द्रव्यगुण विज्ञान (शास्त्रीय औषधीय वनस्पतियों का महाकोश)
Dravyaguna Vijnana: Materia Medica of Ayurvedic Herbs
पं. जीवनानन्द विद्यासागर द्वारा
द्रव्यगुणः । ३५ शशः स्वादुः कषायश्च लघुः पित्तकफापहः । नातिशीतलवीर्य्यत्वाद् वातसाधारणो मतः ॥४॥ नातिशीतं गुरु स्निग्धं मांसमाजमदोषलम् । शरीरधातुसामान्यादनभिष्यन्दि बृंहणम् ॥ ५ ॥ वातसाधारण इति । वातस्य चयं शमञ्च न करोतीत्यर्थः । अतएव चरके "शशः स्वादुः प्रशस्तश्च सन्निपातेऽनिलावरे" इत्यु- क्तम् ॥ ४ ॥ अदोषलमिति । यद्यपि सुश्रुतेन अतिशीतो गुरुः स्निग्धो मन्दपित्तकफः स्मृतः । छागलस्त्वनभिष्यन्दी तेषां पीनसनाशनः ॥ इत्युक्तम् । तथापि अन्यपदेश्वपित्तकफजनकत्वाददोषलमि- त्युक्तम् । यत्तु त्रिदोषनुद्देहधातुसामान्याच्छागलं लघ्वित्युक्तम् । तदपि ग्राम्यत्वेन प्रभूतकफजननयोग्यस्यापि छागलस्य तदजनक- त्वात् समाधेयम् । यथा मधुरस्य दाड़िमस्य मधुरद्रव्यान्तरवत् कफाजनकत्वेन त्रिदोषहरत्वम् । यथा वा सहकारतैलस्य रूक्षत्वं स्वजातीयापेक्षया यथाविधस्नेहाकर्त्तृत्वात् । यथा वा चतु- र्भागावशिष्टन्तु तोयं कफहरं स्मृतमित्यत्र कफं प्रति इतरपानीय- वदजनकत्वेन कफहरत्वमुच्यते । एवमन्यत्रापि एवंजातीये प्रतुदविष्किररसमज्जादौ श्लेष्महरत्वादि व्याख्येयम् । शरीरधातु- सामान्यादिति मनुष्यमांसस्यापि नातिशीतगुरुस्निग्धत्वादि- त्यर्थः । अयञ्च बृंहणत्वे हेतुः । एतेन यद्यपि मांसान्तरमपि मांसत्वेन शरीरमांसतुल्यं तथापि तत्र गुणसामान्याभावादाज- मांसवन्न सर्वरूपेण बृंहणमित्यर्थः । एतेन भङ्ग्या नृमांसस्यापि शक्त्याचार्य्येण उक्ता इत्येवावधेयम् । अन्ये तु शरीरधातु-
३६ द्रव्यगुणः । मेषस्य मधुरं मांसं पित्तश्लेष्महरं गुरु ॥ ६ ॥ मेदःपुच्छोद्भवं वृष्यमौरभ्रसदृशं गुणैः ॥ ७ ॥ माहिषं तर्पणं वृष्यं स्निग्धोष्णमधुरं गुरु । निद्रापुंस्त्वबलस्तन्यवर्धनं मांसदार्थ्यकृत् ॥ ८ ॥ सामान्यादिति अनभिष्यन्दित्वे हेतुमाहुः । तन्न अप्रयोजकत्वात् । स्वमते तु ग्राम्यस्य बृंहणस्याप्याजमांसस्यानभिष्यन्दित्वं प्रभावा- देव मन्तव्यम् । यदेव हि द्रव्यगुणद्वारा नोपपद्यते तत्रैव प्रभाव- कल्पनस्यैवौचित्यात् ॥ ५ ॥ मेषगुणमाह मेषस्येति । अत्र क्वचित् पुस्तके पित्तश्लेष्म- करमिति पाठो दृश्यते । स च प्रमादपाठ एव । यतः शरद्विधौ उरभ्राणामुपयोग उक्तः । यदुक्तम् उरभ्रान् शरभान् शशा- निति । न च पित्तश्लेष्मकरत्वे मेषस्य तत्रोपयोगो युज्यते । अतएव चक्रेणापि मांसं मधुरशीतत्वाद्गुरु बृंहणमाविकमिति । चरकवचनेनाविकमांसस्य मधुरशीतत्वेन पित्तहरत्वं बोध्य- मिति व्याख्यातम् । यत्तु रक्तपित्तनिदाने चरकेण वराहमहिषा- विकेत्यादिना आविकस्य रक्तपित्तनिदानत्वमुक्तम् । तदपि द्रव्या- न्तरसंयुक्तस्याप्याविकमांसस्य न तु केवलस्येत्यवधेयम् । अतएव सुश्रुतेऽपि “बृंहणं मांसमौरभ्रं पित्तश्लेष्मापहं गुरु” इत्युक्तम् । वाप्यचन्द्रस्तु पित्तश्लेष्मावहमिति पठति व्याचष्टे च । यद्यप्यौरभ्र- मांसं पित्तश्लेष्मकरमत्रोक्तम् । तथापि सातिशयं पित्तं श्लेष्माणञ्च न करोतीति तदप्यनादरणीयमुक्तयुक्तेरेव ॥ ६ ॥ मेदः पुच्छो मेषभेदः स च पुच्छदेशे लम्बमानमांसपिण्डः ॥७॥ अत्र वृष्यं तथा पुंस्त्ववर्धनमिति च द्वयमुक्तं माषवदुभय- रूपवृष्यप्राप्तिरिति बोध्यम् ॥ ८ ॥
