भारतकोश
संग्रह पर लौटें

वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)

Viramitrodaya Rajanitiprakasha of Mitramishra with Commentary

महामहोपाध्याय मित्रमिश्र (सम्पादक: पं. विष्णुप्रसाद शर्मा) द्वारा

DevanagariHindipublished490 पृष्ठ

१९६ वीरमित्रोदयस्य राजनीतिप्रकाशे श्रीमन्महाराजमधुकरसाहसूनु- श्रीमन्महाराजाधिराजचतुरुदधिवलयवसुन्धराहृदयपुण्डरी- कविकासदिनकर- श्रीवीरसिंहदेवोद्योजित- श्रीहंसपण्डितात्मजश्रीपरशुराममिश्रसूनु- सकलविद्यापारावारपारीणधुरीण- जगद्दारिद्यमहागजपारीन्द्रविद्वज्जनजीवातु- श्रीमन्मित्रमिश्रकृते श्रीवीरमित्रोदयाभिधाननिबन्धे राजनीतिप्रकाशे राजधर्माः ।

राज्ञो निवासयोग्यदेशः । १९७ अथ राज्ञो निवासयोग्यदेशविचारः । तत्र मनुः, जाङ्गलं सस्यसम्पन्नमार्यप्रायमनाविलम् । रम्यमानतसामन्तं स्वाजीव्यं देशमावसेत् ॥ इति । जाङ्गलदेशलक्षणमन्यत्राभिहितम्— अल्पोदकतृणो यस्तु प्रवातः प्रचुरातपः । स ज्ञेयो जाङ्गलो देश इति देशविदो विदुः ॥ इति । स्मृत्यन्तरेऽपि, स्वल्पवृक्षोदकपर्वतो बहुपक्षिमृगः प्रचुरवर्षातपश्च जाङ्गलो- देश इति । इदं च स्वल्पोदकादिविशेषणं देशस्य परैरनाक्रमणीयत्वा- र्थम् । राजधान्यां तु बहुजलादिमत्त्वं तत्प्रकरणे वक्ष्यते । सस्यैः, वार्षिकशारदहैमन्तिकवासन्तिकैरव्यवहितोत्पत्तिकैर्धान्यैः सम्पूर्णम् । आर्यप्रायं, प्रचुरधार्मिकजनम् । अनाविलं, सर्प- व्याघ्रादिभिरनाकुलम् । रम्यं मनोरमम् । आनतसामन्तं, दानमानादिना प्रणततत्तद्भूमिपालम् । स्वाजीव्यं, सुलभकृषि- वाणिज्यादिलोकजीवनोपायम् । देशमावसेदित्यत्र "उपान्व- ध्याङ्वस” इत्याधारे द्वितीया । तथा— याज्ञवल्क्यः, रम्यं पशव्यमाजीव्यं जाङ्गलं देशमावसेत् । इति । पशव्यं, पशुभ्यो हितम् । आजीव्यं, समन्तादुपजीव्यौषधि- तृणकाष्ठादियुक्तम् । मत्स्यपुराणेऽपि,

१९८ वीरमित्रोदयस्य राजनीतिप्रकाशे मत्स्य उवाच । राजा सहायसंयुक्तः प्रभूतयवसेन्धनम् । रम्यमानतसामन्तं मध्यमं देशमावसेत् ॥ इति । प्रभूतं प्रचुरं यवसं तृणम् इन्धनं च यस्मिंस्तादृशम् । मध्यमं स्वपालनीयदेशमध्यस्थम् । वैश्यशूद्रजनप्रायमनाहार्यं तथा परैः । किञ्चिद्ब्राह्मणसंयुक्तं बहुकर्मकरं तथा ॥ अनाहार्यं, परैर्ग्रहीतुमशक्यम् । ब्राह्मणबाहुल्ये सहवासा- दिना राजकीयभ्यस्तेषां पीडा स्यादित्यतः किञ्चिद्ब्राह्मण- संयुक्तमिति । अदेवमातृकं रम्यमनुरक्तजनावृतम् । करैरपीडितं चापि बहुपुष्पफलं तथा ॥ अदेवमातृकं, नदीमातृकम्।नद्यम्बुसम्पन्नव्रीहिपालितमित्यर्थः। अगम्यं परचक्राणां तद्वासगृहमापदि । समदुःखसुखं राज्ञः सततं प्रियमास्थितम् ॥ सरीसृपविहीनं च व्यालतस्करवर्जितम् । एवंविधं यथालाभं राजा विषयमावसेत् ॥ इति । विषयो देशः । आपदि, शत्रोर्विपत्काले । तेषां परचक्राणां वासगृहाणि यत्र तत्तथा । सरीसृपाः सर्पाः । व्याला व्याघ्राः । “यथालाभम्” “एवंविधम्” इत्यनेनैतत्प्रकरणोक्तकतिपयदेश- विशेषणराहित्येऽपि न क्षतिरिति दर्शितम् । विष्णुधर्मोत्तरेऽपि, राजा सहायसम्पन्नः पशव्यं जाङ्गलं शिवम् । वैश्यशूद्रजनप्रायमरोगं देशमावसेत् ॥ इति । इति राज्ञो निवासयोग्यदेशविचारः ।

