सामग्री पर जाएँ
भारतकोश
संग्रह पर लौटें

विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)

Vishnudharmottara Purana Hindi

महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह) द्वारा

स्रोत: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (उद्गम)

DevanagariHindipublished1,001 पृष्ठ

वि० ध० ॥४०६॥ दृ० में० अ० २३२

न वै कन्या न युवतिर्नाल्पविद्यो न बालिशः ॥ होता स्याद्गार्हपत्येषु नाऽर्तो नाऽसंस्कृतस्तथा ॥ २२८ ॥ प्राजापत्यमदत्त्वाऽश्वमन्वाधायस्य दक्षिणाम् ॥ अनाहिताग्निर्भवति ब्राह्मणो विभवे सति ॥२२९॥ पुण्यान्यन्यानि कुर्वीत श्रद्दधानो जितेन्द्रियः ॥ न त्वल्पदक्षिणेनेष्टेयेजेतेह कथंचन ॥ २३० ॥ हन्त्यल्पदक्षिणो यज्ञस्तस्मादल्पधनो यजेत ॥ बालातपं न सेवेत न दिवा मैथुनं व्रजेत ॥ २३१ ॥ प्रायश्चित्ती यतां प्राप्य प्रायश्चित्तं समाचरेत् ॥ मातुः स्वसारं वा पुत्रीं परभार्या प्रकीर्त्तयेत् ॥२३२॥ नदीं तरेन्न बाहुभ्यां वर्जयेत्कूपलङ्घनम् ॥ यथाकथंचि न्नौदीक्षादादित्यं तेजसां निधिम् ॥ २३३ ॥ न क्रुद्धस्य गुरोर्वक्त्रं नैवादर्शनमार्जितम् ॥ स्नानभोजनपानानि वाङ्मेध्यो नाऽनरेत्पुनः ॥ २३४ ॥ घृतेन बिभ्रयाद्धारान्वह्निर्मोऽङ्गुपपाणिद्विजान् ॥ २३५ ॥ बहुश्रुतादिकं यस्तु व्यवसेनेोदकेन चा प्रतिजानोतिनो विप्रः स याति नरकं महत् ॥ ॥ २३६ ॥ नरोहेद्विषमं शैलं नावं संशयितांस्तथा ॥ न पातयेत लोष्टेन न काष्ठेन फलं द्रुमात् ॥ २३७ ॥ शिरःस्नातस्तु तैलेन नाङ्गं किंचिदपि स्पृशेत् ॥ वहेश्च भारं शिरसा युगपन्नाग्निवाणिणी ॥ २३८ ॥ न तोयं प्रक्षिपेद्वह्नौ वह्निं तोये तथैव च ॥ वर्जयेद्दन्तसोधाह्र भोज्यान्नस्य च कुत्सनम् ॥ २३९ ॥ राजद्रिष्टं गणद्रिष्टं लोकद्रिष्टं विवर्जयेत् ॥ सायं प्रातश्च विदुषां शृणुयात्पुष्कला गिरः ॥ २४० ॥ संस्कृतं पायसं नित्यं गवावां कृसरं वदेत् ॥ श्मश्रुकर्मणि चायुष्यं जीवितेन तथा कृतिः ॥ २४१ ॥ व्याधितानां तु सर्वेषामयुषः प्रतिनन्दनम् ॥ श्रान्तस्य विश्रमेोति चाख्यातं सीरिणस्तथा ॥ २४२ ॥ आसीनस्य सुखं चापि पुण्याहमपि गच्छतः ॥ देवकर्मप्रवृत्तस्य प्रासादं परिकीर्त्तयेत् ॥ २४३ ॥ न जातु त्वमिति ब्रूयादपांक्षोपि महत्तमम् ॥ त्वंकारो वा वधो वेति विद्वत्सु न विशिष्यते ॥ २४४ ॥ अवराणां समानानां शिष्याणाअंतिरिष्यते ॥ एक एव चरेद्धर्मं न धर्मध्वजिको भवेत् ॥ २४५ ॥ अचैदवान् दम्भेन सेवेतामायया गुरून् ॥ निधिं विन्द्यव्यात्परस्वं यथार्थः शब्दवानिति ॥ २४६ ॥कर्म वै सफलं कृत्वा गृह्णां प्रतिपादयेत् ॥ वृक्षास्ती वर्द्धजातु न तु सम्प्रेष्यतेक्वचित् ॥२४७॥ न वेगीतोऽड्यकार्यः स्यान्नाग्निदाग्न्यानि कुत्सयेत् ॥ सुकैकेशो न गच्छेत्तु स्वनाहारसभाधियः॥२४८॥ पाणिनालम्भ्य निष्क्रामद्गलपूज्याज्यमण्डलम् ॥ प्रदक्षिणास्तु कुर्वीत मंगल्यं सर्वदा यतिः॥२४९॥ मूत्राञ्ज वन्यनगरं नृपन्तृग्गृहे तथा ॥ अन्तः पुरं च ऋषयो दूतः परिवर्जयेत् ॥ २५० ॥ त्रिः पक्षस्य कृत्वमश्रुनखलोमानि कल्पयेत् ॥ न प्रतिस्फालयेद्धस्तु पाणिना चरणेन वा ॥ २५१ ॥ नांसवृतमुखः कुर्यात्कृतमंगविजृम्भणम् ॥ नाक्षरेण सुहृद्रूपम् न क्षारेण रिपोर्विरोत ॥ २५२ ॥ न सपैराब्धैः क्रीडेत्तु नदीवेगं विवर्जयेत् ॥

॥४०६॥

विद्याप्तिक्षणं मृत्योरयथातथोचेष्टितम् ॥ २६३ ॥ आहरेज्ज्ञानमर्थांश्च नरो ह्यमरवत्सदा ॥ केशेष्वेव गृहीतस्तु मृत्युना धर्ममाचरेत् ॥ २६४ ॥ प्रविष्टोजनसंबाधं तथातिगहनं न च ॥ हेम नासंस्कृतं धार्यं निशि लोष्टं न च क्षिपेत् ॥२६५॥ आदौ पङ्क्त्यां न चाश्नीयाज्जह्येद्रूद्धमितान्नम् ॥ वर्जयेच्छात्रशबलं दिवा निद्रां तथैव च ॥ २६६ ॥ कामः क्रोधो भयो हर्ष लोभो दर्पस्तथैव च ॥ रिपवः षड् विजेतव्याः पुरुषेण विपश्चिता ॥ २६७ ॥ अरिषड्गेसंन्यासात्कुर्यादिन्द्रियनिग्रहम् ॥ योगक्षेमं सदोत्थान्नात्प्रज्ञां वृद्धोपसेवनात् ॥ २६८ ॥ प्रश्रयेण जयेन्मानं दैन्यं दृष्टांत संश्रयात् ॥ अक्रोधेन जयेत्क्रोधं विनयेन त्वनार्यताम् ॥ २६९ ॥ शौघ्रत्त्वाच्छास्तपादं च वाचमुच्चारणाज्जयेत् ॥ अज्ञानं ज्ञानसंयोगात्कामं का मांगवर्जनात् ॥ २७० ॥ धर्मिष्ठैरागमेर्लोभं क्रोधं मैत्र्यादिवर्जयेत् ॥ कारुण्येन जयेन्मानं कालं कार्योपपत्तिभिः ॥ २७१ ॥ आत्मानं सुखदुः खाद्यं त्वनभिज्ञाय योजयेत् ॥ धृत्वा शिश्नोदरं रक्षेत्पाणिपादं च चक्षुषा ॥ २७२ ॥ चक्षुःश्रोत्रे च मनसा मनो वाचं च कर्मणा ॥ देश कालाद्यनुवन्ध्यं धर्माणामाविरोधि यत् ॥ २६३ ॥ तत्तात्सुखं निषेवेत नास्मान्निःसुखी भवेत् ॥ रूपसंदर्शनश्चेस्वरसगन्धान्सदा जयेत्॥२६४॥ वस्त्रमपि सदोमद्ध्ये ह्यसक्तो मनसा भवेत् ॥ परेषांन्तस्व संदध्यात्प्रतिकूलं यदात्मनः ॥ २६५ ॥ कृच्छ्रेष्वपि न तत्कुर्यान्मातृवत्नां यद् संम्मतम् ॥ जीर्णाशी च मिताशी च हिताशी च तथा भवेत् ॥२६६॥ शस्यते यैर्गुणैरन्यैर्नरैर्जर्जित यशः ॥ उच्छ्रवृत्तिम्र्भवेत्तवं विपरीतमत् त्यजेत ॥ २६७ ॥ सुकारुणिकात्मात्मानं व्यापयेन्नापि निर्घृणम् ॥ देशकालौ च शक्तिं च जनताश्चावलोकयेत् ॥ २६८ ॥ न मृदुः स्यान च क्रूरो क्षुभावेव समाश्रयेत् ॥ मृदुर्भवेत्त्ववज्ञातः तीक्ष्णादुद्विजते जनः ॥ २६९ ॥ अनालिक्षितचित्तः स्यात्रेकान्ते किञ्चिदाचरेत् ॥ विद्यात्परस्य रन्ध्राणि स्वरंध्रं छादयेत्पुनः ॥ २७० ॥ गूहेत्कूर्म इवाङ्गानि रक्ष्यादात्मनमात्मना ॥ वागादीनि सहायानि कृत्वा प्रज्ञां च मन्त्रिणम् ॥ २७१ ॥ धर्मकामसुखद्व्यर्थं दासाब्धैः पुमान्भवेत् ॥ अर्थानर्थौ समासाह्य हर्षदैन्ये विवर्जयेत्॥२७२॥दुःखं दुःखाधिकान्पश्येत्सुखे पश्येत्सुखाधिकान् ॥ नत्वेवं मूढवद्ध्याद्यात्मानं सुखदुःखयोः॥२७३॥हर्षस्थानसहस्राणि शोकस्थानशतानि च ॥ दिवसेदिवसे मूढमाविशन्ति न पण्डितम्॥२७४ ॥ न तत्कुर्वीत यस्यानंते हर्षोपामल्पमाप्नुयात् ॥ अज्ञानप्रभवो मोहस्तस्माद्रोगः प्रवर्तते ॥२७५॥ रगाद्दग्धस्ततः क्रोधः क्रोधान्मानोऽभिजायते ॥ मानाद्दपार्थकं कर्म कर्मतोऽशुभलक्षणम् ॥ २७६ ॥ जन्ममृत्युजराव्याधिदुःखशोकप्रवर्त्तकम् ॥ अप्रमादो वृद्धसेवा तप्रज्ञामूलमुच्यते ॥ २७७ ॥ ज्ञानाद्धर्मः सुखं धर्मात्रिःश्रेयसऽभ्युदात्मकम् ॥ इन्द्रियार्थसंयोगो भवेद्दुःखलक्षणम् ॥ २७८ ॥ नारुंतुदः स्यान्नृशंसवादी नहींनतः परम

