विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)
Vishnudharmottara Purana Hindi
महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह) द्वारा
स्रोत: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (उद्गम)
॥ वि० ध० ॥ ॥ ११९ ॥
द्वि० खं० अ० ३२
अल्पं ददत् कुंकुममुद्भवदत्तम् ॥ ब्राह्मणाश्च महाभागा नमस्यास्ते सदैव हि ॥ १४ ॥ ब्राह्मणानां तथा कार्यं यन्नाकुर्वीत पार्थिवः ॥ कालातिपातं च तथा विप्रकार्ये न कारयेत् ॥ १५ ॥ निष्पीडितस्तूपवसेन्न विद्वांन्निराशं जनः ॥ स राम नरकं याति वर्षाणां तु दशायुतम् ॥ १६ ॥ ब्राह्मणी रुदती हन्ति कुलं रोदायते ध्रुवम् ॥ तदश्रुवहिनिर्दहति कुलं निरुपरुषं ध्रुवम् ॥ १७ ॥ विद्वानप्यथवाऽविद्यांन्ब्राह्मणो मानमर्हति ॥ प्रणीतश्चाप्रणीतश्च यथाऽग्निर्द्विजपुङ्गव ॥ १८ ॥ प्रतिष्ठां प्राप्नुवन्तीह सुरा विप्रप्रतिष्ठिताः ॥ १९ ॥ तत्सुखे तु तथाश्रान्तिर्देवाश्च पितृभिः सह ॥ वह्नौ हुताच्छ्रेष्ठतमं हुतं विप्रमुखेऽग्निषु ॥ २० ॥ अस्कन्दमविगूहं च प्रायश्चित्तैर्विवर्जितम् ॥ यावतो ग्रसते ग्रासान्द्विजान्विप्रः सुसंस्कृतः ॥ २१ ॥ अन्नप्रदस्य तावन्तः क्रतवः परिकीर्तिताः ॥ ब्राह्मणानां करानुत्सृक्तं तोयं शिरसि धारयेत् ॥ २२ ॥ ब्राह्मणस्य करे यस्मात्सर्वतीर्थसमागमः ॥ ब्राह्मणेभ्यः समुत्पन्नं त्रैलोक्यं सचराचरम् ॥ २३ ॥ अमोघशापा धर्मज्ञा कथितास्ते जगत्त्रये ॥ आशीर्वादादमोघं च ब्राह्मणानां प्रकीर्तितम् ॥ २४ ॥ आशीर्वादात्पराः कार्यास्तस्माद्ब्राह्मा द्विजोत्तमाः ॥ यैः कृतः सर्वभक्ष्योऽग्निरपेयश्च महोदधिः ॥ २५ ॥ क्षयी सोमोऽभवत्तथैव च शतक्रतुः ॥ येषां कोपाभिरग्न्यापि दण्डके नोपशाम्यति ॥ २६ ॥ विपुलञ्च तथा येषां प्रसादो रघुनन्दन ॥ येषां प्रसादात्क्षीणोऽपि वृद्धिमिच्छति चन्द्रमाः ॥ २७ ॥ येषां प्रसादाल्लक्ष्मीभिर्नाभिभूयेत भास्करः ॥ येषां प्रसादाद्विपुलां कार्तवीर्य्यः श्रियं गतः ॥ २८ ॥ येषां प्रसादाद्धनदो धनाध्यक्षत्वमागतः ॥ अस्नातः स्नानमाप्नोति व्रतमप्नोत्यथाव्रती ॥ २९ ॥ येषां वचनमात्रेण किम्भूतमधिकं ततः ॥ भोगं राज्यं तथा स्वर्गं येषां वाक्येन लभ्यते ॥ ३० ॥ अपावनकरः क्रोधो येषां राम सदा स्थितः ॥ ते पूज्यन्ते च सत्कृत्योयेस्तेषां दुरणि दापयेत् ॥ ३१ ॥ धारयन्ति जगत्सर्व्वं ब्राह्मणा वेदपारगाः ॥ देवानानाप्याययन्ति हि ब्राह्मणा रघुनन्दन ॥ ३२ ॥ ते तृप्तास्तर्पयन्तीह भुवनं सकलं सुराः ॥ ब्राह्मणेनाहुतिर्दत्ता वह्नौ मधुघृतोदकैः ॥ ३३ ॥ आदित्यमाप्नोत्यादित्याद्वृष्टिर्भवति भूतले ॥ अन्नस्य च तथोत्पत्तिस्ततोद्भूतः स्मृतः ॥ ३४ ॥ तस्मात्त्रिभुवनं सर्वं ब्राह्मणेनैव धार्य्यते ॥ ब्राह्मणप्रभवा भूमिर्राह्मणप्रभवो दिवः ॥ ३५ ॥ ब्राह्मणानामिमे लोकाः परलोकास्तथैव च ॥ इज्यास्वाध्यायवतपसामग्रेष्वाथयदा द्विजाः ॥ ३६ ॥ स्वाम्यं भुवि न विन्दन्ति क्षत्रियास्तु तदा कृताः ॥ ब्राह्मणानां वचः कार्यं राजभिः सततोत्थितैः ॥ ३७ ॥ धर्मेऽर्थे च कामे च तेषां वाचि प्रतिष्ठितम् ॥ ब्राह्मणानां तु वाक्येन निग्रहानुग्रहावुभौ ॥ ३८ ॥ लोके कार्यौ भूमिभृता भृतिकामेन नित्यदा ॥ राजा ब्राह्मणवाक्येन यः कुर्याच्छासनादिकम् ॥ ३९ ॥ सम्यग्वाप्यथवासम्यक्तेन नाके
॥ ११९ ॥
महीयते ॥ उल्लंघ्य शास्त्रं नृपतिर्यो यथारुचि वर्तते ॥ ४० ॥ स राम नरकं याति सुकृतेनापि कर्मणा ॥ यत्र ब्राह्मणवाक्यानि न करोतीह यो नरः ॥ ४१ ॥ न तत्र दोषवान्विप्रो राजा दोषेण लिप्यते ॥ ब्राह्मणं दशवर्षं च शतवर्षं च भूमिपम् ॥ ४२ ॥ पितापुत्रौ विजानीयाद्ब्राह्मणस्तु तयोः पिता ॥ यस्य राज्ञस्तु विषये ब्राह्मणः सीदति क्षुधा ॥ तस्य सीदति तद्राष्ट्रं दुर्भिक्षव्याधितस्करैः ॥ ४३ ॥ तस्मात्पूज्या नमस्कार्यास्सं- विभाज्यास्तथा द्विजाः ॥ राज्ञा सर्वप्रयत्नेन लोकद्वयमभीप्सता ॥ ४४ ॥ यद्ब्राह्मणास्तुष्टतमा वदन्ति तद्देवताः प्रत्यभिनन्दयन्ति ॥ तुष्टेषु तुष्टाः सततं भवन्ति प्रत्यक्षदेवेषु परोक्षदेवाः ॥ ४५ ॥ इति श्रीविष्णुधर्मोत्तरे द्वि०खण्डे मा० सं० रामं प्रति पुष्करवाक्ये ब्राह्मणप्रशंसावर्णनन्नाम द्वात्रिंशत्तमोऽध्यायः ॥ ३२ ॥ पुष्कर उवाच ॥ साध्वीनां पालनं कुर्यात्पूजनं च महीपतिः ॥ एकपत्न्यः स्त्रियः सर्वा धारयन्ति जगत्त्रयम् ॥ १ ॥ भर्तृव्रता भर्तृपरा भर्तृपूजनतत्परा ॥ या तु स्त्री सा दिवं याति सह भर्त्रा द्विजोत्तम ॥ २ ॥ एकपत्न्यस्तु यद्दुःखं सहन्ते द्विज सत्गुणाः ॥ तेन ताः स्वर्गमासाद्य सुखमाप्स्यन्त्यनेकधा ॥ ३ ॥ तासां प्रभावो हि महांस्तेजश्चैवातिदुःसहम् ॥ न कोपनीया नोपेक्ष्या नैव ताश्च विमानयेत् ॥ ४ ॥ नादृष्टेयादपराधेषु दण्ड्यस्तासां पतिर्भवेत् ॥ पुत्रो वाप्यथवा नीतो नैव राजा प्रभुः क्वचित् ॥ ॥ ५ ॥ नैव साध्वी विनिर्द्दिष्ट्या केवलोपस्थरक्षणात् ॥ विप्रियं नाचरेत्किञ्चित्पत्युः साध्वीति सा स्मृता ॥ ६ ॥ कर्मणा मनसा वाचा भर्तुः प्रियहितेषिणी ॥ या नारी सा स्मृता साध्वी पतिपूजनतत्परा ॥ ७ ॥ नमस्कार्याश्च पूज्याश्च वन्दनीयाश्च भार्गव ॥ राजा सर्वप्रय- त्नेन तथा लोकैश्च सर्वशः ॥ ८ ॥ अनाथां च तथा साध्वीं विभूत्यातिथिवोत्तत्तमः ॥ तस्यै यद्दीयते दानं तदनन्तं प्रकीर्तितम् ॥ ९ ॥ साध्वी नामपमानेन कुलं दहति पूरुषः ॥ तासां सम्पूजनाद्राम स्वकुलं चोन्नतिं नयेत् ॥ १० ॥ न धनेन न धान्येन न शीलेन न बन्धुभिः ॥ न यज्ञै र्दक्षिणावद्भिर्नाधीतेन तथैव च ॥ ११ ॥ अकुलानि कुलान्याहुः किन्तु स्त्रीणां विचेष्टितैः ॥ येषु साध्व्यः स्त्रियो राम कुलेषु कुलपूर्वजाः ॥ ॥ १२ ॥ महाकुलानि तानीह कृशान्यपि धनैर्यदि ॥ पुत्राणामपि तत्पुत्रं साध्वी यस्यारणिर्भवेत् ॥ १३ ॥ हव्येषु साध्वीतनयं तथा कव्येषु योजयेत् ॥ तत्राल्पस्यापि दानस्य महत्पुण्यं प्रकीर्तितम् ॥ १४ ॥ गायत्री तु यथा राम यथा गङ्गा सरिद्वरा ॥ पावनी कीर्तनादेव तथा साध्वी वराङ्गना ॥ १५ ॥ रामास्तु भृगुशार्दूल न प्रदुष्यन्ति कर्हिचित् ॥ मासिसि रजस्तासां दुष्कृतान्यपकर्षति ॥ १६ ॥ सोमस्तासां ददौ शौचं गन्धर्वः शिक्षितां गिरम् ॥ अग्निश्च सर्वमेध्यत्वं तस्मान्निष्कल्मषाः स्त्रियः ॥ १७ ॥ ब्राह्मणाः पादतो मेध्या गावो मेध्यास्त-
पृष्ठतः ॥ अजाश्वौ मुखतो मेध्यौ स्त्रियो मेध्यास्तु सर्वतः ॥ १८ ॥ यामयो यानि गेहानि शपन्त्यप्रतिपूजिताः ॥ तानि कृत्याहतानीव विनश्यन्ति समन्ततः ॥ १९ ॥ स्त्रियः श्रियश्च गेहेषु न विशेषोऽस्ति कश्चन ॥ तस्मात्सर्वप्रयत्नेन पूजनीयाः सदा स्त्रियः ॥ २० ॥ मिथ्या न साध्वी भवतीह लोके भवत्यथास्मिन्नपरे च राम ॥ साध्व्यस्तथा पूज्यतमाः प्रसिद्धा लोकेषु सर्वेषु चराचरेषु ॥ २१ ॥
॥ इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मार्कण्डेयवज्रसंवादे साध्वीमाहात्म्यं नाम त्रयस्त्रिंशोऽध्यायः ॥ ३३ ॥
॥ राम उवाच ॥
॥ साध्वीनां श्रोतुमिच्छामि देव धर्मानशेषतः ॥ साध्व्यो हि नार्यो लोकानामाचार इह कीर्तितः ॥ १ ॥
॥ पुष्कर उवाच ॥
