विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)
Vishnudharmottara Purana Hindi
महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह) द्वारा
स्रोत: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (उद्गम)
शान्तां दिशमाश्राय पृच्छतः सिद्धिमादिशेत् ॥ उदीचीं प्रागुदीचीं च पूर्वा चैव विशेषतः ॥ १२ ॥ अङ्गुष्ठनखपादोरुगुल्फसुकुम्रस्तनाः ॥
गण्डशङ्खाक्षिकौ कर्णौ दन्तोष्ठमुखमस्तकम् ॥ १३ ॥ गुरुहुङ्कृतवस्तिश्च वक्षः केशोकसञ्चयः ॥ पुन्नामान्यवमादीनि स्पृशतः
पृच्छतः शुभम् ॥ १४ ॥ कर्णपालिध्रुवौ नासाजिह्वाग्रीवाशुकुक्षिकाः ॥ नाभिश्रोणी स्फिचो जंघे पिण्डिकाङ्गुुलयोऽपि च ॥ १५ ॥
पाणिपादाश्रया रेखा वलयः सर्वसन्धिषु ॥ पाणिर्ण्योरन्वयादीनि स्त्रीनामान्यभिनिर्दिशेत् ॥ १६ ॥ शिरो ललाटं चिबुकं मुखं पृष्ठोदरं त्रिकम् ॥
जठरं वस्तिशीर्षं च मेहनं जानुनी तथा ॥ १७ ॥ कर्णौपाठौस्फिकूटं च पार्श्व च हृदयं तथा ॥ नपुंसकानि जानीयादंगविद्याविशारदाः ॥ १८ ॥
पुंनामानं दृढं स्निग्धमविभ्रममपीडितम् ॥ समं समाहितं चांगं वीरूजं च यदा स्पृशेत् ॥ १९ ॥ यमर्थमभिपृच्छेत तस्य सिद्धिं विनिर्दिशेत् ॥
शत्रूणामुदये पृष्टस्तल्लग्नस्य तथोदय ॥२०॥ शत्रुशत्रूद्ये पृष्टम्तेषां वाच्योविपर्ययः ॥ पराजयं तु वक्तव्यं स्वलग्नास्यात्मोदये ॥ २१ ॥ स्वराशे
श्च महाभाग तथा विद्यादशोभनम् ॥ स्वलग्नस्योदये राम शत्रुशत्रूद्ये तथा ॥ २२ ॥ लग्नाद्वा राशितो वापि विपक्षाणामोदये ॥ एकादशोद्ये
वापि तेषां वाच्योविपर्यये ॥ २३ ॥ पृष्टुः सर्वार्थसंपत्तिर्विज्ञेया भृगुनन्दन ॥ लग्ने वा तच्चतुर्थे वा सप्तमे दशमेऽपि वा ॥ २४ ॥ पञ्चमे नवमे
वापि शस्ताः सौम्यग्रहाः स्मृताः ॥ त्रिषड्दशम संस्थेने पापाश्चैकादशे शुभाः॥२५॥सर्वार्थसाधका ज्ञेयाः प्रष्टुर्भृगुकुलोद्वह ॥ सौम्या बलधिका
ज्ञेयाः पापा हीनबलास्तथा ॥ २६ ॥ बलवच्च तथा लग्नं प्रश्नकाले शुभप्रदम् ॥ एवं तु प्रश्नकालेन शुभं विज्ञाय भूपतिः॥२७॥ यात्रा राम शुभा
ज्ञेया नान्यथा तु कदाचन ॥ जातकं चाथ विज्ञाय दशाकाले सुशोभने ॥ अष्टवर्गबले शुद्धे यात्राकालः प्रशस्यते ॥ २८ ॥ परस्य देवे त्वशुभे
द्विजेन्द्र यात्रा च देया स्वशुभाय नित्यम् ॥ ग्रहादिवाकेषु शुभेषु चैव दत्ता भवेत्कार्यकरी यथावत् ॥ २९ ॥ इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे
मा० वज्रसंवादे श्रीपरशुरामं प्रति पुष्करोपाख्याने अंगविद्यायोगो नाम पञ्चषष्ट्युत्तरशततमोऽध्यायः ॥ १६५ ॥ श्रीमार्कडेय उवाच ॥ अथ
भार्गवो रामो वरुणनन्दनं पुष्करं नाम पप्रच्छ ॥ भगवञ्ज्योतिषशास्त्रं श्रोतुमिच्छामि ॥ तमुवाच वरुणः ॥ पुरा सुरर्षिगणमध्यगतं भगवन्तम्
तिशयं सर्वजगत्पालनसंहारकरं श्रीनह्लाणं सुग्रीवज्ञापयामास ॥ भगवञ्ज्योतिषामयनं श्रोतुमिच्छामि तमुवाच भगवान्पितामहः ॥ यदा मे त्वं
कल्पादौ हृदयाज्जातस्तदा मया ते श्लोकानां चतुर्विंशतिलक्षं ज्योतिरयनमुक्तं तदेवस्पिन्दारुणे यज्ञे महादेव शापेन ज्वालां मित्वा विनिर्गतस्य
जन्मान्तरेणाभ्रभ्रस्यातिसंक्षिप्तं वक्ष्यामि ॥ तच्छ्रुत्वा सर्वमेव ते पूर्वजन्मनामभिहितं ज्योतिर्ज्ञानमाविर्भविष्यति ॥ अथ भगवान्सहस्ररश्मिविमलो
विमलमयूरखः क्षेमाय शिखिपत्राकारः स्तवग्रहाय चन्द्र इव दृष्टिमण्यो राज्यस्याप्तये चन्द्रश्माः समागमे ग्रहाणामुदूर्ध्वमध्यात्तश्च दृश्यते । यथासं भवं च नक्षत्राणां समागमे नक्षत्रादीन्यपि शस्यन्ते ॥ अथ यस्मिन्नक्षत्रे भौम उदयं प्रतिपद्यते तस्मात्सप्ताष्टनबमक्षं पूर्णोन्मुखं नाम वक्रं करोति येनाग्निमन्तो ब्राह्मणा अग्निजीविनश्च पीड्यन्ते । दशमैकादशद्वादशंऽश्रुमुखं नाम मरणकारकं करोति । त्रयोदशचतुर्दशयोर्व्यालावह्यं व्यालवृ द्धिकरम् । पञ्चदशषोडशयो रुचिरमुखं संग्रामसूचकम् । सप्तदशाष्टादशयोरासिमुखं चौराग्रव्यत्यकरम् ॥ अथ बुधो भरणीकृत्तिका रोहिणीषु विच रन्प्राकृतां गतिं सुभिक्षजननं विचरति । आष्ट्रपौरद्रिप्रेक्षुषु मिश्रां मिश्रफलदां पुनर्वसुपुष्यभाग्यार्चम्वणेषु संक्षितं मिश्रफलदामेव ॥ आर्द्रेपु ष्यवाचैपौष्णशक्राग्निभानि तीक्ष्णां नाम विग्रहकारिणीं मूलादितित्रितयसंयोगात्कान्तिकोत्पादिमृदम् । श्रवणधनिष्ठावारुणीत्वाप्रणि, घोरां घोरफलाम॥जीवस्त्वष्टयोदशभिर्भानिं गतिं विवरञ्शुभो भवति, अन्यथा कष्टफलः । अथोद्यास्तमयचारैः शुक्रस्य यन्मानं नक्षत्रचतुष्टयमानं मण्डलं सुभिक्षजननं, रौद्राद्यमपि चतुष्टयं द्विजभयप्रदं, शक्राद्यं पञ्चक्षं रोगजननं, घनिष्ठाद्यं षण्णक्षत्रमतिवृष्टिकारिमितित्यादेश्च्यपुरुपनक्षत्रेषु सोमे विच रति, तत्पीडा बहव्यो भवन्ति ॥ यस्यां दिशि केतोः शिखा दीता भवति तं देशं नृपतिरमियुञ्ज्यात । उपरागः श्वेतस्तरक्तपीतकृष्णो ग्रहोर्द्वालहाणाक्षधि याविट्वाइपीडां करोति । अगस्त्यः स्फुरुणो रूक्षतयोपहतः शिखिशिखावत्स्तोभयाय । एवंविधा सप्तर्षयश्च । एवंविधं त्रैलोक्यमपि पीडयन्ते ऐशान्यां दिशि कृत्तिकाभिः सहोदेति कुमारस्तिस्मिन्नेवविधे बालपीडा ॥ जीवशसोराः पौराः । कुजशुक्रौ यायिग्रहौ । चन्द्रार्कौ मध्यमौ । तत्राकेण सह ग्रहा णामस्तमयो भवति । चन्द्रेण सह समागमः परस्परं युद्धम् । उङ्ङ्मागंगतः शुभ्रो विजयी भवति । यायिमहे विजयिनि स्वबले च राजा परान भियुञ्जीत, अन्यथा पौरेषु बलवत्सु यायिनां नाशः स्यात् । अगस्त्यवदुपहते नक्षत्रे तद्देशडूयत्यतजातपुरुषपीडा । वा यस्यां दिशि भृचलो याति तां दिशं राजा यायात् । संनिर्चिते दीर्घे राजमरणं स्यात् । यां दिशमुल्का याति तां दिशं नृपो यायात । दिवोल्का चन्द्रार्कविनिर्गता उल्काति न्यतिस्थुला सस्फुलिङ्गा ततोर्ध्वगा राजमृत्यवे स्यात् । बहुवर्णं परिवेषे प्रजापीडा स्यात्, गतः खण्डः परिवेषः स्यात्, तां दिशं नृपतिर्यायात । अतिभीमनिर्घातो राजमृत्यवे । यां च दिशं याति तां दिशं राजा यायात । गन्धर्वनगरं शक्रायोधोद्भूतं महाभयाय । गत्राविन्द्रधनुः श्वेतं व्यभ्रे च महाभयाय । प्रतिसूर्य उदग्दक्षिणेनाकादातकृत् । उभयस्थितो महावधाय उपरि गजयूत्थवे ॥ तथाचप्रस्ताननवि
१ 'स्फुरणो' इति क० ।
नाशाय । उभयथा महाभयाय सर्वतः त्रिभुवनपीडावो भवति । या दिग्दहेन दीप्ता स्यात्तां दिशं गजा यायात् । अति- दीप्ते छायाव्यङ्गे राजमरणं विन्द्यात् ॥ अथ वा ध्रुवदारुणातिप्रचरसाधारणेषु यथा स्वकर्म ध्रुवादिकर्म क्रियमाणं सिद्धिमुपैति ॥ व्यतीपातादिविद्धेषूत्पास्तमितनक्षत्रेषु न किञ्चिदपि । तथा चार्कनलराहुधूमितज्वलितदग्धविद्धेषु नक्षत्रेषु तथा च त्रिधोत्पाताभिहतेषु यन्न यस्मिन्नक्षत्रे पुरुषस्य जन्म तन्नक्षत्रं तस्मान्नक्षत्राच्च दशमं तत एकोनविंशं जन्मजन्मनक्षत्रादिति विन्द्यात् । (सर्वेस्माज्जन्मनक्षत्राद्द्वितीयं संपत्करम् । तृतीयं विपत्करं । चतुर्थं क्षेम्यम् । पञ्चमं प्रत्यरि । षष्ठं साधकम् । सप्तमं नैधनम् । अष्टमं मैत्रम् । नवमं परमं मैत्रं चेति)॥ तत्र सम्पत्करं क्षेमसाधकं मैत्रातिमित्रेषु सर्वाणि कर्माणि कुर्यात् । दशमेऽहं च ॥ यथा कर्मसु नक्षत्रे तिथिं रिक्तां विना क्रूरमक्षांसौम्ये दिनकृते वत्स सिद्धमायात्यसंशयम् ॥ इति श्रीविष्णुध० मा० व० सं० द्वि० खण्डे रामं प्रति पुष्करोपाख्याने ज्योतिःशास्त्रे शास्त्रज्ञानावणनो नाम षट्पञ्च्युत्तरशततमोऽध्यायः ॥ ॥ १६६ ॥ पुष्कर उवाच ॥ अथ ब्रह्माणं भगवंतं भृगुर्विद्यापथामास भगवञ्ज्ञानातुमुच्छकमिच्छामि । तमुवाच भगवान् । वत्स द्वादशराशयो भचक्रम् । त्रिंशाद्भागाश्च राशेः । षष्टिः लिप्तश्च भागः । षष्ठिर्विलिप्ताश्च लिप्ता षष्टिः परा विलिप्ता । षष्ठिश्च नाडिका अहोरात्रम् । षष्टि र्विनाडिका । नाडिका तत्र यः काले प्राणः सा क्षेत्रलिप्ता । तस्माद्यावता कालेन प्राणो भवति । दर्शगुर्वक्षरक्षणस्तावता कालेन भचक्रस्यैका कलाऽयुदेति । सकलं भचक्रं नाडिकाषष्ट्येति । तत्रादावेव राशिर्जो रक्तवर्णः कालस्य मूर्धा (पूर्वावन्चो) दिवारात्रौ ग्राम्यः प्राग्द्वारः चतुष्पात रात्रौ दक्षिणास्यां दिशि बली चरः पृष्ठोदयः क्रूरो विषमः पुमाञ् शनेश्वरस्य नीचः । विंशतितस्तथागतस्यैवातिनीचः । आदित्यस्योच्चः, तस्यैव दशमे भागेऽत्युच्चः अङ्गारकक्षेत्रम् । तस्यैव त्रिकोणमिति ॥ वृषः श्वेतवर्णो मुखं कालस्यारण्यो दिवारात्रो ग्राम्यो दक्षिणद्वारः चतुष्पाद्रात्रौ दक्षिणस्यां दिशि बली स्थिरः पृष्ठोदयः समः सौम्यः स्त्रीराशिः शुक्रक्षेत्रं चन्द्रमसंस्त्रिकोणे तस्यैव च तृतीये भागे चात्युच्चमिति ॥ मिथुनः पुरुषो गदाधारी वीणाकरा नारी च हरितवर्णः कालस्य बाहू ग्राम्यः पश्चिमद्वारो द्विपात् पूर्वस्यां दिशि दिवा बली द्विखभावः शीर्षोदयः क्रूरो विषमः पुरुषराशिः बुधक्षेत्रमिति ॥ बली चरः पृष्ठोदयः कीटः सौम्यः समः स्त्रीराशिः चन्द्रक्षेत्रं भौमनीयः तस्याष्टविंशतितमे भागेऽतिनीचो जीवस्योस्तस्य पञ्चमे भागेऽत्युच्च इति ॥ सिंहः सिंहाकारः पाण्डुवर्णः कालस्योदरमारण्यः प्राग्द्वारः चतुष्पात दक्षिणास्यां दिशि रात्रौ बली स्थिरः शीर्षोदयः
१ कोष्ठान्तर्गतः पाठः क्षेपुस्तके नास्ति । कोष्ठानान्तरपाठे यत्र यत्र “क्लीबत्वं तत्र सर्वत्र क्षपुस्तके क्लीबम् । यथा-द्वितीया संपत्करा” इत्यादि तदपि बुद्ध् ।
क्रूरो विषमः पुमान् आदित्यक्षेत्रं तत्रिकोणमिति ॥ कन्याराशिः कुमारी नौस्था दीपिकाहस्ता विचित्रवर्णा कालस्य कटिः ग्राम्यो दक्षिणद्वारः पूर्वस्यां दिशि बली स्थिरः शीर्षोदयः समः सौम्यः स्त्रीराशिः शुक्रस्य नीचः सप्तविंशतितमे भागे तस्यैवातिनीचो बुधस्योच्चस्तस्य पञ्चदशे भागेऽत्युच्चो बुधक्षेत्रं तत्रिकोणमिति ॥ तुला वणिक् पुरुषः तुलाधरापणवीथीगतः कृष्णवर्णः कालस्य¹ बस्तिस्थितो ग्राम्यः पश्चिमद्वारो द्विपा पूर्वस्यां दिशि बली चरः शीर्षोदयः क्रूरो विषमः पुरुषराशिः शुक्रक्षेत्रम् आदित्यनीचस्तस्यैव दशमे भागेऽतिनीचः शनैश्चरस्योच्चश्चोर्ध्वः तस्यैव विंशतितमे भागऽत्युच्चः तस्यैवातिनीचो भौमक्षेत्रमिति ॥ धन्वीनाम धनुर्धरः पुरुषो ह्यपश्विमार्धः पिङ्गलः कालस्योरू ग्राम्यः प्राग्द्वारः तस्य प्रागर्धो द्विपात्, द्वितीयमर्धं चतुष्पात तस्य प्रथममर्धं पूर्वस्यां दिशि, दिवाबली पश्चिमान्तमर्धं रात्रौ दक्षिणस्यां दिशि बलवान्, द्विस्वभावः पृष्ठोदयः क्रूरः पुमानन्वपो जीवक्षेत्रं तत्रिकोणमिति ॥ मकरो नाम मृगः पूर्वार्धो मकरः, पश्चार्धो मृगः, प्रागर्धेनारण्यो द्वितीयार्धेनाम्बुचरः ( कुबेरैः ) कालस्य जानुनी पूर्वार्धोध्वंचतुष्पात, पश्चार्धेन कीटो, दक्षिणद्वारः, ग्राम्येन रात्रौ दक्षिणस्यां दिशि बली पश्चिमांचन, सन्ध्यायां पश्चिमायां दिशि चरः, नीचं बृहस्पतेः तस्यैव पश्चिमे भागेऽतिनीचं, भौमस्योच्चस्तस्यै वाष्टाविंशतितमे भागेऽत्युच्चः, सौरक्षेत्रमिति ॥ कुम्भो नाम पुरुषः स्कन्धेन रिक्तकुम्भधरः पिङ्गलः कालस्य जंघे द्विपाद्राम्यः पश्चिमद्वारः पूर्वेण च दिवा बली शीर्षोदयः स्थिरः क्रूरः पुमान्विषमः शनैश्चरक्षेत्रं तत्रिकोणमिति ॥ मीनो नाम द्वौ मत्स्यावन्योन्यपुच्छाभिमुखौ मत्स्यवर्णो कालपादौ कीट उदीचः पश्चिमस्यां दिशि सन्ध्यायां बली पृष्ठपुच्छोदयो द्विस्वभावः सौम्यः समः स्त्रीराशिः बुधस्य नीचं तस्यैव बुधस्य पञ्चदशभागेऽतिनीचं शुक्रस्योचं तस्यैव सप्तविंशतितमे भागऽत्युचं जीवक्षेत्रमिति ॥ सर्वस्यैव राशेरर्धं होरा तत्र विषमराशिषु प्रथमा प्रथमा सौरी द्वितीया चान्द्री समराशिषु चान्द्री द्वितीया सौरी सर्वराशिषु द्रेष्काणत्रयम् । ते प्रथमपञ्चमनवमराशीनाथाः । प्राग्द्वाराणां राशीनां मेषाद्या नवांशकाः दक्षिणद्वाराणां मकराद्याः पश्चिमद्वाराणां तुलाद्याः उत्तरद्वाराणां कुलीराद्याः “सर्वादियौं नवांशको”वगोत्तमः कर्कटवृश्चिकमीनानां चर मांशा गण्डान्ताः॥“राशौ राशौ द्वाभ्यां द्वाभ्यां द्वादशद्वादशभागाः” । त्रिशांशकाः पञ्च भौमस्य, ततः पञ्च सौरस्य, ततोऽष्टौ जीवस्य, सप्त बुधस्य द्वौ भृगोर्विषमराशौ, समराशौ तु अष्टौ शुक्रस्य ततः सप्त बुधस्य ततोऽष्टौ जीवस्य पञ्च सौरस्य पञ्च भौमस्येति॥ एवं षट्पदार्थों लग्नः स स्वस्वा
¹ अत्र पुस्तकेऽपि त्रुटिरस्ति । २ बन्धान्तर्गतः पाठः खुपुस्तके नाति ।
| वि० चं० ॥२३॥ | द्वि० सं० अ० १५७ ॥२३॥ |
|---|
मिना जीवेन बुधेन शुक्रेण वा युक्तो दृष्टो बलवान्भवति । शेषैर्युक्तो दृष्टो हीनबलः स्यात् । एवं च राशिं सप्तमस्थो ग्रहः सर्वदृष्ट्या पश्यति चतुर्थाष्टमयोश्च स्थिताः पादा नेया दृष्ट्या पञ्चमनवमयोश्चार्धदृष्ट्या । तृतीयदशमयोश्च पाददृष्ट्या एक, द्वि, अष्टद्वादशे स्थितो न पश्यतीति, तन्नूल्यं गृहमध्येधर्लम्नमुदयं विलग्नकेन्द्रं त्रिकोणम् । शरीरमिति लम्रस्याख्या, धान्यकुटुम्बं च द्वितीयस्य, उपचयं घोषभ्रातृद्विशिक्ष्याख्यं तृतीयस्य, मित्रगृहं हिबुकं सुखवाहनकेन्द्रालाकास्याश्चतुर्थस्य, पुत्रत्रिकोणबुद्धिसंज्ञाः पञ्चमस्य, उपचयारिसंज्ञं षष्ठस्य, जायाजामित्रसप्तमार्द्धजवनशूनसंज्ञाः सप्तमस्य, छिद्रधुतेसंज्ञं चाष्टमस्य, धर्मत्रिकोणत्रित्रिकोणच्छिद्रसंज्ञा नवमस्य, कर्मकेन्द्रकाशमेशूपगोपचास्यापनया दशमस्य, उपचयायलाभशून्यख्या एकादशस्य, रिष्फ 'छून' सय्याख्या द्वादशस्येति ॥ सर्वैभ्यः केन्द्रसंज्ञेभ्यो द्वितीयः पणफरः सर्वस्मात्पणफरात द्वितीय आपोक्लिम इति ॥ आदित्यात्कान्तारांशेः द्वितीयो वेशि, द्वादशे वासि, उभये उभयचरी चन्द्रात् द्वितीयः सुनफा । द्वादशश्वानफा । उभयोरपि लम्रश्च स्वामिगुरुधुरागसंज्ञासमेतो अत्र सहस्ररश्मिरादित्यः नात्युच्चो न्योश्वापरिमण्डलः पैत्तिकोऽस्थिसारो रक्तश्यामः पापः पुरुषः क्षत्रियः कालात्मा राजा प्राग्द्वारो दक्षिणस्यां वा दिशि उदयने कृष्णपक्षे च बली ॥ चन्द्रमाः सङ्गलक्ष्मः तत्र वर्तुलाङ्गः दर्शनीयः स्वक्षः कफवातात्मा रुधिरसारः गौरः क्षीणः पापः पूर्णः सौम्यः स्त्रीग्रहः वैश्यः कालश्वासः राजा पूर्वोत्तरामिसुखः उत्तरस्यां दिशि रात्राबुदगयने शुक्लपक्षे च बलवानिति ॥ भौमो नवरश्मिः ह्रस्वः पिङ्गाक्षः कपिलः पैत्तिको मज्जासारो रक्तगौरः पापः पुरुषग्रहः क्षत्रियः कालस्य सत्वं सेनानीः दक्षिणाभिमुखो वक्रे दक्षिणस्यां दिशि कृष्णपक्षे रात्रौ च बलवानिति ॥ बुधोऽष्टरश्मिश्श्यामरूपः प्रमाणप्रकृतिः त्वक्सारः दूर्वाश्यामः सौम्यो न्यग्रोधसप्तमप्रकृतिर्भवति नपुंसकः शूद्रः कालस्य वाक् युवराजः उङ्मुखः उत्तरस्यां दिशि सर्वकालं वक्रे शुक्लपक्षे च बलवानिति ॥ सौरः सप्तरश्मिः कृष्णो दीर्घः वातप्रकृतिः पापा नपुंसकः कालस्य दुःखः प्रेष्यः पार्थिवाभिमुखः तस्यामेव दिशि रात्रौ वक्रे शुक्लपक्षे च बलवानिति॥ सर्वे च ग्रहाः स्वसंवत्सरे स्वायने स्वर्तौ स्वमासे स्वपक्षे स्वदिने स्वहोरायां स्ववर्गे बलवन्तो भवन्ति वर्गोत्तमस्थः स्वोच्चस्थः स्वत्रिकोणस्थश्च प्रहयुद्धे च जयो रश्मिवृद्धेश्च बलवान्भवति ॥ आदित्यस्य चन्द्रभौमार्कजीवा मित्राणि बुधस्समः शुक्रसौरौवरी ॥ चन्द्रस्य सूर्यबुधौ मित्रे शेषाः समाः ॥ भौमस्य जीवेन्दूष्णकराः सुहृदः, ज्ञोऽरिः, सितार्कजौ समौ ॥ बुधस्य सूर्यसिता मित्रे, हिमगुः शत्रुः, भौमजीवशनै
१ 'क्रान्तदाहाः' इति० क० पु० ।