वि० ध० तृ० खं० अ० २३४ ॥४०७॥

भ्याद्दहेत ॥ यथास्य वाचा पर मुद्विजेत न तां वदेद्रुषतीं पापलोकाम् ॥ २७९ ॥ वाक्सहायका वदनान्निष्पतन्ति यैराहतः शोचति रात्र्यहानि ॥ परस्य तुमर्मसु ते पतन्ति न तान्धीरोऽवसृजेत्परेषु ॥२८०॥ प्रियाणि लोके शृणुते प्रियंवदः प्रियाणि चाप्नोति प्रियाणि चाश्नुते ॥ प्रियश्च सर्वस्य जनस्य जायते जनानुरागमभवा हि संपदः ॥ २८१॥ आचारयुक्किल्बिषं प्रयाति आचारेणानवे भवत्यरोगः ॥ आचारावानेव चिरन्तु जीव दाचारावानेव मुनक्ति लक्षणम् ॥ २८२ ॥ इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे हंसगीतासु आचारवर्णनो नाम त्रयोविंश दधिकद्विशततमोऽध्यायः ॥ २३३॥ हंस उवाच ॥ प्रायश्चित्तीयातां प्राप्य दैवात्पूर्वरुतेन वा ॥ न संसर्गं व्रजेत्सद्भिः प्रायश्चित्तेऽकृते नरः ॥ १ ॥ ब्रह्महत्या सुरापानं स्तेयं गुर्वाङ्गनागमः ॥ महान्ति पातकान्याहुः संयोगमपि तैः सह ॥ २ ॥ अनृतं च समुत्कर्षे राजगामि च पैशुनम् ॥ गुरोश्चालीकनिर्बन्धः समानि ब्रह्महत्यया ॥ ३॥ ब्रह्मोझता वेदनिन्दा कूटसाक्ष्यं सुहृद्वधः ॥ गर्हितान्नाद्ययोर्जग्धिः सुरापानसमानिषट् ॥४॥ निक्षे पस्यापहरणं नराश्वरजतस्य चा॥भूमिद्रव्यमणीनां च रुक्मस्तेयसमं स्मृतम्॥५॥ रेतस्कः सयोनिषु कुमारीष्वन्त्यजासु चा सख्युः पुत्रस्य च स्त्रीषु गुरुतल्पसमं विदुः ॥ ६ ॥ गोवधोऽयाज्यसंयाज्यं पारदार्यमात्मविक्रयः ॥ गुरुमातृपरित्यागः स्वाध्यायाग्नेः सुतस्य च ॥७॥ परिवित्तितानुजेज्येष्ठे परिवेदनमेव च ॥ तयोर्दानं च कन्यायास्तयोरेव च याजनम् ॥ ८ ॥ कन्यायादूषणं चैव वार्धुष्यं व्रतलोपनम् ॥ तडागारामदाराणामपत्यस्य च विक्रयः॥ ९ ॥ व्रात्यता बान्धवत्यागो भृताध्यापनमेव च ॥ भृताच्चाध्ययनादानमपण्यानां च विक्रयः॥१०॥ सर्वंकौर्यंञ्चध्वेकारो महायन्त्रप्रवर्त नम् ॥ हिंसौषधिवियाजीवोऽभिचारो मूलकर्म चा ॥११॥ इन्धनार्थमशुष्काणां द्रुमाणामवपातनम् ॥ आत्मार्थं च क्रियारम्भो निन्दितान्नादनं तथा ॥१२॥ अनाहिताग्निता स्तेयमृणानां चानपाक्रिया ॥ असच्छास्त्राभिगमनं कौशीलव्यस्य च क्रिया ॥ १३॥ धान्यकुप्यपशुस्तेयं मद्यपस्त्रीनिषे वणम् ॥ स्त्रीशूद्रविट्क्षत्रवधो नास्तिक्यं चोपपातकम् ॥ १४ ॥ ब्राह्मणस्य रुजःकृत्यं घ्रातिरघ्रेयमद्ययोः ॥ जैह्मं पुंसि च मैथुन्यं जातिभ्रंशक स्मृतम्॥१५॥ खराश्वोष्ट्रमृगेभानामजाविकवधस्तथा ॥ संकरीकरणं ज्ञेयं मीनाहिमहिसिष्य च ॥ १६ ॥ निन्दितेभ्यो धनादानं वाणिज्यं शूद्र सेवनम् ॥ अपात्रीकरणं ज्ञेयमसत्यस्य च भाषणम् ॥ १७ ॥ कृमिकीटवयोहत्या मद्यानुगतभोजनम् ॥ फलेधुंकुसुमस्तेयमैर्यं च मलापहम् ॥ ॥ १८ ॥ एतान्यन्यानि सर्वाणि यथोक्तानि पृथक्पृथक् ॥ धैयैर्व्रतैपोहन्ते तानि मे सन्निबोधत ॥ १९ ॥ ब्रह्महा द्वादशसमाः कुटि कृत्वा वने वसेत ॥ भैक्ष्याश्यात्मविशुद्ध्यर्थं कृत्वा शवशिरोध्वजम् ॥ २० ॥ लक्षं शस्त्रभृतां वा स्याद्दिद्दिपामिच्छद्यात्मनः ॥

॥४०७॥

प्रास्येदात्मानमग्नौ वा समिद्धे त्रिरवाक्शिराः ॥ २१ ॥ यजेत वाऽश्वमेधेन स्वर्जिता गोसवेन वा ॥ अभिजिज्द्विश्वजिद्भ्यां वा त्रिवृताग्निष्टु- तापि वा ॥ २२ ॥ जपन्वान्यतमं वेदं योजनानां शतं व्रजेत् ॥ ब्रह्महत्यापनोदाय मितभुङ् नियतेन्द्रियः ॥ २३ ॥ सर्वस्वं वा वेदविदे ब्राह्मणाया- पपादयेत् ॥ धनं हि जीवनायालं गृहं वा सपरिच्छदम् ॥ २४ ॥ हविष्यभुग्वाऽनुसरेत्प्रतिस्रोतः सरस्वतीम् ॥ जपेद्वा नियताहारोस्त्रिर्वेदस्य संहि- ताम् ॥ २५ ॥ कृतवापनो निवसेद्ग्रामांते गोव्रजेऽपि वा ॥ आश्रमे वृक्षमूले वा गोब्राह्मणहिते रतः ॥ २६ ॥ ब्राह्मणार्थे गवाथें वा सम्यक् प्राणान्परित्यजेत् ॥ मुच्यते ब्रह्महत्याया गोब्राह्मणहिते रतः ॥ २७ ॥ त्रिवारं प्रतिरोद्धा वा सर्वस्वमवजित्य वा ॥ विप्रस्य तन्निमित्ते वा प्राणां- ल्लाभे विमुच्यते ॥ २८ ॥ एवं दृढव्रतो नित्यं ब्रह्मचारी समाहितः ॥ समाप्ते द्वादशे वर्षे ब्रह्महत्यां व्यपोहति ॥ २९ ॥ शिष्टा वा भूमि- देवानां नरदेवसमागमे ॥ स्वमनोऽवभृथस्नातो हयमेधे विमुच्यते ॥ ३० ॥ धर्मस्य ब्राह्मणो मूलमग्रं राजन्य उच्यते ॥ तस्मा- त्तत्समागे तेषांमनो विख्याप्य शुद्ध्यति ॥ ३१ ॥ ब्राह्मणः सम्भवेनैव देवानार्माप दैवतम् ॥ प्रमाणं चैव लोकस्य ब्रह्माद्रेव हि कारणम् ॥ ३२ ॥ तेषां वेदविदो ब्रूयुस्त्रयोऽप्येनःसु निष्कृतिम् ॥ स तेषां पावनाय स्यात्पवित्रा विदुषां हि वाक् ॥ ३३ ॥ अतोऽन्यतममास्थाय विधि विप्रः समा- हितः ॥ ब्रह्महत्याकृतं पापं व्यपोहत्यात्मवत्तया ॥३४॥ हत्वा गर्भमविज्ञातं चैतदेवव्रतं चरेत्॥ राजन्यवैश्यौ चेज्ज्ञानादात्रेयीमेव च स्त्रियम् ॥३५॥ उक्ता चैवानृतं साक्ष्ये प्रतिकृत्य गृहस्तथा ॥ अपहृत्य च निक्षेपं कृत्वा च स्त्रीसुहृद्वधम् ॥ ३६ ॥ इयं विशुद्धिरादिष्टा प्रमाप्याकामतो द्विजम् ॥ कामतो ब्राह्मणवधे निष्कृतिर्न विधीयते ॥ ३७ ॥ सुरां पीत्वा द्विजो मोहादग्निवर्णां सुरां पिबेत् ॥ तया स काये निर्दग्धे मुच्यते किल्विषात्ततः॥ ॥३८॥गोमूत्रमग्निवर्णं वा पिबेदुदकमेव वा ॥ पयो घृतं वा मरणादाशङ्कत्समेव वा ॥ ३९ ॥ कणांन्वा भक्षयेदब्दं पिण्याकं वा सकृन्निशि ॥ सुरा- पानोपनोदार्थं वालवासा जटी ध्वजी ॥ ४० ॥ सुरा वै मलमन्नानां पाप्मा च मलमुच्यते ॥ तस्माद्ब्राह्मणराजन्यौ वैश्यस्तु न सुरां पिबेत ॥ ४१ ॥ गोडी माध्वी च पैष्टी च विज्ञेया त्रिविधा सुरा ॥ यथैवैका तथैवान्या न पातव्या द्विजातिभिः ॥ ४२ ॥ यक्षरक्षःपिशाचान्नं मद्यं मांसं सुरासवम् ॥ तद्ब्राह्मणेन नात्तव्यं देवानामश्नता हविः ॥ ४३ ॥ अमेध्ये वा पतेन्मत्तो वैदिकं वाप्युदाहरेत् ॥ अकार्यमन्यत्कुर्याद्वा ब्राह्मणो मदमोहितः ॥ ४४ ॥ यस्य कायगतं ब्रह्म मद्येनाप्लाव्यते सकृत् ॥ तस्य व्यपैति ब्राह्मण्यं शूद्रत्वं च स गच्छति ॥ ४५ ॥ एषा विचित्राऽभि- हिता सुरापानस्य निष्कृतिः ॥अत ऊर्ध्वं प्रवक्ष्यामि सुवर्णस्तेयनिष्कृतिम् ॥ ४६ ॥ सुवर्णस्तेयवान्विप्रो राजानमभिगम्य तु ॥ स्वकर्म ख्यापय-

वि० ध० ॥४०८॥

तृ० पं० अ० २३४

न्द्रयाद्राज्ञांमवधुशास्तिस्विति ॥ ४७ ॥ गृहीत्वा मुसलं राजा सकृद्धन्यात्तु तं स्वयम् ॥ वधेन शुध्यति स्तेनो ब्राह्मणस्तपसैव वा ॥ ४८ ॥ तपसा पनुदत्युस्तु सुवर्णस्तेयजं मलम् ॥ चीरवासा द्विजोऽरण्ये चरेद्ब्रह्महणो व्रतम् ॥ ४९ ॥ एतैर्व्रतैपपोहैत पापं स्तेयकृतं द्विजः ॥ गुरुस्त्रीगमनीयं तु व्रतैरेतैर्पानुदेत् ॥ ५० ॥ गुरुतल्प्यभिभाष्यैनः शंये स्वप्यादयोमये ॥ सूर्मी ज्वलन्तीं वाश्लिष्य मृत्युना स विशुध्यति ॥ ५१ ॥ स्वयं वा शिश्नवृषणावुत्कृत्याधाय चाञ्जलौ ॥ नैर्ऋतीं दिशमातिष्ठेदानिपातादजिह्मगः ॥ ५२ ॥ खट्टांगी चीरवासा वा श्मश्रुलो विजने वने ॥ प्राजापत्यं चरेत्कृच्छ्रं त्वब्दमेकं समाहितः ॥ ५३ ॥ चान्द्रायणं वा त्रीन्मासानभ्यस्येन्नियतेन्द्रियः ॥ हविष्येण यवाग्वा वा गुरुतल्पापनुत्तये ॥ ५४ ॥ एभि र्व्रतैरपोह्युर्महापातकित्नो मलम् ॥ उपपातकितस्त्वेवं विविधैर्नियमैरपि ॥ ५५ ॥ उपपातकसंयुक्तो गोघ्नो मासं यवाञ्छिपवेत् ॥ कृतवापो वसेद्गोष्ठे चर्मणा तेन संवृतः ॥ ५६ ॥ चतुर्थकालमश्नीयादक्षारलवणं मितम् ॥ गोमूत्रेणाचरेन्स्नानं द्वौ मासौ नियतेन्द्रियः ॥ ५७ ॥ दिवाऽनुगच्छेत्ता गावस्तु तिष्ठन्दूर्ध्वं रजः पिवेत् ॥ शुश्रूषित्वा नमस्कृत्य रात्रौ वीरासनं वसेत् ॥ ५८ ॥ तिष्ठन्तीष्वथ तिष्ठेत चरन्तीष्वप्यनुव्रजेत् ॥ आसीनासु तथासीत नियतो वीतमत्सरः ॥ ५९ ॥ आतुरार्तामभिशस्तां वा सिंहव्याघ्रादिभिर्भयैः ॥ पतितां पंकमग्नां च सर्वप्राणैर्विमोचयेत् ॥ ६० ॥ उष्णे वर्षति शीते वा मारुते वाति वा भृशम् ॥ न कुर्वीतात्मनस्त्राणं गोरकृत्वा तु शक्तितः ॥६१॥ आत्मनो यदि वान्येषां गृहे क्षेत्रेऽथ वा खले ॥ भक्षयन्तीं न कथयेत्पिबन्तीं चैव वत्सकम् ॥ ६२ ॥ अनेन विधिना यस्तु गोघ्नो गा अनुगच्छति ॥ स गोहत्याकृतं पापं त्रिभिर्मासै र्व्यपोहति ॥ ६३ ॥ वृषभैकादशा गाश्च दद्यात्सुचरितव्रतः ॥ अविद्यमाने सर्वस्वं वेदविद्भ्यो निवेदयेत् ॥ ६४ ॥ एतदेव व्रतं कुर्युरुपपातकित्नो द्विजाः ॥ अवकीर्णि विशुद्ध्यर्थं चान्द्रायणमथापि वा ॥ ६५॥अवकीर्णी तु काणेन गर्दभेन चतुष्पथो ॥ पाकयज्ञविधानेन यजेत निर्ऋतिं निशा॥६६॥ हुत्वाग्नौ विधिवद्धोमानन्ततश्च समेत्युचा ॥ वातेन्द्रगुरुवह्नीनां जुहुयात्सर्पिषाहुतीः ॥ ६७॥ कामतो रेतसस्सेकं व्रतस्थस्य द्विजन्मनः ॥ अतिक्रमं व्रतस्याहुर्धर्मज्ञा ब्रह्मवादिनः ॥ ६८ ॥ मरुतः पुरुहूतं च गुरुं पावकमेव च ॥ चतुरो व्रतिनोऽभ्येति ब्राह्मं तेजोऽवकीर्णिनः ॥ ६९ ॥ एतस्मिन्नेनसि प्राप्ते वसित्वा गर्दभाजिनम् ॥ सप्तागारांश्चरेद्भैक्ष्यं स्वकर्म परिकीर्तयेत् ॥ ७० ॥ तेभ्यो लब्धेन भैक्ष्येण वर्तयेन्नैककालिकम् ॥ उपस्पृशंस्त्रिषवणं चाब्देन स विशुद्ध्यति ॥७१॥ जातिभ्रंशकरं कर्म कृतवान्यतममिच्छया ॥ चरेत्सांतपनं कृच्छ्रं प्राजापत्यमनिच्छ्या ॥७२॥ सङ्करापात्रकृत्यासु मासं शोधनमन्दूष्व् ॥ मलिनीकरणीयेषु तप्तः स्याद्यावककृच्छ्रम् ॥ ७३ ॥ तुरीयं ब्रह्महत्यायाः क्षत्रियस्य वधे स्मृतम् ॥ वैश्येऽष्टमांशं वृत्तस्थे

