भारतकोश
संग्रह पर लौटें

वेणीसंहारम् (भट्ट नारायण - संस्कृत मूल एवं सान्वय हिन्दी व्याख्या)

Venisamhara Nataka of Bhatta Narayana with Commentary

भट्ट नारायण द्वारा

DevanagariHindipublished355 पृष्ठ

द्वितीयोऽङ्कः ] प्रबोधिनी-प्रकाशद्वयोपेतम् ४५ सर्वत्र स्खलितेषु दत्तमनसा जातं तथा नोद्धतं सेवान्धीकृतजीवितस्य जरसा किं नाम यन्मे कृतम् ॥ १ ॥ ( परिक्रम्य दृष्ट्वा आकाशे ।) विहङ्गिके, अपि श्वश्रूजनपादवन्दनं कृत्वा प्रतिनिवृत्ता भानुमती । (कर्णं दत्त्वा ।) किं कथयसि-आर्य, एषा भानुमती देवी पत्युः समरविजयाशंसया निर्वर्तितगुरुजनपादवन्दनाऽद्य- प्रभृत्यारब्धनियमा देवगृहे बालोद्याने तिष्ठतीति । तद्भद्रे, गच्छ त्वमात्म- व्यापाराय यावदहमप्यत्रस्थां देवीं महाराजस्य निवेदयामीति । (परिक्रम्य) दत्तमनसा = दत्तं मनः येन तेन, उद्धतं यथा स्यात्तथा, न जातम् = न भूतम्, गमने औद्धत्यं न कर्तव्यमिति भावः । तथा च सेवान्धीकृतजीवितस्य = सेवया अन्धीकृतम् व्यर्थीकृतं जीवनं येन तस्य, मे = मम, यत् मदीयञ्जाद्यं, तत्, जरसा = वार्द्धक्येन, किन्नाम कृतम्, न किमपीत्यर्थः । जरा नोपालम्भनीयेति भावः । अत्र चक्षुरादिकारणानां सत्त्वेऽपि दर्शनसामर्थ्यादिकार्याणामभावाद्विशेषोक्त्यः । तथा पूर्वोक्तदर्शनसामर्थ्याभावादिकार्याणां हेतोः सेवान्धीकृतजीवितस्येत्येतत्पदार्थत्वेन काव्यलिङ्गम् । शार्दूलविक्रीडितं छन्दः ॥ १ ॥ आकाश इति-पात्रं विनानुक्तमपि विषयं श्रुत्वेव किं कथयसीत्यर्थकं वाक्यं यदुच्यते तदाकाशवचनं कथ्यत इति भावः । तथा चात्र विहङ्गिकाया अभावेऽपि तयोक्तं मत्वा स्वयमेव प्रश्नोत्तरे करोति कञ्चुकी । कञ्चुकी पृच्छति-विहङ्गिक इति । विहङ्गिका काचित् तन्नामिका परिचारिका । प्रतिनिवृत्ता = समागता, भानुमती = दुर्योधनस्त्री । पत्युः = स्वामिनो दुर्योध- नस्य, समरविजयाशंसया = सङ्ग्रामजयेच्छया, निर्वर्तितगुरुजनपादवन्दना = सम्पा- दितश्रेष्ठजनप्रणामा, अद्यप्रभृति = अद्यारभ्य, आरब्धनियमा = उपक्रान्तव्रता, देव- गृहे = देवस्य गृहं यस्मिन् तस्मिन् , बालोद्याने = नूतनक्रीडास्थाने, तिष्ठतीति । तत् = तस्मात् भद्रे = साध्वि । आत्मव्यापाराय = स्वकार्याय । अत्रस्थाम् = उद्यान- स्थाम्, देवीं = भानुमतीम्, महाराजस्य = दुर्योधनस्य । किमिति = वलवत्त्वन्तु रहते हैं; त्रुटि होने के सभी स्थानों से सावधान रहते हैं। अतः मैं भी फूँक-फूँक कर चलता हूँ, इसमें बुढ़ापे का क्या दोष है ॥ १ ॥ (घूमकर देखता है, फिर आकाश की ओर ) विहङ्गिके ! क्या भानुमती अपनी सासु के चरणों में वन्दना करके लौट आई ? ( कान लगाकर ) क्या कहते हो ? - आर्य्य, यह देवी भानुमती अपने पतिदेव के संग्राम में विजय प्राप्त करने की अभिलाषा से गुरुजनों के चरणों की बन्दना करके लौट आई हैं, और आज से व्रत का संकल्प करके देवमन्दिर की

४६ वेणीसंहारं नाटकं

साधु पतिव्रते, साधु, स्त्रीभावेऽपि वर्तमाना वरं भवती न पुनर्महाराजः। योऽयमुद्यतेषु बलवत्सु अथवा किंवलवत्सु वासुदेवसहायेषु पाण्डुपुत्रेष्व- रिष्वद्याप्यन्तःपुरविहारसुखमनुभवति । ( विचिन्त्य । ) इदमपरमयथातथं स्वामिनश्चेष्टितम् । कुतः— आ शस्त्रग्रहणादकुण्ठपरशोस्तस्यापि जेता मुने- स्तापायास्य न पाण्डुसूनुभिरयं भीष्मः शरैः शायितः . प्रौढानेकधनुर्धरारिविजयश्रान्तस्य चैकाकिनो नास्ति किन्तु वासुदेवसहायत्वमेव महद्वलमित्यर्थः । वासुदेवेति—वासुदेवसहायेष्वित्यनेन पाण्डुपुत्रेषु दुर्जेयवैरित्वं सूचयति । अन्वयः -- आ अस्त्रग्रहणात्, अकुण्ठपरशोः, तस्य, मुनेः अपि, जेता, अयम्, भीष्मः, पाण्डुसूनुभिः शरैः, शायितः, ( तत् ) अस्य, तापाय, न, ( किन्तु ) प्रौढा- नेकधनुर्धरारिविजयश्रान्तस्य, एकाकिनः, अरातिलूनधनुषः, च, वालस्य, अभिमन्योः, वधात्, प्रीतः ( अस्ति ) ॥ २ ॥ अयथातथकारणमाह—आ शस्त्रग्रहणादिति । आ शस्त्रग्रहणात् = शस्त्रग्रहणम- भिव्याप्य, अकुण्ठपरशोः = सफलकुठारस्य, तस्य = प्रसिद्धस्य, मुनेः = परशु- रामस्य, अपि, जेता = जयकर्ता, अयम्, भीष्मः = गङ्गातनयः, पाण्डुसूनुभिः, शरैः = वाणैः, शायितः = स्वापितः, पातित इत्यर्थः । यः खलु परशुरामस्य जेता भीष्मः सोऽपि पाण्डुपुत्रैः पातित इति भावः । तत्, अध्याहारस्तत्तदस्य। अस्य = मत्स्वामिनो दुर्योधनस्य, तापाय = दुःखाय, न, किन्तु प्रौढानेकधनुर्धरारिविजयश्रा- न्तस्य = प्रौढाश्च ते अनेकधनुर्धरा इति प्रौढानेकधनुर्धराः ते च अरयः तेषां विजयेन श्रान्तस्य, एकाकिनः = असहायस्य, अरातिलूनधनुषः = अरातिना शत्रुना लूनं धनुः क्रीडावाटिका में ठहरी हुई हैं। अतः कल्याणि, जाओ, अपने कार्य में लग जाओ, तब तक मैं भी यहाँ वाटिकास्थ महारानी को सूचना दे दूँ । ( घूमकर ) धन्य ! पतिव्रतपरायणे धन्य !! आप स्त्री होकर भी अच्छी हैं, महाराज नहीं, क्योंकि इनके शत्रु पाण्डव शिर पर खड़े हैं चाहे वह प्रबल हों चाहे निर्बल, हैं तो शत्रु ! उनकी सहायता भगवान् वासुदेव कर रहे हैं, तो भी महाराज रनिवास के सुख में भूले हुए हैं ( समझ-बूझकर ) और भी एक दूसरा अनुचित कार्य हैं जिसे महाराज कर रहे हैं। क्योंकि— परशुराम सदृश वीर मुनि के, जिनका कुठार कभी कुण्ठित नहीं हुआ, विजेता भीष्म- पितामह को पाण्डुकुमारों ने बाणवर्षा कर धराशायी बना दिया यह भी महाराज को लेशमात्र भी चिन्तित नहीं करता है और असहाय बालक अभिमन्यु के जिसके धनुष को

