भारतकोश
संग्रह पर लौटें

विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)

Vishnudharmottara Purana Hindi

महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह) द्वारा

स्रोत: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (उद्गम)

DevanagariHindipublished1,001 पृष्ठ

वि० ध० ॥ ३८॥

प्र० खं० अ० ६३

वस्त्रं विभूषणं चैव पुष्पाणि विविधानि च ॥ १५ ॥ वेष्टनं च स्रजं चैव कङ्कणं च मनोहरम् ॥ तथा रम्यं प्रतिसरं सुपिष्टं च तथाञ्जनम् ॥ १६ ॥ दर्पणे चौपचारं च प्रदीपं धूपमेव च ॥ तथैवाचमनीयं च गीतवाद्यस्वनं तथा ॥ १७ ॥ पुण्याहजयशब्दं च स्तोत्रोदीरणमेव च ॥ तथैवोपनहौ देये छत्रं चामरमेव च ॥ १८ ॥ यानं च वाहनं चैव पताकाश्च ध्वजानि च ॥ भोगानां पूरणार्थायों ततो मात्रां निवेदयेत् ॥ १९ ॥ भोगानां सञ्जनं कृत्वा यथाशक्त्या द्विजोत्तम ॥ अविद्यमाना ये भोगा मात्रास्त्वेव प्रकल्पयेत् ॥ २० ॥ एवमभ्यर्च्य देवेशं सर्वभोगैस्समाहितः ॥ अर्चयेन्मधुपर्केण पशुयागो न चेद्भवेत् ॥ २१ ॥ पशुयागाभिगमने मधुपर्को विधीयते ॥ अध्यर्च्य मधुपर्केण ततस्स्वन्वेन पूजयेत् ॥ २२ ॥ अन्नासनाद्यीच्छन्ति केचिदप्यपराणि तु ॥ आदौ स्थालीं च तेनाथ प्रद्यादर्घाणिं ततः ॥ २३ ॥ अन्नं हवित्कोपिते भक्ष्यं व्यञ्जनसंयुतम् ॥ निवेद्य दर्पणे दध्यात्तथा निष्पुंसनं ततः ॥ २४ ॥ कृत्वा ह्याचमनीयं तु मात्रां च तदनन्तरम् ॥ ततस्तु संविभागाथं दातव्यं त्वेहणं ततः ॥ २५॥ भूयो निवेद्येदर्पणं पूर्ववत्सुसमाहितः ॥ दर्पणे च ततो दद्यात्पाद्यं निष्पुंसनं ततः ॥ २६ ॥ दत्वा चाचमनीयं च शाटकं च निवेदयेत् ॥ हस्तनिष्पुंसनार्थाय मात्रां च तदनन्तरम् ॥ २७ ॥ निवेद्य पश्चात्ताम्बूलं देवं वह्नौ समर्चयेत् ॥ वह्निसंपूजनं कृत्वा कार्याकारिसमर्पणम् ॥ २८ ॥ अतिथीनां ततः कार्यं भर्त्तव्यानां च भार्गव ॥ ततोऽनुयागकाले तु पवित्रेण समुत्क्षिपेत् ॥ २९ ॥ आसनं भाजनं चैव स्नाने प्रयत्नमानसः ॥ उपविश्य ततः पश्चादात्मनेवानयेच्च च ॥ ३० ॥ इममभिमन्त्रेण प्राच्यां प्रासादृष्टकं भवेत् ॥ ततस्तु प्रयतो भूत्वा विशेद्दृष्टं ततः ॥ ३१ ॥ इज्याकालानुसंधानं ततः कुर्यात्समाहितः ॥ कुर्यात्सन्व्यापकालस्य चापादानमनन्तरम् ॥ ३२ ॥ विमर्जनं ततः कुर्यात्प्रयतेनान्तरात्मना ॥ इज्याकालविधिश्चैष मया ते राम कीर्तितः ॥ ३३ ॥ भगवानाद्युबुवन्तु दृवस्संक्रपणन्ततः ॥ प्रद्युम्नश्चानिरुद्धश्च प्रभावोऽड्यमुदाहृतः ॥३४॥ संकर्षणस्तथात्मक आत्मा प्रद्युम्न उच्यते ॥ द्ववन्तत्वगतस्त्ववं अनिरुद्धो महायशाः ॥ ३५ ॥ स नाथमसर्वलोकानां सृष्टिसंहारकारकः ॥ ( पुरुषोऽपि तथा सत्य अच्युतश्च द्विजोत्तम ॥ ३६ ॥ भगवानासुदेवश्च त्वव्ययाऽस्यानुद्वाहतः ॥ चत्वार एते धर्मज्ञ वासुदेवाः प्रकीर्तिताः ॥३७॥ भगवच्छब्दवाच्याश्च सर्वभूतभवादवाः ॥ यः परः पुरुषो राम वासुदेवः प्रकीर्तितः ॥ ३८ ॥ भगवच्छब्दवाच्यश्च सर्वभूतभवोद्भवः ॥ शेषतत्वं गतः सर्वमनिरुद्धो महायशाः ॥ ३९ ॥ स नाथः सर्वलोकानां सृष्टिसंहारकारणः ॥ ) तदनूत्पद्यते मुक्तः पौरुषं द्विजसत्तम ॥ ४० ॥ ॥३८॥


१ 'छत्रमासनमेव च' इति क० । २ 'वीटकम्' इति ख० । ३ 'प्राच्याम्' इति क० । ४ कोष्ठकान्तर्गतः पाठः कपुस्तके नास्ति ।

पादोऽस्य विश्वाभूतानि त्रिपादस्यामृतं दिवि ॥ ४१ ॥ प्रतिस्तस्यैवार्चिः प्राणस्तर्पणमर्हणम् ॥ ४१ ॥ निवेदनञ्चाचमनमथ्या मन्त्रनिर्णयः ॥ मन्त्रेण चार्हणान्तेन प्रदद्यादर्हणं पुनः ॥ ४२ ॥ तथैवाचमनान्तेन देयमाचमनं भवेत् ॥ प्राशनान्तेन मन्त्रेण तर्पणं विनिवेदयेत् ॥ ४३ ॥ प्रतिस्रहेषु मात्रासु पादुकासु च दर्पणे ॥ छत्रे च वालव्यजने तालवृन्ते तथैव च ॥ ४४ ॥ उपानत्सु तथा याने वाहनेषु भृगूत्तम ॥ अश्विध्वजेषु च तथा पताकासु च कीर्तिताः ॥४५॥ शेषाणां कामभोगानां नित्यं संकीर्तयेत्तु वै ॥ सर्वत्र प्रीणनं कार्यमेतावान्मन्त्रनिर्णयः ॥४६॥ देवानां पादपीठानां कलशानां तथैव च ॥ वह्नेस्थाससस्तानां च चतुर्द्ध विनिवर्तते ॥ ४७ ॥ कलशासनावहीनां संकरं तु न कारयेत् ॥ तथैव पदपीठानां तेषां चिह्नं च कारयेत् ॥ ४८ ॥ प्रापणे मधुपर्के च मात्रासु च भृगूत्तम ॥ सुमनस्सु सदा राम यत्नः कार्यः समर्चने<sup></sup> ॥ ४९ ॥ सौमनस्यं परं राम देवदेवं निवेदितम् ॥ यस्मात्तु वर्तते तस्मात्तस्माल्लोकाः सुमनसः सदा ॥ ५० ॥ मां त्रास्यति भयाद्घोरातस्मान्मात्रा प्रकीर्तिता ॥ प्रापयिष्यति च स्थाने नित्यं दुःखविवर्जिते ॥ ५१ ॥ यस्मात्तस्माद्धिराज्ञेषु प्रोक्ते प्रापणके सदा ॥ परं यत्परं राम मधुसंज्ञं तदुच्यते ॥ ५२ ॥ तदाप्यते यदा तेन मधुपर्कस्तदा स्मृतः ॥ इत्येवंविधानोऽसमुदीरितास्ते समावतो भार्गववंशचन्द्र ॥ अतः परं राम निबोध पुण्यं स्वाध्यायकालं गदतो ममाद्य ॥ ५३ ॥ इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे शङ्करगीतासु इज्याका लविधिर्नाम त्रिषष्टितमोऽध्यायः ॥ ६३ ॥ ॥ शङ्कर उवाच ॥ ॥ आदौ देशे तथा राम प्रयतः सुसमाहितः ॥ स्वाध्यायेनार्चयेद्देवं प्रयतेनान्तरात्मना ॥ १ ॥ तावत्कार्यं द्विजश्रेष्ठ स्वाध्यायं विधिवत्सदा ॥ यावदस्तं गतो राम सविता दीप्तदीधितिः ॥ २ ॥ ततस्त्वस्तं गते सूर्ये स्वाचान्तः सुसमाहितः ॥ प्रविश्य देवतावेश्म नैराज्यं कर्म कारयेत् ॥ ३ ॥ पादपीठान्तकं कर्म कृत्वा प्रागुक्तमञ्जसा ॥ अर्च्यमाचमनीयं च दत्वा पाद्यं च भार्गव ॥ ४ ॥ स्थालोमालिक्रमेणैवद्यादन्तेष्वयाभिहितं ततः ॥ कर्तव्यमवयुगानान्तं प्रयतः सुसमाहितः ॥ ५ ॥ कृत्वालुयागं विधिवत्प्रावृत्य सुरमन्दिरम् ॥ स्वाध्यायस्याप्यनुसंधानं ततः कुर्यात्समाहितः ॥ ६ ॥ योगकालमुपादाय पश्चात्कुर्याद्विसर्जनम् ॥ कृत्वा विसर्जनं युक्तस्तिष्ठेदद्याममतन्द्रितः ॥७॥ योगानन्तरं स्वप्याद्देवं युक्त्य भार्गव ॥ स्वयं कालोऽपि सततं योगमभ्येदभिधीयते ॥८॥


१ 'समर्जने' इति क० ।

वि०ध० ॥ ३१ ॥

प्र० खं० अ० ६९ ॥ ३१ ॥

ज्ञानाहंकृत्यं यदि नास्ति तत्त्वं यामे विशुद्धस्तु तथा चतुर्थे ॥ युञ्जीत योगं रिपुकालभूतं योगेन बुद्धिं संपुषोति सर्गम् ॥ ६४ ॥ इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मा०सं० शङ्करगीतासु स्वाध्यायकालकथने नाम चतुःषष्टितमोऽध्यायः ॥ ६४ ॥ शङ्कर उवाच ॥ जानुद्वयं सुदृङ्गुमं चेलाजिनकुशोत्तरम् ॥ शुचौ देशे प्रतिष्ठाप्य स्थिरमासनमात्मनः ॥ १ ॥ चतुर्णामासनानां च बद्धा तत्रैकमासनम् ॥ योगं युञ्जीत विविधमथावदवदूर्ध्वशः ॥ २ ॥ राम उवाच ॥ योगासनानि चत्वारि भगवन्कानि ब्रूहि मे ॥ येषामेकसमाश्रित्य योगं युञ्जीत मानवः ॥ ३ ॥ शङ्कर उवाच ॥ स्वस्तिकं सर्वतोभद्रं पर्यङ्कं कमलासनम् ॥ योगासनानि चत्वारि तेषां वक्ष्यामि लक्षणम् ॥ ४ ॥ आसने जानुनी कृत्वा यथावस्तुसमाहितः ॥ वामं कृत्वाेतरे पादे वामजङ्घोपरिस्थितम् ॥ ५॥ स्वस्तिकं नाम तत्प्रोक्तमासनं प्रथमं शुभम् ॥ ऊरू च जानुनी जङ्घे पद्ममासनगतः समम् ॥ ६॥ आसनं सर्वतोभद्रं तद्विद्धि मनुजोत्तम ॥ पर्यङ्कं योगपट्टेन बध्नीयात्पुष्टयोगतः ॥ ७॥ आकुञ्च्य जानुनी सम्यक्पादौ कृत्वा च बाह्यतः ॥ दक्षिणं वामजङ्घायां पर्यङ्गासनकारणम् ॥ ८ ॥ आसने सर्वतोभद्रे यदा भवति मानवः ॥ ऊरूभ्यांतान्तरांश्चरणांस्तदा म्यात्कमलासनम् २ ॥ ९ ॥ आसनस्थस्य कर्म निबोध गदतो मम ॥ समानानीयोरुमूलेन हस्तौ भार्गव नियतौ ३ ॥ ०कृत्वांचोत्तानों समौ विद्वान्नाभ्योरुपरि दक्षिणामाऽङ्गुल्यैच्छाद्यकं विद्धानङ्गुलीनां तु विन्यसेत ॥ ११ ॥ किंचिदाकुञ्चिताङ्गुष्ठौ कर्तव्यौ च तथा करौ ॥ उत्थाप्याथ विततं कृत्वा गात्रं परिपुष्टयम् ॥ १२ ॥ पृष्ठमाकुञ्च्ययत्नतस्य देहमुन्नामयत्सुधीः ॥ निष्कम्पो सुदृढम्पुज्वौ नातिनम्त्यां न कुञ्चिताम् ॥ १३ ॥ ग्रीवां विधायग्यद्नालिच्छिद्रः कार्यं समं सदा ॥ संपश्यन्नासिकाग्रं ४ स्वं दिशश्चानवलोकयन् ॥ १४ ॥ किञ्चिन्निमीलिते नेत्रे दन्तैर्दन्तान्न संस्पृशेत् ॥ तालुमध्यगतनेव जिह्वाग्रेण समाहितः ॥ १५ ॥ स बद्धकङ्कणो विद्वानभ्यासांमात्यनं जयेत् ॥ जित्वा वायुं यथाशक्ति योगं युञ्जीत बुद्धिमात् ॥ १६ ॥ आदौ तु चिन्तयेन्मूर्ध्ना भूमिं पञ्चगुणान्विताम् ॥ लब्धलक्षो महायोगी भूमियोगं समुत्सृजेत ॥ १७ ॥ ततश्चतुर्गुणं ध्यानं कर्तव्यमुदके द्विज ॥ लब्धलक्ष अपां योगी जलद्यागं समुत्सृजेत ॥ १८ ॥ ततस्तु योगं युञ्जीत त्रिगुणे द्विज तेजसि ॥ लब्धलक्ष्य तत्रापि वह्नियोगं समुत्सृजेत ॥ १९ ॥ ततस्तु योगं युञ्जीत पवने द्विगुणं द्विज ॥ लब्धलक्षश्च तत्रापि वायुयोगं समुत्सृजेत ॥ २० ॥ ततस्त्वेकगुणं योगे युञ्जीत गगने बुधः ॥ लब्धलक्ष्य तत्रापि मनोयोगमथाभिवेतू ॥ २१ ॥ मनसश्चन्द्रमाः प्रोक्तः प्रथमं चन्द्रमण्डले ॥ अर्चेवलं बुधः कृत्वा चन्द्रमण्डलमध्यगे ॥ २२ ॥