श्चाः समाः ॥ जीवस्य सूर्येन्दुभौमा मित्राणि, रविसुतो मध्यः, सौम्यसितावरी ॥ शुक्रस्य बुधसौरौ मित्रे भौमजीवौ मध्यस्थौ सूर्येन्दू अरी ॥ सौरस्य बुधशुक्रौ मित्रे जीवो मध्यस्थः आदित्येन्दुकुजा रिपवः ॥ तत्काले च ग्रहादूढो द्वितीयतृतीयतमेति मध्यस्थारितामरिभिन्नताम् ॥ तन गर्भः प्रथममासि कललं भवति द्वितीय घनीभवति ॥ तृतीयोऽवयवाश्चास्य भवन्ति चतुर्थेऽस्थीनि पञ्चमे त्वक् षष्ठे बलं सप्तमे लोमानि अष्टमे शुद्ध नवमे उद्वेगः दशमे प्रसवः तत्रात्य मासक्रमेण शुक्राङ्गारकबृहस्पतिदिवाकरचन्द्रसौरबुधा वा ॥ लग्नाधिपतिश्चन्द्राकौः पतयः आधानकाले यः कलुषो भवति स स्वमासे गर्भपीडां करोति योऽन्यग्रहविजितः केतूल्काभिहतः स स्वमासे गर्भपाताय भवति जन्मलग्न पञ्चमषष्ठसप्तमाष्टमनवमेषु चन्द्रमाः पापयुतः सौम्यैग्द्यगवर्जितो वा तस्य मरणाय भवति लग्नाच्चतुर्थसप्तमाष्टमेषु पापद्वयम् ध्यान्तश्च षष्ठाष्टमयोः पापच्छेदोऽपि पष्ठाष्टमीरेन्त्यतमे बुधजीवशुक्राणामन्यतमो वक्रिणा पापेन दृष्टः सौम्यग्रहेण चादृष्टो मरणाय लग्नप श्चान्ते पापयुतश्च यत्र तत्र राशौ नवमांशः पापसन्ध्यायां चन्द्रद्वादशे च चत्वार्योपि च केन्द्राणि यमार्कचन्द्रभौमसौरोर्वतरे भचक्रे पूर्वार्ध पापाः पश्चार्ध सौम्याः कर्कटवृश्चिकान्यतमोदये च केन्द्राष्टमेनेति । पापैः क्षीणचन्द्रोदये च लग्नान्यचमार्थामस्थैः चन्द्रशनैश्चरार्कभौमैः जीवे च बलेहीने चन्द्रग्रहेण कालः सकूरे चन्द्रे लग्ने भौमेऽष्टमे मात्रा सह म्रियते एवंविधेके शत्रेण । एवमारिष्टान्यष्टवर्षान्तरे विघ्तात । अथ तात्कालिकस्य ग्रहस्य राशिभगलिप्ता अष्टविंशतशताष्टांगुणा कार्या भगणानां द्वादशावशेषे वर्षामासदिनघटिका भवन्ति । लग्नाद्यद्वादशस्थः सर्वमपहरति एकादशो अर्द्धम् दशमस्थस्त्र्यंशं नवमस्थश्च चतुर्थमष्टमस्थः पञ्चमम् । सप्तमस्थः षष्ठमेवं पापः सौम्यस्तदर्द्धं बहुवेकस्मींस्तु बल वानेवैकोद्धारक्रवजं शत्रक्षेत्रस्थत्र्यंशं हरति शुक्रसौरर्जितावस्तमितश्च सर्वेशवीरोच्यम् । वर्गोत्तमस्वगृहिंशेष्कोणशंगतश्च द्विगुणं हनिबृद्धी वा एकामेव महतीं प्रयच्छति एवं निर्णीतमायुर्यावद्धेन ग्रहेण दत्तं तावत्कालं तद्दशा ज्ञेया लग्नादृशा च ग्रहवद्बलंवंश्च लग्ने भक्ताशितुल्यानि वर्षाण्यन्यानि प्रयच्छति । दशा च लग्नाकेचन्द्राणां बलवतः प्रथमा भवति ततस्तत्कण्टकस्थानां बलवत्क्रमेण ततः पणफरगतानां तत आपो क्लिमगतानामिति । तत्रोच्चत्रिकोणस्वक्षेत्रवर्गोतमगतस्य शुभा विपरीतन्य चाशुभा लग्नदशा लग्नग्रहवेशननागतस्यैकराशियोगेनोवमाननिन्दम्यस्व गुणानसापतितनवमपञ्चमपादतृतीयन चतुर्थश्चतुर्थेन सप्तमः सप्तमेन बहुश्वेकोऽवयवो अथान्यदशायामन्महप्रवेशेन म्रियते तत्राक्रेण म्निना, चन्द्रमसा सलिलेन, भौमेन शस्त्रेण, बुधेन ज्वरेण, जीदेनामयेन, शुक्रेण तृष्णया, सौरेण क्षुधा, अष्टमं ग्रहरहितं यो ग्रहो बलवान्पश्यति
वि० ध०
॥२१४॥
द्वि०सू०
अ० १६७
तद्धातुकानयेन म्रियते अष्टमे ग्रहयोगेऽप्यहते ज्ञातिभिः द्वेष्काणाधिपतिकथितमृत्युना म्रियते । जन्मकाले यत्र स्थानोडर्को व्यवस्थितस्तस्मात्स्वाना-
तृतीयषष्ठदशमैकादशेषु भौमस्यात्मनात्प्रथमद्वितीयचतुर्थसप्तमाष्टमनवमदशमैकादशेषु बुधात्तृतीयापञ्चमसप्तमनवमदशद्वादशदशेषु जीवात्पञ्चमसप्तमा-
नवमैकादशेषु शुक्रात्षट्सप्तसप्तैकादशेषु शनैश्चरात्प्रथमद्वितीयचतुर्थसप्तमाष्टमनवमदशमैकादशेषु लग्नात्तृतीयचतुर्थषष्ठदशमैकादशद्वादशेषु चन्द्रार्कं
स्थानात्तृतीयसप्तमाष्टमदशमैकादशेषु स्वात्म्यप्रथमतृतीयपञ्चसप्तमदशमैकादशेषु शुक्रातृतीयाचतुर्थपञ्चसप्तम नवमैकादशेषु भौमार्कात्तृतीयपञ्चमषष्ट-
दशमैकादशेषु स्वात्म्यप्रथमाद्वितीयचतुर्थसप्तमाष्टमदशमैकादशेषु बुधात्तृतीयपञ्चमषष्ठदशमैकादशद्वादशेषु शुक्रात्षष्ठाष्टमैकादशद्वादशेषु सौरात्प्रथ-
मचतुर्थसप्तमाष्टमदशमैकादशेषु लग्नात्प्रथमतृतीयपष्ठदशमैकादशेषु बुधात्कोत्पञ्चमषष्ठाष्टमनवमैकादशेषु चन्द्राद्वितीयचतुर्थपञ्चाष्टमदशमैकादशेषु
भौमात्प्रथमद्वितीयचतुर्थपञ्चमाष्टमनवमैकादशेषु स्वात्म्यप्रथमतृतीयपञ्चमषष्ठनवमैकादशद्वादशेषु शुभः । जीवात्पञ्चाष्टमैकादशद्वादशेषु शुभः ।
शुक्रात्प्रथमतृतीयचतुर्थपञ्चमाष्टमनवमैकादशेषु सौरात्प्रथमद्वितीयचतुर्थसप्तमाष्टमनवमदशमैकादशेषु लग्नात्प्रथमद्वितीयचतुर्थषष्ठाष्टमदशमैका-
दशेषु जीवोऽर्कात्प्रथमद्वितीयचतुर्थसप्तमाष्टमदशमैकादशेषु घर्माद्दितीयपञ्चसप्तमस्तमनवमैकादशेषु भौमात्प्रथमद्वित्रिचतुःसप्ताष्टदशमैकादशेषु बुधात-
प्रथमाद्विचतुःपञ्चषट्सप्तदशैकादशेषु जीवात प्रथमाद्वित्रिचतुःसप्ताष्टदशमैकादशेषु ॥ शुक्राद्विपञ्चपण्णवदेशैकादशेषु सौरात्त्रिषञ्चसप्तदशकादशेषु लग्नात्प्रम-
थमाद्विचतुःपञ्चषट्सप्तदशैकादशेषु जीवात्पञ्चाष्टनवमैकादशेषु स्वात्म्यमद्विचतुःपञ्चाष्टनवमैकादशेषु सौरात्त्रिचतुःपञ्चाष्टनवमैकादशेषु लग्नात्प्रथम-
द्वित्रिचतुःपञ्चाष्टनवमैकादशेषु सौरोऽर्कात्प्रथमद्विचतुःसप्ताष्टदशमैकादशेषु चन्द्राद्विपञ्चैकादशेषु भौमात्रिष्वपञ्चषट्ङ्ककादशेषु बुधातपञ्चनवदशैकादश
द्वादशेषु जीवात्पञ्चषष्टैकादशद्वादशेषु शुक्रात्पंचैकादशद्वादशेषु स्वात्रिष्वपञ्चैकादशेषु लग्नात्प्रथमद्विचतुर्दशमेषु येषु नोक्तः शुभास्तेषु सर्व एव
शुभो भवति । शुभाशुभवैशेष्यञ्च चावशात्फलं प्रयच्छति दशाफलमव्यभिचारि अष्टवर्गात्फलमशुभं शान्य्यादिभिरुपहृतं भवति चात्र-अनफादु
रुफास्थाने न शस्ते ग्रहवर्जिते ॥ सर्वेषां चैव केन्द्राणां शून्यता न प्रशस्यते ॥ कर्कणीच झषाणां च चरमोऽशस्तथैव च ॥ शत्रुक्षेत्रस्तथा
नीचो ग्रहाणां गर्हिता स्थितिः ॥ सूर्यमण्डलगाश्चैव न प्रशस्तास्तथा ग्रहाः ॥ जन्मपो लग्नपेश्वाथ श्रेष्ठौ बलसमन्वितौ ॥ तावेवौ विबलौ यस्य
तमधन्यं विनिर्दिशेत् ॥ एकोऽपि परमोच्चस्थो मित्रदृष्टस्तथा ग्रहः ॥ जनयत्यवनीशं वा शत्रुक्षेत्रक्षयङ्करम् ॥ अतीव स्वस्थो विज्ञेयः स्वोच्चे
लग्नगते ग्रहः ॥ भावमानं न प्रशस्तं तथा जन्मनि कीर्तितम् ॥ चन्द्रः शस्तो हि विज्ञेयो दृष्टे क्षत्राधिपेन तु ॥ तं मित्रेण तथा ब्रूवन् ॥२१४॥
प्रशस्तं तदगतातिभिः ॥ चत्वारोऽपि यदा केन्द्रा युक्ताः स्वोच्चगतैर्ग्रहैः ॥ तदा जातो विनिर्दिष्टः समस्तवसुधाधिपः ॥ त्रयो वा तस्य स्युर्वशे
पृथ्वी ससागरा ॥ द्वौ तु केन्द्रगतौ यस्य ग्रहो कर्किकिणि चन्द्रमाः ॥ सोऽपि राजा विनिर्दिष्ट एकेनापि तथा द्विज ॥ सर्वेस्तु परमोच्चस्थै
स्त्रैलोक्याधिपतिर्भवेत् ॥ मित्रक्षेत्रे तथात्मीये तथा वर्गोत्तमेष्वपि ॥ स्वोच्चे वा स्वत्रिकोणे वा ग्रहाणां शस्यते स्थितिः ॥
ग्रहाणां चतुरादीनां तथा योगो विगर्हितः ॥ राजवंशे तथा भूपारुह्यार्थः स्वन्वयश्चोपयेः ॥ अन्यवंशभवा भूपाः पश्चाच्चैवेपि च द्विज ॥ त्रिकोणेच
गतैरेव विशेषेण द्विजोत्तम ॥ भावे विन्कारकाः सौम्याः पापा भावविनाशनाः ॥ तृतीये च तथा षष्ठे दशमेकादशेऽपि च ॥ स्थितिः पापग्रहाणां
च प्रशस्ता परिकीर्तिता ॥ षष्ठाः सर्वग्रहाः शस्ता न शस्ता द्वादशाष्टमाः ॥ चन्द्रे लग्ने गते मूर्खो विना वृषकुलीरके ॥ सूर्ये लग्नगते ज्ञेयास्तथा
जयबलान्वताः ॥ बलवद्ग्रहदृष्टैश्च विज्ञेया ईश(रूप)चेष्टितैः ॥ चन्द्रद्रुमा (पुष्पा) विशीलाश्च विज्ञातव्यास्तथैव चा॥ पापाः पापबला ज्ञेयाः सौम्याः
सौम्यबलास्तथा ॥ चन्द्रादुपचयैःस्थैर्ग्रहा ज्ञेया धनान्विताः ॥ एतावदुक्तं सारं ते होरासंग्रहमुत्तमम् ॥ इति श्रीवि० मा० व० सं० द्वि० स्व०
रामं प्रति पुष्करोपाख्याने जातकध्यायो नाम सप्तषष्ट्युत्तरशततमोऽध्यायः ॥ १६७ ॥ पुष्कर उवाच ॥ अथ भगवन्तं भुवनोत्पत्तिस्थितिसंहा
