विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)
Vishnudharmottara Purana Hindi
महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह) द्वारा
स्रोत: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (उद्गम)
संयुक्तानां चेमाः शृणुत निष्कृतीः ॥ १२७ ॥ संवत्सरेण पतति पतितेन सहाचरन् ॥ याजनाध्यापनाद्यौनान्न तु यानासनाशनात् ॥ १२८ ॥ यो येन पतितेनैवं संसर्गं याति मानवः ॥ स तस्यैव व्रतं कुर्यात्तत्संसर्गस्य शुद्धये ॥ १२९॥ पतितस्योदकं कार्यं सपिण्डैर्बान्धवैर्बहिः ॥ निन्दिते ऽहनि सायाह्ने ज्ञात्यूर्त्विग्गुरुसन्निधौ ॥ १३० ॥ दासीघटमपां पूर्णं पर्यस्येत्प्रेतवत्सदा ॥ अहोरात्रमुपासीरन्नशौचं बान्धवैः सह ॥ १३१ ॥ निवर्तेरंस्तस्मात्तु सम्भाषणसहासनै ॥ दायादस्य प्रदानञ्च यात्रामेव च लौकिके ॥ १३२॥ ज्येष्ठता च निवर्तेत ज्येष्ठं वापि च यद्वसु ॥ ज्येष्ठांशं प्राप्नुयाच्चास्य यवीयान्गुणतोऽधिकः ॥ १३३॥ प्रायश्चित्ते तु चरिते पूर्णकुम्भमपां नवम् ॥ तेनैव सार्धं प्रास्येयुः स्नात्वा पुण्यजलाशये ॥ १३४ ॥ स त्वप्सु तं घटं प्रास्य प्रविश्य भवनं स्वकम् ॥ सर्वाणि ज्ञातिकार्याणि यथापूर्वं समाचरेत् ॥ १३५ ॥ एतमेव विधिं कुर्याद्योषित्सु पतिता स्वपि ॥ वस्त्रान्नपानं देयं तु वसेयुश्च गृहान्तिके ॥ १३६ ॥ एनस्विभिर्निर्णिक्तैर्नार्थं कञ्चित्समाचरेत् ॥ कृतनिर्णेजनांश्चैवान्न जुगुप्सेत कर्हि चित् ॥ १३७॥ बालघ्नांश्च कृतघ्नांश्च विशुद्धानापि धर्मतः ॥ शरणागतहन्तॄंश्च स्त्रीहन्तॄंश्च न संवसेत् ॥ १३८॥येषां द्विजानां सावित्री नानूच्येत यथा विधि ॥ तांश्चारयित्वा त्रीन्कृच्छ्रान्यथाविध्युपनाययेत् ॥ १३९ ॥ प्रायश्चित्तं चिकीर्षन्ति विकर्मस्थास्तु ये द्विजाः ॥ ब्रह्मणा च परित्यक्ता स्तेषामप्येतदादिशेत् ॥ १४० ॥ यद्गर्हितेनार्जयन्ति कर्मणा ब्राह्मणा धनम् ॥ तस्योत्सर्गेण शुद्ध्यन्ति जप्येन तपसैव च ॥ १४१ ॥ जपित्वा त्रीणि सावित्र्याः सहस्राणि समाहितः ॥ मासं गोष्ठे पयः पीत्वा मुच्येतासत्प्रतिग्रहात् ॥ १४२ ॥ उपवासकृशःश्रान्तं तु गोव्रजानुगतङ्गतम् ॥ प्रणतं परिपृच्छेयुः साम्यं सौम्येच्छसीति किम् ॥ १४३ ॥ सत्यमुक्त्वा तु विप्रेभ्यो विकिरेद्यवसं भुवम् ॥ गोभिः प्रवर्तिते तीर्थे कुर्वन्नुत्सृज्य परि ग्रहम् ॥ १४४ ॥ व्रात्यानां याजनं कृत्वा परेषामन्त्यकर्म च ॥ अभिचारमहीनं च त्रिभिः कृच्छ्रैर्विशुद्ध्यति ॥ १४५ ॥ शरणागतं परित्यज्य वेदं विप्लाव्य च द्विजः ॥ संवत्सरं यवाहारस्तत्पापमपसेधति ॥ १४६ ॥ श्वसृगालखरैर्दष्टो ग्राम्यैः क्रव्याद्भिरेव च ॥ खराश्वोष्ट्रवराहेभ्य प्राणा यामेन शुद्ध्यति ॥ १४७॥ षष्ठान्नकालता मासं संहिताजप एव वा ॥ होमाश्च सकला नित्यमपाङ्क्त्यानां विशोधनम् ॥ १४८ ॥ उष्ट्रयानं समारुह्य खरयानञ्च कामतः ॥ स्नात्वा च विप्रो दिग्वासाः प्राणायामेन शुद्ध्यति ॥ १४९ ॥ विनाद्भिरप्सु वाप्यन्तः शरीरे सन्निवेश्य तु ॥ सचैलो बहिराप्लुत्य गामालभ्य विशुद्ध्यति ॥ १५० ॥ वेदोदितानां नित्यानां कर्मणां समतिक्रमे ॥ स्नातकव्रतलोपे च प्रायश्चित्तमभोजनम् ॥ ॥ १५१ ॥ हुङ्कारं ब्राह्मणस्योक्त्वा त्वङ्कारं तु गरीयसः ॥ स्नात्वानश्नन्नहःशेषं चाभिवाद्य प्रसादयेत् ॥ १५२ ॥ ताडयित्वा तृणेनापि कण्ठे
॥०ध०॥ ॥४१०॥
अ० २३६
बद्ध्वा च वाससा ॥ विवादे वापि निर्जित्य प्रणिपत्य प्रसादयेत् ॥ १५३ ॥ अवगूर्य त्वब्दशतं सहस्रमामहन्त्यु ॥ १५५ ॥ अवगूर्या
नरकं प्रतिपद्यते ॥ १५४ ॥ शोणितं यावतः पांसुन्संगृह्णाति द्विजन्मनः ॥ तावन्त्यब्दसहस्राणि तत्कर्ता नरकं वसेत् ॥ १५५ ॥ अवगूर्या
चरेत्कृच्छ्रमतिकृच्छ्रं निपातने ॥ कृच्छ्रातिकृच्छ्रं कुर्वीत विप्रस्योत्पाद्य शोणितम् ॥ १५६ ॥ वेदाभ्यासोन्वहं शक्त्या महायज्ञाक्रिया क्षमा ॥
नाशयन्त्याशु पापानि महापातकान्यपि ॥ १५७ ॥ यथैव तेजसा वह्निः प्रातार्निर्द्दहति क्षणात् ॥ तथा ज्ञानाग्निना पापं कृत्स्नं दहति वेद-
वित् ॥ १५८ ॥ पापानुरूपं पुरुषस्य शक्तिं देशं च कालं च तथा विदित्वा ॥ अनुक्तशुद्धिः प्रविचार्या देया उक्ते तथैवञ्च निरूपणीयम् ॥ १५९ ॥
इति श्रीविष्णुधर्मोत्तरे तृ० ख० मार्कण्डेयवज्रसंवादे हंसगीतासु प्रायश्चित्तवर्णनो नाम चतुस्त्रिंशदधिकद्विशततमोऽध्यायः ॥ २३४ ॥
हंस उवाच ॥ इत्येतेद्दानसामुक्तं प्रायश्चित्तं यथाविधि ॥ अत ऊर्ध्वं रहस्यानां प्रायश्चित्तं निबोधत ॥ १ ॥ सव्याहृतीकाप्रणवाः प्राणाया-
मास्तु षोडश ॥ अपि भ्रूणहनं मासात्पुनन्त्यहहरहः कृताः ॥ २ ॥ कौत्सं जप्त्वाब्द इत्येतद्वासिष्ठं च त्र्यचं प्रति ॥ माहित्रीं शुद्धवत्यश्च सुरा
पोऽपि विशुध्यति ॥ ३ ॥ सकृज्जप्त्वास्थ वामीयं शिवसंकल्पमेव च ॥ अपहृत्य सुवर्णं तु क्षणाद्भवति निर्मलः ॥ ४ ॥ हविष्पन्तीयमभ्यस्य
नतमहं इतीति च ॥ जप्त्वा तु पौरुषं सूक्तं मुच्यते गुरुतल्पगः ॥ ५ ॥ एनसां स्थूलसूक्ष्माणां चिकीर्षुरपनोदनम् ॥ अपै तृचं जपेदब्दं
यत्किञ्चिदमितीति च ॥ ६ ॥ प्रतिगृह्याप्रतिग्राह्यं भुक्त्वा चान्नं विगर्हितम् ॥ जपस्तरत्समन्दीयं पूयते मानवस्त्र्यहात् ॥ ७ ॥ सोमारौद्रं तु बह्वेनोनरः
मासमभ्यस्य शुध्यति ॥ सवन्त्यामाप्वन्नास्नानमर्चणमिसिति च तृचम् ॥ ८ ॥ अब्दैार्घमन्दिरित्येतेद्नस्त्वं समर्क जपेत् ॥ अम्ररस्तन्व्
कृत्वाप्सु मासमासीत भैक्ष्यभुक् ॥ ९ ॥ मन्त्रैः शाकलहोमीयैरब्दं हुत्वा घृतं द्विजः ॥ सुगुर्वप्यपहन्त्येनो जत्वा वा नम इत्यृचम् ॥ १० ॥
उपपातकसंयुक्तोगच्छेद्द्वाः समाहितः ॥ अभ्यस्याब्दं पावमानीर्भैक्ष्याहारो विशुध्यति ॥ ११ ॥ अरण्ये वा त्रिश्श्वस्य प्रयतो वेद्संहिताम् ॥
मुच्यते पातकैः सर्वैः पराकैः शोधितस्त्रिभिः ॥ १२ ॥ त्र्यहं तूपवसेद्यस्तु त्रिरात्रोत्युपुथ्व्रपः ॥ मुच्यते पातकैः सर्वैर्द्विजपीत्वाघमर्षणम् ॥ १३ ॥
ऋक्संहितां त्रिश्श्वस्य यजुषां वा समाहितः ॥ साम्नां वा सरहस्यानां सर्वपापैः प्रमुच्यते ॥ १४ ॥ यद्धार्चिकं तत्स्य परस्य पुंसो यस्मिन्नि
बद्धं भुवनं समग्रम् ॥ जपन्तमोङ्कारमतन्द्रितात्मा पापानि शीघ्रं प्रजहाति मर्त्यः ॥ १५ ॥ इति श्रीविष्णुधर्मोत्तरे तृ० ख० मार्कण्डेय
वज्रसंवादे हंसगीतासु रहस्यप्रायश्चित्तवर्णनो नाम पञ्चत्रिंशदधिकद्विशततमोऽध्यायः ॥ २३५ ॥ ऋषय ऊचुः ॥ कर्माणि श्रोतुमिच्छा
॥४१०॥
