भारतकोश
संग्रह पर लौटें

विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)

Vishnudharmottara Purana Hindi

महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह) द्वारा

स्रोत: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (उद्गम)

DevanagariHindipublished1,001 पृष्ठ

सुवर्चाश्च दक्षपुत्रमनोः सुताः ॥ २ ॥ सत्तमोद्युतिश्चैव तपनः सुतपास्तथा ॥ तपोमतिस्तपस्वी च ऋषयः सप्त कीर्तिताः ॥ ३ ॥ सुशर्माणः सुतपसो हरिता रोहितास्तथा ॥ सुताराख्या गणाः पञ्च प्रत्येकं दशको गुणः ॥ ४ ॥ ऋतधामा च धर्मात्मा तेषामिन्द्रः प्रतापवान् ॥ दायादा बान्धवास्तस्य भविष्यन्त्यसुराश्च ये ॥ ५॥ तेषां च भविता राजा नरको नाम नामतः ॥ स्त्रीपुंसोः सत्त्वमध्यस्थ वरदानात्स्वयम्भुवः ॥६॥ हरिर्नपुं सको भूत्वा घातयिष्यति तं तदा ॥७॥ देवान्तकं कालसमप्रभावं महासुरं क्लीबवपुर्महात्मा ॥ निहत्य तं लोकमिदं समग्रं भीत्या विहीनं भगवान्स कर्ता ॥ ८ ॥ इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे द्वादशस्य दक्षपुत्रस्य मनोर्वंशानुकीर्तनन्नाम सप्ताशीत्यधिकशततमोऽध्यायः ॥ १८७ ॥ शाम्बरायणउवाच ॥ त्रयोदशस्य रौच्यस्य मनोः पुत्रान्प्रबोध मे ॥ चित्रसेनो विचित्रश्च नयो धर्मधृतो धृतिः ॥ १ ॥ सुनेत्रो दृढवृद्धिश्च सुनयो धर्मधो दृढः ॥ रौच्यस्यैते मनोः पुत्राः शृणुष्व ऋषयो मम ॥२॥ धृतिमानव्ययश्चैव निःप्रकंपो निरुत्सुकः ॥ निर्मोहस्तत्त्वदर्शी च द्वयायत कीर्तिताः॥३॥ सुत्रामाणः सुधर्माणः सुकर्माण एव च ॥ एते शक्र तदा प्रोक्ता देवतानां गणास्त्रयः॥४॥ एकैकस्मिन्गुणे देवा एकादश तदा शुभाः॥ देवेन्द्रश्च तदा तेषां भविष्यति बृहस्पतिः ॥ ५ ॥ दायादा बान्धवास्तस्य ये भविष्यन्ति वासव ॥ टिट्टिभो नाम दुष्टात्मा तेषां राजा भविष्यति ॥ ६ ॥ तस्यापि भविता मृत्युर्देवदेवाज्जनार्दनात् ॥ मायूरेण च रूपेण सततं पन्नगाशिना ॥ ७ ॥ स तु देवासुरे युद्धे सर्परूपेण दुर्मतिः ॥ युद्धं कृत्वा निरुत्साहान्सर्वान्देवगणान्स्तथा ॥ ८ ॥ निष्प्रयत्नेषु देवेषु मायूरं रूपमाश्रितः॥ घातयिष्यति तं दुष्टं देवदेवो जनार्दनः ॥९॥ महाकल्पः सशिखी महात्मा प्रबुद्धनीलोत्पलचारुकण्ठः ॥ तं दानवं तत्र रणे प्रसह्य हत्वा त्रिलोकीं मुदितां हि कर्ता ॥ १० ॥ इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे त्रयोदशरौच्यमन्वन्तरवर्णनो नामाष्टाशीत्यधिकशततमोऽध्यायः ॥ १८८ ॥ शाम्बरा यणउवाच ॥ चतुर्दशस्य भौत्यस्य शृणु पुत्रान्मनोर्मम ॥ तरङ्गं भेदभिद्दृष्ट्यन्तरस्वाद्युन्न एव च ॥ १ ॥ अभिमानी प्रवीरश्च जिष्णुः संक्रन्दन स्तथा ॥ तेजस्वी सुलभेन्द्रैव भौत्यस्यैते मनोः सुताः ॥ २ ॥ अग्नीध्रश्चातिबाहुश्च मागधश्च तथा शुचिः ॥ अजितो युक्तगोराख्यं ऋषयः सप्त कीर्तिताः ॥ ३ ॥ चाक्षुषाश्च कनिष्ठाश्च पवित्रा भ्राजिरास्तथा ॥ वयोवृद्धा देवगणाः पञ्च प्रोक्तास्तु सप्तकाः ॥ ४ ॥ तेषामिन्द्रः शुचिर्नाम तस्य दायादबान्धवाः ॥ ये भविष्यन्ति भविता राजा तेषां महासुखः ॥ ५ ॥ दिव्यं वर्षसहस्रं तु युद्धं देवासुरं तदा ॥ भविष्यति महाघोरं तस्यान्ते


१ 'तरङ्गभीरुबिध्यो' इति ख० । २ 'युक्तगोश्व' इति क० ।

वि० ध० प्र० खं० अ० १९०

तं महासुरम् ॥ ६ ॥ आस्थितं तामसीं मायां घातयिष्यति केशवः ॥ आरूढः कुञ्जरं दिव्यं शतपर्वतसन्निभम् ॥ ७ ॥ उत्खातपर्वतसमं चक्रेण मधुसूदनः ॥ रथस्थं तं महादैत्यं घातयिष्यति दुर्मतिम् ॥ ८ ॥ तस्मिन्हते वासवेन्द्रेशत्रौ महाबले कालसमयभावे ॥ त्रैलोक्यमेतद्दितिजं समन्ततदा भविष्यत्यमलप्रतापम् ॥ ९ ॥ इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे चतुर्दशभौम्यामभुवनवर्णननाम नवाशीत्यधिकशततमोऽध्यायः ॥ १८९ ॥

शक्र उवाच ॥

अस्मिन्मन्वन्तरे भद्रे गरुडस्य च सम्भवः ॥ मया दृष्टमतीतेषु कथं गरुडवाहनः ॥ १ ॥ असुरान्घातयामास भविष्येषु तथैव च ॥ गरुडं तु समारुह्य घातयिष्यति तत्कथम् ॥ २ ॥ मन्वन्तरान्ते सर्वेषां क्षयो यस्मात्प्रकीर्तितः ॥ तस्मादेतन्ममाचक्ष्व कुशला ह्यसि धर्मिका ॥ ३ ॥

शाम्बरावण्युरुवाच ॥

देवानामसुरणां च प्रतिमन्वन्तरं यथा ॥ सम्भवस्त्रिदशश्रेष्ठ गन्धर्वाणां तथा स्मृतः ॥ ४ ॥ नागानां राक्षसानां च यक्षाणामथ पक्षिणाम् ॥ सुपर्णानां तथा शक्र प्राणिनामप्यशेषतः ॥ ५ ॥ सुपर्णानां प्रधानस्तु तत्र मन्वन्तरे तदा ॥ सदैव राजन्भवति गरुडः पततां वरः ॥ ६ ॥ वाहनत्वं तथा तस्य देवस्य प्रपद्यते ॥ प्रादुर्भावान्प्रवक्ष्यामि यथा विष्णोर्मया तव ॥ ७ ॥ तथैव तस्य ज्ञेयानि गरुडस्य महात्मनः ॥ देवांस्तु कृतकर्माणः शक्र मन्वन्तरक्षये ॥ ८ ॥ त्यक्ताधिकारा गच्छन्ति परलोकमितः प्रभो ॥ तच्छिष्टाश्च तथा मन्वांस्तैरेव सहिताः सुरैः ॥ ९ ॥ समूहेनैव मनुष्याणां स्वर्गाद्गच्छन्ति तज्जितः ॥ स्वर्गे गतं ब्रह्मसदनं न ते नित्यः प्रकीर्तितः ॥ १० ॥ यावज्जीवति वै ब्रह्मा सर्वलोकनमस्कृतः ॥ तदा तु पुरुषं ब्रह्मा देवदेवं प्रपद्यते ॥ ११ ॥ त्यक्त्वा सर्गं ह्यसावपि पुरुषं प्रतिपद्यते ॥ पुरुषोऽपि महासृष्टिं महाभूतगणं तथा ॥ १२ ॥ करोति तदहस्त्वेव देवः प्राग्वच्छ्रुतिक्षतौ ॥ एवं सर्वमिदं नित्यं त्वनित्यं वा तवेरितम् ॥ १३ ॥ नासतो विद्यते भावो नाभावो विद्यते सतः ॥ उभयोरपि दृष्टोऽन्तस्त्वनयोस्तत्त्वदर्शिभिः ॥ १४ ॥ अविनाशि तु तद्विद्धि येन सर्वमिदं ततम् ॥ विनाशमव्ययस्यास्य न कश्चित्कर्तुमर्हति ॥ १५ ॥ तस्यानित्यानि गात्राणि शक्र सूक्ष्मस्यापि महात्मनः ॥ प्रादुर्भावेषु महान्ति समतीतान्यनेकशः ॥ १६ ॥ भूयश्चैव भविष्यन्ति नात्र कार्या विचारणा ॥ वैवस्वतेऽस्मिन्मन्वन्तरे यथा मन्वन्तरे शुभे ॥ १७ ॥ प्रादुर्भावानि दृष्टानि मया तस्य महात्मनः ॥ वराहं वामनं चैव तथा शक्र त्रिविक्रमम् ॥ १८ ॥ नारसिंहं तथा मात्स्यं हंसं तथैव च ॥ नृवराहं तथा रामं रामं च सुरसत्तम ॥ १९ ॥ मान्धातारं पृथुं चैव कार्तवीर्यार्जुनं तथा ॥ धातारं च तथा मित्रं चांशुमन्तमथ तथा ॥ २० ॥ पूषणं च भवन्तं च वरुणं भगमेव च ॥ त्वष्टारं च विवस्वन्तं सवितारं तथैव च ॥ २१ ॥ विष्णुं चन्द्रमसं रुद्रं ब्रह्माणं यममेव च ॥ हुताशनं वैश्रवणं

॥११८॥ ॥११८॥

शेषं नागेश्वरं तथा ॥ २२ ॥ ग्रहसूर्य्यं बुधं चैव अपः खं पृथिवीं तथा ॥ वायुस्तेजश्च देवेश तथैवान्यानि वासव ॥ २३ ॥ प्रादुर्भावसह- स्राणि तस्य दृष्टानि यानि ते ॥ मन्वन्तरेष्वतीतेषु तस्यातीतान्यनेकशः ॥ २४ ॥ भविष्यन्ति भविष्येषु शतशोऽथ सहस्रशः ॥ मन्वन्तर- मथासाद्य चैकमेकं तथा तवारिहा प्रादुर्भावनिमिदं प्रोक्तं द्विगुणं द्विगुणं यतः ॥ प्रादुर्भावान्यशेषेण वासुदेवस्य चक्रिणः ॥ कः समर्थो भवद्वक्तुमिह वर्षशतैरपि ॥ २५ ॥ एकः स देवो भुवनस्य गोप्ता परः पुराणः पुरुषो महात्मा ॥ तस्यांशमात्रं भुवनं समग्रं भागसहस्रस्त- स्य न वर्णनीयाः ॥ २७ ॥ ॥ इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे शक्राशाम्बरायणीसंवादेऽनेकविष्णुप्रादुर्भाववर्णनं नाम नवत्यधिकशततमोऽध्यायः ॥ १९० ॥ ॥ छ ॥ ॥ शक्र उवाच ॥ ॥ केन कर्मविपाकेन स्वर्गता त्वं वरानने ॥ दीर्घकालमिहस्थासि तथा चैवाप्यनागतान् ॥ १ ॥ कथं मन्वन्तरांश्चेत्सि तन्ममाचक्ष्व पृच्छतः ॥ त्वत्समा दिवि नैवान्या काचिदस्ति चिरं- न्तनी ॥ २ ॥ एकरूपः कथं कर्ता त्वया दृष्टः सुरेश्वरौ ॥ मन्वन्तराणां जानासि भविष्याणां तथा गतिम् ॥ ३ ॥ शाम्बरायण्युवाच ॥ त्रिदिवं सप्तमः कल्पो ममायं त्रिदिवेश्वर ॥ देवदेवप्रसादेन वसन्त्या वर्ततेऽनघ ॥ ४ ॥ परार्धश्च तथा ब्राह्मयो जनलोके गतो मम ॥ एकरूपास्तथा कल्पा मया दृष्टाः सुरेश्वर ॥ ५ ॥ मन्वन्तराणां जानामि भविष्याणां तथा गतिम् ॥ मया मानुष्यमासाद्य मासनक्षत्रपूजनम् ॥ ६ ॥ प्रतिमासं कृतं विष्णोर्यावज्जीवं सुरेश्वर ॥ तेन कर्मविपाकेन त्रिदिवे वसतिश्चिरम् ॥ मयेयं समनुप्राप्ता देवदेवप्रसादजा ॥ ७ ॥ अस्मादपि महाभाग ब्रह्मलोकं नयत्युत ॥ ८ ॥ मार्कण्डेय उवाच ॥ एतदुक्त्वा महाभाग शक्रं सा शाम्बरायणी ॥ जगामादर्शनं राजंस्तत्रैव सुरपूजिता ॥ ९ ॥ मासर्क्षपूजामधिकृत्य विष्णोर्मया तवेदं कथितं समग्रम् ॥ तस्मात्प्रयत्नेन नरेन्द्रचन्द्र मासक्षपूजां प्रयतेत कर्तुम् ॥ १० ॥ श्रोतव्यमेतत्प्रयतेन वज्र पापापहं धर्मविवृ- द्धिदं च ॥ संवादमग्र्यं त्रिदशेश्वरस्य सिद्धाङ्गनायाश्च परं पवित्रम् ॥ ११ ॥ इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे शक्राशाम्ब- रायणीकथानकं नामैकनवत्यधिकशततमोऽध्यायः ॥ १९१ ॥ ॥ वज्र उवाच ॥ श्रुतवानस्मि धर्मज्ञ देववेश्मोपलेपने ॥ फलं गदतो ते ब्रह्मञ्छ्रो- तुमिच्छाम्यहं पुनः ॥ १ ॥ लेपनादपि यत्स्वर्गफलं च यथा भवेत् ॥ तन्मे तथ्यं त्वमाचक्ष्व सर्वज्ञोऽसि भृगूत्तम ॥ २ ॥ मार्कण्डेय उवाच ॥ स्तोतुर्लेपकृतस्तस्य लेपनादपि यादृशी ॥ तथा बहुफला प्रोक्ता तां कुरुष्व यदीच्छसि ॥ ३ ॥ ये स्तुवन्ति महादेवं शङ्खचक्रगदाधरम् ॥ तेषां न


