भारतकोश
संग्रह पर लौटें

वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)

Viramitrodaya Rajanitiprakasha of Mitramishra with Commentary

महामहोपाध्याय मित्रमिश्र (सम्पादक: पं. विष्णुप्रसाद शर्मा) द्वारा

DevanagariHindipublished490 पृष्ठ

२९४ वीरमित्रोदयस्य राजनीतिप्रकाशे शारीरदण्डवच्चार्थदण्डोऽप्युत्तमसाहसादिभेदेनानेकधेति त- दुपयोगिकृष्णलादिनिरूपणम् । तत्र— याज्ञवल्क्यः, जालसूर्य्यमरीचिस्थं त्रसरेणू रजः स्मृतम् । तेऽष्टौ लिक्षास्तु तास्तिस्रो राजसर्षप उच्यते ॥ गवाक्षप्रविष्टादित्यकिरणेषु यत्सूक्ष्मं वैशेषिकोक्तरीत्या द्य- णुकत्रयारब्धं रजो दृश्यते तत् त्रसरेणुरिति मन्वादिभिः स्मृतम् । गौरस्तु ते त्रयः षट् ते यवो मध्यस्तु ते त्रयः । कृष्णलः पञ्च ते माषास्ते सुवर्णस्तु षोडश ॥ पलं सुवर्णाश्चत्वारः पञ्च वापि प्रकीर्त्तितम् । इति । इदं तु कनकपरिमाणम् । रजतपरिमाणमपि— तेनैवोक्तम् , द्वे कृष्णले रौप्यमाषो धरणं षोडशैव ते । शतमानं तु दशभिर्धरणैः पलमेव तु ॥ निष्कं सुवर्णाश्चत्वारः-इति । कृष्णलद्वयपरिमितो रौप्यस्य माषो भवति। ते षोडश माषा रौप्यस्य धरणम् । दशभिर्धरणैः शतमानसंज्ञकं रौप्यस्य परि- माणम्, तदेव च पलम् । चत्वारः सुवर्णा रौप्यस्य निष्कः । ताम्रपरिमाणमपि — तेनैवोक्तम् , कार्षिकस्ताम्रिकः पणः । इति । सुवर्णपलस्य चतुर्थोऽंशः कर्षः तेन सम्मितः कार्षिकः स ताम्रिकः पणो भवति । ताम्रस्यायं ताम्रिकः । साशीतिः पणसाहस्रो दण्ड उत्तमसाहसः । तदधं मध्यमः प्रोक्तस्तदर्धमधमः स्मृतः ॥

उपायेषु दण्डः । २९५ अशीत्यधिकसहस्रसङ्ख्याकाः पणा उत्तमसाहसाख्यो दण्डः, चत्वारिंशदधिकपञ्चशतसङ्ख्यपणात्मको मध्यमसाहसाख्यः, सप्त- त्यधिकशतद्वयसङ्ख्याकपणात्मकोऽधमसाहसाख्यः । स एव च शास्त्रान्तरे प्रथमसाहसाख्य इत्युच्यते । यत्तूक्तम्— मनुना, पणानां द्वे शते सार्द्धे प्रथमः साहसः स्मृतः । मध्यमः पञ्च विज्ञेयः सहस्रं त्वेव चोत्तमः ॥ इति, तदल्पापराधविषयम् । धिग्दण्डस्त्वथ वाग्दण्डो धनदण्डो वधस्तथा । योज्या व्यस्ताः समस्ता वाप्यपराधवशादिमे ॥ धिग्दण्डो, धिक्त्वां कापुरुषमित्यादिः । वाग्दण्डः, सर्वस्वं ते हरामि, त्वां देशान्निर्वासयामीति परुषभाषणम् । ज्ञात्वाऽपराधं देशं च कालं बलमथापि वा । वयः कर्म च वित्तं च दण्डं दण्ड्येषु पातयेत् ॥ क्वचिद्देशे स्वल्पेनैव शीतेनाऽऽतपेन वा स्वल्पकालेन भोजन- निवारणेनाधिका पीडा भवति, क्वचिच्च महतापि न तावती । तथा काले शरदादौ, तथा दण्डनीयबलं विदित्वा ताडनादिदण्डो वि- धेयः । तथा वयःकर्मवित्तानि । वयः, अशीत्यादि वार्द्धकं, प्रागुप- नयनादि शैशवं च । कर्माग्निहोत्रादि । वित्तं प्रसिद्धम् । क्वचि- त्क्वचिद्वाचनिका एव दण्डविशेषा उक्ताः— विष्णुधर्मोत्तरे, उत्साहमन्त्रशक्तिभ्यां प्रभुशक्तिश्च दैविकी । चतस्रः शक्तयस्तस्य वैष्णव्यः परिकीर्त्तिताः ॥ कः समर्थः प्रजाः पातुं विना वैष्णवतेजसा । सर्वदेवमयस्यैवं वारुणे पृथिवीपतेः ॥