दुर्गलक्षणम् । १९९ अथ दुर्गम् । तत्र याज्ञवल्क्यः, तत्र दुर्गाणि कुर्वीत जनकोशात्मगुप्तये । इति । तत्र, पूर्वोक्तदेशे । मत्स्यपुराणे, तत्र दुर्गं नृपः कुर्यात्षण्णामेकतमं बुधः । तानि च षड्विधानि— स एवाह, धन्वदुर्गं महीदुर्गं नरदुर्गं तथैव च । वार्क्षं चैवाम्बुदुर्गं च गिरिदुर्गं च पार्थिव ॥ इति । धन्वदुर्गं, निवासस्थानरूपाया राजधान्याः समन्तत एक- द्विदिनसाध्ये मार्गे मरुभूमिरूपं दुर्गम् । तच्च द्विविधं, स्वतःसिद्ध- मरुभूमिरूपं, समन्ततो वापीकूपतडागादिजलस्थानानां वृक्षाणां च विनाशनेन निर्जलतां निर्वृक्षतां च सम्पाद्य कृत्रिममरुभूमिरूपं च । तत्राद्यमुक्तम्— औशनसे धनुर्वेदे, सलिलवर्जितमतिशर्कराचितं रूक्षं निराश्रयं विषमैर्विषकी- टैश्चितं विषमप्रदेशे दुःसञ्चरं बलवद्भिः पालकैरुपेतं रोगविनि- र्मुक्तं धान्वनदुर्गं श्रेयसे भवेत् । इति । द्वितीयं तूक्तम्— महाभारते, यदा तु पीडितो राजा भवेद्राज्ञा बलीयसा । तदाभिसंश्रयेत् दुर्गं बुद्धिमान् पृथिवीपतिः ॥ इत्युपक्रम्य— सस्याभिहारं कुर्याच्च स्वयमेव नराधिपः ।

' (ā-kāra) after it! So it is "महामिष्टकापाषाणादि-"!

Let's check line 15: निर्मितं दुर्गं महीदुर्गम् । तच्च द्विविधम् । अतिनिम्नोन्नतभू-

Line 16: मिरूपमेकं, अपरं च पाषाणैरिष्टकाभिर्मृदा वा निर्मितेन युद्धार्थ- Wait, is there a space after the comma: "मिरूपमेकं, अपरं च" or "मिरूपमेकं,अपरं च"? In the image: "मिरूपमेकं, अपरं च" (or slight space).

Line 17: मुपरियोधावस्थानयोग्येन प्राकारेणोपकल्पितम् । तत्राद्यमुक्तम्- Wait, let's check: "मुपरियोधावस्थानयोग्येन" -> म + उपरि = मुपरि योधावस्थानयोग्येन = योधा + अवस्थान + योग्येन प्राकारेणोपकल्पितम् = प्राकारेण + उपकल्पितम् तत्राद्यमुक्तम्-

Line 18: औशनसे धनुर्वेदे,

Line 19: सर्वोपकरणोपेतं गुप्तं चोपायसंयुतम् ।

Line 20: अत्युत्सेधातिनिम्नं

दुर्गलक्षणम् । २०१ नराणामुपलक्षणत्वेन यथासम्भवं चतुरङ्गसेनासन्निवेशविशेषरूपं दुर्गम् । इदमेव च बलदुर्गम् । तदुक्तम्- औशनसे धनुर्वेदे, मौलं वश्यसुसन्तुष्टं शिक्षायुक्तं सनायकम् । भीमं चैवाप्रमत्तं च बलदुर्गं प्रशस्यते ॥ इति । मौलं परम्परागतयोधरूपम् । प्रशंसितमेतत्- महाभारते, दुर्गेषु च महाराज षट्सु ये शास्त्रनिश्चिताः । सर्वे दुर्गेषु शस्यन्ते नरदुर्गं सुदुस्तरम् ॥ इति । वार्क्षं, समन्ततो घनतरवृक्षरूपं दुर्गम् । तदुक्तम्- औशनसे धनुर्वेदे, अज्ञातमार्गं गहनं वृक्षगुल्मलतादिभिः । सकण्टकैर्वनं दुर्गं भूतये स्यात्सुविस्तृतम् ॥ इति । अम्बुदुर्गम्, समन्ततोऽगाधजलनद्यादिरूपं दुर्गम् । इदम- धिकृत्योक्तम्- औशनसे धनुर्वेदे, सङ्क्षिप्तेनैकमार्गेण सविषैस्तु जलेचरैः । सलिलैर्विषमं स्पर्शनखादनवधप्रियैः ॥ इति । स्पर्शनं खादनं वधश्च तत्प्रियैः । गिरिदुर्गं च द्विविधम् । समन्ततो दुर्गमपर्वतवेष्टितभूभागरूपं, दुर्गमसजलगिरिशिखर- रूपं च । तदुक्तम्- औशनसे धनुर्वेदे, दुरारोहं परैर्दूरं शरपातस्य गोचरात् । सर्वसम्पत्समायुक्तं दुर्गं स्यात्पार्वतं श्रिये ॥ इति । २६