१ 'द्विगुणं तु यथार्थतः' इति ख० ।

वि० ध० ॥१११॥

प्र० खं० अ० ११४

दुर्लभं किञ्चिदिह लोके परत्र च ॥ ४ ॥ वासुदेवं स्तुवन्मर्त्यः सर्वपापं व्यपोहति ॥ स्वर्गं चानन्यमाप्नोति नात्र कार्या विचारणा ॥ ५ ॥ धर्मार्थी
प्राप्नुयाद्धर्ममर्थार्थी चार्थमाप्नुयात् ॥ कामानाप्नुयात्कामी प्रजार्थी प्राप्नुयात्प्रजाः ॥ ६ ॥ रोगात्तौ मुच्यते रोगाद्वद्धो मुच्येत बन्धनात् ॥
भयान्मुच्येत भीतश्च मुच्येदापन्न आपदः ॥ ७ ॥ दुर्गाण्यतितरत्याशु पुरुषः पुरुषोत्तमम् ॥ स्तुवन्मनुजशार्दूल नात्र कार्या विचारणा ॥ ८ ॥
तस्मात्सर्वप्रयत्नेन दिव्यैर्ऋषिकृतैः स्तवैः ॥ स्तूयान्नरेन्द्र सततं देवदेवं शुभमतिः ॥ ९ ॥ कमलपत्रशुभामलेलोचनं हरिमग्र्यमचिन्त्यपराक्रमम् ॥
शरणमेत्य महाभयपीडिता भुवि भवन्ति नरा भयवर्जिताः ॥ १० ॥ इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे स्तुतिमाहात्म्य-
वर्णनो नाम द्विनवत्यधिकशततमोऽध्यायः ॥ १९२ ॥ ॥ मार्कण्डेय उवाच ॥ अत्राप्युदाहरन्तीममितिहासं पुरातनम् ॥ स्तुतेन देवदेवेन
गजेन्द्रस्य तु यत्कृतम् ॥ १ ॥ पुरा वज्र महाबाहू गन्धर्वौ यौ हाहा हूहू ॥ गीतिः परस्परं स्पर्धां चक्रतुस्तौ परन्तप ॥ २ ॥ स्पर्धमानौ परं
राजेन्द्रेकतरौ परस्परम् ॥ आवयोः प्राश्निकः साधुः कोऽस्मिंल्लोके भविष्यति ॥ ३ ॥ तयोरथाहुर्गन्धर्वा देवलोकेऽयं भविष्यति ॥ एवमुक्तौ
ततस्तौ तु नेच्छंतौ देवलं मुनिम् ॥ ४ ॥ नायं जानाति गीतस्य विशेषमिति मोहितौ ॥ तौ शशाप महाक्रुद्धो देवलः सुमहा-
तपाः ॥ ५ ॥ अवज्ञां जानतो यस्माद्भवद्भ्यां मम वै कृता ॥ तस्माच्छापं प्रदास्यामि युवयोर्देवगायनौ ॥ ६ ॥ हाहा भविष्यति करी
हूहू नक्रो भविष्यति ॥ नक्रं च देवदेवेशो गजाकर्षणतत्परम् ॥ ७ ॥ नागमन्तं तु चक्रेण द्विधा कर्ता तदा द्रुतम् ॥
उभौ स्वं लप्स्यथो रूपं शापस्यान्ते तु गायनौ ॥ ८ ॥ शापेन तौ तत्र ततस्तु जातौ मया यथोक्तौ तव गजसिंह ॥
गजस्तु तेनापि जनार्दनेन सम्मोचितो तौ द्विजवर्यशापात् ॥ ९ ॥ इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे गन्धर्वयोर्गजनक्र-
करणं नाम त्रिनवत्यधिकशततमोऽध्यायः ॥ १९३ ॥ ॥ वज्र उवाच ॥ ॥ भगवञ्छ्रोतुमिच्छामि गजेन्द्रस्य विमोक्षणम् ॥
विस्तरेण महाभाग शापान्नक्रस्य चोभयोः ॥ १ ॥ मार्कण्डेय उवाच ॥ अस्त्यस्मिञ्छृङ्गवान्नाम जम्बूद्वीपे कुलाचलः ॥ महाधातुसुसन्नद्धैर्युतः
शृङ्गैर्महद्भिः ॥ २ ॥ यस्य शृङ्गत्रयं मध्यं भाति गगन्निविशतत् ॥ ब्रह्मार्कसोमनिलयं मनोहारि दिवं गतम् ॥ ३ ॥ तेषामथैकं सौवर्णमपरं
राजतं महत् ॥ सर्वरत्नमयं चैकं मध्यमं ब्रह्मणः क्षयम् ॥ ४ ॥ काञ्चनं सूर्यनिलयं राजतं शशिनः क्षयम् ॥ त्रिकूटं शैलराजानं रत्नपङ्कद्रुमं


१ 'एवमुक्तौ गतौ तौ तु गच्छेताम्' इति क० 'एवमुक्तौ मतौ तौ तु गच्छताम्' इति छ०। २ 'गानवन्तौ' इति क०। ३ 'स्थानम्' इति ख०।

युक्तम् ॥ ५ ॥ न तत्कृतघ्नाः पश्यन्ति न नृशंसा न नास्तिकाः ॥ नातततपसः केचिन्नेव पापकृतो जनाः ॥ ६ ॥ तस्य सानुमतः पृष्ठे सरौ व्यकोशपङ्कजम् ॥ कारण्डवसमाकीर्णं राजहंसोपशोभितम् ॥७॥ सञ्चित्तमिव गम्भीरं सञ्चित्तमिव निर्मलम् ॥ वधूपयोग्यं च तथा सतानिकृति कृन्नृप ॥ ८॥ मीनिच्छत्राभ्रशकलैस्फुटकोहतारकम् ॥ महाकुमुदराशी द्वितीयमिव चाम्बरम् ॥ ९ ॥ उत्फुल्लपद्मरजसा मधुपैः परि पिञ्जरैः ॥ समन्ताद्व्याप्य सत्तप्तं तपनीयसमोखि ॥ १० ॥ च्युतेन पद्मार्जसा हंसैः केशरामन्यैः ॥ वायुना भ्राम्यमाणेन दुर्विभाव्योऽर्कोऽम्बु जन्म ॥ ११ ॥ महान्तः पद्मिनीपत्रा वायुभ्रस्ताभ्रशीकरैः ॥ युक्ता मुक्ताफलाकारैर्यन भान्ति सहस्रशः ॥ १२ ॥ नृत्यन्ति कमला यत्र शफरी स्फुरणाहताः ॥ अमरोद्गीतसंघेोषै रस्तालरसानादिकम् ॥ १३ ॥ हसन्तीमिव हंसौघैर्नृत्यन्तीमिव चोर्मिभिः ॥ उर्द्ध्वाग्रमिव कुर्वाणं कारण्डवरवैः शुभैः ॥ १४ ॥ मध्ये त्वगाधं चतुरः प्रतीहारैरिवोद्धतैः ॥ उत्सारयन्तं कल्लोलैर्वागुभिश्चाद्भूमोद्भवान् ॥ १५ ॥ भ्रमरान्तरसंलीनकण्ह्कारकुसुमा शुभिः ॥ पश्यन्तमिव शैलस्य शृङ्गाणां तनमहोध्दृष्ट्यम् ॥ १६ ॥ पत्रातिशीतलं तोयं लघु स्वादु सुधानिभम् ॥ अन्यच्च्चुद्दं मनोहारि भृङ्गनाद निनादितम् ॥ १७ ॥ तस्मिन्र्सारसि दुष्टात्मा विष्णुपान्तेनर्जलाशयः ॥ हूहून्नाम ग्राहत्वं शापाद् देवस्य तु ॥ १८ ॥ तस्मन्नेव तथा शैले हाहा गन्धर्वसत्तमः ॥ बभूव यूथपो हस्ती चलत्पर्वतसन्निभः ॥ १९ ॥ अथ दन्तोऽज्ज्वलवपुः कदाचिद्गजयूथपः ॥ आजगाम महीपाल चोत्फुल्ल कमलं सरः ॥ २० ॥ वंशदृण्डेः स कलभैर्वृतश्चैंव करेणुभिः ॥ वासयन्मदगन्धेन तं त्रिकूटं महीधरम् ॥ २१ ॥ स गजोऽअनसंकाशो मदा कुक्षितलोचनः ॥ सलीलं पङ्कजवने यूथमध्यगतो ब्रजम् ॥ २२ ॥ गृहीतस्तेन रौद्रेण ग्राहिणान्युक्तसूतिना ॥ पश्यतः सर्वयूथस्य क्रोशतश्चाति दारुणम् ॥ २३ ॥ स चकार महायत्नमात्मनः परिरोक्षणे ॥ ग्राहोऽपि यत्नमातिष्ठज्ज्र्कराकर्षणे महान् ॥ २४ ॥ ग्राहोऽपि बलिनं नागं न शशाक महाम्भसि ॥ आकृष्टं न च नागोऽपि तथात्मानं विमोक्षितुम् ॥ २५ ॥ विस्फूर्य्य च यथाशक्ति विक्षुभ्य च महाजवान् ॥ व्यथितः स निरुद्योगः पश्चिमामागतो दशाम् ॥२६॥ स तु नागवरः श्रीमान्नारायणपरायणः ॥ जगाम शरणं विष्णुं तुष्टाव च परन्तपः॥२७॥ गृहीत्वा स करेणायं सरसः कमलोत्तमम् ॥ निवेद्य भक्त्या कृष्णाय गजः स्तोत्रमुदीरयत् ॥२८॥ गज उवाच ॥ नमोनेमः कारणवामनाय नारायणायसुरदारणाय ॥ श्रीशाङ्गिचक्रासिगदाधराय नमोऽस्तु तस्मै पुरुषोत्तमाय ॥ २९ ॥ आद्याय वेदनिलयाय महोदगाय सिंहाय दैत्यनिलयाय चतुर्भुजाय ॥ ब्रहेन्द्र


