वेणीसंहारम् (भट्ट नारायण - संस्कृत मूल एवं सान्वय हिन्दी व्याख्या)
Venisamhara Nataka of Bhatta Narayana with Commentary
भट्ट नारायण द्वारा
[Page Header] तृतीयाेऽङ्कः ] प्रबोधिनी-प्रकाशद्वयोपेतम् १२७
कृतपरिकरस्य भवादृशस्य त्रैलोक्यमपि न क्षमं परिपन्थीभवितुं किं पुनर्युधिष्ठिरबलम् । तदेव मन्ये परिकल्पिताभिषेकोपकरणः कौरवराजो नचिरात्वामेवाभ्यपेक्षमाणस्तिष्ठतीति । अश्वत्थामा - यद्येवं त्वरते मे परिभवानलदह्यमानमिदं चेतस्तत्प्रती- कारजलावगाहनाय । तदहं गत्वा तातवधविषण्णमानसं कुरुपतिं सेनाप- त्यस्वयंग्रहणप्रणयसमाश्वासनया मन्दसन्तापं करोमि । कृपः-वत्स, एवमिदम् । अतस्तमेवोद्देशं गच्छावः । ( इति परिक्रामतः । ) ( ततः प्रविशतः कर्णदुर्योधनौ । ) दुर्योधनः--अङ्गराज,
परिपन्थीभवितुम्=शत्रुर्भवितुम् 'दस्युशात्रवशत्रवः अभिघातिपरारातिप्रत्य- थिपरिपन्थिन' इत्यमरः । परिकल्पिताभिषेकोपकरणः=परिकल्पितं सङ्गृहीतं अभिषेकोपकारणं येन सः, कौरवराजः = दुर्योधनः, नचिरात् = शीघ्रम्, अभ्यपेक्ष- माणः = प्रतीक्षमाणः । सेनापत्यस्वयंग्रहणप्रणयसमाश्वासनया =सेनापत्यस्य यत्स्वयमेव ग्रहणम् तद्रू- पप्रणयः तेन यः समाश्वासना, आश्वासः तया । अङ्गराजः - अङ्गदेशानां राजा कर्णः । 'राजाऽहःसखिभ्यष्टच्'ति टच्प्रत्ययः ।
आप सदृश पुरुष के कवचादि के धारण कर लेने पर तीनों लोक भी शत्रु बनने में समर्थ नहीं हो सकता फिर पाण्डवीय सेना की क्या कथा ! अत एव ऐसा समझकर अभि- षेकसामग्री एकत्रित करके कौरवनरेश (सुयोधन) कब से आपकी प्रतीक्षा कर रहे हैं ? अश्वत्थामा-यदि यह बात है तो अपमान की ज्वाला से भस्म होता हुआ मेरा चित्त उसके प्रतिकार (बदला) रूप जल में प्रवेश करने के लिए व्याकुल हो रहा है । अतः मैं जाकर पिता के वध से खिन्नमन हुए कुरुराज के शोक को सेनानायक के पद को स्वयं ग्रहण करने की याचना रूप आश्वासन से, न्यून करूँगा अर्थात् स्वयं जाकर सेनापति का भार ग्रहण करूँगा और उन्हें कहना न पड़ेगा इससे उनका शोक कम हो जायगा । कृप-वत्स, बहुत ठीक । अतः उस स्थान पर चलना चाहिये । ( दोनों चल पड़ते हैं ) ( इसके अनन्तर कर्ण और दुर्योधन का प्रवेश ) दुर्योधन-अङ्गराज !
१२८ वेणीसंहारं नाटकं तेजस्वी रिपुहतबन्धुदुःखपारं बाहुभ्यां व्रजति धृतायुधप्लवाभ्याम् । आचार्यः सुतनिधनं निशम्य सङ्ख्ये किं शस्त्रग्रहसमये विशस्त्र आसीत् ॥ २७॥ अथवा सूक्तमिदमभियुक्तैः प्रकृतिर्दुस्त्यजेति । यतः शोकान्धमनसा तेन विमुच्य क्षत्रधर्मकार्कश्यं द्विजातिधर्मसुलभो दैन्यपरिग्रहः कृतः । कर्णः--राजन्, खल्विदमेवम् । अन्वयः--तेजस्वी, धृतायुधप्लवाभ्याम्, बाहुभ्याम् रिपुहतबन्धुदुःखपारम्, व्रजति, संख्ये, आचार्यः, सुतनिधनम्, निशम्य, शस्त्रग्रहसमये, किम्, विशस्त्रः, आसीत् ॥ २७ ॥ आचार्यस्य तदा शस्त्रत्यागो न कार्य इत्याह-तेजस्वी रिपुहतेति । तेजस्वी = प्रतापी, धृतायुधप्लवाभ्याम्=आयुधमेव, प्लवम् केवर्तदण्डविशेषः तव धृतं याभ्यां ताभ्याम्, बाहुभ्याम् रिपुहतबन्धुदुःखपारम् = रिपुणा व्यापादितो यो बन्धुः तन यद्दुख तस्य पारम्, व्रजति-गच्छति । सङ्ख्ये = सङ्ग्रामे, आचार्यः = द्रोणः, सुतनिधनम्, निशम्य = श्रुत्वा, शस्त्रग्रहसमये = शस्त्रधारणकाले, शत्रुवधार्थमिति भावः । किम् = कस्मात्, विशस्त्रः = शस्त्ररहितः, आसीत् = बभूव । तस्मिन् काले शत्रोर्वधः कार्यो यथाऽर्जुनेन कृत इति भावः । अत्र आयुधे प्लव- त्वारोपः शब्दः । दुःखे समुद्रत्वारोप आर्थ इत्येकदेशविवर्तिरूपकालङ्कारः । प्रहर्षिणी छन्दः ॥ २७ ॥ क्षत्रधर्मकार्कश्यं = क्षत्रियधर्मकाठिन्यम् । सर्वेषां वधेनेति भावः । द्विजातीति— ब्राह्मणेन न शस्त्रं ग्राह्यमिति भावः । प्रतापी पुरुष सशस्त्रभुजारूपी जलयान (जहाज) की सहायता से शत्रु के द्वारा वध किये गये कुटुम्बियों के दुःखसागर को पार कर जाते हैं फिर क्या कारण है आचार्य ने समर स्थली के बीच अपने पुत्र (अश्वत्थामा) का वध सुन कर शस्त्रग्रहण के समय में उसका त्याग कर दिया ! ॥ २७ ॥ अथवा—नीतिवेत्ताओं ने यथार्थ कहा है—'प्रकृति कदापि नहीं परिवर्तित होती' शोक के कारण विवेकशून्य होकर उन्होंने क्षत्रिय धर्म कठोर समझ कर ब्राह्मण धर्म के लिए सुलभ दीनता का आश्रय लिया । कर्ण—भूमिपाल ! कौरवाधिप ! यह बात इस प्रकार नहीं है ।
तृतीयोऽङ्कः ] प्रबोधिनी-प्रकाश-द्वयोपेतम् १२६ दुर्योधनः-कथं तर्हि । कर्णः—एवं किलास्याभिप्रायो यथाऽश्वत्थामा मया पृथिवीराज्येऽभि- षेक्तव्य इति । तस्याभावाद् वृद्धस्य मे ब्राह्मणस्य वृथा शस्त्रग्रहणमिति तथा कृतवान् । दुर्योधनः-( सशिरःकम्पम् । ) एवमिदम् । कर्णः—एतदर्थं च कौरवपाण्डवपक्षपातप्रवृत्तमहासङ्ग्रामस्य राजकस्य परस्परक्षयमपेक्षमाणेन तेन प्रधानपुरुषवध उपेक्षा कृता । दुर्योधनः-उपपन्नमिदम् । कर्णः—अन्यच्च राजन्, द्रुपदेनाप्यस्य बाल्यात्प्रभृत्यभिप्रायवेदिना न तथा = शस्त्रपरित्यागम् । सशिरःकम्पं = शिरःकम्पनमभिमतसूचकम् । कर्णोक्तं स्वीकृत्येति भावः । कौरवपाण्डवपक्षपातप्रवृत्तमहासङ्ग्रामस्य = कौरवपाण्डवपक्षपातेन प्रवृत्तः प्रार- ब्धः महासङ्ग्रामः येन तस्य, राजकस्य = राजचक्रस्य, परस्परक्षयम् अपेक्षमाणेन = इच्छता, तेन = द्रोणेन, प्रधानपुरुषवधे = श्रेष्ठवीरजनवधे, उपेक्षा = औदासीन्यम् कृता । अश्वत्थाम्नः पृथिवीराज्ये अभिषेकाय द्रोणः प्रधानवीरं न हतवान् । अयम- भिप्रायः - प्रधानवीरेण इतरस्य वधे जाते तं वीरं निहत्याहं पृथिवीराज्येऽश्वत्था- मानमभिषेक्ष्यामीति । उपपन्नं = युक्तम् । द्रुपदेनापीति । द्रुपदेन बाल्यादेव तस्याभिप्रायज्ञेन स्वराष्ट्रात् द्रोणो निःसारित इति भावः । दुर्योधन-अच्छा तो किस प्रकार है ? कर्ण-आचार्य द्रोण का अभिप्राय इस प्रकार का था कि—'अश्वत्थामा को मैं भूमिपाल बनाऊँगा परन्तु इस मनोरथ की सिद्धि नहीं हुई तो मुझ बूढ़े ब्राह्मण के लिए शस्त्र धारण करना व्यर्थ है'—यही समझ कर उन्होंने ऐसा किया है । दुर्योधन-( सिर हिला कर ) यही बात है । कर्ण-इसी अभिप्राय से तो उन्होंने कौरव तथा पाण्डव के पक्षपात के कारण होने वाले महासमर के बीच राजन्य वर्गों के अन्योन्य नाश की सम्भावना करते हुए प्रधान वीरों के नाश की उपेक्षा की है। दुर्योधन-यह बात युक्तियुक्त प्रतीत हो रही है । कर्ण-और दूसरी बात यह भी है महाराज ! शैशवकाल से ही इनके अभिप्राय के ९ वे०
१३० वेणीसंहारं नाटकं स्वराष्ट्रे वासो दत्तः । दुर्योधनः—साधु अङ्गराज ! साधु । निपुणमभिहितम् । कर्णः—न चायं ममैकस्याभिप्रायः । अन्येऽभियुक्ता अपि नैवेदमन्यथा मन्यन्ते । दुर्योधनः—एवमेतत् । कः सन्देहः ? दत्त्वाऽभयं सोऽतिरथो बध्यमानं किरीटिना । सिन्धुराजमुपेक्षेत नैवं चेत्कथमन्यथा ॥ २८ ॥ कृपः—( विलोक्य । ) वत्स, एष दुर्योधनः सूतपुत्रेण सहास्यां न्यग्रोध- च्छायायामुपविष्टस्तिष्ठति । तदुपसर्पावः । ( तथा कृत्वा । ) अन्वयः—एवम्, न चेत् (तदा) अन्यथा, अतिरथः, सः, अभयम्, दत्त्वा, किरीटिना, वध्यमानम्, सिन्धुराजम् कथम् उपेक्षेत ॥ २८ ॥ कर्णोक्तं द्रढयति-दत्त्वाऽभयमिति । एवं=त्वदुक्तं सत्यं न, चेत्, तदा, अन्यथा= अन्यथेत्यस्योपेक्षेतेत्यनेनान्वयः, अतिरथः=अगणितैः सह योद्धा, सः=द्रोणः, अभयं= तव वधो न स्यादिति, दत्त्वा, सिन्धुराजायेति शेषः । किरीटिना=अर्जुनेन वध्य- मानम्, सिन्धुराजम् = जयद्रथम्, कथम्, उपेक्षेत । नोपेक्षेतेत्यर्थः । अत एव जयद्रथस्य रक्षा न कृता तेनेति भावः । पथ्यावक्त्रं छन्दः ॥ २८ ॥ सूतपुत्रेण = कर्णेन, न्यग्रोधच्छायायाम् = वटच्छायायाम् 'व्यामो वटश्च न्यग्रोधो' इत्यमरः । उपसर्पावः = गच्छावः । ज्ञाता द्रुपद ने अपने राज्य में इन्हें आश्रय नहीं लेने दिया । दुर्योधन—सत्य अङ्गनरेश ! सत्य, बहुत उचित आपने कहा । कर्ण—यह केवल मेरी धारणा नहीं है अपितु और भी नीतिमान् पुरुष इससे विभिन्न धारणा नहीं रखते । दुर्योधन—यही बात है, इसमें सन्देह ही क्या है ? उन अतिरथी द्रोण ने जयद्रथ को अभय दान देकर अर्जुन के द्वारा वध किये जाते हुए भी उसे देखकर उसकी उपेक्षा की । यदि यह बात न होती तो फिर ऐसा क्यों किया ॥२८॥ कृप—( देख कर ) पुत्र ! यह दुर्योधन सूतपुत्र [ कर्ण ] के साथ उस वटवृक्ष की छाया में बैठा हुआ है अतः इसके सन्निकट चलें । ( सन्निकट जाकर )
तृतीयोऽङ्कः ] प्रबोधिनी-प्रकाश-द्वयोपेतम् १३१ उभौ—विजयतां कौरवेश्वरः । दुर्योधनः—( दृष्ट्वा । ) अये, कथं कृपोऽश्वत्थामा च ( शासनादवतोर्य कृपं प्रति । ) गुरो ? अभिवादये । ( अश्वत्थामानमुद्दिश्य । ) आचार्यपुत्र ? एह्यस्मदर्थहततात परिष्वज्य क्लान्तैरिमर्मम निरन्तरमङ्गमङ्गैः । स्पर्शस्तवैष भुजयोः सदृशः पितुस्ते शोकेऽपि नो विकृतिमेति तनूरुहेषु ॥ २९ ॥ ( आलिङ्ग्य पार्श्वं उपवेशयति । ) ( अश्वत्थामा बाष्पमुत्सृजति । ) कर्णः— द्रोणायने ? अलमत्यर्थमात्मानं शोकानले प्रक्षेप्तुम् । अभिवादये=प्रणमामि । अन्वयः—(हे) अस्मदर्थहततात !, एहि, क्लान्तैः, इमैः, अङ्गैः, मम, निरन्त- रम्, अङ्गम्, परिष्वजस्व, ते, पितुः, सदृशः, तव, एषः, भुजयोः, स्पर्शः, नः, शोकेऽपि, तनूरुहेषु, विकृतिम्, एति ॥ २९ ॥ अस्मदर्थहततात=अस्मदर्थं हतः तातः यस्य, तत्सम्बोधने, एहि = आगच्छ, क्लान्तैः = खिन्नैः, अङ्गैः= अवयवैः, मम, निरन्तरम्, अङ्गं पारिष्वजस्व = वालिङ्गय, ते=तव, पितुः= द्रोणस्य, सदृशः, तव एषः = त्वया कृतः, भुजयोः = बाह्वोः, स्पर्शः, नः=अस्माकम्, शोकेऽपि, तनूरुहेषु = लोमसु, विकृति = उद्गमम्, एति = प्राप्नोति । तव स्पर्शादतीवानन्दो जात इति भावः । अत्र तृतीयचरणे उपमा । वसन्ततिलका छन्दः ॥ २६ ॥ द्रोणायने=अश्वत्थामन्, शोकानले = शोकाग्नौ, आत्मानं=स्वम्, अत्यर्थं = दोनों—[ अश्वत्थामा और कृप ] विनय ! विजय ! कौरवाधिनाथ की । दुर्योधन—( देख कर ) अरे यह कृप और अश्वत्थामा ? (आसन से उतर कर कृपाचार्य के प्रति ) आचार्य ! प्रणाम करता हूँ । (अश्वत्थामा के प्रति ) आचार्यात्मज ! मेरे निमित्त आपके पिता का संहार हुआ है, आइए शोक से खिन्न अङ्गों ने मेरे अङ्गों का [ वक्षःस्थल का ] आलिङ्गन कीजिए ! आपकी इन भुजाओं का संश्लेष (स्पर्श) आपके पिता के अनुरूप ही है। इस शोकावस्था में भी रोमाञ्च होने में रञ्चमात्र भी विकृति नहीं आती ॥ २९ ॥ ( आलिङ्गन कर समीप में बैठाता है ) ( अश्वत्थामा रोता है ) कर्ण—द्रोणात्मज ! शोकाग्नि में अपने को अत्यन्त सन्तप्त करने से क्या लाभ ?