॥ एतदेव परं राम रामाणां धर्मकारणम् ॥ यदासौ सर्वकार्येषु नित्यं हि परतन्त्रता ॥ २ ॥ बाल्ये पितुर्वशे तिष्ठेत्पाणिग्राहस्य यौवने ॥ पुत्राणां भर्तरि प्रेते न स्त्री स्वातन्त्र्यमर्हति ॥ ३ ॥ पित्रा भर्त्रा सुतेनेह नेच्छेद्विरहमात्मनः ॥ तेषां विरहेण स्त्री गर्हा कुर्यादुभे कुले ॥ ४ ॥ सदा प्रहृष्टया भाव्यं गृहकार्ये च दक्षया ॥ सुसंस्कृतोपस्करया व्यये चामुक्तहस्तया ॥ ५ ॥ यः प्रदद्यात्पिता त्वेनां तद्भावापि कारकः ॥ तं शुश्रूषेत जीवन्तं संस्थितं न तु लंघयेत् ॥ ६ ॥ मङ्गलार्थं स्वस्त्ययनं यज्ञाशासं प्रजायते ॥ प्रयुज्यते विवाहेषु प्रदानं स्वामिकारितम् ॥ ७ ॥ अनृतौतुऋतौकाले मन्त्रसंस्कारकृत्पतिः ॥ सुखं नित्यं ददातीह परलोके च योषितः ॥ ८ ॥ विशीलः कामवृत्तो वा गुणैर्वा परिवर्जितः ॥ उपचर्यः स्त्रिया साध्व्या सततं देववत्पतिः ॥ ९ ॥ नास्ति स्त्रीणां पृथग्यज्ञो न व्रतं नाप्युपोषितम् ॥ पतिं शुश्रूषते यत्तु तेन स्वर्गे महीयते ॥ १० ॥ पाणिग्राहस्य साध्वी स्त्री जीवतो वा मृतस्य वा ॥ पतिलोकमभीप्सन्ती नाचरेत्किञ्चिदप्रियम् ॥ ११॥ कामं तु क्षपयेद्देहं पुष्पमूलफलैः शुभैः ॥ न तु नामापि गृह्णीयात्पत्यौ प्रेते परस्य तु॥ १२॥ आसीतामरणाच्छान्ता नियता ब्रह्मचारिणी ॥ यो धर्म एकपत्नीनां काङ्क्षन्ती तमनुत्तमम्॥ १३॥ अनेकानि सहस्राणि सुशुभ्रब्रह्मचारिणाम् ॥ दिवङ्गतानां विप्राणामकृत्वा कुलसन्ततिम् ॥ १४ ॥ मृते भर्तरि साध्वी स्त्री ब्रह्मचर्ये व्यवस्थिता॥ स्वर्गं गच्छत्यपुत्रापि यथा ते ब्रह्मचारिणः ॥ १५॥ अपत्यलोभाद्या तु स्त्री भर्तारमतिवर्तते ॥ सा नेह निन्दामवाप्नोति परलोकाच्च हीयते ॥ १६ ॥ नान्योत्पन्ना प्रजास्तीह न चाप्यन्यपरिग्रहा ॥ न द्वितीयश्च साध्वीनां क्वचिद्भर्तोपदिश्यते॥ १७॥ पतिं हित्वा निकृष्टं स्वं चोत्कृष्टं या निषेवते॥ निन्द्यैव लोके भवति परपूर्वेति चोच्यते ॥ १८ ॥ व्यभिचारात्तु भर्तुः स्त्री लोकनाप्नोति निन्दितान् ॥ शृगालयोनिं चाप्नोति पापरोगैश्च पी
उच्यते ॥ १९ ॥ पतिं या नाभिचरति मनोवाग्देहसंयता ॥ इहाग्र्यां कीर्तिमाप्नोति परलोके च शस्यते ॥ २० ॥ पत्युरभ्यधिकं नारी नोपवासं तं चरेत् ॥ अनायुष्यं द्विजश्रेष्ठ पत्युस्तस्यास्तदुच्यते ॥ २१ ॥ देवताराधनं कुर्यात्कामं वा ब्राह्मणोत्तम ॥ नारी पतिव्रता रत्नं प्राप्तानुज्ञां तु भर्तुतः ॥ २२ ॥ नारी खल्वननुज्ञाता पित्रा भर्त्रा सुतेन वा ॥ विफलं तद्भवेत्तस्या यत्करोत्यूर्ध्वदैहिकम् ॥२३॥ स्त्रीणां पूज्यतमा लोके देवताब्राह्मणाद्वि नाम ॥ या स्ताः सम्पूजनीयाः स्युस्तासामेव यथाविधि ॥ २४ ॥ तासां च पूजनं कार्यं विदितं स्वामिनस्तथा ॥ अन्यथा चेत्प्रवर्तेत निर्ग ह्या सा प्रकीर्तिता ॥ २५ ॥ गत्वान्यपुरुषं नारी नरकं प्रतिपद्यते ॥ कूटशाल्मलिमित्र्यर्कं यावद्भूतसम्प्लवम् ॥ २६ ॥ गर्हिता च तथा पत्यु र्नरकं याति भार्गव ॥ दशवर्षसहस्राणि तथैवाप्रियवादिनी ॥ २७ ॥ सर्वावस्थास्वपि ह्येष न वधो विद्यते द्विज ॥ परेण शङ्कितामेनां संयतां वासयेद्गृहे ॥ २८ ॥ हताधिकारां मलिनां पिण्डमात्रोपजीविनीम् ॥ परिभूतामधःशय्यां वासयेद्व्यभिचारिणीम् ॥ २९ ॥ मूलकर्म न कर्तव्यं कथञ्चिदपि योषिता ॥ मूलकर्मरता नारी कल्पं नरकमावसेत् ॥ ३०॥ दौर्भाग्यं महदाप्नोति तत्र यत्राभिजायते ॥ या च नारी सपत्नीनां कुर्याद्वै भाग्यकारणम् ॥ ३१ ॥ कुहैः पश्यति सापि कल्पानां नरके द्विज ॥ पुंस्त्वमूल्ये तथा लक्ष्मीं पत्युर्हंसिति सा तथा ॥३२॥ यक्षरक्षःपिशाचानां मूलकर्मरता सदा ॥ वश्या भवति लोकेषु भर्ता तस्यास्तथैव च ॥ ३३ ॥ नारी कृत्वा पतिं वश्यं सततं मूलकर्मणा ॥ लभतेऽन्ते तु दौर्भाग्यं भर्तुर्वा भ्रश्यते ध्रुवम् ॥३४॥ तस्मात्सर्वप्रयत्नेन मूलकर्म विवर्जयेत् ॥ आत्मानमथ भर्तारं नाशयेन्मूलकर्मणा ॥ ३५ ॥ ब्राह्मणी न पिबेन्मद्यं न च विट्क्षत्रियस्त्रियः ॥ सुरां पिबेयुर्वप्रजं तत्पानान्नाशमाप्नुयुः ॥ ३६ ॥ ततो भवति धर्मज्ञ जलौका रक्तपायिका ॥ कल्पावशेषं सकलं तेन घोरेण कर्मणा ॥ ३७ ॥ परवेश्मरुचिर्न स्यान्न स्यात्कलहशालिनी ॥ न च तिष्ठेत्तथा द्वारि न च राम गवाक्षके ॥३८॥ मण्डनं वर्जयेन्नारी तथा प्रोषित भर्तृका ॥ देवताराधनपरा भवेद्भर्त्तुर्हिते रता ॥ ३९ ॥ धारयेन्मङ्गलाथाय किञ्चिदाभरणं तथा ॥ न जातु विधवा वेषं कदाचिदपि कारयेत् ॥४०॥ पतिव्रता तु या नारी सह भर्त्रा दिवङ्गता ॥ कल्पावशेषं मुदिता पूज्यते त्रिदशालये ॥ ४१ ॥ पतिव्रतां सवर्णां स्त्रीं द्विजातिः पूर्वमारिणीम् ॥ दाहयेदग्निहोत्रेण यज्ञपात्रैश्च धर्मवित् ॥ ४२ ॥ भार्यायै पूर्वमारिण्यै दत्वाग्नीनन्त्यकर्मणि ॥ पुनर्दारक्रियां कुर्यादग्न्याधानमेव च ॥ ४३ ॥ मृते भर्तरि या साध्वी पुत्रमाश्रित्य भार्गव ॥ तपसा शोषयेद्देहं तेन स्वर्गे महीयते ॥ ४४ ॥ पतिपक्षे नरं कञ्चित्पुत्राभावं समाश्रयेत् ॥ विषमस्थापि सा वाप्येतां भोजनाच्छादनैः सदा ॥ ४५ ॥ पतिपक्षं समुच्छिद्य पितृपक्षः प्रभुः स्त्रियः ॥ विषमस्थापि भर्त्तव्या पितृपक्षं स्वच
वि० ध० ॥१४७॥
द्वि० खं० अ० ३५
न्यूभिः ॥ ४६ ॥ मृतं भर्तारमादाय यदि वाथ पतिव्रता ॥ प्रविशेद्विशिखाशैलं ज्वलितं जातवेदसम् ॥ ४७ ॥ तिस्रः कोट्योर्द्धकोटी च यानि लोमानि मानवे ॥ तावन्त्येव शताब्दानि स्वर्गलोके महीयते ॥ ४८ ॥ व्यालग्राही यथा सर्पं बिलादुद्धरते बलात् ॥ एवं भर्तारमादाय सह तेनैव गच्छति ॥ ४९ ॥ सहृत्तमध्याणयितुं गतानां स्त्रीणां वियोगक्षतकातराणाम् ॥ तासां मृते जीवितवल्लभे हि नाग्निप्रवेशादपरो हि धर्मः ॥ ५० ॥ इति विष्णुधर्मोत्तरे द्वितीयखण्डे मा० सं० रामं प्रति पुष्करोपाख्याने स्त्रीधर्मो नाम चतुस्त्रिंशत्तमोऽध्यायः ॥ ३४ ॥ राम उवाच ॥ ॥ स्त्रीणां पूज्यतमा लोके देवतास्त्वं प्रकीर्तय ॥ तासां कालं विधानं च फलं पूजनतस्तथा ॥ १ ॥ पुष्कर उवाच ॥ श्रियः सम्पूजनं कार्यं स्त्रीभिस्तु सततं गृहे ॥ पुष्पाद्यैर्माल्यनैवेद्यधूपदीपादिलेपनैः ॥ २ ॥ गृहसम्सर्जनं राम तथा तस्योपलेपनम् ॥ पुष्पोपहारकरणं सुपांशुकरणमेव च ॥ ३ ॥ सर्वमेतद्विजानीयाच्छ्रियः सम्पूजनं द्विज ॥ स्नानानुलेपनं यच्च गन्धवर्णोपधारणम् ॥ ४ ॥ सुवर्णता च नारीणां श्रियः सम्पूजनाद्भवेत् ॥ अष्टमीषु च सर्वासु पूजनीयाऽशोकिका ॥ ५ ॥ गन्धमाल्यनमस्कारधूपदीपादिभिस्तथा ॥ तस्मिन्नहनि या भुङ्क्ते नक्तं तैलविवर्जितम् ॥ ६ ॥ भवत्यथ विशोका सा यत्रयत्राभिजायते ॥ अष्टमीषु च सर्वासु न चेच्छक्नोति भार्गव ॥ ७ ॥ प्रोष्ठपद्यां व्यतीतायां या स्यात्कृष्णाष्टमी द्विज ॥ तस्यामवश्यं कर्तव्या देव्याः पूजा यथाविधि ॥ ८ ॥ अपामिव त्रिलोकेषु प्रकृतिः स्त्रीषु चोच्यते ॥ या प्रेरयति कर्माणि लोकेषु द्विजसत्तम ॥ ॥ ९ ॥ तस्यां सम्पूजनं कार्यं शुक्लां पञ्चदशीं तथा ॥ माल्यानुलेपनैः शुक्ल्रैर्धूपेन च सुगन्धिना ॥ १० ॥ रक्तवस्त्राप्रदानेन दीपदानेन चाप्यथ ॥ वर्दूलैश्च तथा भक्ष्यैर्भोज्यैश्चौष्यैस्तथैव च ॥ ११ ॥ पूजयित्वा च तां देवीं भोक्तव्यं निशि भार्गव ॥ यदि पञ्चदशीं सर्वां न शक्नोति कदाचन ॥ ॥ १२ ॥ देव्याः सम्पूजनं कार्यमवश्यमपि कार्तिके ॥ उपातिं पूजयित्वा तु सा तु नारी पतिव्रता ॥ १३ ॥ सदा धर्मरता साध्वी लोके भवति भार्गव ॥ नाशुभं च मतिस्तस्याः कदाचिदपि जायते ॥ १४ ॥ एकादशीं तथा कृष्णां फाल्गुने मासि भार्गव ॥ शुक्ले देवस्य कर्तव्या पूजा धर्म भृतां वर ॥ १५ ॥ पूजनाच्छन्दोदेवस्य तनयं गुणवर्जितम् ॥ न प्राप्नोति तथाऽऽप्नोति गुणवन्तमसंशयम् ॥ १६ ॥ गन्धमाल्यादिभिर्भक्त्या तथा वै वास्तुदेवताम् ॥ एकादशीं तथा प्राप्य चैत्रशुक्लस्य पूजयेत् ॥ १७ ॥ संपूज्य तां महाभाग गृहमङ्गो न जायते ॥ शुक्लाष्टमीं तु सम्प्राप्य मासि भाद्रपदे तथा ॥ १८ ॥ दूर्वाप्रतानं लुप्यन्तुद्उत्तराशाभिगामिनम् ॥ पूजयेद्गन्धमाल्याद्यै गन्धमाल्यानुलेपनैः ॥ १९ ॥
॥१९७॥