१ 'मृगराज' इति ख० ।

वि० ध० ॥१२-०॥

प्र० खं० अ० १९४

रुद्भूतनिवारणायैतुत्तमाय देवोत्तमाय वरदाय नमोऽच्युताय ॥ ३० ॥ नागेन्द्रभोगशयनायसतुष्टिप्रियाय गौरीहरेषुमकनोल्छनेवोपयाय ॥ पीताम्बराय मधुकैटभनाशनाय भक्तिप्रियाय वरदीप्तसुदर्शनाय ॥ ३१ ॥ नाभिप्रजातकमलस्थचतुर्मुखाय क्षीरोदकार्णवनिकेतशयोधधाय ॥ नानाविचित्रमुकुटाङ्गदभूषणाय सर्वेश्वराय विजयाय नमो नराय ॥ ३२ ॥ (विश्वोत्तमे परमकारणकारणाय फुल्लारविन्दविपुलायतलोचनाय ॥ देवेन्द्रभावनपरीक्षितपौरुषाय योगीश्वराय विजयाय नमो वराय ॥३३॥) लोकायनाय विहशायनाय ब्रह्माणयानायमुगुणायनाय ॥ धर्मायणीयज्वजनानायनाय महावराहाय सदा नतोऽस्मि॥३४॥ अचिन्त्यमव्यक्तमनन्तरूपं नारायणं कारणमादिदेवम् ॥ युगान्तशेषं पुरुषं पुराणं तं वासुदेवं शरणं प्रपद्ये ॥ ३५ ॥ अदृश्यमच्छेद्यमनादिमध्यं महर्षयो ब्रह्मनिधिं सुरेशम् ॥ वदन्ति यं वै पुरुषं सनातनं तं वासुदेवं शरणं प्रपद्ये ॥ ३६ ॥ यमक्षरं ब्रह्म वदन्ति सर्वगं निशम्य यं मृत्युमुखात्प्रमुच्यते ॥ तमीश्वरं दत्तमसूतमेर्गुणैः परायणं विष्णुपतिं शाश्वतम् ॥ ३७ ॥ कार्यकारणकारणमप्रमेयं हिरण्यनाभं कनकारविन्दम् ॥ महाबलं वेदनितिं सुरोत्तमं व्रजामि विष्णुं शरणं जनार्दनम् ॥ ३८ ॥ विचित्रकेयूरमहार्सिनिष्कं रत्नोत्तमालङ्कृतसर्वगात्रम् ॥ पीताम्बरं काञ्चनभक्तिचित्रं मालाधरं केशवमभ्युपैमि ॥ ३९ ॥ भवोद्भवं वेदविदां वरिष्ठं योगात्मनां साङ्ख्यविदां वरिष्ठम् ॥ आदित्यचन्द्राश्विसुखप्रभावे प्रसुं प्रपद्येऽच्युतमात्मभूतम् ॥ ४० ॥ श्रीवत्साङ्क महादेवं वेद्यमबुत्तमन्तमइ ॥ प्रपद्ये सूक्ष्मममलं भक्तानामभयप्रदम् ॥ ४१ ॥ प्रभवं सर्वलोकानां निर्गुणं च गुणात्मकम् ॥ प्रपद्ये मुक्तसङ्गानां यतीनां परमां गतिम् ॥ ४२ ॥ भगवन्तं सुगध्यक्षमक्षरं पुष्करेक्षणम् ॥ शरण्यं शरणं भक्त्या प्रपद्ये ब्राह्मणप्रियम् ॥ ४३ ॥ ब्रह्मेशं त्रिलोकेशामाद्यमेकमनामयम् ॥ भूतात्मानं महात्मानं प्रपद्ये मधुसूदनम् ॥ ४४ ॥ क्षेत्रज्ञं पुरुषं विष्णुं त्रिगुणातीतमन्ययम् ॥ नारायणमणीयांसं प्रपद्ये शरणं हरिम् ॥ ४५ ॥ एकाय लोकनाथाय परतः परमात्मने ॥ नमः सहस्रशिरसे अनन्ताय महात्मने ॥ ४६ ॥ वरेण्यमनघं देवमप्रमेयो वेदपारगाः ॥ कीर्त्तयन्त्यभवं सर्वं तं प्रपद्ये सनातनम् ॥ ४७ ॥ नमस्ते पुण्डरीकाक्ष भक्तानामभयप्रद ॥ सुब्रह्मण्य नमस्तेऽस्तु त्राहि मां शरणागतम् ॥ ४८ ॥ मार्कण्डेय उवाच ॥ भक्तिं तस्य तु सञ्चिन्त्य नागस्याऽमोघमन्तर्वः ॥ प्रीतिमानभवद्वाजंस्तस्यचक्रगदाधरः ॥ ४९ ॥ सन्निध्यं कल्पयामास ग्राहं चक्रेण माधवः ॥ मोक्षयामास च गजं पाशैभ्यः शरणागतम् ॥ ५० ॥ स हि देवलशापेन हाहा गन्धर्वसत्तमः ॥ गजत्वमभवच्चा मिक्षं प्राप्य दिवं गतः ॥५१॥ ग्राहोऽहिसुतः सद्यस्तु गजो गन्धर्वतां गतः ॥ ग्राहो


१ कोष्ठान्तर्गतः पाठः बहुपुस्तके नास्ति । २ 'निष्क्रम्य' इति क० ।

॥१२०॥

गन्धर्वतां प्राप्तो यः कृष्णेन निपातितः ॥ ५२ ॥ तस्यापि देववपुतः शापद्देषोऽभवत्पुरा ॥ प्रीतिंमाख्यायते विष्णुः सद्यः संसारसागरात् ॥ ॥ ५३ ॥ ऊर्द्धोऽपि निध्नन्द्वत्वमरातीनां प्रयच्छति ॥ तौ च स्वं स्वं वपुः प्राप्य प्रणिपत्य जनार्दनम् ॥ ५४ ॥ गन्धर्वाधिपती शीघ्रं परां निर्वृतिमागत्तौ ॥ इदं चैव महाबाहो पुरा देवोऽभ्यभाषत ॥ ५५ ॥ दृष्ट्वा मुक्तौ गजग्राहौ भगवान्मधुसूदनः ॥ योऽमंग्राहेणरागरजं च मां चैव प्रणिधानवान् ॥ ५६ स्मारिष्यति सरंश्रेष्ठं युक्योमोक्षं तथा ॥ गुल्मं कीचकवेणूनामममं शैलवरं तथा ॥ ५७ ॥ अश्वत्थं भास्करं गङ्गां नैमिषारण्यमेव च ॥ प्रयागं ब्रह्मतीर्थं च दण्डकारण्यमेव च ॥ ५८ ॥ संस्मरिष्यन्ति ये मर्त्या सम्यक्छ्रोष्यन्ति चापि ये ॥ न ते दुःस्वप्नपापस्य भोक्तारो मत्परिग्रहात् ॥ ५९ ॥ सर्वपापविमोक्ष्यान्ति कल्याणानां च भागिनः ॥ भविष्यन्ति तथा पुण्यां गतिं यास्यन्ति मानवाः ॥ ६० ॥ दुःस्वप्नं च नृणां तेषां सुस्वप्नत्वं प्रयास्यति ॥ कौर्म्यं मात्स्यं च वाराहं वामनं तार्क्ष्यमेव च ॥ ६१ ॥ नारसिंहं तथा रूपं सृष्टिकल्याणकारकम् ॥ एतानि प्रातरुत्थाय संस्मरिष्यन्ति ये नराः ॥ ६२ ॥ सर्वपापविशुद्धास्ते यास्यन्ति परमां गतिम् ॥ मार्कण्डेय उवाच ॥ एवमुक्त्वा तु राजेन्द्र देवदेवो जनार्दनः ॥ ६३ ॥ अस्पृशद्गजगन्धर्वं ग्राहगन्धर्वमेव च ॥ तेन स्पृष्टौ तु तौ सद्यो दिव्यमाल्याम्बरान्वितौ ॥ ६४ ॥ विमानतेजस्विमते प्राते जगन्मूर्तिद्विशालयम् ॥ ६५ ॥ तत्र देवपतिः कृष्णो मोक्षयित्वा गजोत्तमम् ॥ ६६ ॥ ऋषिभिस्तूयमानस्तु गुह्यैर्वेदपदाक्षरैः ॥ गतः स भगवान्विष्णुर्दुविज्ञेयगतिर्विभुः ॥ ६६ ॥ गजेन्द्रमोक्षणं दृष्ट्वा सर्वे सेन्द्रापुरोगमाः ॥ ब्राह्मणानग्रतः कृत्वा सर्वं प्राञ्जलयोऽभवन् ॥ ६७ ॥ गजेन्द्रमोक्षणं पुण्यं सर्वपापविमोचनम् ॥ श्रावयन्प्रातरुत्थाय सर्वपापैः प्रमुच्यते ॥ ६८ ॥ श्रद्धया हि यदुश्रेष्ठ स्मृतेन कथितेन च ॥ गजेन्द्र- मोक्षणेनेव दीर्घमायुश्चावाप्नुयात् ॥ ६९ ॥ मया ते कथितं दिव्यं पवित्रं पापनाशनम् ॥ ( १कीर्तयस्व महाबाहो महादुःखप्रनाशनम् ॥ ७० ॥ ) कीर्त्यमानं च विप्रेभ्यः शृणु भक्त्या यथोदितम् ॥७१॥ वरं वरेण्यं वरदनामृतं नारायणं पद्मनिधिं सुरेशम् ॥ तं देवगुह्यं पुरुषं पुराणं वरन्दिदं ब्रह्मविद्वां वरिष्ठाः ॥ ७२ ॥ एतत्पुण्यं यदुश्रेष्ठ नराणां पापकर्मणाम् ॥ दुःस्वप्नदर्शने घोरे श्रुत्वा पापात्प्रमुच्यते ॥ ७३ ॥ भक्तिमान्पुण्डरीकाक्षं गजो दुःखद्विमोचितः ॥ तथा त्वमपि राजेन्द्र प्रपद्य शरणं हरिम् ॥ ७४ ॥ विमुक्तः सर्वपापेभ्यः प्राप्स्यसे परमां गतिम् ॥७५॥ इति श्रीविष्णुध- र्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे गजेन्द्रमोक्षणं नाम चतुर्नवत्यधिकशततमोऽध्यायः ॥ १९४ ॥ ॥ छ ॥ ॥ वज्र उवाच ॥ भगवन्केो


१ कोष्ठान्तर्गतः पाठो नास्ति पुस्तके ।

वि० ध० ॥ १२३॥
प्र० खं० अ० १९६

दृशीं रक्षां स चकार द्विजोत्तमः ॥ यथा निर्धूतवीर्योऽसौ निस्तरो रजनीचरः ॥ १ ॥ मार्कण्डेय उवाच ॥ एकाग्रचित्तो गोविन्दे तज्जपँस्त-
त्परायणः ॥ सर्वदोषोपशमनं प्रविष्टो विष्णुपञ्जरम् ॥ २ ॥ वज्र उवाच ॥ विष्णुपञ्जरमिच्छामि श्रोतुं धर्मभृतां वर ॥ सदा सर्वभयेभ्यस्तु रक्षा
यां परमा भवेत् ॥ ३ ॥ मार्कण्डेय उवाच ॥ त्रिपुरं जघ्नुषः पूर्वं ब्रह्मणा विष्णुपञ्जरम् ॥ शङ्करस्य यदुक्तंञ्च रक्षणाय निशामितम् ॥ ४ ॥ वागीशेन
तु शक्रस्य बलं हन्तुं प्रयास्यतः ॥ तस्य स्वरूपं वक्ष्यामि तन्निबोध महीपते ॥ ५ ॥ विष्णुः प्राच्यां स्थितश्चक्री विष्णुर्दक्षिणतो गदी ॥
प्रतीच्यां शार्ङ्गधृग्विष्णुः खड्गी ममोत्तरे ॥ ६ ॥ हृषीकेशो विकोणेषु तच्छिद्रेषु जनार्दनः ॥ क्रोडरूपी हरिश्चैव हन्तुं प्रेतनिशा-
चरान् ॥ ७ ॥ गदा चेयं सहस्रांशुरुद्ध्यता पावकोल्वणा ॥ रक्षोभूतपिशाचानां डाकिनीनां च शातनी ॥ ८ ॥ शार्ङ्गविस्फूर्जितं चैव वासुदेवस्य
मद्विषून् ॥ तिर्यङ्मनुष्यकूष्माण्डप्रेतादीन्हन्त्वशेषतः ॥ ९ ॥ खड्गधारामलज्योत्स्ना निर्धूता ये समाहिताः ॥ ते यान्तु सौम्यतां सद्यो
गरुडेनेव पन्नगाः ॥ १० ॥ (ये कूष्माण्डास्तथा यक्षा ये दैत्या ये निशाचराः ॥ प्रेता विनायकाः क्रूरा मनुष्या जम्बुकाः खगाः ॥
॥ ११ ॥ सिंहाद्यो ये पशवो दन्दशूकाश्च पन्नगाः ॥) सर्वे भवन्तु ते सौम्याः कृष्णशार्ङ्गानिवाहताः ॥ १२ ॥ चित्तवृत्तिहरा ये मे
ये जनाः स्मृतिहारकाः ॥ बलौजसां च हर्तारश्छायाविध्वंशकाश्च ये ॥ १३ ॥ ये चोपभोगहर्तारो ये च लक्षणनाशकाः ॥
कूष्माण्डास्ते प्रणश्यन्तु विष्णुचक्रक्षताहताः ॥ १४ ॥ बुद्धेस्स्वास्थ्यं मनःस्वास्थ्यं स्वास्थ्यमिन्द्रियकं तथा ॥ ममास्तु देवदेवस्य वासुदेवस्य
कीर्तनात् ॥ १५ ॥ पृष्ठे पुरस्तान्मम दक्षिणोत्तरे विकोणतश्चास्तु जनार्दनो हरिः ॥ समीड्यमीशानमनन्तशक्तिमेकं जनार्दनं प्रणिपतितो न सीदति
॥ १६ ॥ यथा पन्नगहस्तस्य हस्तस्था परं जगत्स्वरूपं न स एव केशवः ॥ सत्येन तेनाच्युतनामकीर्तनात्प्रणामतश्च त्रिविधं ममाशुभम् ॥ १७ ॥
इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे विष्णुपञ्जरस्तोत्रवर्णनं नाम पञ्चनवनवत्यधिकशततमोऽध्यायः ॥ १९६ ॥ वज्र उवाच ॥
आत्मरक्षा त्वयोक्ता मे सर्वबाधाविनाशिनी ॥ कृपान्वितः कथं कार्या पररक्षा भृगूत्तम ॥ १ ॥ एतन्मे संशयं छिन्धि त्वं हि ज्ञानमयो निधिः ॥
वैष्णवानि रहस्यानि सर्वाणि विदितानि ते ॥ २ ॥ मार्कण्डेय उवाच ॥ स्तोत्राणान्तेन धर्मज्ञ कुशाग्रैर्यन्त्रमुत्तमम् ॥ उपस्पृश्य शुचिः कुर्याद्रक्षां
पार्थिवसत्तम ॥ ३ ॥ सोपवासेन सम्पूज्य देवदेवं जनार्दनम् ॥ अमोघैषा भवेद्रक्षा कृता नास्त्यत्र संशयः ॥ ४ ॥ यथा कश्चित्कृतैर्वनं नरो मोच्यते ॥ १२४ ॥