१ 'बुद्धिम्' इति क० । २ 'मत्वाकमलमिति' इति ख० । ३ 'योगपादेन' इति ख० । ४ 'नासग्रां पश्यनं जपेत्' इति ख० । ५ 'सहमान' इति-

अङ्गुष्ठमात्रे पुरुषे लब्धन्धे चिन्तयेत् ।। शशाङ्कशतसंकाशं सर्वालङ्कारभूषितम् ।। २३ ।। लब्धलक्ष्य स्तत्रापि बुद्धियोगान्नितिर्भवेत् ।। बुद्धिश्च भगवांत्सूर्यः प्रथमं सूर्यमण्डले ॥ २४ ॥ समग्रमेव संपश्येद्ध्यानयोगेन बुद्धिमान् ॥ सूर्यमण्डलमध्यस्थं शतसूर्यसमप्रभम् ॥ २५ ॥ अङ्गुष्ठमात्रं पुरुषं सर्वाभरणभूषितम् ॥ चिन्तयेत्प्रयतो नाम तत्परः सुसमाहितः ॥ २६ ॥ लब्धलक्ष्य स्तत्रापि नित्यमात्मानमात्मना ॥ आत्मस्थमेव संपश्येद्ध्यानयोगेन भार्गव ॥ २७ ॥ अङ्गुष्ठमात्रं पुरुषं सूर्यबिम्बगतं यथा ॥ ध्यानयोगेन संपश्येत्तथा पश्येत्तथात्मनि ॥ २८ ॥ अधोमुखे हृत्कमले कर्णिकायां भूपूत्तम ॥ लब्धलक्ष्य स्तथापि अव्यक्तं चिन्तयेत्पद्मं ॥ २९ ॥ वह्निन्तश्च सर्वत्र तेजसा तत्र चिन्तयेत् ॥ नैवाङ्केन न चन्द्रेण सर्वं व्याप्तमशेषतः ॥ ३० ॥ लब्धलक्ष्य स्तथापि पुरुषं चिन्तयेत्परम् ॥ शून्यं तु पुरुषं ध्यानं प्रवदन्ति मनीषिणः ॥ ३१ ॥ साकारे बद्धलक्षस्तु शून्यं शक्नोति चिन्तितुम् ॥ अन्यथा तु सुखं स्यान्निरालम्बस्य किं न्ततम् ॥ ३२ ॥ चित्तवृत्तिनिरोधो हि दुष्करः प्रतिभाति मे ॥ तत्र यत्नः सदा कार्यो विजये पवनस्य च ॥ ३३ ॥ चित्तवृत्तिनिरोधेन पवनस्य जयेन च ॥ उपासनाया शून्यस्य निष्फलत्वं विधीयते ॥ ३४ ॥ अरूपगण्यमनसं शब्दस्पर्शविवर्जितम् ॥ सर्वेन्द्रियगुणं गम सर्वस्वं सर्वगं च यत ॥३६॥ ( तं ध्यायन्पुरुषं तस्य ध्यानं शून्यं प्रकीर्तितम् ॥) तस्य स्वरूपं विज्ञाय राम शून्यमुपासतः ॥ ३६ ॥ सर्वसम्बन्धमुक्तस्य निष्फलत्वं विधीयते ॥ ३८ ॥ अखण्डकारिणस्त्वंवं नित्यं भृगुकुलोद्वह ॥ ३७ ॥ संवत्सरशते पूर्णे सत्रिभागं महाभुज ॥ निष्फलत्वं परं स्थानं ध्रुवं भवति भार्गव ॥ ३८ ॥ राम उवाच ॥ संवत्सरशतं पूर्णं त्रिभागसहितं विभो ॥ अजीवतो निष्फलत्वं कथं भवति शङ्कर ॥ ३९ ॥ शङ्कर उवाच ॥ अखण्डकारी भवति यद्येकमापि जन्मनि ॥ जन्मक्रमादवश्यं हि राम जन्मनिजन्मनि ॥ ४० ॥ पूर्णांशं सत्रिभागं ध्रुवं तेन समाः शतम् ॥ अनेकजन्मसंसिद्धस्ततो याति परां गतिम् ॥ ४१ ॥ अखण्डकारिणो राम प्रवृत्तस्य द्विजन्मनः ॥ अवश्यमेव तत्स्थानं याहिष्णोः परमं पदम् ॥ ॥ ४२ ॥ राम उवाच ॥ अखण्डकारिता प्रोक्ता त्वया देव द्विजन्मनाम् ॥ शूद्रो वा यदि वा नारी कथं स्थानमवाप्नुयात् ॥ ४३ ॥ शङ्कर उवाच ॥ अखण्डकारिणी पत्नी प्राप्नोति परमं पदम् ॥ शूद्रः स्वकर्मनिरतः केशवार्पितमानसः ॥ ४४ ॥ जात्यन्तरमथासाद्य भक्तियोगेन भावितः ॥ अखण्डकारी भवति ततः प्राप्नोति तत्पदम् ॥ ४५ ॥ मार्कण्डेय उवाच ॥ एतावदुक्तं देवेन त्र्यम्बकेण महात्मना ॥ तदा तुष्टेन रामाय रहस्यं


१ कोष्ठान्तर्गतः पाठः बहुपुस्तके नास्ति । २ 'अखण्डकारिणः' इति ख० ।

वि० ध०प्र० खं०
अ० ६६

ऋषिप्रपूजितम् ॥ ४६ ॥ एतद्भक्तिविहीनाय न तु वाच्यं यदृच्छया ॥ न नास्तिकाय मूर्खाय तर्कदुष्टाय वा तथा ॥ ४७ ॥ एतच्छृण्वते वाच्यं शिष्याय च सुताय च ॥ यो वा दद्यान्महीं कृत्स्नां सशैलवनकाननाम् ॥ ४८ ॥ एतद्ब्रह्म परं पुण्यं पवित्रं पापनाशनम् ॥ आयुष्यं च यशस्यं च कलिदुःस्वप्ननाशनम् ॥ ४९ ॥ अध्येतव्यमिदं सम्यग्वचनं शंकरस्य च ॥ सर्वबन्धविनिर्मुक्तः प्राप्नोति परमं पदम् ॥ ५० ॥ एतावदुक्तं त्रिपुरान्तकेन तुष्टेन रामस्य महाबलस्य ॥ मया तथा तेऽभिहितं नरेन्द्र धार्यं त्वयेदं सततं यथावत् ॥ ५१ ॥ इति विष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे शार्ङ्गगीतासमाप्तिर्नाम पञ्चषष्टितमोऽध्यायः ॥ ६५ ॥ ॥ मार्कण्डेय उवाच ॥ ॥ कैलासशिखरे रम्ये रामस्य रमतस्तदा ॥ आजगाम हरं द्रष्टुं देवदेवः पुरन्दरः ॥ १ ॥ स समासाद्य देवेशं प्रणम्य वृषभध्वजम् ॥ उवाच वचनं सम्यक्स मुदा रामस्य सन्निधौ ॥ २ ॥ शक्र उवाच ॥ त्वत्प्रसादेन देवेश मया प्राप्तं त्रिविष्टपम् ॥ रामेण घातिताः सर्वे यथा मे देवशत्रवः ॥ ३ ॥ अवध्यास्त्रिदशानां ये वरदानबलोद्धताः ॥ नरवध्याः कृतास्ते हि ब्रह्मणा सुमहात्मना ॥ ४ ॥ पातालनिलया देव अवध्या देवनागयोः ॥ वाध्यन्ते नरवध्या मलोकानां च जगत्पते ॥ ५ ॥ तांश्च घातय देवेश रामेणाक्लिष्टकर्मणा ॥ मार्कण्डेय उवाच ॥ एवं करिष्यतीत्युक्त्वा विसृज्य त्रिदशेश्वरम् ॥ ६ ॥ उवाच वचनं रामं भार्गवं पुरतः स्थितम् ॥ शङ्कर उवाच ॥ गच्छ भार्गव पातालं पातालनिलयाञ्जहि ॥ ७ ॥ राक्षसांन्दुष्टाचारान्ब्राह्मण्यान्महासुरान् ॥ वैष्णवं चापमेतत् ते मया न्यस्तं पितुः करे ॥ ८ ॥ तदादाय शार्ङ्गिणाँस्त्रिजहि तान्राम दानवान् ॥ अक्षयं तूणमादाय शरपूर्णमिदं तथा ॥ ९ ॥ मार्कण्डेय उवाच ॥ एवमुक्त्वा ददौ चास्य तूणमक्षयसायकम् ॥ दत्त्वा च भगवानाह रामं परबलार्दनम् ॥ १० ॥ शङ्कर उवाच ॥ तूणमेतन्महात्म्यं त्वयागम्याथ भार्गव ॥ चापमेतत्तु रामाय कृते कर्मणि सुव्रत ॥ ११ ॥ अगम्योऽपि महातेजास्तत्तूणमक्षयसायकम् ॥ राघवायतिवीर्याय रामायैव प्रदास्यति ॥ १२ ॥ रामसंदर्शनाद्देव मा कृथाः शस्त्रधारणम् ॥ रामसंदर्शने राम तव तेजो दिवा वैष्णवम् ॥ १३ ॥ रामं प्रवेक्ष्यति तदा सुरकार्यार्थमुपार्जितम् ॥ यावत्त्वं तेजसा युक्तो वैष्णवेन परंतप ॥ १४ ॥ तावच्छत्रूगणान्सर्वान्समरेषु विजेष्यसि ॥ स्थातुं न शक्तास्तव दैत्यमुख्या अथापि चायुधस्य प्रभावे द्विजेन्द्र ॥ आदाय चापं युधि वैष्णवं तत्पुण्यं नित्यं जहि देवशत्रून् ॥ १५ ॥ इति श्रीविष्णुधर्मोत्तरे मा० नृ० प्रथमखण्डे रामं प्रति शङ्करानुशासनं षट्षष्टितमोऽध्यायः ॥ ६६ ॥ राम उवाच ॥ वैष्णवं चापमेतत्