रकारकं चराचरगुरुममितयशसमभिगम्य भृगुर्विद्यापाययामास । भगवञ्ज्योतिःशास्त्रं विना गणितेन दुःखावहामतो गणितविधिविमाचक्ष्व । तमुवाच
श्रीभगवान्छृणु वत्स गणितज्ञानम् । अनादिनिधनः कालः प्रजापतिर्विष्णुस्तस्य ग्रहागत्यनुसारेण ज्ञानं गणितम् । तत्रार्कभगणभोगः सौरहोरात्रा
स्तिथिश्च चान्द्रः अर्कोदयात्तदुद्यात्सावनः । चन्द्रनक्षत्रभोगो नक्षत्रम् । सावनोऽहोरात्रा नराणाम् । तेषामाकं दिनं न्यर्को रात्रिः चन्द्रमसः पितृ
णामहोरात्रम् । तेषां कृष्णाष्टम्यामर्कोदयः । अमावास्यायां मध्याह्नः । शुक्लाष्टम्यामर्कास्तमयः । पौर्णमास्यामर्धरात्रम् । अर्कभगणभोगो दिव्योऽ
होरात्रः । तेषामर्कस्य मेषप्रवेशे सूर्योदयः, कर्कटप्रवेशे मध्याह्नः । तुलाप्रवेशेऽस्तमयः मकरप्रवेशेऽर्धरात्रः ॥ मेषादित्ये मध्यमे जीवे जीवमानेनाश्वयु
जाद्यो वत्सरा भवन्ति । लङ्कायामर्कोदये चैत्रशुक्लप्रतिपदारम्भेऽर्कादिनादावविन्द्यादौ किस्तुघ्नादौ रात्रावथाकोदये काले प्रवृत्तिः। होरादिप्रवृत्तिश्च ।
लङ्कातश्च यावन्मेरोर्याम्योत्तरदेशान्तरे रेखा तत्पूर्वापरेण बलकलाकोत्थैद्यकालप्रवृत्तिः लङ्कायोदयकालं तन्मण्डलम् । स्वदेशविषुवाद्कोदयविषु
वन्मण्डलत्वं प्रतिदिनं चरदलवशेनार्कोदयः । क्षितिजं मण्डलम् । तत्रार्कभगणभोगेन सौराब्दः । येषामब्दानां वै त्रेयेण गुणमर्कै वेदः कलियुगम्,
द्विगुणं द्वापरम्,त्रिगुणं त्रेता, चतुर्गुणं कृतम्,अन्यच्चतुष्टयं यमाभिभोगाश्चतुर्युगम् । एकसप्ततिश्चतुर्युगानि मन्वन्तरम् । चतुर्दश मन्वन्तराणि कल्पः ।
५०
मन्वन्तराणां चाद्यान्तरालेषु कृतयुगप्रमाणं सन्धिः॥ एवं चतुर्युगः स कल्पः । कल्पेन सप्त शून्यानि वसाग्निवेदाश्वारुणभगणपरिवर्तना भवन्ति । पञ्च-
शून्यानि गुणाग्निपञ्चसप्तमार्थेचन्द्राश्चन्द्रमसः। भौमस्य द्वितीयपञ्चाष्टनवाष्टं तनयमयमयमलाः। बुधस्याष्टनावनाष्टनवनवरामाग्निनवसप्तचन्द्राः। जीवस्य पञ्च-
पञ्चद्विपट्पञ्चद्विपट्षडङ्किकृतसप्तगुणाः । शुक्रस्य यमनवाग्निनवाष्टियमियमखगिरयः । सौरस्याष्टनवयमगिरिसप्तपञ्चमनवः । आदित्यमन्दगणनाश्राबुद्ध-
यः । चन्द्रमसोप्याथर्वस्वर्द्विष्टषट्खेदाः । कुजमन्दयमनरसाः बुधमन्दस्य द्वित्रिगुणाः। जीवस्य पञ्चैपञ्चद्विषट्द्विकृतसप्तगुणाः। शुक्रस्य यमन-
वाश्विनवाष्टियमियमखगिरयः। सौरस्याष्टनवयमा गिरिसप्तपञ्चमनवः । आदित्यमन्दगणनाश्राबुद्धयः । चन्द्रमसोप्याथर्वस्वर्द्विष्टषट्खेदाः । कुजमन्द-
यमनरधाः । बुधमन्दस्य द्वित्रिगुणाः । जीवजीवमन्दस्य बाणशरवसवः । १ शुक्र मन्दस्य गुणशरवसवः । सौरमन्दस्य शशिवेदाः ।
चन्द्रपातस्य वसुसप्तशिरोङ्गाग्निश्रनयममलाः । भौमपातस्य महीश्रम्व्रनयवमलाः । बुधपातस्य चन्द्रार्थयममलाः । जीवपातस्य गुणर-
साः । सौरपातस्य त्रिनववसवः । अष्टशून्यो विव्यमरसखविष्वग्निविधुनिशाकराः । सनवग्रहाणां प्राग्यापमानां कल्पाष्टककल्पाधनो
यस्य भगणभागोपक्रियते तस्यैव कक्षायोजनानि लभ्यन्ते । यस्य बह्वो भगणपरिवर्तस्तस्योपरि तस्य कक्षा । यस्याल्पाः कक्षा
वर्गदशभागमूलकक्षा कर्णस्तद्भेनोपरिमवो ग्रहावस्थानं कर्णवर्गेण्य दशगुणितस्य मूलकक्षा । एवं सर्ववृत्तानां परिधिव्यासानय-
नम् । यत्र च सर्वग्रहाणामेकत्वमेव दृश्यते सा खखेन्दुमध्यकक्षा । तस्या योजनतलिते मध्यमखरसेन्दुज्ञेयस्येव कक्षा विभज्यन्ते
तस्यैव लिप्तयोजनानि लभ्यन्ते । कल्पाद्ययोजनसमा वै कक्षाः । यदनन्तरं वितिमिरं रविः करोति पक्षपक्षशतवेदाङ्कमण्डलप्रमाणम् ।
वेदवेदाश्वश्चन्द्रमसः । पञ्चदश भौमस्य । षष्ठिर्बुधस्य । खार्कौ जीवस्य । खखयमाः शुक्रस्य । त्रिंशत्सौरस्य । द्वादश दृश्याह्रश्यांशआश्चन्द्रमसः ।
सप्त दश भौमस्य । त्रयोदश बुधस्य । एकादश जीवस्य । नव च शुक्रस्य । पञ्चदश सौरस्य । त्रिभागोनाश्रतुर्दशभागाः सूर्यस्य । एकार्थिनशद्भा-
गाः षट्त्रिंशल्लिप्ताश्चन्द्रमसः । सप्ततिर्भोमस्य । वसुरामा बुधस्य । गुणरामा जीवस्य । भवाः शुक्रस्य । त्रिंशच्छनैश्चरस्य । एवं परिधयो
भौमस्य । शीघ्रोपरिगुणवेगश्च संभागालिमाः चत्वारिंशद्भूध्र्वस्य । भागा यमाग्निश्चन्द्रः अष्टगुणा जीवस्य । वस्वर्थपक्षाः शुक्रस्य ।
पञ्चविंशतिः सौरस्य । परिशेषेनोर्द्धमध्य ग्रहागतियया । खखसेन्दुमलांनां षण्णवतिभागः प्रथमा ज्या । तदेवं प्रथम ज्यान्तरा तस्य प्रथमजीव
१ 'यमबाणशरवसवः' इति पाठः ।
तथा भागमुपहत्यातं प्रथमज्यान्तर्रात्संशोध्य द्वितीयं ज्यान्तरं द्वितीयप्रथमज्यान्तरयोगे द्वितीयप्रथमं ज्यान्तरयोगो जीवा । ततः प्रथमं
जीवातं सद्वितीयज्यान्तरात्संशोध्य तृतीयं ज्यान्तरम् । ततः द्वितीयजीवयोगस्तृतीया । ततः प्रथमजीवात्सम्शोध्य चतुर्थं ज्यान्त
रम् ॥ एवं तृतीयजीवायां दत्वा चतुर्थी ज्या । तस्याः प्रथमजीवाया भागमपहत्यातं चतुर्थाज्ज्यान्तरात्संशोध्य पञ्चमज्यान्तरम् । तत्तश्चतुर्थ
जीवायां दत्वा षष्ठी ज्या । ततः प्रथमजीवातं पञ्चमे ज्यान्तरं संशोध्य षष्ठं ज्यान्तरं पञ्चमजीवायां दत्वा सप्तमी ज्या । ततः प्रथमजीवातं सप्त
मज्यान्तर्रात्संशोध्योष्ट्याष्टमम् । तत्सप्तमजीवायां दत्वा नवमी ज्या । ततः प्रथमजीवान्तरेणातं दशमज्यान्तरात्संशोध्य नवमं ज्यान्तरम् । तं नवम
जीवायां दत्वा दशमी ज्या । ततः प्रथमज्यावाप्तम् । एकादशाज्ज्यान्तरात्संशोध्य द्वादशं ज्यान्तरम् । तदेकादशजीवायायां दत्वा द्वादशी ज्या-।
ततः प्रथमज्यावातं द्वादशज्यान्तरात्संशोध्य त्रयोदशं ज्यान्तरम् । तत्रयोदशजीवायां दत्वा चतुर्दशी ज्या । ततः प्रथमज्यावातं चतुर्दश
ज्यान्तरात्संशोध्य पञ्चदशज्यान्तरम् । ततश्चतुर्दशजीवायां दत्वा पञ्चदशी ज्या । ततः प्रथमज्यावातं पञ्चदशाज्ज्यान्तरात्संशोध्य
षोडशं ज्यान्तरम् । तत्पञ्चदशजीवायां संशोध्य षोडशी ज्या । ततः प्रथमज्यावातं षोडशज्यान्तरात्संशोध्य सप्तदशं ज्यान्तरम् ।
तत्षोडशजीवायां दत्वा सप्तदशी ज्या । ततः प्रथमज्यावातं सप्तदशज्यान्तर्रात्संशोध्याष्टादशमं ज्यान्तरम् ॥ तत्तप्तदश जीवायां
दत्वाष्टादशी ज्या । ततः प्रथमज्यावाप्तम् । अष्टादशज्यान्तरात्संशोध्य एकोनविंशं ज्यान्तरम् । तदष्टादशजीवायां दत्त्वैकोनविंशी
ज्या । ततः प्रथमज्यावाप्तमेकोनविंशज्यान्तरात्संशोध्य विंशतितमं ज्यान्तरम् । तदेकोनविंशजीवायां दत्वा विंशतितमी ज्या । ततः प्रथम
ज्यावातं विंशज्यान्तरात्संशोध्यैकविंशं ज्यान्तरम् । तद्विंशतित्तिजीवायां दत्वा एकविंशी ज्या । ततः प्रथमज्यावातं एकविंशज्यान्तरात्संशोध्य
द्वाविंशं ज्यान्तरम् । तदेकविंशजीवायां दत्वा द्वाविंशी ज्या । ततः प्रथमज्यावातं द्वाविंशज्ज्यान्तरात्संशोध्य त्रयोविंशं ज्यान्तरम् ॥ तद्द्वाविंश
जीवायां दत्वा त्रयोविंशी ज्या । ततः प्रथमं ज्यावातं त्रयोविंशज्यान्तरात्संशोध्य चतुर्विंशं ज्यान्तरम् । तत्रयोविंशजीवायां दत्वा चतुर्विंशी
ज्या । ततः प्रथमज्यावातं चतुर्विंशज्ज्यान्तरात्संशोध्य पञ्चविंशं ज्यान्तरम् । तच्चतुर्विंशजीवायां दत्वा पञ्चविंशी ज्या । खखरेन्दुसङ्ख्यायां
च व्यासारं तद्वांनुपदु-न्यासायाम् । ज्यान्तरव्यस्तानामनन्तरालयोगे चतुर्विंशतिः शरा भवन्ति । क्रमज्याकृतिर्जिवाभिस्तस्तक्रमज्याकृतिः शरे
यासां लिप्तानां जीवा क्रियते तत्केन्द्रस्तस्य च राशिद्वयं पदाख्या प्रथमपदस्थे तद्द्मं चतुर्थपदस्थे चक्रादूनम् । ज्याकेन्द्रलिप्ता राशिलिप्ताद्यधिभा
वि० घ०
॥२९६॥
द्वि० खं०
अ० ११८