१ कोष्ठान्तर्गतपाठः कपुस्तके नोपलभ्यते ।

रुजः ॥ आधिव्याधिगृहीतानां रक्षेषा भेषजं परम् ॥ ६ ॥ ॐ नमः परमार्थाय पुरुषाय महात्मने ॥ ६ ॥ अरूपबहुरूपाय व्यापिने परमात्मने ॥
निष्कल्मषाय शुद्धाय ध्यातापपहरहृाय च॥७॥ नमस्कृत्य प्रवक्ष्यामि यत्तत्तिष्ठतु मे वचः ॥ वाराहनारसिंहाय वामनाय महात्मने ॥ ८ ॥ वक्ष्यामि
त्वां नमस्कृत्य यत्तत्तिष्ठतु मे वचः ॥ त्रिविक्रमाय रामाय वैकुण्ठाय नराय च ॥९॥ वक्ष्यामि त्वां नमस्कृत्य यत्तत्तिष्ठतु मे वचः ॥ १० ॥
वराह नरसिंहेण वामनेश त्रिविक्रम ॥ ११ ॥ हयग्रीवेश सर्वेश हृषीकेश हराऽशुभम् ॥ अपराजित चक्राद्यैश्चतुर्भिः परमाणुभिः ॥ १२ ॥
अखण्डितानुभावैस्त्वं सर्वदुःखहरो भव ॥ हराऽसुकस्य दुरितं दुष्कृतं दुरूपोषितम् ॥ १३ ॥ मृत्युवन्धार्त्तिभयं दुरिष्टस्य च यत्फलम् ॥
परापध्यानसहितं प्रयुक्तं चाभिचारिकम् ॥ १४॥ गरस्पर्शमहाघोरप्रयोगं जरयाजर ॥ ॐ नमो वासुदेवाय नमः कृष्णाय शार्ङ्गिणे ॥ १५ ॥ नमः
पुष्करनेत्राय केशवायादिचक्रिणे ॥ नमः कमलकिञ्जल्कपीतनिर्मलवाससे ॥ १६ ॥ महाहवेविपुष्करच्छत्रपृष्ठचक्राय चक्रिणे ॥ दंष्ट्रोद्धृतासितसितेन
त्रयीमूर्तिमते नमः ॥ १७ ॥ महायज्ञवराहाय शेषभोगेशशायिने ॥ तप्तहाटककेशाय ज्वलत्पावकलोचन ॥ १८ ॥ वज्राधिकनखस्पर्श
दिव्यसिंह नमोऽस्तु ते ॥ काश्यपायातिह्रस्वाय ऋग्यजुःसामरूपिणे ॥ १९ ॥ तुभ्यं वामनरूपाय क्रमते गां नमोन्मः ॥ वराहाऽशेषदुष्टानि
सर्वपापफलानि वै ॥ २० ॥ मर्दमर्द महादंष्ट्र मर्दमर्द च यत्फलम् ॥ नारसिंह करालस्य दन्तप्रान्तानलोज्ज्वल ॥ २१ ॥ भञ्जभञ्ज निनादेन
दुष्टान्वक्तांर्तिनाशन ॥ ऋग्यजुःसामगर्भोभिर्वाग्भिर्वामनरूपधृक् ॥ २२ ॥ प्रशमं सर्वदुःखानि नयैतस्य जनार्दन ॥ एकाहिकं व्याह्निकं च
तथा त्रिदिवसज्वरम् ॥ २३ ॥ चातुर्थिकं तथायुग्रं तथैव सततज्वरम् ॥ दोषोत्थं सन्निपातोत्थं तथैवागन्तुकं ज्वरम् ॥ २४ ॥ शमं नयतु
गोविन्दश्छिन्त्वाच्छित्त्वाऽस्य वेदनाम् ॥ नेत्रदुःखं शिरोदुःखं दुःखं चोदरसम्भवम् ॥ २५ ॥ अनुच्छासमतिश्वासं परितापं च वेपथुम् ॥
गुदघ्राणादिरोगांश्च कुष्ठरोगं तथा क्षयम् ॥ २६ ॥ कामलादींस्तथा रोगान्प्रमेहांश्चातिदारुणान् ॥ भगन्दरातिसारांश्च मुखरोगं सवल्गुलिम् ॥ २७॥
अश्मरीमूत्रकृच्छ्रांश्च रोगानन्यांश्च दारुणान् ॥ ये वातप्रभवा रोगा ये च पित्तसमुद्भवाः ॥ २८ ॥ कफोद्भवाश्च ये केचिद्ये चचित्सन्निपातिकाः ॥
आगन्तवश्च ये रोगा लूताविस्फोटकादयः ॥ २९॥ ते सर्वे प्रशमं यान्तु वासुदेवप्रमार्जिताः ॥ विलयं यान्तु ते सर्व विष्णुोच्चारणेन चा॥३०॥
क्षयं गच्छन्तु चाशेषास्ते चक्राभिहता हरेः॥ अच्युतानन्तगोविन्दनामोच्चारणभेषजात ॥ ३१ ॥ नश्यन्ति सकला रोगाः सत्यंसत्यं वदाम्यहम् ॥
स्थावरं जङ्गमं चैव कृत्रिमं चापि यद्विषम् ॥ ३२ ॥ दन्तोद्भवं नखभवमाकाशप्रभवं विषम् ॥ लूतादिप्रभवं यच्च विषमन्त्यन्तुः खदम् ॥ ३३ ॥

वि० ध०
प्र० खं०
अ० १९६
॥१२२॥

शमं नयतु तत्सर्वं कीर्तितो हि जनार्दनः । ग्रहान्प्रेत्यग्रहांश्चैव तथा चैवार्कयक्षहान् ॥ ३४ ॥ मुखमण्डलिकान्क्रूरान्वेत्रीं बुद्धेरवर्तिम् ॥ वृद्धिं
$^१$कान्व्याधिक्षेत्रांश्चांस्तथा मातृग्रहानपि ॥ ३५ ॥ बालस्य विष्णोरार्तिं हन्तु बाल्यह्रतिनामान्बालवृद्धानां ये ग्रहाः केचिच्च व बालग्रहाः क्वचित् ॥ ३६ ॥
नरसिंहस्य दृष्ट्वा ते दग्धा ये चापि यौवते ॥ सटाकरालवदनो नरसिंहो महारवः ॥ ३७ ॥ महानशेषाञ्निश्शेषान्करोतु जगतो हितः ॥
नरसिंह महासिंह जिह्वाज्वालोल्लज्वलानन ॥ ३८ ॥ ग्रहानशेषाञ्निश्शेषं बाडबडामिलोचन ॥ ये रोगा ये महोत्पाता यद्विषं ये महाग्रहाः ॥ ३९ ॥
यानि च क्रूरभूतानि ग्रहपीडाश्च दारुणाः ॥ शमस्तेषु ये दोषा ज्वालागर्भाग्रिकादयः ॥ ४० ॥ तानि सर्वाणि सर्वात्मन्परमात्मञ्जनार्दन ॥
कञ्चिद्रूपं समास्थाय वासुदेवाशु नाशय ॥ ४१ ॥ क्षिप्त्वा सुदर्शनं चक्रं ज्वालामालाविभीषणम् ॥ सर्वदुष्टोपशमनं कुरु देववराऽच्युत ॥ ४२ ॥
सुदर्शन महाज्वाल $^२$च्छिन्धिच्छिन्धि च मारय ॥ सर्वाणि दुष्टरक्षांसि क्षपयाऽऽशुतिविभीषण ॥ ४३ ॥ प्राच्यां प्रतीच्यां दिशि दक्षिणे
ततस्तथा ॥ रक्षां करोतु सर्वेश्मावरसिंहः स्वगाजितैः ॥ ४४ ॥ भुव्यन्तरिक्षे च दिवि पाश्वतः पृष्ठतोऽग्रतः ॥ रक्षां करोतु भगवान्बहुरूपी
जनार्दनः ॥ ४५ ॥ यस्माद्विष्णुर्जगत्सत्यं सहैवासुरमानुषम् ॥ तेन सत्येन दुष्टानि शममस्य व्रजन्तु वै ॥ ४६ ॥ यथा विष्णुस्मृतौ सद्यः संक्षयं
याति पातकम् ॥ सत्येन तेन सकलं दुष्टमस्य प्रशाम्यतु ॥ ४७ ॥ परमात्मा यथा विष्णुर्वेदान्तेष्वभिगीयते ॥ तेन सत्येन सकलं यन्मयोक्तं
तथाऽस्तु तत् ॥ ४८ ॥ शान्तिरस्तु शिवं चास्तु प्रणश्यन्त्वसुखं च यत् ॥ वासुदेवशरीरोत्थैः कुशैः संमार्जितो मया ॥ ४९ ॥ अपामार्जिता
गोविन्दो नरो नारायणस्तथा ॥ तथास्तु सर्वदुःखानां प्रशमो वचनाद्धरेः ॥ ५० ॥ शान्ताः समग्रा रोगास्ते ग्रहाः सर्वे विषाणि च ॥ भूतानि च
प्रशान्तानि संस्मृते मधुसूदने ॥ ५१ ॥ एतत्स मस्तरोगाणां सर्वोपद्रवेषु च ॥ अपामार्जनकं शस्त्रं विष्णुनामाभिमन्त्रितम् ॥ ५२ ॥ शान्तिरस्तु
शिवं चास्तु दुष्टमस्य प्रशाम्यतु ॥ यदस्य दुरितं किंचित्तत्क्षान्तं लवणाम्भसि ॥ ५३ ॥ स्वास्थ्यमस्य सदैवास्तु ह्यपकिल्मषकीर्तनात् ॥ यत
एवाऽऽगतं पापं तत्रैव प्रतिगच्छतु ॥ ५४ ॥ एतद्रोगादिपीडासु जन्तूनां हितमिच्छता ॥ विष्णुभक्तेन कर्तव्यमपामार्जनकं परम् ॥ ५५ ॥
अनेन सर्वदुःखानि प्रशमं यान्त्यसंशयम् ॥ सर्वभूतहितार्थाय कुर्यात्तस्मात्सदेव $^३$हि ॥ ५६ ॥ नाद्यन्तवन्तः कवयः पुराणास्सूक्ष्मा बृहन्तो
ह्यनुशासितारः ॥ सर्वज्वरान्घ्नन्तु तवानिरुद्धप्रद्युम्न संकर्षणवासुदेवाः ॥ ५७ ॥ एते कुशा विष्णुशरीरसम्भवा जनार्दनोऽहं स्वयमत्र चागतः ॥ ॥१२२॥