...मो यैः पापं विप्रणश्यति ॥ प्राप्नोत्यभ्युदयं चैव पुरुषः पक्षिसत्तम ॥ १ ॥ हंस उवाच ॥ त्र्यहं प्रातस्त्र्यहं सायं त्र्यहमयाचितम् ॥ त्र्यहं परञ्च नाश्नीयात्प्राजापत्यं चरन्द्विजः ॥ २ ॥ गोमूत्रं गोमयं क्षीरं दधि सर्पिः कुशोदकम् ॥ एकरात्रोपवासश्च कृच्छ्रं सान्तपनं स्मृ- तम् ॥ ३ ॥ एकैकं ग्रासमश्नीयात्त्र्यहाणि त्रीणि पूर्ववत् ॥ त्र्यहं चोपवसेद्यस्त्वतिकृच्छ्रं चरन्द्विजः ॥ ४ ॥ तप्तकृच्छ्रं चरन्विप्रो दधिक्षीर- घृतानिलान् ॥ प्रतित्र्यहं पिबेदुष्णं सकृत्स्नायी समाहितः ॥ ५ ॥ यतात्मनोऽप्रमत्तस्य द्वादशाहमभोजनम् ॥ पराको नाम कृच्छ्रोऽयं सर्वपापा- पनोदनः ॥ ६ ॥ यथाकथञ्चित्पिण्डानां तिस्रोऽशीतिः समाहितः ॥ मासेनाश्नन्हविष्यस्य चन्द्रस्यैति सलोकताम् ॥ ७ ॥ महाव्याहृतिभिर्होमः कर्तव्यः स्वयमन्वहम् ॥ अहिंसासत्यमक्रोधमार्जवं च समाचरेत् ॥ ८ ॥ त्रिर्दिने त्रिर्निशायाञ्च सवासा जलमाविशेत् ॥ स्त्रीशूद्रपतितांश्चैव नाभिभाषेत कर्हिचित् ॥ ९ ॥ स्थानासनाभ्यां विहरेदशक्तोऽधःशयीतवा ॥ ब्रह्मचारी व्रती च स्याद्गुरुदेवद्विजार्चकः ॥ ॥ १० ॥ सावित्रीं च जपेन्नित्यं पवित्राणि च शक्तितः ॥ सर्वेष्वेव व्रतेष्वेवं प्रायश्चित्तार्थमादितः ॥ ११ ॥ कृत्वा पापं हि संतप्य तस्मात्पापात्प्रमुच्यते ॥ नैवं कुर्याम्पुनरिति निवृत्त्या पूयते तु सः ॥ १२ ॥ ख्यापनेनानुतापेन तपसाऽध्ययनेन च ॥ पापकृन्मुच्यते पापात्तथा दानेन चापदः॥१३॥यथास्मिन्कर्मण्यपि कृते मनसः स्यादलाघवम् ॥ तस्मिंस्तावत्तपः कुर्याद्यावत्तुष्टिकरं भवेत् ॥१४॥ पापस्य नाशस्तपसा विधेयो धर्मस्य वृद्धौ तपसा विधिना ॥ पापप्रणाशे त्वथ धर्मवृद्धौ कामाः समृद्ध्यन्ति नरस्य विप्राः ॥ १५ ॥ इति श्रीविष्णु- धर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे मुनीन्प्रति हंसगीतासु कृच्छ्रसान्तपनादिप्रायश्चित्तवर्णनो नाम षट्त्रिंशाधिकद्विशततमोऽध्यायः ॥२३६॥ ॥ ऋषय ऊचुः ॥ ॥ कर्मणा केन पुरुषः किमाप्नोति महामते ॥ एतन्नः संशयं छिन्धि द्विजानां द्विजसत्तम ॥ १ ॥ ॥ हंस उवाच ॥ दानेन भोगी भवति तपसा विन्दते महः ॥ वृद्धोपसेवया विप्राः प्राज्ञो भवति मानवः ॥ २ ॥ यज्ञेन लोकानाप्नोति पापनाशं हुतेन च ॥ जप्येन कामानाप्नोति सत्येन च परां गतिम् ॥ ३ ॥ स्नानेन शुद्धिमाप्नोति प्राणायामाद्विशोषतः ॥ ध्यानेन धारणाभिश्च पदमाप्नोत्यनुत्तमम् ॥ ४ ॥ दमेन सर्वमाप्नोति यत्किञ्चिन्मनसेच्छति ॥ शौचेन देवाः प्रीयन्ते प्रीयन्ते चोपवासतः ॥ ५ ॥ उपवासव्रतस्नानां कामावाप्तिर्ध्रुवं भवेत् ॥ ददाति विपुलाम्भोगांन्संग्रामेष्वपलायिनाम् ॥ ६ ॥ मधुमांसनिवृत्तोऽपि परं सौख्यमुपाश्नुते ॥ अहिंसया त्वरोगी स्याद्दीर्घायुश्चाप्यहिंसया ॥७॥ रूपलावण्यसौभाग्यधनधान्ययुतः सदा ॥ तीर्थानुसरणाद्विप्राः पापनाशमवाप्नुयात् ॥८॥ सर्वकल्मषहीनश्च याँल्लोकान्मनसेच्छति ॥ प्रतित्रयमदा
नेन स्थानमाप्नोत्यनुत्तमम् ॥९॥ पूज्यपूजयिता विप्रा यशसा युज्यते नरः ॥ अभिवादनशीलस्य नित्यं वृद्धोपसेविनः॥१०॥समं कृत्वा विवर्धन्ते कीर्तिरायुर्यशो बलम् ॥ ११ ॥ ऋतुकालादृते भार्यां तथैव परिवर्जयेत् ॥ सर्वकामानवाप्नोति ब्रह्मलोकं च गच्छति ॥ १२ ॥ उभौ कालौ तु भुञ्जानस्त्वन्तरा परिवर्जयेत् ॥ पानीयमपि विप्रेन्द्रा ब्राह्मं लोकं प्रपद्यते ॥ १३ ॥ अनेनैव विधानेन देशकालाशनो नरः ॥ सर्वान्कामानवा- प्नोति गतिमाप्नोत्यभीप्सिताम् ॥ १४ ॥ तथा भोजनकाले तु मौनं यस्तु समाचरेत् ॥ उपवासफलन्तस्य प्रत्यहं भोजने स्मृतम् ॥ १५ ॥ सर्वान्कामानवाप्नोति मौनी नक्ताशनस्सस्कृत ॥ नाप्नोति नारकं दुःखं नित्यस्नायी नरो बहिः ॥१६॥ यो दद्यात्परिक्लृप्तमन्नमध्वनि वर्तते ॥ श्रान्तायादृष्टपूर्वाय तस्य पुण्यफलं महत् ॥ १७ ॥ पाद्यमासनमेवाथ दीपंमन्नं प्रतिश्रयम् ॥ दद्यादतिथिपूजार्थं यज्ञाः पञ्च सुदक्षिणाः॥ १८ ॥ चक्षुर्दद्यान्मनो दद्याद्वाचं दद्याच्च सूनृताम् ॥ अनुव्रजेदुपासीत यज्ञाः पञ्च सुदक्षिणाः ॥१९॥ स्थण्डिलेषु शयानानां गृहाणि शयनानि च ॥ चीर वल्कलसंवीतवासांस्याभरणानि च ॥२०॥ वाहनान्यनयानानि योगात्मनि तपोधने ॥ अग्नीनुपशयानस्य राजार्षोपसुच्यते ॥ २१॥ रसानां प्रति संहारे सौभाग्यमधिगच्छति ॥ आमिषप्रतिसंहारे सर्वान्कामानवाप्नुयात् ॥२२॥ अर्वाक्शिरास्तु यो लम्बत्तोयवासं च यो वसेत् ॥ सततं चैक शायी च लभते चेप्सितां गतिम् ॥२३॥ वीरसनं वीरशय्यां वीरस्थानमुपासतः ॥ अक्षयास्तस्य वै लोकाः सर्वकामप्रदाः स्मृताः ॥ २४ ॥ धनं भवति दानेन मौनेनाज्ञां प्रयच्छति ॥ उपभोगांश्च तपसा ब्रह्मचर्येण जीवितम् ॥ २५ ॥ रूपमैश्वर्यमारोग्यमहिंसाफलमश्नुते ॥ फलं फलाशिनो राज्यं स्वर्गः पर्णाशिनां फलम् ॥२६॥ पुष्पाशिनां तथैश्वर्यं धनं शाकाशिनां महत् ॥ पयोभक्ष्या दिवं यांति अभ्रभक्ष्याश्शमितां गतिम् ॥२७॥ दंतोलूखलिको विप्रो यश्चाश्मकुट्टनो जीवति ॥ कापोतीमाश्रितो वृत्तिं यथेष्टाङ्काङ्क्षितामाप्नुयात् ॥ २८ ॥ प्रायोपवेशनाद्राज्यं सर्वत्र फलमश्नुते॥ स्वयं सयेन लभते दीक्ष्या कुलमुत्तमम् ॥ २९ ॥ गवोद्वाः शाकदीक्षायाः स्वर्गकामी हुताशनः ॥३०॥ त्र्यहक्षिप्रेणवणं ज्ञात्वा वायुं पीत्वा क्रतुं लभेत ॥ यज्ञयाजी तथाप्नोति याँल्लोकान्मनसेच्छति ॥ ३१ ॥ उपवासं च दीक्षां चाप्यभिषेकं च वै द्विजाः ॥ कृत्वा द्वादशवर्षाणि वीरस्थानाद्विशिष्यते ॥३२॥ अधीत्य सर्ववेदान्वै सर्वदुःखाद्विमुच्यते ॥ मानसं हि धनं धर्मः स्वर्गलोकमवाप्नुयात् ॥ ३३॥येन प्रीणाति पितरं तेन प्रीतः प्रजापतिः॥ प्रीणाति मातरं येन पृथिवी तेन पूजिता ॥ ३४॥ येन प्रीणात्युपाध्यायन्तेन स्याद्ब्रह्म पूजितम्॥ सर्वे तस्यादृता धर्मा यस्यैते त्रय आदृताः॥ ३५॥ अनादृतास्तु यस्यैते सर्वास्तस्याफलाः क्रियाः ॥ गुरुशुश्रूषया विद्या नित्यं श्राद्धेषु सन्ततिः॥३६॥ नित्यस्नायी भवेद्दक्षः संध्यं तु द्वे जपन्सदा॥
द्विजशुश्रूषया राज्यं द्विजत्वं वापि पुष्कलम् ॥३७॥ देवशुश्रूषया कामान्यथेष्टान्प्राप्नुयान्नरः ॥ मान्त्वदः सर्वभूतानां सर्वलोकैः प्रपूज्यते ॥ ३८ ॥ केशश्मश्रुनखायत्तः त्वभ्वा भवति सन्ततिः ॥ गन्धमाल्यान्निवृत्त्या तु कीर्त्तिर्भवति पुष्कला ॥ ३९ ॥ पञ्चिर्यारंगतः सम्यङ् न रोगै-
स्त्वभिभूयते ॥ गोलोक्रमाप्नोति तथा गवाञ्च परिचर्यया ॥ ४० ॥ देवमाल्यापनयनात्पादशौचाद्विजस्य तु ॥ श्रान्तसंवाहनाद्विप्राः सुखम-
त्यन्तमश्नुते ॥ ४१ ॥ जले सप्तसहस्राणि एकादश हुताशने ॥ भुञ्जप्रभाते च दश संग्रामे विंशतिस्तथा ॥ ४२ ॥ नगे वर्षस-
हस्राणि तनुं त्यक्त्वा तु मोदते ॥ अनाशके तु धर्मज्ञाः परिसंख्या न विद्यते ॥ ४३ ॥ मेरो साधयते राज्यं चयष्टं
भुवि जायते ॥ महाप्रस्थानमाविश्य यथेष्टां गतिमाप्नुयात् ॥ ४४ ॥ वह्निप्रवेशनंनियतंममीहं लोकमश्नुते ॥ वारुणं लोकमा-
प्नोति त्यक्ताम्भसि तनुं नरः॥४५॥अनातुरो व्याधिरहितो न त्यजेदात्मनस्तनुम् ॥ असूयर्या नाम ते लोका अन्धेन तमसा वृताः ॥ तांस्ते
प्रेत्याभिगच्छन्ति ये के चात्महनो जनाः ॥४६॥ अनिवृत्तैरात्मनो ज्ञात्वा मृत्युकालमुपस्थितम् ॥ व्याधितो भिषजा त्यक्तः पूर्ण चायुरपि वासकै ॥
॥४७॥यथायथागमानुसारेण संत्यजेदात्मनस्तनुम् ॥ तस्मिन्काले तनुत्यागाद्यथोक्तं फलमाप्नुयात् ॥४८॥ आयुष्मत्तु परं दृष्टं मरणं ब्राह्मण द्वयोः ॥
क्षत्रियस्य तु सङ्ग्रामे मृते भर्त्तरि योषितः ॥४९॥ ब्राह्मणार्थे गवांर्थे वा यस्त्यजेदात्मनस्तनुम् ॥ आत्मानं शूपमुत्सृज्य स यज्ञोऽन्तन्दक्षिणः ॥
॥ ५० ॥ शष्पं मृगस्त्वोस्तृष्टं यो मृगेः सह सेवते ॥ दीक्षितो वै मुदा युक्तः स गच्छत्यमरावतीम् ॥ ५१ ॥ रोवैलं शोणिपूर्ण वा तद्वतं यो निय-
वते ॥ शान्तो यो मनसा नित्यं स गच्छेत्परमाङ्गतिम् ॥ ५२ ॥ वायुभक्ष्योम्बुभक्ष्यो वा फलमूलाशनोपि वा ॥ यक्षैश्चर्य्यमवादाय मोदतेऽप्स-
रसाङ्गणैः ॥ ५३ ॥ अमियोगवहो ग्रीष्मे विधिदृष्टेन कर्मणा ॥ तीर्त्त्वा द्वादशवर्षाणि राजा भवति पार्थिवः ॥ ५४ ॥ आहारनियमं कृत्वा मुनि-
र्द्वादशवार्षिकम् ॥ व्रतं संसाध्य काले तु राजा भवति पार्थिवः ॥ ५५ ॥ स्थण्डिले शुद्धमाकाशं परिगृह्य समन्ततः ॥ प्रविश्य न मुदा युक्तो
दीक्षां द्वादशवार्षिकीम् ॥ ५६ ॥ स्थण्डिलस्य फलान्याहुर्यनानि शयनानि च ॥ गृहाणि शयनाहीणि चन्द्रशुभ्राणि ब्राह्मणाः ॥ ५७ ॥
आत्मानमुपजीवन्त्यो नियतो नियताशनः ॥ देहं चानशने त्यक्त्वा स स्वर्गं समुपाश्नुते ॥ ५८ ॥ आत्मानमुपजीवन्त्यो दीक्षां द्वादशवा-
