भारतकोश
संग्रह पर लौटें

वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)

Viramitrodaya Rajanitiprakasha of Mitramishra with Commentary

महामहोपाध्याय मित्रमिश्र (सम्पादक: पं. विष्णुप्रसाद शर्मा) द्वारा

DevanagariHindipublished490 पृष्ठ

२१६ वीरमित्रोदयस्य राजनीतिप्रकाशे

देवान्तराणि कार्याणि स्वाधिकार्यावृतानि च । देवान्तरेषु मन्त्रज्ञाः स्वे स्वे देशाः शुभावहाः ॥ भिन्ना बहुप्रदा लोके यथाशास्त्रपरिग्रहः । न शुभा मन्त्रहीनास्तु द्विजाद्या नैष्ठिकास्तथा ॥ चर्चिकायास्तथा शक्र मन्त्रहीना भयावहाः । अग्रतः पृष्ठतो देवा उभयोः पार्श्वयोर्द्विजाः ॥ हस्तानां तु शतं त्याज्यं नृप राष्ट्रमुखार्थिभिः । दृष्टिभङ्गो न कर्त्तव्यो रक्षेद्देवीषु यत्नतः ॥ दण्डाष्टकसुविस्तीर्णे कृते राजा विनश्यति । तस्माद्दृष्टिः सदा देया तोरणान्तर्गता शुभा ॥ अष्टहस्तं सुशोभाढ्यं शैलवृक्षमयं च वा । तोरणं शस्यते देव्या वापी कूपजलं वनम् ॥ पूर्वोत्तरे तथैशान्यामारामः शुभदः कृतः । देवीनां मातृकाणां च स भवेत्सर्वकामदः ॥ यथाशुभग्रहाद्देवाद्यच्च कालकृतं भवेत् । तत्सर्वं देवतागारे कृतं भवति शोभनम् ॥ बलिजाप्यक्रिया नित्यं मातृकाणां शुभा भवेत् । पुरपत्तनग्रामाणां ब्रह्मपुर्यः सकामदाः ॥ ब्रह्मविद्या कलोपेता यत्र वेदविदोऽवसन् । सा पुरी कमला नाम सर्वलोकसुखावहा ॥ विद्या ह्येका तथा द्वित्राश्चतस्रो यत्र संस्थिताः । रुद्रो देवी च विजया गायत्री च क्रमात्मना ॥ गृहपङ्गिगताः कार्याः शुभवर्त्म ऋजुस्थिताः । पूर्वोत्तरसुमार्गस्थाः सजला देवतान्विताः ॥ ब्रह्मात्रिदशपूजार्थं मठादिसमुपकल्पयेत् ।

दुर्गे पुरनिर्माणप्रकारः । २१७ पाठस्थानानि कुर्वीत शिवायतनवेधसोः ॥ पुरे वा नगरे वत्स राजधान्यां च पत्तने । दुर्गहट्टे शुभे दृष्टिर्महालक्ष्माः सुमङ्गला ॥ शिवलिङ्गगणेशानां धनदस्य विशेषतः । श्रियश्च सौम्यरूपायाः स्वामीशस्य शुभस्य च ॥ रक्षोदेवीषु चोग्रासु दृष्टिर्देया न चान्यथा । बाह्ये वनोपकण्ठे च नदीनदतटेऽथ वा ॥ प्रासादे चोत्तमा कार्या तीर्थे ह्रदानुगाथ वा । वाराही भैरवी चोग्रा नारसिंही त्रिविक्रमी ॥ पुरपत्तनगेहेषु दृष्टिवर्ज्या प्रयत्नतः । उग्रा दृष्टिर्हरेद्राष्ट्रं दारुणा नगरादिकम् ॥ नरसिंहवराहाणां दृष्टिर्हन्त्याच्छ्रयं जनम् । तस्माद्दृष्टिः शुभा कार्या समा सर्वगता ततः ॥ विवाहेऽपि शुभा दृष्टिः समा भवति नान्यथा । अतो यत्नेन देवानां दृष्टिः सौम्या प्रशस्यते ॥ ग्रहाणां सौम्यरूपाणां लग्ने दृष्टिः शुभावहा । पुरपत्तनदुर्गेषु तथा सौम्या शुभावहा ॥ एवं हट्टे पुरे दुर्गे देया दृष्टिः शुभा नृप । शुभार्थे सौम्यरूपाणामुग्राणां परिवर्जयेत् ॥ आवाहने जले वाथ उग्रा दृष्टिः शुभावहा । इति । तथा, चतुर्दण्डः प्रकर्त्तव्यो भूमावादौ परिग्रहः । गां सवत्सां समादाय कुम्भं धान्यमयं तथा ॥ सवस्त्रं हेमगर्भं तु सहकारदलान्वितम् । पृथ्वीं सङ्कल्पयेत्तस्मिन् मेरुकर्णिकशोभिताम् ॥ २८