द्रव्यगुणः । ३७ शुष्ककासश्रमात्यग्निविषमज्वरपीनसान् । कार्श्यं केवलवातांश्च गोमांसं सन्नियच्छति ॥ ९ ॥ हयमांसं बलकरमुष्णं मारुतनाशनम् ॥ १० ॥ गवयस्यापि मांसन्तु स्निग्धं कासनिवर्हणम् । रसे पाके च मधुरं व्यवायस्य तु वर्द्धनम् ॥ ११ ॥ खड्गिमांसं कफघ्नन्तु कषायमनिलापहम् । पित्र्यं पवित्रमायुष्यं बद्धमूत्रविरूक्षणम् ॥ १२ ॥ वाराहपिशितं बल्यं रोचनं स्वेदनं गुरु । स्नेहनं बृंहणं वृष्यं श्रमघ्नमनिलापहम् ॥ १३ ॥ लावो लघुकटुर्गाही स्वादुः शीतस्त्रिदोषनुत् ॥ १४ ॥ तित्तिरिः सर्वदोषघ्नो ग्राही वर्णप्रसादनः । ईषद्गुरूष्णमधुरो वृष्यो मेधाग्निवर्द्धनः ॥ १५ ॥ पित्र्यमिति । एतद्गुणकथनञ्च यद्यपि चिकित्सायां नोप- युज्यते तथापि प्रसङ्गादुक्तम् ॥ १२ ॥ पक्षिगुणानाह लाव इत्यादि । कटुरिति कटुपाकः तदुक्तं सुश्रुते लावकः कटुपाकश्चेति । लघुरिति प्रकृतिलघुः कटुपाक इत्यनेन च विपाकलघुत्वञ्चेति चरकः ॥ १४ ॥ सर्वदोषघ्न इति । सर्वग्रहणं रक्तोपलक्षितदोषग्रहणार्थ- मित्याहुः । अन्ये तु तित्तिरिः स जयेत् शीघ्रं त्रीन् दोषाननिलोल्वणान् । इतिवचनात् ग्रन्थाधिक्यात् वाताधिक्यदोषत्रयप्राशस्त्यं सर्व- शब्दस्याहुः ॥ १५ ॥ ४
३८ द्रव्यगुणः। पित्तश्लेष्मविकारेषु सरक्तेषु कपिञ्जलाः । मन्दवातेषु शस्यन्ते शैत्यमाधुर्य्यलाघवात् ॥१६॥ ईषदुष्णा गुरुस्निग्धा वृंहणा वर्त्तकाः स्मृताः ॥१७॥ क्रकरा लघवो हृद्यास्तथा चैवोपचक्रकाः । वातपित्तहरा वल्या मेधाग्निवलवर्द्धनाः ॥ १८ ॥ वर्ही दृक्श्रोत्रमेधाग्निवयोवर्णस्वरायुषाम् । हितो बल्यो गुरुश्चोष्णो वातघ्नो मांसशुक्रलः ॥१९ पारावतो गुरुः शीतो रक्तपित्तहरः स्मृतः । रसे पाके च मधुरः कषायो विषदोऽपि च ॥२०॥ तेभ्यो लघुतराः किञ्चित् कपोता वनवासिनः । शीताः संग्राहिणश्चैव स्वल्पमूत्रकराश्च ते ॥२१॥ कषायः स्वादुलवणो गुरुः काणकपोतकः ॥२२॥ कपिञ्जलो गौरतित्तिरिः । एतेन पूर्वोक्ततित्तिरिशब्दस्य गोवलीवर्दन्यायात् कृष्णतित्तिरिपरत्वमित्याहुः ॥ १६ ॥ क्रकरः प्रसिद्धो लावसद्दशः कपिञ्जलात् स्थूलः । उपचक्रकः क्रकरभेदः । कृष्णचञ्चुर्मदाविल इति डल्हणः । चकोरभेद इति तु त्रिविक्रमः ॥ १८ ॥ पारावत इति । गृहवासी पारावतः । वनवासिकपोतस्य वक्ष्यमाणत्वात् ॥ २० ॥ वनवासिनः कपोता इति वनवासिपारावता इत्यर्थः । न तु वनवासिपाण्डुकपोताः तेषां काणकपोतत्वेन अपथ्यतमत्वा- दित्याहुः ॥ २१ ॥
द्रव्यगुणः । ३६ कुक्कुटो बृंहणो वन्यः स्वेदस्वरबलावहः । स्निग्धोष्णोऽनिलहा वृष्यो ग्राम्यस्तद्वद्गुरुस्तु सः॥२३ कुलिङ्गो मधुरः स्निग्धः कफशुक्रविवर्द्धनः । सन्निपातहरो वेश्मकुलिङ्गस्त्वतिशुक्रलः ॥ २४ ॥ शुकमांसं कषायाम्लं विपाके रूक्षशीतलम् । शोषकासक्षयहितं संग्राही लघु दीपनम् ॥२५॥ गुरुष्णस्निग्धमधुराः स्वरवर्णबलप्रदाः । बृंहणाः शुक्रलाश्चोक्ता हंसाः पवननाशनाः ॥२६॥ शरारिबककादम्बवलाकाः पवनापहाः । स्निग्धाः सृष्टमला वृष्या रक्तपित्तहरा हिमाः ॥२७॥ काणकपोतो वनवासिपाण्डुकपोत इति गयदासः । अत्र चकारो लुप्तनिर्दिष्टो द्रष्टव्यः । तेन त्रिदोषकरत्वं मलदूषकत्व- ञ्चास्य समुच्चीयत इत्याहुः ॥ २२ ॥ वन्य इति वनभवः । तद्वदिति वनकुक्कुटवत् । गुरुस्तु स इति विशेषेण ग्राम्यकुक्कुटो गुरुस्तेन वनकुक्कुटस्यापि किञ्चिद्- गुरुत्वं सिद्धम् । अतएव गुरुष्णत्वान्न शंसन्ति ज्वरे केचिच्चिकित्सकाः । इति । सामान्येन गुरुष्णत्वादिहेतूपन्यासो न विरुध्यत इत्याहुः ॥ २३ ॥ कुलिङ्गो वनचटको ग्राम्यचटकाकारः । पीतमस्तक वाऐ इति लोके । गृहकुलिङ्गो गृहवासिचटक एव ॥ २४ ॥ शरारिः शरालिरिति लोके प्रसिद्धः । बकः स्वनामख्यातः ।