द्वितीयोऽङ्कः ] प्रबोधिनी-प्रकाशद्वयोपेतम् ४७ बालस्यायमरातिलूनधनुषः प्रीतोऽभिमन्योर्वधात् ॥ २ ॥ सर्वथा दैवं नः स्वस्ति करिष्यति तद्यावदवस्थां देवीं महाराजस्य निवेदयामि । ( इति निष्क्रान्तः । ) विष्कम्भकः । ( ततः प्रविशत्यासनस्था देवी भानुमती, सखी चेटी च । ) सखी—सहि भाणुमदि, कीस दाणि तुमं सिविणअ दंसणमेत्तस्स किदे अहिमाणिणो महाराअदुज्जोहणस्स महिसी अविअ एव्वं विअलिअधीर- यस्य तस्य, अत्र धनुषश्चेति प्राप्तसङोऽभावस्तु समासान्तविधेरनित्यत्वादेव । च, बालस्य=अल्पवयस्कस्य, अभिमन्योः = अर्जुनपुत्रस्य, वधात् = हननात्, अयं = दुर्योधनः, प्रीतः=प्रसन्नः, अस्तीति शेषः । पराक्रमिणो भीष्मस्य पातनाद् दुःख- स्थानेऽपि दुःखाभावः बहुभिर्महारथिमिलित्वाऽसहायस्याभिमन्योर्वधात् हर्षस्थाना- भावेऽपि हर्ष इति ध्वनितमनेन श्लोकेन । अत्र भीष्मपातनरूपतापकारणस्य सत्त्वे- ऽपि तापरूपकार्याभावाद् विशेषोक्तिरलङ्कारः । तथोत्तरार्द्धे बालस्य बहुकर्तृकवधेन हर्षकारणाभावेपि हर्षरूपकार्यस्य सत्त्वाद्विभावनालंकारः । शार्दूलविक्रीडितं छन्दः । लक्षणमुक्तं प्रथमश्लोके ॥ २ ॥ दैवं=भाग्यम्, नः=अस्माकम्, स्वस्ति = मङ्गलं करिष्यतीत्यन्वयः । विष्कम्भक इति । भूतस्य भीष्माभिमन्युवधस्य भविष्यतोऽन्तःपुरविहारस्य च सूचनादस्य विष्कम्भकत्वं तदुक्तम्— वृत्तवर्तिष्यमाणानां कथांशानां निदर्शकः । सङ्क्षिप्तार्थस्तु विष्कम्भ आदावंकस्य दर्शितः ॥ इति । अयं शुद्ध एव विष्कम्भः, तदुक्तम्— मध्येन मध्यमाभ्यां वा पात्राभ्यां सम्प्रयोजितः । शुद्धः स्यादिति । सेनापतिवधवर्णनेऽपि न विष्कम्भकत्वहानिः विष्कम्भकेऽधिकारिणः एव वध वर्णननिषेधात् । तदुक्तं दर्पणे—विष्कम्भकाद्यैरपि न वधो वाच्योऽधिकारिणः । इति । शत्रुओं ने काट डाला था और अनेक युवा धनुर्धर शत्रुओं पर विजय प्राप्त करने से थका हुआ था, वधसे महाराज प्रसन्न हैं ॥ १ ॥ भगवान् सब तरह से कुशल करेंगे । तब तक यहाँ ठहरी हुई महारानी की सूचना महाराज को दे दें ( निकल पड़ता है ) । ( विष्कम्भक ) ( सखियों और चेटियों के साथ भानुमती देवी का प्रवेश ) सखी—सखि, भानुमति, क्या कारण है कि तुम मानी महाराज दुर्योधन की स्त्री

भावा अतिमेत्तं संतप्पसि ! (सखि भानुमति, कस्मादिदानीं त्वं स्वप्नदर्शनमात्रस्य कृतेऽभिमानिनो महाराजदुर्योधनस्य महिषी भूत्वैवंविगलितधीरभावातिमात्रं संतप्यसे ) चेटी-भट्टिणि, सोहणं भणादि सुवअणा । सिविणअन्तो जणा किं ण क्खु प्पलवदि ! ( भट्टिनि, शोभनं भणति सुवदना । स्वप्नञ्जनः किं न खलु प्रलपति । ) भानुमती—हज्जे, एव्वं णेदं । किणु एदं सिविणं अदिमेत्तं अकुसल- दंसणं मे पडिभादि । ( हञ्जे, एवमेतत् । किन्त्वयं स्वप्नोऽतिमात्रमकुशलदर्शनो मे प्रतिभाति । ) सखी—जइ एव्वं ता कहेदु पिअसही जेण अह्मॆवि पडिट्ठावअन्ती- आ प्पसंसाए देवदासकित्तणेण अ पडिहडिस्सामा । ( यद्येवं तत्कथयतु प्रियसखी । येनावामपि प्रतिष्ठापयन्त्यौ प्रशंसया देवतासङ्कीर्तनेन च परिहरिष्यावः ) सखी, दृष्टाशुभसूचकस्वप्नां भानुमतीं सम्यक् तोषयति—सखि भानुमतीति । स्वप्नदर्शनमात्रस्य कृते = स्वप्नावलोकनमात्रहेतुना । अभिमानिन इत्यनेन तस्या न कोऽपि किमपि कर्तुं शक्नोतीति सूचितम् । महिषी=कृताभिषेका स्त्री । एतेन त्वयि गरीयान् स्नेह इति सूचितम् । एवमिति सन्तप्यस इत्यनेनान्वेति । विगलित- धीरभावा=विगलितः शिथिलः धीरभावः धैर्यं यस्याः सा, अतिमात्रम् = भृशम् , ‘अतिवेलभृशात्यर्थातिमात्रोद्गाढनिर्भरमि’त्यमरः । सन्तप्यसे = दुःखिता भवसि । सुवदना = एतन्नामिका सखी, शोभनं = सुष्ठु, भणति = कथयति । स्वप्नम् = शयानः । प्रलपति=असम्बद्धं वचो वदति । हञ्जे इति चेटीम्प्रत्याह्वाने प्रयुज्यते, ‘हण्डे हञ्जे हलाऽह्वाने नीचां चेटीं सखी प्रति’ इत्यमरः । अकुशलं दर्शयतीति अकुशलदर्शनः ‘नन्दिग्रहिपचादिभ्यः’ इति ल्युप्रत्ययः । प्रतिभाति = अवगतो भवति । एवम् = अकुशलदर्शनः । प्रियसखी = भानुमती । आवाम् = सखीचेटीच्यो, अपि प्रतिष्ठापयन्त्यौ = अशुभस्वप्नं शुभं कुर्वत्यौ, प्रशंसया = पूजया, देवतासङ्कीर्तनेन = देवस्तुत्या । परिहरिष्यावः = निवर्तयिष्यावः । होकर केवल स्वप्न देखने से धैर्यच्युत होकर अत्यन्त संतप्त हो रही हो । चेटी—स्वामिनि सुवदना ठीक कहती है, सोयाहुआ व्यक्ति क्या-क्या नहीं बक जाता ? भानुमती—अरी, यह ठीक है परंतु यह स्वप्नदर्शन तो मुझे अमंगलकारी प्रतीत हो रहा है । सखी—प्रियसखि, यदि ऐसा है तो उस स्वप्न को कहिये जिससे हम लोग भी धार्मिक कथाओं से, देवताओं के नाम लेने से और दूब इत्यादि मांगलिक वस्तुओं के स्पर्श से शान्ति करेंगी ।

द्वितीयोऽङ्कः ] प्रबोधिनी-प्रकाशद्वयोपेतम् चेटी—देवि एवं णेदं । अकुसलदंसणावि । सिविणआप्पसंसाए कुशल- परिणामा होन्ति त्ति सुणीयदि । (देवि, एवमेतत् । अकुशलदर्शना अपि स्वप्नाः प्रशंसया कुशलपरिणामा भवन्तीति श्रूयते । ) भानुमती—जइ एवं ता कहइस्सम् । अवहिदा होध ( यद्येवं तत्कथ- यिष्ये । अवहिते भवतम् । ) सखी—कहेदु पिअसही ( कथयतु प्रियसखी । ) भानुमती—मुहुत्तं चिट्ठ जाव सव्वं सुमरिस्सम् । ( इति चिन्तां नाटयति । ) ( मुहूर्तं तिष्ठ यावत्सर्वं स्मरिष्यामि । ) ( ततः प्रविशति दुर्योधनः कञ्चुकी च । ) दुर्योधनः—सूक्तमिदं कस्यचित् । गुप्त्या साक्षान्महानल्पः स्वयमन्येन वा कृतः । कुशलपरिणामाः = कुशलस्वरूपाः, कुशलदायिन इत्यर्थः । अवहिते = सावधाने, द्विवचनान्तमिदम् । मुहूर्तं = किञ्चित् कालम् । धैर्यावसादात् स्वप्नो विस्मृत इत्यत आह—सर्वं स्मरिष्यामीति । सूक्तं = शोभनोक्तिः भावे क्तप्रत्ययः । अन्वयः—अपकारिणाम् , गुप्त्या, साक्षात्, वा, महान् , अल्पः ( वा ) स्वयम् अन्येन ( वा ) कृतः, अपकारः, महतीम् , प्रीति, करोति ॥ ३ ॥ सूक्तिमेवाह—गुप्त्या साक्षादिति । अपकारिणाम् = शत्रूणां, गुप्त्या = गोपनेन, चेटी—शोभना ठीक कहती है—ऐसा सुना जाता है कि अमङ्गलकारी स्वप्न भी देवताओं के नाम-कीर्तन से कुशल-कारक हो जाते हैं । भानुमती—यदि ऐसा है तो मैं कहती हूँ । पहले सावधान हो जाओ । सखी—हम लोग शान्तचित्त हैं, प्रिय सहेली कहें तो । भानुमती—सखि, भय से भूल गई हों अच्छा तो थोड़ा ठहर जाओ स्मरण करके सब कह रही हूँ । ( दुर्योधन का कञ्चुकी के साथ प्रवेश ) दुर्योधन—किसी ने ठीक कहा है कि— शत्रु के प्रति किया गया अपकार असीम आनन्द का जनक होता है चाहे वह अप्रकट ४ वे०