२१८ वीरमित्रोदयस्य राजनीतिप्रकाशे वनशैलसमायुक्तां सागरैः परिवेष्टिताम् । एवं सम्पूजयित्वा तु देवदेवं त्रिलोचनम् ॥ कुमारादिशिवादींश्च विचार्यादिमहामहीम् । सूर्यादिलोकपालादिनागयक्षादिदेवताः ॥ पूर्वं सम्पूजयित्वा तु पश्चाद्दद्याद्दिशां बलिम् । स्वप्नमाणवकं जप्त्वा शेते तत्र यथासुखम् ॥ स्वप्नमाणवकं, “यज्जाग्रत” इत्यादि । आचार्यः सूत्रधारश्च शुभं स्वप्नं निशाक्षये । निमित्तं शकुनं दृष्ट्वा सूत्रयेल्लक्षितां दिशम् ॥ चित्रास्वात्यन्तरे पूर्वा पुष्यपित्र्यसमागमे । उत्तरा ध्रुवमध्यस्था शेषाः सिद्धा यथागमम् ॥ चित्रास्वात्योरुदितयोर्मध्ये या, तथा पुष्यमघानक्षत्राभ्यां चार्जवेन संयुता या, सा पूर्वा दिगित्यर्थः । ध्रुवो मध्यस्थो मध्ये वर्त्तमानो यस्यां तथाविधा सा उत्तरा दिक् । शङ्कुना तदभावे तु पूर्वाशां साधयेत् द्विजः । एवं दिशासु सिद्धासु सूत्रपातं समाचरेत् ॥ आचार्य पूजयित्वा तु सूत्रधारं द्विजोत्तमान् । देवतायतनं पूर्वमाचार्यब्राह्मणौकसम् ॥ राजधाम तु शेषांस्तु गृहान् वर्णक्रमाद्गुरुः । पुरं वृत्तायतं कार्यं त्र्यस्रं वा चतुरस्रकम् ॥ यथास्थानविभागेन हृष्टशोभासमन्वितम् । राजधामाग्रतः कार्यं देवधाम अथापि वा ॥ सुसूत्रं देवतायुक्तं शिवमातृगणावृतम् । मङ्गला धनदा कार्या सर्वान्ते सर्वसिद्धिदा ॥ न सूर्यो वह्नियामे वा नैर्ऋते वा हरिः क्वचित् ।

वास्तुकर्मविधिः । २१९ न विष्णुः पश्चिमे सौम्ये वायव्यां कारयेच्छिवाम् ॥ कृते विनश्यते कर्त्ता तत्स्थानं चोद्वसं भवेत् । देवो न पूज्यते तत्र तस्मिन् स्थाने स्वके शुभे ॥ विमूत्रेषु प्रवक्ष्यामि येन शान्तिः शुभं भवेत् । नगराणां पुराणां च देवानां गोपुरादिषु ॥ विमार्गेषु शिवः शस्तः सम्मुखः........ । सौम्याग्रे सर्वतो दुर्गा पुरं नन्दति रक्षितम् ॥ तस्माद्दुर्गा प्रकर्त्तव्या नगरेषु पुरादिषु । महालक्ष्म्यादिकाः शक्र क्षेमकारी सचण्डिका ॥ मङ्गला मङ्गला रूपा महिषघ्नी शिवा नरा । यथास्थानविभागस्था सर्वलोकसुखावहा ॥ महालक्ष्मीः पुरः शस्ता आग्नेये महिषापहा । याम्यां शिवा शुभा प्रोक्ता चर्चिका पश्चिमे पुरात् ॥ उत्तरे शुभदा क्षेमा पञ्चैताः शान्तिदाः पुरे । नगरे नव कर्त्तव्या दुर्गे पञ्चैव चण्डिकाः ॥ इति । इति दुर्गे पुरनिर्माणम् । अथ निर्मितेषु नगरराजगृहादिषु वास्तुशान्तेरावश्यकत्वेन वास्तुकर्मविधिनिरूप्यते । तत्र— मत्स्यपुराणे, सूत उवाच । अथातः सम्प्रवक्ष्यामि गृहकालविनिर्णयम् । यथाकालं शुभं ज्ञात्वा तदा भवनमारभेत् ॥ चैत्रे व्याधिमवाप्नोति यो गृहं कारयेन्नरः । वैशाखे धेनुरत्नानि ज्येष्ठे मृत्युं तथैव च ॥

२२० वीरमित्रोदयस्य राजनीतिप्रकाशे आषाढे भृत्यरत्नानि पशुवर्गमवाप्नुयात् । श्रावणे मित्रलाभं तु हानिं भाद्रपदे तथा ॥ पत्नीनाशमाश्वयुजे कार्त्तिके धनधान्यकम् । मार्गशीर्षे तथा भक्तं पौषे तस्करतो भयम् ॥ लाभं च बहुशो विन्द्यादग्निं माघे विनिर्दिशेत् । फाल्गुने काञ्चनं पुत्रानिति कालफलं स्मृतम् ॥ अश्विनी रोहिणी मूलमुत्तरात्रयमैन्दवम् । ऐन्दवं मृगशिरः । स्वाती हस्तोऽनुराधा च गृहारम्भे प्रशस्यते ॥ आदित्यभौमवर्जं च सर्वे वाराः शुभावहाः । वज्रव्याघातशूलेषु व्यतीपातातिगण्डयोः ॥ विष्कम्भगण्डपरिघवज्रयोगेषु कारयेत् ॥ श्वेते मैत्रेऽथ माहेन्द्रे गान्धर्वाभिजिति रौहिणे । तथा वैराजसावित्रे मुहूर्त्ते गृहमारभेत् ॥ चन्द्रादित्यबलं लब्ध्वा लग्नं शुभनिरीक्षितम् । शुभनिरीक्षितं, शुभग्रहानेरीक्षितम् । स्तम्भोच्छ्रायादि कर्तव्यमन्यत्तु परिवर्जयेत् । प्रासादेष्वेवमेवं स्यात्कूपवापीषु चैव हि ॥ पूर्वं भूमिं परीक्षेत पश्चाद्वास्तुं प्रकल्पयेत् । श्वेता रक्ता तथा पीता कृष्णा चैवानुपूर्वशः ॥ विप्रादेः शस्यते भूमिरतः कार्यं परीक्षणम् । विप्राणां मधुरास्वादा कषाया क्षत्रियस्य तु ॥ कषायकटुका तद्वद्वैश्यशूद्रेषु शस्यते । रनिमात्रे तु वै गर्त्ते स्वनुलिप्ते च सर्वशः ॥ घृतमामशरावस्थं कृत्वा वर्त्तितुष्टयम् ।