र्षिकीम् ॥ अश्मना चरणौ हत्वा गुह्यकेषु च मोदते ॥ ५९ ॥ साधयित्वात्मनात्मानं निर्द्वन्द्वो निष्परिग्रहः ॥ तीर्त्त्वा द्वादशवर्षाणि दीक्षामेकां
१ 'निर्धौतम्' इति ख० पा० ।
मनो गताम् ॥ स्वर्गलोकमवाप्नोति देवैश्च सह मोदते ॥ ६० ॥ आत्मानमुपजीवन्त्यो दीक्षां द्वादशवार्षिकीम् ॥ हुत्वाग्नौ देहमुत्सृज्य वनिलोके महीयते ॥ ६१ ॥ यस्तु विप्रो यथान्यायं दीक्षितो नियतेन्द्रियः ॥ आत्मन्यात्मानमाधाय निर्द्वन्द्वो धर्मलालसः ॥ ६२ ॥ चीर्त्वा द्वादश वर्षाणि दीक्षामेतां मनोगताम् ॥ अणीलहितः स्कन्धे बद्ध्वा गच्छत्यनावृतम् ॥ ६३ ॥ वीरद्वाद्धमनानन्नीय वीरहासनसत्सद्म ॥ वीरस्थायी च सततं स वीरगतिमाप्नुयात् ॥ ६४ ॥ धीरलोके गतो वीरो वीरयोगवहः सदा ॥ सत्यस्यः सर्वमुत्सृज्य दीक्षितो नियतः शुचिः ॥ शक्रलोकगतः श्रीमान्मोदते दिवि देववत् ॥ ६५ ॥ उपवासव्रतैर्दान्ता अहिंसासत्यवादिनः ॥ संसिद्धाः प्रेत्य गन्धर्वैः सह मोदन्त्यनामयाः ॥ ६६ ॥ मण्डूकयोगशयना यथास्थानं यथाविधि ॥ दीक्षां चरति धर्मात्मा स नागैः सह मोदते ॥ ६७ ॥ आर्द्रवासास्तु शिशिरे व्रतं वहति यो नरः ॥ द्वादशाब्दानि नियतं राजा भवति पार्थिवः ॥ ६८॥ वर्षरात्रे तथा पञ्च भवत्याकाशासाधकः ॥ अनपस्नीर्थशायी च राजा भवति पार्थिवः॥ ६९ ॥ त्यक्त्वा वनगताः प्राणांस्तत्पूर्वास्त्वथ परान् ॥ नरंस्तारयितुं दुःखान्नात्मानं च विशेषतः ॥ ७० ॥ येनयेन शरीरेण यद्यत्कर्म करोति यः ॥ तेनतेन शरीरेण तत्तत्फलमुपाश्नुते ॥ ७१ ॥ यस्यांयस्यामवस्थायां यत्करोति शुभाशुभम् ॥ तस्यांतस्यामवस्थायां तत्फलमुपाश्नुते ॥ ७२ ॥ नरेण हि कृतं कर्म सदा पश्चेन्द्रियैरिह ॥ ते ह्यस्य साक्षिणो नित्यं षष्ठ आत्मा तथैव च ॥ ७३ ॥ यथा धेनुसहस्रेषु वत्सो विन्दति मातरम् ॥ एवमेतत्कृतं कर्म कर्तारमनुविन्दति॥७४॥ अवश्यं हि कृतं कर्म भोक्तव्यं द्विजपुङ्गवाः ॥ सुकृतं दुष्कृतं वापि तस्मात्सुकृतमाचरेत् ॥ ७५॥ अद्यो- द्यमानानि यथा पुष्पाणि च फलानि च ॥ स्वकालं नातिवर्तन्ते तथा कर्म पुरा कृतम् ॥ ७६ ॥ पून्यन्ते भवति वृथाभिभूज्यमाने पतस्त्ये भवति वृथाभिषूयमाने ॥ यच्चाग्रे भवति वृथाभिभूयमाने तत्सर्वं भवति वृथामिधीयमाने ॥ ७७॥ इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे मुनीन्प्रति हंसगीतासु कर्मफलविवेको नाम सप्तत्रिंशदुत्तराद्विशततमोऽध्यायः ॥२३७॥ ऋषय ऊचुः ॥ हृष्टादिष्टस्य भवता देहत्यागः प्रकीर्तितः॥ तस्मादस्माकमाचक्ष्व त्वरितानि त्वरितानि महामते ॥ १ ॥ हंस उवाच ॥ प्रवृत्तैर्विप्रवृत्तिस्तृणां बुद्धीन्द्रियशरीरिणा ॥ अकस्माद्दृश्यते यषां तेषां मरणामादिशेत् ॥ २॥ एतत्तस्मात्सादुकथितं विस्तरोऽद्यमन्तः परम् ॥ सूक्ष्मारिष्टाववोचार्थं तथा स्पर्शार्थमेव च ॥३॥ न तु कर्मणि यो व्यग्रे प्रभाकर्म निराभृतः ॥ छायां चन्द्रार्कयोर्वापि तयोश्च गमनं तथा ॥ ४॥ देवमार्गे प्रभा वह्नेर्ध्रुवं तारामरुन्धतीम् ॥ पश्यत्यदृष्टामन्यैर्वा मृत्युः स्यातत्स्य वत्सरात् ॥५॥ सप्तभामातथान्येषां प्रभां यस्तु न पश्यति ॥ तस्यैकादशमे मासे मरणं परिकीर्तितम् ॥ ६ ॥ सुवर्णे रजतं मूत्रं पुरीषं वमते निशि ॥ स्वप्ने स
१ 'वसते' इति पाठान्तरम् ।
मासे दशमे प्रयाति यममन्दिरम् ॥ ७ ॥ रक्षःप्रेतपिशाचानां यक्षाणामपि दर्शनात् ॥ अतीन्द्रियाणामन्येषां नवमे मरणं ध्रुवम् ॥ ८ ॥ दौर्बल्यं जायते यस्य बहुसम्पन्नभोजिनः ॥ अनश्नन्नोऽपि पीनत्वमष्टमे स्यात्स मृत्युभाक् ॥ ९॥ पदं चासकलं यस्य खण्डं विकृतमेव वा ॥ पांसुकर्दमयोश्चैव्यस्सप्तमे मासि मृत्युभाक् ॥१०॥ क्रव्यादामः पक्षिणो यस्य मूर्ध्नि लीयन्ति वै द्विजाः॥ काकश्र्येनादयस्तस्य षष्ठे मरणमादिशेत्॥ ॥ ११॥ यस्य गोमयचूर्णाभं शरीरान्मुच्यते रजः ॥ स्वदेहच्छायाविकृतिः पञ्चमे स तु मृत्युभाक्॥ १२ ॥ अनभ्रे विद्युत्तं दृष्ट्वा चतुर्थे म्रियते ध्रुवम् ॥ ॥ १३ ॥ शक्रचापं जले दृष्ट्वा गगनं वा द्विजोत्तमाः ॥ अविद्यमानं धर्मज्ञस्तृतीये म्रियते ध्रुवम् ॥ १४ ॥ अवघट्टनं नेत्रस्य विना रोगं यदा भवेत् ॥ एकस्य यदि वा दृशोरुत्थानभ्रंशो विधीयते ॥ १५॥ मासेन विकृता नासा वक्रा च मरणप्रदा ॥ १६॥ अर्धमासेन दुर्गन्धप्रभवं श्वश- रीरतः ॥ परचक्षुषि यश्छायामात्मनस्तु न पश्यति॥ स पश्यति महाभागा द्वादशाहैर्न वै यमम्॥ १७॥निर्वाणदीपगन्धं तु यस्तु नाघ्राति मानवः ॥ सप्ताहेन तु धर्मज्ञाः पश्यत्यर्कसुतं ध्रुवम् ॥१८॥ सद्यः स्नातातुलितस्य हृत्पादादिशिरसां भवेत् ॥ क्षिप्रं संशोषणं तस्य त्र्यहान्मरणमादिशेत् ॥ १९॥ गण्डयोस्तिलकाक्रान्तन्वर्णविकृतमेव च ॥ अहोरात्रेण मरणं पुरुषस्य समादिशेत् ॥२०॥ अङ्गुलिभ्यान्तु पिहिते श्रोत्रे तु न शृणोति यः ॥ २१ ॥ शब्दं न पश्येत्तु मुखं निर्मले दर्पणे तथा ॥ पश्येच्च पुरुषान्प्रातांन्सम्यो मरणमादिशेत् ॥ २२ ॥ मूर्ध्निभूमिविनाशो तु जलाद्रांष्ट्रा तदुद्भवैत् ॥ नासाभङ्गेन धर्मज्ञा ब्र्यान्मरणमादिशेत् ॥ २३ ॥ स्पर्शदृष्टिरसघ्राणशब्दचेष्टाविपर्ययः ॥ दृश्यते तु सुपूर्णाणां स्वस्थानुत्तुरगणिणाम् ॥ २४ ॥ क्ष्ऋणं खगं वरं लक्ष्म शीतोष्णस्य विपर्ययः ॥ अकस्माद्वेति यो देही दुर्लभं तस्य जीवितम् ॥२५॥तोयन्मन्दिनीं तोयं मेदिनीमिव पश्यति ॥ अतीन्द्रियं निरीक्षेत न वीक्षेत करस्थितम् ॥ २६ ॥ पृथिवीमिव चाकाशं चाकाशमिव मेदिनीम् ॥ आकाशमिव चात्मानं पूर्णिम्दुमथतिथी ॥ २७ ॥ शुक्लरूपण्वि पर्यासं स्थूलसूक्ष्मविपर्ययम् ॥ विपर्यासं सदसतां दृश्यते जीवितक्षये ॥ २८ ॥ षण्णां रसानां पर्यासं इष्टानिष्टविपर्ययः॥ सर्वथा ग्रहणं पश्यन्नियतातीन्द्रियग्रहः ॥ २९ ॥ अभ्रद्युत्योलैत्यमन्त्यधं मरणायापिजायते ॥ शोमनाशीमनग्रेणग्रहणे तु विपर्ययः ॥ ३० ॥ इष्टे रनिष्टैः संयोगानेर्धरिष्टसहसमागमः ॥ भयधैर्याविपर्यासो जायते प्राणसंक्षये ॥ ३१ ॥ अतिदीर्घोऽतिह्रस्वो वा सतप्रस्कोऽतिशीतलः ॥ उच्छ्वास प्राणसन्त्यागे गतासूनां प्रजायते ॥ ३२ ॥ अनाहतानां शब्दः स्यादाहतानामशब्दता ॥ आहतानामशब्दत्वं मुमूर्षूणां नृणां गृहे ॥ ३३ ॥ उदक् प्रवृत्ते दिवसस्य नाथे पुण्ये दिने मोहविवर्जितस्य ॥ नारायणे चेतसि संस्थिते वा मृत्युर्भवेत्पुण्यवतो द्विजेन्द्राः ॥ ३४ ॥ इति श्रीविष्णुधर्मो
वि० ध० | तृ० खं० ॥४१३॥ | अ० २४१
तरे तृतीयकाण्डे मार्कण्डेयवज्रसंवादे ऋषीन्प्रति हंसगीतास्वरिष्टयोगवर्णनो नामाष्टत्रिंशदधिकद्विशततमोऽध्यायः ॥ २३८ ॥ ऋषय ऊचुः ॥
के दोषाः पापशमना मनुष्याणां विनाशकाः ॥ के गुणाश्च महादेव नित्यमभ्युदयात्मकाः ॥ १ ॥ हंस उवाच ॥ सर्वेषामेव दोषाणा
मज्ञानंः परमो मतः ॥ अज्ञाश्चाश्रद्दधानश्च संशयात्मा विनश्यति ॥ २ ॥ कामः क्रोधस्तथा लोभो हर्षो मानः सदैव च ॥ अज्ञानेनैव
वृत्तं जन्तुं विशन्ते द्विजोत्तमाः ॥ ३ ॥ अज्ञानादेव पापानि विचिनोत्यविचक्षणः ॥ अज्ञानादुत्पथं गत्वा नरकं प्रतिपद्यते ॥ ४ ॥ अज्ञाने
नावृतो जन्तुः शुभे मार्गे न तिष्ठति ॥ अज्ञानशमने यत्नस्ततः कार्यो विजानता ॥ ५ ॥ शास्त्रादन्वेक्षणं तस्य वृद्धसेवा तथैव च ॥
तथा च गुरुशुश्रूषा त्वज्ञानशमनी मता ॥ ६ ॥ लोकद्वये नास्ति महानुभावा अज्ञानतुल्यः पुरुषस्य शत्रुः ॥ अतो हि लोकद्वितयं सुयार्थी
ज्ञाने तु कुर्यात्पुरुषः प्रयत्नम् ॥ ७ ॥ इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे हंसगीतासु ज्ञानवर्णनो नामैकोनचत्वारिंशदुत्तराद्वि-