१३२ वेणीसंहारं नाटकं दुर्योधनः-आचार्यपुत्र, को विशेष आवयोरस्मिन्व्यसनमहार्णवे । पश्य- तातस्तव प्रणयवान्स पितुः सखा मे शस्त्रे यथा तव गुरुः स तथा ममापि । किं तस्य देहनिधने कथयामि दुःखं जानीहि तद् गुरुशुचा मनसा त्वमेव ॥ ३० ॥ कृपः - वत्स ? यथाह कुरुपतिस्तथैवैतत् । अश्वत्थामा - राजन्, एवं पक्षपातिनि त्वयि युक्तमेव शोकभारं लघू- कर्तुम् । किन्तु भृशम्, प्रक्षेप्तुम् अलमित्यन्वयः । व्यसनमहार्णवे = व्यसनं महार्णवः महासमुद्र इव, उपमितसमासः । अन्वयः-सः, तव, तातः, मे, पितुः, प्रणयवान्, सखा सः, शस्त्रे, यथा, तव, गुरुः, तथा, मम, अपि, ( गुरुः । तस्य, देहनिधने, दुःखम्, किम्, कथयामि, त्वम् एव, गुरुशुचा, मनसा, तद्, जानीहि ॥ ३० ॥ विशेषाभावं हेतुमाह - तातस्तवेति । सः = द्रोणः, तव, तातः = पिता मे = मम, पितुः, प्रणयवान् = स्नेहवान्, सखा = मित्रम्, एतेन पितृसदृशः सूचितः । सः = द्रोणः, शस्त्रे, यथा, तव, गुरुः = शिक्षकः, तथा, ममापि गुरुः तस्य, देहनिधने = मरणे, दुःखम् कि कथयामि = वच्मि कथनानाहं दुःखमिति भावः । त्वम्, एव गुरुशुचा = महाशोकेन, मनसा = अन्तः- करणेन् तद् = दुःखम्, जानीहि = बुद्ध्यस्व, समानदुःखभाजावावामिति भावः । वसन्ततिलकाछन्दः ॥ ३० ॥ दुर्योधन - आचार्यतनुजन्मन् ! हम दोनों ( दुर्योधन और अश्वत्थामा ) के इस दुःख के अगाध समुद्र में क्या वैषम्य है ? अर्थात् कुछ भी नहीं । देखिए- आपके पिता आपसे स्नेह करते थे तो मेरे पिता के भी मित्र थे । अर्थात् इस सम्बन्ध से मैं भी स्नेहभाजन हुआ । वे शस्त्रविद्या के जिस प्रकार आपके गुरु थे उसी प्रकार मेरे भी । उनके शरीरनाश के विषय में जो दुःख हो रहा है उसे क्या कहूँ आप अपने असीम शोकग्रस्त मन से ही समझ लीजिए अर्थात् आपके पिता के साथ मेरा भी आप ही का सा सम्बन्ध है अतः दुःख भी एक ही तरह का है आप अपनी वेदना से मेरी वेदना का अनुमान कर सकते हैं ॥ ३० ॥ कृप - पुत्र ! कौरवाधिनाथ ने जो कहा वह उसी प्रकार है । अश्वत्थामा - आपकी इस प्रकार की दयादृष्टि से शोकभार में न्यूनता होना स्वाभाविक ही है । परन्तु-
तृतीयोऽङ्कः ] प्रबोधिनी-प्रकाश-द्वयोपेतम् १३३ मयि जीवति यत्तातः केशग्रहमवाप्तवान् । कथमन्थे करिष्यन्ति पुत्रेभ्यः पुत्रिणः स्पृहाम् ॥ ३१ ॥ कर्णः—द्रोणायने किमत्र क्रियते यदनेनैव सर्वपरिभवपरित्राणहेतुना शस्त्रमुत्सृजता तादृशीमवस्थामात्मा नीतः । अश्वत्थामा—अङ्गराज, किमाह भवान्किमत्र क्रियत इति । श्रूयतां यत्क्रियते । यो यः शस्त्रं बिभर्ति स्वभुजगुरुमदः पाण्डवीनां चमूनां अन्वयः—मयि, जीवति, ( सति ) तातः, यत् केशग्रहम्, अवाप्तवान् ( तदा ) अन्ये, पुत्रिणः, पुत्रेभ्यः, स्पृहाम् , कथम्, करिष्यन्ति ॥ ३१ ॥ अत्यन्तं दुःखास्पदमिदमित्याह — मयि जीवतीति । मयि = अश्वत्थाम्नि, जीवति सति, तातः = द्रोणः, यत् = यदि, केशग्रहम् = कचग्रहम्, अवाप्तवान् = प्राप्तः, तदा, अन्ये, पुत्रिणः = पुत्रवन्तः, स्पृहाम् = पुत्रेच्छां, 'स्पृहेरीप्सित' इति चतुर्थी । कथं, करिष्यन्ति, उत्तमपुत्रेच्छा लोकः कथं स्यादिति भावः । पथ्यावक्त्रं छन्दः ॥ ३१ ॥ द्रोणायन इति यद्यपि 'द्रोणपर्वतजीवन्तादन्यतरस्याम्' इति सूत्रेण गोत्रे, एव पुगन्तस्य पक्षे ढञन्तस्य च साधुत्वं सम्भवति न तु फिञन्तस्य तथापि अपत्यरूपेऽर्थे 'तिकादिभ्यः फिञ्' इत्यनेन यथा कथञ्चित्साधुत्वं वोद्धव्यम् , अत्र = प्रत्यपकारे, किं क्रियते । अन्वयः—पाण्डवीनाम्, चमूनाम्, मध्ये, स्वभुजगुरुमदः यः, यः, शस्त्रम्, बिभर्ति, पाञ्चालगोत्रे, यः, यः, शिशुः, अधिकवयाः, गर्भशय्याम्, गतः, वा यः, यः, तत्कर्मसाक्षी, रणे, मयि, चरति ( सति ) यश्च, यश्च, प्रतीपः, जगताम्, अन्तकस्य, तस्य, तस्य, इह, क्रोधान्धः, स्वयम्, अहम्, अन्तकः ( अस्मि ) ॥ ३२ ॥ किं करिष्यामीत्याह—यो य इति । पाण्डवीनां = पाण्डवसम्बन्धिनीनाम्, मेरे जीवित रहते हुए पिता ने केशकर्षणरूप दुर्दशा का अनुभव किया है। यदि यही दशा है तो और पुत्रसम्पन्न व्यक्ति अपने पुत्रों से क्या स्नेह रखेंगे ? ॥ ३१ ॥ कर्ण—द्रोणकुमार ! इस विषय में क्या किया जाय जब कि सब प्रकार के उपद्रवों से रक्षा के कारणभूत शस्त्र का परित्याग करते हुए उन्होंने ही अपने को उस प्रकार की दशा तक पहुँचा दिया । अश्वत्थामा—अङ्गनरेश ! आपने क्या कहा—'क्या किया जाय ?' सुनिये—क्या करना चाहिए । पाण्डवों की सेना में जिसे अपनी विशाल भुजाओं का अहङ्कार है अथवा जो शस्त्र
१३४ वेणीसंहार नाटकं
यो यः पाञ्चालगोत्रे शिशुरधिकवया गर्भशय्यां गतो वा ।
यो यस्तत्कर्मसाक्षी चरति मयि रणे यश्च यश्च प्रतीपः
क्रोधान्धस्तस्य तस्य स्वयमपि जगतामन्तकस्यान्तकोऽहम् ॥ ३२ ॥
अपि च । भो जामदग्न्यशिष्य कर्ण,
देशः सोऽयमरातिशोणितजलैर्यस्मिन्ह्रदाः पूरिताः
चमूनाम् = सेनानाम्, मध्ये निर्धारणे षष्ठी । स्वभुजगुरुमदः = स्वभुजावेव गुरु महत्.
मदः यस्य सः, यो यः, शस्त्रम् = आयुधं, बिभर्ति=धारयति, पाञ्चालगोत्रे=पञ्चालानां
राजेति पाञ्चालः 'जनपदशब्दात्क्षत्रियादञ्' इत्यत्र राजन्यपि अपत्यवत् प्रत्यय-
विधानादञ् प्रत्ययः । तस्य गोत्रे वंशे, यो यः, शिशुः = बालकः, अधिकवयाः=युवा
वृद्धश्च, बालकापेक्षया तयोरधिकवयस्त्वात् अत्र तरुणवृद्धयोर्ग्रहणम् । गर्भशय्यां = गर्भः
शय्या शयनीयं तां गतः, वा यो यः तत्कर्मसाक्षी=द्रोणवधस्य साक्षाद्द्रष्टा, रणे=
सङ्ग्रामे, मयि=शस्त्रत्यागिनि, चरति = भ्रमति सति, यश्च यश्च, प्रतीपः - प्रतिकूल-
कर्त्ता, जगतां = लोकानाम्, अन्तकस्य, एतेन, तेऽपि वीराः तेषां निहन्ता चाहमतीव
वीर इति सूचितम् । तस्य=पूर्वोक्तस्य, इह क्रोधान्धः, स्वयम्=एकाकी, अहम्,.