५० वेणीसंहारं नाटकं करोति महतीं प्रीतिमपकारोऽपकारिणाम् ॥ ३ ॥ येनाद्य द्रोणकर्णजयद्रथादिभिर्हतमभिमन्युमुपश्रुत्य समुच्छ्वसितमिव नश्चेतसा। कञ्चुकी—देव, नैवमतिदुष्करमाचार्यस्य शस्त्रप्रभावात् । कर्णजयद्रथ- योर्वा का नामात्र श्लाघा। राजा—विनयन्धर किमाह भवान् एको बहुभिर्बालो लूनशरासनश्च निहत इत्यत्र का श्लाघा कुरुपुङ्गवानाम् । तदत्र न खलु कश्चिद्दोषः । मूढ, पश्य— साक्षात् = प्रत्यक्षम् , वा, वा इति सर्वत्रान्वेति । महान् = बृहन् , अल्पः = ईषत् , स्वयं = निजेन, अन्येन = परेण, कृतः = सम्पादितः, अपकारः = अपकृतिः, महतीं = अधिकाम् , प्रीति = प्रसन्नताम्, करोति । पथ्यावक्त्रं छन्दः । 'युजोश्चतुर्थतो जेन पथ्यावक्त्रं प्रकीर्तितम्' ॥ ३ ॥ उपश्रुत्य = विज्ञाय, समुच्छ्वसितं = सोच्छ्वासम्, शान्तमित्यर्थः । नैवमिति । नेदमिति पाठः सम्यक् । आचार्यस्य = द्रोणस्य, शस्त्रप्रभावात्, न, इदम् = अभिमन्युहननम्, अतिदुष्करम् = दुःसाध्यमित्यन्वयः । श्लाघा = कत्थनम्, प्रशंसेत्यर्थः । लूनशरासनः = छिन्नधन्वा । दुर्योधनः, काऽत्र श्लाघेति । 'श्रवणमात्रेण कृतापराधः स्वयमेव शङ्कते' इति न्यायात् , कञ्चुकिना, एकाकी बहुभिर्बालो लूनशरासनश्च निहत इति काऽत्र श्लाघा कुरुपुङ्गवानामित्याकारकं वाक्यमुक्तमिति विज्ञाय आह- विनयन्धरेत्यादि । कुरुपुङ्गवानाम् = कौरवश्रेष्ठानाम् । रूप से किया गया हो अथवा प्रकट रूप से, चाहे बड़ा अपकार हो चाहे थोड़ा अथवा चाहे किसी दूसरे व्यक्ति के द्वारा किया गया हो चाहे अपने आप किया गया हो ॥ ३ ॥ जिससे आज द्रोण, कर्ण और जयद्रथ प्रभृति वीरों के द्वारा किये गये अभिमन्युवध को सुन कर हम लोगों के मन में हर्षोद्रेक हो रहा है ( कञ्चुकी—महाराज, द्रोणाचार्य की शस्त्रमहिमा के लिये अथवा कर्ण और जयद्रथ के लिए यह कोई कठिन कार्य नहीं, फिर यह प्रसन्नता कैसी ? राजा—विनयन्धर आपने क्या कहा 'असहाय बालक, जिसका धनुष काट दिया गया था, अनेकों वीरों के द्वारा मारा गया, कौरवशिरोमणियों के लिये प्रसन्नता कैसी ?' इसमें कोई पराध नहीं। देखिये न—

द्वितीयोऽङ्कः ] प्रबोधिनी-प्रकाशद्वयोपेतम् ५१ हते जरति गाङ्गेये पुरस्कृत्य शिखण्डिनम्। या श्लाघा पाण्डुपुत्राणां सैवास्माकं भविष्यति ॥ ४ ॥ कञ्चुकी-( सवैलक्ष्यम् । ) देव, न ममायं सङ्कल्पः । किंतु वः पौरुष- प्रतीघातोऽस्माभिरनालोचितपूर्व इत्यत एवं विज्ञापयामि । राजा - एवमिदम् । सहभृत्यगणं सबान्धवं सहमित्रं ससुतं सहानुजम् । अन्वयः-शिखण्डिनम्, पुरस्कृत्य, जरति, गाङ्गेये, हते (सति) पाण्डुपुत्राणाम्, या श्लाघा, सा एव, अस्माकम्, भविष्यति ॥ ४ ॥ यदि स श्लाघनीयस्तदा वयमपि श्लाघनीया इत्याह--हत इति । शिखण्डिनं = द्रुपदपुत्रम्, पुरस्कृत्य=अग्रे कृत्वा, जरति = वृद्धे, गाङ्गेये=गङ्गा- तनये भीष्म इत्यर्थः । हते=पातिते, सति, पाण्डुपुत्राणाम् = युधिष्ठिरादीनाम्, या श्लाघा=प्रशंसा, सा=श्लाघा, एव, अस्माकम्=धार्तराष्ट्राणाम्, भविष्यति । शिखण्डिनं क्लीवं पुरस्कृत्य, अर्जुनेन भीष्मे बाणप्रहारः कृतः, भीष्मश्च क्लीवस्याग्रे स्थितत्वात् क्लीवोपरि वीरकर्तृकप्रहारस्यानुचितत्वान्न प्रजहार । तथा च यदि न श्लाघनीयः पाण्डुपुत्रः, तदा सप्तभिर्महारथैरभिमन्युवधान्न श्लाघनीया वयमपि यदि तादृशेन कर्मेण स श्लाघनीयस्तदा वयमपि एतादृशेन कार्येण श्लाघनीया इति गूढाभिप्रायः । अत्र सादृश्यप्रदर्शनाभिप्रायकवाक्यकथनात् श्लेवनात्मकं नाटकाङ्ग तदुक्तं दर्पणे-- 'स श्लेषो भण्यते वाक्यं यत्सा दृश्यपुरःसरम् ।।' इति । पथ्यावक्त्रं छन्दः । लक्षणमुक्तं तृतीयश्लोके ॥ ४ ॥ अन्वयः -पाण्डुसुतः, संयुगे, स्वबलेन, न, चिरात्, सहभृत्यगणम् सबान्धवम्, सहमित्रम्, सहानुजम्, ससुतम्, सुयोधनम् निहन्ति ॥ ५ ॥ स्वप्रशंसाश्रवणादहङ्कारेण ज्ञानशून्यो दुर्योधनो विपरीतमाह-सहभृत्यगण- मित्यादि । पाण्डुसुतमिति कर्मपदस्थाने पाण्डुसुतः इति कर्तृपदं प्रयुक्तम् । सुयोधन शिखण्डी को आगे रखकर जराग्रस्त भीष्मपितामह के वध से जो प्रसन्नता पाण्डवों को हुई वह हम लोगों को भी होगी ॥ ४ ॥ कञ्चुकी-( लज्जा का अभिनय करते हुए ) महाराज, आप ऐसी कल्पना न करें क्योंकि हम लोगों से आज तक आपके पुरुषार्थ की विफलता कभी नहीं देखी गई, इसी लिए मैं इस तरह कह रहा हूँ । राजा-उचित कहा- पाण्डुनन्दन अपने पराक्रम से भाई, बन्धु, पुत्र, मित्र तथा नौकर-चाकर के साथ

५२ वेणीसंहारं नाटकं स्वबलेन निहन्ति संयुगे न चिरात्पाण्डुसुतः सुयोधनम् ॥ ५ ॥ कञ्चुकी—(कर्णौ पिधाय । सभयम् ।) शान्तं पापम् । प्रतिहतममङ्गलम् । राजा—विनयन्धर, किं मयोक्तम् ? कञ्चुकी— सहभृत्यगणं सबान्धवं सहमित्रं ससुतं सहानुजम् । स्वबलेन निहन्ति संयुगे न चिरात्पाण्डुसुतं सुयोधनः ॥ २ ॥ एतद्विपरीतमभिहितं देवेन । राजा—विनयन्धर, अद्य खलु भानुमती यथापूर्वं मामनामन्त्र्य वास- इति कर्तृपदस्थाने कर्मपदं प्रयुक्तम् । पाण्डुसुतः = युधिष्ठिरः, संयुगे = सङ्ग्रामे, स्वबलेन = स्वसेनया । न चिरात् = शीघ्रम्, सहभृत्यगणम् = भृत्यगणेन सहितम्, सहशब्दस्य सादेशस्य वैकल्पिकत्वादिदं साधु । सबान्धवम् = बन्धुजनसहितम् । सहमित्रम्, सहानुजम् = सावरजम् , ससुतम् = सपुत्रम्, सुयोधनम्=दुर्योधनम् , निह- न्ति = हनिष्यति । वर्तमानसामीप्ये लट् । अत्र इष्टस्य दुर्योधनस्य वक्तव्यादन्यद्भाव्य- मस्तीति भ्रंशाख्यं नाट्याङ्गम् । तदुक्तं दर्पणे-- दृप्तादीनां भवेद् भ्रंशो वाक्यादन्यतरद्वचः ॥ इति । ललिताछन्दः--ससज्जा विषमे यदा गुरुः समरा स्याल्ललिता समे लगौ । इति लक्षणात् ॥ ५ ॥ दुर्योधनाभिप्रायोनुसारेण कञ्चुक्याह--सहभृत्यगणमिति । कञ्चुकिवाक्ये पाण्डु- सुतमिति द्वितीयान्तम् । सुयोधन इति प्रथमान्तम् । तथा च सुयोधनः पाण्डुसुतस्य हन्तेति दुर्योधनाभिप्रायः प्रतिपादितो भवति ॥ ६ ॥ अनामन्त्र्य = अननुज्ञाय, वासभवनात्=शयनमन्दिरात् । प्रातः = प्रभाते, निष्क्रान्ता = बहिर्गता । व्याक्षिप्तम् = विशेषेणाक्षिप्तम्, उद्विग्नमित्यर्थः । किं सुयोधन का शीघ्र वध करेगा ॥ ५ ॥ कञ्चुकी—(कान के छिद्रों को बन्द कर भयपूर्वक) पाप शान्त हो, अमंगल का नाश हो । राजा—विनयन्धर मैने क्या कहा ? कञ्चुकी—'दुर्योधन अपने पराक्रम से भाई, बन्धु, पुत्र मित्र तथा नौकर-चाकर समेत शीघ्र पाण्डुपुत्र का संहार करेगा' ॥ ६ ॥ इसके पितरीत महाराज ने कहा । राजा—आज भानुमती पूर्ववत् मुझ से परामर्श न करके प्रभातकाल में ही घर से