शततमोऽध्यायः ॥ २३९ ॥ ॥ हंस उवाच ॥ ॥ पापेन सर्वदुःखानां नरो भवति भाजनम् ॥ पापेन नरकं याति देव्यृक्षं तथा भवेत् ॥
॥ १ ॥ नरः पापसमाचारः पापाद्वापि विनश्यति ॥ पापमेकं परं दुःखं सर्वेषां द्विजपुङ्गवाः ॥२॥ कृतपुण्योऽपि यः पापं करोति पुरुषः कचित् ॥
स्वर्गोऽपि न सुखं तस्य तद्व्याधुपजायते ॥ ३ ॥ स एकः पुरुषो लोके यस्य पापं न विद्यते ॥ दीनानुकम्पोपानाथास्तथा च परमार्भकाः ॥ ४॥
तिर्यग्योनिगताश्चान्ये नरकेषु तथा परे ॥ स्थावरासु च योनीषु तिर्यग्योनिषु चाप्यथ ॥ ५ ॥ व्याधिबन्धवधक्लेशताडनान्यप्यनेकशः ॥
नरः प्राप्नोति धर्मज्ञस्तथा पापेन कर्मणा ॥ ६ ॥ ये पापहीनाः पुरुषाः प्रधानास्तेषां न दुःखं भवतीह किंचित् ॥ तस्मात्प्रयत्नेन विवर्जनीयं
पापं बुधैः पुण्यचयश्च कार्यः ॥ ७ ॥ इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे मुनीन्प्रति हंसगीतासु पापनिदर्शनवर्णनो नाम
चत्वारिंशदुत्तरद्विशततमोऽध्यायः ॥ २४० ॥ ॥ हंस उवाच ॥ ॥ कामाद्यनुसारी पुरुषः कामाद्बहु विनश्यति ॥ यस्तु केवलकामात्मा सोऽचि-
राद्भ्रश्यते श्रियः ॥ १ ॥ कामस्यानुसारी धर्मार्थौ न तिष्ठति चिरं नरः ॥ तस्मात्कामं न सेवेत नरो धर्मार्थवर्जितम् ॥ २ ॥
तयो धर्मार्थयोः कामे ध्रुवं भवति सेविते ॥ कामान्येन विजानाति कर्त्तव्यं किञ्चिदेव तु ॥ ३ ॥ परदारे त्वगम्ये वा प्रभातं तदनुध्यते ॥
ध्रुवं प्राणवियोगोऽपि क्रीडामीत्येव मन्यते ॥ ४ ॥ यस्तु केवलकामात्मा धर्मार्थपरिवर्जितम् ॥ काममासेवते नित्यं विज्ञेयः पुरुषाधमः ॥ ५ ॥
धर्मे श्रौते तथैवार्थे काममासेविते द्विजः ॥ ध्रुवं नरकपातः स्यान्नात्र कार्या विचारणा ॥ ६ ॥ धर्मार्थयुक्तं पुरुषस्तु कामं संसेवमानो हि ॥४१३॥
न जातु कामैः ॥ वियोगमाप्नोति ततस्तु विद्वान्धर्मार्थयुक्ते सततं निषेवेत् ॥ ७ ॥ इति श्रीविष्णुधर्मोत्तरे तृ० ख० मार्कण्डेयवज्रसंवादे मुनी न्प्रति हंसगीतासु कामकृतवर्णनो नामैकचत्वारिंशदुत्तरद्विशततमोऽध्यायः ॥ २४१॥ हंस उवाच ॥ नात्यर्थहर्षः कार्यस्तु कदाचिदपि पण्डितैः॥ अत्यर्थहृष्टः पुरुषः कार्यं वेत्ति न किञ्चन ॥ १ ॥ सम्पत्स्वञ्चलां प्राप्य हर्षं प्राप्तो विवर्जयेत् ॥ दृष्ट्वा हि बहवो नष्टा लोके सम्पत्सलब्धिताः ॥ ॥ २ ॥ सम्पत्तौ वा विपत्तौ वा स्वभावं न त्यजेद्बुधः ॥ चञ्चलाः सम्पदः सर्वाः स्वभावादेव वै द्विजाः ॥ ३ ॥ कस्तासां विश्वसेत्प्राज्ञो वेश्यास्त्रीणां यथा तथा ॥ संसर्गान्मोहमाप्नोति तासां प्राप्नोति मानवः ॥ ४ ॥ सर्वे क्षयान्ता निचयाः पतनान्ताः समुच्छ्रयाः ॥ संयोगा विप्रयोगान्ता मरणान्तं हि जीवितम् ॥ ५ ॥ न प्रज्ञा धनलाभाय न जाड्यमसमुद्धये ॥ लोकपर्यायवृत्तान्तं प्राज्ञो जानाति नेतरः ॥ ६ ॥ प्राज्ञस्तु सम्यक्चपलां विदित्वा तां प्राप्य हर्षं परिवर्जयेत्तं ॥ सम्पद्विनाशे न च दुःखमीयाद्याह्ववि तद्वद्धि न तस्य नाशः ॥ ७ ॥ इति श्रीविष्णुधर्मोत्तरे तृ०ख० मार्कण्डेयवज्रसंवादे हंसगीतासु प्रहर्षदोषवर्णनो नाम द्विचत्वारिंशदुत्तरद्विशततमोऽध्यायः॥२४२॥ हंस उवाच॥मानं विवर्जितं सद्भिर्वर्जनीयं सदा बुधैः॥मानेन नष्टा बहवो राजानः सपरिच्छदाः॥१॥ ब्राह्मण्याच्च परिभ्रष्टा ब्राह्मणा बहवो द्विजाः॥ सर्वदोषोत्पादं मानं लोकद्वयविघातकम् ॥ २ ॥ युक्तार्युक्तं न जानाति मानेन पुरुषाधमः ॥ मानग्रस्तो नरो लोके गुरून्नप्यवमन्यते ॥ ॥ ३ ॥ करोत्यकार्यं पुरुषो मानेन च तथा ध्रुवम् ॥ मानग्राहेगृहीतस्य नास्ति मोक्षः कथञ्चन ॥ ४ ॥ कामः क्रोधश्च लोभश्च सर्वेऽनर्थ विनाशकाः ॥ मानग्रस्तं तु पुरुषमाविशन्ति द्विजोत्तमाः ॥ ५ ॥ मानाभिभूतश्च तथा नर्क प्रतिपद्यते ॥ अप्रतिष्ठन्नरश्रेष्ठस्तस्मात्तं परिवर्जयेत् ॥ ६ ॥ शत्रुर्न मानेन समोऽस्ति पुंसो मानेन नाशं व्रजतीह जन्तुः ॥ मानी हि तस्मात्परिवर्जनीयो बुधैस्तु नित्यं नकरम्य मार्गः ॥ ७ ॥ इति श्रीविष्णुधर्मोत्तरे तृ० ख० मार्कण्डेयवज्रसंवादे मुनीन्प्रति हंसगीतासु मानदोषवर्णनो नाम त्रिचत्वारिंशदुत्तरद्विशत तमोऽध्यायः ॥ २४३ ॥ हंस उवाच ॥ मदो विवर्जितः सद्भिर्वर्जनीयः प्रयत्नतः ॥ मदे तु बहवो दोषा लोकद्वयविघातकाः ॥ १ ॥ मत्तः कार्यं न जानाति गुरून्नप्यवमन्यते ॥ मत्तस्य नरकद्वारं नित्यं विप्रास्त्वपावृतम् ॥ २ ॥ मत्तो भयं न जानाति मरणेऽप्यतिकुत्सिते ॥मत्तो मोहमवाप्नोति न विजानाति किञ्चन ॥ ३ ॥ मदनाममपि सर्वेषां ज्ञेयः पानमदोऽधमः ॥ तेन वि भूतः पुरुषो न मृतादतिरिच्यते ॥ ४ ॥ अज्ञानतुल्यं न हि दोषमस्ति हेतुश्चतस्येह परो मदः स्यात् ॥ तस्मात्प्रयत्नेन मदस्य हेतुर्नैवा
वि० ध० ॥४१४॥ तृ० खं० अ० २४७ ॥४१४॥
पानं परिवर्जनीयम् ॥ ६ ॥ इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे सुनीत्यादि हंसगीतासु मददोषवर्णनो नाम चतुश्चत्वारिंशदु- त्तरद्विशततमोऽध्यायः ॥ २४४ ॥ ॥ हंस उवाच ॥ ॥ लुब्धो दोषान्न जानाति लुब्धः पापं न बुद्ध्यते ॥ नरो लोभमभावितो वरामीति तथापदान् ॥ १ ॥ जीर्यन्ति जीर्यतः केशा नखा जीर्यन्ति जीर्यतः ॥ जीर्यन्ति जीर्यतो दन्तास्तृष्णा त्वेका न जीर्यते ॥ २ ॥ तृष्णास्वलिनिराधे यमपूर्वा द्विजपुङ्गवाः॥ पूर्यमाणापि सततं सञ्चयैस्तुष्यधिकं तथा ॥ ३ ॥ न तां पूरयितुं शक्तः कदाचिदपि कश्चन ॥ न तां पूरयितुं शक्ताः सर्वे सन्तोषमाश्रिताः ॥ ४ ॥ यत्पृथिव्यां व्रीहियवं हिरण्यं पशवः स्त्रियः ॥ नालमेकस्य पर्याप्तमिति मत्वा शमं व्रजेत् ॥ ५ ॥ या दुस्त्यजा दुर्मति- भिर्या न जीर्यति जीर्यतः ॥ योऽसौ प्राणान्तिको रोगस्तां तृष्णां त्यजतः सुखम् ॥ ६ ॥ लुब्धस्य बन्धून् सुतो गुरुर्वा लुब्धस्य लोका न च लोकयात्रा ॥ लुब्धस्य दोषाः सकलाः प्रसिद्धा लोकद्वये दुःखकराः सुरोधाः ॥ ७ ॥ इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे सुनीत्रादि हंसगीतासु लोभदोषवर्णनो नाम पञ्चचत्वारिंशदुत्तरद्विशततमोऽध्यायः ॥ २४५ ॥ ॥ हंस उवाच ॥ क्रोध एकः परः शत्रुः क्रोध एको विनाशकृत् ॥ क्रोधाभिभूतः पुरुषस्त्वात्मानमपि घातयेत् ॥ १ ॥ अर्थानर्थो न जानाति कार्याकार्यो तथैव च ॥ नरः क्रोधसमाविष्टो नान्यं मित्रमपि द्विजान् ॥ २ ॥ गुरूनाक्षिपति क्रोधान्नैनं हि नमते जनः ॥ अनर्थैः सह संसर्गस्तस्मात्क्रोधं विवर्जयेत् ॥ ३ ॥ क्रोधं मूलमनर्थानां द्वारं हि नरकस्य च ॥ आपदामास्पदं घोरन्तं प्रयत्नेन वर्जयेत् ॥ ४ ॥ क्रोधेन विजितो यस्तु कथमन्धं स जेष्यति ॥ क्रोध जिते जितं विद्धि त्रैलोक्यं सचराचरम् ॥ ५ ॥ अनर्थकारिणं क्रोधं यदा तेजस्विता मता ॥ क्रोषे दोषमतः कृत्वा जितः क्रोधो महात्मभिः ॥ ६ ॥ यज्ञैश्च दानानि तपः पवित्रं तीर्थोपसेवा च तथैव वेदाः ॥ क्रोधाभिभूतस्य भवन्ति मिथ्या नरस्य तस्मात्परिवर्जयेत्तम् ॥ ७ ॥ इति श्रीविष्णुधर्मोत्तरे तृतीय- खण्डे मार्कण्डेयवज्रसंवादे सुनीन्त्रि हंसगीतासु क्रोधदोषवर्णनो नाम षट्चत्वारिंशदुत्तरद्विशततमोऽध्यायः ॥ २४६ ॥ ॥ हंस उवाच ॥ ॥ सर्वषामेव पापानां नास्तिक्यं पातकं परम् ॥ नास्तिक्याद्धि परं नास्ति किञ्चित्पापं द्विजोत्तमाः ॥ १ ॥ अकार्यामिति कार्याणि कृत्वा कार्यव- शास्त्रः ॥ पश्चात्तापेन संयुक्तः क्षिप्रं पापं व्यपोहति ॥ २ ॥ कार्यबुद्ध्या त्वकार्याणि यः करोति नराधमः ॥ कथं निवर्त्तनं तेभ्यो जायते तस्य वै द्विजाः ॥ ३॥ नास्तिक्यस्य तथा मूलं त्वसच्छ्स्त्रावगाहनम् ॥ तस्मात्सर्वप्रयत्नेन तद्वर्ज्यं विजानता ॥४॥ सर्वो हि मानवो लोके परलो- कानिबन्धनः ॥ तत्रापि निरपेक्षस्य किन्तु लोके निबन्धनम् ॥५॥ ये तु वै नास्तिका लोके नरा लोकं प्रति द्विजाः ॥ नरके ते हि पच्यन्ते बहु