२०२ वीरमित्रोदयस्य राजनीतिप्रकाशे

सर्वेषां धान्यजलादीनां सम्पत् आधिक्यं तेन समायुक्तं यत्तादृशम् । एतान्येव षड्विधानि दुर्गाण्याह- मनुरपि, धन्वदुर्गं महीदुर्गमब्दुर्गं वार्क्षमेव च । नृदुर्गं गिरिदुर्गं च समाश्रित्य वसेत्पुरम् ॥ इति । तिर्यक्प्रभृतयोऽपि दुर्गमाश्रिता इत्यतो राज्ञा तदवश्यमा- श्रयणीयामित्यभिप्रेत्य- स एवाह, त्रीण्याद्यान्याश्रितास्तेषां मृगगर्ताश्रया झषाः । त्रीण्युत्तराणि क्रमशः प्लवङ्गमनरामराः ॥ त्रीण्याद्यानि, आद्यानि त्रीणि दुर्गाणि । तत्र मरुभूमिरूपं मृगा आश्रिताः, गर्ताश्रया मूषकादयः दुर्गममहीरूपम्, झषा मत्स्या अगाधजलरूपम्, प्लवङ्गमा वानरा वृक्षसमुदायरूपम्, नरा मनुष्या नरसमुदायरूपम् । एकाकिनो हि परैरभिभाव्यत्वं स्पष्टमेव । अमरा देवाः कैलासादिदुर्गमाश्रिता इत्यतो राज्ञाप्ये- षामन्यतमदुर्गमाश्रयणीयमित्यर्थः । यथा दुर्गाश्रितानेतान्नोपहिंसन्ति शत्रवः । तथारयो न हिंसन्ति नृपं दुर्गसमाश्रितम् ॥ इति । दुर्गस्यावश्यविधेयत्वं तत्प्रकारविशेषं च- बृहस्पतिराह, आत्मदारार्थलोकानां सञ्चितानां तु गुप्तये । नृपतिः कारयेद्दुर्गं प्राकारद्वारसंयुतम् ॥ इति । मनुरपि, एकः शतं योधयति प्राकारस्थो धनुर्द्धरः । शतं दशसहस्राणि तस्माद्दुर्गं विधीयते ॥ इति ।

दुर्गे पुरनिर्माणम् । २०३ तेषां षण्णामपि दुर्गाणां मध्ये गिरिदुर्गस्य प्राशस्त्यमुक्तम्- मत्स्यपुराणे, सर्वेषामेव दुर्गाणां गिरिदुर्गं प्रशस्यते । इति । मनावपि, सर्वेषां तु प्रयत्नेन गिरिदुर्गं समाश्रयेत् । एषां हि बाहुगुण्येन गिरिदुर्गं विशिष्यते ॥ इति । बाहुगुण्येन बहुतरगुणवत्त्वेन । ते च गुणा दुरारोहत्वादयः प्रत्यक्षसिद्धा एव । तेषु च यथासम्भवं परिखादि कार्य- मित्युकम्— मत्स्यपुराणे, दुर्गं च परिखोपेतं प्राकाराट्टाळसंयुतम् । शतघ्नीयन्त्रमुखैश्च शतशश्च समावृतम् ॥ इति । इति दुर्गम् । अथ पुरनिर्माणम् । तत्र मत्स्यपुराणे, गोपुरं सकपाटं तु तत्र स्यात्सुमनोहरम् । तत्र, दुर्गे । गोपुरं, पुरद्वारम् । तत्प्रमाणं तु— तत्रैव, सपताकगजारूढो येन राजा विशेत्पुरम् । इति । विशेषान्तरमप्युक्तम्- तत्रैव, चतस्रश्च तथा तत्र कार्यास्त्वायतवीथयः । एकस्मिंस्तत्र वीथ्यग्रे देववेश्म भवेद्दृढम् ॥ वीथ्यग्रे च द्वितीये च राजवेश्म विधीयते ।