४० द्रव्यगुणः । कूर्मादयः स्वादुपाकरसा वल्यानिलापहाः । शीताः स्निग्धा हिताः पित्ते वर्चस्याः श्लेष्मवर्द्धनाः२८ कृष्णः कर्कटकस्तेषां वल्यः कोष्णोऽनिलापहः । शुक्रसन्धानकृत् सृष्टविण्मूत्रोऽनिलपित्तहा ॥२६॥ ——— गोधा विपाके मधुरा कषायकटुका रसे । वातपित्तप्रशमनी बृंहणी बलवर्द्धिनी ॥ १ ॥ शल्यकः खादुपित्तघ्नो लघु शीतो विषापहः ॥२॥ मूषिको मधुरः स्निग्धो व्यवायी शुक्रवर्द्धनः ॥३॥ दुर्नामानिलदोषघ्नः कृमितूषीविषापहः । चक्षुष्या मधुराः पाके सर्पा मेधाग्निवर्द्धनाः ॥४॥ जङ्घाला वातपित्तघ्नास्तीक्ष्णा वस्तिविशोधनाः । कादम्बो नीलवर्णः कलहंस इत्युच्यते । बलाका वकभेद एव ॥ २७ ॥ ——— विलेशयानां गुणमाह गोधेत्यादि ॥ १ ॥ मूषिक इति । व्यवायी अखिलं देहं व्याप्य गच्छति पाकम् । उक्तञ्च व्यवायी देहमखिलं व्याप्य पाकाय कल्पत इति । अयञ्च सरगुणस्यैव प्रकर्षः ॥ ३ ॥ इदानीमनुक्तमांसगुणसंग्रहार्थं तत्तदुपाधिना वर्गीकृत्य वर्ग- भेदेन मांसगुणा वाच्याः । तत्र समासतो द्विविधा मांसजातयः जाङ्गला आनूपाश्च । तत्र जाङ्गलवर्गोऽष्टविधः । त
द्रव्यगुणः। ४१ कषायमधुराश्चैव लघवो बलवर्धनाः ॥ ५ ॥ विष्किरा मधुराः शीताः कषाया लघुपाकिनः ॥ ६ ॥ प्रतुदाः कषायमधुराः श्लेष्मपित्तहरा हिमाः । बद्धमूत्रमला रूक्षाः फलाहारानिलावहाः ॥ ७ ॥ जङ्गाला विष्किराः प्रतुदा गुहाशयाः प्रसह्याः पर्णमृगा विले- शया ग्राम्याश्चेति । तत्र एणहरिणतरक्षुप्रभृतयो जङ्गालाः । प्रसस्तजङ्घावत्त्वेनैषा संज्ञा जङ्गालशब्दश्च वेगवति रूढः । चञ्चु- चरणाभ्यां विकीर्य्य भक्षणाद्विष्किराः । ते च वर्त्तकमयूरकुकु- टादयः । तथा प्रतुद्य बहुधा अभिहत्य भक्षयन्तीति प्रतुदाः । ते च कोयष्टिकशारिकाभृङ्गराजशुकप्रभृतयः । सिंहव्याघ्रा- दयो गुहाशयाः । प्रसह्य हठादाकृष्य भक्षयन्तीति प्रसह्याः । ते च काककङ्ककुररश्येनगृध्रप्रभृतयः । प्रायः पर्णवति वृक्षे चरन्तीति पर्णमृगाः । ते च वृक्षशायिका वानरमानुष्यासर्प- प्रभृतयः । वृक्षशायिका वृक्षमूषिकाः कटा इति प्रसिद्धाः । विले शेरते विलेशयास्ते च शल्यकगोधामूषिकप्रभृतयः । प्रायो ग्रामे चरन्तीति ग्राम्याः । ते च छागमेषादयः । आनूपवर्गस्तु पञ्चविधः । तद्यथा कूलचराः प्लवाः कोषस्थाः पादिनो मत्स्या- श्चेति । कूले पानीयसमीपे चरन्तीति कूलचराः । ते च गज- गवयमहिषप्रभृतयः । जले प्लवन्तीति प्लवाः । ते च हंससार- सक्रौञ्चचक्रवाकप्रभृतयः । कोषे तिष्ठन्तीति कोषस्थाः । ते च शङ्खशुक्तिशम्बूकप्रभृतयः । पादवन्तः पादिनः । ते च कूर्मकुम्भीर- कर्कटप्रभृतयः । मत्स्याः प्रसिद्धाः । एतेषां क्रमेण सामान्य- गुणं निर्दिशन्नाह जङ्गाला इत्यादि ॥ ५ ॥ फलेनाहारीभूतेनानिलमावहन्तीत्यर्थः । फलाहारा मरुत्करा शुकाः