॥ ४० ॥ | ॥ ४० ॥

१ 'गुणाञ्चितः' इति ख० । २ 'सर्वव्याधिविनिर्मुक्तः' इति ग० ।

तत्किमर्थं भवता करे ॥ न्यस्तं च तन्मे भगवाँश्चापरत्वं च कीदृशम् ॥ १ ॥ शङ्कर उवाच ॥ माया हि वैष्णवी राम यया संमोहिताः पुरा ॥
देवाश्च ऋषयश्चैव गत्वान्तः प्रणताः स्थिताः ॥ २ ॥ यजतां परमाधारं देवं कमलसंभवम् ॥ भूतमव्यभिविष्ण्वस्य पृष्टं लोकनमस्कृतम् ॥
॥ ३॥ देवा ऊचुः ॥ वासुदेवस्य देवस्य महादेवस्य चाप्यथ ॥ अन्तरं ज्ञातुमिच्छामः कः कस्मादतिरिच्यते ॥ ४ ॥ शङ्कर उवाच ॥ एवमुक्तस्सुरैः
सर्वै ऋषिभिश्च पितामहः ॥ विहस्योवाच तान्सर्वांस्त्वन्तर्गत्वो परस्परम् ॥ ५ ॥ ब्रह्मोवाच ॥ जनयध्वं सुराः सर्वे विरोधमृषिभिस्सह ॥
विरोधे तु समुत्पन्ने तयोर्युद्धं उपस्थिते ॥ ६ ॥ ज्ञास्यध्वमन्तरं देवास्तयोर्नास्त्यत्र संशयः ॥ शङ्कर उवाच ॥ एवमुक्ताः सुराः सर्वे सर्षयश्चैव
गणैस्तदा ॥ ७ ॥ आवयोर्जनयामासुर्बिरोधं भृगुनन्दन ॥ विष्णोरधिक्यमन्विच्छंस्तस्य मायाविमोहिताः ॥ ८ ॥ कृतवानस्मि देवेन त्व
वाक्येन विग्रहम् ॥ प्रभावदर्शनार्थाय त्वावयोर्द्विधे तदा ॥ ९ ॥ आसन्नमभवद्युद्धं सर्वसत्त्वभयङ्करम् ॥ आवयोर्भृगुशार्दूल तदा युद्धे उप
स्थिते ॥ १० ॥ आजगामाथ तं देशं ब्रह्मा सुरगणैर्युतः ॥ देवा ब्रह्मर्षयश्चैव तथा राजर्षयोऽमलाः ॥ ११ ॥ सर्वेषां समवेतानामावयोर्युद्धसंगरे ॥
उवाच वचनं ब्रह्मा सर्वलोकनमस्कृतः ॥ १२ ॥ ब्रह्मोवाच ॥ न कर्तव्यं जगन्नाथौ युद्धं परमदारुणम् ॥ युष्मद्युद्धेन सकलं नश्यतीदं
जगत्त्रयम् ॥ १३ ॥ गृहीतं चापरत्नं यत्स्वयं देवेन चक्रिणा ॥ तदारोपयतां शूली शूलिचापं जनार्दनः ॥ १४ ॥ ज्ञास्यामि चान्तरं देवौ
चापारोपणकर्मणा ॥ शङ्कर उवाच ॥ एवमुक्ते मम कराद्धनुर्जग्राह केशवः ॥ आरोपितं न मे शक्तिः सर्वयत्नेन चाभवत् ॥ १५ ॥ ततश्च
गतमोहेन मया ज्ञातो महेश्वरः ॥ ज्ञात्वा विष्टुष्टचापेन स्तुतश्च भगवांस्तदा ॥ १६ ॥ नमोऽस्तु ते देववराप्रमेय नमोऽस्तु ते सर्वगु
णात्मताय ॥ नमोऽस्तु ते देवगणार्चिताय नमोऽस्तु ते सर्वगुणोत्तराय ॥ १७ ॥ उन्मेषमात्रेण तवाप्रमेय दिनं समग्रं प्रपितामहस्य ॥
निमेषमात्रेण निशा प्रदिष्टा यस्यां समादाय जगत्स शेते ॥ १८ ॥ न कारणं वेत्सि तवेश सृष्टौ संहारकार्ये च तथा न वेद्मि ॥ आद्यं न मध्यं
न तथैव चान्तं त्वमेक ईशः पुरुषः पुराणः ॥ १९ ॥ सर्वेषु भूतेषु तथा स्थितस्त्वं सर्वाणि भूतानि तथा तवेश ॥ भूतान्तरस्थोऽपि न भूतसंस्थ
आश्चर्यमेतन्मम देवदेव ॥ २० ॥ भूतान्तरस्थोपि न भूतनाथः भूताजितैः कर्मभिरायस्ये त्वम् ॥ कर्माणि सर्वाणि जगतस्त्वमस्य धर्मे सदा
यन्महदद्भुतं तत् ॥ २१ ॥ गन्धः पृथ्वियां च रसोऽप्सु देव वायौ यथा स्पर्शगुणस्त्वदीयः ॥ रूपं तथाग्नौ गगने च शब्दो गुणाः समाप्तास्त्व
भूतसंघे ॥ २२ ॥ मनोगतस्त्वं च तथा वितर्को बुद्धौ गतस्त्वं च विनिश्चयोऽत्र ॥ चिद्रूपमात्मन्यथ देवदेव अव्यक्तसंस्थस्य गुणत्रय

त्त्वम् ॥ २३ ॥ त्वमेव भूतानि च तद्गुणाश्च मूर्त्तिर्विभिन्नैर्न भूतैर्विभिन्नः ॥ तत्त्वानि सर्वाणि च तद्व्यतीतः त्वमेव देवः पुरुषः प्रदिष्टः ॥ २४ ॥
तवेच्छया स्यात्सकला त्रिलोकी तवेच्छया देव तथा विनश्येत् ॥ इत्थंविधस्यानघ कर्मणस्ते स्तुतिः कथं स्यात्परमस्य धाम्नः ॥ २५ ॥ एवं
स्तुतो देववरो मयासावुवाच मां देवगणस्य मध्ये ॥ गोऽहं स देवः परमेश्वरस्त्वं गोऽहं स देवः प्रपितामहश्च ॥ २६ ॥ आश्रित्य मूर्त्तित्रितयं मयेदं
कर्मत्रयं शङ्कर साध्यते वै ॥ उत्पत्तिनाशौ परिपालने च कालेऽस्य शङ्कर देवकार्यात् ॥ २७ ॥ मूर्त्तिमन्माया जगतां तवेयं संहारकार्यार्थसुदीर्णदर्पा ॥
त्वमुग्रमेवः कारणाकारणानां पूज्यश्च सर्वेश्वर सर्वदेवैः ॥ २८ ॥ ये त्वां नमस्यन्ति जगत्प्रधानं भक्तिं परां ये च वहन्ति तुभ्यम् ॥ भक्त्या च नित्यं
तव पूजयन्ति स्थानं हि तेषां सुलभे मदीयम् ॥ २९ ॥ मदीयमेतत्तुहवि चापरंत्वं प्रदीयतां भार्गवनन्दनाय ॥ ऋचीकपुत्राय गुणाधिकाय तस्मात्स्य
माहास्याति तस्य पुत्रः ॥ ३० ॥ स तेन चापेन निहत्य शत्रून्कृत्वा च लक्ष्मीं वसुधां सुरेश ॥ तञ्चापरत्नं भुवि राघवाय प्रदास्यते गाम इति
श्रुताय ॥ ३१ ॥ कृत्वा स रामोपि हि तेन कर्म प्रदास्यते तद्गुणाय चापम् ॥ तस्मात्समादास्यति फाल्गुनोऽपि देवार्थकार्येकरुणिर्महात्मा ॥ ३२ ॥
स्वं चापरत्नं जनकस्य देहि निमित्तनाम्ना भुवि शङ्किताय ॥ तेनापि चापेन स तत्सुतो राजा महस्कर्म करिष्यतीति ॥ ३३ ॥ एतावदुक्त्वा भगवां
न्महात्मा जगाम काष्ठां मनसस्त्वभीष्टाम् ॥ मया तथा ते भुवि चापरत्ने द्विजप्रथान क्षितिषेषु दत्ते ॥ ३४ ॥ गृहेऽथवं चापवरं पितुस्ते न्यस्तं करे
वाङ्कृतिकृत्यरुपेव ॥ तदेवकार्येण विना न शक्यं केनाप्यविज्य भुवि गाम कर्तुम् ॥ ३५ ॥ अजातवस्तुचरितं सुकार्यदक्षं गोविन्दवाहुविटपाथ
वलब्धमानम् ॥ न्यस्तं पुरा पितृकरे तव युद्धशौण्ड चैत्यं मया हविरुचः परमम्धिय राम ॥ ३६ ॥ इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मा०सं० वैष्ण
वधनुःप्रादुर्भावो नाम सप्तषष्टितमोऽध्यायः ॥ ६७ ॥ मार्कण्डेय उवाच ॥ एवमुक्तस्तदा रामो देवदेवेन शम्भुना ॥ प्रणम्य शिरसा देवं पार्वतीं
वरदां तथा ॥ १ ॥ प्रमथैश्च परिष्क्तस्सोत्कण्ठेनतागतमना ॥ जगामाश्रममुद्दिश्य पितुः परबलार्द्दनः ॥ २ ॥ सोऽचिरेणैव संप्राप्य दुर्दर्शश्रम
मण्डले ॥ वयोवृद्धं तपोवृद्धं पितरं दीप्ततेजसम् ॥ ३ ॥ सोऽभिवाद्य पितुः पादौ मातुश्च परवीरहा ॥ भ्रातृणामातृपूर्वञ्च धर्मनित्यो जितेन्द्रियः ॥
॥ ४ ॥ तैश्च सूर्य्यानुप्राप्तः मानितस्तस महातपाः ॥ स मत्प्रसादं पृष्टश्चेत्युक्त्वा सर्वमशेषतः ॥ ५ ॥ आख्यातवांस्ततः पश्चात्पातलागमनं तदा ॥
आसनं देवकार्यं च चापरत्नं च वैष्णवम् ॥ ६ ॥ जमदग्निर्महातेजाः श्रुत्वा रामवचस्तदा ॥ चापनं च रामाय प्रददौ देवपूजितम् ॥ ७ ॥ दत्त्वोवाच
स तं रामं हुताशनसमप्रभम् ॥ पश्चिमं समुद्देश्य प्रविश्य वरुणालयाम् ॥ ८ ॥ संपूज्य वरुणं रामस्तस्यैवदितुमतं तदा ॥ शक्राशंहुदुरावरानपालनाल निलय

असि ॥ अनेन चापरत्नेन वैष्णवेन महाबल ॥ दैत्यान्संगरे हत्वा गत्वा च वरुणालयं ॥ १० ॥ पृष्टव्यो वरुणो देवस्त्वया धर्मभृतां वरः ॥ स पुत्र वरुणाद्धीमुं^१क्त्वा राम यथाविधि ॥ ११ ॥ आगच्छेद्या यथाकालं मत्समपं महाभुज ॥ एवमुक्तस्तदा रामः पित्रा धर्मभृतां वरः ॥ १२ ॥ पितरं मातरं भ्रातॄनभिवाद्य यथाविधि ॥ जगाम वरुणावासं रामो वैश्वानरद्युतिः ॥ १३ ॥ स प्रविश्य समुद्रं महादेवप्रसादातः ॥ ततोऽपश्यं नगरं रामो ददर्श पुरुषोत्तमम् ॥ १४ ॥ मनोऽभिरां स्फटिकाश्मचित्रं उपेन्द्रनागेन्द्रकुलं च ॥ विसर्पितं पन्नगदैत्यनाथैर्द्यावापृथिव्याशत संकुलं च ॥ १५ ॥ इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मा०सं० रामस्याश्मनगरदर्शनं नामाष्टषष्टितमोऽध्यायः ॥ ६८ ॥ मार्कण्डेय उवाच ॥ तस्मिन्पुरे रम्ये रत्नचित्रसभागतम् ॥ रत्नवासनगतं वीरं चारुकुण्डललोचनम् ॥ १ ॥ स्निग्धवैदूर्यसंकाशं शुक्लाम्बरविभूषितम् ॥ हार भारापिंततनुं चारुकेयूरधारिणम् ॥ २ ॥ प्रवालमणिमुक्ताढ्यं गम्भीरं भुजगाश्रयम् ॥ किरीटेनार्कसंशन्नं यादोगणसमाश्रयम् ॥ ३ ॥ आदित्य मुदकावासमंशभृतं पतिर्मूर्जितम् ॥ लोकनाथं महद्भूतं भक्तानामभयप्रदम् ॥ ४ ॥ विष्णोर्भागं विशालाक्षं विशालाक्षं महाभुजम् ॥ पूज्यमानं महाभागैर्जलैशैर्न्नागैस्तथा ॥ ५ ॥ दैत्यैश्च महाभागैर्भीमभीमपराक्रमैः ॥ सुन्दोपसुन्दशक्राक्षबाणरमरकण्टकैः ॥ ६ ॥ दृश्यग्रीवमहाभीमै र्वदृश्राश्र्वासुरान्तकैः [^१॥ भीमभीमाक्षनक्रविकटोत्कटमारणैः ॥ ७ ॥ अतिकायमहाकायभीमकायबलोद्धतैः ॥ नगैश्च सुमहाकायैर्नागैश्चापी महाभोगैर् गदिंदैतैः ॥ ८ ॥ नागराज्ञा वासुकिना शङ्खेन करुणार तथा ॥ (महापद्मेन पद्मेन कर्कोटकेनचैजयैः ॥ ९ ॥ ऐरावतेन नागेन तक्षकेण बलेन च ॥ कंबलाश्र्वतराभ्यां च ह्वार्यकेण महात्मना ॥ १० ॥ ) बालव्यजनहस्तास्तमुपवीर्जन्ति निम्बगाः ॥ गङ्गा च चमू राजन् वितस्ता यमुना तथा ॥ ११ ॥ इरावती चन्द्रभागा नर्मदा च महानदी ॥ पयोष्णी ब्राह्मणी गौरी विपाशा देविका तथा ॥ १२ ॥ शतद्रुः कम्पना सिन्धुस्तथा चान्यास्तसहस्रशः ॥ सेव्यमानस्तया कूपैस्तथादोश्च सवियहैः ॥ १३ ॥ सरोवरेस्तसागरैश्च सपुद्देश्व यदत्तम ॥ तं दृष्ट्वा वरुणं राजन्स ववन्दे भृगुत्तमः ॥ १४॥ पूजयामास च तथा वरुणोऽपि भृगूत्तमम् ॥ पाद्यार्थ्याचमनीयौघैरासनेनोदकेन च ॥ १५॥ आसीनश्च तदा रामो दैत्यानां वधं वृत्तः ॥ महादेववचस्तत्त्वं वरुणाय न्यवेदयत् ॥ १६ ॥ स च तेनाभ्यनुज्ञातो ययौ दैत्यपुरं महत् ॥ वरुणोऽपि महातेजा रामवाक्येन यादव ॥ १७ ॥ संवाद्यामास तदा रामं रणकृतक्षणम् ॥ तदा वरुण्डूतेम्यो दैत्याः श्रुतिविस्तराः ॥ १८ ॥ निष्क्रम्यः नगराद्राजंश्चतु