वास्तुकर्मविधिः । २२१ ज्वालयेद्भूंपरीक्षार्थं पूर्णं तत्सर्वदिङ्मुखम् ॥ दीप्तौ पूर्वाद गृहीयाद्वर्णानामनुपूर्वशः । दीप्तौ पूर्वादीति । पूर्वा दिशमारभ्य प्रदक्षिणं वर्त्तिसम्य- क्प्रदीपने ब्राह्मणादीनां वर्णानां यथासङ्ख्यं सुखावहमित्यर्थः । वास्तुः सामूहिकों नाम दीप्यते सर्वतस्तु यः । शुभदः सर्ववर्णानां प्रासादेषु गृहेषु ॥ रत्निमात्रमधो गर्ते परीक्ष्यं खातपूरणे । अधिके श्रियमाप्नोति न्यूने हानिं समे समम् ॥ फालकृष्टेऽथवा देशे सर्वबीजानि वापयेत् ॥ त्रिपञ्चसप्तरात्रेण यत्र रोहन्ति तान्यपि । ज्येष्ठोत्तमा कनिष्ठा भूर्वर्जनीयतरा सदा ॥ पञ्चगव्यौषधिजलैः परीक्षित्वा च सेचयेत् । एकाशीतिपदं कृत्वा रेखाभिः कनकेन तु ॥ पश्चाल्लेखयेन वा लिप्त्वा सूत्रेणालोड्य सर्वतः । दश पूर्वायता रेखा दश चैवोत्तरायताः ॥ सर्ववास्तुविभागेषु विज्ञेया नवका नव । एकाशीतिपदं कृत्वा वास्तुवित्सर्ववास्तुषु ॥ पदस्थान् पूजयेद्देवांस्त्रिंशत्पञ्चदशैव तु । द्वात्रिंशद्वाह्यतः पूज्याः पूज्याश्चान्तस्त्रयोदश ॥ नामतस्तान् प्रवक्ष्यामि स्थानानि च निबोधत । ईशानकोणादिषु तान् पूजयेच्च विधानतः ॥ शिखी चैवाथ पर्जन्यो जयन्तः कुलिशायुधः । सूर्यः सत्यो भृगुश्चैव आकाशो वायुरेव च ॥ १ 'पश्चात्पिष्टेन चालिप्य' इति मा० पा०

२२२ वीरमित्रोदयस्य राजनीतिप्रकाशे पूषाथ वितथश्चैव गृहक्षतयमावुभौ । गन्धर्वो भृङ्गराजश्च मृगः पितृगणस्तथा ॥ दौवारिकोऽथ सुग्रीवः पुष्पदन्तो जलाधिपः । असुरः शोषपापौ च रोगोऽहिर्मुख्य एव च ॥ भल्लाटः सोमसर्पौ च अदितिश्च दितिस्तथा । बहिर्द्वात्रिंशदेते तु तदन्तश्चतुरः शृणु ॥ ईशानादिचतुष्कोणे संस्थितान् पूजयेद्बुधः । आपश्चैवाथ सावित्रो जयो रुद्रस्तथैव च ॥ मध्ये नवपदे ब्रह्मा तस्याष्टौ च समीपगाः । सर्वानेकान्तरान् विद्यात्पूर्वाद्यान् नामतः शृणु ॥ अर्यमा सविता चैव विवस्वान् विबुधाधिपः । मित्रोऽथ राजयक्ष्मा च तथा पृथ्वीधरः क्रमात् ॥ अष्टमस्त्वापवत्सस्तु परितो ब्रह्मणः स्मृताः । आपश्चैवापवत्सश्च पर्जन्योऽग्निर्दितिस्तथा ॥ पदिकानां च वर्गोऽयमेवं कोणेष्वशेषतः । तन्मध्ये तु वहिर्वत्स द्विपदास्ते तु सर्वतः ॥ अर्यमा च विवस्वांश्च मित्रः पृथ्वीधरस्तथा । ब्रह्मणः परितो दिक्षु त्रिपदास्ते तु सर्वतः ॥ अंशानिदानीं वक्ष्यामि रज्जूनपि पृथक् पृथक् । वायुं यावत्तथा रोगान् पितृभ्यः शिखिनं पुनः ॥ मुख्याद्भृगुं तथा शेषाद्वितथं यावदेव तु । सुग्रीवाददितिं यावत् भृङ्गात्पर्जन्यमेव च ॥ एते वंशाः समाख्याताः कचिद्रज्जव एव तु । एतेषां यस्तु सम्पातः पदं मध्यं समं तथा ॥ मर्म चैतत्समाख्यातं त्रिशूलं कोणगं च यत् ।

वास्तुकर्मविधिः । २२३ स्तम्भन्यासेषु वर्ज्यानि तुलां देवेषु सर्वदा ॥ कीलकुड्योपघातादि वर्जयेद्यत्नतो नरः । सर्वस्तु वास्तुर्निर्दिष्टः पितृवंशान्तरायतः ॥ पितृवंशान्तरायत इति । पितृगणादारभ्य वह्निं यावद्यो वंशः प्रसारितस्तदान्तराऽऽयतो वास्तुर्वास्तुपुरुषः । मूर्धन्यग्निः समाविष्टो मुखे चापः समाश्रितः । पृथ्वीधरोऽर्यमा चैव स्तनयोस्तावधिष्ठितौ ॥ वक्षःस्थले त्वापवत्सः पूजनीयः सदा बुधैः । नेत्रयोर्दितिपर्जन्यौ श्रोत्रे दितिजयान्तकौ ॥ सर्पेन्द्रावंशसंस्थौ तु पूजनीयौ प्रयत्नतः । सत्यरोगादयस्तद्वद्बाह्वोः पञ्च च पञ्च च ॥ रुद्रश्च राजयक्ष्मा च वामहस्ते समाश्रितौ । सावित्रः सविता तद्वद्धस्तं दक्षिणमास्थितौ ॥ विवस्वानथ मित्रश्च जठरे संव्यवस्थितौ । पूषा च पापयक्ष्मा च हस्तयोर्मणिबन्धने । तथैवासुरशोषौ तु वामपार्श्वं समाश्रितौ ॥ पार्श्वे तु दक्षिणे तद्वद्वितथः सगृहक्षतः । ऊर्वोर्यमाम्बुपौ ज्ञेयौ जान्वोर्गन्धर्वपुष्पकौ ॥ यमाम्बुपौ यमवरुणौ । पुष्पकः पुष्पदन्तः । जङ्घयोर्भृगुसुग्रीवौ स्फिक्थौ दौवारिको मृगः ॥ जयः शक्रस्तथा मेढे पादयोः पितरस्तथा । मध्ये नवपदे ब्रह्मा हृदये स तु पूज्यते ॥ चतुःषष्टिपदो वास्तुः प्रासादे ब्रह्मणा स्मृतः । ब्रह्मा चतुष्पदस्तद्वत्कोणेष्वेकपदास्ततः ॥ १ स्तम्भन्यासेषु वर्ज्यानि तुलाविधिषु सर्वदा । इति मा० पा० ।