फलमूलैस्तथा राम धूपदीपौ विवर्जयेत् ॥ अग्निपक्वं तथा सर्वं न निंबंच कथञ्चन ॥ २० ॥ भोक्तव्यं च तथा राम वह्निपाकविवर्जितम् ॥ दूर्वांकुरं स्थां सम्पूज्य विधिना यौवनस्थिश्रियम् ॥ २१ ॥ यौवनं स्थिरमाप्नोति यत्रयत्राभिजायते ॥ सोपवासा तु या नारी कृष्णपक्षस्य कार्त्तिके ॥ २२ ॥ द्वादश्यां पूजयेद्विष्णुं गां सवत्सामनन्तरम् ॥ गन्धमाल्यनमस्कार धूपदीपान्नसम्पदा ॥ २३ ॥ नैवेद्यं गोरसं सर्वं वर्जनीयं प्रयत्नतः ॥ भोक्तव्यं च न धर्मेण दोग्धव्या नैव चार्जने ॥२४॥ गावः प्राप्नोति कृत्वैवं नात्र कार्या विचारणा ॥ धेनुं तां यदि विप्राय दद्याद्विधिरथार्चिताम्॥ स्वर्गलोकं मथाभावेन ततो विनिर्वर्तेते ॥ कार्त्तिके च तथा मासि कृत्तिकायां च पूजनम् ॥ २६ ॥ कर्तव्यं गन्धकलशैर्गन्धमाल्यानुलेपनैः ॥ मध्वैश्च परमान्नं श्वैश्च कुल्माषैः पर्पटैस्तथा ॥ २७॥ शक्त्या वस्त्रैश्च धर्मज्ञ महाराजन्नरैर्नरैः ॥ गुडेन मधुना चैव सितया लवणेन च॥ २८॥ आर्द्रकेणेक्षुणा चैव तथा कालोद्भवैः फलैः ॥ सर्वैश्च विविधैर्नैवेद्यैर्नानाविधेस्तथा॥ २९॥पानकैश्च तथा हृद्यैः पूजनीयाश्च कृत्तिकाः ॥ सह चन्द्रमसा राम तेन सौभाग्यमश्नु ते ॥३०॥ नारी च रूपलावण्ये धर्मं चाग्र्यां तथा मतिम् ॥ अवैधव्यं च धर्मज्ञ यत्रयत्राभिजायते ॥३१॥ लावण्यस्य तुलां कृत्वा महाराजन्नरैर्जनैः ॥ वस्त्रे वस्त्रेण तेनाथ सालंङ्कारं सितच्छविम् ॥ ३२ ॥ कृत्वा पिण्डं हरिद्राक्तं कृत्तिकानां निवेदयेत् ॥ ग्राह्येद्व्राह्मणं तां च प्राप्ते चन्द्रोदये तथा ॥ ॥ ३३॥ अनेन कर्मणा नारी सौभाग्यं महदश्नुते ॥ पुरूषोऽप्यथ वै शुद्धो सौभाग्यं महदश्नुते ॥ कृत्तिकाव्रतमेतद्धि तु तासां कृत्वैव पूजनम्॥३४॥ या भुङ्क्ते गोरसप्रायं कृत्वा ब्राह्मणपूजनम् ॥ सप्त जन्मान्तरान्येव सौभाग्यं रूपमेव च ॥३५॥ स्वर्गे तु भोगनाप्नोति सह भर्त्रा तु सा शुभा ॥ ॥ ३६ ॥ प्राप्य पञ्चदशीं राम तथा शुक्लां च कार्त्तिकीम् ॥ कार्त्तिकं कार्त्तिकीं राम गृहमित्थं समालिखेत् ॥ ३७॥ उपहारं गृहाद्वाह्यं नानावर्णैस्तु वर्णकैः ॥ गृहोपकरणं शक्त्या तयोश्चैवाभितो लिखेत् ॥ ३८ ॥ पीठखट्वासनशय्या शक्तोटूलखलादिकम् ॥ ततस्तौ पूजयेन्नारी नानाभक्तिपरा शुचिः ॥ ३९ ॥ गन्धमाल्यनमस्कार धूपदीपान्नसम्पदा ॥ इक्षुशुक्तविकारैर्वा विशेषेण च पूजयेत् ॥ ४० ॥ तयोस्तु पूजनं कृत्वा मत्स्यं च सिकतायुतम् ॥ ॥ शुक्लेनैवं न्यसेत्तीरे तच्च दद्याद्द्विजातये ॥ ४१ ॥ ततश्च नक्तं भुञ्जीत तिलतैलविवर्जितम् ॥ अन्ययोः पूजनाद्राम गृहभङ्गं न चाप्नुयात् ॥४२॥ पतिव्रता महाभाग दीर्घमाप्नोति जीवितम् ॥ कार्त्तिके च तथा मासि सार्धं चन्द्रमसा सदा ॥४३॥ रोहिण्यां रोहिणीपूजा कर्तव्या विधिना द्विज ॥ सर्वैरैविद्यवाचिहैर्लवणेन च भूरिणा ॥ ४४ ॥ गन्धमाल्यनमस्कार धूपदीपान्नसम्पदा ॥ तथा कुंकुमरक्तेन शक्त्या भार्गव वाससा ॥ ४५ ॥ सौभाग्यं परमामोति कृत्वैतत्परमाङ्गना ॥ शुक्लपक्षत्रयोदश्यां या च नारी पतिव्रता ॥ ४६॥ पूजयेत्सोपवासा च कामदेवं
वि० ध० बृ० हिं० अ० ३६
मतान्विता ॥ पृथग्वर्णांस्त्वियांस्तस्य भार्या तथा पतिम् ॥ ४७ ॥ गन्धमाल्यनमस्कारधूपदीपान्नकुङ्कुमैः ॥ गुडेन मधुना चैव द्वितीया सहितेन च ॥४८॥ लवणेन रसैश्चान्यैस्तैः सख्यैः पृथक्पृथक् ॥ भक्ष्यैर्नानाविधैश्चैव कुंकुमार्द्रेण वाससा ॥४९॥ गन्धस्योताम्रवर्णेन घृतपुष्पवरोत्थिता ॥ पूर्णकुम्बेन भर्येन माल्यकण्ठेन भार्गव ॥ ५० ॥ कामदेवाय यो दद्याद्यदलंकृत्य किञ्चिदेव तु ॥ ततश्च पश्चाद्भोजयितव्यं सर्वमम्लविवर्जितम् ॥ ५१ ॥ सर्वान्कामानवाप्नोति कामपूजाविधायिनी ॥ अथ चैत्रेण शक्नोति सर्वं राम त्रयोदशीम् ॥ ५२ ॥ चैत्रशुक्लेन सर्वासां फलमाप्नोत्यसंशयम् ॥ तस्मात्सर्वप्रयत्नेन चैत्रशुक्लत्रयोदशीम् ॥ ५३ ॥ कामस्य पूजा कर्तव्या सर्वकामप्रदायिनी ॥ कामदेवं समभ्यर्च्य भार्यात्मानमपूजयत् ॥ ५४ ॥ कुंकुमाङ्कास्तथा वह्निर्गन्धमाल्यविभूषणैः ॥ भर्तारं पूजयेत्पद्मा नारी तु कृतमण्डना ॥ ५५ ॥ कुंकुमाङ्केन वक्त्रेण गन्धमाल्यैर्मनोहरैः ॥ पुरूरवेति समभ्यर्च्य कामदेवमसंशयम् ॥ ५६ ॥ सर्वान्कामानवाप्नोति नात्र कार्या विचारणा ॥ ५८ ॥ तथा शुक्लतृतीयासु गौरीपूजा सदा भवेत् ॥ ५७ ॥ स्नाताभिः सोपवासाभिः सूर्यस्योदयनं प्रति ॥ गन्धमाल्यनमस्कारधूपदीपात्रसम्पदा ॥ ५८ ॥ गुडेन सितया चापि मधुना चोदकेण च ॥ सर्वं अविधवार्चाचैर्लवणेन च भूरिणा ॥ ५९ ॥ चतुर्ष्वाद्येषु पूज्या सर्वशस्तस्या विशेषतः ॥ आषाढेऽप्यथवा मासि माघे चाप्यथवा द्विज ॥ ६० चतुर्णामपि कुण्डानां मध्ये सूर्यांगुलेविनी ॥ आषाढे सोपवासा तु तृतीयायां तथा वसेत् ॥ ६१ ॥ न तस्या दुर्लभं लोके किञ्चिद्भवति भार्गव माघेऽप्युपोषिता मासि रायन्ते दुहितोक्तरेः ॥६२॥ शुक्लंकृत्याय्विलब्ध्वायोध्यास्ते शयनं यथा ॥ ततश्च शीततोयेन पश्चात्स्नानं समाचरेत् ॥ ६३ ॥ सापि कामानवाप्नोति यान्कामां मनसेच्छति ॥ पतिव्रता सदा लोके सुभगा रूपसंयुता ॥ ६४ ॥ धर्मप्रिया च भवति गौरीपूजनतत्परा आषाढे दाडिमं पुष्पं मधौ कर्पाससम्भवम् ॥ ६५ ॥ निवेद्य सर्वथाचार्यैः सौभाग्यं महदश्नुते ॥ शक्राणी च तथा पूज्या मासि भाद्रपदे भवेत् ॥ ६६ ॥ स्त्रीणां गौरीविधानेन सर्वकामप्रदा हि सा ॥ प्रौष्ठपद्यस्य मासस्य चतुर्थ्यां द्विजसत्तम ॥ ६७ ॥ शक्तून्पिष्टमयान्कृत्वा नक्तदृष्टे महीयते ॥ पूजातिथिषु सर्वासु राम ब्राह्मणपूजनम् ॥६८॥ कर्तव्यं यच्च नैवेद्यं देयं तत्सुभागासु च ॥ अनभ्यर्च्य तथा गौरीं गंगोद्दीपं प्रपश्यति ॥ ६९ ॥ दौर्भाग्यं महदाप्नोति वर्जितं तस्य दर्शनात् ॥ गौरीपूजनकामा वा तस्मिन्नहनि या द्विज ॥ ७० ॥ स्नातान्युष्णाम्बुना कुर्यात्स्नापि सौभाग्यमश्नुते ॥ सम्पूज्य विधिना गौरीं यत्रतत्राभिजायते ॥ ७१ ॥ रूपलावण्यसौभाग्ययुक्ता भवति चाप्यथ ॥ नित्यं चाविधवा राम तथैव च पतिव्रता ॥ ७२ ॥ एताः पूज्यतमाः स्त्रीषु देवतास्तः प्रकीर्तिताः ॥ अतः परं तु या कुर्यात्पतिमातेविवर्जनम् ॥ ७३
॥१९८॥
हिंसात्मकंनिर्द्दिष्टमशुद्धं वा द्विजोत्तम ॥ देवताराधनं सा तु चिरं नकर्त्तुमर्हति ॥ ७४ ॥ ततस्तु चाऽयनात्पुण्यं प्रसूतविवर्धनम् ॥ हिंसा त्यक्ता तु या नारी देवताराधने रता ॥ ७५ ॥ मूलकर्मरता भर्त्रा सा विग्राह्या भृगूत्तम ॥ पौंश्चल्यादपि नारीणां रागं हिंसा विवर्जिता ॥ ७६ ॥ स्त्रीस्वभावं शुभं राम सौम्यत्वं मार्दवं दया ॥ निर्द्द्या राक्षसी राम पिशाची वा द्विजोत्तम ॥ ७७ ॥ अथवा सर्वमुत्सृज्य पतिपूजनतत्परा ॥ केशवाराधनं कुर्याच्छृणुष्व पुरुषर्षभ ॥ ७८ ॥ तेनैव सर्वमाप्नोति यत्किञ्चित्परपृच्छति ॥ अफलं सर्वमेव स्याद्भर्तृभक्त्या विना कृतम् ॥ ७९ ॥ केशवाराधनं राग तथापि सफलं स्त्रियः ॥ सर्वभूतानि गोविन्दो भर्त्ता नान्यस्तु योषितः ॥ भर्तृभक्त्या विना तस्मात्ततः पूजा विधीयते ॥ ८० ॥ नारायणः पूज्यतमो हि लोके नारायणः सर्वगतः प्रधानः ॥ नारायणाराधनतत्परा स्त्री कामानवाप्नोति न संशयोऽत्र ॥ ८१ ॥ इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मार्कण्डेयवज्रसंवादे रामं प्रति पुष्करवाक्ये स्त्रीदेवतापूजननिरूपणं नाम पञ्चत्रिंशत्तमोऽध्यायः ॥ ३५ ॥ ॥ पुष्कर उवाच ॥ त्रैलोक्यं धर्मराजोऽपि नाचख्यौ योषिताम् ॥ पतिव्रतानां धर्मज्ञ पूज्यास्तास्यापि तास्सदा ॥ १ ॥ अत्र ते वर्णयिष्यामि कथां पापप्रणाशिनीम् ॥ यथा विमोक्षितो भर्त्ता मृत्युपाशाहृतः स्त्रिया ॥ २ ॥ मद्रेषु शाकले राजा बभूवाऽश्वपतिः पुरा ॥ अपुत्रस्तप्यमानोऽसौ पुत्रार्थे सर्वकामदम् ॥ ३ ॥ सावित्र्याः कारयामास लक्षहोमं द्विजोत्तमैः ॥ सिद्धार्थैर्हूयमाना सावित्री प्रत्यहं द्विज ॥ ४ ॥ शतमंत्रैश्चहुत्वाऽथ तु मासाद्दर्शदिने गते ॥ काले तु दर्शयामास स्वां तनुं मनुजेश्वरैः ॥ ५ ॥ सावित्र्युवाच ॥ राजन्भक्तोऽसि मे नित्यं प्राप्स्यसे तनयां शुभाम् ॥ महत्तं यत्प्रसादाच्च पुत्रान्प्राप्स्यसि शोभनान् ॥ ६ ॥ पुष्कर उवाच ॥ एतावदुक्त्वा सा राज्ञः प्रणतस्यैव भार्गव ॥ जगामादर्शनं देवी खे यथा राम चञ्चला ॥ ७ ॥ मालव्यां नाम तस्यास्ति राज्ञः पत्नी पतिव्रता ॥ सुषाव तनयां काले सावित्रीमिव रूपतः ॥ ८ ॥ सावित्र्या हुतया दत्ता तद्रूपसदृशा ततः ॥ सावित्र्येव भवेद्वा जगाद नृपतिर्द्विजान् ॥ ९ ॥ कालेन यौवनं प्राप्तां ददौ सत्यवतं पिता ॥ नारदस्त्व ततः प्राह राजानं दीप्ततेजसम् ॥ १० ॥ क्षीणायुरेष वर्षण भविष्यति नृपात्मजः ॥ प्रदीयते सकृत्कन्या चिन्तयित्वा नराधिपः ॥ ११ ॥ तथापि प्रददौ कन्यां द्युमत्सेनात्मजे शुभाम् ॥ सावित्र्यपि च भर्तारमासाद्य नृपनन्दनम् ॥ १२ ॥ नारदस्य तु वाक्येन दूयमानेन चेतसा ॥ शुश्रूषां परमां चक्रे भर्तुःश्वशुरयोर्वने ॥ १३ ॥ राज्यभ्रष्टस्सभार्यस्तु नष्टचक्षुर्नराधिपः ॥ तुतोष तां समासाद्य राजपुत्रीं तदा स्नुषाम् ॥ १४ ॥ चतुर्द्देऽहनि मर्तव्यं यदा सत्यवता द्विज ॥ श्वशुरेणाभ्यनुज्ञाता तदा राज्ञा तु सा स्नुषा ॥ १५ ॥