$^१$ 'वृश्चिकाख्यान्' इ क० ।
$^२$ति 'मध्यग्रहदानवि' इति ख० ।
$^३$ 'कुर्याच्छान्तिममां शुभाग्' इति ख० ।

हृते मया दुष्टमशेषमस्य स्वस्थो भवत्वेष यथा वचो हरेः ॥ ५८ ॥ इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे सत्वबाधाप्रशमनं नाम षण्णवत्यधिकशततमोऽध्यायः ॥ १९६॥ वज्र उवाच ॥ जगत्सृष्टिप्रसंगेन चोर्वीसंम्भवस्त्वया ॥ कथितस्तु महाभाग तत्प्रसङ्गेन चापराः॥ १॥ कथिताश्च कथा ब्रह्मन्विर्मुक्ता मनोहराः ॥ विष्णुमाहात्म्यसंयुक्ताः सर्वपापभयापहाः ॥२॥ कश्यपस्य तु या पत्नी खशानाम्नी त्वयोदिता ॥ यस्याः पुत्रौ महात्मानौ कथितौ यक्षराक्षसौ ॥ ३ ॥ तयोरुत्पत्तिमिच्छामि श्रोतुं वंशं तथैव च ॥ प्रस्तुता जगदुत्पत्तिं निखिलेन प्रकीर्तय ॥४॥ मार्कण्डेय उवाच ॥ राक्षसं पूर्वसन्ध्यायां जनयामास सा खशा ॥ दंष्ट्राकरालवदनं पिङ्गलोद्वेक्षलोचनम् ॥ ५ ॥ आकर्णदारितास्यं च स्थूलनासायसुलवणम् ॥ विकचं विकटाटोपं शङ्कुकर्णं विभीषणम् ॥ ६॥ तथैवापरसन्ध्यायां सैव यक्षं व्यजायत ॥ तादृशेनैव रूपेण यादृशेनैव राक्षसम् ॥ ७ ॥ क्षिणोमि मातरं यक्षः क्षुधितस्तामभाषत ॥ रक्षेति मातरं तां तु यक्षं वै रक्षसोऽब्रवीत् ॥ ८ ॥ रक्षणाद्राक्षसः प्रोक्तः क्षणाद्यक्षः स उच्यते ॥ भार्या बभूव यक्षस्य देवरामा कृतस्थला ॥ ९ ॥ यक्षो राजननाभाख्यस्तस्यास्तस्य सुतः स्मृतः ॥ अनुह्लादसुता भार्या तस्यासीन्नृपगुह्यका ॥१०॥ वीरो मणिचरश्चैव वीरभद्रस्तथैव च ॥ तस्याः पुत्रावुभौ ख्यातौ देवतुल्यौ मनीषिणौ ॥११॥ ककुत्स्थतनये भार्ये तयोरास्तां नराधिप॥ राजन्पुण्यजनीनाम प्रथमस्य बभूव सा ॥१२॥ तथा देवजनीनाम द्वितीयस्याऽपि यादव ॥ तस्याः पुण्यजना यक्षा देवं देवजनास्तथा ॥ कथिता बहुसाहस्रा महाबलपराक्रमाः ॥ १३ ॥ शुभावाप्तैर्वहंस्तूप यक्षवंशैवशास्तु जाता बहुशीलयुक्ताः ॥ धर्मस्थिताः सत्यपरा विनीता महासुभावा वरदा वरेण्याः ॥ १४ ॥ इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे यक्षोत्पत्तिर्नाम सप्तनवत्यधिकशततमोऽध्यायः ॥ १९७ ॥ मार्कण्डेय उवाच ॥ अजः षण्डः पिशाचौ द्वौ सुपाल कपिशासुतौ ॥ पिशाची ब्रह्मयानाख्या तत्राजस्य सुता मता ॥ १॥ पिशाची यातुधानाख्या षण्डस्य तनया मता ॥ अजश्च राजषण्डश्च निशीथे क्षुचितावुभौ ॥२॥ बहिर्भूत्यौ तु सहितौ दृष्टवन्तौ नरेश्वर ॥ राक्षसं क्षुधितकारं पतन्तं क्षुधितं निशि ॥३॥ गृहीतः स पिशाचाभ्यां क्षुधितभ्यां यदा बली ॥ पृष्टः स ताभ्यां यत्नेन दृष्ट्वा तस्य तदा बलम् ॥ ४ ॥ जगाद भूमिपश्चेष्ट चोमयोर्जन्मकारणम् ॥ जन्म कर्म च तौ तस्य श्रुत्वा पिशितभोजनौ ॥ ५ ॥ ददतुः कन्यके तस्य राक्षसस्य नराशिनः ॥ भार्याद्वयस्य वंशौ द्वौ राक्ष सत्य प्रकीर्तितौ ॥ ६ ॥ ब्रह्मज्ञानान्वये तस्य ब्रह्मधाना निशाचराः ॥ यातुधानान्वये तस्य यातुधानाः प्रकीर्तिताः ॥ ७ ॥


१ 'वरो' इति क० ।

वि० ध० | प्र० खं० ॥१२३॥ | अ० ११९

ब्रह्मानन्वये जातानादौ वक्ष्यामि राक्षसान् ॥ यन्नष्टा निर्धनेशेन ब्रह्मणस्तोद्य निश्ववान् ॥ ८ ॥ श्वानकुङ्कुतलैः सर्पौ ब्रह्मनानात्मजाः स्मृताः ॥ तेषामन्वयसम्भूताः शतशोऽथ सहस्रशः ॥ ९ ॥ श्लेष्मातकवनस्थानाः कथिता ब्रह्मराक्षसाः ॥ हेतिः प्रहेतिश्च पौरुषादो वधस्तथा ॥ १० ॥ विद्युत्स्फूर्जश्च वातश्च नमो व्याघ्रस्तथैव च ॥ सुसूक्ष्म करालक्षं यातुधानात्मजा दश ॥ ११ ॥ सूर्यस्यानुचरा ह्येते सह तेन भ्रमन्ति वै ॥ तेषामन्वयसम्भूता यातुधानाः प्रकीर्तिताः ॥ १२ ॥ हेतिमहेतिवंशौ द्वौ तव वक्ष्यामि यादव ॥ हेतुपुत्रः स्मृतो लङ्केयस्य सालकटङ्कट्याः ॥ १३ ॥ सन्ध्यासुता स्मृता भार्या सुकेशस्तत्सुतः स्मृतः ॥ माली सुमाली च तथा माल्यवांश्च महाबलः ॥ १४ ॥ सुकेशतनया ह्येते देवासुरभयङ्कराः ॥ तपसा तैः समाराध्य देवदेवं जनार्द्दनम् ॥ १५ ॥ वीर्यमप्रतिमं प्राप्तं लङ्कां चैव महापुरी ॥ सुमालितनया तत्र कैकसी नाम राक्षसी ॥ १६ ॥ भार्या विश्रवसः पुत्रो यस्या रावणसंज्ञकः ॥ त्रैलोक्यविजयी तस्य रावणस्य दुरात्मनः ॥ १७ ॥ सुमाली वसुना युद्धे धरेण विनिपातितः ॥ माली च देवदेवेन केशवेन निपातितः ॥ १८ ॥ माल्यवांस्तत्र वर्षात्मा जीवत्याद्यापि यादव ॥ श्रुत्वैतौ भ्रातरौ येन पुरा देवरणोत्सुकौ ॥ १९ ॥ हितं धन्यं शुभं वाक्यं न च तौ तस्य चक्रतुः ॥ तेन तौ निधनं प्राप्तौ राक्षसौ समरेद्वये ॥ २० ॥ संश्रावितस्तेन तथैव वाक्यं स रावणो नाम विरोधकाले ॥ उल्लंघ्य वाक्यं निधनं जगाम धर्मे स्थितस्त्वया प्रतिप्रभावः ॥ २१॥ इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे हेतिवंशवर्णनं नामानवत्यधिकशततमोऽध्यायः ॥ ११९॥ मार्कण्डेय उवाच ॥ प्रहेतितनयो राजन्पुलोमा नाम विश्रुतः ॥ क्रोधदृष्ट्या तु यः शीघ्रं च्यवनेन विनाशितः ॥ १ ॥ वज्र उवाच ॥ च्यवनेनं किमर्थं वै पुलो- मा राक्षसो हतः ॥ कथं च भृगुशार्दूल तन्ममाचक्ष्व पृच्छतः ॥ २ ॥ मार्कण्डेय उवाच ॥ पुलोम्नो दानवेन्द्रस्य द्वे कन्ये भुवि विश्रुते ॥ पुलोमा मृगवे दत्ता शची दत्ता च वासवे ॥ ३ ॥ कन्याभावे रुदन्ती तु कदाचिच्चारुलोचना ॥ पुलोमासुतत्रात्रातन्दानवेन्द्रो दानवेश्वरः ॥ ४ ॥ हे रक्षः कन्याकामेतां गृहीत्वा रुदतीं वलात् ॥ एतस्मिन्नेव काले तु पुलोम्नो भवनान्निजैः ॥ ५ ॥ छिद्रान्वेषी दुरात्मा पुलोमा स व्यतिष्ठत ॥ अनुसृत्य च जग्राह तां कन्यां चारुलोचनाम् ॥ ६ ॥ निर्भर्त्स्य तं दुराचारं पुलोमा दानवोत्तमः ॥ कालेन प्रददौ कन्यां भृगवे तां सुमध्य- ॥१२३॥


१ 'नभो' इति ख० । २ 'सर्वक्ष दिक्वारब्ध' इति ख० । ३ 'प्रकरणेऽस्मिन् सर्वत्र हेतिप्रस्थाने हेतुं' इति पद लभ्यते कपुस्तके परञ्च बाल्मीकिना लङ्काख्यं हेतिः प्रहेतिरेवोक्तम् ।

माम् ॥ ७ ॥ अन्तर्वत्नीं तु रहितां भृगुणा तामनिन्दिताम् ॥ अग्निहोत्रगतां दृष्ट्वा पुलोमार्भिमथाब्रवीत् ॥ ८ ॥ पौलोमी यदि मत्पूर्वा सेयं
पावक शंस मे ॥ तामभिब्रवीत्तस्य सेयं पत्नी भृगोः शुभा ॥ ९ ॥ एवमग्नेर्भृगोः श्रुत्वा तां जहार स राक्षसः ॥ तस्यां तु दृश्यमानायां गर्भः
कुक्षेस्तदा च्युतः ॥ १० ॥ च्यवनाच्च्यवनो नाम बभूव स महातपाः ॥ दृष्टमात्रस्तु तेनाऽसौ पुलोमा भस्मसात्कृतः ॥ ११ ॥ पुलोमाऽश्रुनिपातेन
नदी जाता वधूसरा ॥ वह्निश्च सर्वभक्ष्यत्वं भृगुशापादुपङ्गतः ॥ १२ ॥ हुताशनस्तु संक्रुद्धश्शापं प्राप्य द्विजातितः ॥ लोकात्कार्यैरतिद्वेलां
स्वयं वचनमब्रवीत् ॥ १३ ॥ वहे तवार्चिभिः स्पृष्टं शुचि सर्वं भविष्यति ॥ शुचिभूतं ततः पश्चाद्गङ्गेशिष्यत्यसंशयम् ॥ १४ ॥ एतत्तेऽभिहितं
च्यवनस्य जन्म नाशस्तथा राक्षसपुङ्गवस्य ॥ वह्नेः शुचित्वं च तथार्चिषां वै वंशं पुलोम्नोऽथ निबोध राजन् ॥ १५ ॥ इति श्रीविष्णुधर्मोत्तरे
प्रथमखण्डे मार्कण्डेयवज्रसंवादे च्यवनोत्पत्तिवर्णनो नाम नवनवत्यधिकशततमोऽध्यायः ॥ १९९ ॥ ॥ छ ॥ ॥ मार्कण्डेय उवाच ॥
पुलोमस्तनयः श्रीमान्बभूवाऽथ निशाचरः ॥ विनिष्कृष्य स्वकाच्छूलाच्छूलं प्रादादाद्ध्वजः ॥ १ ॥ तपसा तोषितो यस्य सपुत्रस्य महात्मनः ॥
त्रैलोक्यविजयासक्ते तेन राजेन्द्र रावणे ॥ २ ॥ दीक्षिते मेघनादे च तथा याते निकुम्भिलाम् ॥ अन्तर्जलंगते वीरे तथैव च विभीषणे ॥ ३ ॥
निद्रावशगते राजन्कुम्भकर्णे सुरद्विषि ॥ मालिनस्तनया तेन रावणस्य स्वसा हता ॥ ४ ॥ कुम्भीनसी महाभागा रूपद्रविणसंयुता ॥ यस्या
मस्य सुतो जज्ञे लवणो¹ नाम राक्षसः ॥ ५ ॥ येन शूलप्रभावेण मान्धाता विनिपातितः ॥ न तस्य पुत्रो भार्या वा बभूवातिदुरात्मनः ॥ ६ ॥
प्राणिनां पुरुषादानां सहस्रैर्द्दशभिर्नृप ॥ आहारमाह्निकं तस्य भवत्यैतद्दिकस्य तु ॥ ७ ॥ रामाज्ञया तस्य वभूव राजन्नामानुजो शत्रुदरर्द्दनस्तत्त्वः ॥
शत्रुघ्नामा भुवनस्य वीरो महान्तरस्थो हरिरप्रमेयः ॥ ८ ॥ इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे प्रहेतिवंशानुकीर्तनं नाम
द्विशततमोऽध्यायः ॥ २०० ॥ मार्कण्डेय उवाच ॥ यक्षेन राक्षसे जाते ततः कालेन केनचित् ॥ एषा सुषाव गन्धर्वं शैलूषमिति विश्रुतम् ॥ १ ॥
कोट्यस्तिस्रस्तु पुत्राणां तस्यासन्सुरदारुणाम् ॥ एतस्मिन्नेव काले तु विसृष्ट्यासु प्रजासु च ॥ २ ॥ ब्रह्मादिदेश राज्यानि जायंजात्यां यथाक्र
मम् ॥ गन्धर्वाणामथाधिपतिं चक्रे चित्ररथं तथा ॥ ३ ॥ शैलूषपुत्रा गन्धर्वा संशशः कृतनिश्चयाः ॥ शासनेनैव तिष्ठन्ति तस्य चित्ररथस्य
तु ॥ ४ ॥ सिन्धोरुभयकूलेषु देशेषूत्साद्य ते तदा ॥ हत्वा च मनुजांस्तत्र निवसन्ति गतव्यथाः ॥ ५ ॥ उत्साद्यन्तो राष्ट्राणि राज्ञो विप्रियका