१ कोष्ठान्तर्गतः पाठः खपुस्तके नास्ति ।

वि० ध० ॥ ४२ ॥

प्र० खं० अ० ७०

रङ्गबलान्विताः ॥ मुसन्नद्धाः प्रतीक्षन्तो राममद्भुतविक्रमम् ॥ १९॥ ददृशुश्च महाभागं वरचापधरं तदा ॥ मृत्योर्मुखमिवाद्वैयं लोकाकर्षणतत्परम् ॥ २०॥ दीप्तांशुजालं रणचण्डवेगं धनुर्धरं कालमिवप्रकाशम् ॥ महानुभावं समरेष्वजेयं लेलिहमानं भुजगेन्द्रवाहूम् ॥२१॥ इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मा० सं० वरुणादिदर्शनं नामकोनसप्ततितमोऽध्यायः ॥६९॥ मार्कण्डेय उवाच ॥ सन्नद्धं दानवाणां पताकाशतसंकुलम् ॥ नानाप्रका र्वादित्रं सिंहनादबलोद्धतम् ॥ १ ॥ दृष्ट्वा रामो महातेजाः सज्जं चक्रे महद्धनुः ॥ शरैस्संस्यादयामास दैत्यसैन्यं महाबलम् ॥ २ ॥ अभ्रच्छायेन संजज्ञे राममुक्तैश्शिलोन्मुखैः ॥ तिर्यगूर्ध्वमधश्चैव शरैर्व्याप्तं समन्ततः ॥ ३ ॥ चापमण्डलमध्यस्थः परिवेषीव भास्करः ॥ दृष्टमात्रेण सैन्यानां चक्षूं ष्यपहरन्निव ॥ ४ ॥ शरन्धकारे मग्नास्ते दानवा दुष्टचेतसः ॥ रामसन्दशनादेव दृष्टैर्दन्ते कोशिका यथा ॥ ५ ॥ मू दानवानां व्यमृजन्नामा भाति शिलोसुखान् ॥ सदा नवांनां मधुकुसुमानां शिलीमुखः ॥ ६ ॥ शरान्धकारे महति मग्नो मतिमत्तो वरः ॥ मायां कृत्वा तदामायो तं ददाह शरोत्करम् ॥ ७ ॥ शरान्धकारगहनान्निष्क्रान्तास्ते दितेः सुताः ॥ भार्गवं कोटिकृत्य रणे विभिदुरक्षमा ॥ ८ ॥ प्रचण्डधन्वनांगार्चिर्व रसन्दन्तस्सचुहुर्कैः ॥ वराशक्रणेर्महद्भिश्शुरश्रेष्ठैकटाननैः ॥ ९ ॥ तोमरेर्भिन्दिपालैश्च पाषाणैलगुडैःक्षुमैः ॥ खड्गैः प्रासस्तथा चक्रैर्गदासुमल कम्पतैः ॥ १० ॥ परिधैरायसैश्शूलैर्विशिखैश्शक्तिभिस्तथा ॥ स बाध्यमानोऽपि रणे दैत्यनाथायुधोत्करैः ॥११॥ न विव्यथे महातेजा हुताहुतिरिव वानलः ॥ यदा शस्त्रप्रहारैस्तं न शेकुस्सगरे द्विजम् ॥ १२ ॥ हन्तुं दैत्यवरा युद्धे चकुरंग्रं तदा महत् ॥ अथश्शृङ्गमहैस्तेजा गजा दैत्यगु णस्य यः ॥ १३ ॥ समैतर्दानवैस्सार्धं रामं रणकृतक्षणम् ॥ शरैः संच्छादयामास दिव्यास्त्रप्रतिमान्नैर्तैः ॥ १४ ॥ अस्त्रैरस्त्राणि संवार्य दानवेन्द्रम्य भार्गवः ॥ चिच्छेद सशरं चापं रुक्मदण्डं तथा ध्वजम् ॥ १५ ॥ सारथेश्च शिरः कायाच्छिछन्नंवाणैर्विसुषितम् ॥ एतत्कृत्वा रणे कर्म दक्षिण स पाणिना ॥ १६ ॥ जगा्रह परशुं तीक्ष्णं दैत्यकायविदारणम् ॥ पद्ध्यामाक्रम्य वेगेन समरे स्थकूरसम् ॥ १७ ॥ निर्जवानपादवेगेन कृत्वा तुरगसत्तमान् ॥ गदया च स्थस्यस्य दानवेन्द्रस्य संयुगे ॥ १८ ॥ जहार सशिरस्त्राणं गिरो ज्वलितकुण्डलम् ॥ अथःशङ्गे हते दैत्ये भार्गवं ममर् तदा ॥ १९ ॥ सर्वं दैत्यगुणाः क्रुद्धाऽच्छाद्यामासुस्रजंस्तथा ॥ अबधुञ्जे रणे च्छित्त्वा तेषां भुजकुलोद्भवः ॥ २० ॥ रणे चिच्छेद गात्राणि शिरांसि च महातपाः ॥ क्षणमात्रेण रामोऽपि दैत्यदेहसमाकुलम् ॥ २१ ॥ शोणितौघेनदीं चक्रे केशशैवालशाद्वलम् ॥ बाणमीनां चापनक्रां छत्रहंसावलीं तथा ॥ २२ ॥ प्रेतलोकप्रणिवगामां भीरुकल्पवर्द्धनीम् ॥ हस्तिशीर्षोपलां रोद्रां चारुपत्तुच्छ्प्रन्नगाम् ॥ २३ ॥ एवं विषेऽपि संवृत्ते रणं कर्मणि

॥ ४२ ॥

दानवाः ॥ तं राममक्षतं दृष्ट्वा हतशेषाः प्रदुद्रुवुः ॥ २४ ॥ मयताम्रप्रभृतयः पुरं च विविशुस्तदा ॥ पलायमानान्समरे न जघान स भार्गवः ॥ २५ ॥ किंचिच्छेषेषु दैत्येषु विनिवृत्तस्तदा रणात् ॥ हतैर्दैत्यायुतगणै रामोऽभ्यन्तरं ययौ ॥ २६ ॥ रामप्रवेशे नगरं वरुणस्याज्ञया तदा ॥ पताकाध्वजसंबाधं कृतं देवैर्विशेषवत् ॥ २७ ॥ नागैश्च दानवैश्चैव सिक्तं चन्दनवारिणा ॥ धूपपुञ्जैः सुसिक्तं कुसुमोत्करमण्डितम् ॥ २८ ॥ ततश्च सुमहातेजा वरुणस्तु विनिर्गतः ॥ पुत्रैः पौत्रैः परिवृतो रामग्रहणकारणात् ॥ २९ ॥ संपूज्य रामं वरुणो रथमारोप्य च स्वकम् ॥ प्रवेशयामास पुरं बहुतूर्यपुरस्कृतम् ॥ ३० ॥ रामप्रवेशे च तदा नृत्यन्त्योऽप्सरसां गणाः ॥ गन्धर्वानुगता दिव्या गायन्ति संस्तुवन्ति च बन्दिनः ॥ ३१ ॥ स प्रविश्याथ नगरं वरुणस्य तथा गृहम् ॥ उवास तत्र धर्मात्मा वरुणेन सुपूजितः ॥ ३२ ॥ धर्माणामागमं कृत्वा वरुणात्सुसुतात्तदा ॥ ३३ ॥ एवं स रामः परवीरघाती संप्राप्य यादोगणनाथवेश्म ॥ उवास पुत्रैर्वरुणस्य सार्धं संपूजितस्तेन जलेश्वरेण ॥ ३४ ॥

इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे अयःशङ्कवो नाम सप्ततितमोऽध्यायः ॥ ७० ॥

॥ वज्र उवाच ॥ यत्स शुश्राव धर्मात्मा वरूणाद्भृगुनन्दन ॥ तन्ममाचक्ष्व तत्त्वेन परं कौतूहलं हि मे ॥ १ ॥

॥ मार्कण्डेय उवाच ॥ जमदग्निसुतो रामो वरुणस्य गृहोषितः ॥ कदाचिद्वरुणं देवमिदं वचनमब्रवीत् ॥ २ ॥

॥ राम उवाच ॥ नमस्ते देवदेवेश सुरासुरगणार्चित ॥ गोब्राह्मणहितासक्त यादोगणजलेश्वर ॥ ३ ॥ त्वं तस्य देवदेवस्य विष्णोरमिततेजसः ॥ अयनमृषिभिर्ध्येयं विष्णुर्नारायणः स्मृतः ॥ ४ ॥ त्वमेवेदं जगत्सर्वं स्थावरं जङ्गमञ्च यत् ॥ ब्रह्मा विष्णुश्च रुद्रश्च त्वच्छरीरे समाश्रिताः ॥ ५ ॥ त्वमिन्द्रस्त्वं च धनदस्त्वमीशस्त्वं समीरणः ॥ त्वमग्निस्त्वं यमश्चैव सर्वाधारस्त्वमच्युतः ॥ ६ ॥ देवानामीश्वरश्चैव नागानामधीश्वरस्तथा ॥ सागराणां च सरसां सरितां च महाभुज ॥ ७ ॥ कूपवापीतटाकानां शौचस्य परमस्य च ॥ विष्णोर्वामस्य नेत्रस्य शशाङ्कस्य महात्मनः ॥ ८ ॥ त्वन्मयं मण्डलं देव त्वन्मयास्सर्वतारकाः ॥ त्वमेव सरितां नाथस्समुद्रो यादसां पतिः ॥ ९ ॥ आधारस्सर्वभूतानां विधाता च जगत्पते ॥ त्वन्मयो देहिनां प्राणो जीवो रुधिरसंज्ञकः ॥ १० ॥ सोमस्त्वं प्राणिनां देव सर्वदेवमयो विभुः ॥ भवता संयताः पाशेन दानवा देव दारुणैः ॥ ११ ॥ पातालागारमाश्रित्य भवांस्तिष्ठति निर्भयः ॥ मेरुपृष्ठे च भगवन्पुरी ते देवनिर्मिता ॥ १२ ॥ तृतीया च महाभाग मानसोत्तरमूर्धनि ॥ पुत्रैश्च त्वं वससि प्राकाम्येन जलेश्वर ॥ १३ ॥ सर्वत्र पूज्यसे देवैस्सर्वभूतभवोद्भव ॥ आधारस्त्वं हि तपसां शौचानां


