वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)
Viramitrodaya Rajanitiprakasha of Mitramishra with Commentary
महामहोपाध्याय मित्रमिश्र (सम्पादक: पं. विष्णुप्रसाद शर्मा) द्वारा
४६४ वीरमित्रोदयस्य राजनीतिप्रकाशे प्रादुर्भावेऽद्भुतानां तु ग्रहाणां विग्रहे तथा । शङ्कमानोऽभिचाराद्वा कारयेद्घृतकम्बलम् ॥ घृतमात्रा तु विज्ञेया मागधप्रस्थसम्मिता । शतानि पञ्च द्रोणानां पलैकशतमेव च ॥ घृतप्रमाणं वक्ष्यामि माषकं पञ्च कृष्णलः । माषकानि चतुःषष्टिः पलमेकं विधीयते ॥ द्वात्रिंशत्पलिकं प्रस्थं मागधैः परिकीर्त्तितम् । आढकं तु चतुःप्रस्थञ्चतुर्भिर्द्रोणमाढकैः ॥ द्रोणप्रमाणं विज्ञयं ब्रह्मणा निर्मितं पुरा । द्वादशाभ्यधिकैर्नित्यं पलानां पञ्चभिः शतैः ॥ घृतं द्रोणशतं वाथ षष्टिद्रोणावरं तथा । यथाशक्ति प्रयुञ्जीत घृतं कृत्वा तु भागशः ॥ चतुर्भागोऽभिषेकाय चतुर्भागस्तु हूयते । भागो देयः सदस्येभ्यः कर्त्ता भागेन युज्यते ॥ आविकं कम्बलं पूर्णं वासोऽर्धमुपकल्पितम् । प्रावृत्य स्नापयेदेनमित्युवाच बृहस्पतिः ॥ न राक्षसा न गन्धर्वा न पिशाचा न चासुराः । क्रूराः पुरुषधर्मज्ञा न हिंसन्ति घृतार्चितम् ॥ न हिंसन्ति घृतार्चितमिति । इत्याथर्वणपरिशिष्टोक्तो घृतकम्बलः । अथ प्रकीर्णकम् । तत्र नानास्मृतिपुराणादिषूक्ता राज्ञो धर्मा निरूपिताः । अथेदानीं तस्यावश्यं श्रोतव्यत्वेन काचित्काचिद्राजनीतिर्निरू- प्यते । तत्र—
· प्रकीर्णके महाभारतीथविदुरोक्तनीतयः । ४६५ महाभारते, सञ्जयो विदुर प्राप्तो गर्हयित्वा च मां गतः । अजातशत्रोः श्वो वाक्यं सभामध्ये स वक्ष्यति ॥ तस्याद्य कुरुवीरस्य न विज्ञातं वचो मया । तन्मे दहति गात्राणि तदकार्षीत्प्रजागरम् ॥ जाग्रतो दह्यमानस्य श्रेयो यदनुपश्यसि । तद्ब्रूहि त्वं हि नस्तात धर्मार्थकुशलो ह्यसि ॥ यतः प्राप्तः सञ्जयः पाण्डवेभ्यो न मे यथावन्मनसः प्रशान्तिः । सर्वेन्द्रियाण्यप्रकृतिं गतानि किंवक्ष्यतीत्येव हि मेऽद्य चिन्ता ॥ इतिधृतराष्ट्रप्रश्ने विदुरवाक्यम्— अभियुक्तं बलवता दुर्बलं हीनसाधनम् । हृतस्वं कामिनं चोरमाविशन्ति प्रजागराः ॥ कच्चिदेतैर्महादोषैर्न स्पृष्टोऽसि नराधिप । कच्चिन्न परवित्तेषु गृध्यन्न परितप्यसे ॥ इति विदुरप्रश्ने धृतराष्ट्रवाक्यम्— श्रोतुमिच्छामि ते धर्म्यं परं नैःश्रेयसं वचः । अस्मिन् राजर्षिवंशे हि त्वमेकः प्राज्ञसम्मतः ॥ ततश्च विदुरस्योत्तरवाक्यम्— निषेवते प्रशस्तानि निन्दितानि न सेवते । अनास्तिकः श्रद्दधान एतत्पण्डितलक्षणम् ॥ क्रोधो हर्षश्च दर्पश्च ह्रीस्तम्भोऽमान्यमानिता । यमर्थान्नापकर्षन्ति स वै पण्डित उच्यते ॥ क्रोधः परद्वेषः । हर्षः सुखम् । तत्कार्यं मुखादिविकारो वा । दर्प अन्तःसारविशेषः । ह्रीस्तम्भो निर्लज्जता । अमा- न्यमानिता, अमान्यानां मानयितुमयोग्यानां सम्मानकरणम् । ५९
४६६ वीरमित्रोदयस्य राजनीतिप्रकाशे यस्य कृत्यं न जानन्ति मन्त्रं वा मन्त्रितं परे । कृतमेवास्य जानन्ति स वै पण्डित उच्यते ॥ यस्य कृत्यं न विघ्नन्ति शीतमुष्णं भयं रतिः । समृद्धिरसमृद्धिर्वा स वै पण्डित उच्यते ॥ यस्य सञ्चारिणी प्रज्ञा धर्मार्थावनुवर्तते । कामादर्थं वृणीते यः स वै पण्डित उच्यते ॥ सञ्चारिणी, परोक्तस्य युक्तिसिद्धस्यार्थस्य श्रवणानन्तरं स्वमात्रबुद्धार्थग्रहरहिता । संसारिणीतिपाठे सम्यक्प्रसरणशी- ला । कामादर्थं वृणीत इति । कामापेक्षया धर्मसाधनत्वेनार्थस्य प्राधान्यमनुसृत्यार्थहान्या यः कामं न सेवत इतिभावः । यथाशक्ति चिकीर्षन्ति यथाशक्ति च कुर्वते । न किञ्चिदवमन्यन्ते नराः पण्डितबुद्धयः ॥ क्षिप्रं विजानाति चिरं शृणोति विज्ञाय चार्थं भजते च कामान्। नासम्पृष्टो ह्युपयुङ्क्ते परार्थे तत्प्रज्ञानं प्रथमं पण्डितस्य ॥ असम्पृष्टः परार्थे नोपयुङ्क्ते, नोपक्रमते । नाप्राप्यमभिवाञ्छन्ति नष्टं नेच्छन्ति शोचितुम् । आपत्सु च न मुह्यन्ति नराः पण्डितबुद्धयः ॥ निश्चित्य यः प्रक्रमते नान्तर्वसति कर्मणः । अबन्ध्यकालो वश्यात्मा स वै पण्डित उच्यते ॥ नान्तर्वसति कर्मण इति । कर्मणः अन्तः कर्मणो मध्ये न वसांते नोपरमत इत्यर्थः । आर्यकर्माणि रज्यन्ते भूतिकर्माणि कुर्वते । हितं च नाभ्यसूयन्ति पण्डिता भरतर्षभ ॥ न हृष्यत्यात्मसम्माने नावमानेन तप्यते । गाङ्गो ह्रद इवाक्षोभ्यो यः स पण्डित उच्यते ॥
प्रकीर्णके महाभारतीयाविदुरोक्तनीतयः । ४६७ तत्त्वज्ञः सर्वभूतानां योगज्ञः सर्वकर्मणाम् । उपायज्ञो मनुष्याणां नरः पण्डित उच्यते ॥ प्रवृत्तवाक् चित्रकथ ऊहवान् प्रतिभानवान् । आशु ग्रन्थस्य वक्ता च यः स पण्डित उच्यते ॥ प्रतिभानवान् धृष्टः । यद्वा— प्रज्ञा नवनवोन्मेषशालिनी प्रतिभा मता । तद्वान् । श्रुतं प्रज्ञानुगं यस्य प्रज्ञा चैव श्रुतानुगा । असम्भिन्नार्यमर्यादः पण्डिताख्यां लभेत सः ॥ तथा, अर्थं महान्तमासाद्य विद्यामैश्वर्यमेव च । विचरत्यसमुन्नद्धो यः स पण्डित उच्यते ॥ असमुन्नद्धः, गर्वरहितः । एवमुपादेयत्वेन पण्डितलक्षणा- न्यभिधाय हेयत्वेन मूढलक्षणान्यपि तत्रैवोक्तानि । अश्रुतश्च समुन्नद्धो दरिद्रश्च महामनाः । अर्थांश्चाकर्मणा प्रेप्सुर्मूढ इत्युच्यते बुधैः ॥ स्वमर्थं यः परित्यज्य परार्थमनुतिष्ठति । मिथ्या चरति मित्रार्थे यश्च मूढः स उच्यते ॥ अकामान् कामयति यः कामयानान् परित्यजेत् । बलवन्तं च यो द्वेष्टि तमाहुर्मूढचेतसम् ॥ अमित्रं कुरुते मित्रं मित्रं द्वेष्टि हिनस्ति च । कर्म चारभते दुष्टं तमाहुर्मूढचेतसम् ॥ संसारयति कृत्यानि सर्वत्र विचिकित्सते । चिरं करोति क्षिप्रार्थे स मूढो भरतर्षभ ॥ कृत्यानि कार्याणि । संसारयति आरभते । सर्वत्र, तेषु कार्येषु । विचिकित्सते, इदं मदिष्टसाधनं भवति न वा, इदं म- च्छक्यं भवति न वेत्यादिसन्देहवान् भवति ।
४६८ वीरमित्रोदयस्य राजनीतिप्रकाशे श्राद्धं पितृभ्यो न ददाति दैवतानि न चार्चति । सुहृन्मित्रं न भजते तमाहुर्मूढचेतसम् ॥ अनाहूतः प्रविशति अपृष्टो बहु भाषते । अविश्वस्ते विश्वसिति मूढचेता नराधमः ॥ परं क्षिपति दोषेण वर्त्तमानः स्वयं तथा । यश्च क्रुद्ध्यत्यनीशानः स च मूढतमो नरः ॥ स्वयं तथा वर्त्तमानः, दोषवान् । आत्मनो बलमज्ञाय धर्मार्थपरिवर्जितम् । अलभ्यमिच्छन्नैष्कर्म्यान्मूढबुद्धिरिहोच्यते ॥ नैष्कर्म्यात् कर्माकरणात् । अशिष्यं शास्ति यो राजन् यश्च शून्यमुपासते । कदर्यं भजते यश्च तमाहुर्मूढचेतसम् ॥ कदर्यं, धने सत्यपि दानभोगरहितम् । तथा, एकः सम्पन्नमश्नाति वस्ते वासश्च शोभनम् । योऽसंविभज्य भृत्येभ्यः को नृशंसतरस्ततः ॥ सम्पन्नं, पक्कं मिष्टपकम् । एकः पापानि कुरुते फलं भुङ्क्ते महाजनः । भोक्तारो विप्रमुच्यन्ते कर्त्ता दोषेण लिप्यते ॥ महान् बहुतरो जनः परिवारा यस्य स महाजनः । एकं हन्यान्न वा हन्यादिषुर्युक्तो धनुष्मता । बुद्धिर्बुद्धिमतोत्सृष्टा हन्याद्राष्ट्रं सराजकम् ॥ एकया द्वे विनिश्चित्य त्रींश्चतुर्भिर्वशे कुरु । पञ्च जित्वा विदित्वा षट् सप्त हित्वा सुखी भव ॥ एकया, बुद्ध्या दण्डनीत्या वा । द्वे, कार्याकार्ये । त्रीन्,