अन्तकः=यमः, विनाशक इत्यर्थः । अस्मीति शेषः । युद्धे सर्वान् पूर्वोक्तान् विनाश-
यिष्यामीति भावः । अत्र चतुर्थचरणे रूपकमलङ्कारः । स्रग्धराछन्दः ।
जामदग्न्यशिष्यः = परशुरामात् प्राप्तविद्यः ।
अन्वयः - यस्मिन्, अरातिशोणितजलैः, ह्रदाः, पूरिताः, सः, अयम्, देशः,
क्षत्रात्, एव, तथाविधः, तातस्य, केशग्रहः, परिभवः, मे, अहितगलच्छमरुगुरुणि,
तान्येव, अस्त्राणि, मास्र्दन्ति, (सन्ति) रामण, यत्, कृतम्, तदेव, क्रोधनः,
द्रोणायनिः, कुरुते ॥ ३३ ॥
पितुः पराभवेन परशुरामेण कृतं क्षत्रियविनाशं स्मारयन् स्वयमपि तथाकरिष्या
मीति बोधयन्नाह—देशः सोयमिति । यस्मिन् = कुरुक्षेत्रे, अरातिशोणितजलैः =
ग्रहण किए हुए हैं और पाञ्चालनरेश के कुटुम्ब में जो कोई बालक, युवा अथवा जो गर्भ
की शय्या पर शयन करता है; तथा और जिस किसी ने इस घृणित कार्य का अपने नेत्रों से
अवलोकन किया है; तथा जो कोई व्यक्ति समराङ्गण में विचरने समय मेरे विरुद्ध व्यवहार
करता है मैं क्रोधोन्मत्त होकर उन व्यक्तियों का तथा सर्व संसार के प्रलयकारी काल का भी
काल हूँ ॥ ३२ ॥
और भी । हे परशुरामशिष्य कर्ण ! [सुनिए]
यह वही देश है जिस देश के सर और सरितायें शत्रुओं के रुधिर से आप्लावित हो
तृतीयोऽङ्कः ] प्रबोधिनी-प्रकाश-द्वयोपेतम् १३५ क्षत्रादेव तथाविधः परिभवस्तातस्य केशग्रहः । तान्येवाहितशस्त्रघस्मरगुरुण्यस्त्राणि भास्वन्ति मे यद्रामेण कृतं तदेव कुरुते द्रौणायनिः क्रोधनः ॥ ३३ ॥ दुर्योधनः—आचार्यपुत्र, तस्य तथाविधस्यानन्यसाधारणस्य ते वीर- भावस्य किमन्यत्सदृशम् । कृपः राजन्, सुम्हान्खलु द्रोणपुत्रेण वोढुमध्यवसितः समरभरः । तदहमेवं मन्ये भवता कृतपरिकरोऽयमुच्छेत्तुं लोकत्रयमपि समर्थः । किं पुनर्युधिष्ठिरबलम् । अतोऽभिषिच्यतां सैनापत्ये । शत्रुशोणितमेव जलानि तैः, हृदाः = अगाधजलाशयः, पूरिताः = भरिताः, सः, अयं, देशः क्षत्रात् = क्षत्रियात् एव, तथाविधः = हैहयवंशजकृतेन परशुरामपितृपराभवेन सदृशः, तातस्य = पितुः ममेति शेषः । केशग्रहः परिभवः, उभयः समान एव परि- भव इत्यर्थः । मे = मम, अहितशस्त्रघस्मरगुरुणि = शत्रोरायुधस्य श्रेष्ठानि भक्षकाणि, अस्त्राणि, तान्येव, भास्वन्ति = दीप्यमानानि, सन्ति जामदग्न्यशिष्यात्स्वपितुरेवमयाऽपि शस्त्रविद्या प्राप्तेति तादृशान्येव ममाप्यस्त्राणीति भावः । रामेण = परशुरामेण यत् = क्षत्रियविनाशरूपकार्यं, कृतं तदेव, क्रोधनः = कुपितः, द्रोणायनिः = अश्वत्थामा कुरुते । अत्र द्वितीयचरणे उपमा तृतीयचतुर्थचरणयोस्तच्छत्रतत्कर्मणोरसम्भवात्तुल्ययोराक्षेपेण निदर्शनाद्वयमलंकारः । शार्दूलविक्रीडितं छन्दः ॥ ३३ ॥ सुम्हान्, समरभरः = सङ्ग्रामभारः वोढुम्, द्रोणपुत्रेण, अव्यवसितः इत्य- न्वयः । भवता, कृतपरिकरः = कृतसन्नाहः, अयम् = अश्वत्थामा, लोकत्रयमपि, समुच्छेत्तु = विनाशयितुम्, समर्थः, योधिष्ठिरबलम् = युधिष्ठिरसेना, किं पुनः, गई। मेरे पिता का यह अपमान भी उसी प्रकार क्षत्रियजाति के द्वारा हुआ है। मेरे पास वे ही चमचमाते हुए शस्त्र हैं, जो विरुद्ध शस्त्रों के भक्षण कर जाने से अतिमहत्ताशाली हैं, और क्रुद्ध होकर परशुराम ने जो कर डाला है वही यह द्रोणतनय करने जा रहा है ॥ ३३ ॥ दुर्योधन—आचार्यपुत्र ! उस प्रकार की अनन्यसाधारण वीरता की तुलना आपकी वीरता से और किस बात में हो सकती है ? अर्थात् शत्रुवध के अतिरिक्त और किस बात में समानता हो सकती है । कृप—महाराज ! द्रोणपुत्र (अश्वत्थामा) बड़े संग्रामभार को उठाने के लिए कटिबद्ध हैं, अतः मेरे विचार में यह आता है कि यदि आपके द्वारा ये अभिषिक्त हो जायें तो तीनों लोकों का संहार करने में समर्थ हो सकते हैं फिर पाण्डवीसेना के विषय में क्या कहना है ? अतः सेनानायक के पद पर इनका अभिषेक कर दीजिए ।
१३६ वेणीसंहारं नाटकं दुर्योधनः—सुष्ठु युज्यमानमभिहितं युष्माभिः, किन्तु प्राक्प्रतिपन्नोऽ- यमर्थोऽङ्गराजस्य । कृपः—राजन्, असदृशपरिभवशोकसागरनिमज्जन्तमेन मङ्गराजस्यार्थे नैवोपेक्षितु युक्तम् । अस्यापि तदेवारिकुलमनुशासनीयम् । अतः किमस्य पीडा न भविष्यति । अश्वत्थामा--राजन्, किमद्यापि युक्तायुक्तविचारणया । प्रयत्नपरिवोधितः स्तुतिभिरद्य शेषे निशा- अस्योच्छेदोञ्जीव सुलभ इति भावः । सुष्ठु = शोभनम्, युज्यमानम्, = उचितम्, अभिहितम् = उक्तम्, अङ्गराजस्य = कर्णस्य, अयमर्थः = सेनापत्येऽधिकारः, प्राक् प्रतिपन्नः = प्राप्तः, पूर्वमेव निश्चितं यद्द्रोणानन्तरं कर्णः सेनानायको भविष्यतीति भावः । असदृशपरिभवशोकसागरे = असदृशः अनुपमः अयोग्यो यः परिभवः मृत्युहुरः तज्जन्यो यः शोकः स सागर इव तत्र, निमज्जन्तम् = पतितम्, एनं = द्रोणपुत्रम्, अङ्गराजस्य अर्थे = कृते, उपेक्षितुम् नैव, युक्तम्, अस्य = अश्वत्थाम्नः, तदेव = यत्कर्णेनानुशासनीयम्, अरिकुलम् = शत्रुसमूहः, अनुशासनीयम् = हिसनीयम्, अस्य = अश्वत्थाम्नः । युक्तायुक्तेति -- कर्णस्य सेनापत्यस्थानमुताश्वत्थाम्न इत्याकारकविचारः । अन्वयः—अद्य, ( त्वम् ) निशाम् शेषे, स्तुतिभिः, प्रयत्नपरिवोधितः, ( भवि- ष्यसि ) अद्य, भुवनम् अकेशवम्, अपाण्डवम् निःसौमिकम् ( भविष्यति ), अद्य, दोःशालिनाम्, इयम्, रणकथा, परिसमाप्यते, अद्य, भुवः, नृपकाननातिगुरुः भारः, अपैतु ॥ ३४ ॥ अद्य त्वं निश्चिन्तो भवेत्याह-प्रयत्नेति । हे दुर्योधन त्वम्, अद्य निशाम् = दुर्योधन—आपने ठीक और युक्तियुक्ति कहा है परन्तु इस कार्य के लिए तो पहले ही से कर्ण को निर्धारित कर लिया गया है । कृप—राजन् ! अपमान के असीम सन्ताप सागर में गोता खाते हुए इनकी केवल कर्ण के लिए उपेक्षा करना उचित नहीं । इन्हें भी तो उन्हीं शत्रुओं को दण्ड देना है । अतः क्या इन्हें कष्ट न होगा ? अर्थात् इस दशा में यदि आप इनकी उपेक्षा करेंगे तो इनको आत्मा को कष्ट नहीं होगा ? किन्तु अवश्य होगा । अश्वत्थामा- कुरुराज ! आज भी युक्त और अयुक्त के विचार से क्या प्रयोजन ? अर्थात् मुझे ही सेनानायक निर्वाचित कीजिए । वन्दिचारणों के मंगल पाठ द्वारा बहुत परिश्रम से निद्राभंग किए जाने पर भी आज