१ 'जगाम' इति ख० ।

वि० ध०
॥ ४२ ॥
प्र० सं०
अ० ७२
॥ ४३ ॥

भुवनस्य च ॥१४॥ त्रैलोक्यं सकलं देव प्रकृतिर्विकृतिश्च ते ॥ ममापि सुमहाभाग प्रसादसुमुखो ह्यसि ॥ १५॥ तत्समाचक्ष्व भगवांश्छिन्न संशयान्मन्मसि
स्थितान् ॥ वरुण उवाच ॥ यथास्ति ते संशयमत्राहं छेत्तास्मि ते तत्र न संशयोऽत्र ॥ यथा ममाशीविषरान्तकोऽसौ तथा भवान्मे रणचण्डवेगः ॥
॥१६॥ इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मा०सं० श्रीपरशुरामवरुणकृतस्तोत्रो नामैकसप्ततितमोऽध्यायः॥७१॥ राम उवाच ॥ स्निग्धवर्षोपसंक्लेश
यादोगणजलेश्वर ॥ त्वत्तोहं श्रोतुमिच्छामि कालसंख्यां महाभुज ॥ १ ॥ वरुण उवाच ॥ अनादिनिधनः कालो रुद्रःसंकर्षणः स्मृतः ॥ सर्वभूत
समत्त्वाच्च स तु रुद्रः प्रकीर्तितः ॥ २ ॥ अनादिनिधनत्वेन स महान्परमेश्वरः ॥ निमेषादपि सूक्ष्मत्वात्संस्मृतस्त्वेतरे ह्यति ॥ ३ ॥ तस्य
सूक्ष्मातिसूक्ष्मस्य कालस्य परमेष्ठिनः ॥ दुर्विभाव्या महाभाग योगिनामपि सूक्ष्मता ॥ ४ ॥ पद्मपत्रसहस्रं तु सूच्या वै भिद्यते यदा ॥
समकालं तु तद्भिन्नमबुधो मन्यते जनः ॥ ५ ॥ कालक्रमेण तद्भिन्नं सा तस्य द्विज सूक्ष्मता ॥ तस्य सूक्ष्मातिसूक्ष्मस्य न चातिसहते द्विजा ॥ ६ ॥
नामसंख्यां बुधैर्ज्ञेया ग्रहगत्यनुसारतः ॥ तत्र ताराग्रहाः पञ्च द्वौ च ज्ञेयौ महाग्रहौ ॥ ७ ॥ उभयोश्च द्वौ ज्ञेयावेवं प्रोक्ता नव ग्रहाः ॥
भौमज्ञजीवशुक्रमन्दौस्मरास्ताराग्रहास्स्मृताः ॥ ८ ॥ चन्द्रादित्यौ तथा राम विज्ञेयौ द्वौ महाग्रहौ ॥ उभयोश्च द्वौ ज्ञेयौ राहुः केतुश्च भार्गव ॥ ९॥
चण्डक्रगत्या कालस्य परिच्छेद्सुखो यदा ॥ तदा तयोः प्रवक्ष्यामि गतिमाश्रित्य भार्गव ॥ १० ॥ भगणेन समयेन ज्ञेया द्वादश राशयः ॥
त्रिंशांशश्च तथा राशेर्भाग इत्यभिधीयते ॥ ११॥ आदित्याद्विप्रकृष्टस्तु भागे द्वादशके तथा ॥ चन्द्रमास्यात्तदा राम मासाद्येन न संशयः
॥ १२ ॥ भागद्वादशकेनैव तिथ्यांस्तिथ्यां क्रमेण तु ॥ चन्द्रमाः कृष्णपक्षान्ते सूर्येण सह युज्यते ॥ १३ ॥ सन्निकर्षपदार्थम्य सन्निकर्षमथा
परम् ॥ चण्डांकेर्बुधैर्मासश्चान्द्र इत्यभिधीयते ॥ १४ ॥ सावने च तथा मासि त्रिंशत्सूर्योदयास्स्मृताः ॥ आदित्यराशियोगेन सौरो मासः
प्रकीर्तितः ॥ १५ ॥ सर्वेषांमपिचैतेषां नाक्षत्रो मास इष्यते ॥ तिथिर्नैकेन दिवसश्चान्द्रमाने प्रकीर्तितः ॥ १६ ॥ अहोरात्रेण चैकेन सावनो
दिवसस्स्मृतः ॥ आदित्यभागभागेन सौरो दिवस उच्यते ॥ १७ ॥ चन्द्रनक्षत्रभोगेन नाक्षत्रो दिवसस्स्मृतः ॥ माने मासस्तु नाक्षत्रः सत्रिं-
शत्त्रिभिर्दिनैः ॥ १८ ॥ पूर्णेष्वेषु मासेषु मासस्त्रिंशद्दिनः स्मृतः ॥ सौरेणार्षाद्बस्तु मासेन पदा भवति भार्गव ॥ १९ ॥ सावनेन तु मानेन दिवसै-
केन पूर्यते ॥ उत्तराणाञ्च ते गम प्रोक्तास्संवत्सरेण षट् ॥ २० ॥ सांवत्सरम्यान्ते मानेन शशिनन तु ॥ एकादशातिरिच्यन्ते दिनानि


१ 'सूक्ष्मात्सूक्ष्मततो बस्ति' इति क० । २ 'तन्नातिसहतो' इति ख० । ३ 'मानसंज्ञां' इति ब० । ४ 'दृष्टच्छेदस्तु यदा' इति ल० । ५ 'सन्निकर्षादथापरम्' इति ख० ।

भृगुनन्दन ॥ २१ ॥ संमाह्वये साष्टमासे दिनषोडशकान्विते ।१ नाडीचतुष्टयान्ते तु तस्मान्मासोऽतिरिच्यते ॥ २२ ॥ स चाधिमासकः प्रोक्तः काम्यकर्मसु गर्हितः ॥ यदा चान्द्रेण मानेन पूर्णस्संवत्सरो भवेत् ॥ २३ ॥ तदा नाक्षत्रमानेन स मासो वार्षिको भवेत् ॥ एवं कालस्य सूक्ष्मस्य प्रोक्तं मानतदुद्भवम् ॥ २४ ॥ येनेयेन च मानेन यद्यत्कार्यं निबोध तत् ॥ २५ ॥ अब्दायनं तु ग्रहचारकर्म सौरेण मानेन सदा व्यवस्येत् ॥ सत्राण्युपास्त्यान्यथ सावनेन लोके च यत्स्याद्व्यवहारकर्म ॥ २६ ॥ स्यात्पूर्वकालक्षयपूरणार्थं चान्द्रेण मानेन युगं च राज्ञः ॥ नक्षत्रसत्राण्ययनानि चेन्दोर्मानेन कुर्याद्गणनात्मकेन ॥२७॥ इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मा०सं०वरुणं प्रति परशुरामप्रश्नेऽर्कादिमासवर्णनं नाम द्विसप्ततितमोऽध्यायः ॥ ७२ ॥ वरुण उवाच ॥ लघ्वक्षरसमा मात्रा निमेषः परिकीर्तितः ॥ १ ॥ अतः सूक्ष्मतरः कालो नोपलभ्यो भृगूत्तम ॥१॥ नोपलभ्यं यथा दृश्यं सूक्ष्मं परमाणुतः ॥ द्वौ निमेषौ त्रुटिज्ञेया प्राणो दशत्रुटिः स्मृतः ॥ २ ॥ विनाडिका तु षट्प्राणास्ताः षष्टिनार्डिका मता ॥ अहोरात्रं च ताष्षष्ट्या नित्यमेतैः प्रकीर्तितम् ॥ ३ ॥ त्रिशन्मुहूर्त्तश्च तथा अहोरात्रेण कीर्तिताः ॥ तत्र पञ्चदश प्रोक्ता मता राम नित्यं दिवाचराः ॥ ४ ॥ उत्तरां तु यदा काष्ठां क्रमादाक्रमते रविः ॥ तदा तथा भवेद्वृद्धिर्दिवसस्य महाभुज ॥ ५ ॥ दिवसस्य यथा तथा राम वृद्धिं समधिगच्छति ॥ तदाश्रितमुहूर्त्तानां ज्ञेया हानिश्च तदा ॥ ६ ॥ दक्षिणां च यदा काष्ठां क्रमादाक्रमते रविः ॥ दिवसस्य तदा हानिमँहार्ता व्या नित्यमेव तु ॥ ७ ॥ क्षीयन्ते दिनहानौ तु तन्मुहूर्त्तास्तथैव च ॥ रात्र्याश्रिताश्च वर्धन्ते रात्रिवृद्धौ तथातथा ॥ ८ ॥ यदा मेषं सहस्रांशुस्तुलं च प्रतिपद्यते ॥ समानात्रिदिनः कालो विषुवच्छब्दवाचकः ॥९॥ तत्र दानं स्वल्पमपि महद्भवति भार्गव ॥ श्राद्धं जप्यं हुतं दत्तं यच्चान्यत्सुकृतं भवेत् ॥ १० ॥ सूर्यसंक्रमणात्स्यान्ते सौरो मासस्समाप्यते ॥ सौरमासद्वयं राम ऋतुरित्यभिधीयते ॥ ११ ॥ ऋतुत्रयं चायनं स्यात्तद्वयं च समा स्मृता ॥ देवतानामहोरात्रं स च राम प्रकीर्तितः ॥ १२ ॥ मेषादिषट्के सूर्ये तेषां दिवस उच्यते ॥ तुलादिषट्के सूर्ये तेषां रात्रिः प्रकीर्तिता ॥ १३ ॥ पितॄणां चांद्रमासेन अहोरात्रोभिधीयते ॥ कृष्णपक्षाष्टम्यामूर्ध्वं तेषां रात्र्युदयः स्मृतः ॥ १४ ॥ शुक्ल- पक्षाष्टमीमध्ये तेषामस्तमयस्तथा ॥ अर्धरात्रः पौर्णमास्यां पितॄणां समुदाहृतः ॥ १५ ॥ कृष्णापक्षावसाने च तेषां मध्याह्न उच्यते ॥ कृष्णपक्षस्य तत्प्रातश्चां श्राद्धं प्रदीयते ॥ कृष्णपक्षस्य श्राद्धं यश्च नित्यं करिष्यति ॥ सततं तर्पितास्तेन भवन्ति


१ 'वर्षद्वये' इति क० । २ 'कार्मिकौ' इति क० । ३ "विनालिका' इति ख० ।

वि० ध० प्र० खं० अ० ७२

पितरोऽव्ययाः ॥ १६ ॥ समाशतैर्दशभिर्दिव्यैस्तिष्ययुगं स्मृतम् ॥ द्विगुणं द्वापरं ज्ञेयं त्रेता त्रिगुणमुच्यते ॥ १७ ॥ चतुर्गुणं कृतं प्रोक्तं पिण्डितं चाब्दसंख्यया ॥ चतुर्गुणं सहस्राणि राम द्वादश कीर्तितम् ॥ १८ ॥ अतः परं युगावस्थां निबोध गदतो मम ॥ चतुष्पात्सकलो धर्मस्तथा ऽब्रूहोतरं जगत् ॥ १९ ॥ श्वेतवर्णो हरिर्देवो ज्ञाननित्यश्च मानवाः ॥ चत्वार्यब्दसहस्राणि तेषामायुः प्रकीर्तितम् ॥ २० ॥ समानवीर्याश्च नरास्तन्न नास्त्यधरोत्तरम् ॥ त्रिपादविग्रहो धर्मो राम त्रेतायुगे तदा ॥ २१ ॥ केशवे रक्ततां याते नरा दशशतायुषः ॥ यज्ञे शुभे प्रवर्तन्ते नित्यं हिंसात्मकेषु च ॥ २२ ॥ जयक्षेत्रोत्तरे चैव तदा भवति भार्गव ॥ द्विपादविग्रहो धर्मः पीततामच्युते गते ॥ २३ ॥ समाः शतानि चत्वारि तदा जीवन्ति मानवाः ॥ युद्धशौण्डा महोत्साहा लोका वैश्योत्तरास्तदा ॥ २४ ॥ जायन्ते शास्त्रभेदाश्च मतिभेदास्तथैव च ॥ स्वल्पमायुर्नृणां बुद्ध्वा विष्णुर्भार्गवरूपधृक् ॥ २५ ॥ एकमेव यजुर्वेदं चतुर्धा व्यभजत्पुनः ॥ तस्य शिष्यप्रशिष्याश्च वेदमेकं पुनःपुनः ॥ २६ ॥ शाखाभेदसहस्रेण विभजन्ति द्विजोत्तमाः ॥ एकपादस्थिते धर्मे कृष्णतां केशवे गते ॥ २७ ॥ धर्मभेदे समुत्पन्ने देवतानामनिश्चये ॥ न विद्यते तदा राम आयुषस्तु विनिश्चयम् ॥ २८ ॥ गर्भेस्थाश्च म्रियन्तेत्र बाल्येयौवनगास्तथा ॥ शूद्रोत्तरास्तदा लोकस्थितिर्भवति भार्गव ॥ २९ ॥ सुप्रतीघा धर्मेषु तदा भवति भूतले ॥ पापिष्ठो वर्धते राम धर्मिष्ठः क्षीयते तदा ॥ ३० ॥ राजानः शूद्रभूयिष्ठाश्चौराश्चाथोपजीविनः ॥ ब्राह्मणास्सर्वभक्षाश्च भवन्ति भृगुनन्दन ॥ ३१ ॥ धर्मिनिष्ठांश्च राजा न तदा राम जीवति ॥ तस्मिन्काले सुकृतिनां भक्तिर्भवति केशवे ॥ ३२ ॥ तेषामल्पेन कालेन तोषमायाति केशवः ॥ धन्याः कलियुगे राम तपस्तप्स्यन्ति मानवाः ॥ ३३ ॥ तपसाल्पेन ते सिद्धिं प्राप्स्यन्तीति च निश्चयः ॥ चतुर्युगैकसप्तत्या मन्वन्तरमिहोच्यते ॥ ३४ ॥ कल्पस्तु राम विज्ञेयो मन्वंस्तु^१ चतुर्दश ॥ आदिमध्यान्तरालेषु मनूनां भृगुसत्तम ॥ ३५ ॥ कृतमानप्रमाणेन सन्धिर्भवति मानद ॥ चतुर्युगसहस्रं तु कल्पमाहुर्मनीषिणः ॥ ३६ ॥ कल्पश्च दिवसः प्रोक्तो ब्रह्मणः परमेष्ठिनः ॥ तावती च निशा तस्य यस्यां शेते स भार्गव ॥ ३७ ॥ एवंविधैरहोरात्रैर्दिनमासादिसंख्यया ॥ पूर्णं वर्षशतं सर्वं ब्रह्मा भार्गव जीवति ॥ ३८ ॥ ब्रह्मायुषा परिच्छन्नः पौरुषो दिवसः स्मृतः ॥ तावती च निशा तस्य यत्स्यदं सकलं जगत् ॥ ३९ ॥ एवं विधा ये