२९६ वीरमित्रोदयस्य राजनीतिप्रकाशे वारुणे इति परशुरामस्य वरुणात्मजं पुष्करं प्रति सम्बु- द्धिः। अयं च दण्डो द्विविधः-स्वविषयदण्डः परविषयदण्डश्च। तत्राद्यः—“दण्डप्रणयनं राम स्वदेशे शृणु भूभुजाम्” इत्यादिना- च्यते। द्वितीयस्तु—“द्विविधः कथितो दण्डः परदेशे पुरातनैः” इत्यादिनाग्रे कथयिष्यते। दण्डप्रणयनं सम्यक् श्रोतुमिच्छामि तत्त्वतः। कथं स्वविषये तस्य दण्डनीतिर्भवेद्ध्रुवा॥ कथं च दण्डं प्रणयन्नरेन्द्रो धर्मेण युज्येद्यशसा च वीर। अर्थेन कामेन च सर्वमेतद्ब्रवीहि मे यादवनाथपुत्र॥ पुष्कर उवाच। दण्डप्रणयनं राम स्वदेशे शृणु भूभुजाम्। यस्य सम्यक्प्रणयनात्स्वर्गभाक्पार्थिवो भवेत्॥ त्रियवं कृष्णलं विद्धि माषस्तत्पञ्चकं भवेत्। कृष्णलानां तथा षष्ट्या कर्षार्द्धं राम कीर्तितम्॥ सुवर्णश्च विनिर्दिष्टो राम षोडशमाषिकः। निष्कं सुवर्णाश्चत्वारो धरणं दशभिस्तु तैः॥ ताम्ररूप्यसुवर्णानां मानमेतत्प्रकीर्तितम्। ताम्रिकः कार्षिको राम प्रोक्तः कार्षापणो बुधैः॥ पणानां द्वे शते सार्द्धे प्रथमः साहसः स्मृतः। मध्यमः पञ्च विज्ञेयः सहस्रमपि चोत्तमः॥ बालदायादकं रिक्थं तावद्राजा तु पालयेत्। यावत्स स्यात्स मावृत्तो यावद्वातीतशैशवः॥ वेश्याऽपुत्रासु चैवं स्याद्रक्षणं निष्कुलासु च। पतिव्रतासु च स्त्रीषु विधवास्वातुरासु च॥ निष्कुलासु, पितृकुलभर्तृकुलरहितासु।

जीवन्तीनां तु तासां ये तद्धरेयुः स्वबान्धवाः । ताञ्छिष्याच्चौरदण्डेन धार्मिकः पृथिवीपतिः ॥ प्रनष्टस्वामिकं रिक्थं राजा त्र्यब्दं निधापयेत् । अर्वाक् त्र्यब्दाद्धरेत्स्वामी परेण नृपतिर्हरेत् ॥ ममेदमिति यो ब्रूयात्सोऽनुयुक्तो यथाविधि । संवाद्य रूपसङ्ख्यादीन्स्वामी तद्द्रव्यमर्हति ॥ संवाद्य, यथास्थितं निवेद्य । अवेदयानो नष्टस्य देशं कालं च तत्त्वतः ॥ वर्णं रूपं प्रमाणं च तत्समं दण्डमर्हति । वर्णो, रक्तपीतादिर्वस्त्रादौ । रूपं, कटककुण्डलादिर्जातिवि- शेषः । प्रमाणं, परिमाणं, तोलकादि हस्तचितस्त्यादि वा । प्रनष्टाधिगतं रिक्थं तिष्ठेद्युक्तैरधिष्ठितम् । यांस्तत्र चौरान् गृह्णीयाद्घातयेत्कुञ्जरेण तान् ॥ ममेदमिति यो ब्रूयादसत्येन तथा निधिम् । तस्य दण्डं हरेद्राजा स्ववित्तस्यांशमष्टमम् ॥ असत्यता च रूपपरिमाणादेर्विसंवादेन बोद्ध्या । स्ववित्त- स्य, निधिस्थद्रव्यस्य । चौरैरमुषितो यस्तु मुषितोऽस्मीति भाषते । तत्प्रदाय च भूपाले स दण्ड्यस्तावदेव तु ॥ यो यावन्निह्नुवीतार्थं मिथ्या यो वा वदेत्ततः । तौ नृपेण ह्यधर्मज्ञौ दाप्यौ तद्विगुणं दमम् ॥ कूटसाक्ष्यं तु कुर्वाणांस्त्रीन् वर्णान् धार्मिको नृपः । प्रमापयेन्महाभाग ब्राह्मणं तु विवासयेत् ॥ यः स्वामिनाऽननुज्ञातमाधिं भुङ्क्ते विचक्षणः । अवध्य मूलं कर्त्तव्यं तस्य दण्डं महीक्षिता ॥ ३८

२९८ वीरमित्रोदयस्य राजनीतिप्रकाशे मूलं, मूलद्रव्यम् । अवध्य, अहिंसयित्वा, न्यूनमकृत्वेत्य- र्थः । वृद्धेस्तु सर्वथा लोप एव । वस्त्रादौ तु तथा मूलच्छेदे धर्मो न हीयते । सुवर्णरूप्यादावाधीकृते तद्भोगे मूलच्छेदं विना वृद्धौ च लोप इत्युक्तं, वस्त्रादावाधीकृते तद्भोगे मूलच्छेदे कृतेऽपि राज्ञो धर्मो न हीयत इत्यर्थः । यो निक्षेपं वञ्चयति यश्चानिक्षिप्य याचते । तावुभौ चौरवच्छास्यौ दाप्यौ वा द्विगुणं दमम् ॥ उपधाभिश्च यः कश्चित्परद्रव्यं हरेन्नरः । ससहायः स हन्तव्यः प्रकाशं विविधैर्वधैः ॥ उपधाभिः, छलादिभिः । यो याचितकमादाय न तद्द्याद्यथाक्रमम् । स निगृह्य बलाद्दाप्यो दण्डं वै पूर्वसाहसम् ॥ अज्ञानाद्यः पुमान् कुर्यात्परद्रव्यस्य विक्रयम् । निर्दोषो ज्ञानपूर्वं तु चौरवद्वधमर्हति ॥ मूल्यमादाय यो विद्यां शिल्पं वा न प्रयच्छति । दण्ड्यः स मूल्यं सकलं धर्मज्ञेन महीक्षिता ॥ द्विजभोज्ये तु सम्प्राप्ते प्रातिवेश्यमभोजयन् । हिरण्यमाषकं दण्ड्यः पापे नास्ति व्यतिक्रमः ॥ पापे, कृतपापे प्रातिवेश्ये सति, अभोजयितुरिति शेषः । व्यतिक्रमो दण्डो नास्ति । आमन्त्रितो द्विजो यस्तु वर्त्तमानः प्रतिग्रहे । निष्कारणं न गच्छेद्यः स दाप्योऽष्टशतं दमम् ॥ प्रतिग्रहे वर्त्तमानः, प्रतिग्रहपरिग्रहभोजनादिकं कुर्वन् । प्रतिश्रुत्याप्रदातारं सुवर्णं दण्डयेन्नृपः ।