तृतीयोऽङ्कः ] प्रबोधिनी-प्रकाश-द्वयोपेतम् १३७ मकेशवमपाण्डवं भुवनमद्य निःसोमकम् । इयं परिसमाप्यते रणकथाऽद्य दोःशालिना- मपैतु नृपकाननातिगुरुरद्य भारो भुवः ॥ ३४ ॥ कर्णः—(विहस्य) द्रोणायने, वक्तुं सुकरमिदं दुष्करमध्यवसितुम् । बहवः कौरवबलस्य कर्मणः शक्ताः । अश्वत्थामा—अङ्गराज, एवमिदम्, बहवः कौरवबलेऽत्र शक्ताः किंतु दुःखोपहतः शोकावेगवशाद् ब्रवीमि न पुनर्वीरजनाधिक्षेपेण । रात्रिम्, कालाध्वनोः, इति द्वितीया, समग्रनिशां व्याप्येतिभावः शेषे = स्वप्स्यसि, वर्तमानसामीप्ये लट् । स्तुतिभिः=मागधादिकृतस्तवैः, प्रयत्नपरिवोधितः = प्रयत्नेन जागरितः भविष्यसीति शेषः । मयाऽद्य निखिलरिपूणां विनाशे कृते चिन्ताऽभावात्त्वं गाढं स्वप्स्यसि तथा च गाढनिद्राभङ्गः प्रयत्नेन स्यादिति गूढाभिप्रायः । तदेवाह— अकेशवमिति । अद्य, भुवनं = जगत्, अकेशवम् = कृष्णरहितम्, मया हननादिति भावः । अपाण्डवम् = पाण्डुपुत्रशून्यम्, निःसोमकम् = सोमवंशरहितम् भविष्यतीति शेषः । अद्य, दोःशालिनाम् = बलवद्भुजवताम्, इयम्, रणकथा = सङ्ग्रामचर्चा, परिसमाप्यते = अवसीयते, मया सर्वेषां वीराणां हननादिति भावः, । अद्य भुवः = संसारस्य, नृपकाननातिगुरुः=नृपा एव काननं वनं तदेवातिगुरुः श्रेष्ठः भारः, अपैतु = दूरं भवतु । अत्र चतुर्थचरणे रूपकमलङ्कारः । पृथिवी छन्दः । लक्षणमुक्तं चतुर्थश्लोके ॥ ३४ ॥ अध्यवसितुम् = कर्तुम् । वीरजनाधिक्षेपेण = वीरजननिन्दया । आप निशाकाल में शयन करेंगे । आज मैं वसुन्धरा को वासुदेव भगवान् और पाण्डवों से शून्य बना दूँगा तथा पाञ्चालादि क्षत्रियों को निर्वंश कर डालूँगा । प्रचण्ड-दोर्दण्ड-सम्पन्न (विशाल भुजावाले) राजाओं की सांग्रामिकी वार्ता भी आज ही अवशिष्ट हो जायगी और भूमिपालरूपी जङ्गलों के बोझ से दबी हुई पृथ्वी का भार आज ही चला जायगा अर्थात् पृथ्वी का भार आज ही न्यून कर डालूँगा ॥ ३४ ॥ कर्ण—(हँस कर) द्रोणायने ! कहना तो आसान है परन्तु करना कठिन है । कौरवीय सेना में भी इस कार्य के सम्पादन करने में समर्थ बहुत वीर हैं । अश्वत्थामा—अङ्गाधिप बहुत ठीक । कौरव सेना में इस कार्य के करने में बहुत से लोग समर्थ हैं तथापि दुःख से विद्ध होकर शोकावेश के कारण कह रहा हूँ । वीरों की निन्दा नहीं कर रहा हूँ ।
१३८ वेणीसंहारं नाटकं कर्णः—मूढ, दुःखितस्याश्रुपातः कुपितस्य चायुध द्वितीयस्य सङ्ग्रामा- वतरणमुचितं नैवंविधाः प्रलापाः । अश्वत्थामा—( सक्रोधम् ) अरे रे राधागर्भभारभूत, सूतापसद, ममापि नामाश्वत्थाम्नो दुःखितस्याश्रुभिः प्रतिक्रियामुपदिशसि न शस्त्रेण । पश्य- (१) निर्वीर्यं गुरुशापभाषितवशात्किं मे तर्वायुधं सम्प्रत्येव भयाद्विहाय समरं प्राप्तोऽस्मि किं त्वं यथा । आयुधद्वितीयस्य=आयुधं द्वितीयं यस्य तस्य, सङ्ग्रामावतरणम्=समरागमनम् । प्रलापाः=अनर्थकवचांसि 'प्रलापोऽनर्थकं वच', इत्यमरः । राधेति=राधाया गर्भस्य उदरस्य भारभूत; सूतपामर । अन्वयः—तव, इव, मे वायुधम्, गुरुशापभाषितवशात्, किम्, निर्वीर्यम् त्वम्, यथा, ( तथा ) सम्प्रत्येव, भयात्, समरम् विहाय, प्राप्तः, अस्मि, किम् स्तुति- वंशकीर्तनविदाम्, सारथीनाम्, कुले, अहम्, किम् जातः, यत्, क्षुदारातिकृताप्रियम्, शस्त्रेण, प्रतिकरोमि, अस्त्रेण, न ( प्रतिकरोमि ) ॥ ३५ ॥ तव इव, मे=मम आयुधम्, गुरुशापभाषितवशात् = परशुरामशापोक्तिहेतोः किं निर्वीर्यम् = वीर्यशून्यम्, अयं भावः - कर्ण. स्वजाति सूतत्वं सगोप्य ब्राह्मणत्वं विख्याप्य परशुरामाच्छस्त्रविद्यां प्राप्तः पश्चाच्च ज्ञातः क्षत्रोऽयमिति ततश्च परशुरामः कर्णाय शापं ददौ तवायुधं वीर्यवन्न स्यादिति । त्वं यथा, तथेति शेषः । सम्प्रत्येव= अधुनैव, भयाद् = भीतेः, समरं = सङ्ग्रामं, विहाय = त्यक्त्वा, प्राप्तः आगतः अस्मि कर्ण—मूर्ख! व्यथितों को आँसू निकलने हैं। क्रुद्ध व्यक्तियों के लिये हाथ में शस्त्र लेकर युद्धक्षेत्र में उतर जाना उचित होता है इस प्रकार व्यर्थ बड़बड़ाना उचित नहीं । अश्वत्थामा—( क्रोधपूर्वक ) अरे ! अरे !! राधागर्भ के भार !!! सूताधम !!!! क्यों इस प्रकार की निन्दा कर रहा है। मुझ व्यथित अश्वत्थामा के लिये अश्रुपात करके बदला लेने का उपदेश दे रहा है शस्त्र के द्वारा नहीं । देखो— क्या तुम्हारी तरह मेरे भी शस्त्र गुरुशाप के कारण शक्तिहीन हो गये हैं ? क्या तुम्हारी तरह में संग्राम से पराङ्मुख होकर इस समय यहाँ उपस्थित हुआ हूँ ! और क्या (१) 'निर्वीर्य गुरुशाप भाषितवशादि'त्युत्तरं 'निर्वीर्यं वा सवीर्यं वे'ति श्लोकस्य पाठः । एतदुत्तरञ्च 'सूतो वा सूतपुत्रो वेत्यस्य पाठः समीचीनः । निर्वीर्यमिति श्लोकेन आयुधस्य सारथिकुले जन्मनश्च निन्दितत्वात्, तदुत्तरमेव 'सूतो वे'ति पाठस्य समुचितत्वात् पूर्वमेतस्यांशे तु भ्रमसङ्किकः स्यात् । दत्र च विपरीतः पाठः, तत्र प्रमादात् ।
तृतीयाेऽङ्कः ] प्रबोधिनी-प्रकाश-द्वयोपेतम् १३९ जातोऽहं स्तुतिवंशकीर्तनविदां किं सारथीनां कुले क्षुद्रारातिकृताप्रियं प्रतिकरोम्यस्रेण नास्त्रेण यत् ॥ ३५ ॥ कर्णः- ( सक्रोधम् । ) अरे रे वाचाट, वृथाशस्त्रग्रहणदुविंदग्ध बटो, निर्वीर्यं वा सवीर्यं वा मया नोत्सृष्टमायुधम् । यथा पाञ्चालभीतेन पित्रा ते बाहुशालिना ॥ ३६ ॥ अपि च । सूतो वा सूतपुत्रो वा यो वा को वा भवाम्यहम् । किम्, नाहमागत इत्यर्थः । स्तुतिवंशकीर्तनविदाम् = स्तुतिः वंशकीर्तनरूपा तत् विदन्ति तेषाम्, सारथीनां = सूतानां, कुले, किम् अह, - जातः = उत्पन्नः, नेति भावः । यत् क्षुद्रारातिकृताप्रियम् = क्षुद्रशत्रुकृतापकारम्, अस्रेण = अश्रुणा, प्रतिकरोमि = प्रतिक्रिया सम्पादयामि, अस्त्रेण = आयुधेन, न । आयुधेनैव प्रतिक्रिया करोमीति भावः । शार्दूलविक्रीडितं छन्दः ॥ ३५ ॥ वाचाटः = वाचाल, बहुभाषिन्नित्यर्थः । अन्वयः - निर्वीर्यम् वा, सवीर्यं वा आयुधम्, मया न उत्सृष्टम् । यथा बाहु- शालिना, पाञ्चालभीतेन, ते, पित्रा उत्सृष्टम् ॥ ३६ ॥ नाहं त्वत्पितृवद्भीतेरित्याह - निर्वीर्यमिति । निर्वीर्यं = पराक्रमरहितम्, वा सवीर्यं = सपराक्रमम्, वा, आयुधम् = शस्त्रं, मया = कर्णेन, न, उत्सृष्टम् = त्यक्तम्, मया ते = तव, बाहुशालिना = पराक्रमिणा, बाहुशालिनेति काक्वोच्यते अपराक्रमि- णित्यर्थः । अथवा सत्यपि भुजद्वये कथं पाञ्चालाद्भीत इति व्यज्यत । पाञ्चालभीतेन = धृष्टद्युम्नत्रस्तेन, आयुधम् त्यक्तमिति शेषः । अत्रोपमालङ्कारः । पथ्यावक्त्रं छन्दः ॥ अन्वयः - सूतः, वा, सूतपुत्रः, वा, यः वा, कः ( अपि ) वा अहम्, भवामि,. कुले जन्म दैवायत्तम्, तु पौरुषम् मदायत्तम् ॥ ३७ ॥ यदुक्तं त्वं सारथि कुले जातस्तत्राह - सूतो वेति । तुम्हारी भाँति लोगों के कुल की प्रशंसा करने में लीन रथकारों के वंश में मेरा भी जन्म हुआ है ? अर्थात् रात दिन बाबूजी कहकर जीविका प्राप्त करने वाले रथवानों के कुल में जन्म हुआ है जिससे कि मैं क्षुद्र शत्रुओं के द्वारा किये गये अपकार का बदला आँसू से लूँ और शस्त्र से नहीं ? ॥ ३५ ॥ कर्ण-( क्रुद्ध होकर ) अरे अरे वातूल व्यर्थ शस्त्रभारवाहक ! कुमार !! पराक्रमी हो चाहे कायर मैने तो शस्त्र का त्याग नहीं किया जिस प्रकार धृष्टद्युम्न से त्रस्त होकर भुजपराक्रमशाली तुम्हारे पिता ने किया ॥ ३६ ॥ और भी- सूत हों चाहे सूत के पुत्र हों अथवा कोई हों। सत्कुल में जन्म देना विधाता के
२४० वेणीसंहारं नाटकं दैवायत्तं कुले जन्म मदायत्तं तु पौरुषम् ॥ ३७ ॥ अश्वत्थामा — (सक्रोधम् ।) अरे अरे रथकारकुलकलङ्क, अरे राधागर्भ- भारभूत, आयुधानभिज्ञ, तातमप्यधिक्षिपास । अथवा । स भीरुः शूरो वा प्रथितभुजसारस्त्रिभुवने कृतं यत्तेनाजौ प्रतिदिनमियं वेत्ति वसुधा । परित्यक्तं शस्त्रं कथमिति स सत्यव्रतधरः पृथासूनुः साक्षी त्वमसि रणभीरो क्व नु तदा ॥ ३८ ॥ सूतः = सारथिः वा, सूतपुत्रः = सारथिपुत्रः, वा, यः, वा, अथवा, कः अहम्, भवामि, कोप्यहमस्मि नात्र कापि विचारणा । कुले=उत्तमकुले नीच कुले वा, जन्म, दैवायत्तम् = कर्माधीनम्, तु = किन्तु पौरुषम् = पराक्रमः, मदायत्तम् = स्वाधीनम् । जात्यायुर्भोगाः-कर्मफलानि, पराक्रमः स्वायत्तो भवतीति भावः । पथ्यावक्त्रं छन्दः ॥ अन्वयः त्रिभुवने, प्रथितभुजसारः, सः, शूरः, भीरुः, वा प्रतिदिनम्, तेन, आजौ, यत्, कृतम् (तत्) इयम्, वसुधा वेत्ति, शस्त्रम्, कथम्, परित्यक्तम्, इति, सत्यव्रतधरः, सः, पृथासूनुः, साक्षी, हे रणभीरो, त्वम्, तदा क्व, नु असि ॥ पाञ्चालभीतो द्रोणोऽस्त्रत्यक्तवानिति यदुक्तं कर्णेन तत्राह—स भीरुरिति । त्रिभुवने = लोकत्रये, प्रथितभुजसारः—प्रथितः विख्यातः, भुजसारः बाहुबलं यस्य सः ‘सारो बले दृढांशे चेत्यमरः । सः शूरः = वीरः, वा भीरुः = भययुक्तः, वस्तु प्रतिदिनम्, तेन = द्रोणेन, आजौ = सङ्ग्रामे यत्, कृतं, तदित्यध्याहारः । इयं वसुधा = पृथ्वी, वेत्ति = जानाति, क्षत्रियाणां विनाशन पृथिव्या अल्पभारतवसम्पाद- नायेति भावः । शस्त्रं, कथं = कस्माद्धेतोः, परित्यक्तमिति, सत्यव्रतधरः = धरतीति धरः पचाद्यच्, सत्यव्रतस्य धरः सत्यव्रतधरः, सत्यवतैत्यर्थः । सः, पृथासूनुः = युधिष्ठिरः, साक्षी = प्रत्यक्षद्रष्टा, तदा = यस्मिन् समये शस्त्रं त्यक्तवान् तस्मिन् हाथों में है और पुरुषार्थ करना मेरे हाथों में है ॥ ३७ ॥ अश्वत्थामा—(क्रोध से) अरे! अरे !! रथकारकुलाङ्गार !!! अरे राधागर्भसम्भूत, शस्त्रानाभिज्ञ, ! पिता की भी निन्दा कर रहा है ? अथवा— चाहे वह [मेरे पिता द्रोण] कायर हों अथवा वीर परन्तु उनकी भुजा का बल समस्त संसार को विदित है । समरभूमि में उन्होंने प्रतिदिन जो कुछ किया है यह वसुन्धरा जानती है, उन्होंने शस्त्र का परित्याग क्यों किया ? इस बात में सत्यव्रत परायण युधिष्ठिर साक्षी हैं । ऐ समरभूमि के कायर ! उस समय तुम थे कहाँ ? ॥ ३८ ॥
तृतीयोऽङ्कः ] प्रबोधिनी-प्रकाश-द्वयोपेतम् १४१ कर्णः—( विहस्य । ) एवं भीरुरहम् । त्वं पुनर्विक्रमैकरसं तव पितर- मनुस्मृत्य न जाने किं करिष्यसीति महान्मे संशयो, जातः । अपि च रे मूढ ? यदि शस्त्रमुज्झितमशस्त्रपाणयो न निवारयन्ति किमरीनुदायुधान् । यदनेन मौलिदलनेऽप्युदासितं सुचिरं स्त्रियेव नृपचक्रसन्निधौ ॥ ३९ ॥ अश्वत्थामा—( सक्रोधं सकम्पं च । ) दुरात्मन्, राजवल्लभप्रगल्भ, सूतापसद, असम्बद्धप्रलापिन् । समये, हे रणभीरो, त्वम् क्व असि = आसीः नु, नुशब्द प्रश्ने, यदा त्वं तत्रैवासी- स्तथा कथमेवं ब्रवीषीति भावः । शिखरिणी छन्दः । ३८ ॥ विक्रमैकरसः = पराक्रमप्रधानः । किमिति-किं क्षत्रियविनाशं करिष्यसि, अथवा पित्रे वोदासीनो भविष्यसीति । अन्वयः—यदि, शस्त्रम्, उज्झितम्, ( ततः किम् ), अशस्त्रपाणयः, उदायु- धान्, अरीन्, किम्, न, निवारयन्ति, नृपचक्रसन्निधौ, स्त्रिया, इव, अनेन, यत्, मौलिदलने, अपि, सुचिरम्, उदासितम् ॥ ३९ ॥ वीरो निःशस्त्रोऽपि स्वरक्षां कर्तुं समर्थ इत्याह—यदीति । यदि, शस्त्रम् उज्झितं = त्यक्तम्, ततः किमिति शेषः । अशस्त्रपाणयः—अशस्त्रहस्ताः, उदायुधान्= उद्यतशस्त्रान् , अरीन् = शत्रून्, किं न, निवारयन्ति, निवारयन्त्येवेत्याशयः । नृप- चक्रसन्निधौ = राजसमूहसमीपे, अनेनं = त्वत्पित्रा, मौलिदलने = मस्तकखण्डने अपिं उदासितम् = उपेक्षितम् । अत्र शाब्दोपमाऽलङ्कारः । मञ्जुभाषिणी छन्दः—सजसा जगौ च यदि मञ्जुभाषिणीति लक्षणात् ॥ ३९ ॥ राजवल्लभ = नृपप्रिय, निन्दावाचकशब्दोऽयम् । सूतापसद = सूतपामर । कर्ण—( हँसकर ) ठीक मै कायर हूँ तू पराक्रमी है। किन्तु तेरे पिता की बात स्मरण करके मुझे बड़ा सन्देह हो रहा है पता नहीं तुम क्या करोगे ? । और भी सुन ऐ मूर्ख— यदि उन्होंने शस्त्र का त्याग किया तो क्या बिना शस्त्र के लिये हुए सशस्त्र शत्रु का प्रतिकार नहीं किया जा सकता ? वे तो केश खींचने पर इस राजन्यमण्डल के बीच अबलाओं की भाँति अधिक काल तक मौन हो गये ॥ ३९ ॥ अश्वत्थामा—( क्रोध से काँपता हुआ ) अरे दुष्ट, राजा का प्रियपात्र, चापलूस, सूताधम, बकवादी !