२०४ वीरमित्रोदयस्य राजनीतिप्रकाशे धर्माधिकरणं कार्यं वीथ्यग्रे च तृतीयके ॥ चतुर्थे चैव वीथ्यग्रे गोपुरं तु विधीयते । आयतं चतुरस्रं वा वृत्तं वा कारयेत्पुरम् ॥ आयतं दीर्घचतुरस्रम् । स्रक्तिहीनं त्रिकोणं च यवमध्यं तथैव च । स्रक्तिहीनं कोणरहितम् । अर्द्धचन्द्रप्रकारं च वज्राकारं च कारयेत् ॥ अर्द्धचन्द्रं प्रशंसन्ति नदीतीरेषु तद्वशात् १ । अन्यत्र तन्न कर्तव्यं प्रयत्नेन विजानता ॥ इति । तत्र विशेषमाह— मनुः, तत्स्यादायुधसम्पन्नं धनधान्येन वाहनैः । ब्राह्मणैः शिल्पिभिर्यन्त्रैर्यवसेनोदकेन्धनैः ॥ इति । पुरमित्युपक्रमे— बृहस्पतिरपि, भूपानामिन्धनरसैर्वैत्रशष्पान्नवाहनैः । यन्त्रायुधैश्च विविध

दुर्गे पुरगृहादिनिर्माणम् । २०५ मुक्ताः, करादिनिर्मुक्ताः। नृपतिः, विभक्तिव्यत्ययेन नृप- तिना । स्वशासने, स्वकरादानकरणे । लेखयित्वा, एवं दत्ता गृहाः करनिर्मुक्ता इति लेखयित्वा । भाव्याः परिपालनीयाः । नित्यं नैमित्तिकं काम्यं शान्तिकं पौष्टिकं सदा । पौराणां कर्म कुर्युस्ते सन्दिग्धे विनयं तथा ॥ इति । सन्दिग्धे, कार्ये । विनयं, शिक्षाम् । पुरं कुर्यादित्युपक्रम्य- विष्णुधर्मोत्तरे, एषामन्यतमे दुर्गे धनधान्यसमायुते । हस्त्यश्वरथसम्पन्ने मणिभिरुपशोभिते ॥ यन्त्राढ्ये वेदबहुले युद्धोपकरणैर्युते । सुसञ्चिते धनाढ्ये च बहुपेये बहूदके ॥ हस्त्यश्वरथगोवैद्यसांवत्सरयुते शुभे । घृततैलौषधियुते सर्वोपकरणैस्तथा ॥ प्राकारपरिखावप्रगोपुराट्टालकैर्युते । चाटतस्करदुर्वृत्तक्रुद्धलुब्धादिवर्जिते ॥ इति । वेदबहुले, वैदिकब्राह्मणबहुले । सुसञ्चिते, वक्ष्यमाणस- कलपदार्थसञ्चययुक्ते । चाटाः, बहुभाषिणः । परिखादिकरणे विशेषमाह- बृहस्पतिः, समा निम्नोन्नता वापि यत्र भूमिर्यथाविधा । शालादृपरिखाद्याश्च कर्त्तव्याश्च तथाविधाः ॥ तथाविधाः, भूमेर्निम्नोन्नततानुसारेण निम्ना उन्नताश्च कार्या इत्यर्थः । समन्तात्तत्र वेश्मानि कुर्युः प्रकृतयस्ततः । द्विजवैश्यवणिक्शिल्पिकारुका रक्षकास्तथा ॥

२०६ वीरमित्रोदयस्य राजनीतिप्रकाशे स्थलावस्थाननिष्काशभ्रमश्वभ्रचतुष्पथान् । समाजविक्रयस्थानगोव्रजांश्चैव कल्पयेत् ॥ एवमन्येषां गृहादौ निर्मिते राज्ञो निवासयोग्यगृहनिर्माणे प्रकारमाह- स एव, दुर्गमध्ये गृहं कुर्याज्जलवृक्षान्वितं पृथक् । प्राग्दिशि प्राङ्मुखीं तस्य लक्षण्यां कल्पयेत्सभाम् ॥ माल्यधूपासनोपेतां वीररत्नसमन्विताम् । प्रतिमालेख्यदेवैस्तु युक्तामग्न्यम्बुना तथा ॥ इति । विष्णुधर्मोत्तरेऽप्युक्तम्- दैवज्ञस्थपतिभ्यां तु सम्मन्त्र्य शुभलक्षणम् । तत्र वासेद्गृहं राजा सर्वोपकरणैर्युतम् ॥ इति । तत्र, दुर्गमध्ये । वासेत्, रचयेत् । राज्ञो मुख्यगृहस्य चतु- र्दिक्षु कोशादिगृहाण्युक्तानि- मत्स्यपुराणे, राज्ञा कोशगृहं कार्यं दक्षिणे राजवेश्मनः । तस्यापि दक्षिणे भागे गजस्थानं विधीयते ॥ गजानां प्राङ्मुखी शाला कर्त्तव्या वाप्युदङ्मुखी । आग्नेये च तथा भागे आयुधागारमिष्यते ॥ महानसं च धर्मज्ञ कर्मशाला तथाऽपरा । गृहं पुरोधसः कार्यं वामतो राजवेश्मनः ॥ मन्त्रिवेदविदां चैव चिकित्साकर्त्तुरेव च । तत्रैव च तथा भागे कोष्ठागारं विधीयते ॥ गवां स्थानं तथैवात्र तुरगाणां तथैव च । उत्तराभिमुखी श्रेणी तुरगाणां विधीयते ॥

