस्ततोऽनुः पुरुरेव च ॥ ७८ कथं ज्येष्ठानतिक्रम्य कनीयान्राज्यमर्हति । धर्मतो बोधयामि त्वां धर्मं समनुपालय ॥ ७९ ययाति रुवाच-- ब्राह्मणप्रमुखा वर्णाः सर्वे शृण्वन्तु मे वचः । ज्येष्ठं प्रति यथा राज्यं न देयं न कथंचन ॥ ८० मातापित्रोर्वचनकृद्धितपुत्रः प्रशस्यते । मम ज्येष्ठेन यदुना नियोगो नानुपालितः ॥ ८१ प्रतिकूलः पितुर्यश्च न स पुत्रः सतां मतः । स पुत्रः पुत्रवद्यश्च वर्तते पितृमातृषु ॥ ८२ यदुनाऽहमवज्ञातस्तथा सर्वसुनाऽपि च । द्रुह्येण चानुना चैवमप्यवज्ञा कृता भृशम् ॥ ८३ पुरुणा तु कृतं वाक्यं मानितश्च विशेषतः । कनीयान्मम दायादो जरा येन धृता मम ॥ सर्वकामः सर्वकृतः पुरुणा पुत्रकारिणा ॥ ८४ शुक्रेण च वरो दत्तः काव्येनोशनसा स्वयम् । पुत्रो यस्त्वाऽनुवर्तेत स राजा ते महामते ॥ ८५ भवतोऽनुमतोऽप्येवं पुरु राज्येऽभिषिच्यताम् । यः पुत्रो गुणसंपन्नो मातापित्रोर्हितः सदा ॥ सर्वमर्हति कल्याणं कनीयानपि स प्रभुः ॥ ८६ अर्हः पुरुरिदं राज्यं यः प्रियः प्रियकृत्तव । वरदानेन शुक्रस्य न शक्यं वक्तुमुत्तरम् ॥ ८७ पौरजानपदैस्तुष्टैरित्युक्तो नाहूषस्तदा । अभिषिच्य ततः पुरुं स्वराज्ये सुतमात्मनः ॥ ८८ दिशि दक्षिणपूर्वस्यां तुर्वसुं तु न्यवेशयत् । दक्षिणापरतो राजा यदुं श्रेष्ठं न्यवेशयत् ॥ ८९ प्रतीच्यामुत्तरस्यां च द्रुह्यं चानुं च तावुभौ । सप्तदीपां ययातिस्तु जित्वा पृथिवीं ससागराम् ॥ व्यभजत्पञ्चधा राजा पुत्रेभ्यो नाहूषस्तदा ॥ ९० तैरियं पृथिवी सर्वा सप्तदीपा सपत्तना । यथाप्रदेशं धर्मज्ञैर्धर्मेण प्रतिपाल्यते ॥ ९१ एवं विभज्य पृथिवीं पुत्रेभ्यो नाहूषस्तदा । पुत्रसंक्रमितश्रीस्तु प्रीतिमानभवन्नृपः ॥ ९२ धनुर्न्यस्य पृषत्कांश्च राज्यं चैव सुतेषु तु । प्रीतिमानभवद्राजा भारमावेश्य बन्धुषु ॥ ९३ अत्र गाथा महाराज्ञा पुरा गीता ययातिना । योऽभिपत्याहरन्कामान्कूर्मोऽङ्गानीव सर्वशः ॥ ९४ न जातु कामः कामानामुपभोगेन शाम्यति । हविषा कृष्णवर्त्मव भूय एवाभिवर्धते ॥ ९५ यत्पृथिव्यां व्रीहियवं हिरण्यं पशवः स्त्रियः । नालमेकस्य तत्सर्वमिति पश्यन्न मुह्यति ॥ ९६ यदा तु कुरुते भावं सर्वभूतेषु पावकम् । कर्मणा मनसा वाचा ब्रह्म संपद्यते तदा ॥ ९७ यदा परान्न बिभेति यदा त्वस्मान्न बिभ्यति । यदा नेच्छति न द्वेष्टि ब्रह्म संपद्यते तदा ॥ ९८ या दुस्त्यजा दुर्मतिभिर्या न जीर्यति जीर्यतः । दोषः प्राणान्तिको राजस्तां तृष्णां त्यजतः सुखम् ॥ जीर्यन्ति जीर्यतः केशा दन्ता जीर्यन्ति जीर्यतः । जीविताशा धनाशा च जीर्यतोऽपि न जीर्यति ॥ यच्च कामसुखं लोके यच्च दिव्यं महत्सुखम् । तृष्णाक्षयसुखस्यैतत्कलां नार्हति षोडशीम् ॥ १०१