४२ द्रव्यगुणः । गुहाशया वातहरा नेत्रगुह्यविकारिणाम् । हिता गुरुष्णमधुराः स्निग्धा मांसाशिनोऽधिकम् ॥ ८ प्रसह्याः स्वादुवीर्य्योष्णास्तेषां मांसाशिनस्तु ते । ते शोषभस्मकोन्मादे हिताः क्षीणे विशेषतः ॥ ९ ॥ दृक्शुक्रास्रहितः पर्णमृगः स्वादुर्गुरुस्तथा । सृष्टमूत्रपुरीषश्च कासार्शःश्वासनाशनः ॥ १० ॥ विलेशया वातहरा बृंहणा रसपाकयोः । मधुरा बद्धविण्मूत्रा वीर्य्योष्णाश्च प्रकीर्त्तिताः ॥ ११ ग्राम्या वातहराः सर्व्वे बृंहणाः कफपित्तलाः । मधुरा रसपाकाभ्यां दीपना बलवर्द्धनाः ॥ १२ ॥ कूलचरा मरुत्पित्तहरा वृष्या बलावहाः । मधुरस्निग्धशीताश्च मूत्रलाः श्लेष्मलास्तथा ॥ १३॥ प्लवा वृष्या हिमाः स्निग्धा रक्तपित्तानिलापहाः । सृष्टमूत्रपुरीषाश्च मधुरा रसपाकयोः ॥ १४ ॥ कोषस्थाः पादिनश्चैव स्निग्धाः शीतानिलापहाः । इति केचित् पठन्ति । अत्र स्वजात्यपेक्षयैव रौक्ष्यं न मसूरादि- वत् । एवमनिलावहत्वेनापि वातहरत्वे स्वजात्यपकृष्टतां सूच- यतीति प्रागेव व्याख्यातम् ॥ ७ ॥ वातहरा इत्यनेन पित्तश्लेष्मकर्त्तृत्वं सूचयति । तथा चका- रात् कासश्वासकार्श्यहरत्वञ्च बोध्यम् । उक्तञ्च वातं हन्युः श्लेष्मपित्ते कुर्युः स्निग्धाः कासश्वासकार्श्यापहाः स्युरिति ॥ ११ ॥ अनूपानां गुणमाह कूलचरा इति ॥ १३ ॥
द्रव्यगुणः । ४३ वर्त्तस्याः मधुरा वृष्याः पित्तघ्नाः कफकारकाः ॥१५॥ मत्स्याः स्निग्धोष्णामधुरा वातजिन्मललोमनाः । पित्तमांसबलश्लेष्मशुक्राभिष्यन्दकारकाः ॥ १६ ॥ रोहितः सर्वमत्स्यानां वरो वृष्योऽर्दितात्तिर्जित् । कषायानुरसः स्वादुर्वार्तघ्नो नातिपित्तकृत् ॥१७॥ शकुलो मधुरो रुच्यः कषायो विशदो लघुः ॥१८॥ शिलिन्दः श्लेष्मलो बल्यो विपाके मधुरो गुरुः । वातपित्तहरो वृष्य आमवातकरो मतः ॥ १९ ॥ आड़िमत्स्यो गुरुः स्निग्धः स्वादुर्वृष्यो बलप्रदः॥२०॥ इल्लिसो मधुरः स्निग्धः पित्तश्लेष्मप्रकोपणः । नृणां व्यवायनित्यानां हितो वह्निविवर्द्धनः ॥२१॥ एलङ्गः स्निग्धो मधुरो गुरुविष्टम्भिशीतलः ॥२२॥ पर्वतो मधुरः स्निग्धः कषायानुरसो गुरुः ॥ २३॥ भाकुटो मधुरो वृष्यः कषायानुरसो गुरुः ॥२४॥ यद्यपि मत्स्या द्विविधाः सामुद्रा नादेयाश्च । तत्र समुद्राणां तिमिप्रभृतीनां प्रायशोऽनुपयोगात् तानुपेक्ष्य नादेयानां गुणा वाच्याः । नादेयशब्दश्च समुद्रभिन्नजलभवमात्रोपलक्षकः । तेन सरस्तड़ागजानामपि ग्रहणम् । तत्र मत्स्यानां सामान्यगुणं निर्द्दिशन्नाह मत्स्या इति । मललोमना इति मलानुलोमनाः सृष्टमला इत्यर्थः । अतएव सृष्टविण्मूत्रमारुता इति माधव- करः ॥ १६ ॥ मत्स्यभेदेन गुणभेदं दर्शयन्नाह रोहित इति ॥ १७ ॥ शकु-
४४ द्रव्यगुणः । पाठीनः श्लेष्मलो वृष्यो निद्रालः पिशिताशनः । दूषयेद्रक्तपित्तञ्च कुष्ठरोगं करोत्यसौ ॥ २५ ॥ वर्मिमत्स्यस्तथा वृष्यो मधुरो रसपाकतः ॥ २६ ॥ कुलिशः कषायमधुरः कुञ्चकः कफपित्तहा ॥ २७ ॥ शृङ्गी तु वातशमनी स्निग्धा श्लेष्मप्रकोपिणी ॥ २८ ॥ मद्गुरो मधुरो वृष्यो विपाके मधुरो गुरुः ॥ २९ ॥ गुत्यमत्स्यो गुरुः स्निग्धः श्लेष्मलो वातनाशनः ॥ ३० ॥ कवय्यः स्निग्धमधुराश्चलदङ्गो गड़ोयथा ॥ ३१ ॥ क्षुद्रमत्स्यास्तु लघवो ग्राहिणो ग्रहणीहिताः ॥ ३२ ॥ मत्स्यकूर्मखगाण्डानि स्वादुवाजीकराणि च ॥ ३३ ॥ चरः शरीरावयवः स्वभावो धातवः क्रियाः । कुलिशः कुड़िश इति प्रसिद्धः । कुञ्चक इञ्चाकः । अन्ये व्याघ्रमत्स्यमाहुः । स च आड़िमत्स्याकृतिर्बृहत्कायः ॥ २७ ॥ गुत्यमत्स्यो देशान्तरे प्रसिद्धः । अन्ये तु चन्द्रकमाहुः ॥ ३० ॥ चलदङ्गश्चेङ्ग इति प्रसिद्धः । गड़ो यथेति रूक्ष इत्यर्थः ॥ ३१ ॥ इदानीं गौरवलाघवज्ञानार्थं ये ये विवेचनीयास्तानाह संक्षेपेण चर इति । अस्मिन्निति अन्नपानगुणाधिकारे । चर्य्यत इति चरो देशो भक्ष्यश्च । चर गतिभक्षणयोरित्यतो निष्पन्नत्वात् सामान्येन गृह्यते । कस्मिन् देशेऽयं विहरति धन्वनि अनूपे जले वियति वा किं पुनरयमाहरति गुरु लघु शीतमुष्णं स्निग्धं रूक्षं वा तद्विहाराहारगुणभावितशरीरधातवो मृगस्य पक्षिणो वा तत्तद्गुणमेव मांसमिति । तथा हि चरकः