कालं न संशयः ॥६॥ नास्तिक्यमेकं पुरुषस्य लोके विनाशने विप्रवराः प्रदिष्टम् ॥ तस्मात्प्रयत्नेन विवर्जनीयो नास्तिक्यभावः सुखमीप्समानैः ॥७॥ इति श्रीविष्णुधर्मोत्तरे तृ० ख० मार्कण्डेयवज्रसंवादे मुनिन्नति हंसगीतासु नास्तिक्यदोषवर्णनो नाम सप्तचत्वारिंशदुत्तरद्विशततमोऽध्यायः ॥ २४७ ॥ हंस उवाच ॥ अहङ्कारात्परं नास्ति लोके किञ्चिद्विनाशनम् ॥ अहङ्कारेण भूपालाः शतशो निधनङ्गताः ॥ १ ॥ अहङ्कृतास्तथा नष्टा ब्राह्मणाश्च सहस्रशः ॥ मान्यामान्यान जानन्ति कार्याकार्यं त्वहङ्कृताः ॥ २ ॥ अहङ्कृतस्तथा लोके न विद्यामधिगच्छति ॥ विषण्णकार्यश्च तथा न प्राज्ञान्परिपृच्छति ॥ ३ ॥ न शृणोति तथान्यान्दर्पपूर्णो विचक्षणः ॥ पातान्यैन्यमभैषज्यं दर्पान्नास्त्येह कीर्तनम् ॥ ४ ॥ स्थिते बलाधिकैस्तथा वीरैर्गुरुभिश्च तथैव च ॥ मरणे संनिकृष्टेपि मरणस्य विचक्षणः ॥ ५ ॥ हेतुभूतानि कर्माणि निन्दितानि निषेवते ॥ स्थिते स्थितांस्तथा प्राज्ञान्भाषमाणान्निन्दति ॥ ६ ॥ अहङ्कृतानां नरके प्रदिष्टा गतिर्ध्रुवं लोकविगर्हितानाम् ॥ प्राज्ञेन तस्मात्परिवर्जनीयो दर्पो विनाशैककरः सदैव ॥७॥ इति श्रीविष्णुधर्मोत्तरे तृ० ख० मार्कण्डेयवज्रसंवादे हंसगीतास्वहङ्कारदोषवर्णनो नामाष्टचत्वारिंशदुत्तरद्विशतत मोऽध्यायः ॥ २४८ ॥ हंस उवाच ॥ दत्तं यच्छौचहीनेन न तद्गृह्णन्ति देवताः ॥ भुक्तस्रवश्च धर्मज्ञाः शुचिकामश्च देवताः ॥ १ ॥ यज्ञैश्च राक्षसैश्चैव पिशाचैश्च निशाचरैः ॥ डाकिनीभिश्च धर्मज्ञाः शौचहीनोऽभिभूयते ॥ २ ॥ शौचहीनमभ्यर्च्य स्वयं निन्दन्ति के द्विजाः ॥ व्याधि हीनो ह्यशौचश्च सर्वैरेवाभिसूयते ॥ ३ ॥ वर्धते च तथानर्थः समर्थाश्च व्रजन्ति च ॥ शौचहीनस्य रिपवो यान्ति वृद्धिं परां द्विजाः ॥ ४ ॥ शौचोचमर्थशौचं च वाक्छौचमपि च द्विजाः ॥ एतानि यस्य शौचानि स शुचिः परिकीर्तितः ॥ ५ ॥ शौचं शुचिः स हि शुचिनं शुद्धांरेशुचिः शुचिः ॥ तत्तश्चाप्यधिकं शौचमहिंसा परिकीर्तिता ॥ ६ ॥ शौचेन हीना नरकं व्रजन्ति शौचेन हीना विभजन्त्य नर्थान् ॥ शौचेन हीनाश्च भवन्ति निन्द्यास्तस्मादशौचं परिवर्जनीयम् ॥ ७ ॥ इति श्रीविष्णुधर्मोत्तरे तृ० ख० मार्कण्डेयवज्रसंवादे मुनीन्प्र ति हंसगीतासु शौचवर्णनो नामैकोनपञ्चाशदुत्तरद्विशततमोऽध्यायः ॥ २४९ ॥ हंस उवाच ॥ आचारहीनाः पुरुषा भवन्त्यल्पायुषो द्विजाः ॥ आचारहीनश्च तथा राक्षसैर्विभूयते ॥ १ ॥ यक्षैः पिशाचैर्गन्धर्वैस्तथा चान्यैर्निशाचरैः ॥ डाकिनीभिः सुराणां च तथा पार्षणगाः पृथक् ॥२॥ न दत्तमाचारहीनेन न प्रतीच्छन्ति देवताः ॥ पितरश्च महाभाग ऋषयश्च तपोधनाः ॥ ३ ॥ सर्वलक्षणयुक्तोऽपि नरस्त्वाचारवर्जितः ॥ न प्राप्नोति तथा विद्यां न च किञ्चिद्भीप्सितम् ॥ आचारहीनः पुरुषो नरकं प्रतिपद्यते ॥ ४ ॥ आचारहीनं न पुनन्ति वेदा यद्यप्यधीताः सह
वि० ध० ॥४१५॥
षड्भिरङ्गैः ॥ आचारहीनेन तु धर्मकार्यं कृतं हि सर्वं भवतीह मिथ्या ॥ ५ ॥ इति श्रीविष्णुधर्मोत्तरे तृ० ख० मा० कुण्डयज्ञसंवादे मुनीन्द्रैः हंसगीतास्तवनाचारदोषवर्णनो नाम पञ्चाशदुत्तरद्विशततमोऽध्यायः ॥ २५० ॥ हंस उवाच ॥
तृ० खं० अ० २५१
अनृतं वर्जयेन्नित्यमनृतं पातकं परम् ॥ अनृताद्धि परं नास्ति द्वारं नाशनमात्मनः ॥ १ ॥ सर्वं निबद्धा वाच्यार्था वाङ्मूला वाग्विनिस्सृताः॥ तस्मान्न स्तेनयेद्वाचं य इच्छेद्धितमात्मनः ॥ २ ॥ अनृतं न क्वचिद्वाच्यं तथा साक्ष्यं विशेषतः ॥ अनृतं हि वदन्साक्ष्ये पितृभिः सह मज्जति ॥ ३ ॥ पञ्च पश्वनृते हन्ति दश हन्ति गवानृते ॥ शतमश्वानृते हन्ति सहस्रं पुरुषानृते ॥ ४ ॥ हन्ति जातानजातांश्च हिरण्यार्थेऽनृतं वदन् ॥ सर्वं भूम्यनृते हन्ति मास्म भूम्यनृतं वदेत् ॥ ५ ॥ अप्सु भूमिवदित्याहुः स्त्रीणां भोगे च मैथुने ॥ अब्जेषु चैव रत्नेषु सर्वेष्वश्ममयेषु च ॥ ६ ॥ एतान्दोषानवेक्ष्यैव सर्वाननृतभाषणे ॥ यथाश्रुतं यथादृष्टं सर्वमेवाञ्जसा वदेत् ॥ ७ ॥ नग्नो मुण्डः कपाली च भिक्षार्थी क्षुत्पिपासितः ॥ अन्धः शत्रुगृहं गच्छेन्न साक्ष्यमनृतं वदेत् ॥ ८ ॥ साक्ष्येऽनृतं वदन्पाशैर्बध्यते वारुणैर्भृशम् ॥ निविशन्ते तमाजातीस्तारमस्तांश्च वेद्दतम् ॥ ९ ॥ यन्मया गदितं पापं द्विजेन कूटसाक्षिणः ॥ ततोऽधिकमवाप्नोति सद्यो मिथ्याऽभिशं सने ॥ १० ॥ यथा क्रोधाद्भयाल्लोभादज्ञानाद्वा द्विजोत्तमः ॥ गोऽनृतं भाषते सद्यः स याति नरकं ध्रुवम् ॥ ११ ॥ अवाक्शिरास्तमस्यन्धे किल्बिषी नरके पतेत् ॥ यः प्रश्नं वितथं ब्रूयात्पृष्टः सद्भिर्निश्रेयसे ॥ १२ ॥ अन्धो मत्स्यानिवाश्नाति निरपेक्षं सकण्टकान् ॥ यो भाषतेऽर्थ वैकल्यमप्रत्यक्षं समाङ्गितः ॥ १३॥ कूटकर्मतुलामाने रसानां भेदने तथा ॥ विश्वासस्यानृतसहरणे रहस्यसमयभेदने ॥ १४ ॥ मृतिं कल्पयते यश्च मधु मांसेन पातकम् ॥ द्विजस्य सुरया वापि लोभेन च विशेषतः ॥ १५ ॥ गोब्राह्मणवधे वापि गुरुपितृवधे तथा ॥ वयस्यदारगमने गुरुदारप्रदर्शने ॥ १६ ॥ व्युत्पादने च शस्त्राणां शस्त्रोत्सादे तथैव च ॥ भर्तृपिण्डापहरण संङ्ग्रामाच्च पलायने ॥१७॥ शरणागतसंत्यागे गच्छतश्च दिवा स्त्रियम् ॥ प्रेक्ष्यां च गच्छतः पापं राजद्रोहे तथैव च ॥ १८ ॥ पङ्क्त्यां विषमदातुश्च श्राद्धे मित्रस्य यत्तथा ॥ शुल्केन ददतः कन्यां केशविक्रयिकस्य च ॥ १९ ॥ विक्रयस्य पातकं यच्च प्राणिनां विक्रये भवेत् ॥ अभ्रातृदासुजः पापमयाज्यस्य च याजने ॥ २० ॥ मिथ्या राज्यस्य करणे पर द्रव्यापहारिणः ॥ सर्वाण्येतानि पापानि द्विजः सभ्यः समाप्नुयात् ॥ २१ ॥ वदन्त्यथा वदेत्तस्माद्धर्म्यं सभ्यः सदा वदेत् ॥ एतदेव तथा पापं विज्ञेयं कूटसाक्षिणाम् ॥ २२ ॥ कूटकर्मी तु नरकं पितृभिः सह मज्जति ॥ दशवर्षसहस्राणि दशवर्षशतानि च ॥२३॥ ततो दशगुणं कालं सभ्यो ॥४१५॥
मिथ्याभिभाषिता ॥ रागद्वेषप्रवृत्तस्तु व्यवहारोऽपि पार्थिवः ॥ २४ ॥ ततो दशगुणं कालं नरके वसति ध्रुवम् ॥ उक्ते वचसि धर्म्यं तु सद्यः पापात्प्रमुच्यते ॥ २५ ॥ राजा नरकमवाप्नोति सत्यवाक्यं विलंघयन् ॥ शूद्रविट्क्षत्रविप्राणां यत्रोक्ते प्राप्नुयाद्वधः ॥ २६ ॥ तत्र वक्तव्यमनृतं तद्धि सत्याद्विशिष्यते ॥ वाग्दैवतैश्च चरुभिर्यजैनेश्च सरस्वतीम् ॥ २७॥ कूष्माण्डैर्वापि जुहुयाद्धृतमग्नौ यथाविधि ॥ उद्धृत्येवं वा वारुणे ऋचा वाग्दैवतेन वा ॥ २८॥ अनृतस्य वशस्तस्य कुर्वाणो निष्कृतिं पराम्॥ बह्वन्वः सुखमेधन्ते यस्मिन्निप्वा निपातिते ॥ वाच्यं तस्य वधे प्राप्ते यथाभूत मिति श्रुतिः ॥ २९ ॥ न नर्मयुक्तं वचनं हिनस्ति न स्त्रीषु विप्रा न विवाहकाले ॥ प्राणात्यये सर्वधनापहारे पञ्चानृतान्याहुरपातकानि ॥ ३० ॥ इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे मुनीन्प्रति हंसगीतास्वनृतदोषवर्णनो नामैकपञ्चाशदुत्तरद्विशततमोऽध्यायः ॥ २५१॥