प्रकीर्णके महाभारतविदुरोक्तनीतयः । ४६१ मित्रोदासीनशत्रून् । चतुर्भिः, सामदानदण्डभेदैरुपायैः । पञ्च, पञ्च ज्ञानेन्द्रियाणि च पञ्च कर्मेन्द्रियाणि च । षट्, सन्धिवि- ग्रहयानासनद्वैधीभावसंश्रयाख्यान् षड्गुणान् । सप्त— स्त्रियोऽक्षा मृगया पानं वाक्पारुष्यं च पञ्चमम् । महच्च दण्डपारुष्यमर्थदूषणमेव च ॥ इतिव्यसनानि । एकं विषरसो हन्ति शस्त्रेणैकश्च वध्यते । सराष्ट्रं सप्रजं हन्ति राजानं मन्त्रविप्लवः ॥ एकः स्वादु न भुञ्जीत एकश्चार्थान्न चिन्तयेत् । एको न गच्छेदध्वानं नैकः सुप्तेषु जागृयात् ॥ एकमेवाद्वितीयं तद्यद्राजन्नावबुद्ध्यसे । सत्यं स्वर्गस्य सोपानं पारावारस्य नौरिव ॥ एकमेव सत्यं सत्यवचनं स्वर्गस्य सोपानम् । एकः क्षमावतां दोषो द्वितीयो नोपपद्यते । यदेनं क्षमया युक्तमशक्तं मन्यते जनः ॥ सोऽस्य दोषो न मन्तव्यः क्षमा हि परमं धनम् । अक्षमावान् परं दोषैरात्मानं चैव योजयेत् ॥ एको धर्मः परं श्रेयः क्षमैका शान्तिरुत्तमा । विद्यैका परमा तृप्तिरहिंसैका सुखावहा ॥ द्वाविमौ ग्रसते भूमिः सर्पो बिलशयानिव । राजानं चाविरोद्धारं ब्राह्मणं चाप्रवासिनम् ॥ ब्राह्मणं, ब्रह्म नयतीति ब्राह्मणः, णीञ्प्रापण इत्यस्मात् । ब्रह्मज्ञः परिव्राट् तस्य परिभ्रमणस्योक्तत्वात् । द्वे कर्मणी नरः कुर्वन्नस्मिंल्लोके विरोचते । अब्रुवन् परुषं किञ्चिदसतोऽनर्चयंस्तथा ॥
४७० वीरमित्रोदयस्य राजनीतिप्रकाशे द्वाविमौ पुरुषव्याघ्र परप्रत्ययकारिणौ । स्त्रियः कामितकामिन्यो लोकः पूजितपूजकः ॥ द्वाविमौ कण्टकौ तीक्ष्णौ शरीरपरिशोषिणौ । यश्चाधनः कामयते यश्च कुप्यत्यनीश्वरः ॥ द्वाविमौ न विराजते विपरीतेन कर्मणा । गृहस्थश्च निरारम्भः कार्यवांश्चैव भिक्षुकः ॥ द्वाविमौ पुरुषौ राजन् स्वर्गस्योपरि तिष्ठतः । प्रभुश्च क्षमया युक्तो दरिद्रश्च प्रदानवान् ॥ न्यायागतस्य द्रव्यस्य बोद्धव्यौ द्वावतिक्रमौ । अपात्रे प्रतिपत्तिश्च पात्रे चाप्रतिपादनम् ॥ द्वावम्भसि विनिक्षेप्यौ गाढं बद्ध्वा गले शिलाम् । धनिनं चाप्रदातारं दरिद्रं चातपस्विनम् ॥ त्रयोपाया मनुष्याणां श्रूयन्ते भरतर्षभ । कनीयान्मध्यमः श्रेष्ठ इति वेदविदो विदुः ॥ त्रयोपाया इति छान्दसः सन्धिः । त्रिविधाः पुरुषा राजन्नुत्तमाधममध्यमाः । नियोजयेद्यथावत्तांस्त्रिविधेष्वेव कर्मसु ॥ त्रय एवाधना राजन् भार्या दासस्तथा सुतः । यत्ते समधिगच्छन्ति यस्य ते तस्य तद्धनम् ॥ हरणं च परस्वानां परदाराभिमर्षणम् । सुहृदश्च परित्यागस्त्रयो दोषा भयप्रदाः ॥ त्रिविधं नरकस्येदं द्वारं नाशनमात्मनः । कामः क्रोधस्तथा लोभस्तस्मादेतत्रयं त्यजेत् ॥ भक्तं च भजमानं च तवास्मीति च वादिनम् । त्रीनेतान् शरणं प्राप्तान् विषमेऽपि न सन्त्यजेत् ॥
प्रकीर्णके महाभारतीयदिदुरोक्तनीतयः । ४७१ वरप्रदानं राज्यं च पुत्रजन्म च भारत । शत्रोश्च मोक्षणं कृच्छ्रात्त्रीणि चैकं च तत्समम् ॥ चत्वारि राज्ञा तु महाबलेन वर्ज्यान्याहुः पण्डितस्तानि विद्यात् । अल्पप्रज्ञैः सह मन्त्रं न कुर्यान्न दीर्घसूत्रैरलसैश्चारणैश्च ॥ चत्वारि ते तात गृहे वसन्तु श्रेयोऽभिजुष्टस्य गृहस्थधर्मे । वृद्धज्ञातिरवसन्नः कुलीनः सखा दरिद्रो भगिनी चानपत्या ॥ चत्वार्याह महाराज सद्यस्कानि बृहस्पतिः । पृच्छते त्रिदशेन्द्राय तानीमानि निबोध मे ॥ सद्यस्कानि, सद्यःफलानि । देवतानां च सङ्कल्पमनुभावं च धीमताम् । विनयं कृतविद्यानां विनाशं पापकर्मणाम् ॥ सङ्कल्पं चिकीर्षितम् । पञ्चाग्नयो मनुष्येण परिचर्याः प्रयत्नतः । पिता माताग्निर्रात्मा च गुरुश्च भरतर्षभ ॥ पञ्चैव पूजयंल्लोके यशः प्राप्नोति केवलम् । देवान् पितॄन्मनुष्यांश्च भिक्षूनतिथिपञ्चमान् ॥ पञ्च त्वानुगमिष्यन्ति यत्र यत्र गमिष्यसि । मित्राण्यमित्रा मध्यस्था उपजीव्योपजीविनः ॥ पञ्चेन्द्रियस्य मर्त्यस्य छिद्रं चेदेकमिन्द्रियम् । ततोऽस्य स्रवति प्रज्ञा दृतेः पादादिवोदकम् ॥ दृतेः चर्मपुटकस्य । षड्दोषाः पुरुषेणेह हातव्या भूतिमिच्छता । निद्रा तन्द्री भयं क्रोध आलस्यं दीर्घसूत्रता ॥ षडिमान् पुरुषो जह्याद्भिन्नां नावमिवार्णवे । अप्रवक्तारमाचार्यमनधीयानमृत्विजम् ॥
४७२ वीरमित्रोदयस्य राजनीतिप्रकाशे अरक्षितारं राजानं भार्या चाप्रियवादिनीम् । ग्रामकामं च गोपालं वनकामं च नापितम् ॥ षडेव तु गुणाः पुंसा न हातव्याः कदाचन । सत्यं दानमनालस्यमनसूया क्षमा धृतिः ॥ षडिमानि विनश्यन्ति मुहूर्त्तानवेक्षणात् । गावः सेवा कृषिर्भार्या विद्या वृषलसङ्गतिः ॥ षडेते ह्यवमन्यन्ते नित्यं पूर्वोपकारिणम् । आचार्यं शिक्षिताः शिष्याः कृतकृत्या नरेश्वरम् ॥ नारीं विगतकामाश्च कृतार्थाश्च प्रयोजकम् । नावं निस्तीर्णकान्तारा आतुराश्च चिकित्सकम् ॥ निस्तीर्णकान्ताराः, निस्तीर्णदुर्गमजलमार्गाः । आरोग्यमानृण्यमविप्रवासः सद्भिर्मनुष्यैः सह सम्प्रयोगः । स्वप्रत्यया वृत्तिरभीतवासः षड्जीवलोकस्य सुखानि राजन् ॥ स्वप्रत्यया, स्वाधीना । "प्रत्ययोऽधीनशपथज्ञानविश्वासहे- तुषु"इति कोषः । वृत्तिः जीविका "वृत्तिर्वर्त्तनजीवने"इत्यमरः । ईर्ष्या घृणी त्वसन्तुष्टः क्रोधनो नित्यशङ्कितः । परभाग्योपजीवी च षडेते नित्यदुःखिताः ॥ अर्थागमो नित्यमरोगिता च प्रिया च भार्या प्रियवादिनी च। वश्यश्च पुत्रोऽर्थकरी च विद्या षड् जीवलोकस्य सुखानि तात॥ षण्णामात्मनि नित्यानामैश्वर्यमधिगच्छति । न स पापैः कुतोऽनर्थैर्युज्येत विजितेन्द्रियः ॥ षण्णाम्, इन्द्रियाणाम् । ऐश्वर्यं, वशित्वम् षडिमे षट्सु जीवन्ति सप्तमो नोपलभ्यते । चौराः प्रमत्ते जीवन्ति व्याधितेषु चिकित्सकाः ॥ प्रमदाः काममानेषु यजमानेषु याजकाः ।
प्रकीर्णके महाभारतीयाविदुरोक्तनीतयः । ४७३ राजा विवदमानेषु नित्यं मूर्खेषु पण्डितः ॥ सप्त दोषाः सदा राज्ञा हातव्या व्यसनोदयाः । प्रायशो यैर्विनश्यन्ति कृतमूला अपीश्वराः ॥ स्त्रियोऽक्षा मृगया पानं वाक्पारुष्यं च पञ्चमम् । महच्च दण्डपारुष्यमर्थदूषणमेव च ॥ अष्टौ पूर्वनिमित्तानि नरस्य विनशिष्यतः । ब्राह्मणान् प्रथमं द्वेष्टि ब्राह्मणैश्च विरुद्ध्यते ॥ ब्राह्मणस्वानि चादत्ते ब्राह्मणांश्च जिघांसति । रमते निन्दया चैषां प्रशंसां नाभिनन्दति ॥ नैतान् स्मरति कृत्येषु याचितश्चाभ्यसूयते । एतान्दोषान्नरः प्राज्ञो बुध्येद्बुद्ध्वा विसर्जयेत् ॥ अष्टाविमानि हर्षस्य नवनीतानि भारत । वर्त्तमानानि दृश्यन्ते तान्येव सुसुखान्यपि ॥ समागमश्च सखिभिर्महांश्चैव धनागमः । पुत्रेण च परिष्वङ्गः सन्निपातश्च मैथुने ॥ समये च प्रियालापः स्वयूथ्येषु समुन्नतिः । अभिप्रेतस्य लाभश्च पूजा च जनसंसदि ॥ समये हर्षादिसमये । अष्टौ गुणाः पुरुषं दीपयन्ति प्रज्ञा च कौल्यं च दमः श्रुतं च । पराक्रमश्चाबहुभाषिता च दानं यथाशक्ति कृतज्ञता च ॥ नवद्वारमिदं वेश्म त्रिस्थूणं पञ्चसाक्षिकम् । क्षेत्रज्ञाधिष्ठितं विद्वान् यो वेदः स परः कविः ॥ नवद्वारमिति । चक्षुःश्रोत्रनासामुखपायूपस्थरूपनवद्वारम् । त्रिस्थूणं, त्रीणि सत्त्वरजस्तमांसि वातपित्तकफा वा स्थूणा आधारस्तम्भा यस्य तत् । पञ्चसाक्षिकं, पञ्च ज्ञानेन्द्रियाणि ६०