३४
वि० वि० ॥११९॥ द्वि० खं० अ० ३७
चक्रे त्रिरात्रं धर्मज्ञ प्राप्ते तस्मिंस्तदा दिने ॥ चारुपुष्पफलाहारं सत्यवानभवद्यौ वनम् ॥ १६ ॥ श्वशुरेणाभ्यनुज्ञाता याचनाभङ्गभीरुणा ॥ सावित्र्यपि जगामाशु सह भर्त्रा महद्वनम् ॥ १७ ॥ चेतसा दूयमानेन गृह्णमाना च तद्वचम् ॥ वने पप्रच्छ भर्तारं द्रुमांश्च सुमगांस्तथा ॥ १८ ॥ आश्वासयामास स राजपुत्रीं कान्तां वने पद्मपलाशनेत्राम् ॥ सन्दर्शनेनाथ मृगद्विजानां तथा द्रुमाणां विपिने सुवीरः ॥ १९ ॥ ॥ इति श्रीवि- ष्णुधर्मोत्तरे द्वितीयखण्डे मार्कण्डेयवज्रसंवादे रामं प्रति पुष्करोपाख्याने सावित्र्युपाख्याने वनप्रवेशो नाम षड्विंशत्तमोऽध्यायः ॥ २६ ॥ ॥ सत्यवानुवाच ॥ ॥ वनेऽस्मिन्मृदुपर्णाकीर्णं सहकारं मनोहरम् ॥ श्रोत्रघ्राणासुखं पश्य वसन्ते रतिवर्धनम् ॥ १ ॥ वने सुपुष्पं दृष्ट्वैषा रक्ता- शोके मनोहरम् ॥ हसतीव मनः सेव्यं त्वामिवायतलोचने ॥ २ ॥ दक्षिणे दक्षिणेनैतां पश्य रम्यां वनस्थलीम् ॥ पुष्पितैः किंशुकैर्युक्तां ज्वलि- तामिव सप्रभैः ॥ ३ ॥ सुगन्धिपुसुमामोदो वनराजिविनिर्गतः ॥ करोति वायुर्दाक्षिण्याद्वयोः क्षममनाशनम् ॥ ४ ॥ अत्युत्पल्लविशालाक्षि कर्णिकारैः कारैः सुपुष्पितैः ॥ काञ्चनैरिव भात्येषा वनराजी मनोहरा ॥ ५ ॥ अतिफुल्ललताजालरूढमागधसंवलीः ॥ पश्योच्चैश्चारुसर्वाङ्गि कुसुमोत्कर- भूषणा ॥ ६ ॥ मधुमत्तालिशार्ङ्गाङ्गैर्योजनं वरवर्णिनि ॥ चापयष्टिं करोतीव कामः पान्थाजिघांसया ॥ ७ ॥ फुल्लचम्पकसङ्काशा पुस्कोकिलविना- दिनी ॥ विभाति चारुतलका त्वमिवैषा वनस्थली ॥ ८ ॥ कोकिलैरूतशिखरे मञ्जरीङ्गापिञ्जरः ॥ गदितेत्यक्तमिती कुलम्बोधितोतवि- ॥ ९ ॥ पुष्परैणुदलिताङ्गिः प्रियामनुसरन्वने ॥ कुसुमात्कुसुमं याति कूजन्कामी शिलीमुखः ॥ १० ॥ मञ्जरीं सहकारस्य कान्ता चञ्च्वग्रखण्डि- ताम् ॥ स्वादयत्यतिपुष्पेऽपि पुंस्कोकिलयुवा द्रुमे ॥ ११ ॥ काकः प्रसन्नां वृक्षाग्रे समीपामेव चञ्चुना ॥ काकीं संपाचयत्येष पक्षाच्छादित- पुत्रकाम् ॥ १२ ॥ भृगांग निम्नमासाद्य दयितासहितो युवा ॥ नहारमपि चादत्ते कामी कामं कपिञ्जलः ॥ १३ ॥ कलोविकूङ्कूत विरूतेः संप्रियो विटपे स्थितः ॥ मुहुर्मुहुर्विशालाक्षि उत्कण्ठ्यति कामिनः ॥ १४ ॥ क्षुद्रशाखां समारूढः शुकोऽयं कान्तया सह ॥ भारेण नमयञ्छाखां करोति सफलामिव ॥ १५ ॥ वनेमषिशितास्वादतृप्तो निद्राद्युपागतः ॥ शेते सिंहुवा कान्ताचरणवारणानतः ॥ १६ ॥ व्याघ्रयोर्मिथुनं पश्य शैलकन्दर- संस्थितम् ॥ ययोर्नखप्रभालोकैर्गुहा भिन्नेव लक्ष्यते ॥ १७ ॥ अय क्षीपी प्रियां लेढि जिह्वयेण पुनःपुनः ॥ प्रीतिमायाति महतीं लिह्यमानश्च कान्तया ॥ १८ ॥ उत्सङ्ककृतमूर्धानं निद्रपहतचेतसम् ॥ जनदूखरन्तः कान्तं सुवयत्येव वानरी ॥ १९ ॥ भूमौ निपतिता कान्तं मार्जारी ॥११९॥
१ 'पश्योय' इति ख० ।
दर्शितोदरा ॥ नवैर्द्दन्तैस्तुदत्येषा न च पीड्यते तथा ॥ २० ॥ शशकः शशिका चोभे संसूते पीडिते इमे ॥ संह्लाद्येनाग्रचरणैः कर्णेन्यक्तिकमुपागते ॥ २१ ॥ सातं सरसि पद्माटवे वारणं मदमन्थरम् ॥ सम्भावयति तन्वङ्गि मृणालशकलैर्वशा ॥ २२ ॥ कान्तपोत्राग्रसुलतैः कान्ता घ्राणोल्लसारिणी ॥ करोति कव्वलं सूस्तेर्वराही पोतकानने ॥ २३ ॥ दृढाङ्गसन्धिरमहिषः कर्दमाप्लुतलोचने ॥ अनुब्रजति धावन्तीं प्रियां बद्धचतुष्ककः ॥२४॥ पश्य चार्वङ्गि सारङ्गं त्वत्कटाक्षनिभं वने ॥ सभायां मां तु पश्यन्तं कौतूहलसमन्वितम् ॥ २५ ॥ पश्य पश्चिमपादेन रोही कण्डूयते मुखम् ॥ स्नेहार्द्रभावः कण्ठाति भर्ता शृङ्गाग्रकोटिना ॥ २६ ॥ दाडिमे चमरी पश्य सितवालमलगच्छतीम् ॥ अन्वास्ते चमरः कामी वीक्षते मां च गर्वितः ॥ ॥ २७ ॥ आतपे गवयः पश्य निविष्टो भार्यया सह ॥ रोमन्थमास्ये कुर्वाणः काके ककुदि धारयन् ॥ २८ ॥ पश्यायं भार्यया सार्द्ध न्यस्ताग्रचरणद्वयम् ॥ विपुले बदरीस्कन्धे तच्छद्मास्वादकाम्यया ॥ २९ ॥ हंसं सभायं सरसि विचरन्तं सुनिर्मले ॥ मुहुश्चूर्ण्येन्दुविम्बस्य पश्यन्तं सदृशश्रियम् ॥ ३० ॥ सभायश्चक्रवाकोऽयं कमलाकरमध्यगः ॥ करोति पद्मिनीं कान्तां सपुष्पामिव सुन्दरे ॥ ३१ ॥ मया फलोच्चयः सुभ्रु त्वया पुष्पोच्चयः कृतः ॥ इन्धनं न कृतं किञ्चित्तत्करिष्यामि साम्प्रतम् ॥ ३२ ॥ त्वमस्य सरसस्तीरे द्रुमच्छायामुपाश्रिता ॥ क्षणमात्रं प्रतीक्षस्व विश्रमस्व च भामिनि ॥ ३३ ॥ ॥ सावित्र्युवाच ॥ ॥ एवमेतत्करिष्यामि मम दृष्टिपथात्त्वया ॥ दूरे कान्त न गन्तव्यं बिभेमि गहने वने ॥ ३४ ॥ ॥ पुष्कर उवाच ॥ ॥ तस्य पातयतः काष्ठं जज्ञे शिरसि वेदना ॥ स वेदनार्त्तः सङ्गम्य भार्यां वचनमब्रवीत् ॥ ३५ ॥ ॥ सत्यवानुवाच ॥ ॥ आयासेन ममानेन जाता शिरसि वेदना ॥ तमश्च प्रविशामीव न च जानामि किञ्चन ॥ ३६ ॥ त्कत्सङ्गे शिरः कृत्वा निद्रेोपहृतलोचनः ॥ पुष्कर उवाच ॥ तदुत्सङ्गे शिरः कृत्वा सुष्वाप गतचेतनः ॥ ३७ ॥ पतिव्रता महाभागा ततत्सा राजकन्यका ॥ ददर्श धर्मराजं तु स्वयं तं देशमागतम् ॥ ३८॥ नीलोत्पलदलश्यामं पीताम्बरधरं प्रभुम् ॥ विद्युल्लतानिबद्धाङ्गं सतोयाभिव तोयदम् ॥ ३९ ॥ किरीटनाकंवर्णेन कुण्डलाभ्यां विराजितम् ॥ हारभाराणितोरस्कं तथाङ्गदिविभूषितम् ॥ ४० ॥ तथाप्तुमम्यमानं च कालेन सह मृत्युना ॥ स तु संप्राप्य तं देशं देहात्सत्यवतस्तदा ॥ ४१ ॥ अङ्गुष्ठमात्रं पुरुषं पाशबद्धं वशङ्गतम् ॥ आकृष्य दक्षिणामाशां प्रययौ सत्वरं तदा ॥ ४२ ॥ साध्व्यपि वरारोहा त्यक्ता तं गतजीवितम् ॥ अनुवव्राज गच्छन्तं धर्मराजमतन्द्रिता ॥ ४३ ॥ तामुवाच यमो गच्छ यथागतमनिन्दिते ॥
१ 'स्वप्स्यामीति वचो ब्रूवन्' इति पाठान्तरम् ।
वि० ध० ॥२००॥
द्वि० खं० अ० ३७