२२४ वीरमित्रोदयस्य राजनीतिप्रकाशे बहिःकोणेषु चाष्टौ तु सार्द्धाश्चोभयतः स्थिताः । तद्वत्कोणेष्वेकपदा इति । तद्वत् एकाशीतिपदवास्तुवत् । एकाशीतिपदे वास्तौ याः कोणेष्वेकपदा देवता इहापि तास्त- थैव बोद्धव्याः । बहिःकोणेषु, वेद्यादिप्रान्तकोणेषु चतुर्षु ये उभयपार्श्वे कोष्ठकाः तेष्वष्टौ देवताः सार्द्धा भवन्ति, देवताच- तुष्टयसहिता भवन्तीत्यर्थः । विंशतिर्द्विपदास्तेषां चतुःषष्टिपदास्तथा ॥ गृहारम्भे तु कण्डूतिः स्वस्याङ्गे यत्र जायते । शल्यं त्वपनयेत्तत्र प्रासादे भवनेऽपि वा ॥ सशल्यं भयदं यस्मादशल्यं भयनाशनम् । हीनाधिकाङ्गतां वास्तोः सर्वथा परिवर्जयेत् ॥ नगरग्रामदेशेषु सर्वत्रैवं प्रकल्पयेत् । चतुःशालं त्रिशालं च द्विशालं चैकशालकम् । सूतउ वाच ॥ चतुःशालं प्रवक्ष्यामि स्वरूपान्नामतस्तथा । चतुःशालं चतुर्द्वारैरालिन्दैः सर्वतोमुखम् ॥ नाम्ना तत्सर्वतोभद्रं शुभं देवनृपालये । पश्चिमद्वारहीनं तु नन्द्यावर्त्तं प्रचक्षते ॥ दक्षिणद्वारहीनं तु वर्धमानमुदाहृतम् । पूर्वद्वारविहीनं तु स्वस्तिकं नाम विश्रुतम् ॥ रुचकं चोत्तरद्वारविहीनं तु प्रचक्षते । सौम्यशालाविहीनं यत्रिशालं धन्यकं च तत् ॥ क्षेमवृद्धिकरं नृणां बहुपुत्रफलप्रदम् । शालया पूर्वया हीनं सुक्षेत्रमिति विश्रुतम् ॥

राज्ञो भवनपरिमाणादिकम् । २२५ धन्यं यशस्यमायुष्यं शोकमोहविनाशनम् । चुल्ली तु याम्यया हीनं त्रिशालं शालया तु यत् ॥ कुलक्षयकरं नृणां सर्वव्याधिभयावहम् । हीनं पश्चिमया यत्तु पक्षघ्नं नाम तद्विदुः ॥ पितृबन्धुसुतान् हन्ति तथा सर्पभयावहम् ॥ याम्यापराभ्यां शालाभ्यां धनधान्यफलप्रदम् । क्षेमवृद्धिकरं नृणां तथा पुत्रफलप्रदम् ॥ यमसूर्ये च विज्ञेयं पश्चिमोत्तरशालकम् । राजाग्निभयदं नृणां कुलक्षयकरं च तत् ॥ पूर्वपश्चिमशाले द्वे दण्डाख्यं तत्र तद्भवेत् । अकालमृत्युभयदं परचक्रभयावहम् ॥ वायव्यं याम्यपूर्वाभ्यां शालाभ्यां यद्द्विशालकम् । विषशस्त्राग्निभयदं पराभवभयावहम् ॥ चुल्ली पूर्वापराभ्यां च सा भवेन्मृत्युसूचनी । वैधवत्वाय च स्त्रीणामनेकभयकारिका ॥ कार्यमुत्तरयाम्याभ्यां शालाभ्यां भयदं नृणाम् । सिद्धार्थवर्जं वर्ज्यानि द्विशालानि सदा बुधैः ॥ अलिन्दं द्वारचतुरस्रिका । सौम्यशाला उत्तरद्वारशाला । सिद्धार्थवर्जं, याम्यापराभ्यां शालाभ्यां युक्तं यद्द्विशालं तद्विहाय। अथातः सम्प्रवक्ष्यामि भवनं पृथिवीपतेः । पञ्चप्रकारं तत्प्रोक्तमुत्तरादिविभेदतः ॥ अष्टोत्तरं हस्तशतं विस्तारश्चोत्तमो मतः । चतुर्ष्वन्येषु विस्तारो हीयते चाष्टभिः करैः ॥ १ शालया याम्यया हीनं यद्द्विशालं तु शालया। इति मा०पा० । २ धनाख्यमिति मा० पा० । २९