४७४ वीरमित्रोदयस्य राजनीतिप्रकाशे साक्षिणो गृह्यमाणविषयनिवेदयितारो यत्र तत्तादृशम् । क्षे- त्रज्ञाधिष्ठितं, क्षेत्रं शरीरं जानाति आत्मत्वेन बुध्यते स क्षेत्रज्ञो जीवः तदधिष्ठितम् । परः कविः, उत्कृष्टः पण्डितः । दशधर्मं न जानन्ति धृतराष्ट्र निबोध तान् । मत्तः प्रमत्त उन्मत्तः श्रान्तः क्रुद्धो बुभुक्षितः ॥ त्वरमाणश्च लुब्धश्च भीतः कामी च ते दश । तस्मादेतेषु सर्वेषु न प्रसज्जेत पण्डितः ॥ मत्तः, मद्यपानादिनाऽनवहितः । प्रमत्तः, असावधानः । उन्मत्तः, वातरोगादिमान् । श्रान्तः, अध्वगमनभारवहनादिना परिश्रान्तः । तथा, यः काममन्यू प्रजहाति राजा पात्रे प्रतिष्ठापयते धनानि । विशेषविच्छ्रुतवान् क्षिप्रकारी तं सर्वलोकः कुरुते प्रमाणम् ॥ जानाति विश्वासयितुं मनुष्यान्विज्ञातदोषेषु दधाति दण्डम् । जानाति मात्रां च तथा क्षमां च तं तादृशं श्रीर्जुषते समग्रा ॥ मात्रां, दण्डपरिमाणम् । कस्मिन्नपराधे कियान् दण्डः क- र्त्तव्य इत्यादिकम् । सुदुर्बलं नावजानाति कञ्चिद्युक्तो रिपुं सेवते बुद्धिपूर्वम् । न विग्रहं रोचयते बलिष्ठैः काले च यो विक्रमते स धीरः॥ युक्तः, युक्तिमान् । युक्तिश्च स्वसंरक्षणपूर्वकपरनिग्रहानुकू- लो यत्नः । प्राप्यापदं न व्यथते कदाचिदुद्योगमन्विच्छति चाप्रमत्तः । दुःखं च काले सहते महात्मा धुरन्धरस्तस्य जिताः सपत्नाः॥ अनर्थकं विप्रवासं गृहेभ्यः पापैः सन्धिं परदाराभिमर्शम् । दम्भं स्तेन्यं पैशुनं मद्यपानं न सेवते यः स सुखी सदैव ॥
प्रकीर्णके महाभारतीयदिदुरोक्तनीतयः । ४७५ न संरम्भेणारभते त्रिवर्गमाकारितः शंसति तत्त्वमेव । न मित्रार्थे रोचयते विवादं नापूजितः कुप्यति चाप्यमूढः ॥ न योऽभ्यसूयत्यनुकम्पते च न दुर्बलः प्रातिभाव्यं करोति । नात्याहिते किञ्चित्क्षमते विवादं सर्वत्र तादृक् लभते प्रशंसाम्॥ दुर्बलः, असमर्थः । प्रातिभाव्यं, प्रतिभूत्वम् । "अत्याहितं महाभीतिः कर्म जीवनपेक्षि च" इत्यमरः । यो नोद्धतं कुरुते जातु वेषं न पौरुषेणापि विकत्थतेऽन्यान् । न मूच्छितः कटुकान्याह किञ्चित्प्रियं सदा तं कुरुते जनो हि ॥ मूर्च्छितः, वृद्धिं प्राप्तः, अथ वा दुःखितः । न वैरमुद्दीपयति प्रशान्तं न दर्पमारोहति नास्तमेति । न दुर्गतोऽस्मीति करोत्यकार्यं तमार्यशीलं परमाहुरार्याः ॥ दर्पं, गर्वम् । अस्तम्, अकिञ्चनत्वम् । दुर्गतः, दरिद्रः । न स्वे सुखे वै कुरुते प्रहर्षं नान्यस्य दुःखे भवति प्रहृष्टः । दत्त्वा न पश्चात्कुरुतेऽनुतापं स कथ्यते सत्पुरुषार्यशीलः ॥ देशाचारान्समयान् जातिधर्मान् बुभूषते यः स परावरज्ञः । स यत्र तत्राभिगतः सदैव महाजनस्याधिपत्यं करोति ॥ समयान्, राज्ञा ज्ञातिश्रेष्ठैश्च कृतान् कर्त्तव्याकर्त्तव्यनियमान्। दम्भं मोहं मत्सरं पापकृत्यं राजद्विष्टं पैशुनं पूगवैरम् । मत्तोन्मत्तैर्दुर्जनैश्चापि वादं यः प्रज्ञावान् वर्जयेत्स प्रधानः ॥ पूगवैरम्, पूगैः समुदायापन्नैः सह वैरम् । दमं शौचं दैवतं मङ्गलानि प्रायश्चित्तं विविधांल्लोकवादान् । एतानि यः कुरुते नित्यकानि तस्योत्थानं देवता धारयन्ति ॥ दमं, बाह्येन्द्रियनिग्रहम् । समैर्विवाहं कुरुते न हीनैः समैः सख्यं व्यवहारं कथाश्च । १ पृष्टः ।