^१ 'मन्वस्तं' इति ख० ।

॥ ४४ ॥

दिवसा व्यतीता न चागता ये च महानुभाव ॥ अनादिसत्त्वात्परमेश्वरस्य ह्यानन्त्यभावाच्च तथा त्वसंख्याः ॥ ४० ॥ इति श्रीविष्णुधर्मोत्तरे प्र० मा० सं० वरुणरामसंभाषणे कालसंख्यावर्णनं नाम त्रिसप्ततितमोऽध्यायः ॥ ७३ ॥ वज्र उवाच ॥ यदेतदुक्तं रामस्य वरुणेन महात्मना ॥ एतच्छ्रुत्वा तु मे जातस्संशयो भृगुनन्दन ॥ १ ॥ अस्मिंस्तु भारते वर्षे परिक्षीणे युगे तथा ॥ अवस्था या भवेद्ब्रह्मंस्तन्मे व्याख्यातुमर्हसि ॥ २ ॥ मार्कण्डेय उवाच ॥ युगेयुगे परिक्षीणे वर्षे यद्भव भारते ॥ संग्रामेण विनश्यंति प्रायो वर्णोत्तमा जनाः ॥ ३ ॥ वज्र उवाच ॥ अस्मात्कृतयुगाद्धीन्यतीतं युगत्रयम् ॥ तेष्वहं श्रोतुमिच्छामि संग्रामं भृगुनन्दन ॥ ४ ॥ मार्कण्डेय उवाच ॥ आसीत्कृतयुगस्यान्ते विप्राणां क्षत्रियैस्सह ॥ वैश्यानां च सशुद्राणां युद्धं परमदारुणम् ॥ ५ ॥ वर्णत्रयं तत्र रणे क्षत्रियैर्वनिपातितम् ॥ (ततश्च ब्राह्मणाः केचित्क्षत्रियानेतमब्रुवन् ॥ ६ ॥ अल्पैर्भवद्भिः कार्येण वयं केन विनिर्जिताः ॥) तानब्रुवन्महाभागाः क्षत्रियास्सत्यसंगराः ॥ ७॥ एकोऽस्माकं द्विजश्रेष्ठस्सेनानीरिति विश्रुतः ॥ सर्वशस्त्रास्त्रकुशलो वयं तस्य मते स्थिताः ॥ ८ ॥ भवतां बहुचित्तत्वाद्वाह्यं तस्मात्पदेपदे ॥ जयामो विपुलं सैन्यं नात्र कार्या विचारणा ॥ ९ ॥ क्षत्रियैरेवमुक्तास्ते ब्राह्मणास्संशितव्रताः ॥ शशाङ्कं शरणं जग्मुर्द्विजेशं सोममञ्जसा ॥ १० ॥ स तानुवाच धर्मात्मा सोमो राजा द्विजोत्तमान् ॥ प्रयागे भार्गवो विद्वान्ब्राह्मणस्संशितव्रतः ॥ ११ ॥ शूर इत्येव विख्यातो नित्यं वसति धार्मिकः ॥ प्रमतिर्नाम तस्यास्ति पुत्रो धर्मभृतां वरः ॥ १२॥ सर्वशास्त्रार्थकुशलो धनुर्वेदपरायणः ॥ विष्णुमभ्युद्यमप्राप्तो युष्मत्कार्यार्थसिद्धये ॥ १३ ॥ कृत्वा सेनाप्रणेतारं तं तु कृष्णाजिनध्वजम् ॥ निर्मर्यादाद्रणे सर्वान्क्षत्रियांस्तान्विजेष्यथ ॥ १४ ॥ सोमस्य वचनं सर्वैरेवमुक्तैर्द्विजैः कृतम् ॥ प्रायः क्षत्रियहीनयं लध्वी वसुमती कृता ॥ १५ ॥ आदौ कृता क्षत्रबलैर्विमर्दैर्द्विजैर्जगता ॥ एवं कृतयुगस्यान्ते युद्धमासीत्सुदारुणम् ॥ १६ ॥ तथा त्रेतायुगस्यान्ते राक्षसैर्युद्धं क्रूरैश्शरैः ॥ राष्ट्राद्राज्ञामथासाद्य पार्थिवास्सगणा हताः ॥ १७ ॥ राजा भीमरथो नाम विष्णुर्मानुष्यरूपधृक् ॥ दिवोदासान्वये जातो निजघानाथ राक्षसान् ॥ १८ ॥ एवं त्रेतायुगस्यान्ते महाविजयकाङ्क्षिभिः ॥ राक्षसैः क्षत्रिया युद्धे केशवेन च ते हताः ॥ १९ ॥ तथैव द्वापरस्यान्ते वासुदेवार्जुनौ रणे ॥ चक्रतुर्वसुधां लध्वीं नरनारायणौ नृप ॥ २० ॥ द्वापरे द्वापरे राजंस्तथैव मधुसूदनः ॥ एकमेव यजुर्वेदं चतुर्था व्यभजत्पुनः ॥ २१ ॥ द्वापरेस्मिन्नृपातीते वसिष्ठकुलवर्धनः ॥ पाराशरस्सुतश्श्रीमान्विष्णुद्वैपायनः स्मृतः ॥ २२ ॥ प्रकाशो जनितो येन लोके


१ कोष्ठान्तर्गतः पाठः ख० नास्ति । २ 'ततश्च ब्राह्मणाब्रुवुः क्षत्रिया' इति ख० । ३ 'शस्त्रबलकुशलो' इति क० ।

वि० ध० ॥ ४६ ॥

प्र० खं० अ० ७५

भारताचन्दनाः ॥ परिक्षित्सुतं राज्यस्थं राजानं जनमेजयम् ॥ २३ ॥ वैशम्पायन इत्येव शिष्यो व्यासस्य विश्रुतः ॥ आख्यास्याति महाऽऽख्यानं सर्वपापभयापहम् ॥ २४ ॥ धर्मे चार्थे च कामे च मोक्षे च यदुनन्दन ॥ प्रदीपभूतं सर्वत्र बुध्बुिद्धिविवर्धनम् ॥ २५ ॥ यत्र विष्णुकथा दिव्याः श्रुतयश्च सनातनाः ॥ तच्छ्रोतव्यं मनुष्येण परं पदमभीप्सता ॥ २६ ॥ भारताख्यानं प्राप्य नर्कं तु न गच्छति ॥ न चेत्स्याद्यदि भूपाल महापातकसंयुतः ॥ २७ ॥ दशभिः पारणैः स्थानं प्राप्नोति जगतः पतेः ॥ केशवस्य महाभाग निर्मितं येन भारतम् ॥ २८ ॥ व्यस्य वेदं चतुर्था तु विष्णुर्द्वैपायनो मुनिः ॥ शिष्यानध्यापयामास नामतस्तान्निबोध मे ॥ २९ ॥ ऋग्वेदस्य पैलं तु सामवेदं तु जैमिनिम् ॥ आथर्वणं सुमन्तुं तु यजुर्वेदं महामुनिम् ॥ ३० ॥ अध्यापयामास तदा वैशम्पायनसंज्ञकम् ॥ वाकोवाक्यं पुराणं च सूतं भारतमेव च ॥ ३१ ॥ अङ्गानि वेदश्चत्वारो मीमांसा न्यायविस्तरः ॥ धर्मशास्त्रं पुराणं च विद्यास्त्वेताश्चतुर्दश ॥ ३२ ॥ शिक्षा कल्पो व्याकरणं निरुक्तं ज्योतिषं गतिम् ॥ छन्दोविशेषः षष्ठश्च षडङ्गो वेद उच्यते ॥ ३३ ॥ सांख्यं योगं पाञ्चरात्रं शैवं पाशुपतं तथा ॥ कृतान्तपञ्चकं विद्धि ब्रह्मणः परिमार्गेणे ॥ ३४ ॥ संसारक्षयहेतुश्च भावोपकरणेषु च ॥ सोत्तरा वैष्णवा धर्मास्सारमेतत्प्रकीर्तितम् ॥ ३५ ॥ एतावानेव सकलो विद्याग्रामस्तवेरितः ॥ विद्याः प्रशस्ताश्चैताभ्यः शतशोऽथ सहस्रशः ॥ ३६ ॥ योऽसौ व्यासस्य शिष्योभून्नारायणः सुतः शुकः ॥ तेनैव देवदेवेन विष्णुना प्रभविष्णुना ॥ ३७ ॥ त्रेतायुगे चतुर्विंशे भृगुवंशोद्भवेन तु ॥ वाल्मीकिना तु रचितं स्वमेव चरितं शुभम् ॥ ३८ ॥ रामायणानं महापुण्यं श्रोतॄणां ^२विष्णुलोकदम् ॥ वर्तमाने कलियुगे क्षीणे नृपतिसत्तम ॥ ३९ ॥ कल्की विष्णुयशो नाम भविष्यति जगत्पतिः ॥ घातयिष्यति सर्व्वान्स म्लेच्छाञ्छरपरश्वधैः ॥ ४० ॥ म्लेच्छाक्रान्तां वसुमतीं कृत्वा म्लेच्छविवर्जिताम् ॥ धर्मसंस्थापनं कृत्वा स्वस्थानमुपयास्यति ॥ ४१ ॥ प्रजासु धर्मयुक्तासु तत्सत्सत्यन्ते कृतम् ॥ इत्येवं भगवान्विष्णुर्युगे क्षीणेऽभिजायते ॥ ४२ ॥ धर्मसंस्थापनार्थाय नित्यमेव यदूहह ॥ प्रादुर्भावसहस्राणि समतीतान्यनेकशः ॥ ४३ ॥ भविष्यति तथा तस्य येषां संख्या न विद्यते ॥ ४४ ॥ एतत्त्वोक्तं हि राजेन्द्र क्षीणे युगे यद्भवति लोके ॥ अतः परं धर्मभृतां वरिष्ठ प्रब्रूहि किं ते कथयामि राजन् ॥ ४५ ॥

इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मा० सं० युगान्तवर्णनो नाम चतुस्सप्ततितमोऽध्यायः ॥ ७४ ॥