गेन विभाज्या। लब्धाङ्कसमश्च स्थाप्याः। अवशेषं तदनन्तरं ज्यान्तरेण गुणयेत्। राशिलिताभागेन विभजेत्। लब्धं स्थापितजीवायां दत्त्वेष्टज्यासिद्धिः। कालक्षेपेभ्यो लिप्तीकृत्य परिकल्पितेभ्यो जीवा कार्या। लिप्ताभ्यो यावन्ति ज्यान्तराणि संशुद्धयन्ति तावन्ति संशोच्यावशिष्टभागलिप्ताष्टभागहृतमशुद्धज्यान्तरेण विभजेत्। लब्धहतासु आद्यष्टकभागलिप्तासु क्षिपेतां शरान्तरेवं शरचापः भागचतुर्विंशतित्यापरमापक्रमज्या मेषादिस्थो विषुवल्छेखास्थो ग्रहो भवतिकुलीरादिस्यश्वान्तेण। परमापक्रमान्तस्थो भवति। तुलादिस्यो विषुवेच्छेखास्थः मकरादिस्यो दक्षिणेन परमापक्रमहतां व्यासाधैन विभजेत्तालब्धं चन्द्रस्फुटविक्षेपः। तात्कालिकौंश्रिं स्फुटे युपाते योज्यं बुधशुकयोः स्वमन्दविक्षेपहतां स्फुटान्त्यकर्णेन विभजेत्, लब्धं तयोः स्फुटविक्षेपः। तात्कालिकस्फुटाङ्कस्फुटपातयोगज्यां भौमजीवसौराणां मध्यविक्षेपहतां स्फुटान्त्यकर्णेन विभजेत, लब्धं तेषां स्फुटविक्षेपः। उक्तन्नितचापस्फुटविक्षेपयोर्दिक्शेको योगः तज्जौवस्यक्रान्तिः, तस्या नियोगः शिष्यते सा दिक् तद्वेलस्थ्यश्व ग्रहो भवति। एवं ग्रहाणाञ्चतुरेण दक्षिणेन गतिर्ज्ञेया। मचकवशेनोदयास्तमयौ कुर्वन्तः पश्चिमेन यान्ति। पूर्वा व्रजन्तो भगणपरिवर्त्तनंकुर्वन्ति तत्र च सूर्याश्वपातैः सममेव लङ्कादक्षिणेतरेरेखायाः फाल्गुनान्ते सर्व एव कल्पादावकरोदये मीनमेषसन्धिग्ना भवन्ति। कल्पावसाने च मेषप्रदेशे वा भानोर्गगनमध्यवर्त्तिन्यादित्ये द्वादशाङ्गुलेन शंकुना समावनौ छाया ग्राह्या, तद्दृगं व्यासाधंवर्गहृते च्छायाशंकुवर्गेणयोगेन विभजेत, लब्धमक्षज्यावर्गः। तत्पदमक्षज्या तच्चापं स्वदेशांशः तं राशित्रयादपास्य स्वदेशावलम्बको भवति। तज्ज्यावलम्बकज्या त्रिज्या वर्गस्य स्वक्रान्तिवर्गोनस्य पदं स्वाहोरात्रार्धम्तत्य च स्वक्रान्तिवशेन दिक्। स्वक्रान्तिविषुवच्छायाहता शंकुहता क्षितिजा, सा त्रिज्ज्याहता स्वाहोत्रार्थावसभाजिता क्षये वृद्धिज्यौ। तद्धनुश्चरार्धं वा प्राणास्तद्वितकाभिः पञ्चदशघटिकाद्युता दिनाधम्। उना राज्यधंगा एवमुत्तरगोलस्या दक्षिणकारः स्वस्वभागपादशरः अवामधनुपामबोद्यः। शोधनं व्यस्तराश्युदयप्राणाः मेषवृषमिथुनानां क्रमेण कर्कटसिंहकन्यानामुत्क्रमेण। मेषवृषमिथुनजीवादिः प्राग्वच्चरप्राणाः कर्त्तव्याः। तेषाममवोधः शोधनं च तैनैकेन्द्रियाक्षप्राणाः तैः क्रमेण मेषवृषमिथुनाः प्राणोहीनाः उत्क्रमेण कुलीरसिंहकन्यानाम् । युक्तस्वदेशे चरा व्युदयमाणा भवन्ति त एवोत्क्रमेण तुलादीनां मीनादीनामपि अर्द्धिनमध्याह्नेच्छायाम्यूल्यान्निराग्रमूल्यान्परिलेखमलत्यसुखपुच्छ्ररुखा प्राच्यापरा आदित्यचन्द्रयोरन्यतमस्य देशान्तरकर्म विना ग्रहणं न कार्यम्। तथ्यागते काले यदि भवति तदा रेखामध्ये स्वदेशो ज्ञेयः॥ अथादौ रेखा पश्चाद्यत्राक् तत्कालान्तरं षष्टिहृतं पञ्चभिः सहस्रैर्विभजेत् । लब्धदेशान्तरयोजनानि ग्रहस्यार्धं रात्रान्मध्याह्नं यावत्पूर्वः
॥२९६॥
कालो मध्याह्नादपररात्रं यावदपरस्तत्रार्कस्य कालमविलोङ्घ्यन् छायाद्वयं गृह्णीयात् । तत्कर्णौ व्यत्यासेन शंकुभाभ्यामुपरान्ते रहितौ तद्नन्तरं विषुवच्छायाग्रहणामिष्टेऽह्रि इष्टदिनाक्षेषुवताक्रान्तमेकदिगभिमुखीयञ्च्छायाम्यो युक्ते स्वरापक्रमः तेन त्रिज्याहता परमापक्रमज्यया विभजेत् । लब्धचापमर्कः प्रथमे पदे द्वितीयाद्भावाच्छुद्धः । तृतीयेन युक्तः चतुर्थे चक्राच्छुद्धः । विषुवच्छाया तरुणा च हीयमाना च च्छाया प्रथमपदस्थेऽर्के भवति, ऊना वृद्धिमती द्वितीयस्थे, वृद्धिमत्याधिका तृतीयस्थे, हीयमानाधिका चतुर्थस्थे, एवमतीतदिवसाकरस्य तदर्कस्य च विवरं स्फुटसृष्टिः । आदित्योदयास्तमयाद्वा चन्द्रोदयं दृष्ट्वा नयद्दङ्गीतोऽर्केनेतेन कालेन चन्द्रमा भवति चन्द्रान्नक्षत्रज्ञानम्, चन्द्रार्काद्विवरात्तिथिज्ञानं तत्पादग्रहणं । स्फुटार्काद्विपरीतक्रमेण मध्यमार्कः । सौरजीवयोर्व्याहारान्संवत्सरः । चन्द्रवत्सर्वग्रहक्रिया, ग्रहेभ्यो वा कल्पगतकालज्ञानम्, एवं कालपरिच्छेदः । अश्विनीदीनां ध्रुवका राश्याद्याः, खमष्टौ खेखत्रययमाः खरशीनुरुनयोद्यथमाः शशीनन्देनवदोऽश्व्यमाः पक्षौ गुणाः स्वपक्षौ शैलाः खेषुणा गुणाः खं गुणा षोडशवं त्रीव्यष्टादशखं वेदा रन्ध्राणि खं वेदाः सप्तयमाः खं शरा नखाः खं रसा पुष्करा खं रसा नवेन्दवः खं सप्तपक्षौ शरा मुनयो मनवो भूतानि च सप्त नवेन्दवः पञ्च अष्टौ च खं अष्टौ जनखं अष्टौ नवः खं अष्टौ चत्वारि खं नव वसवः खं सूयसुनयः खम । अथैतेषां विक्षेपांशाः दश द्वादश पञ्चदश एकादश षट् खं सप्त खं द्वादश त्रयोदश एकादश द्वावष्टात्रिंशत्सार्धं त्रीणि चत्वारि सार्धान्यष्टौ पञ्चविभागाः पञ्च द्विपष्टिः त्रिंशत अंशविभागं चतुर्र्विंशतिः षड्विंशतिः शून्यं चाश्विनी भरणी कृतिकापुनर्वसुपुष्यमघाभागार्य्यमाणः ॥ स्वाति वैश्वेन्द्राभिजिच्छ्रवणधनिष्ठाजांर्हिव्ध्न्युरेवतीनाम्। उत्तरा रोहिणी सौम्यार्द्रासंपादहस्ताचित्राविशाखामैत्रेन्द्रमूलाप्यावरुणानां याम्याः । रेवत्युदयः प्राची सर्वस्य महती योगतारा राशिश्रुत्य सतविंशतिर्भागाः अगस्त्यध्रुवकः सप्तभिर्भागैस्तस्य याम्यो विक्षेपः । अथ भौमादीनां वर्ककेन्द्राणि राश्याद्यानि पञ्च मनवः खं वेदाः षड्चमाः खं पञ्च वेदाः खं पञ्च पञ्चदश खं वेदास्त्रयोदश खम् । अथातुलवकेन्द्राणि षड्षोडश खं सप्त वेदाः खं षड्चमाः खं ( षट्पञ्चविंशतिः खंवं मनवः खं षड्गुणाः खं ) सप्तदश खम् । अथ पूर्वोदारोदयकेन्द्राणि खमष्टयमाः खं षट्पञ्चविंशतिः खं खं मनः खं षड्गुणाः खं खं सप्तदश खम् । अथ पश्चादितस्तमयक्रेन्द्राणि एकादश द्वौ खं पञ्चपञ्च खं एकादशषोडश खं पञ्चसप्तविंशतित्वं एकादश त्रयोदश खम् । अथ बुधशुक्रयोः पूर्वाद्यस्तमयकेन्द्रे दशदश खं एकादश षोडश खं चत्वारि शून्यानि चत्वारि शून्यानि पंचेदर्सामियमपक्षाश्च रेन्दवः कल्पप्रतिनक्षत्रोदयः त एवार्कभमगोना दिवसाः । अर्कभ्रमणा द्वादशहतास्तं मासास्तीस्त्रिशद्धतास्तद्दिवसाश्चन्द्रभ्रमणाः सप्तविंशति
वि० ध० ॥२१७॥
द्वि० सं० अ० १६१
हता नक्षत्रदिवसाः भगणांतरमर्कैन्द्रोश्चन्द्रमासास्त्रिशद्गुणास्तिथयश्चान्द्रमासः । सूर्यमासोनाधिमासाश्चान्द्रदिवसास्तु दिवसान्तरमवमानिती । इति श्रीविष्णुधर्मोत्तरे मा०वृ० सं० द्वि० खं० रामं प्रति पुष्करोपाख्याने उपकरणविवरणं नामषष्ट्युत्तरशततमोऽध्यायः ॥१६८॥ अथ यथाकालं गतमनवस्वकलंसहिताश्चतुर्युगाब्दहताः कार्याः । तेषु कृतप्रमाणं क्षेप्यम् । तमेव तत्र भूयो गतसंख्याहंतं च ततो वर्तमानमन्वन्तराद्भूतचतुर्युगं ख्याहतानि चतुर्युगाब्दानि युगानि च वर्तमानयुगान्निप्रभवभगवताव्दानि च एवमिष्टकालान्दगणो भवति । स द्वादशहतश्चैत्रासितादिमासयुक्तस्त्रिंश द्भूतोवर्तमानतिथियुक्तस्तिथिसहितः कार्यः । एवं सौरो दिनगणो भवति । तं पृथक्कल्पाधिमासकसंहतं कल्पनविदिनेर्विभजेत् । लब्धं गताधिमासाः । तै स्त्रिशद्गुणैरेकैकांगणोयुक्तैश्चन्द्राहेणो भवति । तं पृथक्कल्पामवहतं कल्पचन्द्रदिनैर्विभजेत् । लब्धं गतोनावरात्रैः तैश्चन्द्राहणेोणान्नसाधनाहंगणो भवति । अधिमासशेषस्य कल्पाधिमासकैर्भागे हृते ऽप्य्याधिमासकैर्भागे हृते गताधिमासकस्य दिनादिः कालो लभ्यते । अधिमासशेषं कल्पैरविदिव सैर्भ्यः संशोय्यावशेषस्य कल्पाधिमासकैर्भागे हृते एण्योधिमासकतास्य कालो लभ्यते । अवमशेषस्य कल्पेन रात्रैर्भागे हृते एष्योनरात्रकालः अवमशेषकल्पचन्द्रदिवसेभ्यः संशोय्यावशेषस्य कल्पोनरात्रेर्भागे हृते एष्योनरात्रापातकालः संवत्सरगणात्षडूहस्रहावशेष संवत्सराद्योब्दः आदित्यः, चन्द्रः, भौमः, बुधः, जीवः, सितः, सौरश्चेति