४७६ वीरमित्रोदयस्य राजनीतिप्रकाशे गुणैर्विशिष्टांश्च पुरोदधाति विपश्चितस्तस्य नयाः सुनीताः॥ मितं भुङ्क्ते संविभज्याश्रितेभ्यो मितं स्वपित्यमितं कर्म कृत्वा। ददात्यमित्रेष्वपि याचितः स्वं तमात्मवन्तं प्रजहत्यनर्थाः ॥ चिकीर्षितं विप्रकृतं १ च यस्य नान्ये जनाः कर्म जानन्ति किञ्चित् । मन्त्रे गुप्ते सम्यगनुष्ठिते च नाल्पोऽप्यस्य च्यवते कश्चिदर्थः ॥ यः सर्वभूतप्रशमे निविष्टः सत्यो मृदुर्मानकृच्छुद्धभावः । अतीव स ज्ञायते ज्ञातिमध्ये महामणिर्जात्य इव प्रसन्नः ॥ य आत्मनाऽपत्रपते भृशं नरः स सर्वलोकस्य गुरुर्भवत्युत। अनन्ततेजाः सुमनाः समाहितः स तेजसा सूर्य इवावभासते ॥ तथा, मिथ्योपेतानि कर्माणि सिद्धयेयुर्यानि भारत । अनुपायप्रयुक्तानि मा स्म तेषु मनः कृथाः ॥ मिथ्योपेतानि छद्मयुक्तानि । अनुपायप्रयुक्तानि, उपायैर्वि- ना प्रयुक्तानि । तथैव योगविहितं न सिद्ध्येत्कर्म चेन्नृप । उपाययुक्तं मेधावी न तत्र ग्लपयेन्मनः ॥ अनुबन्धानपेक्षेत सानुबन्धेषु कर्मसु । सम्प्रधार्य च कुर्वीत न वेगेन समाचरेत् ॥ अनुबन्धं च सम्प्रेक्ष्य विपाकं चैव कर्मणाम् । उत्थानमात्मनश्चैव धीरः कुर्वी वा न वा ॥ अनुबन्धं, कारणम् । विपाकं, कार्यफलमित्यर्थः । उत्थानं, स्वोदयम् । कुर्वीत, परिणामशुद्धौ कुर्यात्, तदभावे न कु- र्यादित्यर्थः । यः प्रमाणं न जानाति स्थाने वृद्धौ तथा क्षये ।
१ यत्नकृतम् ।
प्रकीर्णके महाभारतीयविदुरोक्तनीतयः । कोशे जनपदे दण्डे न स राज्येऽवतिष्ठते ॥ स्थाने, यथास्थितत्वे । दण्डोऽत्र सैन्यम् । कोशदेशसै- यथावस्थितिवृद्धिक्षयेषु यः प्रमाणं परिमाणमियत्तां न ज- स राज्ये नावतिष्ठते राज्यभ्रष्टो भवतीत्यर्थः । यस्त्वेतानि प्रमाणानि यथोक्तान्यनुपश्यति । युक्तो धर्मार्थयोर्ज्ञाने स राज्यमधिगच्छति ॥ न राज्यं प्राप्तमित्येव वर्तितव्यमसांप्रतम् । श्रियं ह्यविनयो हन्ति जरा रूपमिवोत्तमम् ॥ असांप्रतं, नीतिविरुद्धम् । भक्ष्योत्तमप्रतिच्छन्नं मत्स्यो बडिशमायसम् । लोभाभिपाती ग्रसते नानुबन्धमपेक्षते ॥ “बडिशं मत्स्यवेधनम्” इत्यमरः । अनुबन्धम्, अनु प- श्चाद् बन्धं बन्धनम् । यच्छक्यं ग्रसितुं ग्रस्यं ग्रस्तं परिणमेच्च यत् । हितं च परिणामे यत्तदाद्यं भूतिमिच्छता ॥ आद्यम्, अदनीयं भोक्तव्यमित्यर्थः । वनस्पतेरपक्वानि फलानि प्रचिनोति यः । स नाप्नोति रसं तेभ्यो बीजं चास्य विनश्यति ॥ यस्तु पक्वमुपादत्ते काले परिणतं फलम् । फलाद्रसं स लभते बीजाच्चैव फलं पुनः ॥ यथा मधु समादत्ते रक्षन्पुष्पाणि षट्पदः । तद्वदर्थान्मनुष्येभ्य आदद्यादविहिंसया ॥ पुष्पं पुष्पं विचिन्वीत मूलच्छेदं न कारयेत् । मालाकार इवारामे न यथाङ्गारकारकः ॥ अङ्गारकारको यथा समूलं वृक्षमुत्पाट्य तत्राग्निं दत्त्वा
४७८ वीरमित्रोदयस्य राजनीतिप्रकाशे अङ्गारान् करोति तथा न कुर्यादितिभावः । किन्नु मे स्यादिदं कृत्वा किन्नु मे स्यादकुर्वतः । इति कर्माणि सञ्चिन्त्य कुर्याद्वा पुरुषो न वा ॥ अनारभ्या भवन्त्यर्था केचिन्नित्यं तथाऽगताः । कृतः पुरुषकारो हि भवेत्तेषु निरर्थकः ॥ के चित्कदाचित् अनारभ्याः । के चिदर्था नित्यं सर्वदैव तथाऽगताः अनारभ्याः । तेषु कृतः पुरुषकारः पुरुषप्रयत्नः निरर्थको भवेत् । कांश्चिदर्थान्नरः प्राज्ञो लघुमूलान्महाफलान् । क्षिप्रमारभते कर्तुं न विघ्नयति तादृशान् ॥ ऋजु पश्यति यः सर्वं चक्षुषा प्रपिबन्निव । आसीनमपि तूष्णीकमनुरज्यन्ति तं प्रजाः ॥ सुपुष्पितः स्यादफलः फलितः स्याद्दुरारुहः । अपक्वः पक्वसङ्काशो न स शीर्येत कर्हिचित् ॥ सुपुष्पित इति । अफलः, अजनितपरकार्योत्पत्तिः सन्,सुपु- ष्पितः, सम्यक्तया दर्शिततत्कार्यारम्भप्रत्याशः, स्यात्, भवेत् । स्वकार्यानुरोधेन फलितः सम्पादितपरकार्यः सन् दुरारुहः परेषामधृष्यः स्यात् । अपक्वः अनिष्पादितसम्पूर्णफलः सन् पक्वसङ्काशो निष्पादितस्वप्रयोजनतया शीर्णो न भवेत् । चक्षुषा मनसा वाचा कर्मणा च चतुर्विधम् । प्रसादयति यो लोकं तं लोकोऽनुप्रसीदति ॥ यस्मान्त्रस्यन्ति भूतानि मृगव्याधान्मृगा इव । सागरान्तामपि महीं लब्ध्वा स परिहीयते ॥ पितृपैतामहं राज्यं प्राप्तवान्स्वेन तेजसा । १ कर्मणा इत्यपि पाठः ।