द्वितीयोऽङ्कः ] प्रबोधिनी-प्रकाशद्वयोपेतम् ५३ भवनात्प्रातरेव निष्क्रान्तेति व्याक्षिप्तं मे मनः । तदादेशय तमुद्देशं यत्र- स्था भानुमती । कञ्चुकी--इत इतो देवः । . ( उभौ परिक्रामतः ) कञ्चुकी - ( पुरोवलोक्य । समन्ततो गन्धमाघ्राय । ) देव, पश्य, पश्य, एतत्तुहिनकणशिशिरसमीरणोद्वेलितवृन्तबन्धुरशेफालिकाविरचितकुसुमप्र- करम् ईषदालोहितमुग्धवधूकपोलपाण्डुफलिनीविजितश्यामल तासौभा- ग्यम्, उन्मीलितबहुलकुन्दकुसुम सुरभिशीतलं प्रभातकालरमणीयमग्रतस्ते कथयेत्याह- तदिति । तत् = तस्मात्, आदेशय = कथय । उद्देशं = स्थानम् । यत्र तिष्ठतीति यत्रस्था । तुहिनकणशिशिरसमीरणोद्वेलितवृन्तबन्धुरशेफालिकाकुसुमप्रकरम् = तुहिनकणेन हिमलेशेन शिशिरः शीतलो यः समीरणः वायुः तेन उद्वेलितम् चञ्चलम् यद् वृन्तम् प्रसवबन्धनम् तेन बन्धुरशेफालिका निम्नोन्नतनिर्गुण्डी तया विरचितः कुसुमप्रकरः पुष्पसमुदायो यत्र तत्, वालोद्यानविशेषणम् 'वृन्तं प्रसवबन्धनम्' । 'बन्धुरं तूप्रतानतम्' इति चामरः । ईषदालोहितमुग्धवधूकपोलम् सलज्जव- नितागण्डस्थलम् तच्च पाण्डुः पाण्डुरा फलिनी प्रियङ्गुः तया विहितं श्यामल- तासौभाग्यम् सोमलतासौन्दर्यम् यत्र तत्, 'हरिणः पाण्डुरः पाण्डुः' इति, 'प्रियङ्गुः फलिनी फली' इति चामरः । 'श्यामा सोमलता निशोरिति हैमः । 'सुभगः सुन्दरे प्रिये' इति विश्वः । उन्मीलितबहुलकुन्दकुसुम सुरभिशीतलम् = विकसित- बउ दो । अतः मेरा मन उद्विग्न सा हो रहा है (अर्थात् अनाप-सनाप बक जाने का यही कारण है ) इसलिये उस स्थान का निदर्शन कराओ जहाँ भानुमती गई है । कञ्चुकी-इधर से आइये महाराज ! (दोनों चल पड़ते हैं ) कञ्चुकी-(सामने देखकर और कुछ गन्ध सूँघने का अभिनय करके ) महाराज ! देखिये देखिये यह अन्तःपुर की अभिनयवाटिका है। इसमें ओस के कणों के सम्पर्क से शीतल वायु के झकोरों के द्वारा प्रकम्पित निर्गुण्डी की लताओं के वृन्त (डंठल) से मुक्त फूलों का ढेर लगा हुआ है, और इस (वाटिका) में अभिनववयस्का युवती के अरुणाम कपोलों के सदृश लांम्रपुष्पों से श्यामलता के पुष्पों का सौन्दर्य पराभूत हो रहा है । अपरञ्च विकसित बहुत से कुन्द के पुष्पों से यह उद्यान सुरभिसम्पन्न तथा शीतलच्छाय है। प्रभातकाल

५४ वेणीसंहारं नाटकं बालोद्यानम् । तदवलोकयतु देवः । तथाहि— प्रालेयमिश्रमकरन्दकरालकोशैः पुष्पैः समं निपतिता रजनीप्रबुद्धैः । अर्कांशुभिन्नमुकुलोदरसान्द्रगन्ध- संसूचितानि कमलान्यालयः पतन्ति ॥ ७ ॥ राजा—( समन्तादवलोक्य । ) विनयन्धर, इदमपरममुष्मिन्नुषसि रम- णीयतरम् । पश्य — प्रचुरकुन्दपुष्पसुगन्धिशीतलम् । अग्रतः=अग्रे, सार्वविभक्तिकस्तसिल् । बालोद्यानं = नूतनं राज्ञः, साधारण वनम् । 'पुमानाक्रोड उद्यान राज्ञः साधारणं वनम्' इत्यमरः । अन्वयः—प्रालेयमिश्रमकरन्दकरालकोशैः, रजनीप्रबुद्धैः, पुष्पैः, समम्, निप- तिताः, अलयः, अर्कांशुभिन्नमुकुलोदरसान्द्रगन्धसंसूचितानि, कमलानि, पतन्ति ॥ ७ ॥ अवलोकनार्होद्यानशोभां दर्शयति—प्रालेयमिश्रेति । प्रालेयमिश्रमकरन्दकरा- लकोशैः=प्रालेयेन हिमेन मिश्रः स चासौ मकरन्दः पुष्परसः तेन करालः उन्नततः कोशः मध्यं येषां तैः, रजनीप्रवुद्धैः = निशायां स्फुटितैः, पुष्पैः= कुसुमैः, समं = साकम्, निपतिताः=अधोगताः, रात्रिविकसितपुष्पाणां प्रभाते पतनात्तत्रस्था भ्रमरा अपि पतिता इति भावः । अलयः—भ्रमराः, अर्कांशुभिन्न मुकुलोदरसान्द्रगन्धसंसूचितानि = अर्कस्य सूर्यस्य, अंशुभिः किरणैः, भिन्नानि यानि, मुकुलानि कुड्‌मलाः तेषामुदरेषु ये सान्द्रगन्धाः निविडसुरभयः तैः, संसूचितानि अनुमितानि, अवगतानीत्यर्थः । कमलानि = पद्मानि, पतन्ति = गच्छन्ति । अत्र सहोक्तिः । तथैकस्थैवालेरनेकत्र सम्बन्धत्पर्यायार्थालङ्कारः । वसन्ततिलका छन्दः । 'ज्ञेयं वसन्ततिलकं तभजा जगौ ग' इति लक्षणात् ॥ ७ ॥ उषसि=प्रभाते, रमणीयतरम्=सुशोभनम् । में इसकी शोभा अपूर्व हो जाती है, इसे महाराज देखें । जैसा कि— रात्रि-काल में विकसित होनेवाले तथा नीहारकणविमिश्रित पुष्परस के कारण अधखुले कोशवाले कुमुदपुष्पों की पतनदशा के साथ-साथ भ्रमर उनका परित्याग कर सूर्य की किरणों से विकसित कमलकलिका के अन्दर से निकलते हुए गन्ध से प्रतीत होने वाले कमलों पर टूट पड़ रहे हैं ॥ ७ ॥ : राजा—( चारों तरफ दृष्टि फैला कर ) विनयन्धर, इस प्रभातकाल में एक दूसरे प्रकार की रमणीयता का अवलोकन कीजिये :—