[अ० ९३-९४ श्लो० १०२-१०४।१-२०] वायुपुराणम् । ३४१ (कार्तवीर्योत्पत्तिकथनम्) एवमुक्त्वा स राजर्षिः सदारः प्रस्थितो वनम् । भृगुतुङ्गे तपस्तप्त्वा तत्रैव च महायशाः ॥ पालयित्वा व्रतशतं तत्रैव स्वर्गमा(पवान्)मुयात् ॥ १०२ तस्य वंशास्तु पञ्चैते पुण्या देवर्षिसत्कृताः । यैर्व्याप्ता पृथिवी कृत्स्ना सूर्यस्येव गभास्तिभिः ॥ १०३ धन्यः प्रजावानायुष्मान्कीर्तिमांश्च भवेन्नरः । ययातेश्चरितं सर्वं पठञ्छृण्वन्द्विजोत्तमः ॥ १०४ इति श्रीमहापुराणे वायुप्रोक्ते ययातिप्रसवकीर्तनं नाम त्रिनवतितमोऽध्यायः ॥ ९३ ॥ आदितः श्लोकानां समष्टयङ्काः-८३२८

अथ चतुर्नवतितमोऽध्यायः । कार्तवीर्यार्जुनोत्पत्तिविवरणम् । सूत उवाच-- यदोर्वंशं प्रवक्ष्यामि ज्येष्ठस्योत्तमतेजसः । विस्तरेणाऽऽनुपूर्व्या च गदतो मे निबोधत ॥ १ यदोः पुत्रा बभूवुर्हि पञ्च देवसुतोपमाः । सहस्राजिदथ श्रेष्ठः क्रोष्टुर्नीलो जितो लघुः ॥ २ सहस्राजित्सुतः श्रीमाञ्शतजिन्नाम पार्थिवः । शतजित्सुता विख्यातास्त्रयः परमधार्मिकाः ॥ ३ हैहयश्च हयश्चैव राजा वेणुहयश्च यः । हैहयस्य तु दायादो धर्मतन्त्र इति श्रुतिः ॥ ४ धर्मतन्त्रस्य कीर्तिस्तु संज्ञेयस्तस्य चाऽऽत्मजः । संज्ञेयस्य तु दायादो महिष्मान्नाम पार्थिवः ॥ ५ आसीन्महिष्मतः पुत्रो भद्रश्रेण्यः प्रतापवान् । वाराणस्यधिपो राजा कथितः पूर्व एव हि ॥ ६ भद्रश्रेण्यस्य दायादो दुर्दमदो नाम पार्थिवः । दुर्दमदस्य ततो धीमान्कनको नाम विश्रुतः ॥ ७ कनकस्य तु दायादाश्चत्वारो लोकविश्रुताः । कृतवीर्यः कार्तिवीर्यः कृतवर्मा तथैव च ॥ ८ कृतो जातश्चतुर्थोऽभूत्कृतवीर्यात्ततोऽर्जुनः । जज्ञे बाहुसहस्रेण सप्तद्वीपेश्वरो नृपः ॥ ९ स हि वर्षायुतं तप्त्वा तपः परमदुश्चरम् । दत्तमाराधयामास कार्तवीर्योऽत्रिसंभवम् ॥ १० तस्मै दत्तो वरान्प्रादाच्चतुरो भूरितेजसः । पूर्वं बाहुसहस्रं तु स वव्रे प्रथमं वरम् ॥ ११ अधर्मे दीयमानस्य सद्भिस्तस्मान्निवारणम् । धर्मेण पृथिवीं जित्वा धर्मेणैवानुपालनम् ॥ १२ सङ्ग्रामांस्तु बहूञ्जित्वा हत्वा चारीन्सहस्रशः । सङ्ग्रामे युध्यमानस्य वधः स्यादाधिकाद्रणे ॥ १३ तेनेयं पृथिवी कृत्स्ना सप्तद्वीपा सपत्तना । समोदधिपरिक्षिप्ता क्षात्रेण विधिना जनाः ॥ १४ तस्य बाहुसहस्रं तु युध्यतः किल धीमतः । यौद्धो ध्वजो रथश्चैव प्रादुर्भवति मायया ॥ १५ दश यज्ञसहस्राणि तेषु द्वीपेषु सप्तसु । निरर्गलाः स्म निर्वृत्ताः श्रूयन्ते तस्य धीमतः ॥ १६ सर्वे यज्ञा महाबाहोस्तस्याऽऽसम्भूरितेजसः । सर्वे काञ्चनवेदीकाः सर्वे यूपैश्च काञ्चनैः ॥ १७ सर्वे देवैर्महाभागैर्विमानस्थैरलंकृताः । गन्धर्वरप्सरोभिश्च नित्यमेवोपशोभिताः ॥ १८ तस्य राज्ञो जगौ गाथां गन्धर्वो नारदस्तथा । चरितं तस्य राजर्षेर्महिमानं निरीक्ष्य च ॥ १९ न नूनं कार्तवीर्यस्य गतिं यास्यन्ति मानवाः । यज्ञैर्दानैस्तपोभिश्च विक्रमेण श्रुतेन च ॥ २०