द्रव्यगुणः । ४५ लिङ्गं प्रमाणं संस्कारो मात्रा चास्मिन् परीक्ष्यते॥३४ चरोऽनूपजलाकाशधन्वायो भक्ष्यसंविधिः । इति । भक्ष्यसंविधिर्भक्षणम् । तत्रानूपजलाकाशधन्वाय इत्यनेन गतिरूपश्चर उच्यते । भक्ष्यसंविधिरित्यनेन भक्ष्यरूप- श्चर उच्यते । एतत् उदाहरणं यथा । जलजानूपजाश्चैव जलानूपचराश्च ये । गुरुभक्ष्याश्च ये सत्त्वाः सर्वे ते गुरवः स्मृताः । लघुभक्ष्यास्तु लघवो धन्वजा धन्वचारिणः ॥ इति । अत्र जलजत्वेन च जले वा अनूपे वा गतिरेव दर्श्यते । न हि जलादौ ये जातास्ते प्रायोऽन्यत्रावतिष्ठन्ते । प्रायः काकमद्गुप्रभृतयस्तद्ग्रहणार्थमाह जलानूपचराश्च य इति । एतेन सामान्येन जले प्रायोऽवस्थानादिह जलचरत्वम् । एवमनू- पचराद्यपि ज्ञेयम्। गुरुभक्ष्या इत्यादिना तु भक्ष्यरूपचरकृतगुण- कथनम् । धन्वजा धन्वचारिण इत्यपि गतिरूपचरगुणकथ- नम् । अत्र चकारो लुप्तनिर्दिष्टो द्रष्टव्यः । तेन बाहुल्येन आकाशचारिणामपि श्येनादीनां स्वजातिप्रसङ्घान्तरापेक्षया लाघवं बोध्यम् आकाशस्य लघुत्वात् । ये तु ब्रुवते आकाश- चारिणां गौरवलाघवानियमादकथनमिति । तन्न । तथा सति आकाशस्य अप्रयोजनकत्वेन चरोऽनूपजलाकाशधन्वाद्य इत्या- काशकथनं निष्प्रयोजनं स्यात् । एवञ्च देशविशेषाद्भक्ष्यविशेषाच्च मृगादीनां गौरवं लाघवं वा निर्देश्यमिति चरपरीक्षाप्रयोजन- मिति भावः । शरीरावयव इति शरीरावयवपरीक्षाप्रयो- जनम् । यथा ऊरुग्रीवं विहङ्गानां विशेषेण गुरु स्मृतम् । इति । श्लो०- सक्थिमांसाद्गुरुतरं क्रोड़स्कन्धशिरस्पदम् ॥
४६ द्रव्यगुणः । इत्यादि । स्वभाव इति स्वभावस्तद्रव्यजातिप्रभवः स्वाभा- विको धर्मः । तत् प्रतिनियतं गुरुलाघवम् । यथा स्वभावाल्लघवो मुद्गास्तथा लावकपिञ्जलाः । इत्यादि । धातव इति शोणितादयः । तदुदाहरणञ्च धातूनां शोणिताद्यानां गुरु विद्यात् यथोत्तरम् । इति । क्रियेति क्रिया चेष्टा तद्यथा अलसेभ्यो विशिष्यन्ते प्राणिनो ये बहुक्रियाः । इति । विशिष्यन्त इति लघुत्वेन विशिष्टा भवन्तीत्यर्थः । लिङ्गमिति लिङ्गं स्त्रीत्वादि यदाह गौरवं लिङ्गसामान्ये पुंसां स्त्रीणास्तु लाघवम् । इति । लिङ्गसामान्य इति जातिसामान्ये । तथाच हारीतः चतुष्पादेषु लघ्वी स्त्री विहगेषु लघुः पुमान् । इति । जतुकर्णेऽप्युक्तम् बन्ध्या छागी प्रशस्ता स्यादभावे वर्करीमता । तथाच पराशरः । चतुष्पात्सु स्त्रियो ग्राह्याः पुंमांसो विहगेषु च । इति । यत्तु भाषितं काशिराजेन छागमेव नपुंसकं तदनार्षं सर्वतन्त्रविरोधात् । प्रमाणमिति महाशरीरा गुरवः स्वजातौ लघवोऽन्यथेति । संस्कारोऽन्यथात्वं तद्यथा मांसरसगुणनिर्देशे सुश्रुतः स्नेहगोरसधान्याम्लफलाम्लैरन्वितञ्च यत् । यथोत्तरं गुरुं विद्यादिति । चरकेऽपि गुरूणां लाघवं विद्यात् संस्कारात् सविपर्य्ययम् । व्रीहेर्लाजा यथाच स्युः शक्तूनां सिद्धपिण्डकाः ॥ इति । सविपर्य्ययमिति संस्काराल्लघूनामपि गौरवं विद्या- दित्यर्थः । गुरोरपि व्रीहेर्लाजा लघव इत्यर्थः । लघूनां...