द्वितीयोऽङ्कः ] प्रबोधिनी-प्रकाशद्वयोपेतम् ५५ जृम्भारम्भप्रविततदलोपान्तजालप्रविष्टै- र्भाभिर्भानोर्नृपतय इव स्पृश्यमाना विबुद्धाः । स्त्रीभिः सार्धं घनपरिमलस्तोक लक्ष्याङ्गरागा मुञ्चन्त्येते विकचनलिनीगर्भशय्यां द्विरेफाः ॥ ८ ॥ कञ्चुकी- देव, नन्वेषा भानुमती सुवदनया तरलिकया च सहोपविष्टा अन्वयः- जृम्भारम्भप्रविततदलोपान्तजालप्रविष्टैः, भानोः, भाभिः, स्पृश्यमानाः, ( अत एव ) विबुद्धाः, नृपतयः, इव, एते, द्विरेफाः, घनपरिमलस्तोक लक्ष्याङ्गरागाः, ( सन्तः ) स्त्रीभिः, सार्द्धम्, विकचनलिनीगर्भशय्याम्, मुञ्चन्ति ॥ ८ ॥ जृम्भेति । जृम्भारम्भप्रविततदलोपान्तजालप्रविष्टैः = जृम्भारम्भेण विकासोप- क्रमेण प्रविततानि विस्तृतानि यानि दलानि पुष्पपत्राणि तेषामुपान्तः समीपवर्ति- स्थानम् तदेव जालम् गवाक्षरन्ध्रम्, नृपक्षे-तत्सदृशगवाक्षरन्ध्रम् , तेन प्रविष्टैः भानोः = सूर्यस्य, भाभिः = प्रकाशैः, स्पृश्यमानाः = स्पृश्यमानाः, अत एव विबुद्धाः = विनिद्राः, अन्योऽपि स्पर्शेन जागरितो भवति । नृपतयः = राजानः इव, अमरपक्षे विबुद्धाः = उत्थिताः, कीदृशाः घनपरिमलस्तोक लक्ष्याङ्गरागाः = घनपरिमलस्य निवि- डगन्धस्य नृपक्षे-चन्दनगन्धस्य स्तोकेन लक्ष्यः अनुमेयः अङ्गरागः सङ्गरक्तिमा नृपक्षे-गात्रानुलेपनयोग्यसुगन्धिद्रव्यम् येषां ते, एते, द्विरेफाः = भ्रमराः, स्त्रीभिः = नृपक्षे देवीभिः, भ्रमरपक्षे-भ्रमरीभिः, सार्द्धम् = सह, विकचनलिनीगर्भशय्यां = विकसितकमलिनीमध्यशयनीयम्, मुञ्चन्ति = त्यजन्ति । नृपतयोऽपि विबुद्धाः सन्तः स्त्रीभिः सार्द्धं शय्यां मुञ्चन्ति । भ्रमराः कमलवनं प्रातःकाले मुञ्चन्तीति भावः । अत्र पूर्णोपमाऽलङ्कारः विकचनलिनीगर्भशय्यामित्यत्र रूपकम् । मन्दाक्रान्ता- वृत्तम्=मन्दाक्रान्ताम्बुधिरसनगैर्मो भनौ गौ ययुग्ममिति लक्षणात् ॥ ८ ॥ नन्विति अवधारणे । सुवदनया = एतन्नामकसख्या, तरलिकया = एतन्नामक- कलियों के विकास के प्रारम्भकाल में फैलती हुई पंखड़ियों के अन्तिम भाग के अवकाशों के द्वारा प्रविष्ट सूर्य-किरणों के संस्पर्श से जगे हुए भ्रमर अपनी भ्रमरियों के साथ प्रचुर पराग के संलग्न होने के कारण शरीर का रंग थोड़ा-थोड़ा उपलक्षित कराते हुए प्रस्फुटित कमलिनी-दलरूपी शय्या का परित्याग राजाओं की भाँति कर रहे हैं। अर्थात् जिस प्रकार राजा लोग कमल किशलयतुल्य करों के द्वारा स्पृष्ट होकर निद्रा परित्याग कर स्त्रियों के साथ कमल- पुष्परचित शय्या का परित्याग करते हैं, उनके शरीर का अङ्गराग कुसुमादि के अधिक प्रलेप से थोड़ा-थोड़ा झलकता रहता है ॥ ८ ॥ कञ्चुकी-महाराज, यह महारानी भानुमती बैठी हुई सुवदना और तरलिका से

तिष्ठति । तदुपसर्पतु देवः । राजा—(दृष्ट्वा ।) आर्य विनयन्धर, गच्छ त्वं साङ्ग्रामिकं मे रथमुप- कल्पयितुम् । अहमप्येष देवीं दृष्ट्वाऽनुपदमागत एव । कञ्चुकी—एष कृतो देवादेशः । ( इति निष्क्रान्तः । ) - सखी—विअसहि, अवि सुमरिदं तुए । ( प्रियसखि, अपि स्मृतं त्वया । ) भानुमती—सहि, सुमरिदम् । अज्ज किल पमदवणे आसीणाए मम अग्गदो एव्व दिव्वरूविणा णउलेन अहिसदं वावादिदम् । ( सखि स्मृतम् । अद्य किल प्रमदवन आसीनाया ममाग्रत एव दिव्यरूपिणा नकुलेनाहिशतं व्यापादितम् । चेट्या । उपसर्पतु = प्रचलतु । साङ्ग्रामिकं = युद्धे गन्तुं योग्यम्, रथं = स्यन्दनम्, उपकल्पयितुम् = सन्नद्धं कर्तुम् । एषः = उपस्थितः, अहमपि, अनुपदम् = अनुगम्, पश्चादित्यर्थः । 'अन्वगन्वक्ष- मनुगेऽनुपदं क्लीवमव्ययम्' इत्यमरः । पदस्य पश्चादिति विग्रहे पश्चादर्थेऽव्ययीभाव- समासः । देवीं = भानुमतीम्, दृष्ट्वा, आगत एवेत्यन्वयः । देवादेशः = भवदीयाज्ञा । भानुमत्या दृष्टं स्वप्नं वक्तुकामा सुवदना सखी भानुमती पप्रच्छ-प्रियसखीति । भवत्या यदुक्तं सव स्मरिष्यामीति, तत्कि स्मृतमित्यर्थः । अपिशब्दः प्रश्ने, 'अपि सम्भावनाप्रश्नाशङ्कागर्हासमुच्चये' इति विश्वः । अतीताया रात्रेः पश्चार्द्धेनागामिन्याः पूर्वार्द्धेन सहितकालस्य अद्यतनशब्दार्थ- त्वादतीतरात्रिखप्नकालेऽपि अद्यशब्दप्रयोगः । प्रमदवने = राज्ञीक्रीडावने, आसी- नायाः = उपविष्टायाः मम, अग्रतः = पुरस्तात्, एव दिव्यरूपिणा=अतिसुन्दरेण, नकुलेन = सर्पघातकजन्तुना, 'सपनोर' इति प्रसिद्धः । अहिशतं = सर्पशतं, व्यापादि- तम् = मारितम् । परिचारित हो रही हैं, महाराज उनके समीप चलें । राजा—( देखकर ) आर्य विनयन्धर, युद्धार्थ रथ तयार करने के लिये तुम जाओ मैं श्रीमती के दर्शनोपरान्त आ ही पहुँचा । कञ्चुकी—यह लीजिये महाराज की आज्ञा का पालन किया । ( चला जाता है ) सखी—प्रिय सहेली, क्या तुम्हें स्मरण हुआ ? भानुमती—हाँ सखि, स्मरण हुआ ? ( याद आया ?) आज मैं प्रमदकानन में बैठी हुई थी कि'मेरे समक्ष ही देवताओं के स्वरूप को लज्जित करने वाले किसी एक 'नेवले ने सैकड़ों सर्पों को मार डाला ।

द्वितीयोऽङ्कः ] प्रबोधिनी-प्रकाशद्वयोपेतम् ५७ उभे-( अपवार्य । आत्मगतम् ) सान्तं पावम् । पडिहदं अमङ्गलम् । ( प्रकाशम् । ) तदो तदो । ( शान्तं पापम् , प्रतिहतममङ्गलम् । ततस्ततः । ) भानुमती--अदिसदावोव्विगहिअए विसुमरिदं मए । ता पुणोवि सुमरिअ कहइस्सम् । ( अतिसंतापोद्विग्नहृदयया विस्मृतं मया । तत्पुनरपि स्मृत्वा कथयिष्ये । ) राजा--( आत्मगतम् ' अहो, देवी भानुमती सुवदनातरलिकाभ्यां सह किमपि मन्त्रयमाणा तिष्ठति । भवतु । अनेन लताजालेनान्तरितः शृणोमि तावदासां विश्रम्भालापम् । ( तथा स्थितः । ) सखी-सहि अलं संदावेण । कहेदु पिअसही । ( सखि, अलं संतापेन । कथयतु प्रियसखी । ) राजा-( आत्मगतम् ) किं नु खल्वस्याः संतापकारणम् । अथवाऽना- मन्त्र्य मामियमद्य वासभवनान्निष्क्रान्तेति समर्थित एवास्या मया कोपः । अयि भानुमति, अविषयः खलु दुर्योधनो भवत्याः कोपस्य । उभे = सखीचेट्यो अपवार्य = अन्यस्य रहस्यमप्रकाशय, आत्मगतं = परस्य श्रव- णायोग्यम्, तदुक्तं दर्पणे-अश्राव्यं खलु यद्वस्तु तदिह स्वगतं मतम् । इति । शान्तमिति = 'शान्तं पापमनिर्देश्ये' इति वचनात् । न वाच्यमित्यर्थः । प्रकाशं सर्वश्राव्यम् । तदुक्तं तत्रैव-'सार्वश्राव्यं प्रकाशं स्यात्' इति । अतिसन्तापोद्विग्नहृदयया=अतिसन्तापेन उद्विग्नम् सम्भ्रान्तं हृदयं यस्याः तया । सन्तापेन, अलम्=निरर्थकम् । 'अलं भूषणपर्याप्तिवारणेषु निरर्थके' इति विश्वः । दोनों सखियों-( छिपाकर अपने आप ) पाप और अमङ्गल का नाश हो ( प्रकट रूप से ) अच्छा फिर क्या हुआ ? भानुमती-सन्ताप ने मेरे हृदय पर अपना अधिकार जमा लिया। फिर मैं भूल गई, याद करके कहूँगी । राजा-( देख कर ) अरे ! श्रीमती भानुमती सुवदना और तरलिका के साथ कुछ वार्तालाप करती हुई बैठी हैं। अच्छा झाड़ी के पीछे छिप कर पहले इनके विश्वस्त वार्तालाप को सुनूँ । सखी-शोक करने से क्या लाभ, सखी ! कहें तो । राजा-अरे इनके खेद का क्या कारण है ? अथवा आज ये मुझ से आज्ञा लिये बिना घर से चली आई हैं इससे प्रतीत होता है कि ये मुझ पर क्रुद्ध हैं, अयि भानुमती ! यह दुर्योधन आपके क्रोध का पात्र नहीं है । देखिये :-