॥४०८॥

शूद्रं ज्ञेयं तु षोडशम्॥ ७४ ॥ अकामतस्तु राजन्यं विनिपात्य द्विजोत्तमः ॥ वृषभैंकं सहस्रं गा दद्याच्छुद्धयर्थमात्मनः॥७५॥ त्र्यब्दं चरेद्वा नियतो जटी ब्रह्महणो व्रतम् ॥वसन्दूरंतरे ग्रामे वृक्षमूलनिकेतनः ॥७६॥ एतदेव चरेत्कृच्छ्रं प्रायश्चित्तं द्विजोत्तमः ॥ प्रमाप्य वैश्यं वृत्तस्थं दद्याद्वै शतकं गवाम् ॥ ७७॥ एतदेव व्रतं कृत्स्नं षण्मासांश्चूढ्वा चरेत् ॥ वृषभैकादशा वापि दद्याद्विप्राय गाः सिताः ॥७८॥ मार्जारनकुलौ हत्वा चापं मण्डूकमेव वा॥ श्वगोघोलूककाकांश्च शुद्धह्यायाव्रतं चरेत् ॥७९॥ पयः पिबेत्तिरात्रं वा योजनं वाऽध्वनो व्रजेत् ॥ उपस्पृशेत्स्रवन्त्यां वा सूक्तं वाब्दैवतं जपेत् ॥८०॥ अस्थि कृष्णांयसों दद्यात्सर्पं हत्वा द्विजोत्तमः ॥ पलालभारकं षण्ढे सैसकं चैकमाषकम् ॥ ८१ ॥ घृतकुम्भं वराहे तु तिलद्रोणन्तु तित्तिरी ॥ शुके द्विहायनं वत्सं कौञ्चं हत्वा त्रिहायनम्॥८२॥हत्वा हंसं बलाकं च बकं बर्हिणमेव च ॥ वानरं श्येनभासौ च स्पर्शयेद्ब्राह्मणाय गाम् ॥८३॥ वासो दद्याद्धयं हत्वा पञ्च नीलानुषैंश्च वा ॥ अजमेषावनड्डाहं खरं हत्वैकहायनम् ॥ ८४ ॥ क्रव्यादं तु मृगं हत्वा धेनुं दद्यात्पयस्विनीम् ॥ अक्रव्यादं वत्सतरीमुरूं हत्वा तु कृष्णलम् ॥८५॥ जिनांकार्मुकबस्तावीन्पृथग्दद्याद्विशुद्धये ॥ चतुर्णामपि वर्णानां नारीं हत्वाऽनवस्थिताम् ॥८६॥ दानेन वर्धनेर्युक्तः सर्पादीनामशक्तुवन् ॥ एकैकशश्चरेत्कृच्छ्रं द्विजः पापापनुत्तये ॥८७॥अस्थिमतां तु सत्त्वानां सहस्रस्य प्रमापणा॥ पूर्णे चान- स्थनस्तां तु शुद्धह्यायाव्रतं चरेत्॥८८॥किंचिद्देव तु विप्राय दद्यादस्थिमतां वधे ॥ अनस्थ्नां चैव सत्त्वानां प्राणायामो विशोधनम् ॥८९॥फलदानां तु वृक्षाणां छेदने जप्यमृक्शतम् ॥ गुल्मवल्लीलतानां च पुष्पितानां च वीरुधाम् ॥९०॥ अन्नाद्यजातसत्त्वानां रसानां च सर्वशः॥ फलपुष्पोद्भ- वानां च घृतप्राशो विशोधनम् ॥९१॥ कृष्टजानाममोषानां जातानाञ्च स्वयं वने ॥ वृथालम्भेननुगच्छेद्वा दिनमेकं पयोव्रतम् ॥९२॥ एतैर्व्रतैरपोह्यं स्यादेनो हिंसासमुद्भवम् ॥ ज्ञानाज्ञानकृतं कृत्स्नं शृणुतान्नाद्यभक्षणे ॥९३॥ अज्ञानाद्ब्राह्मणो पीत्वा संस्कारेणैव शुद्ध्यति।मतिपूर्वंमनिर्देश्यं प्राणान्तिक कमिति स्थितिः ॥९४॥अपः सुराभाजनस्था मद्यभाण्डस्थितास्तथा ॥ पञ्चरात्रं वसेत्पीत्वा शङ्खपुष्पीभृतं पयः ॥९५ ॥ स्पृष्ट्वा दत्त्वा च मदिरां विधिवत्प्रतिगृह्य च ॥ शूद्रोच्छिष्टाश्च पीत्वापः कुशवारिपिबेत्त्र्यहम् ॥ ९६॥ ब्राह्मणस्तु सुरापस्य गन्धमाघ्राय सोमपः ॥प्राणानाप्सु त्रिराचम्य घृतं प्राश्य विशुद्ध्यति ॥९७॥ अज्ञानात्प्राश्य विण्मूत्रं सुरासंस्पृष्टमेव च ॥ पुनः संस्कारमर्हन्ति त्रयो वर्णा द्विजातयः ॥ ९८॥वपनं मेखला दण्डं भैक्ष्यचर्या व्रतानि च ॥ निवर्तन्ते द्विजातीनां पुनःसंस्कारकर्मणि ॥९९॥ अभोज्यानान्तु भुक्तान्नं स्त्रीशूद्रोच्छिष्टमेव च ॥ जग्ध्वा मांसमभोज्यं च सतरान्नं पयः पिबेत् ॥ १०० ॥ युक्तानि च कषायांश्च पीत्वामेध्यानिपि द्विजः ॥ तावद्भवत्यप्रयतो यावत्तन्न व्रजत्यधः ॥ १०१ ॥ विड्वराह

६९

वि० ध० ॥ ४०१॥

तृ० सं० अ० २३४

खरोष्ट्राणां गोमायोः कपिकाकयोः ॥ प्राश्य मूत्रपुरीषाणि द्विस्त्रिश्चान्द्रायणं चरेत् ॥ १०२ ॥ शुष्काणि भुक्त्वा मांसानि भौमानि कवकानि वा ॥ अज्ञातं चैव सूपस्थं चैतदेव व्रतं चरेत् ॥ १०३ ॥ क्रव्यादसूकराणां च कुक्कुटानां च भक्षणे ॥ नक्रकाकवराणाञ्च तत्तत्कृच्छ्रं विशोधनम् ॥ ॥ १०४ ॥ मासिकान्नञ्च षोडशीयाद्यदूढ्वा कपितो द्विजः ॥ स त्रीण्यहान्युपवसेदेकाहं चोदके वसेत् ॥ १०५ ॥ व्रतचारी तु योऽश्नीयान्मधुमांसं कथञ्चन ॥ स कृत्वा प्राकृतं कृच्छ्रं व्रतशेषं समापयेत् ॥ १०६ ॥ बिडालकाकलूकोच्छिष्टं जग्ध्वा श्वनकुलस्य चा॥केशीकीटावपन्नञ्च पिबेद्ब्राह्मादम र्बलम् ॥ १०७ ॥ अभोज्यमन्नं नात्तव्यं चात्मनः शुद्धिमिच्छता॥ अज्ञानभुक्तं तूत्तार्य शोध्यं वाप्याशु शोधनैः ॥ १०८ ॥ एषोऽनाद्यादन्न स्योक्तो व्रतानां विविधो विधिः ॥ स्तेयदोषापहर्तॄणां व्रतानां श्रूयतां विधिः ॥ १०९ ॥ धान्यान्नधनचौर्याणि कृत्वा कामाद्विजोत्तमः ॥ स्वजा तीयग्रहादेव कृच्छ्राब्दं विशुद्ध्यति ॥ ११० ॥ मनुष्याणान्तु हरणे स्त्रीणां क्षेत्रगृहस्य च ॥ कूपवापीजलानाञ्च शुद्धिश्चान्द्रायणं स्मृतम् ॥ १११ ॥ द्रव्याणामल्पसाराणां स्तेयं कृत्वाऽन्यवेश्मतः ॥ चरेत्सान्तपनं कृच्छ्रन्तन्निर्यात्यात्मशुद्धये ॥ ११२ ॥ भक्ष्यभोज्यापहारेणे यानशय्यासनस्य च ॥ पुष्पमूलफलानाञ्च पञ्चगव्यं विशोधनम् ॥ ११३ ॥ तृणकाष्ठद्रुमाणाञ्च शुष्कान्नस्य गुडस्य च ॥ चेलचर्मामिषाणाञ्च त्रिरात्रं स्यादभोज नम् ॥ ११४ ॥ मणिशुक्ताप्रवालानां ताम्रस्य रजतस्य च ॥ अयःकांस्योपलानाञ्च द्वादशाहं कणाग्रतः ॥ ११५ ॥ कार्पा सकीटजौर्णानां द्विशफैकशफस्य च ॥ पक्षिगन्धौषधीनाञ्च रज्जुवाञ्चैव 'व्यहं पयः ॥ ११६ ॥ एवमेतैर्व्रतैश्चोरोग्हित पापं स्तेयमुद्भूत द्विजः ॥ अगम्यामभिगम्याथ व्रतैर्विमरपामुदेत् ॥ ११७ ॥ गुरुतल्पव्रतं कुर्याद्द्विः सिका स्वयोनिषु ॥ सख्युः पुत्रस्य च स्त्रीषु कुमा रीष्वन्त्यजासु चा॥ ११८॥ पैतृष्वस्रेयीं भगिनीं स्वस्त्रीयां मातुरेव च॥मातुश्च भ्रातुराप्तस्य गत्वा चान्द्रायणं चरेत् ॥११९॥एताः स्त्रियस्तु भार्यार्थे नोपयच्छेद बुद्धमान॥ ज्ञातिस्तन्नातुपेयास्ताः पतन्ति ह्युपयच्छ्रधः ॥ १२०॥ अमातुषीषु पुरुष उदक्यायामयोनिषु ॥ रेतः सिक्त्वा जले चैव कृच्छ्रं सान्तपनं चरेत् ॥ १२१ ॥ मैथुनं तु समासेव्य पुंसि योषिति वा द्विजः ॥ गोयानेऽप्सु दिवा चैव सवासा स्नानमाचरेत् ॥ १२२ ॥ चाण्डालास्त्य ज्रियं गत्वा भुक्त्वा च प्रतिगृह्य च ॥ पतत्यज्ञानतो विप्रो ज्ञानात्साम्यन्तु गच्छति ॥ १२३ ॥ विप्रदुष्टां स्त्रियं भर्ता निरुन्ध्यादेकवेश्मनि ॥ यत्पुंसः परदारेषु तच्चैनां चारयेद्व्रतम्॥ १२४॥सा चेत्पुनः प्रदुष्येत सदृशेनोपमन्त्रिता ॥ कृच्छ्रं चान्द्रायणं चैव तदस्याः पावनं स्मृतम् ॥१२५॥ यत्करोत्येकरार्थेण वृषलीसेवनं द्विजः ॥ तद्वैक्षभुग्जपन्नित्यं त्रिभिर्वर्षैरपोति ॥१२६॥ एषा पापकृतामुक्तो चतुर्णामपि निष्कृतिः ॥ पतितैः