३४२ श्रीमद्वैपायनमुनिप्रणीतम्- [अ० १४ श्लो० २१-४७] (कार्तवीर्योत्पत्तिकथनम्)

द्वीषेषु सप्तसु स वै खड्गी वरशरासनी। रथी राजाऽप्यनुचरोऽन्योऽगाच्चैवानुदृश्यते ॥ २१ अनष्टद्रव्यश्चैवाऽसीन्न शोको न च विभ्रमः। प्रभावेण महाराजः प्रजा धर्मेण रक्षतः ॥ २२ पञ्चाशीतिसहस्राणि वर्षाणां स नराधिपः। स सप्तद्वीपवान्सम्राट् चक्रवर्ती बभूव ह ॥ २३ स एष पशुपालोऽभूत्क्षेत्रपालस्तथैव च। स एव वृष्ट्या पर्जन्यो योगित्वार्जुनोऽभवत् ॥ २४ स वै बाहुसहस्रेण ज्याघातकठिनेन च। भाति रश्मिसहस्रेण शारदेनेव भास्करः ॥ २५ स हि नागसहस्रेण महिष्मत्यां नराधिपः। कर्कोटकसभां जित्वा पुरीं तत्र न्यवेशयत् ॥ २६ स वै वेगं समुद्रस्य प्रावृट्कालाम्बुजेक्षणः। क्रीडाञ्चिव मुखोद्भिग्नः प्रावृट्कालं चकार ह ॥ २७ लुलिता क्रीडता तेन हेमस्स्रग्दाममालिनी। ऊर्मिभेरूकूटिसंन्नादा शङ्किताऽभ्येति नर्मदा ॥ २८ पुरा स तामनुसरन्ववगाढो महार्णवम्। चकारोद्धृत्य वेलान्तं स कालं प्रावृषाद्वनम् ॥ २९ तस्य बाहुसहस्रेण क्षोभ्यमाणे महोदधौ। भवन्ति लीना निश्चेष्टाः पातालस्था महासुराः ॥ ३० चूर्णीकृतमहावीचिलीनमीनमहाविषाः। पतिता विद्धफेनौघमावर्तक्षिप्तदुस्सहम् ॥ ३१ चकार क्षोभयन्न्राजा दोःसहस्रेण सागरम्। देवासुरपरीक्षिप्तं क्षीरोदमिव सागरम् ॥ ३२ मन्दरक्षोभणकृता ह्यमृतोदकशङ्किताः। सहसोत्पादि(टि)ता भीता भीमं दृष्ट्वा नृपोत्तमम् ॥ ३३ नतानिश्चलमूर्धानो बभूवुश्च महोरगाः। सायाह्ने कदलीषण्डा निर्वातस्तिमित्ता इव ॥ ३४ स वै बद्ध्वा धनुर्यान उत्सिक्तः पञ्चाभिः शतैः। लङ्कायां मोहयित्वा तु सबलं रावणं बलात् ॥ निर्जित्य बद्ध्वा चाऽऽनीय माहिष्मत्यां बबन्ध तम् ॥ ३५ ततो गत्वा पुलस्त्यस्तु अर्जुनं च प्रसादयत्। मुमोच राजा पौलस्त्यं पुलस्त्येनानुपालितम् ॥ ३६ तस्य बाहुसहस्रस्य बभूव ज्यातुलस्वनः। युगान्तेऽम्बुदवृक्षस्य स्फुटितस्याशनेरिव ॥ ३७ अहो मृधे महावीर्यं भार्गवो यस्य सोऽच्छिछनत्। मृधे सहस्रं बाहूनां हेमताुलवनं यथा ॥ ३८ तृषितेन कदाचित्स भिक्षितश्चित्रभानुना। सप्त द्वीपांश्चित्रभानोः पादाद्भिक्षां विशां पतिः ॥ ३९ पुराणि घोषान्यामांश्च पत्तनानि च सर्वशः। जज्वल तस्य बाणेषु चित्रभानुर्दिधक्षया ॥ ४० स तस्य पुरुषेन्द्रस्य प्रतापेन महायशाः। पदाह कार्तवीर्यस्य शैलांश्चापि वनानि च ॥ ४१ स शून्यमाश्रमं सर्वं वरुणस्याऽऽत्मजस्य वै। ददाह सवनद्वीपांश्चित्रभानुः सहैहयः ॥ ४२ स लेभे वरुणः पुत्रं पुरा भ्राश्विनमुत्तमम्। वसिष्ठनामा स मुनिः ख्यातं आपव इत्युत ॥ ४३ तत्राऽऽपवस्तदा क्रोधादर्जुनं शमपान्विभुः। यस्मान्न वर्जितमिदं वनं ते मम हैहय ॥ ४४ तस्मात्ते दुष्करं कर्म कृतमन्यो हनिष्यति। अर्जुनो नाम कौन्तेयो न च राजा भविष्यति(?) ॥ ४५ अर्जुन त्वां महावीर्यो रामः प्रहरतां वरः। छित्त्वा वाहुसहस्रं वै प्रमथ्य तरसा बली ॥ ४६ तपस्वी ब्राह्मणश्चैव वधिष्यति महाबलः। तस्य रामस्तदा ह्यासीन्मृगुः शापेन धीमतः ॥ ४७

[अ०९४-९५श्लो०४८ ५६।१-७] वायुपुराणम् । ३४३

( ज्यामघवृत्तकथनम् )
राज्ञा तेन वरश्चैव स्वयमेव वृतः पुरा । तस्य पुत्रशतं ह्यासीत्पञ्च तत्र महारथाः ॥ ४८
कृतास्त्रा बलिनः शूरा धर्मात्मानो यशस्विनः । शूरश्च शूरसेनश्च वृष्टद्याद्यं वृष एव च (?) ॥ ४९
जयध्वजश्च वै पुत्रा अवन्तिषु विशांपतेः । जयध्वजस्य पुत्रस्तु तालजङ्घः प्रतापवान् ॥ ५०
तस्य पुत्रशतं ह्येव तालजङ्घाः इति श्रुतम् । तेषां पञ्च गणाः ख्याता हैहयानां महात्मनाम् ॥ ५१
वीर्होत्रा ह्यसंख्याता भोजाश्चावर्तयस्तथा । तुण्डिकेराश्च विक्रान्तास्तालजङ्घास्तथैव च ॥ ५२
वीरहोत्रसुतश्चापि अनन्तो नाम पार्थिवः । दुर्जयस्तस्य पुत्रस्तु बभूवामित्रदर्शनः ॥ ५३
अनष्टद्रव्यता चैव तस्य राज्ञो बभूव ह । प्रभावेन महाराजः प्रजास्ताः पर्यपालयत् ॥ ५४
न तस्य वित्तनाशश्च नष्टं प्रतिलभेत सः । कार्त्तवीर्यस्य यो जन्म कथयेदिह धीमतः ॥ ५५
वित्तवान्भवतेऽत्रैव धर्मश्चास्य विवर्धते । यथा त्वष्टा यथा दाता तथा स्वर्गे महीयते ॥ ५६