चतुर्थांशाधिकं दैर्घ्यं पञ्चस्वपि निगद्यते । युवराजस्य वक्ष्यामि तथा भवनपञ्चकम् ॥ षड्भिः षड्भिस्तथाशीतिर्हीयते तत्र विस्तरात् । त्र्यंशेन चाधिकं दैर्घ्यं पञ्चस्वपि निगद्यते ॥ सेनापतेः प्रवक्ष्यामि तथा भवनपञ्चकम् । चतुःषष्टिस्तु विस्तारः षड्भिः षड्भिः प्रहीयते ॥ पञ्चस्वेतेषु दैर्घ्यं च षड्भागेनाधिकं भवेत् । मन्त्रिणामथ वक्ष्यामि तथा भवनपञ्चकम् ॥ चतुश्चतुर्विहीना स्यात्करषष्टिः प्रविस्तरे । अष्टांशेनाधिकं दैर्घ्यं पञ्चस्वपि निगद्यते ॥ सामन्तामात्यलोकानां वक्ष्ये भवनपञ्चकम् । चत्वारिंशत्तथाष्टौ च चतुर्भिर्हीयते क्रमात् ॥ चतुर्थांशाधिकं दैर्घ्यं पञ्चस्वेतेषु शस्यते । शिल्पिनां कञ्चुकिनां च वेश्यानां गृहपञ्चकम् ॥ अष्टाविंशत्कराणां तद्द्विहीनं विस्तरात्क्रमात् । द्विगुणं दैर्घ्यमेवोक्तमध्यक्षेष्वेवमेव तु ॥ दूतकर्मान्तिकादीनां वक्ष्ये भवनपञ्चकम् । चतुर्थांशाधिकं दैर्घ्यं विस्तराद्द्वादशैव तु ॥ अर्धार्धकरहानिः स्याद्विस्तरात्पञ्चसु क्रमात् । दैवज्ञगुरुवैद्यानां सभास्तारपुरोधसाम् ॥ तेषामपि प्रवक्ष्यामि क्रमाद्भवनपञ्चकम् । चत्वारिंशत्प्रविस्ताराच्चतुर्भिर्हीयते क्रमात् ॥ पञ्चस्वेतेषु दैर्घ्यं च षड्भागेनाधिकं भवेत् । चातुर्वर्ण्यस्य वक्ष्यामि सामान्यं गृहपञ्चकम् ॥ द्वात्रिंशद्वै कराणां तु चतुर्भिर्हीयते क्रमात् ।

सेनापत्यादिभवनपरिमाणादिकम् । २२७ आषोडशादिति परं न्यूनमन्त्यावसायिनाम् ॥ दशांशेनाष्टभागेन त्रिभागेनाथ भोगिकम् । अधिकं दैर्ध्यमित्याहुर्ब्राह्मणादेः प्रशस्यते ॥ सेनापतेर्नृपस्यापि सप्तत्या सहिते कृते । चतुर्दशहृते व्यासे शालान्यासः प्रकीर्तितः ॥ पञ्चत्रिंशद्धृते तस्मिन्नलिन्दः समुदाहृतः । सेनापतेरिति । सेनापतेर्नृपस्य गृहे यावान् विस्तार उक्तस्तं करसप्तत्या सहितं कृत्वा तदर्द्धं गृहीत्वा तस्यार्द्धस्य चतुर्दशवि- भागं कृत्वा यावदवशिष्टं भवति तावद्विस्तारां शालां कुर्यादित्य- र्थः । तेनाष्टोत्तरशतहस्तविस्तारे राजवेश्मनि पञ्चहस्तप्रमाणा शाला भवति । पञ्चत्रिंशद्धृत इति । तस्मिन्नेव नवाशीतिविस्तारे राजवेश्मनि पञ्चत्रिंशता भागहारे कृते ये एकोनविंशतिहस्ता अवशिष्यन्ते तावानलिन्दः कर्त्तव्यः । तथा षट्त्रिंशद्धस्तात्र सप्ताङ्गुलसमन्विता । विप्रस्य महती शाला न दैर्घ्यं परतो भवेत् ॥ दशाङ्गुलाधिका तद्वत्क्षत्रियस्य विधीयते ॥ पञ्चत्रिंशत्करा वैश्ये अङ्गुलानि त्रयोदश । तावत्करैव शूद्रस्य युता पञ्चदशाङ्गुलैः ॥ शालायास्तु त्रिभागेन यस्याग्रे वीथिका भवेत् । १ पादिकम् इति मा० पा० । २ अत्र-'सेनापतेर्नृपस्यापि गृहयोरन्तरेण तु । नृपवासगृहं कार्यं भाण्डागारं तथैव च ॥ सेनापतेर्गृहस्यापि चातुर्वर्ण्यस्य चान्तरे वासाय च गृहं कार्यं राजपूज्येषु सर्वदा ॥ अन्तरप्रभवाणां च स्व- पितुर्गृहमिष्यते । तथा हस्तशतादर्धं गदितं वनवासिनाम्' ॥ इत्य- धिकं मात्स्ये वर्तते ।

२३८ वीरमित्रोदयस्य राजनीतिप्रकाशे सोष्णीषं नाम तद्वास्तु पश्चात्तापोश्रयं भवेत् ॥ • पार्श्वयोर्वीथिका यत्र सावष्टम्भं तदुच्यते । समन्ताद्वीथिका यत्र सुस्थितं तदिहोच्यते ॥ शुभदं सर्वमेतत्स्याच्चातुर्वर्ण्ये चतुर्विधम् । विस्तारात्षोडशो भागस्तथा हस्तचतुष्टयम् ॥ प्रथमो भूमिकोच्छ्राय उपरिष्टात्प्रहीयते । द्वादशांशेन सर्वासु भूमिकासु तथोच्छ्रयः ॥ पश्वेष्टका भवेद्भित्तिः षडंशांशेन विस्तरात् । दारवैरपि कल्प्या स्यात्तथा मृन्मयभित्तिका ॥ गर्भमानेन मानं तु सर्ववास्तुषु शस्यते । गृहव्यासस्य पञ्चाशदष्टादशभिरङ्गुलैः ॥ संयुतो द्वारविष्कम्भो द्विगुणश्चोच्छ्रयो भवेत् । द्वारशाखासु बाहुल्यमुच्छ्रायकरसम्मितैः ॥ अङ्गुलैः सर्ववास्तूनां पृथुत्वं शस्यते बुधैः । उदुम्बरोत्तमाङ्गं च तदर्धार्धप्रविस्तरात् ॥ उदुम्बरो देहली । अथातः सम्प्रवक्ष्यामि स्तम्भमानाविनिर्णयम् । तद्वास्तुभवनोच्छ्रायं सदा सप्तगुणं विदुः ॥ अशीत्यंशं पृथुत्वं स्यादग्रे नवगुणैः सह । चरुकश्चतुरस्रः स्यादष्टास्रो वज्र उच्यते ॥ द्विवज्रः षोडशास्रस्तु द्वात्रिंशास्रः प्रलीनकः । मध्यप्रदेशे यः स्तम्भो वृत्तो वृत्त इति स्मृतः ॥ १ पश्चाच्छ्रेयोच्छ्रयम् इति मा० पा० । २ पक्केष्टका भवेद्भित्तिः षोडशांशेन विस्तरात् । इति मा० प० ।