उपायेषु स्वविषये दण्डः । २९९ भृतो नार्तो न कुर्याद्यो दर्पात्कर्म यथोचितम् ॥ स दण्ड्यः कृष्णलान्राष्टौ न देयं चास्य वेतनम् । अकाले यस्त्यजेद्भृत्यं दण्ड्यः स्यात्तावदेव तु ॥ यो ग्रामदेशसन्धानं कृत्वा सत्येन संविदम् । विसंवदेनरो लोभात्तं राष्ट्राद्विप्रवासयेत् ॥ क्रीत्वा विक्रीय वा किञ्चिद्यस्येहानुशयो भवेत् । सोऽन्तर्दशाहात्तत्साम्याद्दद्याच्चैवाददीत च ॥ साम्यात्, न्यूनाधिकभावाभावेन । परेण तु दशाहस्य न दद्यान्नैव दापयेत् । आददद्धि ददच्चैव राज्ञा दण्ड्यः शतानि षट् ॥ यस्तु दोषवतीं कन्यामनाख्याय प्रयच्छति । तस्य कुर्यान्नृपो दण्डं स्वयं षण्णवतिं पणान् ॥ अकन्येति तु यः कन्यां ब्रूयाद्द्वेषेण मानवः । स शतं प्राप्नुयाद्दण्डं कन्यादोषमदर्शयन् अकन्या, क्षतयोनिः । यस्त्वन्यां दर्शयित्वान्यां वोढुः कन्यां प्रयच्छति । उत्तमं तस्य कुर्वीत राजा दण्डं तु साहसम् ॥ वरो दोषान्न विख्याप्य यः कन्यां वरयेदिह । दत्ताऽप्यदत्ता सा तस्य राज्ञा दण्ड्यः शतद्वयम् ॥ लुब्धोऽन्यत्र तु विक्रेता षट्शतं दण्डमर्हति । वहेच्छुल्कं तु विक्रेता सत्यङ्कारं तु सन्त्यजेत् ॥ द्विगुणं दण्डयेदेनमिति धर्मो व्यवस्थितः । मूल्यैकदेशं दत्त्वा तु यदि क्रेता धनं त्यजेत् ॥ दण्ड्यः स मध्यमं दण्डं तस्य दण्डस्य मोक्षणम् । दुह्याद्धेनुं तु यः पालो गृहीत्वा भक्तवेतनम् ॥

३०० वीरमित्रोदयस्य राजनीतिप्रकाशे स तु दण्ड्यः शतं राज्ञा सुवर्णं चाप्यरक्षिता । दण्डं दत्त्वा न विरमेत्स्वामिभिः कृतलक्षणः ॥ बद्धः कार्ष्णायसैः पाशैस्तस्य कर्मकरो भवेत् । धनुःशतपरीमाणां ग्रामस्य तु समन्ततः ॥ द्विगुणां त्रिगुणां वापि नगरस्य तु कल्पयेत् । वृत्तिं तत्र प्रकुर्वीत यामुष्ट्रो नावलोकयेत् ॥ छिद्रं निवारयेत्सर्वं श्वसूकरमुखानुगम् । तत्राप्यनावृतं धान्यं विहिंस्युः पशवो यदि ॥ न तत्र कारयेद्दण्डं नृपतिः पशुरक्षिणाम् । अनिर्दशाहां गां सूतां वृषान् देवपशूंस्तथा ॥ अनिर्दशाहाम्, प्रसवोत्तरमनतिक्रान्तदशरात्राम् । सपालान् वा विपालान् वा नदण्ड्यान् मनुरब्रवीत् अतोऽन्यथा विनष्टस्य दशांशं दण्डमर्हति । वैराद्दशगुणं दण्डं विनाशात् क्षेत्रियस्य तु ॥ गृहं तडागमारामं क्षेत्रं वा ज्ञानतो हरन् । शतानि पञ्च दण्ड्यः स्यादाज्ञानाद्द्विशतो दमः ॥ सीमाबन्धनकाले तु सीमाबन्धनकारिणाम् । तेषां संज्ञां ददानस्तु जिह्वाच्छेदनमाप्नुयात् ॥ अनर्थेनापि यो भिन्द्यात्संविदं वा विगच्छति । उत्तमं साहसं दण्ड्यमिति स्वायम्भुवोऽब्रवीत् ॥ स्थापितां चापि मर्यादां ये भिन्द्युः पापकारिणः । सर्वे पृथक् पृथक् दण्ड्या राज्ञा प्रथमसाहसम् ॥ मर्यादां, सीमामर्यादाम् । शतं ब्राह्मणमाक्रुश्य क्षत्रियो दण्डमर्हति । वैश्यश्च द्विशतं राम शूद्रश्च वधमर्हति ॥