१४२ वेणीसंहारं नाटकं कथमाप न निषिद्धो दुःखिना भीरुणा वा द्रुपदतनयपाणिस्तेन पित्रा ममाऽद्य । तव भुजबलदर्पाध्मायमानस्य वामः शिरसि चरण एष न्यस्यते वारयैनम् ॥ ४० ॥ ( इति तथा कर्तुमुत्तिष्ठति । ) कृप-दुर्योधनौ - वत्स, मर्षय मर्षय । ( इति निवारयतः ! ) ( अश्वत्थामा चरणप्रहारं नाटयति । ) कर्णः—( सक्रोधमुत्थाय, खड्गमाकृष्य ।) अरे दुरात्मन्, ब्रह्मबन्धो, आत्मश्लाघ, अन्वयः—दुःखिना, भीरुणा, वा तेन, मम, पित्रा, द्रुपदतनयपाणिः, कथमपि, न, निषिद्धः, अद्य, भुजबलदर्पाध्मायमानस्य, तव, शिरसि, एषः, वामः, चरणः, न्यस्यते, एनम्, वारय, (त्वम् ) ॥ ४० ॥ क्रुद्धोऽश्वत्थामा कर्णशिरसि चरणं न्यसितुमुत्थापयतीत्याह—कथमपि नेति । दुःखिना = शोकवता, भीरुणा = भययुक्तेन, तेन, मम, पित्रा, द्रुपदतनयपाणिः = धृष्टद्युम्नहस्तः, कथमपि, न, निषिद्धः = निवारितः, भुजबलदर्पाध्मायमानस्य = भुजबलदर्पेण आध्मायमानस्य विकत्थमानस्य, तव = कर्णस्य, शिरसि = उत्तमाङ्गे, चरणः = पादः न्यस्यते = स्थाप्यते, एनम् = चरणम्, वारय त्वमिति शेषः । मालिनी छन्दः । ननमययुतेयं मालिनी भोगिलोकैरिति लक्षणात् ॥ ४० ॥ मर्षय—क्षमस्व, मा विद्वेषं कुर्वित्यर्थः । क्रुद्ध कर्णोऽप्याह—अरे दुरात्मन्निति । ब्रह्मबन्धो इति अप्राप्तनामा बह्मबन्धु- मेरे पिता ने पुत्रशोक अथवा भय के कारण किसी भी प्रकार से धृष्टद्युम्न के हाथ को नहीं रोका परन्तु भुजाओं के अभिमान से फूले न समाये हुए तुम्हारे शिर पर आज मेरा यह बायाँ पैर रक्खा जा रहा है अब इसका प्रतिकार कर ॥ ४० ॥ ( पादप्रहार करने के लिए तैयार हो जाता है ) कृप और दुर्योधन—पुत्र ! क्षमा करो ! ( रोकते हैं ) । ( अश्वत्थामा पादप्रहार का अभिनय करता है ) कर्ण—( क्रोध से उठकर और तलवार खींच कर ) अरे दुष्टात्मन् ! बकवादी, ब्राह्मणा- धम, अपने मुँह मियाँमिट्ठू बननेवाला ।
तृतीयोऽङ्कः ] प्रबोधिनी-प्रकाश-द्वयोपेतम् १४३ जात्या काममवध्योऽसि चरणं त्विदमुद्धृतम् । अनेन लूनं खड्गेन पतितं द्रक्ष्यसि क्षितौ ॥ ४१ ॥ अश्वत्थामा—अरे मूढ, जात्या काममवध्योऽहम् । इयं सा जातिः परित्यक्ता । ( इति यज्ञोपवीतं छिनत्ति । पुनश्च सक्रोधम् । ) अद्य मिथ्याप्रतिज्ञोऽसौ किरीटी क्रियते मया । शस्त्रं गृहाण वा त्यक्त्वा मौलौ वा रचयाञ्जलिम् ॥ ४२ ॥ रित्युच्यते । 'ब्रह्मबन्धुरधिक्षेपे निर्दोषे च द्विजन्मना' मिति विश्वः । आत्मश्लाघ = आत्मप्रशंस । अन्वयः—जात्या, कामम् (त्वम्) अवध्यः, असि, तु, उद्धृतम् इदम् चरणम्, अनेन, खड्गेन, लूनम्, ( अत एव ) क्षितौ, पतितम्, द्रक्ष्यसि, ( त्वम् ) ॥ ४१ ॥ जात्या=ब्राह्मणत्वेन, अवध्यः = अहन्तव्यः, 'ब्राह्मणो, न हन्तव्य' इति स्मृतेः । असि अतः उद्धृतम् = सप्रथावत्कृतम् उत्थापितमित्यर्थः । तु = किन्तु, अनेन = मदीयेन खड्गेन = असिना, लूनं = छिन्नम्, क्षितौ = भूमौ, द्रक्ष्यसि, साम्प्रतमिति शेषः । यच्चरणस्त्वया मम मस्तकस्योपरि प्रदानायोत्थापितः तं खण्डयामीत्यर्थः । अत्र पदार्थ- गतकाव्यलिङ्गमलङ्कारः । पथ्यावक्त्रं छन्दः ॥ ४१ ॥ जातिः = ब्राह्मणत्वं, परित्यक्ता-यज्ञोपवीतच्छेदनेनेति भावः । अन्वयः—अद्य, मया, असौ, किरीटी, मिथ्याप्रतिज्ञः, क्रियते, शस्त्रम्, गृहाण, वा, त्यक्त्वा, मौलौ, अञ्जलिम्, रचय, वा ॥ ४२ ॥ अद्य मया = अश्वत्थाम्ना, किरीटी = अर्जुनः, मिथ्याप्रतिज्ञः = मिथ्या प्रतिज्ञा यस्य सः, क्रियते, । अयमाशयः अर्जुनस्य प्रतिज्ञाऽस्ति यदहं कर्ण हनिष्यामि परन्तु मयैव कर्णो हन्यते तथा चार्जुनैन कर्णस्याहननात्किरीटी मिथ्याप्रतिज्ञः स्यादिति । शस्त्रम् = आयुधम्, गृहाण = धारय, वा त्यक्त्वा = विहाय, शस्त्रमित्यस्यात्राप्यन्वयः । मौलौ = मस्तके, अञ्जलिम् रचय, वा, किमपि कुरु त्वां हनिष्याम्येवेति भावः । पथ्यावक्त्रं छन्दः ॥ ४२ ॥ ब्राह्मण होने के कारण निस्सन्देह अवध्य हो परन्तु इस उठे हुए चरण को इस तलवार के द्वारा कटकर भूमि पर पड़ा हुआ देखो ॥ ४१ ॥ अश्वत्थामा—रे मूर्ख ! यदि मैं ब्राह्मण होने के कारण अवध्य हूँ तो इस जाति को मैंने छोड़ दिया ( यज्ञोपवीत तोड़ता है फिर क्रोधपूर्वक ) । आज मैं अर्जुन को प्रतिज्ञाभ्रष्ट करता हूँ । हाथ में शस्त्र को लो अथवा शस्त्र छोड़ कर अञ्जलिबाँध शिर से लगाओ ॥ ४२ ॥
१४४ वेणीसंहारं नाटकं ( उभावपि खड्गमाकृष्यान्योन्यं प्रहर्तुमुद्यतौ। कृप-दुर्योधनौ निवारयतः ) दुर्योधनः—आचार्यपुत्र, शस्त्रग्रहणेनालम् । कृपः—वत्स, सूतपुत्र, शस्त्रग्रहणेनालम् । अश्वत्थामा—मातुल, मातुल, किं निवारयसि । अयमपि तातनिन्दा- प्रगल्भः सूतापसदो धृष्टद्युम्नपक्षपात्येव । कर्णः—राजन्, न खल्वहं निवारयितव्यः । उपेक्षितानां मन्दानां धीरसत्त्वैरवज्ञया । अत्रासितानां क्रोधान्धैर्भवत्येषा विकत्थना ॥ ४३ ॥ अश्वत्थामा—राजन्, मुञ्च मुञ्चैनम् । आसादयतु मद्भुजान्तरनिष्पे- तातनिन्दाप्रगल्भः = पितृनिन्दायां धृष्टः, धृष्टद्युम्नपक्षपातीति = धृष्टद्युम्नतुल्यः अतोऽयं हन्तव्य इति भावः । न मां निवारयेत्यर्थः । अन्वयः—धीरसत्त्वैः अवज्ञया, उपेक्षितानाम्, क्रोधान्धैः अत्रासितानाम्, मन्दा- नाम्, एषा, विकत्थना, भवति ॥ ४३ ॥ धीरसत्त्वैः = गम्भीरभावैः, वीरैः, अवज्ञया = अनादरेण उपेक्षितानाम् = औदा- सीन्यं प्रापितानाम्, क्रोधान्धैः = कुपितैः, अत्रासितानाम् = भयमप्रापितानाम्, मन्दानां = हीनशक्तीनाम्, एषा = वीरोऽहमित्याकारिका, विकत्थना = आत्मप्रशंसा, भवति, अतो दण्डनीयोऽयमिति भावः । अनुष्टुप्छन्दः ॥ ४३ ॥ मद्भुजान्तरनिष्पेषसुलभ = मदीयो यो भुजौ तयोर्मध्ये यन्निष्पेषणं मर्दनं तेन सुलभम्, असूनां = प्राणानाम्, अवसादनं = विनाशम्, आसादयतु = प्राप्नोतु, ( दोनों तलवार खींच कर एक दूसरे पर आघात करने की चेष्टा करते हैं। कृप और दुर्योधन निषेध करते हैं ) । दुर्योधन—मित्र, आचार्यपुत्र ! शस्त्र न उठाइये । कृप—वत्स, सूतपुत्र ! शस्त्र उठाने की कोई आवश्यकता नहीं । अश्वत्थामा—मामा ! मामा ! क्यों मना करते हैं ? यह पिताजी की निन्दा में रत सूतनीच धृष्टद्युम्न का पक्षपाती है । कर्ण—महाराज ! मुझे वारण न कीजिए । धीर वीर पुरुष क्रोधोन्मत्त होकर भी दण्डित किए बिना तिरस्कार की बुद्धि से जब दुष्टों की उपेक्षा कर देते हैं तो वे इस प्रकार आत्मप्रशंसा करते ही हैं ॥ ४३ ॥ अश्वत्थामा—राजन् ! इसे छोड़िए, छोड़िए। मेरी भुजाओं के बीच पिसकर चूर्ण
पसुलभमसूनामवसादनम् । अन्यच्च राजन्, स्नेहेन वा कार्येण वा यत्त्वमेनं ताताधिक्षेपकारिणं दुरात्मानं मत्तः परिरक्षितुमिच्छसि तदुभयमपि वृथैव ते । पश्य— पापप्रियस्तव कथं गुणिनः सखायं सूतान्वयः शशधरान्वयसम्भवस्य । हन्ता किरीटिनमहं नृप मुञ्च कुर्या क्रोधादकर्णमपृथात्मजमद्य लोकम् ॥ ४४ ॥ ( इति प्रहर्तुमिच्छति । )
अयमिति शेषः । स्नेहेन = सौहार्देन, कार्येण = अर्जुनवधरूपेण, ताताधिक्षेपकारिण= पितृनिन्दकम्, एनं = कर्णम्, मत्तः = मत्, तसिल्प्रत्ययान्तोऽयम् । परिरक्षितुमिच्छसी- त्यन्वयः । उभयं=स्नेहः कार्यञ्च । अन्वयः—( हे ) नृप, गुणिनः शशधरान्वयसम्भवस्य, तव, पापप्रियः, सूतां- न्वयः अयम्, कथं, सखा, अहम्, किरीटिनम् , हन्ता, ( माम् ) मुञ्च, अद्य, क्रोधात्, लोकम्, अकर्णम्, अपृथात्मजम्, कुर्याम् ॥ ४४ ॥ कथं वृथेत्याह-पापप्रियस्तवेति । गुणिनः—ऐश्वर्यादिमतः, शशधरान्वयसम्भ- वस्य = चन्द्रवंशसमुत्पन्नस्य, तव = दुर्योधनस्य, पापप्रियः = पापी, अयं = कर्णः, कथम्, सखा = मित्रम् गुणिनोः गुणिना सह मैत्री कार्या, नतु पापवतेति । एव- मुत्तमकुलज तस्योत्तमकुलजातेन न तु नीचकुलजातेनेति भावः । यदुक्तं स्नेहः वृथेति तत्समर्थितम् अधुना कार्यवैयर्थ्यं समर्थयति—हे नृप इति । अहम् = अश्व- त्थामा, किरीटिनम् = अर्जुनम्, हन्ता = विनाशयिता, अस्मीति शेषः माम्, मुञ्च = त्यज, क्रोधात् = कोपात्, अकर्णम् = कर्णशून्यम्, हतनेनेति भावः । अपृथा- त्मजम् = पृथापुत्ररहितम्, अर्जुनरहितमित्यर्थः । कुर्या = सम्पादयेयम्, उभयमपि अद्य हनिष्यामि तथा चार्जुनवधरूपकार्यमस्माद् विनापि स्यादिति भावः । वसन्त- तिलका छन्दः ॥ ४४ ॥
होने से प्राणों के अप्रयास लभ्य कष्ट का अनुभव करने दीजिये । और भी महाराज ! प्रेम के वश होकर अथवा कार्य के कारण जो आप मुझ से इस दुष्ट की जो मेरे पिता की निन्दा कर रहा है, रक्षा करना चाहते है ये दोनों बातें आपकी व्यर्थ ही है । देखिए— यह दुष्ट, अधिरथ कुमार चन्द्रवंशमें उत्पन्न तथा, गुणशाली आपका अभीष्ट मित्र किस प्रकार होने योग्य है ? और हे राजन् ! मैं अर्जुन को मारूँगा इसे छोड़ दीजिए क्रोधावेश में आज मैं इस संसार को कर्ण और अर्जुन से विहीन बना दूँगा ॥ ४४ ॥ ( प्रहार करना चाहता है ।) १० वे०
१४६ वेणीसंहारं नाटकं कर्णः—( खड्गमुद्यम्य ।) अरे वाचाट, ब्राह्मणाधम, अयं न भवति। राजन्, मुञ्च मुञ्च । न खल्वहं वारयितव्यः । ( हन्तुमिच्छति । ) ( दुर्योधन-कृपौ निवारयतः । ) दुर्योधनः—कर्ण, गुरुपुत्र, कोऽयमद्य युवयोर्व्यामोहः । कृपः—वत्स, अन्यदेव प्रस्तुतमन्यत्रावेग इति कोयं व्यामोहः । स्वबलव्यसनं चेदमस्मिन्काले राजकुलस्यास्य युष्मत्त एव भवतीति वामः पन्थाः । अश्वत्थामा—मातुल, न लभ्यतेऽस्य कटुप्रलापिनो रथकारकुलकलङ्कस्य दर्पः शातयितुम् । कृपः—वत्स, अकालः खलु स्वबलप्रधानविरोधस्य । अश्वत्थामा—मातुल, यद्येवम् । युवयोः = कर्णाश्वत्थाम्नोः, व्यामोहः = विवेकशून्यता विचित्ततेत्यर्थः । प्रस्तुतं = प्रस्तावविषयः करणीयमित्यर्थः । साम्प्रतं द्रुपदसुतो वध्य इति भावः । चेत् = यदि, स्वबलव्यसनं = स्वसेनयोः व्यसने क्रोधजन्यपरस्परविद्वेष., अस्य = धार्तराष्ट्रस्य, युष्मत्तः = भवद्गद्यः, वामः = अनिष्टः पन्थाः मार्गः, भवति, इति, अस्य राजकुलस्य विनाशकारणं भवानेव स्यादिति भावः । न लभ्यते—अस्य दर्प इत्यनेनान्वयः । स्वबलप्रधानविरोधस्य = स्वसेनाप्रमुखयोविद्वेषस्य, अकालः = असमयः । एवं—साम्प्रतं विरोधस्यायुक्तत्वे । कर्ण—( तलवार उठाकर ) अरे बकवादी, ब्राह्मणनीच ! अब यह नहीं रहेगा । राजन् छोड़ दीजिए, छोड़ दीजिए । मुझे न रोकिए । ( मारना चाहता है ) दुर्योधन—कर्ण और उपाध्यायपुत्र ! आज आपलोगों को यह क्या हो गया है ? कृप—वत्स ! क्या करना है, और क्या करने लग गए, यह कैसी मूर्खता है ? ऐसे समय में इस राजवंश पर, इनकी शक्ति पर यह वज्रप्रहार आप लोगों से हो रहा है, यह तो विपरीत मार्ग है । अश्वत्थामा—मामा ! क्रूरभाषी इस रथकार कुलङ्गार का अभिमान चूर करने को अवसर न प्राप्त होगा ? कृप—वत्स ! यह सेनानायकों के विरोध का समय नहीं । अश्वत्थामा—मामा ! यदि यह बात है तो फिर—