॥४०१॥

संयुक्तानां चेमाः शृणुत निष्कृतीः ॥ १२७ ॥ संवत्सरेण पतति पतितेन सहाचरन् ॥ याजनाध्यापनाद्यौनान्न तु यानासनाशनात् ॥ १२८ ॥ यो येन पतितेनैवं संसर्गं याति मानवः ॥ स तस्यैव व्रतं कुर्यात्तत्संसर्गस्य शुद्धये ॥ १२९॥ पतितस्योदकं कार्यं सपिण्डैर्बान्धवैर्बहिः ॥ निन्दिते ऽहनि सायाह्ने ज्ञात्यूर्त्विग्गुरुसन्निधौ ॥ १३० ॥ दासीघटमपां पूर्णं पर्यस्येत्प्रेतवत्सदा ॥ अहोरात्रमुपासीरन्नशौचं बान्धवैः सह ॥ १३१ ॥ निवर्तेरंस्तस्मात्तु सम्भाषणसहासनै ॥ दायादस्य प्रदानञ्च यात्रामेव च लौकिके ॥ १३२॥ ज्येष्ठता च निवर्तेत ज्येष्ठं वापि च यद्वसु ॥ ज्येष्ठांशं प्राप्नुयाच्चास्य यवीयान्गुणतोऽधिकः ॥ १३३॥ प्रायश्चित्ते तु चरिते पूर्णकुम्भमपां नवम् ॥ तेनैव सार्धं प्रास्येयुः स्नात्वा पुण्यजलाशये ॥ १३४ ॥ स त्वप्सु तं घटं प्रास्य प्रविश्य भवनं स्वकम् ॥ सर्वाणि ज्ञातिकार्याणि यथापूर्वं समाचरेत् ॥ १३५ ॥ एतमेव विधिं कुर्याद्योषित्सु पतिता स्वपि ॥ वस्त्रान्नपानं देयं तु वसेयुश्च गृहान्तिके ॥ १३६ ॥ एनस्विभिर्निर्णिक्तैर्नार्थं कञ्चित्समाचरेत् ॥ कृतनिर्णेजनांश्चैवान्न जुगुप्सेत कर्हि चित् ॥ १३७॥ बालघ्नांश्च कृतघ्नांश्च विशुद्धानापि धर्मतः ॥ शरणागतहन्तॄंश्च स्त्रीहन्तॄंश्च न संवसेत् ॥ १३८॥येषां द्विजानां सावित्री नानूच्येत यथा विधि ॥ तांश्चारयित्वा त्रीन्कृच्छ्रान्यथाविध्युपनाययेत् ॥ १३९ ॥ प्रायश्चित्तं चिकीर्षन्ति विकर्मस्थास्तु ये द्विजाः ॥ ब्रह्मणा च परित्यक्ता स्तेषामप्येतदादिशेत् ॥ १४० ॥ यद्गर्हितेनार्जयन्ति कर्मणा ब्राह्मणा धनम् ॥ तस्योत्सर्गेण शुद्ध्यन्ति जप्येन तपसैव च ॥ १४१ ॥ जपित्वा त्रीणि सावित्र्याः सहस्राणि समाहितः ॥ मासं गोष्ठे पयः पीत्वा मुच्येतासत्प्रतिग्रहात् ॥ १४२ ॥ उपवासकृशःश्रान्तं तु गोव्रजानुगतङ्गतम् ॥ प्रणतं परिपृच्छेयुः साम्यं सौम्येच्छसीति किम् ॥ १४३ ॥ सत्यमुक्त्वा तु विप्रेभ्यो विकिरेद्यवसं भुवम् ॥ गोभिः प्रवर्तिते तीर्थे कुर्वन्नुत्सृज्य परि ग्रहम् ॥ १४४ ॥ व्रात्यानां याजनं कृत्वा परेषामन्त्यकर्म च ॥ अभिचारमहीनं च त्रिभिः कृच्छ्रैर्विशुद्ध्यति ॥ १४५ ॥ शरणागतं परित्यज्य वेदं विप्लाव्य च द्विजः ॥ संवत्सरं यवाहारस्तत्पापमपसेधति ॥ १४६ ॥ श्वसृगालखरैर्दष्टो ग्राम्यैः क्रव्याद्भिरेव च ॥ खराश्वोष्ट्रवराहेभ्य प्राणा यामेन शुद्ध्यति ॥ १४७॥ षष्ठान्नकालता मासं संहिताजप एव वा ॥ होमाश्च सकला नित्यमपाङ्क्त्यानां विशोधनम् ॥ १४८ ॥ उष्ट्रयानं समारुह्य खरयानञ्च कामतः ॥ स्नात्वा च विप्रो दिग्वासाः प्राणायामेन शुद्ध्यति ॥ १४९ ॥ विनाद्भिरप्सु वाप्यन्तः शरीरे सन्निवेश्य तु ॥ सचैलो बहिराप्लुत्य गामालभ्य विशुद्ध्यति ॥ १५० ॥ वेदोदितानां नित्यानां कर्मणां समतिक्रमे ॥ स्नातकव्रतलोपे च प्रायश्चित्तमभोजनम् ॥ ॥ १५१ ॥ हुङ्कारं ब्राह्मणस्योक्त्वा त्वङ्कारं तु गरीयसः ॥ स्नात्वानश्नन्नहःशेषं चाभिवाद्य प्रसादयेत् ॥ १५२ ॥ ताडयित्वा तृणेनापि कण्ठे

॥०ध०॥ ॥४१०॥

अ० २३६

बद्ध्वा च वाससा ॥ विवादे वापि निर्जित्य प्रणिपत्य प्रसादयेत् ॥ १५३ ॥ अवगूर्य त्वब्दशतं सहस्रमामहन्त्यु ॥ १५५ ॥ अवगूर्या
नरकं प्रतिपद्यते ॥ १५४ ॥ शोणितं यावतः पांसुन्संगृह्णाति द्विजन्मनः ॥ तावन्त्यब्दसहस्राणि तत्कर्ता नरकं वसेत् ॥ १५५ ॥ अवगूर्या
चरेत्कृच्छ्रमतिकृच्छ्रं निपातने ॥ कृच्छ्रातिकृच्छ्रं कुर्वीत विप्रस्योत्पाद्य शोणितम् ॥ १५६ ॥ वेदाभ्यासोन्वहं शक्त्या महायज्ञाक्रिया क्षमा ॥
नाशयन्त्याशु पापानि महापातकान्यपि ॥ १५७ ॥ यथैव तेजसा वह्निः प्रातार्निर्द्दहति क्षणात् ॥ तथा ज्ञानाग्निना पापं कृत्स्नं दहति वेद-
वित् ॥ १५८ ॥ पापानुरूपं पुरुषस्य शक्तिं देशं च कालं च तथा विदित्वा ॥ अनुक्तशुद्धिः प्रविचार्या देया उक्ते तथैवञ्च निरूपणीयम् ॥ १५९ ॥
इति श्रीविष्णुधर्मोत्तरे तृ० ख० मार्कण्डेयवज्रसंवादे हंसगीतासु प्रायश्चित्तवर्णनो नाम चतुस्त्रिंशदधिकद्विशततमोऽध्यायः ॥ २३४ ॥
हंस उवाच ॥ इत्येतेद्दानसामुक्तं प्रायश्चित्तं यथाविधि ॥ अत ऊर्ध्वं रहस्यानां प्रायश्चित्तं निबोधत ॥ १ ॥ सव्याहृतीकाप्रणवाः प्राणाया-
मास्तु षोडश ॥ अपि भ्रूणहनं मासात्पुनन्त्यहहरहः कृताः ॥ २ ॥ कौत्सं जप्त्वाब्द इत्येतद्वासिष्ठं च त्र्यचं प्रति ॥ माहित्रीं शुद्धवत्यश्च सुरा
पोऽपि विशुध्यति ॥ ३ ॥ सकृज्जप्त्वास्थ वामीयं शिवसंकल्पमेव च ॥ अपहृत्य सुवर्णं तु क्षणाद्भवति निर्मलः ॥ ४ ॥ हविष्पन्तीयमभ्यस्य
नतमहं इतीति च ॥ जप्त्वा तु पौरुषं सूक्तं मुच्यते गुरुतल्पगः ॥ ५ ॥ एनसां स्थूलसूक्ष्माणां चिकीर्षुरपनोदनम् ॥ अपै तृचं जपेदब्दं
यत्किञ्चिदमितीति च ॥ ६ ॥ प्रतिगृह्याप्रतिग्राह्यं भुक्त्वा चान्नं विगर्हितम् ॥ जपस्तरत्समन्दीयं पूयते मानवस्त्र्यहात् ॥ ७ ॥ सोमारौद्रं तु बह्वेनोनरः
मासमभ्यस्य शुध्यति ॥ सवन्त्यामाप्वन्नास्नानमर्चणमिसिति च तृचम् ॥ ८ ॥ अब्दैार्घमन्दिरित्येतेद्नस्त्वं समर्क जपेत् ॥ अम्ररस्तन्व्
कृत्वाप्सु मासमासीत भैक्ष्यभुक् ॥ ९ ॥ मन्त्रैः शाकलहोमीयैरब्दं हुत्वा घृतं द्विजः ॥ सुगुर्वप्यपहन्त्येनो जत्वा वा नम इत्यृचम् ॥ १० ॥
उपपातकसंयुक्तोगच्छेद्द्वाः समाहितः ॥ अभ्यस्याब्दं पावमानीर्भैक्ष्याहारो विशुध्यति ॥ ११ ॥ अरण्ये वा त्रिश्श्वस्य प्रयतो वेद्संहिताम् ॥
मुच्यते पातकैः सर्वैः पराकैः शोधितस्त्रिभिः ॥ १२ ॥ त्र्यहं तूपवसेद्यस्तु त्रिरात्रोत्युपुथ्व्रपः ॥ मुच्यते पातकैः सर्वैर्द्विजपीत्वाघमर्षणम् ॥ १३ ॥
ऋक्संहितां त्रिश्श्वस्य यजुषां वा समाहितः ॥ साम्नां वा सरहस्यानां सर्वपापैः प्रमुच्यते ॥ १४ ॥ यद्धार्चिकं तत्स्य परस्य पुंसो यस्मिन्नि
बद्धं भुवनं समग्रम् ॥ जपन्तमोङ्कारमतन्द्रितात्मा पापानि शीघ्रं प्रजहाति मर्त्यः ॥ १५ ॥ इति श्रीविष्णुधर्मोत्तरे तृ० ख० मार्कण्डेय
वज्रसंवादे हंसगीतासु रहस्यप्रायश्चित्तवर्णनो नाम पञ्चत्रिंशदधिकद्विशततमोऽध्यायः ॥ २३५ ॥ ऋषय ऊचुः ॥ कर्माणि श्रोतुमिच्छा

॥४१०॥

...मो यैः पापं विप्रणश्यति ॥ प्राप्नोत्यभ्युदयं चैव पुरुषः पक्षिसत्तम ॥ १ ॥ हंस उवाच ॥ त्र्यहं प्रातस्त्र्यहं सायं त्र्यहमयाचितम् ॥ त्र्यहं परञ्च नाश्नीयात्प्राजापत्यं चरन्द्विजः ॥ २ ॥ गोमूत्रं गोमयं क्षीरं दधि सर्पिः कुशोदकम् ॥ एकरात्रोपवासश्च कृच्छ्रं सान्तपनं स्मृ- तम् ॥ ३ ॥ एकैकं ग्रासमश्नीयात्त्र्यहाणि त्रीणि पूर्ववत् ॥ त्र्यहं चोपवसेद्यस्त्वतिकृच्छ्रं चरन्द्विजः ॥ ४ ॥ तप्तकृच्छ्रं चरन्विप्रो दधिक्षीर- घृतानिलान् ॥ प्रतित्र्यहं पिबेदुष्णं सकृत्स्नायी समाहितः ॥ ५ ॥ यतात्मनोऽप्रमत्तस्य द्वादशाहमभोजनम् ॥ पराको नाम कृच्छ्रोऽयं सर्वपापा- पनोदनः ॥ ६ ॥ यथाकथञ्चित्पिण्डानां तिस्रोऽशीतिः समाहितः ॥ मासेनाश्नन्हविष्यस्य चन्द्रस्यैति सलोकताम् ॥ ७ ॥ महाव्याहृतिभिर्होमः कर्तव्यः स्वयमन्वहम् ॥ अहिंसासत्यमक्रोधमार्जवं च समाचरेत् ॥ ८ ॥ त्रिर्दिने त्रिर्निशायाञ्च सवासा जलमाविशेत् ॥ स्त्रीशूद्रपतितांश्चैव नाभिभाषेत कर्हिचित् ॥ ९ ॥ स्थानासनाभ्यां विहरेदशक्तोऽधःशयीतवा ॥ ब्रह्मचारी व्रती च स्याद्गुरुदेवद्विजार्चकः ॥ ॥ १० ॥ सावित्रीं च जपेन्नित्यं पवित्राणि च शक्तितः ॥ सर्वेष्वेव व्रतेष्वेवं प्रायश्चित्तार्थमादितः ॥ ११ ॥ कृत्वा पापं हि संतप्य तस्मात्पापात्प्रमुच्यते ॥ नैवं कुर्याम्पुनरिति निवृत्त्या पूयते तु सः ॥ १२ ॥ ख्यापनेनानुतापेन तपसाऽध्ययनेन च ॥ पापकृन्मुच्यते पापात्तथा दानेन चापदः॥१३॥यथास्मिन्कर्मण्यपि कृते मनसः स्यादलाघवम् ॥ तस्मिंस्तावत्तपः कुर्याद्यावत्तुष्टिकरं भवेत् ॥१४॥ पापस्य नाशस्तपसा विधेयो धर्मस्य वृद्धौ तपसा विधिना ॥ पापप्रणाशे त्वथ धर्मवृद्धौ कामाः समृद्ध्यन्ति नरस्य विप्राः ॥ १५ ॥ इति श्रीविष्णु- धर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे मुनीन्प्रति हंसगीतासु कृच्छ्रसान्तपनादिप्रायश्चित्तवर्णनो नाम षट्त्रिंशाधिकद्विशततमोऽध्यायः ॥२३६॥ ॥ ऋषय ऊचुः ॥ ॥ कर्मणा केन पुरुषः किमाप्नोति महामते ॥ एतन्नः संशयं छिन्धि द्विजानां द्विजसत्तम ॥ १ ॥ ॥ हंस उवाच ॥ दानेन भोगी भवति तपसा विन्दते महः ॥ वृद्धोपसेवया विप्राः प्राज्ञो भवति मानवः ॥ २ ॥ यज्ञेन लोकानाप्नोति पापनाशं हुतेन च ॥ जप्येन कामानाप्नोति सत्येन च परां गतिम् ॥ ३ ॥ स्नानेन शुद्धिमाप्नोति प्राणायामाद्विशोषतः ॥ ध्यानेन धारणाभिश्च पदमाप्नोत्यनुत्तमम् ॥ ४ ॥ दमेन सर्वमाप्नोति यत्किञ्चिन्मनसेच्छति ॥ शौचेन देवाः प्रीयन्ते प्रीयन्ते चोपवासतः ॥ ५ ॥ उपवासव्रतस्नानां कामावाप्तिर्ध्रुवं भवेत् ॥ ददाति विपुलाम्भोगांन्संग्रामेष्वपलायिनाम् ॥ ६ ॥ मधुमांसनिवृत्तोऽपि परं सौख्यमुपाश्नुते ॥ अहिंसया त्वरोगी स्याद्दीर्घायुश्चाप्यहिंसया ॥७॥ रूपलावण्यसौभाग्यधनधान्ययुतः सदा ॥ तीर्थानुसरणाद्विप्राः पापनाशमवाप्नुयात् ॥८॥ सर्वकल्मषहीनश्च याँल्लोकान्मनसेच्छति ॥ प्रतित्रयमदा