हंस उवाच ॥ सर्वेषामेव पापानां हिंसा परमिरहोच्यते ॥ हिंसा वल्मसाधूनां हिंसा लोकद्वयापहा ॥ १ ॥ अपि कीटः पतङ्गो वा न हन्तव्यः कथञ्चन ॥ महद्दुःखमवाप्नोति पुरुषः प्राणिनाशनात् ॥ २ ॥ आतातायिनमायान्तं पुरुषं यदि वा पशुम् ॥ उपायहीनस्तं हत्वा न तु पापेन बाध्यते ॥ ३ ॥ गुरुं वा बालवृद्धौ वा मान्यं वाप्यथ वा जनम् ॥ आतातायिनमायान्तं हन्याद्विचारयन् ॥ ४ ॥ आतातायिन मायातन्मपि वेदान्तगं रणे ॥ जिघांसन्तं जिघांसीयान्नेन पापं न विद्यते ॥ ५ ॥ रणे प्रहारामिहते शत्रौ नैवास्ति पातकम् ॥ जित्वा गृहीते निहते तस्मिन्नेवास्ति पातकम् ॥ ६ ॥ रणे जितन्तु यः शक्तः पश्चात्पातयते नरः ॥ स याति नरकं घोरं बह्वब्दशुशतानि च ॥ ७ ॥ मुक्त्वा नारकाद्दुःखाद्बह्वब्दशतानि तु ॥ आमगर्भेपु सिच्यन्ते ये नरा नयघातकाः ॥ ८ ॥ यावन्ति पशुरोमाणि तावत्कृत्स्हं मारणम् ॥ वृथापशुघ्नः प्राप्नोति प्रेत्य चेह च निष्कृतिम् ॥ ९ ॥ अपि कीटं नरो हत्वा छित्त्वा तृणमथापि वा ॥ नरकं याति धर्मज्ञाः पुरुषः स्वेन कर्मणा ॥ १० ॥ स्त्रीहिंसा धनहिंसा च प्राणिहिंसा च दारुणा ॥ हिंसा च त्रिविधा प्रोक्ता वर्जिता पण्डितैर्नरैः ॥ ११ ॥ अहिंस्रकस्तु यत्नेन वर्जयेत्तु परस्त्रियम् ॥ विजनेऽपि तथा न्यस्तं परद्रव्यं प्रयत्नतः॥ १२ ॥ अतो वै नैव कर्तव्या प्राणि हिंसा भयावहा ॥ वियोज्य प्राणिनं प्राणैस्तथैकमपि निर्घृणः ॥ १३ ॥ नरकाद्धि विनिर्मुक्तो न किञ्चित्सुखमेधते ॥ यां रात्रिम्प्रधिविनां स्त्री यां चैवाक्षपराजिताम् ॥ १४ ॥ यां च राज्यच्युतो रात्रिं यां च सर्वस्वविच्युतः ॥ इष्टबन्धुवियुक्तश्च यां रात्रिं दुःखमश्नुते ॥ १५ ॥ व्यवहारे जितेश्चैव यद् दुःखं कूटसाक्षिभिः ॥ तत्सर्वं दुःखमाप्नोति हत्वैकमपि तु द्विजाः ॥ १६ ॥ नास्ति पापतरं लोके मनुष्या मांस
भोजिनः ॥ बर्हिर्मासं तृणात्काष्ठादुपलाद्धापि जायते ॥ १७ ॥ घोराण्याणिणवधाज्जातं पुरुषः परिवर्जयेत् ॥ यदि चेत्स्वादुको न स्यान्न भवेद्भक्तस्तथा ॥ १८ ॥ एतस्मात्कारणान्निन्द्यो चातकादपि खादकः ॥ यावतां प्राणिनां येन मांसं भुक्तं भवेदिह ॥ १९ ॥ ता एव तेन तावत्यो गन्तव्या योनयो ध्रुवम् ॥ येषान्तु प्राणिनां भुक्तं तेन मांसं द्विजोत्तमाः ॥ २० ॥ भोक्तव्यं तस्य तैर्मासं ध्रुवं जन्मनिजन्मनि ॥ मांसभक्षयिताऽमुत्र यस्य मांस मिहाद्यद्यहम् ॥ २१॥ एतन्मांसस्य मांसत्वं प्रवदन्ति मनीषिणः ॥ समुत्पत्तिं च मांसस्य वधबन्धौ च देहिनाम् ॥ ॥ २२ ॥ प्रसमीक्ष्य निवर्त्तत सर्वमांसस्य भक्षणात् ॥ अनुमन्ता विशसिता निहन्ता क्रयविक्रयी ॥ २३ ॥ संस्कर्त्ता चोपहर्त्ता च खादकाश्च विघातकाः ॥ स्वमासं परमांसेन यो वर्धयितुमिच्छति ॥ २४ ॥ न पापकृत्तमो लोके तस्मादन्यो हि विद्यते ॥ असंस्कृतानल्पमन्त्रैर्नाद्याद्विप्राः कथञ्चन ॥ २५ ॥ मन्त्रैस्तु संस्कृतानद्याच्चाश्वत्थं विधिमास्थितः ॥ या वेदविहिता हिंसा सा हिंसा मता यतः ॥ २६ ॥ ओषध्यः पशवो वृक्षास्तिर्यञ्चः पक्षिणस्तथा ॥ यज्ञार्थं निधनं प्राप्ता प्राप्नुवन्त्युच्छ्रिताः पुनः ॥ २७ ॥ मधुपर्के च यज्ञे च पितृदैवतकर्मणि ॥ अत्रैव पशवो हिंस्या नान्यत्रेति कदाचन ॥ २८ ॥ एष्वेवेषु पशून्हन्ति वेदतत्त्वार्थविद्विजाः ॥ आत्मानं च पशूँश्चैव गमयन्त्युत्तमां गतिम् ॥ २९ ॥ यज्ञार्थं पशवः सृष्टाः पूर्वमेव स्वयम्भुवा ॥ यज्ञाश्च भूतैः सर्वस्य तस्माद्यज्ञे वधोऽवधः ॥ ३० ॥ वृथा तु मांसं पुरुषः समश्नन्प्रयाति विना नरकं सुघोरम् ॥ निबर्हणं गर्हितमेव जन्तोर्मांसञ्च तस्मात्परिवर्जनीयम् ॥ ३१॥ इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे हंसगीतासु हिंसादोषवर्णनो नाम द्विपञ्चाशदुत्तरद्विशततमोऽध्यायः ॥ २६२ ॥ ऋषय ऊचुः ॥ ब्रूह्यस्माकं द्विजश्रेष्ठ नरः पापेन कर्मणा ॥ किकिमाप्नोति धर्मज्ञ विहगेन्द्र महामते ॥ १ ॥ ॥ हंस उवाच ॥ ॥ पापं कृत्वा नरो विप्र नरकं प्रतिपद्यते ॥ नरकाच्च विनिर्मुक्तिस्तैर्यग्योनौ तथा व्रजेत् ॥ २॥ शरीरजैः कर्मदोषैर्य्याति स्थावरतां नरः ॥ वाचिकैः पक्षिमृगतां मानसैस्त्यन्त्यजातिताम् ॥३॥ कर्मजा गतयो नृणामुत्तमाधममध्यमाः ॥ त्रिविधास्तु विनिर्दिष्टा दशलक्षणलक्षिताः ॥ ४ ॥ परद्रव्येष्वभिध्यानं मनसा दुष्टचिन्तनम् ॥ वितथाभिनिवेशश्च त्रिविधं कर्म मानसम् ॥ ५ ॥ पारुष्यमनृतं चैव पैशुन्यं चैव सर्वशः ॥ अनिवद्धप्रलापश्च वाङ्मयं स्याच्चतुर्विधम् ॥ ६ ॥ अदत्तानामुपादानं हिंसा चैवाविधानतः ॥ परदारोपसेवा च शारीरं त्रिविधं स्मृतम् ॥ ७॥ एकस्मिन्नप्यतो विप्रः सेवते दशलक्षणम् ॥ अयथांन्नायमायुष्यं यद्वा भवति दुःखितः ॥ ८ ॥ इह दुष्कृतैः केचित्कीर्त्तिपूर्वकृतैस्तथा ॥ प्राप्नुवन्ति दुरात्मानो नरा रूपविपर्ययम् ॥ ९ ॥ प्लीहा क्षय
रोगी स्याच्छ्वित्री गुरुतल्पगः ॥ श्यावदन्तः सुरापश्च कुनखी कनकपहः ॥ १० ॥ वस्त्रापहारकः श्वित्री षङ्गुरश्वापहारकः ॥ पङ्गुर्वैव तथा ज्ञेयः सर्वयानापहारकः ॥ ११ ॥ अंधश्च जायते लोके गां हत्वा मानवाधमः ॥ धान्यचोरोऽतिरिक्तङ्गो मूको वागपहारकः ॥ १२ ॥ गुरुस्वाम्यि द्विजान्कोशांश्चवेदान्निन्दां तथैव च ॥ श्रुत्वा भवति दुर्बुद्धिर्बधिरो मानवाधमः ॥ १३ ॥ नित्यामयावी भवति तथा चान्नापहारकः ॥ वियोज्यैक मपि प्राणेः प्राणिनं व्याधितस्तथा ॥ १४ ॥ वस्त्रभोज्यापहर्तारौ तथा नग्नक्षुधितौ ॥ १५ ॥ अभिमान्याभिभूतश्च तथा भवति दुर्मतिः ॥ १६ ॥ जुहोति यो द्विजश्रेष्ठा असमिद्धे हुताशने ॥ रत्नाहारी भवति तथा कुष्ठी नराधमः ॥ १६ ॥ पिशुनः पूतिनासश्च पूतिकवक्त्रश्च सूचकः ॥ षण्ढश्च जायते लोके दारातिक्रमकारकः ॥ १७ ॥ परपुंसि प्रदाता वा तस्य भार्या तथा भवेत् ॥ कुष्ठी भवति धर्मज्ञास्त्वपहृत्य तथा क्रियम् ॥ १८ ॥ लिङ्गूर्ध्वमधमवामोति वियोनौ मैथुनं गतः ॥ गां च गत्वा द्विजश्रेष्ठा लिङ्गनाशमवाप्नुयात् ॥ १९ ॥ पूज्यानामन्त खाल्वाटो पूज्येताऽऽद्यैतथा कुणिः ॥ मार्गार्हाय च यो मार्ग न प्रयच्छति दुर्मतिः ॥ २० ॥ खञ्जो भवति दुर्बुद्धिरासनाहर्त्तृ चासनम् ॥ दुर्नामा संयतो नित्यं मत्सरी जायते शठः ॥ २१ ॥ दीपहर्त्ता भवत्यन्धः काणो निर्वापको भवेत् ॥ दैव्दतेन ज्ञानेन कृत्वा कर्म सुदुर्मतिः ॥ जायते बुद्बुदाक्षो वा नेत्ररोग युतोऽथवा ॥ २२ ॥ दृष्ट्वा परस्त्रियं नग्नां नरो दुष्टेन चक्षुषा ॥ जात्यन्धतामवाप्नोति परलोके न संशयः ॥ २३ ॥ वर्णाधिकृत्य जीवित्वा वर्ण हीनेन कर्मणा ॥ तस्यैव योनिमाप्नोति नात्र कार्या विचारणा ॥ २४ ॥ तथैवाधिकवर्णस्य यदि जीवति कर्मणा ॥ हीनवर्णस्तथा लोके भवत्यन्धः स दुर्मतिः ॥ २५ ॥ यस्याविनोदस्थेन मृत्युमेति द्विजः क्वचित् ॥ तस्यैव योनिमाप्नोति स्वकृतेनापि कर्मणा ॥ २६ ॥ आमश्राद्धं तथा मुक्त्वा विरूपो जायते नरः ॥ विरूप एव भवति तथाविक्रयविक्रयात् ॥ २७ ॥ विनापराधेन तथा कृत्वा पन्त्य च्छिदेद्दनम् ॥ पराजयमवाप्नोति व्यवहारे तथा रणे ॥ २८ ॥ मूलकर्म तथा कृत्वा वशीकरणकारणात् ॥ द्वेष्यो भवति लोके ऽस्मिञ्जगतो नात्र संशयः ॥ २९ ॥ अवकर्णी च भवति लिङ्गव्याधिसमन्वितः ॥ परिवेत्ता तथा लोके सर्वव्याधिसमन्वितः ॥ ३० ॥ अयाज्ययाजकः पापो जायते वर्णसंकरः ॥ वेदविक्रयको मूर्खः कितवश्चैव जायते ॥ ३१ ॥ विधानर्थश्च भवति तथाविक्रयविक्रयी ॥ एकः स्वादाशनो लोके जायते परर्तर्पकः ॥ ३२ ॥ परिवाङ् कामवृत्तस्तु नित्यं भवति दुःखितः ॥ हिंसास्तस्तथात्पायुस्तु मांसाशनो नरः ॥ ३३॥ नास्तिकस्तु दरिद्रः स्यात्सर्वभोगाद्विवर्जितः ॥ अतिमानप्रवृत्तस्तु जायते कुत्सिते कुले ॥ ३४ ॥ श्वपाकपुक्कसादीनां कुत्सितानामचेतसाम् ॥
वि० ध० ॥४१७॥ तृ० खं० अ० २५५