१ 'पावकोऽब्रवीत्' इति क० । पाक्कोऽभवत्' इति ख० । २ 'रतो' इति ख० ।

वि० ध० ॥१२४॥ प्र० खं० अ० २०२ ॥१२४॥

रकाः ॥ ताञ्शशाप स गन्धर्वोराजोश्विरथः प्रभुः ॥ ६ ॥ अधर्मनिरताः सर्वे मातृपादधमाप्स्यथ ॥७॥ शापेन तस्याप्रतिमिन गजन्त्यन्यवराञ्जाति बलस्य संख्ये ॥ बभूव मृत्युर्भरतस्तु तेषां देशन्तरस्थो हरिरप्रमेयः ॥ ८ ॥ इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे शैलूपवंशावर्णनं नामैकाधिकद्विशततमोऽध्यायः ॥ २०१ ॥ वज्र उवाच ॥ शैलूषपुत्रा गन्धर्वा भरतेन कथं हताः॥किम्भू तु महाभाग तन्ममाचक्ष्व पृच्छतः ॥ १॥ मार्कण्डेय उवाच ॥ अयोध्यायामथोध्यायां रामे दशरथात्मजे ॥ कैकेय्याधिपतिः श्रीमान्युधाजिन्नाम पार्थिवः ॥ २॥ रामाय प्रेषयामास दूतं भरत मातुलः ॥ वृद्धं पुरोहितं गार्ग्यं येन कार्येण तच्छृणु ॥३॥ सिन्धोरुभयकुलेषु रामदेशो मनोहरः ॥ हत्वा गणे मनुष्येन्द्रान्गन्धर्वावनिर्विशतः॥४॥ गन्धर्वास्ते च राजेन्द्र राज्ञां विप्रियकारकाः ॥ लक्ष्मणं भरतं वापि शत्रुघ्नमथवा नृप ॥ ५ ॥ विसर्जयित्वा गन्धर्वान्निहन्त्वानिन्दिताशय राघव ॥ राजानो निर्भयाः सन्तु देशांश्चास्तु तथा तव ॥ ६ ॥ दूतस्य वचनं श्रुत्वा चिन्तयामास राघवः ॥ मेदनाद्वध्य कर्मे लक्ष्मणेन महत्कृतम् ॥ ७ ॥ शत्रुघ्नेन कृतं कर्म लवणं च विनिघ्नता ॥ प्रेषयिष्यामि भरतं गन्धर्वेभ्यश्च निर्ग्रहे ॥८॥ इत्येवं मनसि ध्यात्वा रामो भरतमब्रवीत् ॥ गच्छ गार्ग्यं पुरस्कृत्य वत्स राज्यगृहं स्वयम् ॥९॥ मातुलेन समायुक्तः कैकेयेन्द्रगृहात्ततः ॥ जहि शैलूषतनयानन्धान्विषयलिप्सयान् ॥ १० ॥ एवमुक्तः स धर्मात्मा भरतो भ्रातृवत्सलः ॥ रामस्य पादौ शिरसा चाभिवन्द्य कृताञ्जलिः ॥ ११ ॥ गृहं गत्वा चकाराय सर्वं प्राम्थानिंकं विधिम् ॥ ओषधीनां कषायेण तदोत्साहिविताविधैः ॥ १२ ॥ मांसपर्षफलैकेन प्रसादीनिभोगहृद्भाः ॥ तीर्थानामग्रजनोदयैः सलिलैश्च स मार्गैः ॥ १३ ॥ चन्दनवालवसम्मिश्रैः कुंकुमालोदसंयुतैः ॥ सर्वोषधिसमायुक्तैः सर्वगन्धसमन्वितैः ॥ १४ ॥ मन्त्रपूतैर्महातेजाः स्नातो गन्धववर्चसः ॥ शङ्खभेरी निनादेन पणवानां स्वनेन च ॥ १५ ॥ आनकानां च शब्देन निनितेन च वन्दिनाम् ॥ सूनमागधशब्देन जयशंकरप्रभवेन च ॥ १६ ॥ तुष्टुवुः स्नानकाले तं स्तवैर्मङ्गलपाठकाः ॥ तथोपतम्प्रणुगीतं गन्धर्वाप्सरणां गणाः ॥ १७ ॥ स्नान्तः स भगत्नो लक्ष्म्या ज्वलन्निविसृष्टपाः ॥ विलिप्य चारुसर्वाङ्गं चन्दनेन सुगन्धिना ॥ १८ ॥ अहनामयगन्धर्वांतः श्वेतमाल्यविभूषणः ॥ कुण्डली नाङ्गदो मौली सर्वगन्धविभूषितः ॥ १९ ॥ अन्तस्थं पूजयामास देवदेवं त्रिविक्रमम् ॥ गन्धमाल्येनधन्काग्रधूपदीपादिकर्मणा॥२०॥ पूजयित्वा जगन्नाथमुपहृत्य हुताशनम् ॥ मुहुतं ब्राह्मण न्दून् राघवाणां पुरोधसा ॥ २१ ॥ गोभिविक्वोहिरण्येश्च तुष्टअंग्निपुडुवैः ॥ मोदकैः सफलैर्हृद्या गन्धमाल्यसमन्विर्तैः ॥ २२ ॥ स्वस्तिवाचाद्यतांस्तथा विप्रान्महात्मा भूरिदक्षिणः ॥ व्याश्रमचतिरे रम्ये सुप्रविष्टो वरासने ॥ २३ ॥ आयुधनानन्तं चक्रे ध्वजच्छत्राभिपूजनम् ॥ स्वस्तिकान्वर्धमानांश्च

नन्द्यावर्तैस्तथैव च ॥ २४ ॥ नवः काञ्चनविन्यस्ताः शङ्खः सत्कमलाञ्जनम् ॥ पूर्णकुम्भं गजमदं दूर्वाः सार्द्रं च गोमयम् ॥ २५ ॥ रत्नान्य- दाय बिल्वं च चापमादाय सत्वरः ॥ सशनं राघवश्रेष्ठः पद्धत्यांनिरकं ययौ ॥ २६ ॥ श्रेष्ठमश्वं सुचन्द्राभं हेमभाण्डपरिच्छदम् ॥ आरूह्य निर्ययौ श्रीमाञ्जयकाराभिपूजितः ॥ २७ ॥ पौरजानपदामात्यैर्वाद्यघोषेण भूरिणा ॥ ह्रदेन गजघण्टानां बृंहितेन पुनःपुनः ॥ २८॥ हेषितैन तुरङ्गाणां नराणां हर्षितेन च ॥ द्विजपुण्याहघोषेण प्रयातो भूरिदक्षिणः ॥ २९ ॥ भरतस्य प्रयाणे तु देवाः शक्रपुरोगमाः ॥ मुमुचुः पुष्पवर्षाणि वाच ऊचुः शुभास्तथा ॥ ३० ॥ एष विग्रहवान्धर्म एष सत्यवतां वरः ॥ एष वीर्यवतां श्रेष्ठो रूपेणाप्रतिमो भुवि ॥ ३१ ॥ अनेन यत्कृतं कर्म रामे वनमुपागते ॥ न तस्य कर्ता लोकेऽस्मिन्दिवि वा, विद्यते क्वचित् ॥ ३२ ॥ अनेन राज्यं सन्त्यक्तं गृहं दुग्धमिवाग्निना ॥ अनेन् दुःवशश्यासु शयितं सुमहात्मना ॥ ३३ ॥ नित्यमासन्नभोगेन जटावल्कलधारिणा ॥ फलमूलाशि- नानेन रामराज्यं हि पालितम् ॥ ३४ ॥ शृण्वन्सुवाक्यानि सुरेरितानि रामानुजो रामगृहं जगाम ॥ शूरार्यविद्भूतुरपोपकीर्णं रन्तेयथा सागरम् प्रमेयम् ॥ ३५ ॥ इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे भरतप्रस्थानवर्णनं नाम द्वयधिकद्विशततमोऽध्यायः ॥ २०२ ॥

मार्कण्डेय उवाच ॥ गृहात्प्रयाते भरते प्रस्थानार्थिनि यादवे ॥ प्रागेव लक्ष्मणं रामो नित्योयुक्तमभाषत ॥ १ ॥ अनुयानं कुमारस्य भरतस्य महात्मनः ॥ प्रेषयाश्वसहस्राणां शतानि त्रीणि राघव ॥ २ ॥ दश दन्तिसहस्राणि रथानां षड्गुणानि च ॥ कोट्यः पञ्च पदातीनां समर्पयन्वि- वर्तिनाम ॥ ३ ॥ धनाध्यक्षस्तथा वत्समनुगच्छन्तु लक्ष्मण ॥ गोरथैश्च तथा पृष्ठैर्गोभिरूष्टैस्तथैव च ॥ ४ ॥ व्यायतैः पुरुषैर्व्यङ्गैर्देभैश्च तथा वरैः ॥ वस्त्रैरुत्सुसुवर्णानां मणीनामपि भागशः ॥ ५ ॥ विसर्गाय कुमारस्य परिपूर्णा यथासुखम् ॥ ब्राह्मणाः कथया मुख्यास्तथैव नटनर्तकाः ॥ ६ ॥ गीते नृत्ते तथा लास्ये प्रवीणाश्च वराङ्गनाः ॥ प्रास्थानिकाश्च ये केचित्पानिकेश्चियिन्ध्व ये ॥ ७ ॥ रूपार्जीवाश्च वणिजो नानापण्योपजीविनः ॥ नानारूपसुपादाय बहुपण्यं व्रजन्तु वै ॥ ८ ॥ ^१विप्रवैद्याः शल्यवैद्यास्तथा कार्यचिकित्सकाः ॥ कर्मन्तिका स्थपतयो मागिणो वृक्षरोपकाः ॥ ९ ॥ कूपकाराः सुधाकारा वंशकर्मकृतस्तथा ॥ वाणिकाराश्च ये केचित्कुचकाराश्च शोभनाः ॥ १० ॥ परिकर्मकृतश्चैव तथा वस्त्रोपजीविनः ॥ मायूरिकास्तैित्तरिकाश्चेतका भेदकाश्च ये ॥ ११ ॥ रक्षका दन्तकाराश्च तथा दन्तोपजीविनः ॥ एरण्डवनकाराश्च