५८ वेणीसंहारं नाटकं किं कण्ठे शिथिलीकृतो भुजलतापाशः प्रमादान्मया निद्राच्छेदविवर्तनेष्वभिमुखी नाद्यासि सम्भाविता । अन्यस्त्रीजनसंक्थालघुरहं स्वप्ने त्वया लक्षितो दोषं पश्यसि किं प्रिये परिजनोपालम्भयोग्ये मयि ॥ ९ ॥ ( विचिन्त्य । ) अथवा । इयमस्मदुपाश्रयैकचित्ता मनसा प्रेमविवृद्धमत्सरेण । अन्वयः — मया, प्रमादात्, कण्ठे, भुजलतापाशः, किम्, शिथिलीकृतः, अद्य, निद्राच्छेदविवर्तनेषु अभिमुखी, अद्य न, सम्भाविता ( किम् ) त्वया, अहम्, अन्यस्त्री- जनसङ्कथालघुः, स्वप्ने, लक्षितः, ( हे ) प्रिये, परिजनोपालम्भयोग्ये, मयि, कम्, दोषम्, पश्यसि ? ॥ ९ ॥ मत्तः किमपराधोऽभूदित्याह—किमिति । मया = दुर्योधनेन कण्ठे = मदीयग्री- वायाम्, भुजलतापाशः = त्वत्कृतभुजबन्धनम्, किम्, किं शब्दः प्रश्ने । प्रमादात् = अनवधानात्, सावधानतया न कथमपीदं सम्भाव्यत इति सूचितमनेन । शिथिली- कृतः न तु दूरीकृत इति भावः । किंशब्दस्य द्वितीयतृतीयचरणयोरप्यन्वयः । अद्य, निद्राच्छेदविवर्तनेषु = सुषुप्तिभङ्गेन पार्श्वपरिवर्तनेषु, अभिमुखी = आभिमुख्यं प्राप्ता, न, सम्भाविता = सालिङ्गनं न सम्मानिता, किम् । त्वया—भानुमत्या, अन्यस्त्री- जनसङ्कथालघुः = अन्यनारीजनवार्तालापेन लघुः निःसारः क्षुद्र इत्यर्थः । लघुरगुरौ च मत्ताजे निःसारे वाद्यवत् क्लीबमिति मेदिनी । अहं = दुर्योधनः स्वप्ने = निद्रा- वस्थायाम्, एतेन जागरणे नास्य सम्भावनापीति सूचितम् । लक्षितः = ज्ञातः, हे प्रिये परिजनोपालम्भयोग्ये = परिचारकसदृशपरिभावना । र्हे, मयि, एतेषां मध्ये, कं दोषम् = अपराधं, पश्यसि = अवलोकसे । शार्दूलविक्रीडितं छन्दः ॥ ९ ॥ अन्वयः — अस्मदुपाश्रयैकचित्ता, इयम्, प्रेमविवृद्धमत्सरेण, मनसा, अतिवल्लभ- त्वात्, मम, अपराधलेशम्, स्वयम्, उत्प्रेक्ष्य, नियतम्, कुपिता ॥ १० ॥ कथं क्रुद्धा भानुमतीत्याह—इयमिति । अस्मदुपाश्रयैकचित्ता = मदालम्बन- क्या कभी मैंने ( भूल कर ) कण्ठगत भुजा के बन्धनों को विच्छिन्न तो नहीं किया ? [ अर्थात् आपके प्रेमालिङ्गन का तिरस्कार तो नही किया ? ] अथवा शयनावस्था में करवट बदल कर मेरे सम्मुख होने पर आज मैंने क्या आपका स्वागत नहीं किया ? अथवा आपने स्वप्न में मुझे परस्त्री से बातचीत करने में अनुरक्त तो नहीं देखा फिर सेवाकार्यरहित मुझ में कौन सा अवगुण देखती हैं ? ॥ ९ ॥ ( सोचकर ) इन्होंने अपने चित्त को मेरे आश्रित कर दिया है । प्रेम के कारण इन के मन में

द्वितीयोऽङ्कः ] प्रबोधिनी-प्रकाशद्वयोपेतम् ५९ नियतं कुपितातिवल्लभत्वात्स्वयमुत्प्रेक्ष्य ममापराधलेशम् ॥ १० ॥ तत्रापि शृणुमस्तावत्किन्नु वक्ष्यतीति । भानुमती—तदो अहं तस्स अदिसइददिव्वरूविणो णउलस्स दंसणेण उच्छुआ जादा हिदहिअआ अ । तदो उज्झिअ तं आसणट्ठाणं लदामंडवं पविंसितुं आरद्धा । ( ततोऽहं तस्यातिशयितदिव्यरूपिणो नकुलस्य दर्शनेनोत्सुका जाता हृतहृदया च । तत उज्झित्वा तदासनस्थानं लतामण्डपं प्रवेष्टुमारब्धा । ) राजा—( सवैलक्ष्यं आत्मगतं ) किं नामातिशयितदिव्यरूपिणो नकु- लस्य दर्शनेनोत्सुका जाता हृतहृदया च । तत्किमनया पापया माद्रीसुतानु- मात्रचेताः, इयम् = भानुमती प्रेमविवृद्धमत्सरेण = प्रेम्णा विवृद्धः स्थापितः मत्सरः यस्मिन् तेन कारणाभावेऽपि केवलं प्रेम्णैव मात्सर्यमुत्पादितमिति भावः । प्रीति- बद्धमात्सर्य्येणेत्यर्थः । मनसा = हृदा, अतिवल्लभत्वात् = अतिस्नेहात्, मम, अपराध- लेशम्=अपराधगन्धं 'गन्धो गन्धक आमोदे लेशे सम्बन्धगर्वयो'रिति विश्वः । स्वयम् उत्प्रेक्ष्य=प्रकल्प्य, नियतं कुपिता = क्रुद्धा । एतेन ममापराधलेशोऽपि न वर्तते केवलं कल्पनैव तस्या इति ध्वनितम् । औपच्छन्दसिकं छन्दः 'पड्द्विषमेऽष्टौ समे कलास्ताश्च समे स्युर्नो निरन्तरा । न समात्र पराश्रिता कला वैतालीयेऽन्ते रलो गुरुः । तन्नेवान्ते- ऽधिके गुरौ स्यादौपच्छन्दसिकं कवीन्द्रहृद्यमि'ति लक्षणात् ॥ १० ॥ ततः = सर्पशतव्यापादनान्तरं । नकुलस्य = सर्पघातकजन्तुविशेषस्य, दुर्योध- नस्य भ्रान्तिपक्षे—नकुलस्य=माद्रीपुत्रस्य । उत्सुका = उत्कण्ठिता । किमिति - किमिति प्रश्ने तस्य विप्रलब्धः इत्यनेनान्वयः । नामशब्दः, क्रोधे 'नामप्रकाश्यासम्भाव्यक्रोधोपगमकुत्सने' इत्यमरः । सर्पघातजन्तुतात्पर्येणोच्चारि- तनकुलशब्दस्य प्रकरणानभिज्ञो दुर्योधनः नकुलसंज्ञकं माद्रीसुतमर्थं निश्चित्य क्रुद्ध इति भावः । अनया = भानुमत्या, माद्रीसुते = नकुले, पाण्डुपुत्रे इत्यर्थः । अनुर- नाम मात्र का भी क्रोध नहीं है । ऐसा प्रतीत होता है कि प्रेमाधिक्य से मेरे लवमात्र अपराध की कल्पना करके क्रुद्ध हैं ॥ १० ॥ तो भी क्या कहेंगी सुनें तो । भानुमती—अरी सखि, इसके अनन्तर दिव्यरूप के तिरस्कर्ता उस नकुल के दर्शन से मैं उत्कण्ठित हो उठी । मेरा हृदय उस पर आसक्त हो गया फिर उस स्थान को छोड़ कर लताकुंज में जाने लगी । राजा—क्या देवताओं के स्वरूप के तिरस्कर्ता नकुल के दर्शन से यह उत्कण्ठित हो उठी है ? क्या माद्री के पुत्र में आसक्त इसके द्वारा मैं वञ्चित हो गया ? ( पहली बातों का