उपायेषु स्वविषये दण्डः । ३०१ पञ्चाशद्ब्राह्मणो दण्ड्यः क्षत्रियस्याभिशंसने । वैश्ये चाप्यर्द्धपञ्चाशच्छूद्रे द्वादशको दमः ॥ क्षत्रियस्याप्नुयाद्वैश्यः साहसं पूर्वमेव तु । शूद्रः क्षत्रियमाक्रुश्य जिह्वाच्छेदनमाप्नुयात् ॥ पञ्चाशत्क्षत्रियो दण्ड्यस्तथा वैश्याभिशंसने । शूद्रे चैवार्द्धपञ्चाशत्तथा धर्मो न हीयते ॥ वैश्यस्याक्रोशने दण्ड्यः शूद्रश्चोत्तमसाहसम् । शूद्राक्रोशे तथा वैश्यः शतार्द्धं दण्डमर्हति ॥ सवर्णाक्रोशने दण्डस्तथा द्वादशिकः स्मृतः । द्वादशिकः, द्वादशपणात्मकः । वादेष्ववचनीयेषु तदेव द्विगुणं भवेत् ॥ एकजातिर्द्विजातिं तु वाचा दारुणा क्षिपेत् । जिह्वायाः प्राप्नुयाच्छेदं जघन्यप्रभवो हि सः ॥ एकजातिः, शूद्रः, उपनयनकृतद्वितीयजातेरभावात् । नामजातिग्रहं त्वेषामभिद्रोहेण कुर्वताम् । निखेयोऽयोमयः शङ्कुर्ज्वलन्नास्ये दशाङ्गुलः ॥ अयोमयः, लोहमयः । धर्मोपदेशं धर्मेण द्विजानामस्य कुर्वतः । तप्तमासेचयेत्तैलं वक्त्रे श्रोत्रे च पार्थिवः ॥ श्रुतं देशं च जातिं च कर्म शारीरमेव च । वितथं तु ब्रुवन्दाप्यो राज्ञा द्विगुणसाहसम् ॥ यस्तु पातकसंयुक्तैः क्षिपेद्वर्णांन्तगोचरैः । उत्तमं साहसं तस्मिन्दण्डः पात्यो यथाक्रमम् ॥ राज्ञे निवेद्य नियमं प्रशमं यान्ति ये मिथः । सर्वे द्विगुणदण्ड्यास्ते विप्रलम्भान्नृपस्य तु ॥

प्रीत्या मयास्याभिहितं प्रमादेनाथ वा वदेत् । भूयो न चैवं वक्ष्यामि स तु दण्डार्धभाग्भवेत् ॥ काणं वाप्यथ वा खञ्जमन्यं वापि तथाविधम् । तथ्येनापि ब्रुवन्दाप्यो दण्डं कार्षापणावरम् ॥ मातरं पितरं ज्येष्ठं भ्रातरं श्वशुरं गुरुम् । आक्षारयन् शतं दण्ड्यः पन्थानं चाददद्गुरोः ॥ गुरुवर्जं तु मार्गे हि यो मार्गं न प्रयच्छति । स दाप्यः कृष्णलं राज्ञा तस्य पापस्य शान्तये ॥ एकजातिर्द्विजातिं तु येनाङ्गेनापराध्नुयात् । तदेव च्छेदयेत्तस्य क्षिप्रमेवाविचारयन् ॥ अवनिष्ठीवतो दर्पाद्द्वावोष्ठौ छेदयेन्नृपः । अवमेहयतो मेढ्रमवमर्द्दयतो गुदम् ॥ सहासनमभिप्रेप्सुरुत्कृष्टस्यापकृष्टजः । कट्यां कृताङ्को निर्वास्योऽङ्गमेकं चास्य कर्त्तयेत् ॥ केशेषु गृह्णतो हस्तौ छेदयेदविचारयन् । पादयोर्घाटिकायां तु ग्रीवायां वृषणेषु च ॥ त्वग्भेदकः शतं दण्ड्यो लोहितस्य च दर्शकः । अस्थिभेत्ता च षण्निष्कान् प्रमाप्यश्च प्रमापकः ॥ अङ्गभङ्गकरस्याङ्गं तदेवापहरेन्नृपः । दण्डपारुष्यकृद्दद्यात्समुत्थानव्ययं तथा ॥ अर्द्धपादकराः कार्या गोगजाश्वोष्ट्रघातकाः । पशुक्षुद्रमृगाणां च हिंसायां द्विगुणो दमः ॥ पञ्चाशत्तु भवेद्दण्ड्यस्तथैव मृगपक्षिषु । कृमिकीटेषु दण्ड्यः स्याद्रजतस्य तु माषकम् ॥ तस्यानुरूपं मूल्यं च प्रदद्यात्स्वामिने तथा । सस्वामिकानां सकरं शेषाणां दण्डमेव तु ॥