नेन स्थानमाप्नोत्यनुत्तमम् ॥९॥ पूज्यपूजयिता विप्रा यशसा युज्यते नरः ॥ अभिवादनशीलस्य नित्यं वृद्धोपसेविनः॥१०॥समं कृत्वा विवर्धन्ते कीर्तिरायुर्यशो बलम् ॥ ११ ॥ ऋतुकालादृते भार्यां तथैव परिवर्जयेत् ॥ सर्वकामानवाप्नोति ब्रह्मलोकं च गच्छति ॥ १२ ॥ उभौ कालौ तु भुञ्जानस्त्वन्तरा परिवर्जयेत् ॥ पानीयमपि विप्रेन्द्रा ब्राह्मं लोकं प्रपद्यते ॥ १३ ॥ अनेनैव विधानेन देशकालाशनो नरः ॥ सर्वान्कामानवा- प्नोति गतिमाप्नोत्यभीप्सिताम् ॥ १४ ॥ तथा भोजनकाले तु मौनं यस्तु समाचरेत् ॥ उपवासफलन्तस्य प्रत्यहं भोजने स्मृतम् ॥ १५ ॥ सर्वान्कामानवाप्नोति मौनी नक्ताशनस्सस्कृत ॥ नाप्नोति नारकं दुःखं नित्यस्नायी नरो बहिः ॥१६॥ यो दद्यात्परिक्लृप्तमन्नमध्वनि वर्तते ॥ श्रान्तायादृष्टपूर्वाय तस्य पुण्यफलं महत् ॥ १७ ॥ पाद्यमासनमेवाथ दीपंमन्नं प्रतिश्रयम् ॥ दद्यादतिथिपूजार्थं यज्ञाः पञ्च सुदक्षिणाः॥ १८ ॥ चक्षुर्दद्यान्मनो दद्याद्वाचं दद्याच्च सूनृताम् ॥ अनुव्रजेदुपासीत यज्ञाः पञ्च सुदक्षिणाः ॥१९॥ स्थण्डिलेषु शयानानां गृहाणि शयनानि च ॥ चीर वल्कलसंवीतवासांस्याभरणानि च ॥२०॥ वाहनान्यनयानानि योगात्मनि तपोधने ॥ अग्नीनुपशयानस्य राजार्षोपसुच्यते ॥ २१॥ रसानां प्रति संहारे सौभाग्यमधिगच्छति ॥ आमिषप्रतिसंहारे सर्वान्कामानवाप्नुयात् ॥२२॥ अर्वाक्शिरास्तु यो लम्बत्तोयवासं च यो वसेत् ॥ सततं चैक शायी च लभते चेप्सितां गतिम् ॥२३॥ वीरसनं वीरशय्यां वीरस्थानमुपासतः ॥ अक्षयास्तस्य वै लोकाः सर्वकामप्रदाः स्मृताः ॥ २४ ॥ धनं भवति दानेन मौनेनाज्ञां प्रयच्छति ॥ उपभोगांश्च तपसा ब्रह्मचर्येण जीवितम् ॥ २५ ॥ रूपमैश्वर्यमारोग्यमहिंसाफलमश्नुते ॥ फलं फलाशिनो राज्यं स्वर्गः पर्णाशिनां फलम् ॥२६॥ पुष्पाशिनां तथैश्वर्यं धनं शाकाशिनां महत् ॥ पयोभक्ष्या दिवं यांति अभ्रभक्ष्याश्शमितां गतिम् ॥२७॥ दंतोलूखलिको विप्रो यश्चाश्मकुट्टनो जीवति ॥ कापोतीमाश्रितो वृत्तिं यथेष्टाङ्काङ्क्षितामाप्नुयात् ॥ २८ ॥ प्रायोपवेशनाद्राज्यं सर्वत्र फलमश्नुते॥ स्वयं सयेन लभते दीक्ष्या कुलमुत्तमम् ॥ २९ ॥ गवोद्वाः शाकदीक्षायाः स्वर्गकामी हुताशनः ॥३०॥ त्र्यहक्षिप्रेणवणं ज्ञात्वा वायुं पीत्वा क्रतुं लभेत ॥ यज्ञयाजी तथाप्नोति याँल्लोकान्मनसेच्छति ॥ ३१ ॥ उपवासं च दीक्षां चाप्यभिषेकं च वै द्विजाः ॥ कृत्वा द्वादशवर्षाणि वीरस्थानाद्विशिष्यते ॥३२॥ अधीत्य सर्ववेदान्वै सर्वदुःखाद्विमुच्यते ॥ मानसं हि धनं धर्मः स्वर्गलोकमवाप्नुयात् ॥ ३३॥येन प्रीणाति पितरं तेन प्रीतः प्रजापतिः॥ प्रीणाति मातरं येन पृथिवी तेन पूजिता ॥ ३४॥ येन प्रीणात्युपाध्यायन्तेन स्याद्ब्रह्म पूजितम्॥ सर्वे तस्यादृता धर्मा यस्यैते त्रय आदृताः॥ ३५॥ अनादृतास्तु यस्यैते सर्वास्तस्याफलाः क्रियाः ॥ गुरुशुश्रूषया विद्या नित्यं श्राद्धेषु सन्ततिः॥३६॥ नित्यस्नायी भवेद्दक्षः संध्यं तु द्वे जपन्सदा॥

द्विजशुश्रूषया राज्यं द्विजत्वं वापि पुष्कलम् ॥३७॥ देवशुश्रूषया कामान्यथेष्टान्प्राप्नुयान्नरः ॥ मान्त्वदः सर्वभूतानां सर्वलोकैः प्रपूज्यते ॥ ३८ ॥ केशश्मश्रुनखायत्तः त्वभ्वा भवति सन्ततिः ॥ गन्धमाल्यान्निवृत्त्या तु कीर्त्तिर्भवति पुष्कला ॥ ३९ ॥ पञ्चिर्यारंगतः सम्यङ् न रोगै-
स्त्वभिभूयते ॥ गोलोक्रमाप्नोति तथा गवाञ्च परिचर्यया ॥ ४० ॥ देवमाल्यापनयनात्पादशौचाद्विजस्य तु ॥ श्रान्तसंवाहनाद्विप्राः सुखम-
त्यन्तमश्नुते ॥ ४१ ॥ जले सप्तसहस्राणि एकादश हुताशने ॥ भुञ्जप्रभाते च दश संग्रामे विंशतिस्तथा ॥ ४२ ॥ नगे वर्षस-
हस्राणि तनुं त्यक्त्वा तु मोदते ॥ अनाशके तु धर्मज्ञाः परिसंख्या न विद्यते ॥ ४३ ॥ मेरो साधयते राज्यं चयष्टं
भुवि जायते ॥ महाप्रस्थानमाविश्य यथेष्टां गतिमाप्नुयात् ॥ ४४ ॥ वह्निप्रवेशनंनियतंममीहं लोकमश्नुते ॥ वारुणं लोकमा-
प्नोति त्यक्ताम्भसि तनुं नरः॥४५॥अनातुरो व्याधिरहितो न त्यजेदात्मनस्तनुम् ॥ असूयर्या नाम ते लोका अन्धेन तमसा वृताः ॥ तांस्ते
प्रेत्याभिगच्छन्ति ये के चात्महनो जनाः ॥४६॥ अनिवृत्तैरात्मनो ज्ञात्वा मृत्युकालमुपस्थितम् ॥ व्याधितो भिषजा त्यक्तः पूर्ण चायुरपि वासकै ॥
॥४७॥यथायथागमानुसारेण संत्यजेदात्मनस्तनुम् ॥ तस्मिन्काले तनुत्यागाद्यथोक्तं फलमाप्नुयात् ॥४८॥ आयुष्मत्तु परं दृष्टं मरणं ब्राह्मण द्वयोः ॥
क्षत्रियस्य तु सङ्ग्रामे मृते भर्त्तरि योषितः ॥४९॥ ब्राह्मणार्थे गवांर्थे वा यस्त्यजेदात्मनस्तनुम् ॥ आत्मानं शूपमुत्सृज्य स यज्ञोऽन्तन्दक्षिणः ॥
॥ ५० ॥ शष्पं मृगस्त्वोस्तृष्टं यो मृगेः सह सेवते ॥ दीक्षितो वै मुदा युक्तः स गच्छत्यमरावतीम् ॥ ५१ ॥ रोवैलं शोणिपूर्ण वा तद्वतं यो निय-
वते ॥ शान्तो यो मनसा नित्यं स गच्छेत्परमाङ्गतिम् ॥ ५२ ॥ वायुभक्ष्योम्बुभक्ष्यो वा फलमूलाशनोपि वा ॥ यक्षैश्चर्य्यमवादाय मोदतेऽप्स-
रसाङ्गणैः ॥ ५३ ॥ अमियोगवहो ग्रीष्मे विधिदृष्टेन कर्मणा ॥ तीर्त्त्वा द्वादशवर्षाणि राजा भवति पार्थिवः ॥ ५४ ॥ आहारनियमं कृत्वा मुनि-
र्द्वादशवार्षिकम् ॥ व्रतं संसाध्य काले तु राजा भवति पार्थिवः ॥ ५५ ॥ स्थण्डिले शुद्धमाकाशं परिगृह्य समन्ततः ॥ प्रविश्य न मुदा युक्तो
दीक्षां द्वादशवार्षिकीम् ॥ ५६ ॥ स्थण्डिलस्य फलान्याहुर्यनानि शयनानि च ॥ गृहाणि शयनाहीणि चन्द्रशुभ्राणि ब्राह्मणाः ॥ ५७ ॥
आत्मानमुपजीवन्त्यो नियतो नियताशनः ॥ देहं चानशने त्यक्त्वा स स्वर्गं समुपाश्नुते ॥ ५८ ॥ आत्मानमुपजीवन्त्यो दीक्षां द्वादशवा-
र्षिकीम् ॥ अश्मना चरणौ हत्वा गुह्यकेषु च मोदते ॥ ५९ ॥ साधयित्वात्मनात्मानं निर्द्वन्द्वो निष्परिग्रहः ॥ तीर्त्त्वा द्वादशवर्षाणि दीक्षामेकां