६० वेणीसंहारं नाटकं रक्तया वयमेवं विप्रलब्धाः । ('सोत्प्रेक्षम्, इयमस्मत्-' (२।१०) इति पठित्वा ।) मूढ दुर्योधन, कुलटाविप्रलभ्यमात्मानं बहुमन्यमानोऽधुना किं वक्ष्यसि । किं ( कण्ठे-( २।९ ) इत्यादि पठित्वा । दिशोऽवलोक्य ।) अहो, एतदर्थमेवास्याः प्रातरेव विविक्तस्थानाभिलाषः सखीजनसंकथासु च पक्षपातः । दुर्योध- नस्तु मोहादविज्ञातबन्धकीहृदयसारः क्वापि परिभ्रान्तः । आः पापे मत्प- रिग्रहपांसुले । तद्भीरुत्वं तव ममः पुरः साहसानीदृशानि क्तया = स्नेहवत्या माद्रीसुतं कामयमानयेत्यर्थः । विप्रलब्धाः = वञ्चिताः । 'विप्रल- ब्धस्तु वञ्चित' इत्यमरः । सोत्प्रेक्षम् = स्नेहप्रयुक्तपूर्वविषयस्मरणपूर्वकम् । कुलटा- विप्रलभ्यम् = पुंश्चलीवञ्चनीयम् स्मरसीत्यध्याहृत्य वक्ष्यसि इत्यत्र अभिज्ञावचने लुटिती भूते लुट्, तेन किं किमब्रवीमित्यर्थः । विविक्तस्थानाभिलाषः = निर्जनस्था- नेच्छा, मोहात् = वैचित्त्यात् , अविज्ञातबन्धकीहृदयसारः=अनवगतकुलटाहृदयतत्त्वः, 'पुंश्चली घर्षणी बन्धक्यसती कुलटेत्वरी' इत्यमरः । मत्परिग्रहपांसुले = परिग्रहः पत्नी सा चासौ पांसुला कुलटा तस्याः सम्बोधने । 'पत्नीपरिजनादानमूलशापाः परिग्रहाः' इत्यमरः । अन्वयः—मम, पुरः, तव, तत्, भीरुत्वम्, ईदृशानि साहसानि, अस्मद्वपुषि, सा, श्लाघा, विनयव्युत्क्रमे, अपि, एषः, रागः, जडमतौ, मयि, तव, औदार्यम्, चाप- ले च, कोऽपि, पन्थाः, वितमसि, ख्याते, तस्मिन्, कुले, जन्म, एतत् कीलोनम् ॥ अत्रप्रयुक्तकुलट'त्वं मन्यमानस्तदनुगुणं विरुद्धक्रियां दर्शयति=मद्भीरुत्वमिति । मम, पुरः = अग्रे, तव, तत् = पूर्वप्रसिद्धम्, भीरुत्वं = भयम्, ईदृशानि = पर- पुरुषप्रेमरूपाणि, साहसानि = दुष्करकर्माणि । एतेन निर्भयता सूचिता । 'साहसं तु नमे दुष्करकर्मणि' इति हैमः । भयनिर्भयतारूपविरुद्धधर्मद्वयं दृश्यते त्वयीति स्मरण करता हुआ ) ( इयमस्मद् २ श्लोक १० को पढ़कर ) मूर्ख दुर्योधन ! व्यभिचारिणी से प्रतारित होकर अपने को बहुत कुछ समझता हुआ अब क्या कहोगे ? किं कण्ठे० इत्यादि श्लोक ९ को पढ़ता हुआ दिशाओं को देखते हुए ) अहा ! कारण समझ में आ गया । इसी- लिए प्रभात में ही एकान्त स्थान के लिए इसकी उत्कट इच्छा थी । सखियों के साथ बातचीत करने से भलीभाँति अस्तव्यस्त हैं ! दुर्योधन को मोह में पड़े रहने के कारण व्यभिचारिणी के हृदय की बात क्या मालूम ? अयि दुराचारिणि ! मेरी अधम रमणी ! मेरे समक्ष तुम्हारी वह भीरुता और इस प्रकार साहस । मेरे शरीर में वह प्रीति और उतनी विनम्रता तथा शील के विरुद्ध यह प्रेम, मुझ मूर्ख में वह उदारता और यह

द्वितीयोऽङ्कः ] प्रबोधिनी-प्रकाश-द्वयोपेतम् ६१ श्लाघा सास्मद्वपुषि विनयव्युत्क्रमेऽप्येष रागः। तच्चौदार्यं मयि जडमतौ चापले कोऽपि पन्थाः ख्याते तस्मिन्वितमसि कुले जन्म कौलीनमेतत् ॥ ११ ॥ सखी—तदो तदो। ( ततस्ततः । ) भानुमती—तदो सोवि मं अणुसरन्तो एव्व लदामण्डवं पविट्ठो। (ततः सोऽपि मामनुसरन्नेव लतामण्डपं प्रविष्टः ।) राजा—(आत्मगतम्) अहो, कुलटोचितमस्याः पापाया अशालीनत्वम् । महदाश्चर्यमिति भावः । अस्मद्वपुषि = अस्माकं शरीरे, सा = प्रसिद्धा, श्लाघा=प्रशंसा प्रेमातिशय इत्यर्थः । विनयव्युत्क्रमे = सदाचारातिक्रमणे, अपि एषः=अन्यपुरुषविष- यकः, रागः = अनुरागः, यदेवाहं न श्लाघनीयस्तदैव त्वयाऽन्यत्र रागः कर्तव्य इति मम शरीरे श्लाघा तदभावमूलकोऽन्यत्र राग इति विरुद्धमिति भावः । जडमतौ = तत्त्वाज्ञातारि, मयि, तत् = प्रसिद्धम्, औदार्यम् = उदारता महत्त्वमित्यर्थः । शुद्ध- स्वभाव इति यावत् । चापले पुंश्चलीत्वे, च, कोऽपि, पन्थाः = अनुसरणमार्गः, शुद्ध- स्वभावता पुंश्चलीत्वानुसरणम् विरुद्धमिति भावः । 'मीनेऽपि चपला तु स्यात् विप्प्लयां विद्युति स्त्रियां । पुंश्चल्याम्'ति हैमः । वितमसि = विशुद्धे, ख्याते=सर्वजन- वेद्ये, तस्मिन् = दोषरहिते, कुले = वंशे, जन्म = उत्पत्तिः, एतत् =परपुरुषसङ्गम- पम्, कौलीनम् = लोकवादः 'स्यात्कौलीनं लोकवादः' इत्यमरः । तथा च कुलटोचित- मेव सर्वं तवेति भावः । अत्र विरुद्धयोः सङ्घटनातो विषमालङ्कारः । मन्दाक्रान्ता छन्दः, लक्षणमुक्तमष्टमश्लोके ॥ ११ ॥ लतामण्डपम् = निकुञ्जम् । अनुसरन् = पश्चादागच्छन् । पापायाः=पापमस्ति अस्या इति अर्श आदित्वान्मत्वर्थेऽच्प्रत्ययः । अशालीनत्वं= धृष्टता, उस शुभ निष्कलङ्क कुल में जन्म और यह दुराचार [ अर्थात् मेरे सामने तो बड़ी डरपोक सी बनी रहती थी और अब दूसरे पति के साथ इस प्रकार सम्बन्ध करने का यह साहस कर रही हो । मेरे रूप और लावण्य की खूब प्रशंसा करती थी और अब यह भोलेपन के विरुद्ध कार्य कर रही हो, मुझ मूर्ख के प्रति बड़ी उदारता प्रकट करती थी परन्तु अब इस प्रकार के कुमार्ग पर चलो जा रही हो, जन्म तो तुम्हारा विशुद्धकुल में हुआ है परन्तु यह नीच कर्म कर रही हो ] ॥ ११ ॥ सखी—तो फिर क्या हुआ ? भानुमती—तो फिर मैं शीघ्र ही लताकुञ्ज में चली गई, वह भी मेरा अनुसरण करता हुआ उसी लतानिकुञ्ज में प्रवेश कर गया। राजा—अहो, इस दुराचारिणी में व्यभिचारिणियों की सी निर्लज्जता भी है।