उपायेषु परविषये दण्डः । ३०३ सकरं, करेण स्वामिने देयेन मूल्येन सहितम् । वृक्षं तु सफलं छित्त्वा सुवर्णं दण्डमर्हति ॥ द्विगुणं दण्डयेच्चैत्ये पथि सीम्नि जलाशये । छेदनादफलस्यापि मध्यमः साहसः स्मृतः ॥ इत्यादिनानाश्रुतिस्मृतिपुराणेषु बहवो दण्डप्रकारा उक्ताः। इति स्वविषये दण्डः । “कथं स्वविषये तस्य दण्डनीतिर्भवेद्ध्रुवम्” इत्यादिना स्वदेशे दण्डनिरूपणे कृते परविषयेऽपि कथं दण्डः कर्त्तव्य इत्यपेक्षायाम्— विष्णुधर्मोत्तरे, राम उवाच । सामभेदौ तथा प्रोक्तौ दानदण्डौ तथैव च । दण्डः स्वदेशे कथितः परदेशे ब्रवीहि मे ॥ पुष्कर उवाच । द्विविधः कथितो दण्डः परदेशे पुरातनैः । प्रकाशश्चाप्रकाशश्च तं निबोध द्विजोत्तम ॥ लुण्ठनं ग्रामघातश्च सस्यघातस्तथैव च । चतुरङ्गेन दण्डेन परेषां च तथा वधः ॥ चतुरङ्गेन दण्डेन, रथाश्वगजपदातिरूपसैन्येन । प्रकाशः कथितो दण्डः प्रत्यक्षं वह्निदीपनम् । अप्रकाशो विषं वह्निर्गुढैश्च पुरुषैर्वधः ॥ दूषणं यवसादीनामुदकानां च दूषणम् । रसक्रियाश्च विविधाः सुभगाभेदनादिकम् ॥ परराज्ञोऽन्तःपुरे या सुभगा तस्याः केन चिदुपायेन भेद-

३०४ वीरमित्रोदयस्य राजनीतिप्रकाशे नादिकम् । आदिपदेन सामदानयोरुपादानम् । एवमादीनि कार्याणि परचक्रे महीक्षिता । स्वराष्ट्रे च द्विजश्रेष्ठ दूष्याणां बलिनामपि ॥ चत्वार एते कथिता ह्युपायाः प्रधानभूता भुवि पार्थिवानाम् । अतः परं ते कथयामि राम शेषांस्त्रयस्ते न मयेरिता ये ॥ इति। इति दण्डः । अथोपेक्षा । विष्णुधर्मोत्तरे, पुष्कर उवाच यदि मन्येत नृपतिरनेन मम विग्रहे । अनर्थायानुबन्धः स्यात्सन्धिना च तथा भवेत् ॥ साम लज्जास्पदं चात्र दानं चार्थक्षयङ्करम् । भेदे दण्डेऽनुबन्धः स्यात्तदोपेक्षां समाश्रयेत् ॥ अवज्ञापहतस्तत्र राज्ञा कार्यो रिपुर्भवेत् । उपेक्षैव च धर्मज्ञ श्रेयसी तत्र सा स्मृता ॥ उपेक्षया यत्र तु शक्यमर्थक्षयव्ययायासविहीनया न । कार्यं भवेद्ब्राह्मण विग्रहेण लज्जास्पदेनाप्यथ सन्धिना च ॥ इति। यत्रार्थक्षयव्ययाभ्यामायासेन च विहीनयोपेक्षया शक्यं कार्यं कर्तुं तत्र हे ब्राह्मण राम लज्जास्पदेन विग्रहेण सन्धिना व कार्यं न भवेत् । इत्युपेक्षा । अथ माया । सा च विना मन्त्रतन्त्रादिकमन्यथाभूतस्यार्थस्यान्यथा- भासनोपायः । कपटमिति लोके प्रसिद्धम् । सा च—

उपायेषु माया । ३०५ विष्णुधर्मोत्तरे, पुष्कर उवाच । उत्पातैर्विविधैः कार्यं परस्योद्वेजनं नृपैः । अरातिशिबिरस्थाने वसतिर्यस्य पक्षिणः ॥ स्थूलस्य तस्य पुच्छस्थां कृत्वोल्कां विपुलां द्विज । विसृज्यैनं ततस्तीव्रमुलकापातं प्रदर्शयेत् । अनेनैवानुसारेण बुद्ध्या निश्चित्य यत्नतः ॥ उत्पातानि तथान्यानि दर्शनीयानि पार्थिवैः । उद्वेजनं तथा कुर्यात्कुहकैर्विविधैर्द्विषाम् ॥ सांवत्सरा नवर्ष च नाशं ब्रूयुः परस्य च । जिगीषुः पृथिवीराज्यं तेन चोद्वेजयेत्परान् ॥ सांवत्सराः, ज्योतिर्विदः । नवर्षे, वृष्ट्यभावम् । देवतानां प्रसादानि कीर्तनीयानि तस्य तु ॥ सुस्वप्नलाभांश्च तथा जिगीषुं प्रति कीर्तयेत् । दुःस्वप्नलाभं च तथा परेषामिति निश्चयः ॥ आगतं नो मित्रबलं प्रहरध्वमभीतवत् । एवं ब्रूयाद्रणे प्राप्ते भग्ना भग्नाः परे इति ॥ क्ष्वेडाकिलकिलाशब्दमस्य शत्रुर्हतस्तथा । देवाज्ञाबृंहितो राजा सन्नद्धः समरं प्रति ॥ एवम्प्रकारा द्विजवर्य मायाः कार्या नरेन्द्रैररिषु प्रहृष्टैः । मायाहतः शत्रुरथ प्रशक्यः सङ्ख्ये सुखं हन्तुमदीनसत्त्वः॥इति। इति माया । अथेन्द्रजालम् । तच्च मन्त्रतन्त्रादिना अन्यथास्थितस्यार्थस्यान्यथावभासः । ३९