^१ 'प्रप्रथमम्' इति क० । ^२ 'कोटयश्च' इति ख० ।

वि० ध० | प्र० खं० ॥१२६॥ | अ० २०४

कटकराश्च शोभनाः ॥ १२ ॥ आरकूटकृतश्चैव ताम्रकूटस्तथैव च ॥ भूर्जकूटाः खड्गकाग गुडसीधुप्रपाचकाः ॥ १३ ॥ आरक्षका माहिष-
कास्ततुवायाश्च लक्ष्मण ॥ ये चामिषाधकाः $^१$केचित्स्तृतमागधबन्दिनः ॥ १४ ॥ वेलिनौगजकाश्चैव चर्मकारास्तथैव च ॥ अङ्गारकोशश्च तथा
लुब्धका ये च धीवराः ॥ १५ ॥ कवचन्धायिणो ये च ये च काष्ठमपाटयन्॥ वस्त्रसीवनसक्ताश्च गृहकाराश्च ये नराः ॥ १६ ॥ कुम्भकाराश्च
ये केचिच्चूर्णवर्तिकिनश्च ये ॥ लेखका गणका ये च तथा तण्डुलकारकाः ॥ १७ ॥ सक्तुकाराश्च ये केचिच्छक्रोपायोपजीविनः ॥ तैलिका
गान्धिकाश्चैव तीर्थसंशुद्धिकारकाः ॥१८॥ चित्रकर्मविदो ये च ये च लाङ्गलिका जनाः ॥ सूताः पारेगताश्चैव संविद्दद्याश्च लक्ष्मण ॥ १९ ॥
गोपा वनचरा ये च नदीतीरविचारणाः ॥ गोसंवर्धनहर्षांश्चैवतस्त्युद्यान्तु यथासुखम् ॥ २० ॥ श्रेणीमहत्तरा ये च ग्रामघोपमहत्तराः ॥
तथैवाटविका ये च ये च शैलविचारिणः ॥ २१ ॥ योजिते सर्वे एवैते सुवृत्ताश्च सुपूजिताः ॥ अनुयान्तु कुमारं मे भरतं भ्रातृवत्सलम् ॥ २२ ॥
इत्येवमुक्तः स तु तान्समस्तानाज्ञापयामास नरेन्द्रवाक्यात् ॥ आमन्त्र्य रामं शिरसा च मर्वं विनिर्ययुस्ते नगरात्प्रहृष्टाः ॥२३॥ इति श्रीविष्णु-
धर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे आतुर्यात्रिकवर्णनन्नाम त्र्यधिकद्विशततमोऽध्यायः ॥ २०३ ॥ ॥ मार्कण्डेय उवाच ॥ एतस्मिन्नेव
कालेतु रामः शुश्राव तन्महत्॥ शङ्खावाद्यरवन्मिश्रं भरतस्यायुधात्रिकम् ॥ १ ॥ गङ्गाङ्गमपागम्य भरतोऽपि महायशाः ॥ पद्भ्यां जगाम गजाननम
वतीर्य तुरङ्गमात् ॥२॥ स ददर्श तदा रामं रत्नसिंहासनम्स्थितम् ॥ अनुक्षिप्तं चन्दनेन चन्दनन्त सुगन्धिना ॥ ३॥ मूर्द्धनं वमानं मवंसंपूर्णपिन्वसम्॥
तेजसा भास्कराकारं सौन्दर्येणोडुपोपमम् ॥ ४ ॥ क्षमया पृथिवींतुल्यं क्रोधे कालानलोपमम् ॥ बृहस्पतिसमं बुद्ध्या विष्णुंतुल्यं पराक्रमैः ॥५॥
सत्ये दानेऽप्यनोपम्यं दमे शीले च राघवम् ॥ पुरोहितममात्यञ्च पुत्रं प्रकृतिमन्त्रिणः ॥ ६ ॥ दृष्ट्वा तं भरतः श्रीमा न्प्रणाम शिरसा महीम् ॥
भरतं युवराजानं गमाय विदितात्मने ॥ ७ ॥ न्यवेदयन्त धर्मात्मा प्रतीहारः सलक्ष्मणम् ॥ उत्थाय कण्ठे जग्राह रामोऽपि भरतं तदा ॥ ८ ॥
मूर्धि चैनमुपाघ्राय आदिदेशाथ शासनम् ॥ भरतं तु सुखासीनं रामो वचनमब्रवीत् ॥ ९ ॥ गन्धर्वपुत्रान्नाशन्त्या कर्तव्यं नगरद्वयम् ॥ मन्वयो
रभयरूपार्थं तु पुत्रयोरुभयोः कृते ॥ १० ॥ अभिषिच्य तदा वत्स पुत्रौ नगरयोरृतयोः ॥ प्रत्राजिति परियाय क्षिप्रमागन्तुमर्हसि ॥ ११॥ त्वया
विना नरव्याघ्र नाहं जीवितुमुत्सहे ॥ क्षत्रधर्म पुरस्कृत्य तत्र त्वं प्रेषितो मया ॥१२॥ स त्वं गच्छ महाभाग मा ते कालात्ययो भवेत् ॥ स्वस्त्य ॥१२३॥


$^१$ 'चामिषवशा' इति ख० ।

स्तु तेऽन्तरिक्षेभ्यः पार्थिवेभ्यश्च गच्छतः ॥ १३ ॥ दिव्येश्चैव भूतेभ्यः समरे च तथातव ॥ १४ ॥ स्वांस्वां दिशमधिष्ठाय दिक्पाला दीप्तिम- जसः ॥ पालयन्तु सदा तुभ्यं दीप्तिविद्योद्यहारिणः ॥ १५ ॥ ब्रह्मा विष्णुश्च रुद्रश्च साध्याश्च समरुद्गणाः ॥ आदित्या वसवो रुद्रा अश्विनौ च भिषग्वरौ ॥ १६ ॥ भृग्वादिरिसयश्चैव कालस्यावयवास्तथा ॥ सरितः सागराः शैलाः समुद्राश्च सरांसि च ॥ १७ ॥ दैत्यदानवगन्धर्वा पिशाचा रगराक्षसाः ॥ देवपत्न्यस्तथा सर्वा देवमातर एव च ॥ १८ ॥ शास्त्राण्यस्त्राणि शास्त्राणि मङ्गलाय भवन्तु ते ॥ विजयं दीर्घमायुश्च भोगांश्चा- न्यान्दिशन्तु ते ॥ १९ ॥ इति स्वस्त्ययनं श्रुत्वा राज्ञा स समुदीरितम् ॥ रामस्य पादौ शिरसा त्वभिवन्द्य धनुर्धरः ॥ २० ॥ निर्गत्य राजभ- वनादाज्ञामाज्ञाल्पितं जगत ॥ हिमाद्रिकूटसङ्काशं चारुकुंदोज्ज्वलाननम् ॥ २१ ॥ मदेन सिञ्चमानं च नृपवेश्माऽजिरं नृप ॥ समाक्रान्तकटं चापि पानलुब्धशिलिमुखैः ॥ २२ ॥ स्तब्धचारुमहाकर्णं मधुपक्कृपथेयवै तु ॥ दीर्घाग्रमध्वक्षकृतैं कृतशृङ्गावतंसकम् ॥ २३ ॥ स्वासनं व्यूढकुम्भं च तथार्द्धमं महाबलम् ॥ नक्षमालां शिरसा धारयानं तु काञ्चनीम् ॥ २४ ॥ पटुस्वने तथा घण्टे दर्शनीये मनोहरै ॥ कुथं विचित्रं रम्यं च कवि- द्वारं महाध्वजम् ॥ २५ ॥ वैजयन्त्यः पताकाश्च किङ्किणीजालमालिताः ॥ समारूढं नयोविद्वा महामात्रेण धीमता ॥ २६ ॥ वैदूर्यदुण्डतीक्ष्णाग्र काञ्चनाङ्कुशधारिणा ॥ जघनस्थेन चान्येन वरचामरधारिणा ॥ २७ ॥ तथा वैजयिकैर्मन्त्रैर्देवज्ञेनाभिमन्त्रितम् ॥ आरुरोह महातेजा जयत्का राभिनन्दितः ॥ २८॥ पूर्णेन्दुमण्डलाकारं रुक्मदण्डं मनोहरम् ॥ छत्रमादाय तं प्रेम्णा चारुरोह स लक्ष्मणः ॥ २९ ॥ चामरौ द्वौ समादाय चन्द्ररश्मिसमप्रभौ ॥ आरूढं योषितोर्युग्मं रूपेणाऽप्रतिमं भुवि ॥ ३० ॥ तं समालम्ब नागेन्द्रं मद्लेखाभिगामिनम् ॥ जगाम सह गाङ्गेयेण रथारूढेन यादव ॥ ३१ ॥ तन्वन्वयौ महाभाग चतुरङ्गमहद्बलम् ॥ पताकाध्वजसन्नाधं कल्पयन्तं वसुन्धराम् ॥ ३२ ॥ श्येनाः काकवहाः कङ्काः पिशाचा यक्षराक्षसाः ॥ ययुः पुरःसरातस्य भरतस्य महात्मन ॥ ३३ ॥ गन्धर्वपुत्रमांसानां लुब्धा मांसोपजीविनः ॥ तूर्यघोषेण महता वन्दिनों निःस्वनेन च ॥ ३४ ॥ वायुना चानुलोमेन सेव्यमानः सुगन्धिना ॥ मङ्गलानां च मुख्यानां दर्शनाद्धृष्टमानसः ॥ ३५ ॥ निर्ययौ राजमार्गेण जनसम्बवाशालिना ॥ तेजस्विनां च तेजांसि हृदयानि च योषि- ताम् ॥ ३६ ॥ आददानो महातेजा नगरत्स विनिययौ ॥ क्रोशमात्रं ततो गत्वा समे देशे च सोदके ॥ ३७ ॥ प्रशस्तमदुमसंकीर्ण शिबिरं


१ 'क्षमयैव तु' इति ख० । २ 'दीर्घाप्रहस्तं मध्वक्षम्' इति ख० ।

वि० ध० | प्र० सं० अ० २०८ ॥१२६॥

प्राङ्निरूपितम् ॥ सेनाध्यक्षैः सुनिपुणैराविवेश भरतस्तदा ॥ ३८॥ स प्रविश्य महातेजाः शिविरं स्वं निवेशनम् ॥ मङ्गलैरालम्भनं कृत्वा वरासनगतः प्रभुः ॥ ३९॥ पौरजानपदं सर्वं प्रेषयामास यादव ॥ परिपूज्य ततः पश्चाल्लक्ष्मणं शुभलक्षणम् ॥ ४० ॥ मूर्ध्नि चैवमुपाघ्राय प्रेषयामास धर्मवित् ॥ प्रयाणकं च व्योभूते दुन्दुभिमित्ताब्रवीत् मम ॥ ४१ ॥ देशिकाः पुरतो यान्तु ये च वृक्षविशोधकाः ॥ आज्ञाप्य सकलं चैव शिविरं च तथाविधम् ॥ ४२ ॥ अवृक्षेषु तु देशेषु रोपयन्तु द्रुमाञ्जनाः ॥ द्रुमाः कण्टकिनश्चैव ये च मार्गप्ररोधकाः ॥ ४३ ॥ छिन्दन्तु गत्वा तानद्य तीक्ष्णैः शीघ्रं परश्वधैः ॥ तोयहीनेषु देशेषु कूपान्कुर्वन्तु मे तथा ॥ ४४ ॥ विषमांश्च तथा देशान्समान्कुर्वन्तु मे पथि ॥ तीराणि सरितां चैव कुर्वन्तु पुलिनानि च ॥ ४५ ॥ न भवेद्येन संबाधो जनस्य पथि यास्यतः ॥ पुरः प्रयान्तु सैन्येन विजयं मन्त्रिविचक्षणाः ॥ ४६ ॥ नीलश्च वक्रदेवश्च वसुमान्सुनयस्तथा ॥ मध्यप्रयाणे गान्धारो जयन्तानो रणोत्कटः ॥ ४७ ॥ सुशीलः कामपालश्च यान्तु सैन्येन दंशिताः ॥ जघने कटकस्याहं पालयानो यथासुखम् ॥ ४८ ॥ सैन्येन सह यास्यामि विजयाय नृपस्य तु ॥ पश्यन्तु देशिकाः स्थानं प्रभूतयवसेन्धनम् ॥ ४९ ॥ सोदकं च समं यत्र सेनावासो भवेन्मम ॥ एवमाज्ञाय भरतो विजहार यथासुखम् ॥ ५० ॥ सुष्वाप च निशां तत्र प्राप्तकाले सतां हराम् ॥ ५१॥ सुतस्य सा तत्र गूढहृस्य पुण्या यत्नां गिरिदर्शनमत्सवा ॥ सम्पूर्णचन्द्राभरणा प्रतीता व्युष्टाय चामन्त्र्य ष्णान्तसूक्तम् ॥ ५२॥ इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे भरतनिर्याणवर्णनं नाम चतुरधिकद्विशततमोऽध्यायः ॥ २०४॥