द्रव्यगुणः । ४७ कृशात् स्वयं मृतान्मांसं विषव्याड़हतादपि । बालं तोयाग्निविक्निन्नं रोगिशुष्कं न पूजितम् ॥ अगोचरभृतं यच्च मेध्यं वृद्धं तथैव च । सिद्धं पर्युषितं तद्वद्दुर्गन्धि ग्रथितञ्च यत् ॥ क्रिमिजग्धञ्च यन्मांसमायुष्कामो विवर्जयेत् ॥ ३५॥ एभ्योऽन्येषामुपादेयं मांसं दोषविवर्जितम् । लावतित्तिरिसारङ्गकुरङ्गैकपिञ्जलाः ॥ मयूरवर्म्मिकूर्माश्च श्रेष्ठा मांसगणेष्विह ॥ ३६ ॥ शक्तूनां सिद्धपिण्डका गुरव इत्यर्थः । सिद्धपिण्डका इत्याग्निपा- चिताः पिण्डाः । मात्रेति मात्रावशाद् गुरूणामपि लघुत्वं लघू- नामपि गुरुत्वमित्यर्थः । तदुक्तम् । अल्पादाने गुरूणान्तु लघूनाञ्चातिसेवने । मात्रा कारणमुद्दिष्टं द्रव्याणां गुरुलाघवे ॥ इति । मात्रा चेति चकारेण वह्निरनुक्तोऽपि मात्रायाः कारणभूतः समुच्चीयते । तेन मात्राया भूयस्त्वाल्पीयस्त्वेनाग्नि- रपि परीक्ष्यत इत्यर्थः । तेनाग्निवलमभिसमीक्ष्य भूयसी अल्पी- यसी वा मात्रा कार्य्येति केचित् । एवं चरादिकं परितः सर्वतो- भावेन विचार्य्य मांसादिद्रव्याणां गुरुलाघवं वाच्यमिति पिण्डार्थः ॥ ३४ ॥ यादृशं मांसमनुपादेयं तदाह कृशादिति । अगोचरभृतमि- त्यानूपं धन्वदेशे पुष्टम् । मेध्यमिति मेदुरम् । सिद्धं पर्युषित- मिति पक्वं सत् पर्युषितम् ॥ ३५ ॥ उपादेयमाह एभ्य इति । सारङ्गो गौरहरिणः । वर्म शकलं तदस्यास्तीति वर्मी रोहितः तदुक्तं चरके रोहितो मत्स्या-
२. द्वितीय वर्ग: गुडूच्यादि वर्ग (गुडूची, निम्ब, पटोल, वासा, कण्टकारी)
४८ द्रव्यगुणः। पोताधानास्तु सर्वेषां सुस्निग्धा लघुदीपनाः । महाप्रमाणा गुरवः क्रियावन्तोऽल्पचेष्टिनः ॥३७॥ मत्स्याण्डानि विशेषेण वातपित्तहराणि च । ज्ञेयानि हृद्यरुच्यानि कटुपाकीनि चैवहि ॥३८॥ हंसवीजं परं बल्यं वृंहणं वातनाशनम् । पाके लघुतरं प्रोक्तं सर्वामयविवर्जितम् ॥ ३९ ॥ विष्टम्भिनः शुष्कमत्स्या अबल्या दुर्जरा मताः । सिङ्गला ग्रहणीदोषशमनी पवनापहा ॥ ४० ॥ इति मांसादिवर्गः । शाकानि प्रायशस्तानि विष्टम्भीनि गुरूणि च । रूक्षाणि बहुवर्चांसि सृष्टविण्मरुतानि च ॥ १ ॥ पत्रं पुष्पं फलं नालं कन्दं संस्वेदजं तथा । शाकं षड्विधमुद्दिष्टं गुरु विद्याद् यथोत्तरम् ॥२॥ नामिति। ब्रह्मदेवोऽपि वर्मी महाशकलो रोहितभेदः न तु सर्पाकारमत्स्य इत्याह ॥ ३६ ॥ इति मांसादिवर्गः । अत्र व्यञ्जनेषु श्रेष्ठत्वात् प्रथमं मांसगुणमभिधाय अनन्तरं शाकगुणे वाच्ये प्रथमं शाकानां सामान्यगुणमाह शाकानीति ॥१॥ तत्र शाकभेदेन गुणभेदमभिधातुं शाकभेदमाह पत्रमिति । संस्वेदजमिति छत्रकादि ॥ २ ॥
द्रव्यगुणाः । ४६ जीवन्ती सर्वदोषघ्नी चक्षुष्या मधुरा हिमा ॥३॥ तण्डुलीयमसृक्पित्तविषनुत् स्वादुपाकतः ॥४॥ वास्तूकस्तु सरो हृद्यो दोषनुत् पाकतो लघुः । सक्षारः क्रिमिहा मेध्यो रुच्योऽग्निवलवर्द्धनः ॥५॥ लघुपत्री तु या चिल्लो सा वास्तूकसमा मता ॥६॥ तत्र शाकेषु जीवन्ती श्रेष्ठा । उक्तं हि वाग्भटे वरा शाकेषु जीवन्ती मारिषस्त्ववरः स्मृतः । इति । तद्गुणमाह जीवन्तीति । जीवन्ती स्वनामख्याता स्वर्णनाड़ इति चक्रः । सा द्विधा मधुरा अमधुरा च । तत्र मधुराया एव त्रिदोषहन्तृत्वम् । अमधुरायास्तु वातपित्तह- न्तृत्वमेव । तदुक्तं वृद्धवाग्भटे चक्षुष्या सर्वदोषघ्नी जीवन्ती मधुरा हिमा । शाकानां प्रवरा न्यूना द्वितीया किञ्चिदेव तु ॥ तत्रामधुरायाः किञ्चिन्न्यूनत्वेन न त्रिदोषहरत्वमिति बोध- यति । अतएवाह चरकः भण्डी शतावरीशाकं बला जीवन्तिजञ्च यत् । पर्वेच्छाः सर्वपुष्पाश्च वातपित्तहरं मतम् ॥ इति ॥ ३ ॥ तण्डुलीयं क्षुद्रमारिषः । पाकत इत्यनन्तरं चकारो लुप्त- निर्दिष्टो ज्ञेयः । तेन रसतोऽपि स्वादुरित्यर्थः ॥ ४ ॥ दोषनुदिति । त्रिदोषहरः पाकतो लघुरिति कटुरित्यर्थः । उक्तञ्च कटुविपाके क्रिमिहा मेधाग्निवलवर्द्धनः । सक्षारः सर्वदोषघ्नो वास्तूको रोचनः परः । चरकेऽपि त्रिदोषघ्नत्वमुक्तम् ॥ ५ ॥ ५
५० द्रव्यगुणः । मूलकपोतिका कण्ठ्या सर्वदोषहरी लघुः । कटुतिक्तरसा हृद्या रोचनी वह्निदीपनी ॥७॥ महत्तद्गुरु विष्टम्भि तीक्ष्णमामं त्रिदोषकृत् ॥८॥ तदेव स्निग्धसिद्धन्तु वातनुत् कफपित्तकृत् ॥६॥ शुष्कन्तु शोथशमनं गरदोषहरं लघु ॥ १० ॥ तत्फलं कफवातघ्नं तत्पुष्पं कफपित्तजित् ॥११॥ हिलमोची तु कुष्ठघ्नी भेदनी कफपित्तनुत् ॥१२॥ उपोदिका सरा स्निग्धा वल्या श्लेष्मकरी हिमा । चिल्ली गौरवास्तूकः । क्षेत्रवास्तूक इत्यन्ये ॥ ६ ॥ मूलकस्य बालमहदामसिद्धशुष्कभेदेन गुणमाह मूलक- पोतिकेति । मूलकपोतिका अतिबालमूलकम् । अत्र स्निग्ध- सिद्धाया एव मूलकपोतिकायाः सर्वदोषहरत्वम् अन्यथा तु दोषकृत्त्वम् यदाह मूलकगुणे वाग्भटः वातश्लेष्महरं शुष्कं सर्वमामन्तु दोषलम् । इति । अत्र सर्वमिति बालं वृद्धञ्च । सर्वपदञ्च पूर्वेण परेण च सम्बध्यते । तेन सर्वदोषहरस्यापि बालमूलकस्या- मावस्थायां दोषलत्वं न तु वृद्धस्यैवेत्यरुणः ॥ ७ ॥ महतः परिणतस्य मूलकस्य गुणमाह महदिति । आम- मित्यनग्निपक्वमिति निबन्धसंग्रहः ॥ ८ ॥ शुष्कमूलकगुणमाह शुष्कमिति । अस्य च वातकफहरत्वं ज्ञेयम् । यदाह बालं दोषहरं वृद्धं त्रिदोषं मारुतापहम् । स्निग्धसिद्धं विशुष्कन्तु मूलकं कफवातजित् ॥ १० ॥ मूलकफलपुष्पयोर्गुणमाह तत्फलमिति ॥ ११ ॥
˙द्रव्यगुणः। ५१ स्वादुपाकरसा हृद्या वातपित्तमदापहा ॥ १३ ॥ सुनिषण्णन्तु संग्राही अविदाहि त्रिदोषनुत् ॥१४॥ मारिषो मधुरः शीतो विष्टम्भी गुरुपित्तनुत् ॥१५॥ पालङ्गा बह्वविण्मूत्रा कफघ्नी तण्डुलीयवत्॥१६॥ कासमर्दोऽग्निदः कण्ठ्यः स्वादुस्तिक्तस्त्रिदोषनुत् ॥१७॥ कालशाकं गरश्लेष्मशोथघ्नं दीपनं कटु ॥ १८ ॥ कलायपत्रं मधुरं रूक्षं भेदि च वातलम् ॥१९॥ सतीलकं त्रिदोषघ्नं कटुपाकं सतिक्तकम् ॥२०॥ सुनिषण्णकं सुसुनिया इति ख्यातम्। ब्रह्मदेवस्तु तल्ल- क्षणमाह। चाङ्गेरीसदृशैः पत्रैः सुनिषण्णं चतुर्दलम्। शाको जलान्विते देशे चतुष्पत्रीति सूच्यते ॥ १४ ॥ तण्डुलीयवदित्यनेन मधुररसपाकत्वादिकमतिदिश्यति। अस्याश्च कफहरत्वं रूक्षत्वादिप्रकर्षात् ॥ १६ ॥ अस्य च त्रिदोषहरत्वेऽपि विशेषात् पित्तहरत्वं बोध्यम्। यदाह सुश्रुतः। मधुरः कफवातघ्नः पाचनः कण्ठशोधनः। विशेषतः पित्तहरः सतिक्तः कासमर्दक इति ॥ १७ ॥ कलायस्त्रिपुटकलायः। सतीलाख्यस्य वक्ष्यमाणत्वात् ॥१९॥ सतीलको वर्त्तुलकलायः। अस्य च त्रिदोषहरत्वेऽपि विशे- षात् कफपित्तहरत्वं ज्ञेयम्। कफपित्तहरं तिक्तं शीतं कटु विपच्यते।