एते पञ्च महास्तम्भाः प्रशस्ताः सर्ववास्तुषु । पद्मवल्लीलताकुम्भपत्रदर्पणभूषिताः ॥ स्तम्भस्य नवमांशेन पद्मकुम्भान्तराणि तु । स्तम्भतुल्या तुला प्रोक्ता हीना चोपतुला ततः ॥ त्रिभागेनेह सर्वत्र चतुर्भागेन वा पुनः । हीनं हीनं चतुर्थांशात्तथा सर्वासु भूमिषु ॥ सावरोहाणि सर्वेषां प्रवेशे दक्षिणेन तु । द्वाराणि तु प्रवक्ष्यामि प्रशस्तानीह यानि तु ॥ पूर्वेणेन्द्रं जयन्तं च द्वारं सर्वत्र शस्यते । याम्यं च वितथं चैव दक्षिणेन विदुर्बुधाः ॥ पश्चिमे पुष्पदन्तं तु वारुणं च प्रशस्यते । उत्तरेण तु भल्लाटं सौम्यं तु सुखदं भवेत् ॥ तथा वास्तुषु सर्वत्र वेधं द्वारस्य वर्जयेत् । द्वारे तु रथ्यया विद्धे भवेत्सर्वकुलक्षयः ॥ रथ्या मार्गः । वेधोऽत्राभिमुख्येनावस्थानम् । तरुणा द्वेषबाहुल्यं शोकः पङ्केन जायते । अपस्मारो भवेन्नूनं कूपवेधेन सर्वदा ॥ व्यथा प्रस्रवणेन स्यात्कीलेनाग्निभयं भवेत् । विनाशो देवताविद्धस्तम्भेन स्त्रीकृतो भवेत् ॥ गृहभर्तुर्विनाशः स्याद्गूहेण च गृहे कृते । अमेध्यावस्करैर्विद्धे गृहिणी बन्धकी भवेत् ॥ तथा शस्त्रभयं विद्यादन्त्यजस्य गृहेण तु । उच्छ्रायाद्द्विगुणां भूमिं त्यक्त्वा वेधो न जायते ॥ उच्छ्रायाद्द्विगुणामिति । यावान् द्वारोच्छ्रायो दैर्ध्य, तद्द्विगुणद्वाराग्रभूमेः परतो यद्येते रथ्यादयो भवन्ति तदा न

२३० वीरमित्रोदयस्य राजनीतिप्रकाशे वंधा न वास्तुवध इत्यर्थः । स्वयमुद्घाटिते द्वारे उन्मादो गृहवासिनाम् । स्वयं च पिहिते विद्यात्कुलनाशं विचक्षणः ॥ मानाधिके राजभयं न्यूने तस्करतो भयम् । द्वारोपरि च यद्वारं तदन्तकमुखं स्मृतम् ॥ अध्वनो मध्यदेशे तु अधिको यस्य विस्तरः । वज्रं तु सङ्कटं मध्ये सद्यो भर्तृविनाशनम् ॥ तथान्यपीडितं द्वारं बहुदोषकरं भवेत् । मूलद्वारात्तथात्यन्तं नाधिकं शोभनावहम् ॥ कुम्भश्रीपर्णिबल्लीभिर्मूलद्वारं तु शोभयेत् । पूजयेद्वापि तन्नित्यं बलिना चाक्षतोदकैः ॥ भवनस्य वटः पूर्वे दिग्भागे सार्वकामिकः । उदुम्बरस्तथा याम्ये वारुणे पिप्पलः शुभः ॥ प्लक्षश्चोत्तरतो धन्यो विपरीतस्त्वसिद्धये । कण्टकी क्षीरवृक्षश्च आसन्नः सफलद्रुमः ॥ भार्याहानिः प्रजाहानिर्भवेतां क्रमशः सदा । न छिन्द्याद्धितानन्यानन्तरे स्थापयेच्छुभान् ॥ पुन्नागाशोकतिलकशमीवकुलचम्पकान् । दाडिमीं पिप्पलीं द्राक्षां तथा कुसुममण्डपान् ॥ जम्बीरपूगपनसद्रुमकेतकीभि- र्जातीसरोजशतपत्रिकमल्लिकाभिः । यन्नारिकेलकदलीदलपाटलाभि- र्युक्तं तदत्र भवनं श्रियमातनोति ॥ उदगादिप्लवं वास्तोः समानस्य शिरस्तथा । समानस्य, मानसाहितस्य । वास्तोः, वास्तुपुरुषस्य ।