६२ . वेणीसंहारं नाटकं यस्मिंश्चिरप्रणयनिर्भरबद्धभाव- मावेदितो रहसि मत्सुरतोपभोगः । तत्रैव दुश्चरितमद्य निवेदयन्ती ह्रीणासि पापहृदये न सखीजनेऽस्मिन् ॥ १२ ॥ उभे—तदो तदो ( ततस्ततः । ) भानुमती--तदो तेण सप्पगब्भप्पसारिअकरेण अवहिदं मे त्थणं सुअम् ( ततस्तेन सप्रगल्भप्रसारितकरेणापहृतं मे स्तनांशुकम् । ) लज्जाराहित्यम् । शालाप्रवेशमर्हतीति शालीना 'शालीनकौपीने अधृष्टाकार्ययो'रिति निपातनात्प्रत्ययः । अत्रावयवार्थस्तु न विवक्षितः, रूढिशब्दत्वात् । अन्वयः--यस्मिन्, रहसि, मत्सुरतोपभोगः, चिरप्रणयनिर्भरबद्धभावम्, आवे- दितः, अत्रैव, अस्मिन्, सखीजने, दुश्चरितम्, अद्य, निवेदयन्ती, हे पापहृदये ! न, ह्रीणा, असि ॥ १२ ॥ लज्जाकारणसत्त्वेऽपि लज्जाराहित्यं दर्शयति--यस्मिन्निति । यस्मिन्=सखीजने, रहसि = एकान्ते, मत्सुरतोपभोगः=मदीयरतिजन्यभोगः, चिरप्रणयनिर्भरबद्धभा- वम् = बहुकालिकप्रेमातिशयेन कृतबन्धनाभिप्रायम्, यथा स्यात्तथा आवेदितः = कथितः, तत्रैव = तस्मिन्नेव एव शब्दोऽवधारणे । अस्मिन् = उपस्थिते, तदिदं शब्दा- भ्यां प्रत्यभिज्ञां दर्शयति । सखीजने = आलिसङ्घे, दुश्चरितम् = परपुरुषसङ्गम रूपदु- राचारम्, अद्य = इदानीम्, 'इदानीमद्ये'ति कलापसूत्रेण निष्पन्नं सम्प्रत्यर्थे अद्येति । निवेदयन्ती=कथयन्ती, हे पापहृदये ! न ह्रीणा=न लज्जिता असि ? । लज्जास्थानेऽपि कथं न लज्जस इति भावः । अत्रैकस्मिन्नेव सखीजने अनेकयोः स्वामिसुरतोपभोग- दुश्चरितयोः, स्थापनात्पर्यायालंङ्कारः । वसन्ततिलका छन्दः ॥ १२ ॥ ततः--मत्कृतंकलतामण्डपप्रवेशानन्तरम्, सप्रगल्भप्रसारितकरेण = सप्रगल्भं यथा स्यात्तथा प्रसारितः करः हस्तः येन तेन सप्रगल्भप्रसारितशब्दयोः स्तोकनम्रा इतिवत्समासः । तेन = नकुलेन, मे, स्तनांशुकं = कुचयोपरि स्थितं वस्त्रम्, अप- हृतम् = आकृष्टम् । अरी पापचित्ते, जिन सहेलियों से चिरकाल के प्रेम और अत्यन्त आसक्ति के साथ मेरे रमणक्रिया की वार्ता की आज वही उन सखियों से अपने दुष्कृत्यों की वार्ता करते हुए तुम्हें लज्जा नहीं उत्पन्न होती ? दोनों सखियाँ-तो आगे क्या हुआ ? भानुमती-तब उसने बड़ी धृष्टता से हाथ फैलाकर मेरे स्तनावरण को दूर हटा दिया !

द्वितीयोऽङ्कः ] प्रबोधिनी-प्रकाशद्वयोपेतम् ६३ राजा--(सक्रोधम्, आत्मगतम् ) अलमिदानीमतः परमाकर्णनेन । भवतु तावत्तस्य परवनितावस्कन्दनप्रगल्भस्य माद्रीसुतहतकस्य जीवितमपह- रामि । ( किञ्चिद्गत्वा । विचिन्त्य ) अथवा इयमेव तावत्पापशीला प्रथममनु- शासनीया । ( इति निवर्तते । ) उभे--तदो तदो (ततस्ततः ।) भानुमती-तदा अज्जउत्तस्स पहादमङ्गलतूररवमिस्सेण वारविलासि- णीजणसंगीदरवेण पडिवोधिदह्मि । (तत आर्यपुत्रस्य प्रभातमङ्गलतूर्यरवमिश्रेण- वारविलासिनीजनसङ्गीतरवेण प्रतिबोधितास्मि ।) राजा--( सवितर्कम्, आत्मगतम् ।) किं नाम प्रतिबोधितास्मीति स्वप्न- दर्शनमनया वर्णितं भवेत् । अथवा सखीवचनादेव व्यक्तिर्भविष्यति । सुवदना--ज एत्थ अच्छाहिदं तं भाईरहीप्पमुहाणं णइणं सलिलेण अवहारिअदु । बह्माणं वि आसीसाए हुदाहुदिसुअन्धिणा ज्जलणेण अव- आर्यपुत्रस्य = पत्युः, प्रभातमङ्गलतूर्यरवमिश्रेण, राज्ञः प्रभाते जागरणार्थं वाद्य- वादने गणिकासंगीतञ्च भवत इत्याकूतम् । वारविलासिनी = वेश्या । प्रतिबोधिता = जागरिता । नामेति-नामशब्दोऽत्र विस्मये । प्रतिबोधितास्मीति-किमुक्तं प्रतिबोधिता- स्मीति, यन्मयाऽवगतं तन्नास्यास्तात्पर्यं किन्तु स्वप्नदर्शनम् । राजा--(क्रुद्ध होकर, स्वगत ) बस, अब इससे अधिक सुनने की कोई आवश्यकता नहीं । अच्छा अब परदार लम्पटशठ उस हतभाग्य माद्रीपुत्र को यमराज के घर का अतिथि बनाता हूँ । ( थोड़ा आगे बढ़कर फिर ठहर कर ) अथवा सर्वप्रथम इसी दुराचारिणी को दण्ड देना चाहिए । ( पीछे लौट आता है । ) दोनों सखियाँ-फिर क्या हुआ ? भानुमती-इसके अनन्तर आर्यपुत्र के उद्बोधननिमित्त प्रभातकालिक मृदङ्गध्वनि के साथ वैश्याओं के सङ्गीत से मैं जाग पड़ी । राजा-(तर्कित होकर ) क्या कहा-'मैं जाग पड़ी' ? स्वप्न का वर्णन इन्होंने किया होगा अथवा सखियों की बात से ही स्पष्ट हो जायगा । सुवदना-जो कुछ भी अमङ्गल हो उसे गङ्गाप्रभृति नदियों के जल से दूर कीजिए;

६४ वेणीसंहारं नाटकं . हारिअदु । (यदिहात्याहितं तद्भागीरथीप्रमुखानां नदीनां सलिलेनापह्रियताम् । ब्राह्मणानामप्याशिषा हुताहुतिसुगन्धिना ज्वलनेन (च) अपह्रियताम् । राजा--(आत्मगतम्) अलं विकल्पेन । स्वप्नदर्शनमेवैतदनया वर्णितम् । मया पुनर्मन्दधियाऽन्यथैव सम्भावितम् । दिष्ट्यार्धश्रुतविप्रलम्भजनितक्रोधादहं नो गतो दिष्ट्या नो परुषं रुषार्थकथने किञ्चिन्मया व्याहृतम् । इह = स्वप्ने, यत्, अत्याहितम् = महाभयम्, तत् भागीरथीप्रमुखानां = गङ्गा प्रधानानां नदीनां = सरिताम्, सलिलेन = जलेन, अपह्रियताम् = निराक्रियताम् । ब्राह्मणानाम् आशिषा = हिताशंसया, 'आशीर्हिताशंसा' इत्यमरः । हुताहुतिसुग- न्धिना = शोभनः गन्धः अस्येति सुगन्धिः हुता या आहुतिः तया सुगन्धिः, तेन, ज्वलनेन = अग्निना, अपह्रियतामिति, अत्याहितमित्येनेनान्वेति । स्वप्नदर्शनमिति--अनया स्वप्नदर्शनमेवैतद् वर्णितमित्यन्वयः । एवकारेण दुर्योधनावगतमाद्रीसुतसङ्गस्य व्यवच्छेदः । अन्वयः- कर्णश्रुतविप्रलम्भजनितक्रोधात्, अहम्, नो गतः, दिष्ट्या, अर्धकथने, रुषा मया, किञ्चित् परुषम्, नो व्याहृतम्, दिष्ट्या, विमूढहृदयम्, माम्, प्रत्याय- यितुम्, कथा, अन्तम् गता, दिष्ट्या, मिथ्यादूषितया, अनया, विरहितम् जगत् न, जातम्, दिष्ट्या ॥ १३ ॥ आनन्दोऽयं यन्मया चाञ्चल्यं न कृतमित्याह-दिष्ट्येति । अर्धश्रुतविप्रलम्भज- नितक्रोधात् = अर्धश्रुतो यो विप्रलम्भः अन्यथागतवाक्यम् तेन जनितो यः क्रोधः तस्मात्, अहं नो = न, गतः माद्रीसुतहननार्थमिति भावः । दिष्ट्या = आनन्दोऽयम् 'दिष्ट्या समुपतोषं चेत्यानन्दे' इत्यमरः । दिष्ट्येत्यस्याग्रेऽपि एवमेवार्थः । अर्धकथने = अर्धोक्तौ, रुषा = क्रोधेन, मया, किञ्चित्, परुषं = कर्कशवचनम् नो, व्याहृतम् = उक्तम्, दिष्ट्या, विमूढहृदयम् = विमूढं मोहाच्छन्नं हृदयं यस्य तम्, मां = दुर्योधनम्, एवं ब्राह्मणों के आशीर्वाद से तथा आहुतिप्रक्षेप से प्रज्वलित अग्निदेव के द्वारा अमङ्गल का नाश कीजिए । राजा--सन्देह करना व्यर्थ है-इसने स्वप्न का ही यह वर्णन किया है और मैं मूर्ख इसे दूसरे ही रूप में समझा । अच्छा हुआ आधा ही सुनकर आत्मवञ्चना से उत्पन्न क्रोध के वश में न हुआ, सौभाग्य की बात है कि मैंने सब बात पूरी नहीं हो पायी थी तभी क्रोध से कटुवचन का प्रयोग नहीं किया, भाग्य से ही मुझे श्रीमती के प्रति विश्वास दिलाने के लिए ही उनकी