दक्षिणाभिमुखा वाथ परिशिष्टास्तु गर्हिताः । तुरगास्ते तथा धार्याः प्रदीपैः सार्वरात्रिकैः ॥ इति । मन्दुरास्थाश्वानां दृष्टिदोषनिरासाय कुक्कुटादिस्थापनमुक्तम्— तत्रैव, कुक्कुटान् वानरांश्चैव मर्कटांश्च विशेषतः । श्याममुखताम्रमुखाभ्यां ह्रस्वलाङ्गूलदीर्घलाङ्गुलाभ्यां वा वानरमर्कटयोर्भेदः । धारयेदश्वशालासु सवत्सां धेनुमेव च ॥ अजाश्च धार्या यत्नेन तुरगाणां हितैषिणा । गोगजाश्वादिशालासु तत्पुरीषस्य निर्गमः ॥ अस्तङ्गते न कर्त्तव्यो देवदेवे दिवाकरे । ततस्तत्र यथास्थानं राजा विज्ञाय सारथिम् ॥ दद्यादावसथस्थानं सर्वेषामनुपूर्वशः । योधानां शिल्पिनां चैव सर्वेषामविशेषतः ॥ दद्यादावसथान् दुर्गे मन्त्रकालविदां शुभान् । गोवैद्यानश्ववैद्यांश्च गजवैद्यांस्तथैव च ॥ आह्वयेत भृशं राजा दुर्गे हि प्रबला रुजः । कुशीलवानां विप्राणां दुर्गे स्थानं विधीयते ॥ न बहूनामतो दुर्गे विना कार्यं तथा भवेत् । दुर्गे च यन्त्राः कर्त्तव्या नानाप्रहरणान्विताः ॥ सहस्रघातिनो राज्ञा तैस्तु रक्षा विधीयते । दुर्गे द्वाराणि गुप्तानि कार्याण्यपि च भूभुजा ॥ सञ्चयश्चात्र सर्वेषामायुधानां प्रशस्यते । धनुषां क्षेपणीयानां तोमराणां च पार्थिव ॥ क्षेपणीयानां, क्षेप्तुं योग्यानां पाषाणानाम्, लोहसीसगु-

२०८ वीरमित्रोदयस्य राजनीतिप्रकाशे लिकानां च । शराणामथ खङ्गानां कवचानां तथैव च । लगुडानां गुडानां च हुडानां परिघैः सह ॥ अश्मनां च प्रभूतानां मुद्गराणां तथैव च । त्रिशूलानां पट्टिशानां कणपानां च पार्थिव ॥ प्रासानां च सशूलानां शक्तीनां च नरोत्तम । परस्वधानां चक्राणां वर्मणां चर्मभिः सह ॥ कुद्दालरज्जुवेत्राणां पीठकानां तथैव च । हिंसकानां च दात्राणामङ्गाराणां च सञ्चयः ॥ सर्वेषां शिल्पिभाण्डानां सञ्चयश्चात्र शिष्यते । वादित्राणां च सर्वेषामौषधीनां तथैव च ॥ यवसानां प्रभूतानामिन्धनस्य च सञ्चयः । गुडस्य सर्वतैलानां गोरसानां तथैव च ॥ वसानामथ मज्जानां स्नायूनामस्थिभिः सह । गोचर्मपटहानां च धान्यानां सर्वतस्तथा ॥ सर्वतः, सर्वेषाम् । तथैवाभ्रपटानां च यवगोधूमयोरपि । शणसर्जरसं भूर्जं जतु लाक्षा च टङ्कणम् ॥ अभ्रम्, अभ्रकसंज्ञको धातुविशेषः । राजा सञ्चिनुयाद्दुर्गे यच्चान्यदपि किञ्चन ॥ कुम्भेष्वाशीविषाः कार्या व्यालसिंहादयस्तथा । मृगाश्च पक्षिणश्चैव रक्ष्यास्ते च परस्परम् ॥ स्थानानि च विरुद्धानां सुगुप्तानि पृथक् पृथक् । कर्त्तव्यानि महाभाग यत्नेन पृथिवीक्षिता ॥ १ तुषाणां चैव इति मुद्रितमात्स्ये पाठः ।