क्रमेण ग्रहणं संवत्सराः सप्तहतावशेषं चतुर्धक्रमेण संवत्सराधिपः सावनाद्दिनगणात्सप्तह तात्क्रमेणैव दिवसाधिपः चान्द्राः दिनगणा दशाधिकशतहताल्लुब्धं सप्तहतं तद्विशेषं पूर्वं ब्रह्मचन्द्रेन्द्रे श्रवणवरुणाग्निवाय्वाश्च पर्वपतयः दिनगणामि ष्टग्रहमगणगुणश्चौदिनैर्विभजेत् । लब्धं भगणादिः खेखार्कोदयो ग्रहो भवति । एवंरूपेणाहर्गणेन ग्रहसुक्तिः । इष्टां कालबावताकालेनाकोदयो भवि ष्यति तावता कालेन ग्रहस्यैकदिवसभुक्तिं संगुण्य षष्ट्या विभजेत । अवाप्तं स्वभुदये ग्रहस्य धनमवममे ऋणम् । एवमुत्तरगोले दक्षिणेन विपरीत देशान्तरयोजनानि षष्ट्यासङ्गुण्य पञ्चभिः सहस्रैर्विभजेत् । लब्धं लेखाप्राग्भावे संशोध्यमपरस्मिन्देयमवमिष्टे देशे । इष्टे च काले ग्रहो मध्यमो भव ति । तत्कालेऽर्कचन्द्रमन्दकर्मणैव स्फुटौ कार्यों भौमः कर्मचतुष्टयेन तस्य मन्दं शीघ्रं मंदं शीघ्रमिति च कर्माणि । अन्येषां मन्दशीघ्रे कर्मणी तत्र भौममर्द्ः संस्कार्यः तच्छीघ्रपरिधिश्च शुक्रस्य परिधिद्रम्यपि तत्र भौमजीवसौरगाणार्कः शीघ्रः । स्वयं मध्यमो बुधशुक्र योर्को मध्यमः । स्वयं शीघ्रोशीघ्रो महांनं केन्द्रः ग्रहश्च मन्दोनः भौमशीघ्रकेन्द्रपुक्षुयुक्तयोरल्पस्य जीवे चतुर्भिः शतैः ग्रहैश्च मन्दोनतः भाणिते द्वादश्या जीवया विभजेत् । लब्धेन केन्द्रे मकरादिगे भौममन्दयुतं कार्यं कर्कादिगे चोनमिति शुक्रमदं केन्द्रज्यां न्यासाधार्धवहृतं
॥२१७॥
लब्धेन तं मृदुं परिधिरूनः स्पष्टो भवति। तस्यैव शीघ्रकेन्द्रज्यां व्यासार्धं पञ्चमेन विभजेत। लब्धे युतः शुक्रशीघ्रपरिधिः स्पष्टो भवतीति
मन्दकेन्द्रात जीवा भुजज्या त्रिराशिरहितात्कोटिज्याकोटिभुजज्ये स्वमृदुवारिधिहते खरसाग्निभिर्विभजेत। लब्धं भुजकोटिपाते मकरादिकेन्द्रे
कोटिफलं व्यासार्धे दद्यात्। कुलीरादिके शोधयेत्कोटिर्भवति। भुजाफले भुजा कोटिभुजावर्गयोगमूलं कर्णः व्यासाधहतां भुजज्यां
स्फुटकणेन विभजेत्। लब्धचापं फलकलाः मेषादिकेन्द्रे ग्रहे शोध्यास्तुलादौ देयाः। भौमस्य प्रथममन्दकर्मण्युपचियुक्ताः एवं स्पन्दस्फुटं ग्रहं शीघ्रा
दपास्य केन्द्रं कृतेतदेव शीघ्रपरिचिना कर्म कुर्यात्। तत्फलं मन्दस्फुटे ग्रहे मेषादिकेन्द्रे धनं तुलादणमिति। भौमस्य प्रथम शीघ्रकर्मणि तदनीकृते
एवं ग्रहः स्फुटो भवति। बुधसितपातौ विपरीतेन अब्दफलेन स्फुटौ कार्यों भौमजीवसोराणां शीघ्रान्त्यफलेनानुलोमीनानीतवर्तमानस्र्फुटं
ग्रहान्तरं स्फुटभुक्तिः अर्कफलम्। स्फुर्भुक्तहितं भवनकलाभिर्विभजेत लब्ध्यमर्केकेन्द्रवशे तद्वदेव ग्रहस्य धनणे योज्ये। अन्त्यशीघ्रकर्माविशेषं
केन्द्रस्य वक्रादिकेन्द्रस्य वान्तरं स्फुटभुक्तिशीघ्रसूत्सतरेण विभजेत्। लब्ध्यो वक्रादिर्नादिः कालः ध्रुवकेकेन्द्रेऽधिक एष्यः शीघ्रकेन्द्रेधिकेतीतः॥
इति श्रीवि० मा० वज्रसं० द्वितीयखण्डे गमं प्रति पुश्करोपाख्याने ज्योतिःशास्त्रे ग्रहातिनमिकेनसतत्युत्तरशततमोऽध्यायः॥ १६९॥
स्फुटग्रहं लिप्तीकृतम अध्भिः शतैर्विभजेत्। लब्धं ग्रहेण मुक्तान्यश्विन्याद्यानि नक्षत्राणि शेषं स्फुटभुक्त्या विभजेत। लब्धं दिनादिः कालो
नक्षत्रप्रविष्टस्य अवशेषमग्रमभूभ्यः शेतेभ्यः संशोध्यावशेषपात प्राग्गतकालो नक्षत्रिस्थैः राशो भुक्ता अमुक्ता वा स्फुटभुक्त्या विभजेत। लब्धं
दिनादिः संक्रान्तंर्गतेष्यः कालः अथ योजनकर्णान्तं सर्वोत्थाविशेषकर्णान्वितं व्यस्तं व्यासार्धेन विभजेत। लब्धं स्फुटयोजनकर्णार्था ग्रहाः
प्रमाणविकर्णकर्णयोजनानि व्यासाधंहतानि स्फुटयोजनकर्णेन विभजेत। लब्धं स्फुटग्राह्यप्रमाणव्यासकलाः स्फुटान्यर्ककर्णार्थयोजनानि पंच
साहस्रिकरस्य परिधेः कर्णानि तेनैव गुणितानि रविव्यासले न तद्गुणेन विभजेत। लब्धं भूच्छाया स्फुटरशिरकर्णार्धनपासप्रसाहिस्रकस्य। परिधैः
कर्णहतं भूच्छापया विभजेत। लब्धं व्यासार्धगुणं चन्द्रस्फुटयोजनकर्णेन विभजेत लब्धं राहुमानकलाः। गृहमानाधंर्कलाः षष्टिगुणा
भुक्त्या विभजेत। लब्धं संक्रांतिकालात्प्रागपरेण च पुण्यकालः। अर्कोनाच्चन्द्राद्विशतीकृतात वग्भागमभक्तच्छुक्लग्रतिपदाद्या तिथिः।
शेषात्षष्टिगुणयाद्भुक्त्यन्तरहताद्धटिकादिः कालः कृष्णचतुर्दश्यांतः सदैव शकुनिः अमायां आद्यंच चतुष्पातं द्वितीय नाम्नः प्रतिपदार्यचं किस्तुघ्नम
अर्कोनचन्द्रलिप्ताः खरदग्निभिर्विभजेत। अवशेषपात्तित्थिथवतकालः ळब्ध्यादेकोनात्सप्तमहतादवशेषं ववाद्यं करणं चन्द्राकर्योगे चन्द्राधंयोरामनेवातवै
[वि० ध०] [॥२९८॥]
[द्वि० सं०] [अ० १७४]
धूते तेन चन्द्रार्कयोः क्रान्तिसाम्ये । तत्र व्यतीपातोऽभिन्नेऽयने गोलैकत्वे च वैधृतः समानेऽयने गोलभेदे च ध्रुवकार्कचन्द्रयोगान्तरे चन्द्रार्कभुक्तिवियोगेन विभजेत । लब्धेन ध्रुवकादित्ये चन्द्रार्कयोगेणाधिकान्विति । ततोऽर्कक्रान्तिस्तत्कालिकपातेन चन्द्रस्तत्क्रान्तिः प्रथमतृतीयपादान्तस्थे चन्द्रेऽस्य क्रान्तेः चन्द्रक्रान्तिर्यद्योना भवति तदा क्रान्तिसाम्याद्भावाः प्रथमतृतीयपदस्थे चन्द्रेऽपि तदुपक्रममर्कापक्रमादूनं दृष्ट्वाः क्रान्तिसाम्यात्कालोनेयथातीतः। द्वितीयचतुर्थपदस्यान्यथाविक्षेपेण स्वक्रान्तिदिगुत्पत्तौ चन्द्रापक्रममधिकृतं कल्पयेत । क्रांतिर्युतिरन्यदिशोरेक दिशोरन्तरं व्यतीपातेनेत्या वैधृतिमभमत्याः। एवमिष्टकालिकैरर्कचन्द्रपातैर्द्वितीयाद्यस्ततः प्रथमाद्वितीयात्कालयाः द्वयोरन्यतोरीतो वा पातस्तदा तयोरन्तरम्नाऽअन्यथा योगो भागापहारः प्रथमगुणितस्येष्टकालस्य ते कालस्य तेन कालेनासकृत् द्वितीयं कृत्वा विशेषकर्मणा स्फुटकालः साध्यः स व्यतीपातपातसाम्यकालः । आदित्यचन्द्रमानयोगः षष्टिगुणो भुत्यन्तरेण हृतो लब्धा स्थितिरिति ॥ इति श्रीविष्णुधर्मोत्तरे द्वितीयखंडे मार्कण्डेयवज्रसंवादे तिथिनक्षत्रप्रकरणं नाम सप्तत्युत्तरशततमोऽध्यायः ॥ १७० ॥
दिनगतशेषकालकर्णयोस्तद्गोलचरेणार्धाधीनस्य दक्षिणे युक्तस्य जीवाऽसहोरात्रानवहतास्त्रिज्याहतो गोलविपर्ययेण त्रिज्यायुतोत्यच्छेदः । छेदोलब्धकव्यान्याहतः त्रिज्याविभाजितः शंकुः। शंकुवर्गहीनस्य त्रिज्यावर्गस्य पदं दृग्ज्यादशहता शंकुहता छाया मध्याह्निकाऽर्कक्रान्त्या साक्षासंयोगविवरौ दक्षिणेत्तरगोलयोरिष्ट तद्भास्त्रिज्यादापस्य तज्याभागापहारः द्वादशहताया अनष्टजीवाया लब्धं माध्याह्निकी छाया त्रिज्याद्यंघातमध्याह्नच्छायाभागापहारविभक्तस्तत्कर्णः विषुवकण्हंतां त्रिद्यां स्वेष्टकायाकर्णेन विभजेत । लब्ध्युत्तरादक्षिणगोलयोः क्षितिज्यया युतोनव्यासाधैताडितं स्वानहोरात्राधेन विभजेत । लब्धा चापं गोलविपर्ययाक्षरदलोनयुतं दिवसस्य गते शेषं वा भवति ॥
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मार्कण्डेयवज्रसंवादे ज्योतिःशास्त्रे छायाप्रकरणं नामैकसप्तत्युत्तरशततमोऽध्यायः ॥ १७१ ॥
इष्टकालस्फुटरकौशिशुक्लितास्तदा क्रान्तिराश्युद्व्यप्राणानाहताग्रहावलिताविर्भजेत्तल्लभ्धमर्कक्रान्तिराशीनभागकालः तद्दिष्टकालप्राणैर्भाज्येण स्यादित्ये चाशुक्लिता देयाः काले चानन्तरव्युदयात्रयाम्याः अर्क................... चराद्युदयो देयः शेषाइङ्कुराद्युदयभावाद्याः एवं राशिगत काललग्नोदयः पश्चादियुताको अर्कयुक्तकालद्याः कालाः लम्नाश मुक्तकलाभ्यस्तद्योगे तदन्तरा व्युदये युते लग्नोदयः कालः ॥इति श्रीवि० मा० व० मुं० द्वि० लम्रप्रकरणं नाम द्विसप्तत्युत्तरशततमोऽध्यायः ॥ १७२ ॥
भौमजीवमंदाः केन्द्रः शीघ्रः शीघ्रैः बुधसितौ वक्रे मंदाव्यतथाशीघ्रौ मन्दग्रहकौतरगाः कालदृश्यांशैरंशन यदा तदा पूर्वाधौदयास्तमययोर्कादधिको ग्रहः पश्चादनेन तदास्तमयिकः तात्कालिक्यहस्फुटोविक्षेपमदज्ञात्याह