१ 'निर्धौतम्' इति ख० पा० ।

मनो गताम् ॥ स्वर्गलोकमवाप्नोति देवैश्च सह मोदते ॥ ६० ॥ आत्मानमुपजीवन्त्यो दीक्षां द्वादशवार्षिकीम् ॥ हुत्वाग्नौ देहमुत्सृज्य वनिलोके महीयते ॥ ६१ ॥ यस्तु विप्रो यथान्यायं दीक्षितो नियतेन्द्रियः ॥ आत्मन्यात्मानमाधाय निर्द्वन्द्वो धर्मलालसः ॥ ६२ ॥ चीर्त्वा द्वादश वर्षाणि दीक्षामेतां मनोगताम् ॥ अणीलहितः स्कन्धे बद्ध्वा गच्छत्यनावृतम् ॥ ६३ ॥ वीरद्वाद्धमनानन्नीय वीरहासनसत्सद्म ॥ वीरस्थायी च सततं स वीरगतिमाप्नुयात् ॥ ६४ ॥ धीरलोके गतो वीरो वीरयोगवहः सदा ॥ सत्यस्यः सर्वमुत्सृज्य दीक्षितो नियतः शुचिः ॥ शक्रलोकगतः श्रीमान्मोदते दिवि देववत् ॥ ६५ ॥ उपवासव्रतैर्दान्ता अहिंसासत्यवादिनः ॥ संसिद्धाः प्रेत्य गन्धर्वैः सह मोदन्त्यनामयाः ॥ ६६ ॥ मण्डूकयोगशयना यथास्थानं यथाविधि ॥ दीक्षां चरति धर्मात्मा स नागैः सह मोदते ॥ ६७ ॥ आर्द्रवासास्तु शिशिरे व्रतं वहति यो नरः ॥ द्वादशाब्दानि नियतं राजा भवति पार्थिवः ॥ ६८॥ वर्षरात्रे तथा पञ्च भवत्याकाशासाधकः ॥ अनपस्नीर्थशायी च राजा भवति पार्थिवः॥ ६९ ॥ त्यक्त्वा वनगताः प्राणांस्तत्पूर्वास्त्वथ परान् ॥ नरंस्तारयितुं दुःखान्नात्मानं च विशेषतः ॥ ७० ॥ येनयेन शरीरेण यद्यत्कर्म करोति यः ॥ तेनतेन शरीरेण तत्तत्फलमुपाश्नुते ॥ ७१ ॥ यस्यांयस्यामवस्थायां यत्करोति शुभाशुभम् ॥ तस्यांतस्यामवस्थायां तत्फलमुपाश्नुते ॥ ७२ ॥ नरेण हि कृतं कर्म सदा पश्चेन्द्रियैरिह ॥ ते ह्यस्य साक्षिणो नित्यं षष्ठ आत्मा तथैव च ॥ ७३ ॥ यथा धेनुसहस्रेषु वत्सो विन्दति मातरम् ॥ एवमेतत्कृतं कर्म कर्तारमनुविन्दति॥७४॥ अवश्यं हि कृतं कर्म भोक्तव्यं द्विजपुङ्गवाः ॥ सुकृतं दुष्कृतं वापि तस्मात्सुकृतमाचरेत् ॥ ७५॥ अद्यो- द्यमानानि यथा पुष्पाणि च फलानि च ॥ स्वकालं नातिवर्तन्ते तथा कर्म पुरा कृतम् ॥ ७६ ॥ पून्यन्ते भवति वृथाभिभूज्यमाने पतस्त्ये भवति वृथाभिषूयमाने ॥ यच्चाग्रे भवति वृथाभिभूयमाने तत्सर्वं भवति वृथामिधीयमाने ॥ ७७॥ इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे मुनीन्प्रति हंसगीतासु कर्मफलविवेको नाम सप्तत्रिंशदुत्तराद्विशततमोऽध्यायः ॥२३७॥ ऋषय ऊचुः ॥ हृष्टादिष्टस्य भवता देहत्यागः प्रकीर्तितः॥ तस्मादस्माकमाचक्ष्व त्वरितानि त्वरितानि महामते ॥ १ ॥ हंस उवाच ॥ प्रवृत्तैर्विप्रवृत्तिस्तृणां बुद्धीन्द्रियशरीरिणा ॥ अकस्माद्दृश्यते यषां तेषां मरणामादिशेत् ॥ २॥ एतत्तस्मात्सादुकथितं विस्तरोऽद्यमन्तः परम् ॥ सूक्ष्मारिष्टाववोचार्थं तथा स्पर्शार्थमेव च ॥३॥ न तु कर्मणि यो व्यग्रे प्रभाकर्म निराभृतः ॥ छायां चन्द्रार्कयोर्वापि तयोश्च गमनं तथा ॥ ४॥ देवमार्गे प्रभा वह्नेर्ध्रुवं तारामरुन्धतीम् ॥ पश्यत्यदृष्टामन्यैर्वा मृत्युः स्यातत्स्य वत्सरात् ॥५॥ सप्तभामातथान्येषां प्रभां यस्तु न पश्यति ॥ तस्यैकादशमे मासे मरणं परिकीर्तितम् ॥ ६ ॥ सुवर्णे रजतं मूत्रं पुरीषं वमते निशि ॥ स्वप्ने स


१ 'वसते' इति पाठान्तरम् ।

मासे दशमे प्रयाति यममन्दिरम् ॥ ७ ॥ रक्षःप्रेतपिशाचानां यक्षाणामपि दर्शनात् ॥ अतीन्द्रियाणामन्येषां नवमे मरणं ध्रुवम् ॥ ८ ॥ दौर्बल्यं जायते यस्य बहुसम्पन्नभोजिनः ॥ अनश्नन्नोऽपि पीनत्वमष्टमे स्यात्स मृत्युभाक् ॥ ९॥ पदं चासकलं यस्य खण्डं विकृतमेव वा ॥ पांसुकर्दमयोश्चैव्यस्सप्तमे मासि मृत्युभाक् ॥१०॥ क्रव्यादामः पक्षिणो यस्य मूर्ध्नि लीयन्ति वै द्विजाः॥ काकश्र्येनादयस्तस्य षष्ठे मरणमादिशेत्॥ ॥ ११॥ यस्य गोमयचूर्णाभं शरीरान्मुच्यते रजः ॥ स्वदेहच्छायाविकृतिः पञ्चमे स तु मृत्युभाक्॥ १२ ॥ अनभ्रे विद्युत्तं दृष्ट्वा चतुर्थे म्रियते ध्रुवम् ॥ ॥ १३ ॥ शक्रचापं जले दृष्ट्वा गगनं वा द्विजोत्तमाः ॥ अविद्यमानं धर्मज्ञस्तृतीये म्रियते ध्रुवम् ॥ १४ ॥ अवघट्टनं नेत्रस्य विना रोगं यदा भवेत् ॥ एकस्य यदि वा दृशोरुत्थानभ्रंशो विधीयते ॥ १५॥ मासेन विकृता नासा वक्रा च मरणप्रदा ॥ १६॥ अर्धमासेन दुर्गन्धप्रभवं श्वश- रीरतः ॥ परचक्षुषि यश्छायामात्मनस्तु न पश्यति॥ स पश्यति महाभागा द्वादशाहैर्न वै यमम्॥ १७॥निर्वाणदीपगन्धं तु यस्तु नाघ्राति मानवः ॥ सप्ताहेन तु धर्मज्ञाः पश्यत्यर्कसुतं ध्रुवम् ॥१८॥ सद्यः स्नातातुलितस्य हृत्पादादिशिरसां भवेत् ॥ क्षिप्रं संशोषणं तस्य त्र्यहान्मरणमादिशेत् ॥ १९॥ गण्डयोस्तिलकाक्रान्तन्वर्णविकृतमेव च ॥ अहोरात्रेण मरणं पुरुषस्य समादिशेत् ॥२०॥ अङ्गुलिभ्यान्तु पिहिते श्रोत्रे तु न शृणोति यः ॥ २१ ॥ शब्दं न पश्येत्तु मुखं निर्मले दर्पणे तथा ॥ पश्येच्च पुरुषान्प्रातांन्सम्यो मरणमादिशेत् ॥ २२ ॥ मूर्ध्निभूमिविनाशो तु जलाद्रांष्ट्रा तदुद्भवैत् ॥ नासाभङ्गेन धर्मज्ञा ब्र्यान्मरणमादिशेत् ॥ २३ ॥ स्पर्शदृष्टिरसघ्राणशब्दचेष्टाविपर्ययः ॥ दृश्यते तु सुपूर्णाणां स्वस्थानुत्तुरगणिणाम् ॥ २४ ॥ क्ष्ऋणं खगं वरं लक्ष्म शीतोष्णस्य विपर्ययः ॥ अकस्माद्वेति यो देही दुर्लभं तस्य जीवितम् ॥२५॥तोयन्मन्दिनीं तोयं मेदिनीमिव पश्यति ॥ अतीन्द्रियं निरीक्षेत न वीक्षेत करस्थितम् ॥ २६ ॥ पृथिवीमिव चाकाशं चाकाशमिव मेदिनीम् ॥ आकाशमिव चात्मानं पूर्णिम्दुमथतिथी ॥ २७ ॥ शुक्लरूपण्वि पर्यासं स्थूलसूक्ष्मविपर्ययम् ॥ विपर्यासं सदसतां दृश्यते जीवितक्षये ॥ २८ ॥ षण्णां रसानां पर्यासं इष्टानिष्टविपर्ययः॥ सर्वथा ग्रहणं पश्यन्नियतातीन्द्रियग्रहः ॥ २९ ॥ अभ्रद्युत्योलैत्यमन्त्यधं मरणायापिजायते ॥ शोमनाशीमनग्रेणग्रहणे तु विपर्ययः ॥ ३० ॥ इष्टे रनिष्टैः संयोगानेर्धरिष्टसहसमागमः ॥ भयधैर्याविपर्यासो जायते प्राणसंक्षये ॥ ३१ ॥ अतिदीर्घोऽतिह्रस्वो वा सतप्रस्कोऽतिशीतलः ॥ उच्छ्वास प्राणसन्त्यागे गतासूनां प्रजायते ॥ ३२ ॥ अनाहतानां शब्दः स्यादाहतानामशब्दता ॥ आहतानामशब्दत्वं मुमूर्षूणां नृणां गृहे ॥ ३३ ॥ उदक् प्रवृत्ते दिवसस्य नाथे पुण्ये दिने मोहविवर्जितस्य ॥ नारायणे चेतसि संस्थिते वा मृत्युर्भवेत्पुण्यवतो द्विजेन्द्राः ॥ ३४ ॥ इति श्रीविष्णुधर्मो

वि० ध० | तृ० खं० ॥४१३॥ | अ० २४१

तरे तृतीयकाण्डे मार्कण्डेयवज्रसंवादे ऋषीन्प्रति हंसगीतास्वरिष्टयोगवर्णनो नामाष्टत्रिंशदधिकद्विशततमोऽध्यायः ॥ २३८ ॥ ऋषय ऊचुः ॥
के दोषाः पापशमना मनुष्याणां विनाशकाः ॥ के गुणाश्च महादेव नित्यमभ्युदयात्मकाः ॥ १ ॥ हंस उवाच ॥ सर्वेषामेव दोषाणा
मज्ञानंः परमो मतः ॥ अज्ञाश्चाश्रद्दधानश्च संशयात्मा विनश्यति ॥ २ ॥ कामः क्रोधस्तथा लोभो हर्षो मानः सदैव च ॥ अज्ञानेनैव
वृत्तं जन्तुं विशन्ते द्विजोत्तमाः ॥ ३ ॥ अज्ञानादेव पापानि विचिनोत्यविचक्षणः ॥ अज्ञानादुत्पथं गत्वा नरकं प्रतिपद्यते ॥ ४ ॥ अज्ञाने
नावृतो जन्तुः शुभे मार्गे न तिष्ठति ॥ अज्ञानशमने यत्नस्ततः कार्यो विजानता ॥ ५ ॥ शास्त्रादन्वेक्षणं तस्य वृद्धसेवा तथैव च ॥
तथा च गुरुशुश्रूषा त्वज्ञानशमनी मता ॥ ६ ॥ लोकद्वये नास्ति महानुभावा अज्ञानतुल्यः पुरुषस्य शत्रुः ॥ अतो हि लोकद्वितयं सुयार्थी
ज्ञाने तु कुर्यात्पुरुषः प्रयत्नम् ॥ ७ ॥ इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे हंसगीतासु ज्ञानवर्णनो नामैकोनचत्वारिंशदुत्तराद्वि-
शततमोऽध्यायः ॥ २३९ ॥ ॥ हंस उवाच ॥ ॥ पापेन सर्वदुःखानां नरो भवति भाजनम् ॥ पापेन नरकं याति देव्यृक्षं तथा भवेत् ॥
॥ १ ॥ नरः पापसमाचारः पापाद्वापि विनश्यति ॥ पापमेकं परं दुःखं सर्वेषां द्विजपुङ्गवाः ॥२॥ कृतपुण्योऽपि यः पापं करोति पुरुषः कचित् ॥
स्वर्गोऽपि न सुखं तस्य तद्व्याधुपजायते ॥ ३ ॥ स एकः पुरुषो लोके यस्य पापं न विद्यते ॥ दीनानुकम्पोपानाथास्तथा च परमार्भकाः ॥ ४॥
तिर्यग्योनिगताश्चान्ये नरकेषु तथा परे ॥ स्थावरासु च योनीषु तिर्यग्योनिषु चाप्यथ ॥ ५ ॥ व्याधिबन्धवधक्लेशताडनान्यप्यनेकशः ॥
नरः प्राप्नोति धर्मज्ञस्तथा पापेन कर्मणा ॥ ६ ॥ ये पापहीनाः पुरुषाः प्रधानास्तेषां न दुःखं भवतीह किंचित् ॥ तस्मात्प्रयत्नेन विवर्जनीयं
पापं बुधैः पुण्यचयश्च कार्यः ॥ ७ ॥ इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे मुनीन्प्रति हंसगीतासु पापनिदर्शनवर्णनो नाम
चत्वारिंशदुत्तरद्विशततमोऽध्यायः ॥ २४० ॥ ॥ हंस उवाच ॥ ॥ कामाद्यनुसारी पुरुषः कामाद्बहु विनश्यति ॥ यस्तु केवलकामात्मा सोऽचि-
राद्भ्रश्यते श्रियः ॥ १ ॥ कामस्यानुसारी धर्मार्थौ न तिष्ठति चिरं नरः ॥ तस्मात्कामं न सेवेत नरो धर्मार्थवर्जितम् ॥ २ ॥
तयो धर्मार्थयोः कामे ध्रुवं भवति सेविते ॥ कामान्येन विजानाति कर्त्तव्यं किञ्चिदेव तु ॥ ३ ॥ परदारे त्वगम्ये वा प्रभातं तदनुध्यते ॥
ध्रुवं प्राणवियोगोऽपि क्रीडामीत्येव मन्यते ॥ ४ ॥ यस्तु केवलकामात्मा धर्मार्थपरिवर्जितम् ॥ काममासेवते नित्यं विज्ञेयः पुरुषाधमः ॥ ५ ॥
धर्मे श्रौते तथैवार्थे काममासेविते द्विजः ॥ ध्रुवं नरकपातः स्यान्नात्र कार्या विचारणा ॥ ६ ॥ धर्मार्थयुक्तं पुरुषस्तु कामं संसेवमानो हि ॥४१३॥