दुर्गे सङ्गाह्यान्तराणि । २०९ तथा, मनुरुवाच । राजा रक्षारहस्यानि यानि दुर्गे निधापयेत् । कारयेद्वा महीभर्त्ता ब्रूहि तत्त्वानि तानि च ॥ मत्स्य उवाचेत्युपक्रम्य सङ्ग्राह्यान्तरमप्युक्तम्- शिरीषौदुम्बरशमीबीजपूरं घृतप्लुतम् । क्षुद्योगः कथितो राजन्मासार्द्धस्य पुरातनैः ॥ शिरीषादिकं घृतप्लुतं भुक्तं सत् मार्द्धस्य पञ्चदशादिनात्म- कपक्षरूपस्य क्षुद्योगः क्षुत्प्रशमनोपायः । नरं शस्त्रहतं प्राप्य तस्यास्थि अरणिर्भवेत् । कुल्माषवेणुना तत्र जनयेत्तु विभावसुम् ॥ गृहं त्रिरपसव्यं तु क्रियते यत्र पार्थिव । नान्योऽग्निर्ज्वलते तत्र नात्र कार्या विचारणा ॥ कार्पासास्थि भुजङ्गस्य तथा निर्मोचनं भवेत् । सर्पनिर्वासने धूपः प्रशस्तः सततं गृहे ॥ सामुद्रसैन्धवयवा विद्युद्दग्धा च मृत्तिका । तयानुलिप्तं यद्वेश्म नाग्निना दह्यते नृप ॥ दिवा च दुर्गे रक्ष्योग्निर्वाति वाते विशेषतः । तथा, उक्तानि वाप्यनुक्तानि राजा द्रव्याण्यशेषतः । सुगुप्तानि पुरे कुर्याज्जनानां हितकाम्यया ॥ जीवकर्षभकाकोलमामलक्याटरूषकम् । १ अत्र 'कशेरुफलमूलानि इक्षुमूलं तथा विषम् । दूर्वा क्षीर- घृतैर्मण्डः सिद्धोऽयं मासिकः परः' ॥ इति मुद्रितमात्स्येऽधिकं वर्तते । २७

२१० वीरमित्रोदयस्य राजनीतिप्रकाशे शालपर्णी पृश्निपर्णी मुद्गपर्णी तथैव च ॥ माषपर्णी च मेदे द्वे सारिवे द्वे बलात्रयम् । वीराश्वसन्ती वृष्णीया बृहती कण्टकारिका ॥ शृङ्गी शृङ्गाटकी द्रोणी वर्षाभूर्भद्ररेणुका । मधुपर्णी विदार्यौ द्वे महाक्षुद्रा महातपाः ॥ धन्वना सहदेवाह्वा कटुकैरण्डकं विषः । पर्णासनाह्वा मृद्वीका फल्गुखर्जूरयष्टिकाः ॥ शुकातिशुक्राश्मर्य्यच्छत्रातिच्छत्रवीरणाः । इक्षुरिक्षुविकाराश्च फाणिताद्याश्च सत्तम ॥ सिंही च सहदेवी च विश्वेदेवाटरूषकम् । मधुकं पुष्पहंसाख्या शतपुष्पा मधूलिका ॥ शतावरीमधूके च पिप्पलं तालमद्ये च । आत्मगुप्ता कट्फलाख्या दार्थिका राजशीर्षिका ॥ राजसर्षपधान्याकवृष्यनोक्ता तथोत्कटा । कालशाकं पद्मबीजं गोवल्ली मधुवल्लिका ॥ शीतपाकी कुलिशाक्षी काकजिह्वोरुपुष्पिका । एर्वारुत्रपुसौ चोभौ गुञ्जातक्रपुनर्नवे ॥ कशेरुका तु काश्मीरी विल्वशालूककेसरम् । शूकधान्यानि सर्वाणि शिम्बीधान्यानि चैव हि ॥ क्षीरं क्षौद्रं तथा चुक्रं तैलं मज्जा वसा घृतम् । निचोवारिष्टकाक्षोडा वाताममोरुशाणकम् ॥ एवमादीनि चान्यानि विज्ञेयो मधुरो गणः । १ वृष्या चेति मात्स्ये पाठः । २ पर्णी शताह्वा इति मात्स्ये पाठः । ३ 'नीपश्चारिष्टकाक्षोडवातामसोमबाणकम्' इति मात्स्ये पाठः