॥ ४१ ॥

वज्र उवाच ॥ ^३मन्वन्तरं परिक्षीणे यदृशी द्विज


^१ 'जगतोऽपते' इति छ० ।
^२ 'विचितैः पदानि' इति बु० ।
^३ 'आद्यं' इति ई० ।

जायते ॥ समवस्था महाभाग तादृशीं वक्तुमर्हसि ॥ १ ॥ मार्कण्डेय उवाच ॥ मन्वन्तरे परिक्षीणे देवा मन्वन्तरेश्वराः ॥ महर्लोकंमथासाद्य तिष्ठन्ति गतकल्मषाः ॥ २ ॥ मनुश्च सह शक्रेण देवाश्च यदुनन्दन ॥ ब्रह्मलोकं प्रपद्यन्ते पुनरावृत्तिदुर्लभम् ॥ ३ ॥ ऋषयश्च तथा सप्त तत्र तिष्ठन्ति ते सदा ॥ अधिकारं विना सर्वे सदृशाः परमेष्ठिनः ॥ ४ ॥ भूतलं सकलं वज्र तोयरूपी महेश्वरः ॥ अर्चिमाली महावेगः सर्वमावृत्त्य तिष्ठति ॥ ५ ॥ भूलोकाश्रितं सर्वं तदा नश्यति यादव ॥ न विनश्यन्ति राजेन्द्र विश्रुताः कुलपर्वताः ॥ ६ ॥ महेन्द्रो मलयस्सह्यः शुक्तिमाँ नृक्षवांनपि ॥ विन्ध्यश्च पारियात्रश्च माल्यवानान्द्यमादनः ॥ ७ ॥ हिमवान्हेमकूटश्च निषधो नील एव च ॥ श्वेतश्च शृङ्गवान्मेरुर्न विनश्यन्ति पर्वताः ॥ ८ ॥ शेषं विनश्यति जगत्स्थावरं जङ्गमं च यत् ॥ नौर्भूत्वा तु सती देवी तदा यदुकुलोद्वह ! ॥ ९ ॥ धारयत्यथ बीजानि¹ सर्वाण्येवा विशेषतः ॥ भविष्यश्च मनुस्तस्यां भविष्या ऋषयस्तथा ॥ १० ॥ तिष्ठन्ति राजशार्दूल सत ये प्रथिता भुवि ॥ मत्स्यरूपधरो विष्णुः शृङ्गी भूत्वा जगत्पतिः ॥ ११ ॥ आकर्षति तु तां नावं स्थानात्स्थानं स लीलया ॥ कर्षमाणस्तु तां नावं देवदेवं जगत्पतिम् ॥ १२ ॥ स्तुवन्ति ऋषयः सर्वे दिव्यैः कर्मभिरच्युतम् ॥ घूर्णमानस्तदा मत्स्यो जलवेगोर्मिसंकुले ॥ १३ ॥ घूर्णमानां तु तां नावं नयत्यमितविक्रमः ॥ हिमाद्रिशिखरं नावं देवदेवो जगत्पतिः ॥ १४ ॥ मत्स्यस्त्ववदथ्यो भवति ते च तिष्ठन्ति तत्रगाः ॥ १५ ॥ कृतकृत्यं तदा कालं तावत्प्रक्षालनं स्मृतम् ॥ आपस्साम्यमथो यान्ति यथापूर्वं नराधिप ॥ ऋषयश्च मनुश्चैव सर्वं कुर्व्वन्ति ते तदा ॥ १६ ॥ मन्वन्तरान्ते जगतामवस्था मयेरिता ते यदुनन्दनाथ ॥ अतः परं यत्तव कीर्त्तनीयं समासतस्तद्वद भूमिपाल ! १७ ॥ इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मा०सं० मन्वन्तरवर्णनो नाम पञ्चसप्ततितमोऽध्यायः ॥ ७५ ॥

वज्र उवाच ॥ ब्राह्मस्य दिवसस्यान्ते यादृशी द्विज जायते ॥ जगतोऽस्य समावस्था तादृशीं वक्तुमर्हसि ॥ १ ॥ मार्कण्डेय उवाच ॥ वृत्ते प्रक्षालने राजन्कल्पस्यान्ते चतुर्दशम् ॥ उत्तिष्ठति तदा घोरा दिवि सप्त दिवाकराः ॥ २ ॥ ते तु पीत्वा जलं सर्वं शोषयन्ति जगत्त्रयम् ॥ विनाशे सर्वभूतानामयोथुड्समा तदा ॥ ३ ॥ भूमिर्भवति भूपाल दृग्घासत्त्वं च जन्तवः ॥ विनष्टकिल्बिषास्सर्वे जीवमात्र्यावशेषकाः ॥ ४ ॥ जनलोकमथा साद्य तत्र तिष्ठन्ति निर्भयाः ॥ भूर्भुवस्स्वर्महश्चैव तदा नश्यन्ति पार्थिव ॥ ५ ॥ जनलोकादयो लोका न तु नश्यन्ति पार्थिव ॥ ततोऽर्कास्ति उ नश्यन्ति संहृता रुद्रतेजसा ॥ ६ ॥ उत्तिष्ठन्ति महोद्भूतास्ततो दिविचरा घनाः ॥ केचिदञ्जनपुञ्जाभाः केचिच्छङ्खकुलोपमाः ॥ ७ ॥ केचित्पुष्करा


१ 'वीर्याणि' इति क० ।

वि० ध० ॥ ४६ ॥

प्र० सं० अ० ७७

काराः केचिद्रत्निसन्निभाः ॥ हरितालाञ्जनप्रख्यास्तथा हिङ्गुलकप्रभाः ॥ ८ ॥ शुकप्रभानिभाः केचित्केचिन्नोत्पलप्रभाः ॥ विद्युन्माला विनद्धाश्च गर्जन्तोऽथ बलाहकाः ॥ ९ ॥ आक्रम्य गगनं राजन्पूरयन्ति महीतलम् ॥ गङ्गाप्रवाहप्रतिमैर्घोरपातैः पुनःपुनः ॥ १० ॥ ततस्समुद्रा भूधाल वेलोद्वेलद्रुतप्लिक्षिणः ॥ छादयन्ति महीं सर्वं दग्धं सूर्यगभस्तिभिः ॥ ११ ॥ ततस्संहृतको वायुर्घनतान्गिरुजति क्षणात् ॥ ततो वायुं समादाय स्वशरीरे पितामहः ॥ १२ ॥ स्वापित्येकार्णवे लोके नष्टस्थावरजङ्गमे ॥ नचन्द्रार्कपवने ग्रहनक्षत्रतारके ॥ १३ ॥ सुप्त्वा युगसहस्रं तु देवदेवो जगत्पतिः ॥ पुनर्विबुद्धः कुरुते सृष्टिं प्राग्वत्पितामहः ॥ १४ ॥ सृष्टिं करोति धर्मज्ञ कल्पे कल्पे पुनःपुनः ॥ १५ ॥ पितामहस्य राज्यन्ते तस्माद्वि सृजति प्रजाः ॥ १६ ॥ जन्तूनां जननाद्ब्रह्मन् इत्यभिधीयते ॥ १६ ॥ एतावदुक्तं तव भूमिपाल कल्पे गते यद्भवतीह लोके ॥ अतः परं सर्वजगत्प्रधानं वदस्व किं ते कथयामि राजन् ॥ १७ ॥ इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मा० सं० कल्पान्तवर्णनो नाम पदसततितमोऽध्यायः ॥ ७६ ॥ वज्र उवाच ॥ महाकल्पक्षये ब्रह्मन्समवस्थां वदस्व मे ॥ भवाञ्ज्ञानानिधिः स्फीतो यथा ब्रह्मा पितामहः ॥ १ ॥ मार्कण्डेय उवाच ॥ पूर्णे संवत्सरशते संहृत्य सकलं जगत् ॥ शेते ब्रह्मा महाराज प्राग्वदेकार्णवे तदा ॥ २ ॥ संन्यस्य देहं योगेन पुरुषं प्रतिपद्यते ॥ मोक्षस्थानमनुप्राप्ते देवदेवे पितामहे ॥ ३ ॥ ये गता ब्रह्मणः स्थानं मुच्यन्ते सर्व एव ते ॥ अण्डस्याभ्यन्तरं सर्वं तदाम्भोभिः प्रपूर्यते ॥ ४ ॥ शरीरधारिणस्सर्वं तदा नश्यन्ति पार्थिव ॥ अन्तर्गतेन तोयेन भिन्नमण्डं जगत्पते ॥ ५ ॥ पूर्णे ब्रह्मन्पुषि तदा बाह्यस्त्वेष्वप्सु लीयते ॥ एवं सा जगदाधारा धारा तोये प्रलीयते ॥ ६ ॥ ज्योतिष्यापः प्रलीयन्ते ज्योतिर्वायौ प्रलीयते ॥ खे वायुः प्रलयं याति मनस्याकाशमेव च ॥ ७ ॥ मनः प्रलीयते बुद्धौ बुद्धिश्वात्मनि लीयते ॥ अव्यक्ते लीयते चात्मा अव्यक्तः पुरुषे परे ॥ ८ ॥ अनन्तानि तथोक्तानि यान्यण्डानि मया पुरा ॥ सर्वाणि तानि संहृत्य समकालं जगत्पतिः ॥ ९ ॥ प्रकृतौ तिष्ठति तदा सा रात्रिरुतस्य कीर्तिता ॥ ब्राह्मे समाप्ते पूर्णे पुनरेव जगत्पतिः ॥ १० ॥ ( मवे विधेते धर्मज्ञ यथापूर्वमुदार हृदम् ॥ अव्यक्तादिक्रमेणाय विधायाण्डं महेश्वरः ॥ ११ ॥ अण्डे शरीरे भवति स्वयंभूरमृतद्युतिः ॥ ) स्वयं म एव धर्मज्ञ ब्रह्मा शुभचतुर्मुखः ॥ १२ ॥ सर्वेष्वण्डेषु धर्मज्ञसमकालं जगत्पतिः ॥ स्वयं शरीरे भवति भवान्प्रकल्यान्मनुजेश्वर ॥ १३ ॥ ब्रह्मायुषोन्ते जगतामवस्था मयेरिता ते यदुकुलनाथ ॥ अतः परं किं कथयामि तुभ्यं तन्मे वदस्वायतलोलिताक्ष ॥ १४ ॥ इति श्रीविष्णुधर्मोत्तरे


१ 'यानिचानि' इति ख० । २ कोष्ठान्तर्गतः पाठः कपुस्तके नास्ति ।

प्रथमखण्डे मा०सं० महाकल्पवर्णनो नाम सप्तसप्ततितमोऽध्यायः ॥ ७७ ॥

प्रथमखण्डे मा०सं० महाकल्पवर्णनो नाम सप्तसप्ततितमोऽध्यायः ॥ ७७ ॥

वज्र उवाच ॥ ॥ सप्तमस्ते महाभाग जातस्य दिवसस्त्वयम् ॥ वर्तते ब्रह्मणो ब्रह्मँस्तत्र मन्वन्तरक्षये ॥ १ ॥ कथं कालस्त्वया नीतः पुरा कल्पक्षये तदा ॥ एतन्मे संशयं छिन्धि त्वं समः परमेष्ठिनः ॥ २ ॥