न जातु कामैः ॥ वियोगमाप्नोति ततस्तु विद्वान्धर्मार्थयुक्ते सततं निषेवेत् ॥ ७ ॥ इति श्रीविष्णुधर्मोत्तरे तृ० ख० मार्कण्डेयवज्रसंवादे मुनी न्प्रति हंसगीतासु कामकृतवर्णनो नामैकचत्वारिंशदुत्तरद्विशततमोऽध्यायः ॥ २४१॥ हंस उवाच ॥ नात्यर्थहर्षः कार्यस्तु कदाचिदपि पण्डितैः॥ अत्यर्थहृष्टः पुरुषः कार्यं वेत्ति न किञ्चन ॥ १ ॥ सम्पत्स्वञ्चलां प्राप्य हर्षं प्राप्तो विवर्जयेत् ॥ दृष्ट्वा हि बहवो नष्टा लोके सम्पत्सलब्धिताः ॥ ॥ २ ॥ सम्पत्तौ वा विपत्तौ वा स्वभावं न त्यजेद्बुधः ॥ चञ्चलाः सम्पदः सर्वाः स्वभावादेव वै द्विजाः ॥ ३ ॥ कस्तासां विश्वसेत्प्राज्ञो वेश्यास्त्रीणां यथा तथा ॥ संसर्गान्मोहमाप्नोति तासां प्राप्नोति मानवः ॥ ४ ॥ सर्वे क्षयान्ता निचयाः पतनान्ताः समुच्छ्रयाः ॥ संयोगा विप्रयोगान्ता मरणान्तं हि जीवितम् ॥ ५ ॥ न प्रज्ञा धनलाभाय न जाड्यमसमुद्धये ॥ लोकपर्यायवृत्तान्तं प्राज्ञो जानाति नेतरः ॥ ६ ॥ प्राज्ञस्तु सम्यक्चपलां विदित्वा तां प्राप्य हर्षं परिवर्जयेत्तं ॥ सम्पद्विनाशे न च दुःखमीयाद्याह्ववि तद्वद्धि न तस्य नाशः ॥ ७ ॥ इति श्रीविष्णुधर्मोत्तरे तृ०ख० मार्कण्डेयवज्रसंवादे हंसगीतासु प्रहर्षदोषवर्णनो नाम द्विचत्वारिंशदुत्तरद्विशततमोऽध्यायः॥२४२॥ हंस उवाच॥मानं विवर्जितं सद्भिर्वर्जनीयं सदा बुधैः॥मानेन नष्टा बहवो राजानः सपरिच्छदाः॥१॥ ब्राह्मण्याच्च परिभ्रष्टा ब्राह्मणा बहवो द्विजाः॥ सर्वदोषोत्पादं मानं लोकद्वयविघातकम् ॥ २ ॥ युक्तार्युक्तं न जानाति मानेन पुरुषाधमः ॥ मानग्रस्तो नरो लोके गुरून्नप्यवमन्यते ॥ ॥ ३ ॥ करोत्यकार्यं पुरुषो मानेन च तथा ध्रुवम् ॥ मानग्राहेगृहीतस्य नास्ति मोक्षः कथञ्चन ॥ ४ ॥ कामः क्रोधश्च लोभश्च सर्वेऽनर्थ विनाशकाः ॥ मानग्रस्तं तु पुरुषमाविशन्ति द्विजोत्तमाः ॥ ५ ॥ मानाभिभूतश्च तथा नर्क प्रतिपद्यते ॥ अप्रतिष्ठन्नरश्रेष्ठस्तस्मात्तं परिवर्जयेत् ॥ ६ ॥ शत्रुर्न मानेन समोऽस्ति पुंसो मानेन नाशं व्रजतीह जन्तुः ॥ मानी हि तस्मात्परिवर्जनीयो बुधैस्तु नित्यं नकरम्य मार्गः ॥ ७ ॥ इति श्रीविष्णुधर्मोत्तरे तृ० ख० मार्कण्डेयवज्रसंवादे मुनीन्प्रति हंसगीतासु मानदोषवर्णनो नाम त्रिचत्वारिंशदुत्तरद्विशत तमोऽध्यायः ॥ २४३ ॥ हंस उवाच ॥ मदो विवर्जितः सद्भिर्वर्जनीयः प्रयत्नतः ॥ मदे तु बहवो दोषा लोकद्वयविघातकाः ॥ १ ॥ मत्तः कार्यं न जानाति गुरून्नप्यवमन्यते ॥ मत्तस्य नरकद्वारं नित्यं विप्रास्त्वपावृतम् ॥ २ ॥ मत्तो भयं न जानाति मरणेऽप्यतिकुत्सिते ॥मत्तो मोहमवाप्नोति न विजानाति किञ्चन ॥ ३ ॥ मदनाममपि सर्वेषां ज्ञेयः पानमदोऽधमः ॥ तेन वि भूतः पुरुषो न मृतादतिरिच्यते ॥ ४ ॥ अज्ञानतुल्यं न हि दोषमस्ति हेतुश्चतस्येह परो मदः स्यात् ॥ तस्मात्प्रयत्नेन मदस्य हेतुर्नैवा

वि० ध० ॥४१४॥ तृ० खं० अ० २४७ ॥४१४॥

पानं परिवर्जनीयम् ॥ ६ ॥ इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे सुनीत्यादि हंसगीतासु मददोषवर्णनो नाम चतुश्चत्वारिंशदु- त्तरद्विशततमोऽध्यायः ॥ २४४ ॥ ॥ हंस उवाच ॥ ॥ लुब्धो दोषान्न जानाति लुब्धः पापं न बुद्ध्यते ॥ नरो लोभमभावितो वरामीति तथापदान् ॥ १ ॥ जीर्यन्ति जीर्यतः केशा नखा जीर्यन्ति जीर्यतः ॥ जीर्यन्ति जीर्यतो दन्तास्तृष्णा त्वेका न जीर्यते ॥ २ ॥ तृष्णास्वलिनिराधे यमपूर्वा द्विजपुङ्गवाः॥ पूर्यमाणापि सततं सञ्चयैस्तुष्यधिकं तथा ॥ ३ ॥ न तां पूरयितुं शक्तः कदाचिदपि कश्चन ॥ न तां पूरयितुं शक्ताः सर्वे सन्तोषमाश्रिताः ॥ ४ ॥ यत्पृथिव्यां व्रीहियवं हिरण्यं पशवः स्त्रियः ॥ नालमेकस्य पर्याप्तमिति मत्वा शमं व्रजेत् ॥ ५ ॥ या दुस्त्यजा दुर्मति- भिर्या न जीर्यति जीर्यतः ॥ योऽसौ प्राणान्तिको रोगस्तां तृष्णां त्यजतः सुखम् ॥ ६ ॥ लुब्धस्य बन्धून् सुतो गुरुर्वा लुब्धस्य लोका न च लोकयात्रा ॥ लुब्धस्य दोषाः सकलाः प्रसिद्धा लोकद्वये दुःखकराः सुरोधाः ॥ ७ ॥ इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे सुनीत्रादि हंसगीतासु लोभदोषवर्णनो नाम पञ्चचत्वारिंशदुत्तरद्विशततमोऽध्यायः ॥ २४५ ॥ ॥ हंस उवाच ॥ क्रोध एकः परः शत्रुः क्रोध एको विनाशकृत् ॥ क्रोधाभिभूतः पुरुषस्त्वात्मानमपि घातयेत् ॥ १ ॥ अर्थानर्थो न जानाति कार्याकार्यो तथैव च ॥ नरः क्रोधसमाविष्टो नान्यं मित्रमपि द्विजान् ॥ २ ॥ गुरूनाक्षिपति क्रोधान्नैनं हि नमते जनः ॥ अनर्थैः सह संसर्गस्तस्मात्क्रोधं विवर्जयेत् ॥ ३ ॥ क्रोधं मूलमनर्थानां द्वारं हि नरकस्य च ॥ आपदामास्पदं घोरन्तं प्रयत्नेन वर्जयेत् ॥ ४ ॥ क्रोधेन विजितो यस्तु कथमन्धं स जेष्यति ॥ क्रोध जिते जितं विद्धि त्रैलोक्यं सचराचरम् ॥ ५ ॥ अनर्थकारिणं क्रोधं यदा तेजस्विता मता ॥ क्रोषे दोषमतः कृत्वा जितः क्रोधो महात्मभिः ॥ ६ ॥ यज्ञैश्च दानानि तपः पवित्रं तीर्थोपसेवा च तथैव वेदाः ॥ क्रोधाभिभूतस्य भवन्ति मिथ्या नरस्य तस्मात्परिवर्जयेत्तम् ॥ ७ ॥ इति श्रीविष्णुधर्मोत्तरे तृतीय- खण्डे मार्कण्डेयवज्रसंवादे सुनीन्त्रि हंसगीतासु क्रोधदोषवर्णनो नाम षट्चत्वारिंशदुत्तरद्विशततमोऽध्यायः ॥ २४६ ॥ ॥ हंस उवाच ॥ ॥ सर्वषामेव पापानां नास्तिक्यं पातकं परम् ॥ नास्तिक्याद्धि परं नास्ति किञ्चित्पापं द्विजोत्तमाः ॥ १ ॥ अकार्यामिति कार्याणि कृत्वा कार्यव- शास्त्रः ॥ पश्चात्तापेन संयुक्तः क्षिप्रं पापं व्यपोहति ॥ २ ॥ कार्यबुद्ध्या त्वकार्याणि यः करोति नराधमः ॥ कथं निवर्त्तनं तेभ्यो जायते तस्य वै द्विजाः ॥ ३॥ नास्तिक्यस्य तथा मूलं त्वसच्छ्स्त्रावगाहनम् ॥ तस्मात्सर्वप्रयत्नेन तद्वर्ज्यं विजानता ॥४॥ सर्वो हि मानवो लोके परलो- कानिबन्धनः ॥ तत्रापि निरपेक्षस्य किन्तु लोके निबन्धनम् ॥५॥ ये तु वै नास्तिका लोके नरा लोकं प्रति द्विजाः ॥ नरके ते हि पच्यन्ते बहु