दुर्गे सङ्ग्राह्यान्तराणि । २११ राजा सञ्चिनुयात्सर्वं पुरे निरवशेषतः ॥ दाडिमाम्रातकाम्रं च तिन्तिडीकाम्लवेतसम् । भव्यर्ककन्धुलकुचकरमर्दकरूपकम् ॥ बीजपूरककण्डूरे मालती राजबन्धुकम् । कोलकद्वयपर्णानि द्वयाराम्लकयोरपि ॥ आरेवतं नागरकं प्राचीनारुकमेव च । कपिलामलकं चुक्रा फलं दन्तशठस्य च ॥ जाम्बवं नवनीतं च सौवीरकतुषोदके । सुराऽऽसवं च मद्यानि मण्डतक्रदधीनि च ॥ शुक्तानि चैव सर्वाणि ज्ञेयान्यम्लगणानि च । एवमादीनि चान्यानि राजा सञ्चिनुयात्पुरे ॥ पिप्पली पिप्पलीमूलं चव्यचित्रकनागरम् । कुबेरकं समरिचं शिग्रुभल्लातसर्षपाः ॥ कुष्ठाजमोदा किणिही हिङ्गुमूलकधान्यकम् । कारदी कुञ्चिका याज्या सुमुखा कालमालिका ॥ फणिज्जकोऽथ लशुनं भूस्तृणं सुरसं तथा । कायस्था च वयःस्था च हरितालं मनःशिला ॥ अमृता च रुदन्ती च रोहितं कुङ्कुमं तथा । यवासैरण्डकाण्डीरं शल्लकी हञ्जिका तथा ॥ सर्वपित्तानि मूत्राणि प्रायो हरितकानि च । फलानि चैव च तथा सूक्ष्मैला हिङ्गुपत्रिका ॥ १ अत्र मात्स्ये–'सैन्धवोद्भिदपाठेयपाक्यसामुद्रलोमकम्। कुप्य- सौवर्चलबिडं बालकेयं यवाह्वकम् ॥ और्वं क्षारं कालभस्म विज्ञे- यो लावणो गणः। एवमादीनि चान्यानि राजा सञ्चिनुयात्पुरे' ॥ इत्यधिकं वर्तते ।

२१२ वीरमित्रोदयस्य राजनीतिप्रकाशे एवमादीनि चान्यानि गणः कटुकसंज्ञितः । राजा सञ्चिनुयाद्दुर्गे प्रयत्नेन नृपोत्तम ॥ मुस्तचन्दनह्रीबेरकृतमालकदारवः । हरिद्रानलदोशीरनक्तमालकदम्बकम् ॥ दूर्वा पटोलकटुका दीर्घत्वक् चूतकं वचा । किरातातिक्तकं निम्बं विषा चातिविषा तथा ॥ तालीसपत्रं तगरं सप्तपर्णविकङ्कताः । काकोदुम्बरिकोदीच्यमुपवीकृमिहिंसकाः ॥ षड्ग्रन्था रोहिणी मांसी पर्पटश्चाथ दन्तिका । रसाञ्जनं भृङ्गराजं पेणासं परिपेलवम् ॥ दुःस्पर्शा गुरुणी कामा श्यामाकं कङ्कुनाकुली । तुपपर्णी व्याघ्रनखमम्वष्ठा चतुरङ्गुला ॥ रम्भा चैवाङ्कुरास्फोटा तालास्फोटा हरेणुका । वेत्राग्रवेतसस्तुम्बी विषाणी लोहपँअरा ॥ मालती करतिक्ताख्या वृषाङ्गी जिह्विका तथा । पर्पटं च गुडूची च स गणस्तिक्तसंज्ञकः ॥ एवमादीनि चान्यानि राजा सञ्चिनुयात्पुरे । अभयाममलकौ चोभौ तथैव च विभीतकम् ॥ प्रियङ्गुधातकीपुष्पं मोचालोध्रार्जुनासनाः । अनन्ता स्त्री सुरानङ्गा स्योनाकं कट्फलं तथा ॥ भूर्जपत्रशिलोद्भेदपाटला पङ्कलाष्टकम् । १ पतङ्गी इति मात्स्ये पाठः । २ गन्धनाकुली इति मात्स्ये पाठः । ३ लोध्रपुष्पिणी इति मा० पा० । ४ तुबरिका इति मा० पा० ।

दुर्गे सङ्ग्राह्यान्तराणि । २१३ समङ्गा त्रिवृतामूलकार्पासगैरिकाञ्जनम् ॥ विद्रुमं समधूच्छिष्टं कुम्भिका कुमुदोत्पलम् । न्यग्रोधोदुम्बराश्वत्थकिंशुकाः शिंशपा शमी ॥ प्रियालपीलुकासारशिरीषाः पद्मकं तथा । बिल्वोऽग्निमन्थः पुक्षश्च श्यामाकं कवको घनम् ॥ राजादनं करीरं च चम्पकप्रियकौ तथा । कङ्कोलाशोकबदराः कदम्बखदिरद्वयम् ॥ एषां पत्राणि साराणि मूलानि कुसुमानि च । एवमादीनि चान्यानि कषायाख्यो गणो मतः ॥ प्रयत्नेन नृपश्रेष्ठ राजा सञ्चिनुयात्पुरे । कीटाम्बुमारणे योग्या व्यङ्गतायां तथैव च ॥ वातधूमाश्च मार्गाणां दूषणानि तथैव च । धार्याणि पार्थिवैर्दुर्गे तानि वक्ष्यामि पार्थिव ॥ विषाणां धारणं कार्यं प्रयत्नेन महीभुजा । विचित्राश्चागदा धार्या विषस्य शमनास्तथा ॥ रक्षोभूतपिशाचघ्नाः पापघ्नाः पुष्टिवर्द्धनाः । कलाविदश्च पुरुषाः पुरे धार्याः प्रयत्नतः ॥ भीतान् प्रमत्तान् कुपितांस्तथैव च विमानितान् । कुभृत्यान् पापशीलांश्च न राजा वासयेत्पुरे ॥ यन्त्रायुधाट्टालचयोपपन्नं समग्रधान्यौषधिसम्प्रयुक्तम् । वणिग्जनैश्चावृतमावसेत दुर्गे सुगुप्तं नृपतिः सदैव ॥ इत्यादिप्रबन्धेनावश्यापेक्षितवस्तुसञ्चयं विधाय दुर्गमध्ये पुरं सुरक्षितं कृत्वा तत्र वसेत् । तत्र पुरनिर्माणं कथं कार्यमि- त्यपेक्षायाम्— देवीपुराणे,