॥ मार्कण्डेय उवाच ॥
प्रभातायां तु शर्वर्यां दुन्दुभिः समहन्यत ॥ प्रयाणिको महागज मन्तम्य महास्वनः ॥ १ ॥ तस्य शब्देन महता विबुद्धः कटकै जनः ॥ अवश्यकरणीयानि कृत्वा राजंस्त्वरान्विताः ॥ २ ॥ त्वरिता गमनाथीय नमाहृत्यन्तगन्तम ॥ पटवेश्मानि रम्याणि संहन्तुमुपचक्रमुः ॥ ३ ॥ महान्ति सुसमाज्ञानि वतितोणीकृतानि ॥ ४ ॥ चक्रुस्तानि च गजेन्द्रे सुवस्त्राबान्धयनन्तः ॥ ४ ॥ ततस्त्वावापयान्युक्तैः क्रमेषु गवेषु च ॥ गोरथेषु तु मुख्येषु तथा दन्तिषु सत्वराः ॥ ५ ॥ भाण्डमुच्चावचं चैव शयनानि मृदूनि च ॥ आसनानि च मुख्यानि भाण्डं यच्च महा-नसे ॥ ६ ॥ पेयं च यवसं चैव शस्त्राणि विविधानि च ॥ कवचानि तुरङ्गाणां शिल्पभाण्डानि यानि च ॥ ७॥ धनं च विविधं राजनन्तःपुर-करणानि च ॥ आरोप्यमाणे भाण्डे तु करभाणां विक्षिप्यताम् ॥ ८ ॥ शुश्रुवे तुमुलः शब्दः खराणां च खरस्वनः ॥ गजानां युज्यमानानां

॥१२६॥


१ 'बाहु' इति ख० । २ 'सुतपा' इति ख० ।

तुरङ्गाणां रथैः सह ॥ ९ ॥ वाद्यानां हन्यमानानां शुश्रुवे तुमुलं स्वनम् ॥ नादेन गजघण्टानां बृंहितेन च पार्थिव ॥ १० ॥ ह्रेषितेन तुरङ्गाणां बभूव तुमुलः स्वनः ॥ प्रायाणिकमुपादाय ताड्यन्नेव दुन्दुभिम् ॥ ११ ॥ अग्रे प्रयाणमानर्च्ये ययौ दुन्दुभिभिः सह ॥ पण्यानि च समादाय वणिजस्त्वरिता ययुः ॥ १२ ॥ गृहीतकामाश्चान्यानि सोदकानि समानि च ॥ स्थानानि वरमुख्यानां ययुश्चाग्रेसरा नराः ॥ १३ ॥ महानसिकमुख्यास्तु त्वरितञ्च तथा ययुः ॥ सुखयानासु रम्यासु तथैवाश्वतरीषु च ॥ १४ ॥ आरोग्य योषितो जग्मुः प्रत्यूषे मुदिता जनाः ॥ आरुढश्वापरा नार्यः सवितानाः करेणवः ॥ १५॥ कञ्चुकोष्णीषिभिर्गुप्ता गता वर्षवरैस्तथा ॥ १६ ॥ ससैन्या राजेन्द्र गीतवाद्य पुरस्सराः ॥ १६ ॥ दीनान्धकृपणानांश्चातर्पयन्त्यो धनेन ताः ॥ नरेन्द्रयोषितो राज्ञा दिव्यालंकारभूषिताः ॥ १७ ॥ तथान्ये बह्वनिर्विंशाः पुरुषाश्च कलापिनः ॥ आदीप्य तृणवेश्मानि जग्मुस्त्वरितमानसाः ॥ १८ ॥ भरतोऽपि समारुह्य शिविकां रत्नभूषिताम् ॥ विनिर्ययौ महातेजा स्तूयमानोपुरःसरैः ॥ १९ ॥ शून्यं च शिबिरस्थानं गृहमण्डलसंकुलम् ॥ बहुकव्यादसङ्कीर्णं क्षणेन समपद्यत ॥ २० ॥ गजोष्ट्रगर्दभाश्वानां शरीरावयवैर्वृतम्॥ भग्नभाण्डसमाकीर्ण शरीरावयवैर्वृतम् ॥२१॥ बहुकव्यादसङ्कीर्णं करीषोत्करसंयुतम् ॥ खातैर्महानसस्थानैर्दग्धमृत्तिकया युतैः ॥ ॥२२॥समण्डकैर्मदापेतैर्मक्षिकासाहितेर्युतम् ॥ संत्यज्य निर्ययुः सर्वे भरतस्य तु सैनिकाः॥२३॥प्रयाणे तस्य सैन्यस्य बलीवर्दाम्श्चमानितान् ॥ नागानुत्थापयामासुरुपविष्टान्प्रयत्नतः ॥२४॥ केचिदुष्ट्रपवित्रंस्तान्तान्दण्डेन निपातितान् ॥ भाण्डभारेणाप्यशक्तूंश्च एव नरोत्तमाः ॥ २५ ॥ नद्युत्तारोषु महिषांन्केचित्त्वत्पांशुतापितान् ॥ निष्ण्णान्सह भारेण ताडयाञ्चक्रिरे जनाः ॥ २६ ॥ केचिदश्वतरोँस्तस्तारान्गबृंहितान्स्वैनैः ॥ आरुढोथपिंतो यत्नाज्जगृहुंश्च रश्मिषु ॥ २७ ॥ केचिद्दभैर्गजंस्त्रैरुत्तैराशिक्षता भुवि मानवाः ॥ जातुविश्रमणार्थाय वाजिग्रीवकृताङ्कनयः ॥ २८ ॥ तुरङ्गांश्च तदोद्भ्रान्तान्सस्तचर्मांश्च सादिनः ॥ केचिदाक्रम्य वेगेन जगृहस्तन यादव ॥ २९ ॥ विश्रत्रमुस्रतथा कोचेत्क्षवृक्षच्छायासु मानवाः ॥ केचिच्चोदकतीरेषु चक्रिरे भोजनक्रियाम् ॥ ३० ॥ केचित्सन्त्रस्ततुरगसन्निकृष्टसमुत्थितैः ॥ द्रुतान्कांपिक्षेलेयैर्लग्नान्पुङ्गुस्तांस्तुरङ्गमान् ॥ ३१ ॥ केचित्कटकसंस्त्रांस्तान्मुग्भूयान्प्रधावतः ॥ वेगानाक्रम्य विशिखैर्जघ्नुर्युद्धकुलोद्वह ॥ ३२ ॥ केचिन्न यवसं चक्रुः केचिच्चक्रूरथेन्धनम् ॥ तथान्योद्दिगुणीभूतं तथा दुन्दुभिनिस्वनम् ॥ ३३ ॥ प्रायाणिकं जहुः शीघ्रं श्रमं यदुकुलोद्वह ॥ केचिदापणवीथ्यग्रमहांवराससूच्छ्रितम् ॥३४॥


१ 'सैन्येन' इति ख० । २ 'बाध्याणि' इति ख० ।

वि० ध० ॥१२७॥ प्र० खं० अ० २०६

सपताकं नरा दृष्ट्वा प्राप्ताः स्म इति मेनिरे ॥ ३५ ॥ केचिच्च च्छन्दसि सहाय्यानां पुनःपुनः ॥३६॥ पुरोगतानां राजेन्द्र स्थानलिङ्ग्यिचिकीर्षया ॥ केचित्पङ्कुटीं दृष्ट्वा स्वकीयां त्वरिता ययुः ॥ ३६ ॥ ततितोपोत्कृतं दृष्ट्वा गृहञ्चान्ये ययुर्द्रुतम् ॥ केषाञ्चित्तत्र वेश्मानि तीर्णानि तृणस्तृप्तम् ॥ ३७ ॥ कृतानि क्रियमाणानि ददृशुस्तत्र मानवाः ॥ दुर्भोवविक्षाम्यमाणांश्च क्रियमाणैस्तथा कटैः ॥ ३८ ॥ गृहैरगोप्यमानेषु पटोणोतृणसंस्कृतैः ॥ शुशुभे तन्महाराज कटकं शुभकर्मणः ॥ ३९ ॥ शङ्खण संशोधयतां भुवं भूमिपते नृणाम् ॥ राजन्नाक्रान्तवृषभमप्रकाशं ववृषेभौ ॥ ४० ॥ पांशुस्थतोवसम्पूर्णहृतश्च तथा जनाः ॥ धावमानाः प्रदृश्यन्ते वर्धता गृहशोभने ॥ ४१ ॥ अभ्युक्षयन्ति चाप्यन्ये तृणवेश्मानि पार्थिव ॥ ततानां शीतकामानां हृतिक्रोडहितैर्जलैः ॥ ४२ ॥ अभिश्रयेण धूपेन समन्तादाकुलीकृतम् ॥ बभूव तस्य कटकं नीहारेणेव संवृतम् ॥ ४३ ॥ अवरोपितभाण्डानां दन्तानां यदुनन्दन ॥ पृष्टान्यभ्युक्ष्यमाणानिगोमयेन जलेन च ॥ ४४ ॥ खरोष्ट्रखुरलोर्तिवं चरणार्थे विनिर्गतम् ॥ ४५ ॥ दृष्ट्वा बहुसाहसं कटके भरतस्य तु ॥ रथेभ्यस्तुरगानान्ये विमुच्य हयकोविदाः ॥ ४६ ॥ अवगोपितभाण्डानि सान्त्वयाञ्चक्रिरे शनैः ॥ समुत्थाय रजो भौमं तुरङ्गैरितैर्नभैः ॥ ४७ ॥ समारुरोह राजेन्द्र कपोतारुणपाण्डुरम् ॥ स्थापयाञ्चक्रिरे चान्ये जलस्थाने च वाजिनः ॥ ४८ ॥ श्रणौ चक्रुस्तथैवान्ये कटच्छायास पार्थिव ॥ वितानान्यस्तथा केचित्स्थापयाञ्चक्रिरे हयान् ॥ ४९ ॥ हयेभ्यो यवसं दत्त्वा केचिद्भुञ्जिरे जनाः ॥ कटच्छायाश्च नागानां चक्रुश्चान्ये सहस्रशः ॥५०॥ वितानानि च मुख्यानि मूर्धतापत्रशान्तये ॥ खाताञ्जलाशये नागांल्छ्वैतयाञ्जनाधिप ॥ ५१॥ सच्छत्रान्म्बपर्णप्रधानकुम्भान्विरच्युः स्वमाल्यम् ॥ कटकाह्वनश्चक्रुर्गजानां नृपदन्तिनाम ॥ ५२ ॥ आलानानि महाराज महावृक्षेषु मानवाः ॥ आदाय गोपिनस्तत्र कटकांश्च विमुग्मः ॥ ५३ ॥ गोमण्डलाभिर्र्ष्यामांश्रक्रुरन्येन्ताथानुसाख्वन् ॥ कटके च तथा नित्युन्र्गोरसानि नराधिप ॥ ५४ ॥ कटकापणवार्थीं च मर्वपण्यविवर्धिपताम ॥ ददृशुः पुरुषामन्तश्च अर्धाय्यायामिव चापगाव ॥ ५५ ॥ स्थानानि सर्ववैद्यानां सञ्जानि नराधिप॥ सागदानि च दृश्यन्ते कटकं भरतस्य तु॥५६॥ समानान्तराध्यक्षान् वीक्ष्य विजयन् महात्मना॥ कृतं शास्त्रातुनारज स्कन्धावारनिवेशनम् ॥ ५७ ॥ विवेश भरतः श्रीमांश्चतुरङ्गबलान्वितः ॥ अर्च्यमानो वीराभ्यां पुत्राभ्यां यदुनन्दन ॥ ५८ ॥ पुष्करंण च वीरेण तक्षण सुमहात्मना ॥ बलमुख्यैस्तथैवान्यैः सृतमागधबन्दिभिः ॥ ५९ ॥ शङ्खवादिन्नघोषेण पटहानां स्वनेन च ॥ भरतस्य गृहद्वा स्तोरणान्तिकमागताः ॥ ६०॥ बभूवुर्बलमुख्यास्ते दिशु ये यदुनन्दन ॥ सन्त्यज्य मञ्चमां वीथीं प्रवशाय महामनाः ॥ ६१ ॥ बन्दिभिः