[॥२९८॥]
तन्यासाच्चैन विभजेत। लब्ध्यग्रह औदयिके ऋणमास्तमयिकवत्तउत्तरविक्षेपपरमापक्रमेण विभजेता लब्धमयनविक्षेपेऽन्वे शोध्यमन्यथादेयम्। एवं ग्रहोदयास्तलग्नौ भवतः। ततो ग्रहान्तराल्लग्नवकालः कलीशमहान्तरांशतानां भुजान्तरेण भागमपहरेत्। ग्रहे वक्रिणि भुक्तियोगेन लब्धो दिनादिः कालसुपास्तमयस्य एव नक्षत्राणां तेषां द्वादश दृश्यादृश्यांशः अगस्त्यध्रुवकदिक्कर्मद्वयं कृत्वा तद्घटिकाह्वयेन स्वदेशराश्युदये वर्धयेत्। तादृशेकंरास्त्योदयः वक्रोनेस्तमयः प्रतिदिवसिक उदयो ग्रहान्तं लग्नवशनेति ॥ इति श्रीवि० घ० दि० सं० मा० सं० उदयास्तमयप्रकरणं नाम त्रिसप्तत्युत्तरशततमोऽध्यायः ॥ १७३ ॥ स्वोदयास्तावलम्बौ चन्द्रार्कयोः ततश्चन्द्रोदयास्तकालौ साध्यौ इष्टकालिकचन्द्रार्कस्वक्रान्ति त्रिज्योगुणे विलम्बज्यया विभजेत्। लब्ध्ये क्रान्तिदिशेनेन ततोर्कचन्द्रशूङ्ककौ पृथक्कूर्च्छकुहताश्चज्यावलम्बकेन विभजेत। लब्धे शङ्कतले तौ चोत्तरे स्वरात्रौ दिवससाम्ये द्वादशकुतलयोर्दिशेको योगो दिग्भेदवियोगः पृथग्बाहुः तयोर्दिगेको वियोगोऽन्यथा योगः स्फुटवाहुः स्वहग्ग्रहर्ण वर्जभुजावलम्बिक्षेपपदयोः कपालभेदे साम्ये वियोगः प्रथमशरां दिग्नेवातिलिक्षेपो दिग्भेदो युतिक्द्वितीयः प्रथमद्वितीयवर्गयोगपदं कोटिः कोटि बाहुवर्गयोगमूलंकर्णः अर्कोनानश्चन्द्रकेन्द्रं तस्माज्ज्योकेन्द्रलिप्ताश्चन्द्रमासलिप्ताः तस्माज्ज्योकेन्द्रलिप्ताश्चन्द्रमानभाः नवय्राहतास्मिन् केन्द्र प्रथमचतुथपद्स्थे द्वितीयस्थे कृष्णम् इन्दुमानचतुर्भागंकृतास्मितेकर्मानसुजक्कणकोटिसूत्राण्यङ्गुलतां यान्ति पूर्वापराशराभिमुखार्कचन्द्राणयाद्य पदंगे मितशृङ्गं परिलिखेत। एवं द्वितीयतृतीयणे कृष्णं बिन्दुमर्क परिकल्प्य ततोकार्य्या शशी तथा भुजा देया तद्भात्वाभिमुख्येन कोटिः ततः तदग्रेल्लग्नेन पूर्वान्तं पुनःपुनः सकलम्। यावद्विक्षेपं लब्धोनं स्यात् इति लम्बनं संस्कृते तिथ्यन्ते ग्रहणमध्यश्चन्द्रश्चन्द्रकलिपतादित्रि भास्त्वक्रान्तिः अङ्के सौम्य्या शोध्या याम्य्या देया तज्जयाममध्यमचन्द्रकिंशुत्यन्तहता शरेकहंतया त्रिज्यया विभजेत्। लब्धमवन्तरितिः स्वक्रान्ति तोक्षधिके सौम्य्यान्यथा याम्या तात्कालिकचन्द्रविक्षेपान्वत्यानादिगैक्ये योगो दिग्भेदो वियोगः स्फुटविक्षेपः तेन स्थिते मन्दमृदलोनयुतैर्भहेः स्पर्शनीमीलोनीलनमोक्षकालिकैलम्बनानि कार्याणि मध्यलम्बनेस्पष्टेलंबनस्य धनणेकोन्तरे भेद्योगः फलम्। तेन मध्यस्थित्यरविमन्दोवेव युते स्वकालिके स्फूटे भवतः पञ्चदशं घटिकाकालिकं लंबने फलेन हीने विमंदार्थ कार्य शेषं परिखेलावद्ध्ये चंद्रग्रहणवद्भवति ॥ धन्यं यशस्यमायुष्यं स्वर्ग्यलोकप्रदं तथा॥ इंदं ग्रहणं गणितं सर्वकामप्रदं शिवम् ॥ गतिमकस्य विज्ञाय ग्रहस्य सुसमाहितः ॥ तस्य लोकमवाप्नोति नात्र कार्या विचारणा ॥ सर्वग्रहांगंति ज्ञात्वा ब्रह्मलोकं प्रपद्यते ॥ धर्मार्थी प्राप्नुयाद्धर्ममर्थार्थी चार्थमाप्नुयात् ॥ कामानवान्नुयात्कामी मोक्षार्थी परमं
वि० पु० द्वि० खं० अ० १७५ ॥२९१॥
पदम् ॥ सम्यग्गृह्णाति ज्ञात्वा पात्रतां याति वै द्विजः॥ न चेद् वृत्तिं तथा कुर्यात्तथा वृत्तिं विवर्जयेत्॥ पात्राणामपि तत्पात्रं ग्रहणं वेत्ति यो गतिम्॥
वेदास्तु यज्ञाद्यर्थमभिप्रवृत्ताः कालातुपूर्व्या विहिताश्च यज्ञाः ॥ तस्मादिदं कालविधानशास्त्रं यो ज्योतिषं वेद स वेद सर्वम् ॥ इति श्रीवि०
ध० द्वि० ख० मा० सं० पितामहसिद्धान्तो नाम चतुःसप्तत्युत्तरशततमोऽध्यायः ॥ १७४ ॥ ॥ छ ॥ समाप्तं पितामहसिद्धान्तम् । श्रीपुष्कर
राम उवाच ॥ भगवन्त्सर्वधर्मज्ञ सर्वशास्त्रविशारद ॥ जिगीषूणां समाचक्ष्व यात्राकालं महीक्षिताम् ॥ १ ॥ पुष्कर उवाच ॥ सर्वेषामेव वर्णानां
यात्राकालं निबोध मे ॥ अधिकृत्य महीनाथं विजिगीषुर्गुणान्वितम् ॥ २ ॥ पूर्वे कपाले पौरौऽर्के यायी भवति चापरे ॥ यायिग्रहो ऽक्रूरकुजो
शेषाः पौराः प्रकीर्तिताः ॥ ३ ॥ पौरग्रहैर्बलोपेतैर्न यात्रां सम्प्रयोजयेत् ॥ यायिग्रहबले राजा नित्यं यात्रां प्रयोजयेत् ॥ ४ ॥ (अस्तं गते
नीचगते विवर्श रिपुराशिगे ॥ प्रतिलोमे च विद्धस्ते शुक्रे यात्रां विवर्जयेत् ॥ ५ ॥ ) प्रतिलोमे बुधे यात्रा दिक्पतौ च तथा ग्रहे ॥ विष्टौ वृष्ट्यां
वाति वाते वात्यायाञ्च विवर्जयेत् ॥ ६ ॥ वैधृते च व्यतीपाते नागे च शकुनौ तथा ॥ चतुष्पदे च किंस्तुघ्ने तथा यात्रां विवर्जयेत् ॥
॥ ७ ॥ विप्लुते नैधने च प्रत्यरौ मे च जन्मनि ॥ गणे विवर्जयेद्यात्रां रिक्तायां च तिथौवापि ॥ ८ ॥ उदीची
च तथा प्राची तयोर्व्यर्थं प्रकीर्तितम् ॥ पश्चिमा दक्षिणा या दिक्नयोर्व्यर्थं तथैव च ॥ ९ ॥ वाय्वग्निरक्षसमुद्भूतं परिवेषन्तु न लंघयेत् ॥
राम संवत्सराद्येषु सर्वेष्वेव महीपतिः ॥ १० ॥ संवत्सरप्रदिग्ज्ञाची परिपूर्वेस्य दक्षिणा ॥ तत्पूर्वंस्थापरा ज्ञेया चाळुपूर्वस्य दक्षिणा
॥ ११ ॥ अद्वारस्तु विनिर्दिष्टस्तथा वत्ससंज्ञितः ॥ उत्तरायणगे सूर्ये प्राचीं यायाद्दिशं नृपः ॥ १२ ॥ चन्द्रे च ब्राह्मणश्रेष्ठ
पश्चिमां दक्षिणस्त्विते ॥ तयोरयनभेदेन यायात्सायनरायं दिवा ॥ १३ ॥ रात्रौ चान्द्रायणं यायाद्या दिगुक्ता मया तव ॥ वसन्त
उत्तरद्वारे ग्रीष्मः प्राग्द्वारिकस्तथा ॥ १४ ॥ शरच्च पश्चिमद्वारः शिशिरश्चोत्तरसुखः ॥ हेमन्तः सर्वतोद्वारः प्रावृडद्वारिका स्मृता ॥ १५ ॥
नक्षत्रदेवताभिर्या यस्य तु दिग्दृच्यते ॥ मासांश्चैत्य महाभाग तथैव परिकीर्तिता ॥ १६ ॥ आदित्यचन्द्रसंसर्गादर्कदिवसास्त न शोभनाः ॥ त एव
चानुकूलस्य दिवसो न प्रशस्यते ॥ १७ ॥ प्राग्द्वारे भास्करो ज्ञेयो दक्षिणेन तथा कुजः ॥ पश्चिमेन शनैश्चारी उद्गद्वारस्तु चन्द्रमाः ॥ १८ ॥
सर्वद्वाराः स्मृता राम जीवशुक्रैन्दुन्दनाः ॥ तेषां हि दिवसाः शस्ता विशेषेण गमिष्यताम् ॥ १९॥ समागमे जितो यस्तु जीवो मित्रगृहे स्थितः॥
स्फुरणो रश्मिहीनश्च न प्रशंसन्ति तद्दिनम् ॥२०॥ उच्चस्थो मित्रगृहगः स्वक्षेत्रस्थश्च यो ग्रहः ॥ विजयी रश्मिवांस्थूलो दिनं तस्य प्रशस्यते॥२१॥
कृत्तिकाद्यानि पूर्वेण मघाद्यानि च याम्यतः॥ मैत्राद्याः पश्चिमेनाथ वासवाद्यानि वायुदृक् ॥ २२ ॥ सर्वद्वाराणि तत्रापि दिवाद्यानि विनिर्दिशेत् ॥ भवन्ति स्तम्भसंज्ञानि तानि दिङ्मध्यगानि च ॥ २३ ॥ स्तम्भर्क्षाणि पूर्वांणि तानि प्रावेशिकानि तु ॥ निर्गमर्क्षाणि जानीयात्तस्तम्भाद्बहिस्त- राणि तु॥२४॥ प्रवेशेषु दुष्टेषु यायिनां विजयं वदेत् ॥ स्तम्भभेषु तु दुष्टेषु दुर्गाणां ग्रहणे तदा ॥२५॥ निर्गमर्क्षेषु दुष्टेषु नागराणां जयं वदेत् ॥ ऋक्षे पापग्रहाक्रान्ते तथा चास्तमिते द्विज ॥ २६ ॥ दृग्धे च धूमिते वापि रजसोपहतेऽथ वा ॥ केतुना धूमिते वापि परिविष्टेऽथ वा पुनः ॥ ॥ २७ ॥ उत्पातदर्शने च स्यात्तैनं चक्षण भार्गव ॥ संक्रान्तौ वा ग्रहस्य स्याद्दिनं चास्तोदयी तथा ॥ २८ ॥ मित्रऋन्द्दसवा यश्च ग्रहणेनान्येन वा पुनः ॥ यन्नक्षत्रगतो ग्रस्तो स्यातां वा शशिभास्करौ ॥ २९ ॥ न तेन नृपतियार्यान्नक्षत्रण कदाचन ॥ अष्टवर्गानुकूलस्य चन्द्रे यात्रां प्रयोजयेत् ॥ ३० ॥ पूर्वद्वारस्थितानन्दा भद्रा दक्षिणतः स्थिता ॥ जया च पश्चिमद्वारा रिक्ता चोदक्प्रकीर्तिता ॥ ३१ ॥ पूर्णा तु सर्वतो द्वारा तिथिरुक्ता महाभुज ॥ नक्षत्रदेवतातुल्या मुहूर्तानां तु दिग्भवेत् ॥ ३२ ॥ त्रिद्विद्वाराग्निभिर्ज्ञेया दक्षिणेन विगर्हिता ॥ प्राग्द्वाराः कथिता राम मेषसिंहधनुर्धराः ॥ ३३ ॥ तथा च पश्चिमद्वाराः कन्यामकरगोवृषाः ॥ तुलामकरकुम्भाश्च ज्ञेयाः पश्चिमदिक्सुखाः ॥ ३४ ॥ कोटवृश्चि- कर्मीनाश्च तथा चोदक्प्रकीर्तिताः ॥ लग्नेन दिङ्मुखं यत्नाज्ज्ञेयं प्राङ्मुखमंशकम् ॥ ३५ ॥ सौराः सर्वे प्रशस्यन्ते कालोघे विवर्जयेत् ॥ विशाखार्धं भत्रितयं दीने सूर्ये विवर्जयेत् ॥ ३६ ॥ आषाढात्रितयं चन्द्रे तथा ब्राह्मणसंज्ञकम् ॥ धनिष्ठाद्यत्रयं भौमे पौष्णादित्रितयं बुधे ॥ ३७ ॥ रोहिण्यार्धं तथा जीवे पुष्यार्धं च तथा सिते ॥ अर्यमण्यार्धं तथा सौरे प्रयत्नेन महाभुज ॥ ३८ ॥ मूले च श्रवणं चैव आहि- र्बुध्न्यं तथैव च ॥ अश्लेषामथ चादित्यं भाग्यं वायव्यमेव वा ॥ ३९ ॥ आदित्यादिदिनेष्वेते सिद्धियोगाः प्रकीर्तिताः ॥ सिद्धियोगान्वि- शेषेण तिथिष्वपि निबोध मे ॥ ४० ॥ अहक्रमेण धर्मज्ञ सर्वकर्मसु सिद्धिदान् ॥ द्वितीया च तृतीया च प्रतिपञ्चाष्टमी तथा ॥ ४१ ॥ सप्तमी च चतुर्थी च पञ्चमी च तथा तिथिः ॥ अन्याश्च सिद्धियोगांस्तु तिथयस्त्वं शृणु क्रमात् ॥ ४२ ॥ एकादशी च दशमी नवमी पञ्चम्यपि ॥ चतुर्दशी द्वादशी च तथा राम त्रयोदशी ॥ ४३ ॥ छायाप्रमाणं वक्ष्यामि सिद्धियोगेष्वतः क्रमात् ॥ तत्र काले कृतं कर्म सकृत्संपद्यते ध्रुवम् ॥ ४४ ॥ आदित्ये विंशतिर्ज्ञेयाश्चन्द्रे षोडश कीर्तिताः ॥ भौमे पञ्चदशोक्ताश्चतुर्दश तथा बुधे ॥ ४५ ॥ त्रयोदश तथा जीवे शुक्रे द्वादश कीर्तिताः ॥ उदितेनोत्तरां गच्छेत्प्राचीं मध्यस्थिते रवौ ॥ ४६ ॥ दक्षिणामपराह्ने तु अर्धरात्रे तु पश्चिमाम् ॥ जन्मराश्युदये यात्रा न प्रशस्ता
महाभुज ॥ ४७ ॥ ताभ्यामुपचयर्क्षे तु यात्रा शस्ता तथा भवेत् ॥ शेषेषु वर्जयेद्यात्रां मृतिकामो नराधिपः ॥ ४८ ॥ यात्रा शुभफला
ज्ञेया सौम्यहृन्नवांशके ॥ पापग्रहांशके यात्रां प्रयत्नेन विवर्जयेत् ॥ ४९ ॥ जन्मभे नैधने चैव तथाद्याने विपत्करे ॥ प्रत्यरे गमने यात्रां
प्रयत्नेन विवर्जयेत् ॥ ५० ॥ क्षेमे संपत्करे मैत्रे साधके चातिमैत्रके ॥ कर्मभे च तथा यात्रा प्रशस्ता मनुजोत्तम ॥ ५१ ॥ दिव्यान्तरिक्षक्षिति
जे दृष्टे राम महाद्भुते ॥ सप्ताहं वर्जयेद्यात्रां प्रयत्नेन महाभुज ॥ ५२ ॥ लग्ने तु विबले यात्रां शून्ये केन्द्रे च वर्जयेत् ॥ जन्मपे लग्नपे राम
बलहीने विशेषतः ॥ ५३ ॥ दिक्पतावपुकूले तु शुभा यात्रा प्रकीर्त्तिता ॥ सम्मुखे शुक्रचापे तु यात्रां यत्नेन वर्जयेत् ॥ ५४ ॥ निक्षिण
न च गच्छेतथा राम द्वारामिहतमस्तकः ॥ दृष्ट्वा द्रव्यममङ्गल्यं स्त्रियंचैवातथैव च ॥ तुष्टे मनसि गन्तव्यं प्रयत्नतेन महीभुजा ॥ ५५ ॥ त्रिकोण
केन्द्रोपगतास्तु सौम्याः पापस्तथा चोपचयक्षंसंस्थाः ॥ भवन्ति लग्नस्य तु यस्य तेन यात्रा प्रयुक्ता तु शुभावहा स्यात् ॥ ५६ ॥
इति श्रीविष्णु० द्वि० मा० सं० रामं प्रति पुष्करोपाख्याने ज्योतिःशास्त्रमते यात्राधिकारो नाम पञ्चसप्तत्युत्तरशततमोऽध्यायः ॥ १७५ ॥
॥ राम उवाच ॥ यात्राविधानमाचक्ष्व सर्वभूतभृतांवर ॥ जिगीषूणां नरेन्द्राणां सिद्धिकारणमुत्तमम् ॥ १ ॥ पुष्कर उवाच ॥ सप्ताहेन
यदा यात्रा भविष्यति महीपतेः ॥ तदा दिने तु प्रथमे पूजनीयो विनायकः ॥ २ ॥ मोदकै रक्तसंदेश्श्च कुसुमैश्च तथा फलैः ॥ गन्धधूपैर्विलिप्तङ्गा
रैर्धूपैर्दीपेर्मनोहरैः ॥ ३ ॥ द्वितीयेशिदि ततः कार्यं सर्वदिक्पालपूजनम् ॥ दिक्पालपूजनं कृत्वा तेषां च पुरतः स्थितः ॥ ४ ॥ शय्यां कुशाभिः
कुर्वीत सितवस्त्रोत्तरच्छदाम् ॥ विकीर्णांशुभपुष्पैस्तां तथा सिद्धार्थकैः शुभैः ॥ ५ ॥ तच्छीर्षके तु पूज्या श्रीर्भद्रकाली च पादयोः ॥ ह्यं दक्ष
णपार्श्वे तु वामे ब्रह्माणमेव च ॥ ६ ॥ पूजितं कलशं ह्यं कुर्यादूर्णीष्वके दृढम् ॥ नीलपल्लवसंछन्नं चारुपुष्पोज्ज्वलं शुभम् ॥ ७ ॥ एककालं
हविश्यान्नं लघु भुक्ता महीपतिः ॥ स्वयं दक्षिणापार्श्वे च मन्त्रमेतदुदीरयेत् ॥ ८ ॥ नमः शम्भो त्रिनेत्राय रुद्राय वरदाय च ॥ वामनाय विरूपाय
स्वप्नाधिपतये नमः ॥९॥ भगवन्देवदेवेश शूलभृद्वृषवाहन ॥ इशानिष्टं समाचक्ष्व स्वप्ने सुतस्य शाश्वतम्॥१०॥ यज्जामतो दूरमिति मन्त्रमार्थवतं
जेत्तः ॥ हृदि न्यस्य कुशान्प्राज्ञः प्रयतस्तु पुरोहितः ॥११॥ ततः स्वप्ने शुभे दृष्टे यात्रा देया तु नान्यथा ॥ तृतीयेऽहनि संप्राप्ते देवं दिङ्नाथमर्च
येता॥ १२॥ एकामेव महाभाग दिननाथं तथा ग्रहम् ॥ यां दिशं नृपतिर्गच्छेन्नायं तत्यास्तथैव ताम्॥ १३॥ चतुर्थेऽहनि संप्राप्ते ग्रहयागो विधीयते॥
पञ्चमेऽहनि संप्राप्ते सर्वयागांस्तथैव च ॥ देवतानां स्वनगरे कृता वासां तथालयाः ॥१४॥ तासां संपूर्जनं कार्यं स्वपूरे ये तथा स्थिताः ॥ तत्रैव
हलायुधम् ॥ उत्तारणं वणिज्यार्थी श्रीराममभ्युदये नृप ॥ १२ ॥ मङ्गल्यं मङ्गले विष्णुममङ्गल्येषु कीर्तयेत् ॥ अरिष्टान्तेषु शेषेषु विशेषेषु तथा जपेत् ॥ १३ ॥ उत्तिष्ठन् कीर्तयेद्विष्णुं प्रसुप्तो माधवं नरः ॥ भोजने चैव गोविन्दं सर्वत्र मधुसूदनम् ॥ १४ ॥ नारायणं सर्वकाले श्रुतप्रस्खलनादिषु ॥ स्नाने देवार्चने होमे प्रणिपाते प्रदक्षिणे ॥ १५ ॥ कीर्तयेद्वासुदेवोति अनुक्तेष्वपि यादव ॥ कार्य्यारम्भेष्वथ वा राजन्सर्व्वं नाम कीर्तयेत् ॥ १६ ॥ सर्वाणि नामानि हि तस्य राजन्सर्व्वार्थसिद्धानि भवन्ति पुंसः ॥ तस्माद्यत्नं खलु देवनाम सर्वेषु कार्येषु जपेत् भक्त्या ॥ १७ ॥
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे तत्तत्कार्य्यप्राप्तितत्तन्नामकीर्त्तनवर्णनो नाम त्रयोविंशत्युत्तरशततमोऽध्यायः ॥ १२३ ॥
वज्र उवाच ॥ कस्मिन्काले तु देवस्य किंकिं नाम प्रकीर्तयेत् ॥ एतन्मे संशयं छिन्धि त्वं हि सर्व विजानसे ॥ १ ॥
मार्कण्डेय उवाच ॥ प्रद्युम्नं वामदेवं च तथा सङ्कर्षणं प्रभुम् ॥ प्रद्युम्नमनिरुद्धं च क्रमाच्चतुर्दिक्षु वर्जयेत् ॥ २॥ विष्णुं मधुनिहन्तारं तथा देवं त्रिविक्रमम् ॥ वामनं श्रीधरं चैव हृषीकेशं तथैव चा॥दामोदरं पञ्चानां केशवं च यदूतमानांनारायणं माधवं च गोविन्दं च तथा क्रमात् ॥४॥चैत्रादिषु तु मासेषु देवदेवमनुस्मरेत् ॥प्रद्युम्नमनिरुद्धं च पक्षयोः शुक्लकृष्णयोः॥५॥सर्वः शर्वः शिवः स्थाणुर्भूतानां निधिरव्ययः॥आदित्यादिषु वारेषु क्रमाद्देवमनुस्मरेत् ॥ ६ ॥ विश्वं विष्णुर्र्वषट्कारो भूतभव्यभवः प्रभुः॥ भूतकृत् भूतभृद्भावो भूतात्मा भूतभावनः॥७॥अव्यय्यः पुंडरीकाक्षो विश्वकर्मा शुचिश्रवाः॥ सम्भवो भावनो भर्ता प्रभवः प्रभुरीश्वरः ॥ ८ ॥ अप्रमेयो हृषीकेशः पञ्चनामः परः प्रभुः ॥ अमेयः शाश्वतो धाता कृष्णश्चैतान्यनुस्मरेत्॥९॥ देवदेवस्य नामानि कृत्तिकादिषु यादव ॥ ब्रह्माणं श्रीपतिं विष्णुं कपिलं श्रीधरं प्रभुम् ॥ १० ॥ दामोदरं हृषीकेशं गोविन्दं मधुसूदनम् ॥ मूधरं गादिनं चैव शिखिनं पद्मिनं तथा ॥ ११ ॥ चक्रिणं च महाराज प्रथमादिषु संस्मरेत् ॥ सर्वं वा सर्वदा राम देवदेवस्य यादव ॥ १२ ॥ नामानि सर्वाणि जनार्दनस्य कालश्च सर्वः पुरुषप्रवीर ॥ तस्मात्सदा सर्वगतस्य नाम ग्राह्यं यथेष्टं वदतो राजन् ॥ १३ ॥
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे कालनामाख्यानो नाम चतुर्विंशत्युत्तरशततमोऽध्यायः ॥ १२४ ॥
वज्र उवाच ॥ कस्मिन्क्षेत्रे तु देवस्य किंकिं नाम प्रकीर्तयेत् ॥ एतन्मे संशयं छिन्धि भृगुवंशविवर्धन ॥ १ ॥
मार्कण्डेय उवाच ॥ अत्राप्युदाहरन्तीममितिहासं पुरातनम् ॥ वासुदेवस्य संवादमर्जुनस्य च यादव ॥ २ ॥ वृते भारतसंग्रामे राज्यं प्राप्ते युधिष्ठिरे॥ अस्मिन्नेव समारम्भे विजहाते यथासुखम् ॥३॥ वासुदेवार्जुनौ वीरौ लक्षीकृतवसुन्धरौ ॥ ततः कथान्ते कास्मश्चित्कृष्णं पप्रच्छ फाल्गुनः ॥ ४ ॥
अर्जुन उवाच ॥ क्षेत्रेषु येषुयेषु त्वं कीर्त्त-