३०६ वीरमित्रोदयस्य राजनीतिप्रकाशे विष्णुधर्मोत्तरे, पुष्कर उवाच । चतुरङ्गं बलं राजा इन्द्रजालेन दर्शयेत् । सहायार्थमनुप्राप्तान्दर्शयेत्त्रिदिवौकसः ॥ रक्तवृष्टिश्च सन्दर्श्या परेषां शिविरं प्रति । छिन्नानि रिपुशीर्षाणि प्रासादाग्रेषु दर्शयेत् ॥ आधित्सता सन्धिमहीन सत्त्वात्कार्यं भवेद्राम महेन्द्रजालम् । वक्ष्यामि तेऽन्योपनिषत्सु तुल्ययोगानि चान्यानि जयावहानि॥ इति। इतीन्द्रजालम् । एवं सामादयः सप्तोपाया निरूपिताः । अधुना “मन्त्रमूल- मिदं राज्यम्”इत्यादिवचनैर्मन्त्रस्य प्राशस्त्येन मन्त्रो निरूप्यते । तत्र— अग्निपुराणे, राम उवाच । प्रभावोत्साहशक्तिभ्यां मन्त्रशक्तिः प्रशस्यते । प्रभावोत्साहवान् काव्यो जितो देवपुरोधसा ॥ मन्त्रयेतैह कर्माणि नाऽनाप्तैर्नाविपश्चिता । अशक्यारम्भवृत्तीनां कुतः क्लेशादृते फलम् ॥ अविज्ञातस्य विज्ञानं विज्ञातस्य च निश्चयः । अर्थद्वैधस्य सन्देहच्छेदनं शेषदर्शनम् ॥ सहायाः साधनोपाया विभागो देशकालयोः । विपत्तेश्च प्रतीकारः पञ्चाङ्गो मन्त्र इष्यते ॥ मनःप्रसादः श्रद्धा च तथा करणपाटवम् । सहायोत्थानसम्पच्च कर्मणां सिद्धिलक्षणम् ॥ इति

मन्त्रः । ३०७ श्रीरामायणेऽपि, त्रिविधाः पुरुषा लोके उत्तमाधममध्यमाः । तेषां तु समवेतानां गुणदोषान् वदाम्यहम् ॥ मन्त्रिभिर्मन्त्रसंयुक्तैः समर्थैर्मन्त्रनिश्चये । मित्रैर्वातिसमानार्थैर्बान्धवैश्चातिवाहितैः ॥ समानार्थैः, समानप्रयोजनैः । मन्त्रिभिर्मन्त्रयित्वा यः कर्मारम्भे प्रवर्तते । तत्रैव कुरुते यत्नं तमाहुः पुरुषोत्तमम् ॥ एकोऽर्थं विमृशत्येको धर्मे प्रकुरुते मतिम् । एकः कार्याणि कुरुते तमाहुर्मध्यमं नरम् ॥ गुणदोषावानिश्चित्य त्यक्तधर्मव्यपाश्रयः । करिष्यामीत्युपेक्षेत यः कार्यं स नराधमः ॥ यथैव पुरुषा नित्यमुत्तमाधममध्यमाः । एवं मन्त्रोऽपि विज्ञेय उत्तमाधममध्यमः ॥ ऐकमत्यमुपागम्य शास्त्रदृष्टेन चक्षुषा । मन्त्रिणां मन्त्रनियमस्तमाहुर्मन्त्रमुत्तमम् ॥ बह्व्यस्तु मतयो भूत्वा मन्त्रिणामर्थसिद्धये । पुनर्यत्रैकतां यान्ति स मन्त्रो मध्यमः स्मृतः ॥ अन्योन्यं मतिमास्थाय यत्र सम्प्रतिपद्यते । न चैकमत्ये श्लेषोऽस्ति स मन्त्रोऽधम उच्यते ॥ अर्थानर्थौ हि यत्रोभौ संशयश्च परीक्ष्यते । स मन्त्र इति विज्ञेयः शेषस्तु खलु विक्रमः ॥ इति । विष्णुधर्मोत्तरे, नैकस्तु मन्त्रयेन्मन्त्रं न राजा बहुभिः सह । बहुभिर्मन्त्रयेत्कामं राजा मन्त्रान् पृथक् पृथक् ॥ इति ।

३०८ वीरमित्रोदयस्य राजनीतिप्रकाशे एकः, स्वयम् । बहुभिः, त्र्यधिकैः । अत्र स्वस्यैकस्य मन्त्र- निषेधात्स्वभिन्नेनैकेन द्वाभ्यां वा सह मन्त्रः कार्यः । यदि बहु- भिः सह मन्त्रयेत् तदा पृथक् पृथगित्यर्थः । तेन मन्त्रः सुरक्षितो भवति । अत एव— याज्ञवल्क्यः, मन्त्रमूलमिदं राज्यमतो मन्त्रं सुरक्षितम् । कुर्याद्यथाऽस्य न विदुः कर्मणामाफलोदयात् ॥ इति । मन्त्रमूलानां कर्मणामाफलोदयात्परेभ्यो मन्त्रं सुरक्षितं कुर्यात् । मनुरपि, यस्य मन्त्रं न जानन्ति समागत्य पृथग्जनाः । स कृत्स्नां पृथिवीं भुङ्क्ते कोशहीनोऽपि पार्थिवः ॥ इति । अग्निपुराणेऽपि, गुप्तमन्त्रो भवेद्राजा आपदोऽगुप्तमन्त्रतः । मदः प्रमादः कामश्च सुप्तप्रलपितानि च ॥ भिन्दन्ति मन्त्रं प्रच्छन्नाः कामिन्योऽवमतास्तथा । इति । मत्स्यपुराणेऽपि, बहुभिर्मन्त्रयेन्मन्त्रं राजा कामं पृथक् पृथक् । मन्त्रिणामपि नो कुर्यान्मन्त्रिमन्त्रप्रकाशनम् ॥ क्वचित्कश्चिच्च विश्वास्यो भवतीह सदा नृणाम् । निश्चयस्तु सदा मन्त्रे कार्य एकेन सूरिणा ॥ भवेद्वा निश्चयावाप्तिः परबुद्ध्युपजीवनात् । एकस्यैव महीभर्तुर्भूयःकार्यविनिश्चये ॥ ब्राह्मणान् पर्युपासीत त्रयीशास्त्रसुनिश्चितान् । नासच्छास्त्रवतो मूढांस्ते हि लोकस्य कण्टकाः ॥ इति ।