२१४ वीरमित्रोदयस्य राजनीतिप्रकाशे इन्द्र उवाच । कीदृशं तु पुरं कार्यं नगरं कीदृशं शुभम् । कस्मिन् स्थाने सुरश्रेष्ठ एतदिच्छामि वेदितुम् ॥ ब्रह्मोवाच । सर्वौषधिभवे देशे सर्वलोकसुखावहे । पूर्वोत्तरप्लवे स्थाने कार्यं शक्र पुरादिकम् ॥ सर्वौषधिभवे, सर्वा या ओषध्यः फलपाकान्तास्तासां भव उत्पत्तिर्यस्मिन्। पूर्वोत्तरप्लवे, प्राक्प्रवणे, उदक्प्रवणे, ईशानप्र- वणे च। पुरनगरयोर्भेदस्तु— अनेकजातिसंयुक्तं तन्तुवाययुतं पुरम् । १ शर्कराभस्मरहिते कटुकण्टकवर्जिते ॥ सहले पांसुरहिते कुशादिभिरनावृते । चलगन्धसमायुक्ता मही खातोप लक्षिता ॥ चण्डालपतितत्यक्तशरावशकलैर्विना । देवावासपरित्यक्ता निराबाधा मनोरमा ॥ उदगादिप्लवागाधा वैषम्यादिविवर्जिता । शुद्धा सा दहनाद्यैश्च अथ चण्डेश्वरान्विता ॥ सर्वेश्वरयुता वापि अन्यथा भयदा मही । पूर्णवर्णविपर्यस्ता स्थानकालविमूत्रगा ॥ स्वामिश्रेष्ठिपुरादीनां भयदा ज्ञायते मही । कश्मलाद्यैः परिक्लिष्टा पूतनादिसमाकुला ॥ पताकावर्जनीया तु सर्वदोषकरी मही । वत्सरं या परित्यक्ता कृष्टा धान्यरुहा च या ॥ सा मही शुभदा ज्ञेया या च तृप्तिकरी भवेत् । १ इतः पूर्वं किञ्चित् त्रुटितं भाति ।

दुर्गे पुरनिर्माणप्रकारः । २१६ रक्ष्या देव्यस्सदैवात्र पूजनीयास्स्वभागगाः ॥ स्थानानि कल्पयेत्तासामधिवासं तु कारयेत् । चण्डेश्वरो, महादेवस्य गणविशेषः । अधिवासं, स्थापनम् । इति पुरभूशुद्धिः । तथा तत्रैव, नगरं दैवतावीतं समस्तप्रकृतीयुतम् । सप्तपञ्चपुरैः कार्यं मण्डपैरुपशोभितम् ॥ कोष्ठकाः सश्रियः कार्या मण्डपादग्रतः शुभाः । एवं देवालयोपेतं सर्ववर्णसमन्वितम् ॥ नवदुर्गासमायुक्तं नगरं परिकीर्तितम् । पुरं हट्टसमायुक्तं देवतादिसमाकुलम् ॥ हट्टं हेममणीवस्त्रपत्रोर्णाचर्मविक्रयम् । सुरापेयादिकं यस्मिंस्तत्पुरं पत्तनं शृणु ॥ असंहतं समं कार्यं वणिक्हट्टं सुशोभनम् । सुरनामं स्वनामं वा पत्तनं सर्वकामदम् ॥ अवेधं कारयेत्पङ्कगर्त्तादिभिः सुरोत्तम । उभयोरन्तरे कार्यं देवतायतनादिकम् ॥ देवलक्ष्माविहीनं तु समदृष्टिगतं शुभम् । चिह्नदृष्टिगते देवे न दृष्टेः सुनिरूपणम् ॥ समे मानसमायुक्ते कार्या दृष्टिः शुभा समा । द्रुमाधिका न कर्तव्या व्यालासिंहादिनावृता ॥ एवं कुर्यात्पुरे हट्टं प्राकारान्तर्गतं शुभम् । चतुर्हट्टं समं कार्यं समसूत्रं सुशोभनम् ॥ पथस्समं पुरं कार्यं सममार्गविनिर्गमम् । चतुष्पथानि शुद्धानि नित्यं पूजायुतानि च ॥