शिलान्यासादिकम् । २३१ परीक्ष्य पूर्ववत् कुर्यात् स्तम्भोच्छ्रायं विचक्षणः । १ ने देवपूर्त्तसविधे चत्वराणां समीपतः ॥ कारयेद्भवनं प्राज्ञो दुःखशोकसमन्वितम् । तस्य प्रवेशाश्चत्वारस्तस्योत्सङ्गोऽग्रतः शुभः ॥ पृष्ठतः पृष्ठतो गन्तुं सव्यावर्त्त प्रशस्यते । अपसव्यो विनाशाय दक्षिणे शीर्षकस्तथा ॥ सर्वकामफलो नृणां सम्पूर्णो नाम दामतः । एवं प्रवेशमालोच्य यत्नेन गृहमारभेत् ॥ अथ सांवत्सरोक्ते मुहूर्ते शुभलक्षणे । रत्नोपरि शिलां कृत्वा सर्वबीजसमन्विताम् ॥ चतुर्भिर्ब्राह्मणैः स्तम्भं वस्त्रालङ्कारपूजितम् । शुक्लाम्बरधरः शिल्पी सहितो वेदपारगैः ॥ स्नपितं तं न्यसेत्तद्वत्सर्वौषधिसमन्वितम् । नानाक्षतसमोपेतं वस्त्राभरणसंयुक्तम् ॥ ब्रह्मघोषेण वाद्येन गीतमङ्गलनिःस्वनैः । प्रदोषे भोजयेद्विप्रान् होमस्तु मधुसर्पिषा ॥ वास्तोष्पते प्रतिजानीतिमन्त्रेणानेन सर्वदा । सूत्रपाते तथा कार्यमेवं स्तम्भोच्छ्रये पुनः ॥ द्वारवंशोच्छ्रये तद्वत्प्रवेशसमये तथा । वास्तूपशमने तद्वद्वास्तुयज्ञस्तु पञ्चधा ॥ ईशाने सूत्रपातः स्यादाग्नेये स्तम्भारोपणम् । प्रदक्षिणं च कुर्वीत वास्तोः पदविलेखनम् ।


१ न देवधूर्त्तसचिवचत्वराणां समन्ततः । इति. मा० पा० । २ पृष्ठभागस्तु इति. मा० पा० । ३ पायसम् इति मा० पा० ।

२३२ वीरमित्रोदयस्य राजनीतिप्रकाशे तर्जनी मध्यमा चैव तथाङ्गुष्ठस्तु दक्षिणे । प्रवालरत्नकनकं फलेमृष्टाक्षतोदकम् ॥ सर्ववास्तुविभागेषु शस्तं पदविलेखने । न भस्माङ्गारकाष्ठेन न शस्त्रनखचर्मभिः ॥ न शृङ्गास्थिकपालैश्च क्वचिद्वास्तु विलेखयेत् । एभिर्विलिखितं कुर्यात् दुःखशोकभयादिकम् ॥ यदा गृहप्रवेशः स्याच्छिल्पी तत्राभिलक्षयेत् । स्तम्भसूत्रादिकं तद्वच्छुभाशुभफलोदयम् ॥ आदित्याभिमुखं रौति शकुनिः परुषं यदि । तुल्यकालं स्पृशेदङ्गं गृहभर्त्ता यदात्मनः ॥ वास्त्वङ्गे तद्विजानीयान्नरः शल्यं भयप्रदम् । अङ्गनानन्तरं यत्र हस्त्यश्वश्वापदं भवेत् ॥ तदङ्गसम्भवं विद्यात्तत्र शल्यं विचक्षणः । प्रसार्यमाणे सूत्रे तु श्वगोमायुविलङ्घिते ॥ तत्र शल्यं विजानीयात्खरशब्दे च भैरवे । यदि शाक्रे तु दिग्भागे मधुरं रौति वायसः ॥ धनं तत्र विजानीयात् भागे वा स्वाम्यधिष्ठिते । सूत्रच्छेदे भवेन्मृत्युर्व्याधिः कीले ह्यधोमुखे ॥ अङ्गारेषु तथोन्मादं कपालेषु च सम्भ्रमम् । कण्ठशल्येषु जानीयात्पौंश्चल्यं स्त्रीषु शास्त्रवित् ॥ गृहभर्तुर्गृहस्यापि विनाशः शिल्पिसम्भ्रमे । स्तम्भस्कन्धच्युते कुम्भे शिरोरोगान् विनिर्दिशेत् ॥ कुम्भापहारे सर्वस्य कुलस्यापि क्षयो भवेत् । मृत्युः स्थानच्युते कुम्भे भग्ने बन्धं विदुर्बुधाः ॥ १ फलंपेष्टा कृतोदकम् इति मा० पा० ।

दिग्भेदेन वास्तुवृद्धिफलं देवगृहादि च । २३३ करसङ्ख्याविनाशे तु नाशं गृहपतेर्विदुः । बीजौषधिविहीने तु भूतेभ्यो भयमादिशेत् ॥ प्राग्दक्षिणेन विन्यस्य स्तम्भं छत्रे निवेशयेत् । ततः प्रदक्षिणेनान्यान्यसेत् स्तम्भान् विचक्षणः ॥ यस्माद्भयकरो नॄणां योजितस्त्वप्रदक्षिणः । रक्षां कुर्वीत यत्नेन स्तम्भोपद्रवनाशिनीम् ॥ तथा फलवतीं शाखां स्तम्भोपरि निवेशयेत् । प्रागुदक्प्रवणं कुर्याद्दिङ्गूढं तु न कारयेत् ॥ स्तम्भं वा भवनं वापि द्वारं वासगृहं तथा । दग्धोहे कुलनाशः स्यान्न च संवर्द्धते गृहम् ॥ यदि संवर्द्धयेद्गेहं सर्वमेव विवर्धयेत् । पूर्वेण वर्द्धते वास्तु कुर्याद्वैराणि सर्वदा ॥ दक्षिणे वर्द्धितं वास्तु मृत्यवे स्यान्न संशयः । पश्चाद्विवृद्धं यद्वास्तु तदर्थक्षयकारकम् ॥ वर्द्धापितं तथा सौम्ये बहुसन्तापकारकम् । आग्नेये तस्य वृद्धिः स्यात्तदातिभयदं भवेत् ॥ वर्द्धितं राक्षसे कोणे वित्तक्षयकरं भवेत् । वर्द्धापितं तु वायव्ये वातव्याधिप्रकोपकृत् ॥ ईशाने सस्यहानिः स्याद्वास्तौ संवर्द्धिते सदा । ईशाने देवतागारं तथा शान्तिगृहं भवेत् ॥ महानसं तथाऽग्नेये तत्पार्श्वे चोत्तरे जलम् । गृहस्योपस्करं सर्वं नैर्ऋते स्थापयेद्बुधः ॥ धर्मस्थानं बहिः कुर्यात्स्नानमण्डपमेव च । १ सर्वदिक्षु विवर्धयेत् इति मा० पा० । २ वध्रस्थानमिति मा० पा० । ३०