मार्कण्डेय उवाच ॥ नैर्गेतेन मया नीतः कालो मन्वन्तरक्षये ॥ भूयोभूयो महाभाग देवदेवप्रसादतः ॥ ३ ॥ कल्पक्षयमनुप्राप्य दाहकाल उपस्थिते ॥ जनलोकगतेनाथ कालो नीतस्त्व वै मया ॥ ४ ॥ दाहकाले तदा वृत्ते प्रलयाम्भोभिसंप्लवे ॥ जनलोकादहं भ्रष्टः पतितो धरणीतले ॥ ५ ॥ नूनं तस्यैव देवस्य सा माया भीमविक्रमा ॥ एकार्णवे भूमितले पतितस्यापि मे नृप ॥ ६ ॥ जीवितं न परिभ्रष्टं नूनं तस्य प्रसादतः ॥ तदार्ह नदविद्यानः पतितोऽभसि दारुणे ॥ ७ ॥ उह्यमानोम्बुकल्लोलैस्तिरश्चँश्च धाड्व ॥ अपश्यमानो जगतो सशैलवनकाननाम् ॥ ८ ॥ निर्व्वेदं जीवितै दीर्घे तदा प्राप्तोऽस्मि शत्रुहन् ॥ सोऽहमाताऽऽथ निर्विण्णस्तस्मिंस्तूत्दकसंप्लवे ॥ ९ ॥ पश्यामि जलमध्यस्थं विपुले वटपादपम् ॥ महाशाखं घनच्छायं स्निग्धपल्लवशोभितम् ॥ १० ॥ तमहं बाहुभिर्गत्वा तस्मिन्प्र्यग्थवापादपे ॥ (शाखांसक्तं तु पश्यामि सवितारं तथोज्ज्वलम् ॥ ११॥ दिव्यं पश्यामि पर्य्यङ्कं सर्वरत्नोपशोभितम् ॥) पर्य्यङ्के तत्र पश्यामि बालं कमलोचनम् ॥ १२॥ अतसीपुष्पसंकाशं पीतवाससमच्युतम् ॥ पद्मपत्रा भवचरणं तदाकारकरं तथा ॥ १३ ॥ अलङ्कृतं चामरणैः शिखण्डैश्चविभूषितम् ॥ एकं साहस्रमध्येस्थं भ्राजमानमिव श्रिया ॥ १४ ॥ स मां दृष्ट्वा तदा बालः स्मितपूर्वमुवाच ह ॥ यदि श्रान्तोऽसि धर्मज्ञ विप्रर्षे वदनेन मे ॥ १५ ॥ प्रविश्य विश्रमस्वाद्य यावद्वा रुचितं तव ॥ एवमुक्तस्य सञ्जाता व्रीडा यडुकुलोद्वह ॥ १६ ॥ ततोऽहमवशास्तस्य प्रविष्टो नृप विग्रहम् ॥ जगतो तत्र पश्यामि सशैलवनकाननाम् ॥ १७ ॥ यथापूर्वं महा भाग नगराकारशालिनीम् ॥ देवदैत्योगराकीर्णां समुद्रवरभूषणााम् ॥ १८ ॥ नृपराष्ट्रसमाकीर्णां वर्णिगभिरुपशोभिताम् ॥ द्विजाध्ययनसंयुष्टां वर्णाश्रमसमाकुलाम् ॥ १९॥ सरित्पर्वतवृक्षाढ्यां यज्ञोत्सवसमाकुलाम् ॥ तां दृष्ट्वा कौतुकं जातं तस्य बालस्य कर्मणा॥२०॥ द्रष्टुमिच्छामि तस्यान्तं भ्रममाणस्ततस्ततः ॥ यदा नासाद्याम्यत्र तस्य बालस्य चेष्टितम् ॥२१॥ पूर्णं युगसहस्रेऽपि तमेवाहं तदा शिशुम् ॥ संप्राप्तः शरणं राजब्र्हं भाव्यर्थं चोदितः ॥ २२ ॥ ततोऽहं वदनात्तस्य निर्गतश्शिरसिन्निभात् ॥ यदा तस्योदरेऽपश्यं त्रैलोक्यं सचराचरम् ॥ २३ ॥ तथा पश्यामि सकलं बहिर्भूमि


१ 'योगेन मया नीतः' इति ख० । २ 'मन्वन्तराश्च वै' इति क० । ३ 'सोऽहं शान्तोऽथ निर्विण्णः' इति ख० । ४ कोष्ठान्तर्गतः पाठः कपुस्तके नास्ति । ५ 'नगराद्दालशालिनीम्' इति ख० । ६ 'मम' इति ख० । ७ 'नूनमव्यक्तचोदितः' इति ख० ।

पश्यतम् ॥ ततोऽहं पतितस्तस्य पादयोस्सुमहात्मनः ॥ २४॥ ततस्सोऽन्तर्हितो बालस्सह तेनैव शाखिना॥ एवं मया तस्य निशा नरेन्द्र संप्राप्य पुण्यं जले हि नीता ॥ महाशरीरस्य महाद्युभाव महाप्रमेयस्य पितामहस्य ॥ २५॥ इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मा० सं० बालप्रभावकथनो नामाष्टसप्त- तितमोऽध्यायः ॥ ७८॥ वज्र उवाच ॥ कस्त्वसौ बालवेषेण कल्पान्तेषु पुनःपुनः ॥ दृष्टोऽपि न त्वया ज्ञातस्तत्र कौतूहलं महत् ॥ १॥ मार्कण्डेय उवाच ॥ भूयोऽप्यस्त्वसौ दृष्टो मया देवो जगत्पतिः ॥ कल्पक्षये न विज्ञातस्तन्मायामोहितेन वै ॥ २॥ कल्पक्षये व्यतीते तु तं देवं पितामहान् ॥ अनिरुद्धं विजानामि पितरं ते जगत्पतिम् ॥ ३॥ वज्र उवाच ॥ ज्ञातवानसि तं देवं कथं द्वैपायनात्महात ॥ दुर्विज्ञेयं जगद्धानिं सर्वभूतभवो- द्भवम् ॥ ४॥ मार्कण्डेय उवाच ॥ मायया मोहितस्तस्य बालस्यामिततेजसः ॥ दृष्टोदरे जगत्कृत्स्नं विस्मयान्विचेतनः ॥ ५॥ गत्वोद्रे ब्रह्मणोऽहं पृष्टवांस्तं पितामहम् ॥ एकार्णवे मया लोके दृष्टोऽयं जगतःपतिः ॥ ६॥ दृष्टो बालो महातेजास्तस्यास्यादहमवशस्ततः ॥ प्रविष्टो जठरं रम्यं दृष्टं मया चराचरम् ॥ ७॥ मया दृष्टं जगत्सर्वं न च जानामि बालकम् ॥ ध्रुवं तं भगवाञ्छेत्ति सर्वज्ञत्वाज्जगद्गुरुः ॥ ८॥ एवं पृष्टो मया ब्रह्मा मामुवाच जगद्गुरुः ॥ मार्कण्डेय विजानासि ह्यनिरुद्धं जगद्गुरुम् ॥ ९॥ त्वं च तं वेत्थ तत्त्वेन न च कल्पक्षये मुने ॥ त्वया दृष्टं यथा तन्मूर्त्या लोकं कृत्वेद- भुवनं मुने ॥ १०॥ तथा दृष्टं मया तस्य जगद्योनिरहंमहात्मनः ॥ मदीयञ्च दिनस्यान्ते कदाचिद्भृगुनन्दन ॥ ११॥ एकार्णवे तदा लोके नष्टे स्थावरजङ्गमे ॥ नागपर्यङ्कशयने पश्यामि पुरुषं तदा ॥ १२॥ तस्मिन्काले न जानामि तमहं तेन मोहितः ॥ ततः पृच्छामि तं देवं को भवानिति विस्मितः ॥ १३॥ स मामुवाच प्रहसन्ममेदं सकलं जगत् ॥ न तु मां वेत्सि तत्त्वेन जगतामीश्वरेश्वरम् ॥ १४॥ मयाऽप्युक्तः स दुर्वृत्ता रुष्ट- सकलं जगत् ॥ वृथा प्रलपस्यैते मत्तोऽसि विशेषतः ॥ १५॥ विप्रत्ययश्च यदि ते प्रविश्य जठरं मम ॥ त्रैलोक्यमखिलं पश्य पश्यत- न्मया स्वयम् ॥ १६॥ एवमुक्तस्तु मया तस्य केनापि हेतुना ॥ प्रविश्य जठरं मे स क्षणमात्राद्विनिर्गतः ॥ १७॥ निर्गम्य मानवश्रेष्ठ दृष्टं त्रिभुवनं मया ॥ तवोदरे जगन्नाथ त्वं च पश्य ममोदरे ॥ १८॥ एवमुक्त्वा स सुष्वाप भोगिभोगासने तदा ॥ अहमप्यथवक्त्रेणमस्य प्रविष्टो जठरं तदा ॥ १९॥ पश्यामि जगतो बह्वन्शैलवनकाननाम् ॥ मग्नसुदृन्दिदीपेलेकपातालसुपितामहान्॥२०॥ दृष्ट्वाहं पृथिवीं रम्या तथा जठरग्निस्थिताम्यथा ॥ निर्गमिष्यन्पश्यामि शरीरं तस्य भार्गव ॥२१॥ अन्तर्ऋक्षं प्रपश्यामि निगलत्वं पश्चिमद् ॥ पश्चिमप्रमणित्वेतोऽस्मि तमेव शरणं गतः ॥ २२ ॥ ततस्तु तस्य पश्यामि रन्ध्रहन्तिं तु विग्रहम् ॥ तस्य दक्षिणनिर्गतुं शक्तोनामितितथा च मे ॥२३॥ रन्ध्रहन्तान्तसभाभाग तमेव शरणं गतः ॥ ततोऽहं

गत्वात्वदङ्गं भ्रातं मयानघ ॥ २४ ॥ यत्प्रमादापि सूक्ष्मं ततोऽहं तेन निर्गतः ॥ पद्मनालेन निष्क्रान्तं पश्याम्यात्मानमात्मना ॥ २५ ॥
नाभिसरसि तत्पद्मं जातं देवस्य शार्ङ्गिनः ॥ शप्तरत्नार्कशैवालैः विकसितदलं महत् ॥ २६ ॥ ततोऽहं पद्मजन्मेति लोके ख्यातिमुपागतः ।
नाभिजातं च यत्पद्मं तस्य देवस्य भार्गव ॥ २७॥ तन्महामण्डलं क्लृप्तं मेरुस्तस्य च कर्णिका ॥ तत्राहं तस्य संभूतो देवदेवस्य चक्रिणः॥ २८॥
देवस्य विष्णोर्जगतामधीशः सर्वेश्वरः सर्वजगत्प्रधानः ॥ यो बालरूपी भवतान्तकाले दृष्टोऽस्य सर्वस्य चराचरस्य ॥ २९ ॥ एवं हि तस्योदरसं
स्थितेन मयोषितं जातकौतूहलेन ॥ तस्यैव मायापारिमोहितेन कल्पान्तकालेषु सदा नरेन्द्र ॥ ३० ॥ इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे
मा० सं० पद्मनाभोपाख्याने नामैकोनाशीतितमोऽध्यायः ॥ ७९ ॥ वज्र उवाच ॥ ब्रह्मणोऽस्य समुत्पत्तिर्मया सुमहाद्युते ॥ कालस्य
गतिमिच्छामि श्रोतुं भृगुकुलोद्वह ॥ १ ॥ मार्कण्डेय उवाच ॥ स्वेनाहोरात्रमानेन ब्रह्मणोऽस्य जगत्पतेः ॥ समाष्टकं गतं राजन्यञ्चमास्यास्तथैव
च ॥ २ ॥ अहोरात्रचतुष्कं च वर्तमानदिनाद्गतम् ॥ अतः परं प्रवक्ष्यामि तन्मे निगदतः शृणु ॥ ३ ॥ मंतवः षड् गतास्तत्त सप्तमश्च
तथा गताः ॥ सप्तविंशदतीताश्च तथैव च चतुर्युगाः ॥ ४ ॥ युगद्वयं तथातीतं वर्तमानचतुर्युगात् ॥ संवत्सराणां दुर्गेयं
तथा कलियुगाद्गतम् ॥ ५ ॥ वा तावन्मे कल्पकोऽस्मिन्सह यक्षण यादृव ॥ भविष्याणामतीतानां ब्रह्मणो भूरिदक्षिण ॥ ६ ॥ अन्तः
दिमत्त्वात्कालस्य संख्यां वक्तुं न शक्यते ॥ गङ्गायाः सिकता धारा यथा वर्षति वासवः ॥ ७ ॥ शक्या गणयितुं राजन्न व्यतीताः पितामहाः ॥
अन्तवत्तां बुधो बुद्ध्वा सर्वस्य जगतोपते ॥ ८ ॥ तन्मार्गं परिमार्गेत यद्विष्णोः परमं पदम् ॥ वज्र उवाच ॥ कियत्कालपरिमाणं मया शास्त्या
वसुन्धरा ॥ ९ ॥ परीक्षिता च धर्मज्ञ तन्मे ब्रूहि भृगूत्तम ॥ मार्कण्डेय उवाच ॥ अद्यप्रभृति राजेन्द्र समाप्तप्रशशर्के गते ॥ १० ॥ परीक्षिति महाराज
दिवं प्राप्ते कुरुद्वहे ॥ परीक्षिद्वेति लोकेऽस्मिन्प्राणितं त्वं तु शक्ष्यसे ॥ ११॥ महाप्रस्थानमाविश्य नागलोकं गमिष्यसि ॥ स्वर्गते त्वयि राजेन्द्र
परीक्षिति तथा नृपे ॥ १२ ॥ राजा नागपुरे भावी परीक्षित्जनमेजयः ॥ मथुश्यां तथा भावी तव पुत्रोऽचलो नृपः ॥ १३ ॥ नगरं खाण्डवप्रस्थं
भयाद्दिविनिवर्जितम् ॥ पालयिष्यति धर्मात्मा पुत्रस्ते भीमविक्रमः ॥ १४ ॥ दानवेन्द्रो मयः पूर्वं फाल्गुनेन प्रयात्यता ॥ महाप्रस्थानमित्युक्तौ
राजंस्त्वत्प्रियकाम्यया ॥ १५ ॥ यावद्धत्री महीं भुङ्क्ते खाण्डवप्रस्थमाश्रितः ॥ तावत्तन्मेयं मन्दस्य त्वया मधुपुरोधतः ॥ १६॥ मेयं संक्ष्यते तेन


१ 'मनवश्च' इति कृ० ।
२ 'परीक्षित् महाराज' इति कृ० ।