कुलेषु तेषु जायन्ते गुरुवृद्धावचायकाः ॥ ३६ ॥ परोद्वेगरतोनित्यं बहुभाषश्च जायते ॥ प्रकीर्णमैथुनो जन्तुः क्लीबो भवति वै द्विजः ॥ ३६ ॥ नरः पापसमाचारो मृत्युमभ्येति कुत्सितम् ॥ श्वभ्रे तु मरणं लोके विषैः स्थावरजङ्गमःै ॥ ३७ ॥ दंष्ट्रिभ्यश्च नखिभ्यश्च चण्डालाद्ब्राह्मणातथा ॥ गृहात्पपतनाच्चैव द्रुमाश्वपतितास्तथा ॥ ३८ ॥ नौभंगादग्निदाहाच्च तथोद्वन्धनकर्मणा ॥ गोभ्यश्च मरणं लोके विज्ञेयं पापकर्मणः ॥ ३९ ॥ एषा- मन्यतमं मृत्युमासाद्य नरकं व्रजेत् ॥ नत्वापि तैश्च युज्यन्ते ये नराः शुभकारिणः ॥ ४० ॥ ताडिता ताड्यते लोके बद्धा वै बध्यते तथा ॥ हन्ता वध्यमवाप्नोति नात्र कार्या विचारणा ॥ ४१ ॥ यद्यत्परस्याचरति तत्तत्स्याद्योपजायते ॥ ४२ ॥ प्राप्नोति यादृशीं बाधां यत्कर्माणि कृते परः ॥ तस्यापि तादृशी बाधा ज्ञेया जन्मनिजन्मनि ॥ ४३ ॥ तस्मात्सर्वप्रयत्नेन पापबाधां विवर्जयेत् ॥ श्रूयतां धर्मसर्वस्वं श्रुत्वा चाप्यवधार्यताम् ॥ आत्मनः प्रतिकूलानि परेषां न समाचरेत् ॥ ४४ ॥ परोपतापक्रीकया न कार्यं धनार्जनं दोषसमूहकारि ॥ परोपतापप्रभवो हि दोषः शक्यो न हन्तुं विबुधालयैरपि ॥ ४५ ॥ इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे मुनीन्प्रति हंसगीतासु पापकर्मफल- निरूपणो नाम त्रिपञ्चाशदुत्तरद्विशततमोऽध्यायः ॥ २५३ ॥ ॥ हंस उवाच ॥ ॥ ज्ञानं सुखावंहं लोके ज्ञानं चक्षुः परं मतम् ॥ ज्ञानाद्धर्म- मवाप्नोति ज्ञानार्थं च मानवः ॥ १ ॥ ज्ञानात्काममवाप्नोति ज्ञानान्मोक्षं च गच्छति ॥ तस्मात्सर्वप्रयत्नेन ज्ञाने यत्नं समाचरेत् ॥ २ ॥ ज्ञानेन सर्वमाप्नोति यत्किञ्चिन्मनसेच्छति ॥ ज्ञानैकहेतुश्च तथा नित्यं शास्त्राववेक्षणम् ॥ ३ ॥ आचार्यगुरुशुश्रूषा वृद्धानां चैव सेवनम् ॥ अनालस्यमकौपिन्यं दिवा निद्राविवर्जनम् ॥ ४ ॥ ज्ञानमेष परो बन्धुर्ज्ञानं मार्गस्य देशकम् ॥ संसारबन्धनक्लेशैस्तथा ज्ञानेन मुच्यते ॥ ५ ॥ ज्ञानेन पुरुषो वेत्ति ज्ञानाद्वैराग्यमृच्छति ॥ ज्ञानेन तदवाप्नोति यद् गत्वा नानुशोचति ॥ ६ ॥ एतद्विदित्वा पुरुषेण कार्यं ज्ञाने सदा यत्नमदी- नसत्त्वाः ॥ ज्ञानं समासाद्य महातुभावा विमुक्तदुःखाः सुखिनो भवन्ति ॥ ७ ॥ इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे मुनी- न्प्रति हंसगीतासु ज्ञानवर्णनो नाम चतुष्पञ्चाशदुत्तरद्विशततमोऽध्यायः ॥ २५४ ॥ ॥ हंस उवाच ॥ ॥ धर्मे यत्नः सदा कार्यो धर्म एकः सुखावहः ॥ धर्मेण पाल्यते सर्वं त्रैलोक्यं सचराचरम् ॥ १ ॥ धारणाद्धर्ममित्याहुर्धर्मो धारयति प्रजाः ॥ धर्मे संसेविते कामान्प्राप्नोति मनसेप्सितान् ॥ २ ॥ धर्मेणार्थं तथा लोके प्राप्नोति मनसेप्सितम् ॥ मृतं शरीरमुत्सृज्य काष्ठलोष्टसमं क्षितौ ॥ ३ ॥ विमुखा बान्धवा यान्ति धर्म- स्तमेकोनुगच्छति ॥ एकस्मिन्नप्यतिक्रान्ते दिने धर्मविवर्जिते ॥ ४ ॥ दस्युभिर्मुषितस्येव युक्तमाक्रन्दितं चिरम् ॥ बलोदैव चरेद्धर्ममनित्यं
॥४१७॥
जीवितं यतः ॥ ५ ॥ नास्ति धर्मविहीनस्य सुखमल्पमपि वै द्विजाः ॥ धर्मेण देवैर्देवत्वमृषित्वमृषिभिस्तथा ॥ ६ ॥ प्राप्तं धर्मेण सकलं ब्रह्मणा च कृतं जगत् ॥ येन सर्वमिदं सृष्टं स वै धर्मे हरिः स्थितः ॥ ७ ॥ कृतस्य धर्मस्य न चास्ति नाश स्तस्मात्तु धर्मः पुरुषेण कार्यः॥ धर्मे कृते नास्ति भयं नराणां लोके परे चेह तथा द्विजेन्द्राः ॥ ८ ॥ इति श्रीविष्णुधर्मोत्तरे तृ० ख० मार्कण्डेयवज्रसंवादे मुनीन्प्रति हंसगीतासु धर्मप्रशंसावर्णनो नाम पञ्चाशादुत्तरद्विशततमोऽध्यायः ॥ २६५ ॥ हंस उवाच ॥ ज्ञातव्या गुरुशुश्रूषा परमं धर्मकारणम् ॥ गुरुशुश्रूषया विद्यां नरः समधिगच्छति ॥ १ ॥ विद्यया तदवाप्नोति यत्र गत्वा न शोचति ॥ सुवर्णपुष्पां पृथिवीं विचिन्वन्ति नरास्त्रयः ॥ २ ॥ शूरश्च कृतविद्यश्च यश्च जानाति सेवितुम् ॥ सर्वधर्मविहीनोऽपि गुरुशुश्रूषणे रतः ॥ ३ ॥ स्वर्गलोकमवाप्नोति पुरुषोऽपि सुदारुणः ॥ मातरं पितरं वापि ज्येष्ठं भ्रातरमेव च ॥४॥ गुरुं विद्याप्रदं वापि यश्च शुश्रूषते नरः ॥ स्वर्गलोकमवाप्नोति यावदिन्द्राश्चतुर्दश ॥५॥ यदेव पुण्यमाप्नोति गुरुशुश्रूषया द्विजः ॥ द्विजशुश्रूषया शूद्रस्तदेव फलमश्नुते ॥ ६॥ प्राप्नोति पुण्यं परमं च साध्वी शुश्रूषते या पतिप्रममत्ता ॥ शुश्रूषया भूमिपतेः प्रजानां पुण्यं प्रादिष्टं परमं नृलोके ॥७॥ इति श्रीविष्णुधर्मोत्तरे तृ०ख० मार्कण्डेयवज्रसंवादे मुनीन्प्रति हंसगीतासु गुरुशुश्रूषाप्रशंसावर्णनो नाम षट्पञ्चाशदुत्तर द्विशततमोऽध्यायः ॥ २६६॥ हंस उवाच ॥ स्वाध्यायसेवा कर्त्तव्या नित्यमेव विजानता ॥ स्वाध्यायेन तदामोति यत्किञ्चिन्मनसेच्छति ॥ १ ॥ पयसा मधुना दध्ना मांसेन च यथाक्रमम् ॥ ऋचो यजूंषि सामानि तथैवाथर्वणं पठेत् ॥२॥ पितॄणां तर्पणं कुर्याद्दध्ना क्षीरेण च सर्पिषा ॥ उपदंशानपि पठेत्तर्पयत्योदनेन तान् ॥ ३ ॥ विना स्थानानि सर्वाणि स्वैरेयेण तथा नरः ॥ सांख्ययोगं पांचरात्रं तथा पाशुपतं पठन् ॥ ४ ॥ क्षीरेण मधु- मिश्रेण पितॄंस्तर्पयते तथा ॥ वाकोवाक्यं पुराणञ्च नाराशंसीश्च गाथिकाः ॥५॥ स्तोत्राणि च पठन्नित्यं दध्ना च मधुना तथा ॥ तस्मात्सर्व प्रयत्नेन द्विजः स्वाध्यायमारेत ॥ ६ ॥ स्वाध्याय एवह तपः पवित्रं स्वाध्याय एवह तथैव यज्ञः ॥ स्वाध्यायवानेव नरः प्रयाति त्रिविष्टपं मोक्षमथाप्यभोष्टम्॥७॥इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसं० मुनीन्प्रति हंसगीतासु स्वाध्यायप्रशंसावर्णनो नाम सप्तपञ्चाशदुत्तर द्विशततमोऽध्यायः ॥ २६७ ॥ हंस उवाच ॥ ब्रह्मचर्येदमिसंयुक्तो द्विजः स्वर्गमवाप्नुतेते ॥ ब्रह्मचर्यं परं धाम ब्रह्मचर्यं परं तपः ॥ १ ॥ ब्रह्मचर्यं परं यशो ब्रह्मचर्यं परं यशः ॥ ब्रह्मचर्येण संयुक्तः सर्वान्कामानवाप्नुयात् ॥ २ ॥ अदेवं दैवतं कुर्याद्देवंत चाप्यदैवतम् ॥ कुर्याल्लोकांस्तथैवान्यान्ब्रह्मचर्येण मानवः ॥ ३ ॥ कृतानपि तथा पूर्वान्निक्षममेव प्रणाशयेत् ॥ यथामीष्टमवाप्नोति ब्रह्मचर्येण मानवः ॥ ४ ॥
वि० ध० ॥४१८॥
तृ० खं० अ० २६॥ ॥४१९॥
प्रजापतीनां या शक्तिः प्रजाः कर्तुं द्विजोत्तमाः ॥ सा ज्ञेया ब्रह्मचर्येण ऋषीणामपि च द्विजाः ॥ ५॥ अनेकानि सहस्राणि कुमारब्रह्मचारिणाम् ॥ दिवं गतानि विप्राणामकृत्वा कुलसन्ततिम् ॥ ६॥ यो ब्रह्मचर्यात् परिच्युतः स्यात्पुत्रेण हीनोऽपि दिवं स याति ॥ तत्त्वैर्विहीना स्तेषां न लोकेषु गतिः प्रदिष्टा ॥ ७ ॥ इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे हंसगीतासु ब्रह्मचर्यप्रशंसावर्णनो नामाष्टपञ्चा- शदुत्तरद्विशतमोऽध्यायः ॥ २५८ ॥ ॥ हंस उवाच ॥ ॥ ब्रह्मचर्य्याच्च्युतो यस्तु नरस्सन्तानवर्जितः ॥ सुतप्ततपसोप्यस्य गतिर्लोके न विद्यते ॥ १ ॥ पुत्रेण लोकाञ्जयति पौत्रेणानन्त्यमश्नुते ॥ तथा पुत्रस्य पौत्रेण ब्रध्नस्याप्नोति विष्टपम् ॥ २ ॥ नाकेलोकमवाप्नोति दुहित्रा द्विजसत्तमाः ॥ दौहित्रेण तथा लोकान्नरौ याति प्रजापतेः ॥ ३ ॥ पुन्नाम्नो नरकाद्यस्मात्पितरं त्रायते सुतः ॥ तस्मात्पुत्र इति प्रोक्तः स्वयमेव स्वयम्भुवा ॥ ४ ॥ पुत्रदौहित्रयोर्लोके विशेषो नोपपद्यते ॥ दौहित्रोऽपि ह्यमुत्रैनं सन्ततारयति पौत्रवत् ॥ ५॥ तस्माद्यतेत कुलप्य स्यात्सन्ता याति नरकं ध्रुवम् ॥ पुत्रपौत्रैः परिवृतो नाकेलोके महीयते ॥ ६ ॥ सन्तानवान्नरस्त्वत्र कीर्त्या युक्तस्तया स्यात्परया द्विजेन्द्राः ॥ कीर्त्या युतः स्वर्गमथ प्रयाति सन्तानवान्यः पुरुषः प्रधानः ॥ ७ ॥ इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे हंसगीतासु सन्तानप्रशंसा वर्णनो नामैकोनषष्ट्युत्तरद्विशतमोऽध्यायः ॥ २५९ ॥ ॥ हंस उवाच ॥ ॥ कीर्तिप्रधानः पुरुषस्त्विह स्वर्गं महीयते ॥ कीर्तिः शरीरं विहितं मृतस्यापि शरीरिणः ॥ १ ॥ कीर्तियुक्तं न जानाति परत्रेह च मानवः ॥ कीर्तियुक्ता भवन्तीह श्रेयसो भाजनं परम् ॥ २ ॥ दिवं स्पृशति की- च शब्दः पुण्यस्य कर्मणः ॥ यावत्स शब्दो भवति तावत्पुरुष उच्यते ॥ ३ ॥ तावद्देव तथा लोकान्सर्वकामदुघोऽक्षयान् ॥ पुरुषः सुखमश्नाति दिवि चेह च शाश्वतम् ॥ ४ ॥ यस्याकीर्तिमितोऽप्यस्य नरकं स तु गच्छति ॥ यावच्छ्लोकेषु धर्मज्ञास्तस्य कीर्तिस्तु गीयते ॥ ५ ॥ तावत्स्वर्गगृहै- स्वर्गे देवभोगाननुत्तमान् ॥ कीर्तिः पुण्या पुण्यलोके नैव पापं प्रयच्छति ॥ कीर्त्यमाना मनुजष्यस्य तस्मात्पुण्यं समाचरेत् ॥ ६॥ ये च कीर्तिहुताः पुरुषप्रधानास्ते नाकपृष्ठं सुचिरं प्रयान्ति ॥ अकीर्तियुक्ता नरकं व्रजन्ति कीर्तिः प्रधाना पुरुषस्य तस्मात् ॥ ७ ॥ इति श्रीविष्णुधर्मोत्तरे तृतीय- खण्डे मार्कण्डेयवज्रसंवादे हंसगीतासु कीर्तिप्रशंसावर्णनो नाम षष्ठ्युत्तरद्विशततमोऽध्यायः ॥ २६० ॥ ॥ हंस उवाच ॥ ॥ यशसा संयुतो जन्तुः श्रेयसो भाजनं भवेत् ॥ यशसा संयुतो जन्तुर्ऋद्धिं प्रतिपद्यते ॥ १ ॥ यशसा संयुतो जन्तुः सम्पदामिति पात्रतम् ॥ यशसा संयुतो जन्तुः सर्वकामानवाप्नुते ॥ २ ॥ स एकः पुरुषो लोके यशसा यो हि संयुतः ॥ येषां साधु समावापं गीयते सुमहद्यशः ॥ ३ ॥ तेषां
यशस्तथा पुण्यं नाकपृष्ठेऽपि गीयते ॥ देवता यं विजानंति तस्य नाके गतिर्ध्रुवा ॥ ४ ॥ कीर्त्यमानं तथा सङ्गिभिः शृणोति यद्भूः स्वकर्म ॥ सुखमाप्नोति धर्मज्ञाः स्वर्गादपि परं नरः ॥ ५ ॥ यशः शोभा मनुष्यस्य परमं तस्य मण्डनम् ॥ यशसा वर्जितस्येह मण्डनं लाञ्छनं परम् ॥ ६ ॥ यशः प्रधानं पुरुषस्य लोके यशःप्रयानाद्धिदिवं प्रयान्ति ॥ लोकद्वये चापि यशोन्वितानां भवन्ति काष्ठा मनसा त्वरी याः ॥ ७ ॥ इति श्रीविष्णुधर्मोत्तरे तृ० ख० मार्कण्डेयवज्रसंवादे मुनीन्द्राति हंसगीतासु यशःप्रशंसावर्णनो नामैकपञ्चाशदुत्तरशततमो ऽध्यायः ॥ २६१ ॥ हंस उवाच ॥ यज्ञेन देवा जीवन्ति यज्ञेन पितरस्तथा ॥ देवाधीनाः प्रजा सर्वा यज्ञाधीनाश्च देवताः ॥ १ ॥ यज्ञो हि भगवान्विष्णुर्यत्र सर्वं प्रतिष्ठितम् ॥ यज्ञार्थं पशवः सृष्टा देवास्त्वौषधयस्तथा ॥ २ ॥ यज्ञार्थं पुरुषाः सृष्टाः स्वयमेव स्वयंभुवा ॥ यज्ञश्च भृत्यै सर्वस्य तस्माद्यज्ञपरो भवेत् ॥ ३ ॥ यज्ञशिष्टाशिनः सन्तो मुच्यन्ते सर्वकिल्बिषैः ॥ धनं यद्यज्ञशीलानां दैवतं तं विदुर्बु धाः ॥ ४ ॥ ओषधीनां पशूनाञ्च यज्ञ एव परायणम् ॥ सब्रह्मश्च सकुल्यश्च नाकपृष्ठे महीयते ॥ ५ ॥ पशुस्तु योजितो यज्ञे तथैवौ षधयो द्विजाः ॥ यज्ञोपयुक्ता मोदन्ते त्रिदिवे नात्र संशयः ॥ ६ ॥ यज्ञेन सम्यक्पुरुषस्तु लोके स्पृश्यश्चानिन्द्यो दर्शनीयो ह्युपेत्यै प्राप्नोति सौख्यानि महानुभावास्तस्मात्प्रयत्नेन यजेत यज्ञैः ॥ ७ ॥ इति श्रीविष्णुधर्मोत्तरे तृ० ख० मार्कण्डेयवज्रसंवादे मुनीन्द्राति हंस गीतासु यज्ञप्रशंसावर्णनो नाम द्विपञ्चाशधिकशततमोऽध्यायः ॥ २६२ ॥ हंस उवाच ॥ शीलं प्रधानं लोकेऽस्मिंस्तस्मिंश्च सर्वं प्रतिष्ठितम् ॥ शीलेन सर्वमाप्नोति यत्किञ्चिन्मनसेच्छति ॥ १ ॥ क्रियाः शीलविहीनस्य भवन्ति विफलाः कृताः ॥ तस्याच्छीलवता भाव्यं पुरुषेण विजानता ॥ २ ॥ शीलेन देवराट्छक्रः सुरैश्वर्यमवाप्तवान् ॥ शीलेन धर्मराजोऽपि धर्मराजत्वमाप्तवान् ॥ ३॥ शीलेन वरुणो देवो राजराजत्व माप्तवान् ॥ शीलेन च कुबेरोऽपि धनाध्यक्षत्वमाप्तवान् ॥ ४ ॥ शीलेन सुखमाप्नोति स्वर्गं च मनुजोत्तमाः ॥ शीलेन लभतेऽभीष्टं युक्तं यत्र गत्वा न शोचति ॥ ५ ॥ शीलं समासाद्य समस्तकामानाप्नोति सुख्यान्युरुषः प्रधानः ॥ तस्मात्प्रयत्नेन नरेण शीलं समर्जनीयं युक्तं सदैव ॥ ६ ॥ इति श्रीविष्णुधर्मोत्तरे तृ० ख० मार्कण्डेयवज्रसंवादे मुनीन्द्राति हंसगीतासु शीलप्रशंसावर्णनो नाम त्रिपञ्चाशदुत्तरशततमो ऽध्यायः ॥ २६३ ॥ हंस उवाच ॥ दमेन युक्तः पुरुषः सर्वान्कामानवाप्नुयात् ॥ तस्मात्सर्वप्रयत्नेन दमः कार्यों विजानता ॥ १ ॥ इन्द्रियाणां जयो लोके दम इत्यभिधीयते ॥ नादान्तस्य क्रियाः काश्चिद्भवन्तीह द्विजोत्तमाः ॥ २ ॥ नादान्तः सिद्धिमन्वन्ति नादान्तो
वि० ध० | तृ० खं० | अ० २६६ ॥४११॥ | ॥४११॥
गतिमभीप्सिताम् ॥ नाशान्तः श्रियमवाप्नोति नादान्तः किञ्चिदेव तु ॥ ३ ॥ पञ्चेन्द्रियस्य मर्त्यस्य यद्येकं छिद्रमिन्द्रियम् ॥ ततोऽस्य क्षरति प्रज्ञा दृतेः पात्रादिवोदकम् ॥ ४ ॥ पुरुषार्थं परित्यज्य स्वार्थे च सततोत्थितः ॥ इन्द्रियाणां बुधस्तेषां स्वार्थे प्रयतन्नरः ॥ ५ ॥ इन्द्रियाणां प्रसङ्गेन गतिं गच्छति दारुणाम् ॥ विजित्य तान्येव नरः सर्वान्कामानवाप्नुयात् ॥ ६ ॥ दान्तः प्रमाशकमनुप्रयाति दान्तः पुमान्मोक्षपथं प्रयाति ॥ दान्तस्य दुःखं न हि किञ्चिदस्ति दान्तः समानोत्यखिलानिह कामान् ॥ ७ ॥
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे मुनिगीति हंसगीतासु दमप्रशंसावर्णनो नाम चतुःपञ्चाशदधिकशततमोऽध्यायः ॥२५४॥
॥ हंस उवाच ॥ ॥ सत्यमेव परं ब्रह्म सत्यमेव परं तपः ॥ सत्यमेव परो यज्ञः सत्यमेव परं श्रुतम् ॥ १ ॥ सत्यं वेदेषु जागर्ति मुक्तिः सत्यतरोः फलम् ॥ तपो यज्ञश्च पुण्यञ्च पितृदेवर्षिपूजनम्॥२॥ आचार्यो विधिश्च विद्या च सर्वं सत्ये प्रतिष्ठितम्॥ सत्यं यज्ञास्तथा वेदा मन्त्रा देवी सरस्वती ॥ ३ ॥ व्रतचर्या तथा सत्यमोंङ्कारः सत्यमेव च ॥ सत्येन वायुर्वहति सत्येनाभासते रविः ॥ ४ ॥ सत्येन चाग्निर्दहति स्वर्गं सत्येन गच्छति ॥ सत्येन चापः क्षिपत्ति पर्जन्यः पृथिवीतले ॥ ५ ॥ पारणं सर्ववेदानां सर्वतीर्थावगाहनम् ॥ सत्यं च वदतो लोके समं स्यातां न वा समम् ॥ ६ ॥ अश्वमेधसहस्रं तु सत्यं च तुलया धृतम् ॥ अश्वमेधसहस्राद्धि सत्यमेव विशिष्यते ॥ ७ ॥ सत्येन देवाः प्रीयन्ते पितरो ब्राह्मणास्तथा ॥ सत्यमाहुः परं धर्मं तस्मात्सत्यं न लोपयेत् ॥ ८ ॥ मुनयः सत्यनिरताः सत्यस्थायिविदोत्तमाः ॥ स्वर्गे सत्यपरा नित्यं मोदन्ते देवता इव ॥ ९ ॥ अप्सरोगणसंकीर्णैर्विमानैरुपयान्ति च ॥ वक्तव्यं हि सदा सत्यं न सत्याद्विद्यते परम् ॥ १० ॥ अगाधे विमले शुद्धे सत्यतोये शुचिह्रदे ॥ स्नातव्यं मानसे तीर्थे ज्ञानं तत्परमं स्मृतम् ॥ ११ ॥ आत्मार्थं वा परार्थं वा पुत्रार्थे वा रिपोः कृते ॥ अनृतं नाभिभाषन्ते ते नराः स्वर्गगामिनः ॥ १२ ॥ यद्भूतहितमत्यन्तं तत्सत्यमिति धारणा ॥ हितं स्याद्येन भूतानां तत्तद्वाच्यं विजानता॥ १३॥
आदित्यचन्द्रावनिलानलौ च द्यौर्भूमिरापो हृदयं यमश्च ॥ अहश्च रात्रिश्च उभे च सन्ध्ये धर्मश्च जानाति नरस्य वृत्तम् ॥ १४ ॥ न सा सभा यत्र न सन्ति वृद्धा वृद्धा न ते ये न वदन्ति धर्मम् ॥ नासौ धर्मो यत्र नो सत्यमस्ति न तत्सत्यं यच्छलेनानुविद्धम् ॥ १५ ॥
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे मुनिगीति हंसगीतासु सत्यप्रशंसावर्णनो नाम पञ्चपञ्चाशदधिकशततमोऽध्यायः ॥ २५५ ॥
॥ हंस उवाच ॥ ॥ तपसो हि परं नास्ति तपसा विन्दते महत् ॥ प्रजापतीनां या शक्तिः प्रजाः कर्तुं द्विजोत्तमाः ॥ १ ॥ तपसा तृप-