इति महापुराणे वायुप्रोक्ते कार्त्तवीर्यार्जुनोत्पत्तिविवरणं नाम चतुर्नवतितमोऽध्यायः ॥ ९४ ॥

आदितः श्लोकानां समष्ट्यङ्काः—८३८४


अथ पञ्चनवतितमोऽध्यायः ।

ज्यामघव़ृत्तान्तकथनम् ।

ऋषय ऊचुः—
किमर्थं भुवनं दग्धमापवस्य महात्मनः । कार्त्तवीर्येण विक्रम्य तन्नः प्रब्रूहि पृच्छताम् ॥ १
रक्षिता स तु राजर्षिः प्रजानामिति नः श्रुतम् । कथं स रक्षिता भूत्वाऽनाशयत्तत्तपोवनम् ॥ २

सूत उवाच—
आदित्यो विप्ररूपेण कार्त्तवीर्यमुपस्थितः । तृप्तिकामः प्रयच्छान्नमादित्योऽहं न संशयः ॥ ३

राजोवाच—
भगवन्केन ते तृप्तिर्भवेद्ब्रूहि दिवाकर । कीदृशं भोजनं दद्मि श्रुत्वा च विदधाम्यहम् ॥ ४

सूर्य उवाच—
स्थावरं देहि मे सर्वमाहारं ददतां वर । तेन तृप्तो भवेयं वै न तुष्येऽन्येन पार्थिव ॥ ५

राजोवाच—
न शक्यं स्थावरं सर्वं तेजसा मानुषेण तु । निर्दग्धुं तपतां श्रेष्ठ त्वामेव प्रणमाम्यहम् ॥ ६

आदित्य उवाच—
तुष्टस्तेऽहं शरान्दाद्मि अक्षयान्सर्वतः सुखान् । प्रक्षिप्ताः प्रज्वलिष्यन्ति मम तेजःसमन्विताः ॥ ७

३४४श्रीमद्वैपायनमुनिप्रणीतम्—[अ० ९५ श्लो ० ८-३२]
( ज्यामघवृत्तकथनम् )

आदिष्टं तेजसा मेघसागरं शोषयिष्यति । शुष्कं भस्म करिष्यामि तेन प्रीतो नराधिप ॥ ८
ततः शरानथाऽऽदित्यस्त्वर्जुनाय प्रयच्छत । ततः संप्राप्य सुमहत्स्थावरं सर्वमेव हि ॥ ९
आश्रमानथ ग्रामांश्च घोषांश्च नगराणि च । तपोवनानि रम्याणि वनान्युपवनानि च ॥ १०
एवं प्राचीनमदहत्ततः सूर्यप्रदक्षिणम् । निर्वृक्षा निस्तृणा भूमिर्दग्धा सूर्येण तेजसा ॥ ११
एतस्मिन्नेव काले तु आपवो नियमस्थितः । दशवर्षसहस्राणि जलवासा महानृषिः ॥ १२
पूर्णे व्रते महातेजा उदतिष्ठत्तपोधनः । सोऽपश्यदाश्रमं दग्धमर्जुनेन महानृषिः ॥
क्रोधाच्छशाप राजर्षिं कीर्तितं वो यथा मया ॥ १३