कालं न संशयः ॥६॥ नास्तिक्यमेकं पुरुषस्य लोके विनाशने विप्रवराः प्रदिष्टम् ॥ तस्मात्प्रयत्नेन विवर्जनीयो नास्तिक्यभावः सुखमीप्समानैः ॥७॥ इति श्रीविष्णुधर्मोत्तरे तृ० ख० मार्कण्डेयवज्रसंवादे मुनिन्नति हंसगीतासु नास्तिक्यदोषवर्णनो नाम सप्तचत्वारिंशदुत्तरद्विशततमोऽध्यायः ॥ २४७ ॥ हंस उवाच ॥ अहङ्कारात्परं नास्ति लोके किञ्चिद्विनाशनम् ॥ अहङ्कारेण भूपालाः शतशो निधनङ्गताः ॥ १ ॥ अहङ्कृतास्तथा नष्टा ब्राह्मणाश्च सहस्रशः ॥ मान्यामान्यान जानन्ति कार्याकार्यं त्वहङ्कृताः ॥ २ ॥ अहङ्कृतस्तथा लोके न विद्यामधिगच्छति ॥ विषण्णकार्यश्च तथा न प्राज्ञान्परिपृच्छति ॥ ३ ॥ न शृणोति तथान्यान्दर्पपूर्णो विचक्षणः ॥ पातान्यैन्यमभैषज्यं दर्पान्नास्त्येह कीर्तनम् ॥ ४ ॥ स्थिते बलाधिकैस्तथा वीरैर्गुरुभिश्च तथैव च ॥ मरणे संनिकृष्टेपि मरणस्य विचक्षणः ॥ ५ ॥ हेतुभूतानि कर्माणि निन्दितानि निषेवते ॥ स्थिते स्थितांस्तथा प्राज्ञान्भाषमाणान्निन्दति ॥ ६ ॥ अहङ्कृतानां नरके प्रदिष्टा गतिर्ध्रुवं लोकविगर्हितानाम् ॥ प्राज्ञेन तस्मात्परिवर्जनीयो दर्पो विनाशैककरः सदैव ॥७॥ इति श्रीविष्णुधर्मोत्तरे तृ० ख० मार्कण्डेयवज्रसंवादे हंसगीतास्वहङ्कारदोषवर्णनो नामाष्टचत्वारिंशदुत्तरद्विशतत मोऽध्यायः ॥ २४८ ॥ हंस उवाच ॥ दत्तं यच्छौचहीनेन न तद्गृह्णन्ति देवताः ॥ भुक्तस्रवश्च धर्मज्ञाः शुचिकामश्च देवताः ॥ १ ॥ यज्ञैश्च राक्षसैश्चैव पिशाचैश्च निशाचरैः ॥ डाकिनीभिश्च धर्मज्ञाः शौचहीनोऽभिभूयते ॥ २ ॥ शौचहीनमभ्यर्च्य स्वयं निन्दन्ति के द्विजाः ॥ व्याधि हीनो ह्यशौचश्च सर्वैरेवाभिसूयते ॥ ३ ॥ वर्धते च तथानर्थः समर्थाश्च व्रजन्ति च ॥ शौचहीनस्य रिपवो यान्ति वृद्धिं परां द्विजाः ॥ ४ ॥ शौचोचमर्थशौचं च वाक्छौचमपि च द्विजाः ॥ एतानि यस्य शौचानि स शुचिः परिकीर्तितः ॥ ५ ॥ शौचं शुचिः स हि शुचिनं शुद्धांरेशुचिः शुचिः ॥ तत्तश्चाप्यधिकं शौचमहिंसा परिकीर्तिता ॥ ६ ॥ शौचेन हीना नरकं व्रजन्ति शौचेन हीना विभजन्त्य नर्थान् ॥ शौचेन हीनाश्च भवन्ति निन्द्यास्तस्मादशौचं परिवर्जनीयम् ॥ ७ ॥ इति श्रीविष्णुधर्मोत्तरे तृ० ख० मार्कण्डेयवज्रसंवादे मुनीन्प्र ति हंसगीतासु शौचवर्णनो नामैकोनपञ्चाशदुत्तरद्विशततमोऽध्यायः ॥ २४९ ॥ हंस उवाच ॥ आचारहीनाः पुरुषा भवन्त्यल्पायुषो द्विजाः ॥ आचारहीनश्च तथा राक्षसैर्विभूयते ॥ १ ॥ यक्षैः पिशाचैर्गन्धर्वैस्तथा चान्यैर्निशाचरैः ॥ डाकिनीभिः सुराणां च तथा पार्षणगाः पृथक् ॥२॥ न दत्तमाचारहीनेन न प्रतीच्छन्ति देवताः ॥ पितरश्च महाभाग ऋषयश्च तपोधनाः ॥ ३ ॥ सर्वलक्षणयुक्तोऽपि नरस्त्वाचारवर्जितः ॥ न प्राप्नोति तथा विद्यां न च किञ्चिद्भीप्सितम् ॥ आचारहीनः पुरुषो नरकं प्रतिपद्यते ॥ ४ ॥ आचारहीनं न पुनन्ति वेदा यद्यप्यधीताः सह

वि० ध० ॥४१५॥

षड्भिरङ्गैः ॥ आचारहीनेन तु धर्मकार्यं कृतं हि सर्वं भवतीह मिथ्या ॥ ५ ॥ इति श्रीविष्णुधर्मोत्तरे तृ० ख० मा० कुण्डयज्ञसंवादे मुनीन्द्रैः हंसगीतास्तवनाचारदोषवर्णनो नाम पञ्चाशदुत्तरद्विशततमोऽध्यायः ॥ २५० ॥ हंस उवाच ॥

तृ० खं० अ० २५१

अनृतं वर्जयेन्नित्यमनृतं पातकं परम् ॥ अनृताद्धि परं नास्ति द्वारं नाशनमात्मनः ॥ १ ॥ सर्वं निबद्धा वाच्यार्था वाङ्मूला वाग्विनिस्सृताः॥ तस्मान्न स्तेनयेद्वाचं य इच्छेद्धितमात्मनः ॥ २ ॥ अनृतं न क्वचिद्वाच्यं तथा साक्ष्यं विशेषतः ॥ अनृतं हि वदन्साक्ष्ये पितृभिः सह मज्जति ॥ ३ ॥ पञ्च पश्वनृते हन्ति दश हन्ति गवानृते ॥ शतमश्वानृते हन्ति सहस्रं पुरुषानृते ॥ ४ ॥ हन्ति जातानजातांश्च हिरण्यार्थेऽनृतं वदन् ॥ सर्वं भूम्यनृते हन्ति मास्म भूम्यनृतं वदेत् ॥ ५ ॥ अप्सु भूमिवदित्याहुः स्त्रीणां भोगे च मैथुने ॥ अब्जेषु चैव रत्नेषु सर्वेष्वश्ममयेषु च ॥ ६ ॥ एतान्दोषानवेक्ष्यैव सर्वाननृतभाषणे ॥ यथाश्रुतं यथादृष्टं सर्वमेवाञ्जसा वदेत् ॥ ७ ॥ नग्नो मुण्डः कपाली च भिक्षार्थी क्षुत्पिपासितः ॥ अन्धः शत्रुगृहं गच्छेन्न साक्ष्यमनृतं वदेत् ॥ ८ ॥ साक्ष्येऽनृतं वदन्पाशैर्बध्यते वारुणैर्भृशम् ॥ निविशन्ते तमाजातीस्तारमस्तांश्च वेद्दतम् ॥ ९ ॥ यन्मया गदितं पापं द्विजेन कूटसाक्षिणः ॥ ततोऽधिकमवाप्नोति सद्यो मिथ्याऽभिशं सने ॥ १० ॥ यथा क्रोधाद्भयाल्लोभादज्ञानाद्वा द्विजोत्तमः ॥ गोऽनृतं भाषते सद्यः स याति नरकं ध्रुवम् ॥ ११ ॥ अवाक्शिरास्तमस्यन्धे किल्बिषी नरके पतेत् ॥ यः प्रश्नं वितथं ब्रूयात्पृष्टः सद्भिर्निश्रेयसे ॥ १२ ॥ अन्धो मत्स्यानिवाश्नाति निरपेक्षं सकण्टकान् ॥ यो भाषतेऽर्थ वैकल्यमप्रत्यक्षं समाङ्गितः ॥ १३॥ कूटकर्मतुलामाने रसानां भेदने तथा ॥ विश्वासस्यानृतसहरणे रहस्यसमयभेदने ॥ १४ ॥ मृतिं कल्पयते यश्च मधु मांसेन पातकम् ॥ द्विजस्य सुरया वापि लोभेन च विशेषतः ॥ १५ ॥ गोब्राह्मणवधे वापि गुरुपितृवधे तथा ॥ वयस्यदारगमने गुरुदारप्रदर्शने ॥ १६ ॥ व्युत्पादने च शस्त्राणां शस्त्रोत्सादे तथैव च ॥ भर्तृपिण्डापहरण संङ्ग्रामाच्च पलायने ॥१७॥ शरणागतसंत्यागे गच्छतश्च दिवा स्त्रियम् ॥ प्रेक्ष्यां च गच्छतः पापं राजद्रोहे तथैव च ॥ १८ ॥ पङ्क्त्यां विषमदातुश्च श्राद्धे मित्रस्य यत्तथा ॥ शुल्केन ददतः कन्यां केशविक्रयिकस्य च ॥ १९ ॥ विक्रयस्य पातकं यच्च प्राणिनां विक्रये भवेत् ॥ अभ्रातृदासुजः पापमयाज्यस्य च याजने ॥ २० ॥ मिथ्या राज्यस्य करणे पर द्रव्यापहारिणः ॥ सर्वाण्येतानि पापानि द्विजः सभ्यः समाप्नुयात् ॥ २१ ॥ वदन्त्यथा वदेत्तस्माद्धर्म्यं सभ्यः सदा वदेत् ॥ एतदेव तथा पापं विज्ञेयं कूटसाक्षिणाम् ॥ २२ ॥ कूटकर्मी तु नरकं पितृभिः सह मज्जति ॥ दशवर्षसहस्राणि दशवर्षशतानि च ॥२३॥ ततो दशगुणं कालं सभ्यो ॥४१५॥

मिथ्याभिभाषिता ॥ रागद्वेषप्रवृत्तस्तु व्यवहारोऽपि पार्थिवः ॥ २४ ॥ ततो दशगुणं कालं नरके वसति ध्रुवम् ॥ उक्ते वचसि धर्म्यं तु सद्यः पापात्प्रमुच्यते ॥ २५ ॥ राजा नरकमवाप्नोति सत्यवाक्यं विलंघयन् ॥ शूद्रविट्क्षत्रविप्राणां यत्रोक्ते प्राप्नुयाद्वधः ॥ २६ ॥ तत्र वक्तव्यमनृतं तद्धि सत्याद्विशिष्यते ॥ वाग्दैवतैश्च चरुभिर्यजैनेश्च सरस्वतीम् ॥ २७॥ कूष्माण्डैर्वापि जुहुयाद्धृतमग्नौ यथाविधि ॥ उद्धृत्येवं वा वारुणे ऋचा वाग्दैवतेन वा ॥ २८॥ अनृतस्य वशस्तस्य कुर्वाणो निष्कृतिं पराम्॥ बह्वन्वः सुखमेधन्ते यस्मिन्निप्वा निपातिते ॥ वाच्यं तस्य वधे प्राप्ते यथाभूत मिति श्रुतिः ॥ २९ ॥ न नर्मयुक्तं वचनं हिनस्ति न स्त्रीषु विप्रा न विवाहकाले ॥ प्राणात्यये सर्वधनापहारे पञ्चानृतान्याहुरपातकानि ॥ ३० ॥ इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे मुनीन्प्रति हंसगीतास्वनृतदोषवर्णनो नामैकपञ्चाशदुत्तरद्विशततमोऽध्यायः ॥ २५१॥

हंस उवाच ॥ सर्वेषामेव पापानां हिंसा परमिरहोच्यते ॥ हिंसा वल्मसाधूनां हिंसा लोकद्वयापहा ॥ १ ॥ अपि कीटः पतङ्गो वा न हन्तव्यः कथञ्चन ॥ महद्दुःखमवाप्नोति पुरुषः प्राणिनाशनात् ॥ २ ॥ आतातायिनमायान्तं पुरुषं यदि वा पशुम् ॥ उपायहीनस्तं हत्वा न तु पापेन बाध्यते ॥ ३ ॥ गुरुं वा बालवृद्धौ वा मान्यं वाप्यथ वा जनम् ॥ आतातायिनमायान्तं हन्याद्विचारयन् ॥ ४ ॥ आतातायिन मायातन्मपि वेदान्तगं रणे ॥ जिघांसन्तं जिघांसीयान्नेन पापं न विद्यते ॥ ५ ॥ रणे प्रहारामिहते शत्रौ नैवास्ति पातकम् ॥ जित्वा गृहीते निहते तस्मिन्नेवास्ति पातकम् ॥ ६ ॥ रणे जितन्तु यः शक्तः पश्चात्पातयते नरः ॥ स याति नरकं घोरं बह्वब्दशुशतानि च ॥ ७ ॥ मुक्त्वा नारकाद्दुःखाद्बह्वब्दशतानि तु ॥ आमगर्भेपु सिच्यन्ते ये नरा नयघातकाः ॥ ८ ॥ यावन्ति पशुरोमाणि तावत्कृत्स्हं मारणम् ॥ वृथापशुघ्नः प्राप्नोति प्रेत्य चेह च निष्कृतिम् ॥ ९ ॥ अपि कीटं नरो हत्वा छित्त्वा तृणमथापि वा ॥ नरकं याति धर्मज्ञाः पुरुषः स्वेन कर्मणा ॥ १० ॥ स्त्रीहिंसा धनहिंसा च प्राणिहिंसा च दारुणा ॥ हिंसा च त्रिविधा प्रोक्ता वर्जिता पण्डितैर्नरैः ॥ ११ ॥ अहिंस्रकस्तु यत्नेन वर्जयेत्तु परस्त्रियम् ॥ विजनेऽपि तथा न्यस्तं परद्रव्यं प्रयत्नतः॥ १२ ॥ अतो वै नैव कर्तव्या प्राणि हिंसा भयावहा ॥ वियोज्य प्राणिनं प्राणैस्तथैकमपि निर्घृणः ॥ १३ ॥ नरकाद्धि विनिर्मुक्तो न किञ्चित्सुखमेधते ॥ यां रात्रिम्प्रधिविनां स्त्री यां चैवाक्षपराजिताम् ॥ १४ ॥ यां च राज्यच्युतो रात्रिं यां च सर्वस्वविच्युतः ॥ इष्टबन्धुवियुक्तश्च यां रात्रिं दुःखमश्नुते ॥ १५ ॥ व्यवहारे जितेश्चैव यद् दुःखं कूटसाक्षिभिः ॥ तत्सर्वं दुःखमाप्नोति हत्वैकमपि तु द्विजाः ॥ १६ ॥ नास्ति पापतरं लोके मनुष्या मांस