और्ध्वदेहिककार्येषु युक्ता भर्तुः समाचर ॥४४॥ नानुगन्तुमसौ शक्तस्त्वया लोकान्तरं गतः ॥ पतिव्रताऽसि तेन त्वं मुहूर्तमपिदृश्यसि ॥४५॥ गुरुशुश्रूषणाद्भद्रे तथा सत्यवतो महत् ॥ पुण्यं समार्जितं येन नयाम्येनमहं स्वयम् ॥ ४६ ॥ एतावदेव कर्तव्यं पुरुषस्य विजानतः ॥ मातः पितुश्च शुश्रूषा गुरोश्च वरवर्णिनि ॥ ४७ ॥ गुरुद्वितयमेतच्च सदा सत्यवता वने ॥ ४८ ॥ पूजितं पूजितस्वर्गेस्तदानेन चिरं शुभे ॥ तपसा ब्रह्मचर्येण त्वमिशुश्रूषया तथा ॥४९॥ पुरुषाः स्वर्गमायान्ति गुरुशुश्रूषणेन च ॥ आचार्यश्च पिता चैव माता भ्राता च पूर्वजः ॥ ५०॥ नार्तेनाप्यवमन्तव्या ब्राह्मणेन विशेषतः ॥ आचार्यो ब्रह्मणो मूर्तिः पिता मूर्तिः प्रजापतेः ॥५१॥ माता पृथिव्या मूर्तिस्तु भ्राता वै मूर्तिरात्मनः ॥ यन्मातापितरौ क्लेशं सहेते सम्भवे नृणाम् ॥ ५२ ॥ न तस्य निष्कृतिः शक्या कर्तुं वर्षशतैरपि ॥ तयोर्नित्यं प्रियं कुर्यादाचार्यस्य च सर्वदा ॥ ५३ ॥ तेष्वेव त्रिषु तुष्टेषु तपः सत्यं समाप्यते ॥ तेषां त्रयाणां शुश्रूषा परमं तप उच्यते ॥ ५४ ॥ न तैरनभ्यनुज्ञातो धर्ममन्यं समाचरेत् ॥ त एव हि त्रयो लोकास्त एव त्रय आश्रमाः ॥ ५५ ॥ त एव च त्रयो वेदास्त एवोक्तास्त्रयोऽग्नयः ॥ पिता वै गार्हपत्योऽग्निर्माताग्निर्दक्षिणः स्मृतः ॥ ५६ ॥ गुरुराहवनीयस्तु अग्निस्त्रेता गरीयसी ॥ त्रिष्व प्रमाद्येन्नेतेषु त्रीँल्लोकाञ्जयते गृही ॥ ५७ ॥ स हि दिव्येन वपुषा देववद्दिवि मोदते ॥ इमं लोकं मातृभक्तः पितृभक्तस्तु मध्यमम् ॥ ५८ ॥ गुरुशुश्रूषया त्वेवं ब्रह्मलोकं समश्नुते ॥ सर्वं तस्याहृता धर्मा यस्यैते त्रय आदृताः ॥ ५९ ॥ अनादृतास्तु यस्यैते सर्वास्तस्याफलाः क्रियाः ॥ यावत्रयस्ते जीवेयुस्तावन्नान्यत्समाचरेत् ॥ ६० ॥ तं तु निवेद्यैतेभ्यो मनो वचनकर्मभिः ॥ त्रिष्वेतेष्वितिकृत्यं हि पुरुषस्य समाप्यते ॥ ६१ ॥ एष धर्मः परः साक्षादुपधर्मोऽन्य उच्यते ॥ गुरूञ्जारतिभर्त्ता त्वं च साध्वी पतिव्रता ॥ ६२ ॥ विनिवर्त्तस्व धर्मज्ञे ग्लानिर्भवति तेऽधुना ॥ सावित्र्युवाच ॥ पतिर्हि दैवतं स्त्रीणां पतिरेव परायणम् ॥ ६३ ॥ अनुगम्यः स्त्रिया साध्व्या पतिः प्राणधनेश्वरः ॥ मितं ददाति हि पिता मितं भ्राता मितं सुतः ॥ ६४ ॥ अमितस्य हि दातारं भर्त्तारं का न पूजयेत् ॥ नीयते यत्र भर्त्ता मे स्वयं वा यत्र गच्छति ॥ मयापि तत्र गन्तव्यं यथाशक्ति सुगोत्तम ॥ पतिमादाय गच्छन्तमनुगन्तुमहं यदा ॥ ६५ ॥ त्वां देव न हि शक्ष्यामि तदा त्यक्ष्यामि जीवितम् ॥ मनस्विनी तथा का च वैधव्यात्क्लिश्यिता ॥ ६७ ॥ मुहूर्तमपि जीवेत् मण्डनाईह्मणिखण्डिता ॥ यम उवाच ॥ पतिव्रते महाभागे परितुष्टोऽस्मि ते शुभे ॥ ६८ ॥ विना सत्यवतः प्राणान्वरं वरय मा चिरम् ॥ सावित्र्युवाच ॥ विनष्टचक्षुषो राज्यं चक्षुषा सह कामये ॥ द्युत्तराजयस्य धर्मज्ञ श्वशुरस्य महात्मनः ॥ ६९ ॥
॥ यम उवाच ॥ कृतेन कामेन निवृतं भद्रे भविष्यतीदं सकलं त्वयोक्तम् ॥ ममोपरोधस्तव च क्ष्मः स्यात्तथाऽधुना तेन तव ब्रवीमि ॥ ७० ॥ इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा० सं० सावित्र्युपाख्याने सप्तत्रिंशत्तमोऽध्यायः ॥३७॥ सावित्र्युवाच ॥ कुतः क्ष्मः कुतो दुःखं सद्भिः सह समागमे ॥ सतां तस्मान्न मे ग्लानिस्त्वत्समीपे सुरोत्तम ॥ १ ॥ साधूनां वाप्यसाधूनां सन्त एव परा गतिः ॥ नैवापसतां नैव सतामसन्तो नैव चात्मनः ॥ २ ॥ विषाग्निसर्पशस्त्रेभ्यो न तथा जायते भयम् ॥ अकारणजगद्वैरिखलेभ्यो जायते यथा ॥ ३ ॥ सन्तः प्राणानपि त्यक्त्वा परार्थं कुर्व्वते व्यथा ॥ तथाऽसन्तोऽपि मनुजाः परपीडासु तत्पराः ॥४ ॥ त्यजत्यसूनयं लोकस्तृणवद्व्यत्य कारणात् ॥ परोपचानसक्तास्ते परलोकं तथा सता ॥ ५ ॥ निक्रियेष्जनिकायेषु पुरा ब्रह्मा जरद्गवः ॥ असतानमुपधाताय राजानः कृतवान्व्ययम् ॥ ६ ॥ चारैः परीक्ष्यन्दूद्या धूर्तान्सम्माजयं त्सदा ॥ निग्रहं चासतां कुर्यात्स तु लोकजिदुत्तमः ॥ ७ ॥ धान्यसंरक्षणार्थाय निर्मार्गो कक्षमुद्धरन् ॥ यथा वर्धयते धान्यं वर्द्धनीयास्तथा प्रजाः ॥ ८ ॥ निग्रहेणासतां राज्ञा सतां च परिपालनैः ॥ एतावदेव कर्त्तव्यं राज्ञा स्वयमभीप्सता ॥ ९ ॥ राजकृत्यं हि लोकेषु नास्त्यन्यत्त्वज्जग त्पते ॥ असतां निग्रहाद्देव सतां च परिपालनातू ॥ १० ॥ राजानुशासिता तेषामसतां शासिता भवान् ॥ तेन त्वमधिको देव देवेभ्यः प्रति भासि मे ॥ ११ ॥ जगत्तु धार्यते सद्भिः सतामभ्यस्तथा भवान् ॥ तेन त्वामभिमान्यन्ता मे कुतो देव न विद्यते ॥ १२ ॥ यम उवाच ॥ तुष्टो स्मि ते विशालाक्षि वचनेर्धर्मसंहितैः ॥ विना सत्यवतः प्राणान्वरं वरय मा चिरम् ॥ १३ ॥ सावित्र्युवाच ॥ सहोदराणां भ्रातृणां कामयामि शतं विभो ॥ अनपत्यः पिता प्रीति पुत्रलाभात्प्रयातु मे॥ १४॥ यम उवाच ॥ कृतेन कामेन निवृतं भद्रे भविष्यतीदं सकलं त्ववोक्तम् ॥ ममोपरोधस्त व च क्ष्मः स्यात्तथाधुना तेन तव ब्रवीमि ॥ १५॥ इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा०सं० सावित्र्युपाख्याने द्वितीयवरलाभो नामाष्टात्रिंशत्तमो ध्यायः ॥ ३८ ॥ सावित्र्युवाच ॥ धर्मो हि दैवतं स्त्रीणां पतिरेव परायणम् ॥ अनुगम्यः स्त्रिया साध्व्या पतिः प्राणधनेश्वंरः ॥ १ ॥ धर्मार्जितेन पुरं श्रेष्ठ कुतो ग्लानिः कुतः क्ष्मः॥ त्वत्पादमूलमेवेदं परमं धर्मकारणम् ॥ २ ॥ धर्मार्जनं सदा कार्यं पुरुषेण विजानता ॥ तल्लाभः सर्वलाभेभ्यो यतो देव विशिष्यते ॥ ३ ॥ धर्मश्चार्थश्च कामश्च त्रिवर्गं जीवतः फलम् ॥ धर्मेहीनस्य कामार्थी वन्ध्यासुतसमावुभौ ॥ ४ ॥ धर्मादर्थस्तथा कामो धर्माल्लोकद्वयं तथा ॥ धर्म एकोऽनुयात्येनं यत्र कुत्र च गामिनम् ॥ ५ ॥ शरीरेण समं नाशं सर्वमन्यद्धि गच्छति ॥ एको हि जायते जन्तुरेक एव विपद्यते ॥ ६ ॥ धर्मस्तमनुयात्येको न सुहृन्न च बान्धवाः ॥ रूपसौभाग्यलावण्यं सम्पद्धर्मेण लभ्यते ॥ ७॥ ब्रह्मेन्द्रोपेन्द्रशर्वेन्दुद्युमार्कग्रहमिनि
वि० खं०
॥२-०१॥
द्वि० खं०
अ० ३१
लाभसाम् ॥ वस्त्रांश्चन्दनदानां ये लोकाः सर्वकामदाः ॥ ८ ॥ धर्मेण तानवाप्नोति पुरुषः पुरुषान्तक ॥ मनोहराणि द्वीपानि वर्षाणि सुसु-
खानि च ॥ ९ ॥ प्रयान्ति धर्मेण नरास्तथैवामरात्मताः ॥ नन्दनादीनि मुख्यानि देवोद्यानानि यानि च ॥ १० ॥ तानि पुण्येन लभ्यन्ते
नाकपृष्ठं तथा नरैः ॥ विमानानि विचित्राणि तथैवाप्सरसः शुभाः ॥ ११ ॥ तैजसानि शरीराणि सदा पुण्यवतां फलम् ॥ राज्यं नृपतिपूजा च
कामसिद्धस्तथैप्सिता ॥ १२ ॥ उपस्कराणि मुख्यानि फलं पुण्यस्य दृश्यते ॥ रुक्मवैदूर्यदण्डानि चंद्रांशुसदृशानि च ॥ १३ ॥ चामराणि
सुराध्यक्ष भवन्ति शुभकर्मणाम् ॥ ^१( पूर्णेन्दुमंडलोभेन रक्तांशुसमितेन च ॥१४॥ धार्यतां यानि छत्रेण नरः पुण्येन कर्मणा ॥) जयशब्दस्स्वना
देव सूतमागधनिःस्वनम् ॥ १५ ॥ वरासनं सभृङ्गारं फलं पुण्यस्य कर्मणः ॥ वरांगनानां गीतं च हृत्पमाल्यानुलेपनम् ॥ १६ ॥ रत्नवस्त्राणि
मुख्यानि फलं पुण्यस्य कर्मणः ॥ रूपाढ्याश्चगुणोपेताः स्त्रियश्चातिमनोहराः ॥ १७ ॥ वासः प्रासादपृष्ठेषु भवन्ति शुभकर्मणाम् ॥ सुवर्णकिंकिणी
मिश्रचामराः पीठधारिणः ॥ १८ ॥ वहन्ति तुरगा देव नरं पुण्येन कर्मणा ॥ हेमकक्षैः समातैश्चरूपवंतस्तथैभिः ॥ १९ ॥ खेलोभिषग्विद्यान्यसि-
र्यान्ति पुण्येन कर्मणा ॥ सर्वकामप्रदं देवं सर्वापद्विनिवारकम् ॥२० ॥ वहन्ति भक्ति पुरुषास्सदा पुण्येन कर्मणा ॥ तस्य द्वाराणि यजनं तपो दानं
दया क्षमा ॥ २१ ॥ ब्रह्मचर्यं च सत्यं च तीर्थानुसरणं शुभे ॥ स्वाध्यायसेवा साधूनां सहवासः सुरार्चनम् ॥२२॥ गुरूणां चैव शुश्रूषाब्राह्मणानां
च पूजनम् ॥ इन्द्रियाणां जयश्चैव मार्दवं हीरमात्सरम् ॥ २३ ॥ तस्माद्धर्मः सदा कार्यो नित्यमेव विजानता ॥ न हि प्रतीक्षते मृत्युः कृतमस्य न
वा कृतम् ॥ २४ ॥ बाल एवाचरेद्धर्ममनित्यं देव जीवितम् ॥ को हि जानाति कस्याद्य मृत्युः केन भविष्यति ॥२५॥ पश्यतोऽस्यस्य लोकस्य
मरणं पुरतः स्थितम् ॥ अमरस्येव चरितमत्याश्चर्यं सुरोत्तम ॥ २६ ॥ युवावाप्यथवा बालो वृद्धत्वापेक्षया युवा ॥ मृत्योर्हस्तंङ्गतश्चाढ्यः
स्थविरः किमपेक्षते ॥ २७ ॥ प्लवः शैलं समाढः ततो वृक्षाग्रमाश्रितः ॥ तत्राप्यविन्दत्तंत्त्राणं मृत्योर्दन्तस्य का गतिः ॥ २८ ॥ न मद्यं मरणा-
देव प्राणिनामाधिकं क्वचित् ॥ तत्रापि निर्भयाः सन्तः सदा सुकृतकारिणः ॥२९ ॥ यम उवाच ॥ वृथोडोऽसि ते विशालाक्षि वचनेनधर्मसङ्गतेः ॥