सूत उवाच—
क्रोष्टोः शृणुत राजर्षेर्वंशमुत्तमपूरुषम् । अस्यान्ववाये संभूतो वृष्णिर्वृष्णिकुलोद्वहः ॥ १४
क्रोष्टोरेकोऽभवत्पुत्रो वृजिनीवान्महायशाः । वार्जिनीवतमितीच्छन्ति स्वाहिं स्वाहावतां वरम् ॥ १५
स्वाहेः पुत्रोऽभवद्राजा रशादुर्द्दतां वरः । सुतं प्रसूतमिच्छन्ति रशादोरन्यमात्मजम् ॥ १६
महाक्रतुभिरीज्ये स विविधैराप्तदक्षिणैः । चित्रैश्चित्ररथस्तस्य पुत्रकर्मभिरन्वितः ॥ १७
एवं चित्ररथो वीरो यज्ञान्विपुलदक्षिणान् । शशबिन्दुः परं वृत्तो राजर्षीणामनुष्ठितः ॥ १८
चक्रवर्ती महासत्त्वो महावीर्यो बहुप्रजः । तत्रानुवंशश्लोकोऽयं यस्मिन्गीतः पुराविदैः ॥ १९
शशबिन्दोऽस्तु पुत्राणां शतानामभवच्छतम् । धीमतामनुरूपाणां भूरिद्रविणतेजसाम् ॥ २०
तेषां षट् च प्रधानास्तु पृथुसाह्या महाबलाः । पृथुश्रवाः पृथुयशाः पृथुधर्मा पृथुंजयः ॥ २१
पृथुकीर्तिः पृथुंदाता राजानः शशबिन्दवः । शंसन्ति च पुराणानि पार्थश्रवसमन्तरम् ॥
अन्तरः स पुरा यस्तु यज्ञस्य तनयोऽभवत् ॥ २२
उशना सेतु धर्मात्मा अवाप्य पृथिवीमिमाम् । आजहाराश्वमेधानां शतमुत्तमधार्मिकः ॥ २३
मरुत्तस्तस्य तनयो राजर्षीणामनुष्ठितः । वीरः कम्बलवर्हिस्तु मरुत्ततनयः स्मृतः ॥ २४
पुत्रस्तु रुक्मकवचो विद्वान्कम्बलवार्हिषः । निहत्य रुक्मकवचः पुरा कवचिनो रणे ॥ २५
धन्विनो निशितैर्बाणैरवाप श्रियमुत्तमाम् । ब्राह्मणेभ्यो ददौ वित्तमश्वमेधे महायशाः ॥ २६
राज्ञस्तु रुक्मकवचादपरावृत्य वीरहाः । जज्ञिरे पञ्च पुत्रास्तु महासत्त्वा महाबलाः ॥ २७
रुक्मेषु पृथुरुक्मश्च ज्यामघः परिवो हरिः । परिवं च हरिं चैव विदेहेऽस्थापयत्पिता ॥ २८
ऋलेषुरभवद्राजा पृथुरुक्मस्तदाश्रयः । तेभ्यः प्रव्राजितो राज्याज्ज्यामेघोऽभवदाश्रते ॥ २९
प्रशान्तस्तु वने घोरे ब्राह्मणेनावबोधितः । जगाम धनुरादाय देशमध्यं रथी ध्वजी ॥ ३०
नर्मदानूप एकाकी मेकलावृत्तिका अपि । ऋक्षवन्तं गिरिं गत्वा शुक्तिमत्यामथाविशत् ॥ ३१
ज्यामघस्याभवद्भार्या सैब्या बलवती भृशम् । अपुत्रोऽपि स वै राजा भार्यामन्यां न विन्दति ॥ ३२

[अ०९५-९६श्लो०३३-४८।१-४] वायुपुराणम् ३४५ ( विष्णुवंशवर्णनम् )