मन्त्रः । ३०९ विष्णुधर्मोत्तरेऽपि, राज्ञा संवृतमन्त्रेण सदा भाव्यं द्विजोत्तम । तस्यासंवृतमन्त्रस्य ज्ञेयाः सर्वापदो ध्रुवाः ॥ कृतान्येव हि कर्माणि ज्ञायन्ते यस्य भूपतेः । नारब्धानि महाभाग तस्य स्याद्वसुधा वशे ॥ मन्त्रमूलं सदा राज्यं तस्मान्मन्त्रः सुरक्षितः । कर्त्तव्यः पृथिवीपालैर्मन्त्रभेदभयात्सदा ॥ मन्त्रवत्साधितो मन्त्रः सङ्घातानां सुखावहः । मन्त्रच्छलेन बहवो विनष्टाः पृथिवीक्षितः ॥ आकारैरिङ्गितैर्गत्या चेष्टया भाषणेन च । नेत्रवक्त्रविकाराभ्यां गृह्यतेऽन्तर्गतं मनः ॥ न यस्य कुशलैस्तस्य वशे सर्वा वसुन्धरा । भवतीह महीभर्तुः सदा भार्गवनन्दन ॥ इति । मन्त्रे जडादीनां निषेधमाह — मनुः, जडमूकन्धबधिरांस्तैर्यग्योनान् वयोऽतिगान् । स्त्रीम्लेच्छव्याधितव्यङ्ग्यान्मन्त्रकाले प्रसेधयेत् ॥ जडो, बुद्धिहीनः । तैर्यग्योनाः, शुकसारिकादयः । वयोऽतिगा, अतिवृद्धाः । म्लेच्छः, अव्यक्तवाक् । क्लीब इति क्वचित्पाठः । भिन्दन्त्यवमता मन्त्रं तैर्यग्योनास्तथैव च । स्त्रियश्चैव विशेषेण तस्मात्तत्रादतो भवेत् ॥ इति । आदतः, शङ्कितः । श्रीरामायणे, अनभिज्ञाय शास्त्राणि बहवः पशुबुद्धयः ।

३१० वीरमित्रोदयस्य राजनीतिप्रकाशे प्रागल्भ्याद्वक्तुमिच्छन्ति मन्त्रेष्वभ्यन्तरीकृताः ॥ मन्त्रिरूपा हि रिपवः सम्भाव्यास्ते विचक्षणैः । ये हितोदयमुत्सृज्य विपरीतोपसेविनः ॥ अहितं हि हिताकारं धार्ष्ट्याज्जल्पन्ति ये नराः । अवेक्ष्या मन्त्रबाह्यास्ते कर्तव्याः कृतदूषणाः ॥ विनाशाय स्वभर्तुर्हि संहताः शत्रुभिर्बुधैः । विपरीतानि कृत्यानि कारयन्तीह मन्त्रिणः ॥ इति निषिद्धान्तरमुक्तम्— महाभारते, मन्त्रभेदस्य यत्प्राज्ञो द्वाराणीमानि कल्पयेत् । अर्थसन्ततिकामश्च रक्षेदेतानि नित्यशः ॥ मदं स्वप्नमवज्ञानमाकारं चात्मसम्भवम् । दुष्टामात्येषु विश्रम्भं दूतं चाकुशलं तथा ॥ इति । तथा विष्णुधर्मोत्तरे, न च मूर्खैर्न चानाप्तैस्तथा नाधार्मिकैर्नृपः । मन्त्रं तु स्वादितं कुर्याद्येन राष्ट्रे न धावति ॥ स्वादितम्, आस्वादितम् । न धावति, न प्रसरति । राज्ञां विनाशमूलस्तु कथितो मन्त्रविभ्रमः । नाशहेतुर्भवेन्मन्त्रः कुप्रयुक्तस्तु मन्त्रवत् ॥ मन्त्रे सुरक्षिते सिद्धिः कथिता पृथिवीक्षिताम् । क्रियमाणानि कर्माणि यस्य वेत्ति न कश्चन ॥ कृतान्येव विजानाति स राजा पृथिवीपतिः । इति । मन्त्रणयोग्या अमात्या उक्ता— महाभारते, मन्त्रनिश्चयतत्त्वज्ञाष्षाड्गुण्यगुणवेदिनः ।