प्रकीर्णके महाभारतीयविदुरोक्तनीतयः । ४७९ वायुरभ्रमिवासाद्य भ्रंशयत्यनये स्थितः ॥ धर्ममाचरतो राज्ञः सद्भिश्चरितमादितः । वसुधा वसुसम्पूर्णा वर्द्धते भूतिवर्द्धिनी ॥ अथ सन्त्यजतो धर्ममधर्ममनुतिष्ठतः । प्रतिसञ्चेष्टते भूमिरग्नौ चर्माहितं यथा ॥ प्रतिसञ्चेष्टते, सङ्कुचितफलवती भवति । अग्नावाहितं चर्म यथा सङ्कुचितं भवति तथा भवतीतिभावः । य एव यत्नः क्रियते परराष्ट्रविमर्दने । स एव यत्नः कर्त्तव्यः स्वराष्ट्रपरिपालने ॥ धर्मेण राज्यं विन्देत धर्मेण परिपालयेत् । धर्ममूलां श्रियं प्राप्य न जहाति न हीयते ॥ न जहातीत्यत्रापि श्रियमित्यनुषज्यते । अप्युन्मत्तात्प्रलपतो बालाच्च परिजल्पतः । सर्वतः सारमादद्यादश्मभ्य इव काञ्चनम् ॥ सुव्याहृतानि सूक्तानि सुकृतानि ततस्ततः । सञ्चिन्वन् धीर आसीत शिलाहारी शिलं यथा ॥ क्षेत्रपतितवल्लरीग्रहणं शिलं तदाहारवान् ऋषिः शिलाहारी । गन्धेन गावः पश्यन्ति वेदैः पश्यन्ति ब्राह्मणाः । चारैः पश्यन्ति राजानश्चक्षुर्भ्यामितरे जनाः ॥ भूयांसं लभते क्लेशं या गौर्भवति दुर्दुहा । अथ या सुदुहा राजन्नैव तां वितुदन्त्यपि ॥ यदतप्तं प्रणमति न तत्सन्तापयन्त्यपि । यच्च स्वयं नतं दारु न तत्सन्नमयन्त्यपि ॥ एतयोपमया धीरः सन्नमेत बलीयसे । इन्द्राय स प्रणमते नमते यो बलीयसे ॥
४८० वीरमित्रोदयस्य राजनीतिप्रकाशे पर्जन्यनाथाः पशवो राजानो मन्त्रिबान्धवाः । पतयो बान्धवाः स्त्रीणां ब्राह्मणा वेदबान्धवाः ॥ सत्येन रक्ष्यते धर्मो विद्या योगेन रक्ष्यते । मृजया रक्ष्यते रूपं कुलं वृत्तेन रक्ष्यते ॥ विद्या, आत्मज्ञानम् । मानेन रक्ष्यते धान्यमश्वान् रक्षत्यनुक्रमः । मानेन, मापनेन । मानहीनं स्थापितं धान्यं राक्षसा हरन्तीति लोके प्रवादाऽपि । अनुक्रमः, चलनम् । “अनध्वा वाजिनां ज- रा” इत्यत्राप्यभिहितम् । अभीक्ष्णदर्शनं गाश्च स्त्रियो रक्ष्याः कुचैलतः ॥ कुचैलं, कुत्सितवस्त्रम्। सुवेषा हि स्त्रियो यतः सर्वोऽपि कामयते। न कुलं वृत्तहीनस्य प्रमाणमिति मे मतिः । अन्त्येष्वपि हि जातानां वृत्तमेव विशिष्यते ॥ य ईर्षुः परवित्तेषु रूपे वीर्ये कुलान्वये । सुखसौभाग्यसत्कारे तस्य व्याधिरनन्तकः ॥ अकार्यकरणाद्भीतः कार्याणां च विवर्जनात् । अकाले मन्त्रभेदाच्च येन माद्येन्न तत्पिबेत् ॥ विद्यामदो धनमदस्तथैवाभिजनो मदः । मदा एतेऽवलिप्तानामेत एव सतां दमाः ॥ असन्तोऽभ्यर्चिताः सद्भिः कचित्कार्ये कदाचन । मन्यन्ते सन्तमात्मानमसन्तमपि विश्रुतम् ॥ गतिरात्मवतां सन्तः सन्त एव सतां गतिः । असतां च गतिः सन्तो न त्वसन्तः सतां गतिः ॥ जिता सभा वस्त्रवता मिष्टाशा गोमता जिता ।
प्रकीर्णके महाभारतीयविदुरोक्तनीतयः । ४८१ अध्वा जितो यानवता सर्वं शीलवता जितम् ॥ शीलं प्रधानं पुरुषे तद्यस्येह प्रणश्यति । न तस्य जीवितं नार्थो न धनेन न बन्धुभिः ॥ आढ्यानां मांसपरमं मध्यानां गोरसोत्तरम् । तैलोत्तरं दरिद्राणां भोजनं भरतर्षभ ॥ सम्पन्नतरमेवान्नं दरिद्रा भुञ्जते सदा । क्षुत्स्वादुतां जनयति सा चाढ्येषु सुदुर्लभा ॥ प्रायेण श्रीमतां लोके भोक्तुं शक्तिर्न विद्यते । जीर्यन्त्यपि हि काष्ठानि दरिद्राणां महीपते । अवृत्तेर्भयमन्त्यानां मध्यानां मरणाद्भयम् ॥ उत्तमानां तु मर्यानामवमानात्परं भयम् । अन्त्यानाम्, अधमानाम् । अवृत्तेः, जीवनोपायाभावाद्भयम् । ऐश्वर्यमदपापिष्ठा मदाः पानमदादयः । ऐश्वर्यमदमत्तो हि नापतित्वा विबुद्ध्यते ॥ ऐश्वर्यमदः पापिष्ठोऽत्यन्तं पतनहेतुर्येषु ते तथाविधाः । इन्द्रियैरिन्द्रियार्थेषु वर्त्तमानैरनिग्रहैः । तैरयं ताप्यते लोको नक्षत्राणि ग्रहैरिव ॥ योजितः पञ्चवर्गेण सहजेनात्मकर्षिणा । आपदस्तस्य वर्द्धन्ते शुक्लपक्ष इवोडुराट् ॥ अविजित्य य आत्मानममात्यान् विजिगीषते । अमित्रान्वाऽजितामात्यः सोऽवशः परिहीयते ॥ आत्मानमेव प्रथमं द्वेषरूपेण यो जयेत् । ततोऽमात्यानममित्रांश्च न मोघं विजिगीषते ॥ यः पुरुषः प्रथममात्मानमेव मन एव द्वेषरूपेण द्विष्त्वे- न जयेत् । ततोऽमात्यान्स्वप्रधानपुरुषान् अमित्रांश्च मोघं नि- ६१
४८२ वीरमित्रोदयस्य राजनीतिप्रकाशे र्थकं न विजिगीषते । मनसो जयाभावे तु मोघं विजिगीषत इति भावः । वश्येन्द्रियं जितात्मानं धृतदण्डं विकारिषु । परीक्ष्यकारिणं वीरमत्यन्तं श्रीर्निषेवते ॥ रथः शरीरं पुरुषस्य राजन्नात्मा नियन्तेन्द्रियाण्यस्य चाश्वाः । तैरप्रमत्तः कुशली सदश्वैर्दान्तैः सुखं याति रथीव धीरः ॥ एतान्यनिगृहीतानि व्यापादयितुमप्यलम् । अविधेया इवादान्तं हयाः पथि कुसारथिम् ॥ अनर्थमर्थतः पश्यन्नर्थं चैवाप्यनर्थतः । इन्द्रियैरजितैर्बालः सुदुःखं मन्यते सुखम् ॥ धर्मार्थों यः परित्यज्य स्यादिन्द्रियवशानुगः । श्रीप्राणधनदारेभ्यः क्षिप्रं स परिहीयते ॥ अर्थानामीश्वरो यः स्यादिन्द्रियाणामनीश्वरः । इन्द्रियाणामनैश्वर्यादैश्वर्याद्भ्रश्यते हि सः ॥ आत्मनाऽऽत्मानमन्विच्छेन्मनोबुद्धीन्द्रियैर्यतैः । आत्मा ह्येवात्मनो बन्धुरात्मैव रिपुरात्मनः ॥ बन्धुरात्मात्मनस्तस्य येनैवात्माऽऽत्मना जितः । स एव नियतो बन्धुः स एव नियतो रिपुः ॥ क्षुद्राक्षेणेव जालेन झषावपिहितावुभौ । कामश्च राजन् क्रोधश्च तौ प्रज्ञानं विलुम्पतः ॥ अपिहितौ, आच्छादितौ । समवेक्ष्येह धर्मार्थों सम्भारान् योऽधिगच्छति । स वै सम्भृतसम्भारः सततं सुखमेधते ॥ यः पश्चाभ्यन्तरान् शत्रूनविजित्य मनोमयान् । जिगीषति रिपूनन्यान् रिपवोऽभिभवन्ति तम् ॥
प्रकीर्णके महाभारतीयाविदुरोक्तनीतयः । ४८३ आभ्यन्तरान् पञ्च शत्रून, पञ्च ज्ञानेन्द्रियाणि । मनोमयान्, मनःप्रधानान् । अविजित्य, स्वस्वविषयाम- वणान् अकृत्वा । अन्यान् रिपून, बाह्यान् शत्रून् । दृश्यन्ते हि महात्मानो बध्यमानाः स्वकर्मभिः । इन्द्रियाणामनीशत्वाद् राजानो राज्यविभ्रमैः ॥ असन्त्यागात्पापकृतामपापांस्तुल्यो दोषः स्पृशते मिश्रभावात् । शुष्केणार्द्रं दह्यते मिश्रभावात्तस्मात्पापैः सह सन्धिं न कुर्यात् ॥ निजानुत्पततः शत्रून् पञ्च पञ्चप्रयोजनान् । यो मोहान्न निगृह्णाति तमापद्ग्रसते नरम् ॥ अनसूयार्जवं शौचं सन्तोषः प्रियवादिता । दमः सत्यमनायासो न भवन्ति दुरात्मनाम् ॥ आत्मज्ञानमनायासस्तितिक्षा धर्मनित्यता । वाक्चैव गुप्तादानं च नैतान्यन्त्येषु भारत ॥ आक्रोशपरिवादाभ्यां विहिंसन्त्यबुधा बुधान् । वक्ता पापमुपादत्ते क्षममाणो विमुच्यते ॥ हिंसा बलमसाधूनां राज्ञां दण्डविधिर्बलम् । शुश्रूषा तु बलं स्त्रीणां क्षमा गुणवतां बलम् ॥ वाक्संयमो हि नृपतेः सुदुष्करतमो मतः । अर्थवच्च विचित्रं च न शक्यं बहुभाषितुम् ॥ अभ्यावहति कल्याणं विविधा वाक्सुभाषिता । सैव दुर्भाषिता राजन्ननर्थायोपपद्यते ॥ रोहते सायकैर्विद्धं वनं परशुना हतम् । वाचा दुरुक्तं बीभत्सं न संरोहति वाक्क्षतम् ॥ कर्णिनालीकनाराचान् निर्हरन्ति शरीरतः । वाक्शल्यस्तु न निर्हर्तुं शक्यो हृदिशयो हि सः ॥