तस्याऽऽसीद्विज्यो युद्धे ततः कन्यामवाप सः। भार्यामुवाच राजा स स्नुषेति तु नरेश्वरः॥ ३३ एवमुक्ताऽब्रवीदेनं कस्येयं ते स्नुषेति सा। यस्ते जनिष्यते पुत्रस्तस्य भार्या भविष्यति॥ ३४ तस्य सा तपसोग्रेण सैव्या वैशं प्रसूयत। पुत्रं विदर्भं सुभगा सैव्या परिणता सती॥ ३५ राजपुत्रौ तु विद्वांसौ स्नुषायां क्रथकौशिकौ। पुत्रौ विदर्भोऽजनयच्छूरौ रणविशारदौ॥ ३६ लोमपादं तृतीयं तु पश्चाज्जज्ञे सुधार्मिकम्। लोमपादात्मजो वस्तुराहतितस्तस्य चाऽऽत्मजः॥ ३७ कौशिकस्य चिदिः पुत्रस्तस्माच्चैद्या नृपाः स्मृताः। क्रथो विदर्भपुत्रस्तु कुन्तिस्तस्याऽऽत्मजोऽभवत् कुन्तेर्धृष्टसुतो जज्ञे पुरो धृष्टः प्रतापवान्। धृष्टस्य पुत्रो धर्मात्मा निर्वृतिः परवीरहा॥ ३९ तस्य पुत्रो दशार्हस्तु महाबलपराक्रमः। दशार्हस्य सुतो व्योमा ततो जीमूत उच्यते॥ ४० जीमूतपुत्रो विकृतिस्तस्य भीमरथः सुतः। अथ भीमरथस्याऽऽसीत्पुत्रो रथवरः किल॥ ४१ दाता धर्मरतो नित्यं सत्यशीलपरायणः। तस्य पुत्रो नवरथस्ततो दशरथः स्मृतः॥ ४२ तस्य चैकादशरथः शकुनिस्तस्य चाऽऽत्मजः। तस्मात्करम्भको धन्वी देवरातोऽभवत्ततः॥ ४३ देवक्षत्रोऽभवद्राजा देवरातिर्महाशयाः। देवक्षत्रसुतो जज्ञे देवनः क्षत्रनन्दनः॥ ४४ देवनात्स मधुर्र्जज्ञे यस्य मेघार्थसंभवः। मधोश्चापि महातेजा मनुर्मनुवशस्तथा॥ ४५ नन्दनश्च महातेजा महापुरुवशस्तथा। आसीत्पुरुवशात्पुत्रः पुरुद्वान्पुरुषोत्तमः॥ ४६. जज्ञे पुरुद्वतः पुत्रो भद्रवत्यां पुरूद्वहः। ऐक्ष्वाकी त्वभवद्भार्या सत्त्वस्तस्यामजायत॥ सत्त्वात्सत्त्वगुणोपेतः सात्त्वतः कीर्तिवर्धनः॥ ४७ इमां विसृष्टिं विज्ञाय ज्यामघस्य महात्मनः। प्रजावानेति सायुज्यं राज्ञः सोमस्य धीमतः॥ ४८

इति श्रीमहापुराणे वायुप्रोक्ते ज्यामघवॄत्तान्तकथनं नाम पञ्चनवतितमोऽध्यायः॥९५॥ आदितः श्लोकानां समष्ट्यङ्काः—८४३२


अथ षण्णवतितमोऽध्यायः।

विष्णुवंशवर्णनम्।

सूत उवाच— सात्वती रूपसंपन्ना कौशल्या सुषुवे सुतान्। भजिनं भजमानं च दिव्यं देवावृधं नृपम्॥ १ अन्धकं च महाभोजं वृष्णिं च यदुनन्दनम्। तेषां हि सर्गाश्चत्वारः शृणुध्वं विस्तरेण वै॥ २ भजमानस्य शृङ्गय्यां बाह्यश्चोपरि बाह्यकः। शृङ्गपस्य सुते द्वे तु बाह्यकस्ते उदावहत्॥ ३ अस्य भार्ये भगिन्यौ ते प्रसूतेति सुतान्बहून्। निमिश्व पणवश्चैव वृष्णिः परपुरंजयः॥ ४

४४