विना सत्यवतः प्राणान्वरं वरय मा चिरम् ॥ ३० ॥ सावित्र्युवाच ॥ वश्यामि त्वया दत्तं पुत्राणां शतमौरसम् ॥ अनपत्यस्य लोकेषु गतिः
किल न विद्यते ॥ ३१ ॥ यम उवाच ॥ कृतेन कामेन निवृर्त भद्रे भविष्यतीदं सकलं त्वयोक्तम् ॥ ममोपरोधश्च तव कुमः स्यात्तथाधुना तेन
^१ कोष्ठान्तर्गतः पाठः कपुस्तके नास्ति ।
॥२०१॥
तव ब्रवीमि ॥ ३२ ॥ इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा०सं०सावित्र्युपाख्याने तृतीयवरलाभो नामैकोनचत्वारिंशोऽध्यायः ॥३९॥
सावित्र्युवाच ॥ सर्वधर्मविधानज्ञः सर्वधर्मप्रवर्तकः ॥ त्वमेव जगतां नाथः प्रजासंयमने यमः ॥ १ ॥ कर्मणामानुरूप्येण यस्मान्नयसि प्रजाः ॥ तस्मात्त्वमुच्यसे देव यम इत्येव नामतः ॥ २ ॥ धर्मेणोभाः प्रजाः सर्वा यथा रञ्जयसे प्रभो ॥ तस्मात्ते धर्मराजेति नाम सत्यं निगद्यते ॥ ३ ॥ सुकृतं दुष्कृतं चोभे पुरोधाय यथा जनाः ॥ त्वत्सकाशमथायान्ति तस्मात्त्वं मृत्युरुच्यसे ॥ ४ ॥ सर्वेषामथ भूतानां यस्मादन्तकरो भवान् ॥ तस्मात्त्वमन्तकः प्रोक्तः सर्वदेवमहाद्युते ॥ ५ ॥ विवस्वतस्त्वं तनयः प्रथमः परिकीर्तितः ॥ तस्माद्वैवस्वतो नाम्ना सर्वदेवेषु कथ्यसे ॥ ६ ॥ कालं कलां च कलयन्सर्वेषां त्वं हि तिष्ठसि ॥ तस्मात्कालेति ते नाम प्रोच्यते तत्त्वदर्शिभिः ॥ ७ ॥ आयुष्ये कर्मणि क्षीणे गृह्णासि प्रथमं जनम् ॥ तस्मात्त्वं कथ्यसे लोके सर्वप्राणहरिति वै ॥ ८ ॥ तव प्रसादाद्देवेश धर्मे तिष्ठन्ति जन्तवः ॥ तव प्रसादाद्देवेश सङ्करे नैव जायते ॥ ९ ॥ सतां सदा गतिर्देव त्वमेव परिकीर्तितः ॥ जगतोऽस्य जगन्नाथ मर्यादापरिपालकः ॥ १० ॥ पाहि मां त्रिदशश्रेष्ठ दुःखितां शरणागताम् ॥ पितरौ च तथैवास्य राजपुत्रस्य दुःखितौ ॥ ११ ॥
यम उवाच ॥ स्तुतेन भक्त्या धर्मज्ञे मया तुष्टेन सत्यवान् ॥ तव भर्ता विमुक्तोऽद्य लब्धकामा व्रजाबले ॥ १२ ॥ राज्यं कृत्वा त्वया सार्धं वत्सराशीतिमष्टकम् ॥ नाकपृष्ठमथारुह्य त्रिदशैस्सह रंस्यते ॥ १३ ॥ स्तोत्रेणानेन धर्मज्ञे कल्यमुत्थाय यश्च माम् ॥ कीर्तयिष्यति तस्यापि दीर्घमायुर्भविष्यति ॥ १४ ॥
पुष्कर उवाच ॥ एतावदुक्त्वा भगवान्यमस्तु विसृज्य तं राजसुतं महात्मा ॥ अदर्शनं तत्र जगाम राम कालेन सार्धं सह मृत्युना च ॥ १५ ॥
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा०सं०सावित्र्युपाख्याने चत्वारिंशत्तमोऽध्यायः ॥ ४० ॥
पुष्कर उवाच ॥ सावित्री च ततः साध्वी जगाम वरवर्णिनी ॥ यथायथागतेनैव यत्रासौ सत्यवान्स्थितः ॥ १ ॥ सा समासाद्य भर्तारं तस्योत्सङ्गगतं शिरः ॥ कृत्वा विवशा तन्वङ्गी लम्बमाने दिवाकरे ॥ २ ॥ सत्यवानपि निर्मुक्तो धर्मराज्ञा शनैःशनैः ॥ उन्मीलयति ते नेत्रे प्रस्पन्दत च भार्गव ॥ ३ ॥ ततः प्रत्यागतप्राणः प्रियां वचनमब्रवीत् ॥ क्वाऽसौ प्रयातः पुरुषो यो मामाकृष्य गच्छति ॥ ४ ॥ जानामि न वराङ्गेऽहं कश्चासौ पुरुषः शुभे ॥ वनेऽस्मिंश्चारुसर्वाङ्गि सुप्तस्य च चिरं गतम् ॥ ५ ॥ उपवासपरिक्लान्ता कर्शिता भवती मया ॥ अस्माद्गृहेऽद्य पितरौ दुःखितौ तथा ॥ ६ ॥ द्रष्टुमिच्छाम्यहं सुभ्रु गमने त्वरिता भव ॥
सावित्र्युवाच ॥ आदित्योऽस्तमनुप्राप्तो यदि ते रुचितं प्रभो ॥ ७ ॥ आश्रमन्तु प्रयास्यावः श्वशुरौ तप्यतो मम ॥ यथावृत्तं च तत्रैव तव वक्ष्याम्यथाश्रमे ॥ ८ ॥
पुष्कर उवाच ॥ एतावदुक्त्वा भर्तारं
वि० ध० द्वि० खं० अ० ४२ ॥२०२॥
सह भर्त्रा ययौ तदा ॥ आससादाश्रमं चैव सह भर्त्रा नृपात्मजा ॥ ९ ॥ एतस्मिन्नवकाशे तु लब्धचक्षुर्महीपतिः ॥ द्युमत्सेनः सभार्य्यस्तु पर्यतप्यत भार्गव ॥ १० ॥ सावित्र्यापि वरारोहा सह सत्यवता तदा ॥ ववन्दे तत्र राजानं सभार्य्यं भृगुनन्दन ॥ ११ ॥ परिष्वक्तस्तदा पित्रा सत्यवाञ्- जनन्दनः ॥ अभिवाद्य ततः सर्वान्वने तस्मिंस्तपोधनान् ॥ १२ ॥ उवास तां तदा रात्रिम्ऋषिभिः सह धर्मवित् ॥ सावित्र्यपि जगादाथ यथा- वृत्तमनिन्दिता ॥ १३ ॥ व्रतं समापयामास तस्यामेव तदा निशि ॥ ततस्तु राम राज्यन्ते शाल्वेभ्यस्तस्य भूपतेः ॥ १४ ॥ आजगाम जनः सर्वोराज्यार्थाय निमन्त्रणे ॥ आज्ञापयामास तदा तथा प्रकृतिशासनम् ॥ १५ ॥ विच्छन्नस्ते नृप ते येन राज्यं पुरा हतम् ॥ अमात्यैः सह भोक्तव्यं राज्यमस्तु पुरे नृप ॥ १६ ॥ एतच्छ्रुत्वा ययौ तत्र बलेन चतुरङ्गिणा ॥ लेभे च सकलं राज्यं धर्मराजो महात्मनः ॥ १७ ॥ भ्रातॄणां च शतं लेभे सावित्र्यपि वराङ्गना ॥ एवं पतिव्रता साध्वी पितृपक्षं नृपात्मजा ॥ १८ ॥ उज्जहार वरारोहा भर्तृपक्षं तथैव च ॥ मोचयामास भर्त्तारं मृत्युपाशवशीकृतम् ॥ १९ ॥ तस्मात्साध्व्यः स्त्रियः पूज्याः सततं देववज्जनैः ॥ तासां राम प्रसादेन ध्रियते वै जगत्त्रयम् ॥ २० ॥ तासां न वाक्यं भवतीह मिथ्या न जातु लोकेषु चराचरेषु ॥ तस्मात्सदा ताः परिपूजनीयाः कामान्समग्रानभिकामयानैः ॥ २१ ॥ इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मार्कण्डेयवज्रसंवादे सावित्र्युपाख्याने एकचत्वारिंशत्तमोऽध्यायः ॥ ४१ ॥ ॥ छ ॥ ॥ पुष्कर उवाच ॥ गवां हि पालनं राज्ञा कर्तव्यं भृगुनन्दन ॥ गावः पवित्राः संगत्या गोषु लोकाः प्रतिष्ठिताः ॥ १ ॥ गावो वितन्वते यज्ञं गावो विश्वस्य मातरः ॥ शकृन्मूत्रं परं तासामलक्ष्मीनाशनं स्मृतम् ॥ २ ॥ तद्धि सेव्यं प्रयत्नेन तत्र लक्ष्मीः प्रतिष्ठिता उद्वेगं च न गन्तव्यं शकृन्मूत्रस्य जानता ॥ ३ ॥ गवां मूत्रपुरीषेषु ह्यवगाहं न सन्त्यजेत् ॥ गोजः परं पुण्यमलक्ष्मीविघ्ननाशनम् ॥ ४ ॥ गवां कण्डूयनं चैव सर्वकल्मषनाशनम् ॥ तासां श्रृङ्गोदकैश्चैव जाह्नवीजलसन्निभम् ॥ ५ ॥ गोमूत्रं गोमयं क्षीरं दधि सर्पिश् च रोचनम् ॥ षडङ्गम् तन्माङ्गल्यं पवित्रं तु पृथक्पृथक् ॥ ६ ॥ गोमूत्रं गोमयं क्षीरं दधि सर्पिः कुशोदकम् ॥ पवित्रं परमं ज्ञेयं स्नाने पाने च भार्गव ॥ ७ ॥ गवां मेतन्माङ्गल्यं कलिदुःस्वप्ननाशनम् ॥ रोचना च तथा धन्या रक्षोरोगगदापहा ॥ ८ ॥ यस्तु कल्ये समुत्थाय सुलभाज्यं निरीक्षते ॥ तस्यालक्ष्मीः क्षयं याति वर्धते न तु किल्बिषम् ॥ ९ ॥ गवां ग्रासप्रदानेन पुण्यं सुमहदश्नुते ॥ यावत्यः शक्नुयाद्गावः सुखं धारयितुं गृहे ॥ १० ॥ धारयेत्तावतीर्नित्यं क्षुधितास्तु न धारयेत् ॥ दुःखिता धेनवो यस्य वसन्ति द्विज मन्दिरे ॥ ११ ॥ नर्कं समवाप्नोति नात्र कार्या विचारणा ॥
॥२०२॥
दत्त्वा परगवे ग्रासं पुण्यं सुमहदश्नुते ॥ १२ ॥ शैशिरं सकलं कालं ग्रासं परगवे तथा ॥ दत्त्वा स्वर्गमवाप्नोति संवत्सराशतानि षट् ॥ १३ ॥ अभ्रभक्तं नरो दत्त्वा नित्यमेव तथा गवाम् ॥ मासषट्केन लभते नाकलोकं समायुतम् ॥ १४ ॥ सायं प्रातर्मुखोप्यान्नाशनं देवर्निर्मितम् ॥ तत्रैवमशनं दत्त्वा गवां नित्यमत्तन्द्रितः ॥ १५ ॥ द्वितीयं यः समश्नाति तेन संवत्सरेश्वरः ॥ गवां लोकमवाप्नोति यावन्मन्वन्तरं द्विज ॥ १६ ॥ गवां प्रचारे पानीयं दत्त्वा पुरुषसत्तमः ॥ वारुणं लोकमासाद्य क्रीडत्यब्दगणायुतम् ॥ परां तृप्तिमवाप्नोति यत्रयत्राभिजायते ॥ १७ ॥ गवां प्रचारभूमिं तु वाहयित्वा हलादिना ॥ नरकं महदाप्नोति यावद्विप्रश्चतुर्दश ॥ १८ ॥ गवां पानमवृत्तानां यस्तु विघ्नं समाचरेत् ॥ ब्रह्महत्या कृता तेन घोरा भवति भार्गव ॥ सिंहव्याघ्रभयत्रस्तां पङ्कमग्नां जले गताम् ॥ १९ ॥ गामुद्धृत्य नरः स्वर्गे कल्पभोगात्पशूयते ॥ गवां चवसदानेन रूपवानभिजायते ॥ २० ॥ सौभाग्यं महदाप्नोति लावण्यं च द्विजोत्तम ॥ औषधं च तथा दत्त्वा विरोगस्त्वभिजायते ॥ ॥ २१ ॥ औषधं लवणं तोयमाहारं च प्रयच्छतः ॥ विपत्तौ पातके नास्य भवत्युद्धन्यनादिकम् ॥ २२ ॥ वक्तव्यता दिवापाले रात्रौ स्वामी न तद्गृहे ॥ तत्रापि तन्निंयुक्तश्च कश्चिदन्यो न चेद्भवेत् ॥ २३ ॥ तासां चेद्विरुद्धानां चरन्तीनां मिथो वने ॥ यासुत्पत्य वृको हन्यात्पालस्तत्र किल्बिषी ॥ २४ ॥ संरुद्धासु तथैवासु वृकः पाले त्वनायति ॥ यासुत्पत्य वृको हन्यात्पाले तत्किल्विषं भवेत् ॥ २५ ॥ गोवधेन नरो याति नरकानेकविंशतिम् ॥ तस्मात्सर्वप्रयत्नेन कार्यं तासां तु पालनम् ॥ २६ ॥ विक्रयाच्च गवां राम न भद्रं प्रतिपद्यते ॥ तासां च कीर्तनादेव नरः पापाद्विमुच्यते ॥ २७ ॥ तासां संस्पर्शनं धन्यं सर्वकल्मषनाशनम् ॥ दानेन च तथा तासां कुलान्युपि समुद्धरेत् ॥ २८ ॥ उदक्या सूतिकां दोषो नैव तत्र गृहे भवेत् ॥ भूमिदोषास्तथान्योऽपि यत्रैका वसते तु गौः ॥ २९ ॥ गवां निश्वासवातेन परा शान्तिर्गृहे भवेत् ॥ नीराजनं तत्परमं सर्वस्थानेषु कीर्तितम् ॥ ३० ॥ गवां संस्पर्शनाद्राम क्षीयते किल्बिषं नृणाम् ॥ गोमूत्रं गोमयं क्षीरं दधि सर्पिः कुशोदकम् ॥ ३१ ॥ एकरात्रोपवासं च श्वपाकमपि शोधयेत् ॥ पृथक्त्वप्रत्ययाभ्यास्तमतिसन्तपनं स्मृतम् ॥ ३२ ॥ सर्वाशुभविमोक्षाय पुरा च रितमृषिभिः ॥ प्रत्येकं च त्र्यहाभ्यस्तं चातिसांतपनं स्मृतम् ॥ ३३ ॥ सर्वकामप्रदं राम सर्वाशुभविनाशनम् ॥ कृच्छ्रातिकृच्छ्रं पयसा दिवसानेकविंशतिम् ॥ ३४ ॥ निर्मलास्तेन चीर्णेन भवन्ति पुरुषोत्तमाः ॥ त्र्यहमुष्णं पिबेन्मूत्रं त्र्यहमुष्णं घृतं पिबेत् ॥ ॥ ३५ ॥ त्र्यहमुष्णं पयः पीत्वा वायुभक्षः परं त्र्यहम् ॥ तप्तकृच्छ्रमिदं प्रोक्तं सर्वाशुभविनाशनम् ॥ ३६ ॥ शीतकृच्छ्रस्तथैवैष क्रमाच्छीतैः
प्रकीर्तितः ॥ सर्वाशुभविनाशाय निर्मितो ब्रह्मणा स्वयम् ॥ ३७ ॥ गोमूत्रेण चरेत्कृत्स्नं वृत्तिं कुर्याच्च गोरसैः ॥ उत्थितासुत्थितस्तिष्ठेदुपविष्टासु ना स्थितः ॥ ३८ ॥ अभुक्तवत्सु नाश्नीयात्पीतासु च नो पिबेत् ॥ त्राणं तु रामाकुर्वीत तथा देवे प्रवर्षति ॥ ३९ ॥ त्राणं नैवात्मनः कार्यं भया- त्तांश्च समुद्धरेत् ॥ आत्मानमपि सन्त्यज्य गोव्रतं तत्प्रकीर्तितम् ॥ ४० ॥ सर्वपापप्रशमनं मासेनेकेन भार्गव ॥ व्रतेनानेन चीर्णेन गोलोकं पुरुषो व्रजेत् ॥ ४१ ॥ अभीष्टमथ वा राम यावदिन्द्रश्चतुर्दश ॥ गवां निर्हारनिर्मुक्तानश्नन्नप्रतिदिनं यवान् ॥ ४२ ॥ मासेन तदवाप्नोति यत्किं- ञ्चिन्मनसेच्छति ॥ गोमतीं च तथा विद्यां सायं प्रातस्तथा जपन् ॥ ४३ ॥ गोलोकमवाप्नोति नरो नात्र कार्या विचारणा ॥ उपर्युपरि सर्वेषां गवां लोकः प्रकीर्तितः ॥ ४४ ॥ निवसन्ति सदा यत्र गावस्त्वव्रातकाशना दिवि ॥ विमानेषु विचित्रेषु वृत्तेष्वप्सरसां गणैः ॥ ४५ ॥ किङ्किणी- जालचित्रेषु वीणासुस्वननादिषु ॥ ४६ ॥ नद्यो हि यत्र क्षीरपायसकर्दमाः ॥ ४६ ॥ शीतलामलपानीयाः सुवर्णसिकतातथा ॥ पुष्कर्ण्यः शुभास्तत्र वैदूर्यकमलोत्पलाः ॥ ४७ ॥ मानसी च तथा सिद्धिः तत्र लोके भृगूत्तम ॥ तच्च लोकं नरा यान्ति गवां भक्त्या न संशयः ॥ ४८ ॥ गोमतीं कीर्तयिष्यामि सर्वपापप्रणाशिनीम् ॥ तां तु मे वदतो विप्र शृणुष्व सुसमाहितः ॥ ४९ ॥ गावः सुरभयो नित्यं गावो गुग्गुलगन्धिकाः ॥ गावः प्रतिष्ठा भूतानां गावः स्वस्त्ययनं परम् ॥ ५० ॥ अन्नमेव परं गावो देवानां हविरुत्तमम् ॥ पावनं सर्वभूतानां रक्षन्ति च वहन्ति च ॥५१॥ हविषा मन्त्रपूतेन तर्पयन्त्यमरान्दिवि ॥ ऋषीणामग्निहोत्रेषु गावो होमे प्रयोजिताः ॥ ५२ ॥ सर्वमेव भूतानां गावः शरणमुत्तमम् ॥ गावः पवित्रं परमं गावो मङ्गलमुत्तमम् ॥ ५३ ॥ गावः स्वर्गस्य सोपानं गावो धन्यास्सनातनाः ॥ ( ॐ ) नमो गोभ्यः श्रीमतीभ्यः सौरभेयीभ्य एव च ॥ ५४ ॥ नमो ब्रह्मसुताभ्यश्च पवित्राभ्यो नमोनमः ॥ ब्राह्मणाश्चैव गावश्च कुलमेकं द्विधा स्थितम् ॥ ५५ ॥ एकत्र मन्त्रास्तिष्ठन्ति हविरेकत्र तिष्ठति ॥ देवब्राह्मणगोसाधुसाध्वीभिः सकलं जगत् ॥ ५६ ॥ धार्यते वै सदा तस्मात्सर्वैः पूज्यतमाः सदा ॥ यत्र तीर्थे सदा गावः पिवन्ति तृषि- ता जलम् ॥ उत्तरन्ति पथा येन स्थिता तत्र सरस्वती ॥५७॥ गवां हि तीर्थे वसतीह गङ्गा प्रतिष्ठिता तद्रजसि प्रवृद्धा ॥ लक्ष्मीः करीषे प्रणतौ च धर्मस्तासां प्रणामं सततं च कुर्यात् ॥ ५८ ॥ ॥ इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा० सं० गोमाहात्म्ये गोमतीविद्या नाम द्विचत्वारिं- शत्तमोऽध्यायः ॥ ४२ ॥ ॥ पुष्कर उवाच ॥ ॥ अतः परं प्रवक्ष्यामि तव राम चिकित्सितम् ॥ संक्षेपेण गवां पुण्यं सारभूतं शृणुष्व तत् ॥ ॥ १ ॥ शृङ्गशूलेषु धेनूनां तैलं दद्यात्सतैन्दवम् ॥ शृङ्गीवराबलामूर्वाकल्कसिद्धं समाक्षिकम् ॥ २ ॥ कृमिचूर्णैर्युतं देयमथवापि तथा घृतम् ॥
कर्णमूलेषु सर्वेषु मक्षिकाद्विङ्ससैन्धवैः ॥ ३ ॥ सिद्धं तैलं प्रदातव्यं गोरसो वाथवा पुनः ॥ माक्षिकं सैन्धवं शंखं तगरीं पिप्पलीं सिताम् ॥ ४ ॥ अजाक्षीरेण संपेष्य गुलिकां कारयेद्द्भिषकू ॥ एतन्नेत्राञ्जनं श्रेष्ठं घृतमाक्षिकसंयुतम् ॥ ५ ॥ बिल्वमूलमपामार्ग धातकीं च सपाटलाम् ॥ कुटजं दन्तमूलेषु लेपं तच्छूलनाशनम् ॥ ६ ॥ दन्तशूलेहरिद्वेऽमृते राम विपाचितम् ॥ मुखरोगेहरं ज्ञेयं जिह्वारोगेषु सैन्धवम् ॥ ७ ॥ शृङ्गवेरं हरिद्रे द्वे त्रिफलां च नलञ्जहे ॥ शृङ्गवेरं हरिद्रे द्वे वल्कलं कुटजस्य च ॥ ८ ॥ अपामार्गगवांऽगश्च लवणेन विमिश्रितम् ॥ औषधं मुखरोगेण ज्वरदाहविना- शनम् ॥ ९ ॥ हृच्छूले बस्तिशूले च वातरोगे क्षते तथा ॥ त्रिफलाघृतसंमिश्रं गवां पानं प्रशस्यते ॥ १० ॥ शतपुष्पायुतं पक्वं तैलं कुटजचि- त्रकैः ॥ गवां राम प्रदातव्यं सर्व्वदोषविनाशनम् ॥ ११ ॥ अतीसारे हरिद्रे द्वे पाठां चैव प्रदापयेत् ॥ आनाहे घृतसंयुक्तां दापयेत्पञ्चाङ्गुणीमिषाम् ॥ ॥ १२ ॥ सर्वेषु कुष्ठरोगेषु तथा शाखारोगेषु च ॥ शृङ्गवेरं च दार्वी च कासे श्वासे प्रदापयेत् ॥ १३॥ दातव्या भस्मसन्धाने प्रियङ्गुर्लवणाम्विता ॥ वातरोगेषु सर्वेषु शतपुष्पाविपाचितम् ॥ १४ ॥ गवां तैलं प्रदातव्यं सर्ववातागदापहम् ॥ यूषणं मधुसंमिश्रं कफरोगेषु दापयेत् ॥ १५ ॥ पित्त- रोगेषु सर्वेषु मधुयष्टिविपाचितम् ॥ गव्यमाज्यं प्रदातव्यं सर्वपित्तगदापहम् ॥ १६ ॥ शाखोटकरसापानं रक्तपित्ते प्रशस्यते ॥ गोयुजानां च चूर्णानि माषांश्चैव ससर्षपाः ॥ १७ ॥ पयसा च समालोड्य गुरुमिश्राः प्रदापयेत् ॥ रक्तस्रावेषु कृच्छ्रेषु गवांमेतत्प्रशस्यते ॥ १८ ॥ तिलाम्पक्कहरूशैश्च हरित्ताल घृतं तथा ॥ अभ्रक्षतानां धेनूनां लेपने तत्प्रशस्यते ॥ १९ ॥ वत्सानां च सगोगाणां पाठां तक्रेण पाययेत् ॥ हरिद्रां क्षीरसंयुक्तामथवा रोगशान्तये ॥ २० ॥ माषास्तिलाः सगोधूमाः पशुक्षीरं घृतं तथा ॥ एषां पिण्डाः प्रदातव्या लवणेन सुमंस्कृताः ॥ पुष्टि- प्रदा तु वत्सानां वृषभाणां बलप्रदा ॥ २१ ॥ देवदारुवचामींशिगुग्गुलुं हिङ्ससर्षपाः ॥ एष धूपः प्रदातव्यः किञ्चिद्घृतपरिप्लुतः ॥ २२ ॥ सर्वग्रह- विनाशाय फलङ्कारायुतः शुभः ॥ घण्टा चापि गवां कार्या धूपनेनैव धूपिता ॥ २३ ॥ अश्वगन्धा तिलं चुक्रं वस्तियोगे प्रशस्यते ॥ अश्वगन्धा- युतं तकं तिलान्वस्ति प्रशस्यते ॥ भवति क्षीरिणी तेन धेनुर्बहुकुलोद्भव ॥ २४ ॥ पिण्याकमेव निर्दिष्टं गवां गम्रस्थापनम् ॥ शीतोदपानमार्द्रञ्च यवसं च विवर्जयेत् ॥ २५ ॥ जरान्विता तथा श्यान् तश्च शींतं द्विजोत्तम ॥ धार्यं चैव गवां मध्ये मतौजः सर्वथा भवेत् ॥ ॥ २६ ॥ गवां वेश्मनि दीपास्तु दातव्या राम रात्रिकाः ॥ २७ ॥ गवां हि रोगोपशमाय शस्तं गतेऽर्धमासे लवणं सदैव ॥ आनाहशूलारुचिना- शनं तद्गात्रिकम्पापि तथा प्रशस्तम् ॥२८॥ इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा०सं० रामं प्रति पुष्करोपाख्याने गोचिकित्सितं नाम त्रि[त्रि...]