२३४ वीरमित्रोदयस्य राजनीतिप्रकाशे धनधान्यं च वायव्ये कर्मशालां ततो बहिः ॥ एवं वास्तुविशेषः स्याद्गृहभर्तुः शुभावहः । अथातः सम्प्रवक्ष्यामि दार्वाहरणमुत्तमम् ॥ धनिष्ठापञ्चकं मुक्त्वा विष्ट्यादिकमतः परम् । ततः सांवत्सरादिष्टे दिने यायाद्वनं बुधः ॥ प्रथमं बलिपूजां च कुर्याद्वृक्षाय सर्वथा । पूर्वोत्त्तरेण पतितं गृहदारु प्रशस्यते ॥ अन्यथा न शुभं विद्याद्याम्यापरनिपातने । क्षीरवृक्षोद्भवं दारु न गृहे विनिवेशयेत् ॥ कृताधिवासं विहगैरनलानिलपीडितम् । गजावभग्नं च तथा विद्युन्निर्घातपीडितम् ॥ ऊर्ध्वं शुष्कं तथा दारु भग्नं वक्रं तथैव च । चैत्यदेवालयोत्पन्नं नदीसङ्गमजं तथा ॥ श्मशानकूपनिलयं तडागादिसमुद्भवम् । वर्जयेत्सर्वदा दारु यदिच्छेद्विपुलां श्रियम् ॥ तथा कण्टकिनो वृक्षान्नीपनिम्बविभीतकान् । श्लेष्मातकानाम्नतरून् वर्जयेत् गृहकर्मणि ॥ इति । बह्वृचगृह्येऽपि, अथातो वास्तुपरीक्षा । अनूपरमंविवदिष्णु भूमौषधिवनस्प- तिवत् । यस्मिन् कुशवीरणं प्रभूतम् । कण्टकिक्षीरिणस्तु समू- लान् परिखायोद्वासयेदपामार्गः शाकस्तिल्वकः परिव्याध इति चैतानि । यत्र सर्वत आपो मध्यं समेत्य प्रदक्षिणं शयनीयं प- रीत्य प्राच्यः स्यन्देरन्ननवदत्यस्तत्सर्वसमृद्धम् । समवस्रवे भक्त- शरणं कारयेत् । बह्वन्नं हि भवति । दक्षिणाप्रवणे सभां मापये- १ अर्धशुष्कम् इति मा० पा० ।

आश्वलायनगृह्योक्तवास्तुविधिः । २३५ त्साद्युता ह भवति । युवानस्तस्यां कितवाः कलहिनः प्र- मायुका भवन्ति । यत्र सर्वत आपः प्रस्यन्देरन् सा स्वस्त्यय- न्यनूता च ( आ० गृ० अ० २ खं० ७ ) । अथैतैर्वास्तु परीक्षेत । जानुमात्रं गर्तं खात्वा तैरेव पांसुभिः प्रतिपूरयेत् । अधिके प्रशस्तं, समे वार्त्तं, न्यूने गर्हि- तम् । अस्तमिते पांसुपूर्णं परिवासयेत् । सोदके प्रशस्तम्, आर्दे वार्तं, शुष्के गर्हितं, श्वेतं मधुरास्वादम् । सिकतोत्तरं ब्राह्मण- स्य, लोहितं क्षत्रियस्य, पीतं वैश्यस्य । तत्सहस्रसीतं कृत्वा यथादिशं समचतुरस्रं मापयेत् आयतचतुरस्रं वा । तच्छमीशा- खयोदुम्बरशाखया वा शन्तातीयेन त्रिःप्रदक्षिणं परित्रजन्प्रोक्ष- ति-अविच्छिन्नया चोदकधारया “आपोहिष्ठामयो भुव” इति तृचेन । वंशान्तरेषु शरणानि कारयेत् । गर्त्तेष्ववकां शीपालमित्यवधापयेन्नास्याग्निर्दाहुको भवतीति विज्ञायते । म- ध्यमस्थूणाया गर्त्तेऽवधाय प्रागग्रोदगग्रान् कुशानास्तीर्य व्री- हियवमतीरप आसेचयेद् “अच्युताय भौमाय स्वाहा” इति । अथैनामुच्छ्रीयमाणामनुमन्त्रयेत “इहैव तिष्ठ निर्मिता तिल्वि- लास्तामिरावतीं मध्ये पोषस्य तिष्ठन्तीम् । आ त्वा प्रापन्नघायव आ त्वा कुमारस्तरुण आवत्सो जायतां सह । आ त्वा परि- श्रितः कुम्भ आदन्नः कलशैरयन”इति । (आ०गृ०अ०२खं०८) वंशमाधीयमानम् । “ऋतेन स्थूणामधिरोह वंश द्रा- घीय आयुः प्रतरं दधाना” इति । सदूर्वासु चतसृषु शिलासु मणिकं प्रतिष्ठापयेत् “पृथिव्या अधि सम्भव” इति । “अरङ्गरो वावदीति त्रेधा बद्धो वरत्रया । इरामु ह प्रशं- सत्यनिरामपबाधताम्” इति वा । अथास्मिन्नप आसेचयेत् “ऐतु राजा वरुणो रेवतीभिरस्मिंस्थाने तिष्ठतु मोदमानः ।