मन्त्रः ३११ शक्तान् कुलोचितान् भक्ताननाक्षारितपूर्वकान् ॥ अनाक्षारितपूर्वकान्, अनपकृतपूर्वान् । नीतिज्ञान् व्यवहारज्ञानितिहासार्थकोविदान् ॥ इङ्गितज्ञानुपायज्ञान् शूरान् वीरान् कुलोद्गतान् । सर्वकार्येषु निपुणानिष्वस्त्रविधिपारगान् ॥ दुर्गयन्त्रविधानज्ञान् धर्मशास्त्रार्थपारगान् । अक्षुद्रान् क्षमिणः प्राज्ञाननागतविधायिनः ॥ आयत्यां प्रतिकारांस्तत्तदात्वे दृढनिश्चयान् । द्विषन्मित्राञ्युदासीनभावज्ञान् शंसितव्रतान् ॥ स्वभावगुप्तानचलानचलानिव भारत । धर्मशीलानकृपणांस्तथा सर्वोपधातिगान् ॥ उपधा, छद्म । धिया सर्वान् सम्परीक्ष्य राजा कुर्वीत मन्त्रिणः । येऽस्य राजधुरं वोढुं समर्थाः सद्गवा इव ॥ तैः समेत्य महीपालो गुप्तमन्त्रो जितेन्द्रियः । विद्यानां दर्शने यत्नमातिष्ठेद्भरतर्षभ ॥ इति । मन्त्रिभिर्यथा वक्तव्यं तदुक्तम्— श्रीरामायणे, यत्प्रियं च हितं चैव साधु धर्म्यं च सर्वशः । ब्रूयुस्तन्मन्त्रिणो वाक्यं मन्त्रमाणे विशेषतः ॥ प्राप्ते कार्ये शरीरं तु नेतुं स्वां गुणसम्पदम् । प्रियमेव हि वक्तव्यं हितमेव हि मन्त्रिणा ॥ सुलभाः पुरुषा राजन्सततं प्रियवादिनः । अप्रियस्य च पथ्यस्य वक्ता श्रोता च दुर्लभः ॥ इति । मन्त्रोत्तरं स्वयमेकाकिना विचार्यमित्युक्तम्—

३१२ वीरमित्रोदयस्य राजनीतिप्रकाशे विष्णुधर्मोत्तरे, पृथक् च मन्त्रिभिर्मन्त्रः कृतो वै संहतैः पुनः । विचार्य आत्मना साधु पश्चात्तत्र समाश्रयेत् ॥ प्रज्ञाभिमानी नृपतिर्न मन्त्रिवचने रतः । क्षिप्रं विनाशमायाति तडागमिव काजलम् ॥ आकारगूहनै राज्ञो मन्त्ररक्षा परा मता । आकारैरिङ्गितैः प्राज्ञा मन्त्रं चोहन्ति पण्डिताः ॥ सञ्चराणां च वैद्यानां मन्त्रिणां वचने रतः । राजा विभूतिमाप्नोति चिरं यशसि तिष्ठति ॥ इति । इति मन्त्रः । अथ पौरुषम् तत्र याज्ञवल्क्यः, दैवे पुरुषकारे च कर्मसिद्धिव्यवस्थिता । तत्र दैवमभिव्यक्तं पौरुषं पौर्वदेहिकम् ॥ दैवं पौर्वदेहिकमिति सम्बन्धः । के१चिद्देवाद्धठात्केचित्केचित्पुरुषकारतः । सिद्ध्यन्त्यर्था मनुष्याणां तेषां योनिस्तु पौरुषम् ॥ यथा ह्येकेन चक्रेण रथस्य न गतिर्भवेत् । एवं पुरुषकारेण विना दैवं न सिद्ध्यति ॥ इति । मनुरपि, सर्वं कर्मेदमायत्तं विधाने दैवमानुषे । १ केचिद्देवात्स्वभावाद्वा कालात्पुरुषकारतः । संयोगे केचिदिच्छन्ति फलं कुशलबुद्धयः ॥ इति विज्ञाने- श्वरसम्मतः पाठः ।

दैवपौरुषयोः पौरुषस्य श्रेष्ठत्वम् । ३१३ तत्र दैवमचिन्त्यं तु मानुषे विद्यते क्रिया ॥ दैवमानुषसम्पन्ना यात्रा सर्वार्थसाधिका । तस्यामतिशयेद्दैवं वर्तते पौरुषं समम् ॥ केचित्पुरुषकारेण केचिद्दैवेन कर्मणा । उभाभ्यां केचिदिच्छन्ति फलं कुशलबुद्धयः ॥ दैवमानुषसद्भावे नार्या गर्भः प्रसिद्ध्यति । पुंसा सत्यपि संयोगे दैवाभावे न सिद्ध्यति ॥ न हि दैवमुदासीनं कदाचिदपि मानवम् । अर्थानर्थफलं नेह संयुनक्त्यवशं हि तत् ॥ काकतालीयवद्दैवाद्दृष्ट्वापि निधिमग्रतः । न पौरुषाहते तेन निधिना युज्यते पुमान् ॥ इति । मत्स्यपुराणविष्णुधर्मोत्तरयोरपि, मनुरामावूचतुः । दैवे पुरुषकारे च किं ज्यायस्तद्ब्रवीहि मे । अत्र मे संशयो देव संशयच्छिद्भवांस्तथा ॥ मत्स्यपुष्करावूचतुः । स्वमेव कर्म दैवाख्यं विद्धि देहान्तरार्जितम् । तस्मात्पौरुषमेवेह श्रेष्ठमाहुर्मनीषिणः ॥ प्रतिकूलं तथा दैवं पौरुषेण विहन्यते । मङ्गलाचारयुक्तानां नित्यमुत्थानशालिनाम् ॥ येषां पूर्वकृतं कर्म सात्त्विकं मनुजोत्तम । पौरुषेण विना तेषां केषाञ्चिद्दृश्यते फलम् ॥ कर्मणा प्राप्यते लोके राजसस्य तथा फलम् । १ इत आरभ्य 'न पौरुषाहते' इत्यन्तानि पद्यानि मुद्रितमनु- पुस्तके नोपलभ्यन्ते । ४०