५२ द्रव्यगुणः। षाणकं दुर्जरं स्वादु कौसुम्भन्तु कफापहम् ॥२१॥ पुवर्नवायुग्ममुष्णावीर्य्यं रसायनं सरम् । कफानिलामदुर्नामव्रध्नशोथोदरापहम् ॥ २२ ॥ कञ्चटं तिक्तकं ग्राहि रक्तपित्तापहं स्मृतम् ॥२३॥ चाङ्गेरी तु कषायोष्णा मधुरा वह्निदीपनी । साम्ला वातकफौ हन्ति ग्रहण्यर्शीविकारनुत् ॥२४॥ चुक्रकं दुर्जरं भेदि अम्लं पित्तकरं गुरु ॥ २५ ॥ कलम्बिका गुरुर्वृष्या कषाया स्तन्यवृद्धिदा ॥२६॥ सार्षपं गुरु शाकञ्च बद्धमूत्रं त्रिदोषकृत् ॥ २७ ॥ ग्रीष्मसुन्दरकस्तिक्तो रोचनः कफपित्तनुत् ॥२८॥ नाड़ीचः पिच्छिलः शीतो विष्टम्भी वातकोपनः । रक्तपित्तहरः स्वादुर्मण्डूक्यद्याश्च तद्गुणाः ॥२६॥ पटोलपत्रं पित्तघ्नं नालं तस्य कफापहम् । फलं तस्य त्रिदोषघ्नं मूलं तस्य विरेचनम् ॥३०॥ निम्बः पित्तकफच्छर्दिव्रणहृल्लासकुष्ठनुत् ॥३१॥ पर्पटस्तु सवेत्राग्रस्तिक्तः पित्तकफापहः ॥ ३२ ॥ इति चरकसंवादात् ॥ २० ॥ स्वादिति । रसतः पाकतश्च । कफापहमिति कफहरम् ॥२१॥ चाङ्गेरीगुणे साम्लेति ईषदम्ला ॥ २४ ॥ मण्डूकी मण्डूकपर्णी मणिमणीतिख्याता । आदिशब्दाद् गोजिह्वादीनां ग्रहणम् । गोजिह्वा दार्वीशाकः ॥ २६ ॥
द्रव्यगुणाः। ५३ त्रिदोषशमनी वृष्या काकमाची रसायनी। नात्युष्णा शीतवीर्य्या च भेदनी कुष्ठनाशिनी ॥३३॥ वायुं वत्सादिनी हन्यात् पित्तघ्नी तु सुवर्चला ॥३४॥ राजक्षवकशाकन्तु त्रिदोषशमनं लघु । ग्राहि शस्तं विशेषेण ग्रहण्यर्शोविकारिणाम् ॥३५॥ दीपनाः कफवातघ्नाश्चिरबिल्वाङ्कुराः सराः ॥३६॥ न्यग्रोधोदुम्बराश्वत्थप्लचपद्मादिपल्लवाः । कषायस्तम्भनाः शीता हिताः पित्तातिसारिणाम्३७ अवलगुजः कटुः पाके तिक्तः पित्तकफापहः ॥३८॥ वार्त्ताकं कटु तीक्ष्णोष्णं मधुरं कफवातजित् । वत्साद्नी गुडूची। अस्याश्च पित्तकफहन्तृत्वं बोध्यम् । तदुक्तं सुश्रुते । अटरूषकवेत्राग्रगुडूचीनिम्बपर्पटाः । किराततिक्तसहितास्तिक्ताः पित्तकफापहाः ॥ इति। अन्ये तु पत्रप्रधाने गुडूचीशाके तिक्तरसप्राधान्यात् पित्तकफहरत्वमेवेत्याहुः । सुवर्चला सूर्य्यावर्त्तभेदः। अन्येतु मारिषसदृशनालमार्त्तगलसदृशपत्रं लम्पकमाहुः ॥ ३४ ॥ राजक्षवको दुग्धिका। अन्येतु राजक्षवको बृहत्पत्रः क्षवयुकारक इत्याहुः ॥ ३५ ॥ चिरबिल्वः करञ्जकः ॥ ३६ ॥ अवलगुजो बागुजोत्यन्नम् ॥ ३८ ॥ जीर्णमिति परिणतम्। अत्र जीर्णं पित्तलमित्यनेना- परिणतस्यापि पित्ताविरोधित्वमिति बोधयति। अतएव माध-
५४ द्रव्यगुणः। रोचनं वह्निजननं जीर्णन्तु पित्तलं मतम् ॥ ३६॥ कण्डूकुष्ठक्रिमिघ्नानि कफवातहराणि च । फलानि बृहतीनान्तु कटुतिक्तलघूनि च ॥४०॥ कारवेल्लः सकर्कोटो रोचनः कफपित्तनुत् ॥४१॥ कूष्माण्डकं पित्तहरं बालं मध्यं कफावहम् । पक्वं लघूष्णं सक्षारं दीपनं वस्तिशोधनम् ॥ सर्वदोषहरं हृद्यं पथ्यञ्चेतोविकारिणाम् ॥४२॥ सक्षारा मधुरा रूक्षा रुच्या वातकफापहा । वेन वार्त्ताकगुणे हृद्यं रुच्यमपित्तलमित्युक्तम् । अन्ये तु पठन्ति सा बाला कफपित्तघ्नी पक्वा सक्षारपित्तला । सदाफला त्रिदोषघ्नी रक्तपित्तप्रसादनी ॥ ३६ ॥ अन्ये तु कण्टकारीफलं पृथगेव पठन्ति ॥ ४० ॥ कारवेल्लः स्वनामख्यातः । कर्कोटो बृहत्कर्कोटोऽल्प- कर्कोटी च ॥ ४१ ॥ कूष्माण्डस्य बालावस्थाभेदेन गुणमाह कूष्माण्डकमिति । मध्यस्य कफावहत्वेन वातपित्तहरत्वं सूच्यते । यदाह वाग्भटः कूष्माण्डं वातपित्तजित् । अतएव कफमावहति करोतीति कफावहमिति डल्लनोऽप्याचष्टे । अयन्तु सौश्रुतः श्लोकः । पक्व- मित्यत्र शुक्रमिति पठ्यते । तथापि स एवार्थः । पक्वस्य शुक्ल- वर्णत्वात् चक्रेण स्पष्टार्थं पक्वमित्युक्तम् । सर्वदोषहरमिति सर्वग्रहणं रक्तोपसंग्रहार्थम् । सर्वदोषसहमित्यन्ये पठन्ति । अत्रायमर्थः न करोति न वा शमयतीत्यर्थ इति निबन्धसंग्रह- कृतः । चेतोविकारा अपस्मारादयः ॥ ४२ ॥