त्रिचत्वारिंशत्तमोऽध्यायः ॥ ४३ ॥ पुष्कर उवाच ॥ अतः परं प्रवक्ष्यामि शान्तिकर्म गवां तव ॥ नित्यं नैमित्तिकं काम्यं तथा पुष्टिविवर्धनम् ॥ १॥
पञ्चमीषु च शुक्लासु श्रियः पूजा विधीयते ॥ गवां पुरीषे धर्मज्ञ धूपदीपात्रसम्पदा ॥ २ ॥ वन्यैः सुकुसुमैर्भक्त्या ब्राह्मणानां च पूजनम् ॥
तत्रैवाहनि कर्तव्यं वासुदेवस्य पूजनम् ॥ ३ ॥ स हि सर्वगतो देवः क्षीरोदधिनिकेतनः ॥ त्रैलोक्यधाताभूतानां विशेषेण तथा गवाम् ॥ ४ ॥
आश्वयुक्शुक्लपक्षस्य पञ्चदश्यां भृगूत्तम ॥ वृत्रान्तकस्य कर्तव्यस्तदा यागस्तु गोमता ॥ ५ ॥ गन्धधूपनमस्कारपुष्पदीपान्न सम्पदा ॥
इह प्रजायाः साग्राग्रः पुष्पद्द्वा तथैव च ॥ ६ ॥ घृतमर्तिकञ्च तथा रौद्गीमिक्ष सुवृत्तम् ॥ नित्यमिश्र तथा वह्निं घृतेन जुहुयाद्बुधः ॥ ७ ॥
अम्भस्येति च मन्त्रेण लवणं चाभिमन्त्रयेत् ॥ दृष्ट्वा सम्प्राशगं कार्यं दधिक्राण्योत्यनन्तरम् ॥ ८ ॥ यजमानेन देया च धेनुः स्याच्छ्वेतरूपिणी ॥
तद्भाविनी द्व्याच्च होत्रे शक्त्यैव दक्षिणास्मा॥ ९॥गावः स्वलङ्कृताः पश्चाद्गन्धमाल्यफलादिभिः ॥ स्वाशिता भुक्तवत्साश्च कुर्युर्वेति प्रदक्षिणम् ॥ १०॥
श्वेडाकिलिकिलाशब्दैः शङ्खवाद्यवरैस्तथा ॥ वृषाणां योजयेद्युद्धं गोपालानां तथैव च ॥ ११ ॥ द्वितीयोऽहनि धेनूनां वृषाणां सह वत्स्यकैः ॥
लवणं तत्प्रदातव्यं ब्राह्मणेनाभिमन्त्रितम्॥ १२॥ भोजनं गोरसप्रायं ब्राह्मणांश्चात्र भोजयेत् ॥ स्वस्ति वाच्यं ततः पश्चाद्दत्त्वाद्रव्यान्विसर्जयेत् ॥१३॥
नित्यमेतत्तु वो दिष्टं शान्तिकर्म शुभं गवाम् ॥ अतः परं प्रवक्ष्यामि कर्म नैमित्तिकं तव ॥ १४ ॥ धेनूनां मारिके प्राप्ते तथा गोगाद्युपद्रवे ॥
क्षीरक्षये तथान्यस्मिन्प्रकृतेस्तु विपर्यये ॥ १५ ॥ त्रिगोत्रोत्पापितो विद्वानेकगोत्रोषितोऽथ वा॥ गवां मध्ये शुभे देशे स्थण्डिलं परिकल्पयेत्॥१६॥
अष्टपत्रं लिखेत्पद्मं कर्णिकाकेसरान्वितम् ॥ पूजयेत्कर्णिकामध्ये वासुदेवं श्रिया सह ॥ १७ ॥ कुसरैः पूजनं कार्यं देवतानां यथाक्रमम् ॥
यासां तासां प्रवक्ष्यामि तव नामानि भार्गव ॥ १८ ॥ सुभद्रां नाम दिग्वधूत् पूर्वभागे समर्चयेत् ॥ पूजनीयास्ततो ब्रह्मा सुरभिस्तदनन्तरम् ॥
॥ १९ ॥ ततः सूर्यस्ततो धेनुर्बहुरूपा द्विजोत्तम ॥ ततस्तु पृथिवीं देवीं ततोऽनन्तं प्रपूजयेत् ॥ २० ॥ ततश्च विश्वरूपाशं दिग्वधूं तदनन्तरम् ॥
ततः सिद्धिं ततो ऋद्धिं ततः शान्तिं समर्चयेत् ॥ २१ ॥ गेहिणी नाम दिग्वधूतस्ततः पूज्या द्विजोत्तम ॥ ततश्चेन्दुसमसं देवं महादेवहृपं ततः
॥ २२ ॥ महादेवं ततो देवं पूजयेत्तदनन्तरम् ॥ इत्येता देवताः प्रोक्ताः कूसरं तव षोडश ॥ २३ ॥ पत्रेषु पूजनीयाश्च दिक्पालाश्च यथादिशम् ॥
गन्धमाल्यनमस्कारधूपदीपात्रसम्पदा ॥ २४ ॥ प्रत्येकं पूजयद्राम देवतां प्रयतो द्विजः ॥ पूर्णकुम्भानि सर्वाणि प्रत्येकं विनिवेदयेत् ॥ २५ ॥
भक्ष्यास्थिगितवक्राणि वर्धमानेस्ततण्डुलैः ॥ सहिरण्यैर्यथाशक्ति ततो होमं समारभेत् ॥ २६ ॥ वेदिं कृत्वा यथाशास्त्रं समिध्य च हुताशनम् ॥
एकैकं दैवतं राम समुद्दिश्य यथाविधि ॥ २७ ॥ चतुर्थ्यन्तेन धर्मज्ञ नाम्ना तु प्रणवादिना ॥ होमद्रव्यैस्तथैकैकं शतसंख्यं तु होमयेत् ॥ २८ ॥ समिधः क्षीरवृक्षस्य अक्षतानि तिलैस्तथा ॥ सिद्धार्थकान्यथाज्यं च प्रत्येकं जुहुयात्क्रमात् ॥ २९ ॥ ततो रक्षोघ्नैर्मन्त्रैर्जुहुयाद्गौरसर्षपान् ॥ ततः समापयेद्धोमं कर्म यथाविधि ॥ ३० ॥ सुवर्णं च तथा कांस्यं धेनुं वस्त्रयुगं तथा ॥ कर्तुर्देयमुपस्पृष्ट्वा वस्त्रयुग्मं गुरोस्तथा ॥ ३१ ॥ भोजनं गोरसप्रायं ब्राह्मणांश्च भोजयेत् ॥ स्वस्ति वाच्यं ततः पश्चाद्दत्तदाया द्विजोत्तमाः ॥ ३२ ॥ रक्षोघ्नैस्तथा मन्त्रैः कुर्याद्रक्षणमथ गवाम् ॥ गवां च पूजा कर्तव्या गन्धमाल्यानुलेपनैः ॥ ३३ ॥ मोक्तव्याश्च तदा वत्सा गवांकामं द्विजोत्तम ॥ शान्तिकर्म गवामेतत्सर्वोत्पातप्रशान्तये ॥ ३४ ॥ कर्तव्यं भृगुशार्दूल परमं कर्म दारुणम् ॥ ३५ ॥ अतः परं प्रवक्ष्यामि काम्यं कर्म तवानघ ॥ ३६ ॥ कर्ता तूपवसेत्तत्र कारयेच्च तथैव च ॥ पूर्वभाद्र पदार्द्यणमाहिर्बुध्न्यगते तथा ॥ ३६ ॥ स्नानं निशाकरे कुर्याद्दित्योदशानि शास्त्रवित् ॥ उदुम्बरस्य पत्राणि पञ्चगव्यं कुशोदकम् ॥ ३७ ॥ रोचनां च समंगां च क्षिप्तेकुम्भद्वये ततः ॥ कुम्भद्वयं बुधः कुर्याद्धेन्चामल्याज्ज्वलं दृढम् ॥ ३८ ॥ अकालमूलं संस्थाप्य कर्ता तेन तदा भवेत् ॥ स्नात्वा गोवालचूर्णेण परिधाय समाहितः ॥ ३९ ॥ पूजयेत्कषाडिर्हविर्भुङ्ख्यामादित्यं च तथैव च ॥ वरुणं च शशाङ्कं च गन्धमाल्यान्नसम्पदा ॥ ॥ ४० ॥ धूपदीपनमस्कारैस्तथैव बलिकर्मणा ॥ अक्षतानां च पात्राणि ततो राम चतुर्दश ॥ ४१ ॥ अहिर्बुध्न्याय रुद्राय सफलांश्च निवेदयेत्॥ खड्गेनेन तु दातव्यं धूपं द्विजोत्तम ॥ ४२ ॥ ततस्तु पूजा कर्तव्या देवदेवस्य चक्रिणः ॥ ॐकारपूर्वमाज्यं च सर्वासं जुहुयात्ततः ॥ ४३ ॥ देवतानां यथोक्तानामेकैकस्य शतंशतम् ॥ गोवालशफाश्रूङ्गैश्च त्रिवृतं कारयेन्मणिम् ॥ ४४ ॥ धारणं तस्य कर्तव्यं कण्ठे मूर्द्धन्यथवा भुजे ॥ करे चैवापदृष्टं च शक्त्या देया च दक्षिणा ॥ ४५ ॥ ब्राह्मणानां च सर्वेषां यथावदनुपूर्वशः ॥ अलेख्यन्महद्पद्मामन्थान्त्यां करोति यः स्नातान्मिदं सदेव ॥ भवन्ति तस्यायुतशश्च गावः पराभवामेति तथैव वृद्धिम् ॥ ४६ ॥ इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा० व० सं० रामं प्रति पुष्करो- पाख्याने गवां शान्तिकर्म नाम चतुश्चत्वारिंशत्तमोऽध्यायः ॥ ४४ ॥ पुष्कर उवाच ॥ राज्ञां तुरङ्गमायत्तो विजयो भृगुनन्दन ॥ तस्मात्सर्व- प्रयत्नेन तुरङ्गाणां समर्चनम् ॥ १ ॥ राज्ञा यत्नवता भाव्यं पालने च विशेषतः ॥ तावन्तस्तुरगा धार्या यावतां पोषणं सुखम् ॥ २ ॥ कर्तुं शक्यं न धार्येते दुःखिताः क्षुधतास्तथा ॥ दुःखितास्ते श्रियं लोके विनिघ्नन्ति जयं तथा ॥ ३ ॥ धारणीयाः सुविहिता विधिना यवसा- दिताः ॥ विधूतास्ते तथा कुर्युर्लोकद्वयजयं तथा ॥४॥ मङ्गल्यास्ते पवित्रास्ते रजस्तेषां तथैव च ॥ कैवल्यस्येव ते भक्ता देवस्य परमेष्ठिनः ॥५॥ ३५