भारतकोश
संग्रह पर लौटें

गदनिग्रह (आचार्य सोढल - कायचिकित्सा एवं रोग-विनिश्चय सटीक)

Gadanigraha of Acharya Sodhala with Commentary

आचार्य सोढल द्वारा

DevanagariHindipublished286 पृष्ठ

गदनिग्रहः । ५५ सन्निपातज्वरे जात्यादितैलम् । नवपत्राङ्कुरा जाती द्वे हरिद्रे शतावरी । जीवकर्षभकौ रास्ना सरलं देवदारु च ॥ २७१ ॥ मुस्तातालीशमञ्जिष्ठापाठावरुणचित्रकाः । कुञ्जं सर्पसुगन्धं च मधुकं द्वे च सारिवे ॥ २७२ ॥ अनन्ताऽऽमलकं मूर्वा मधुकं करवीरकम् । देवपुष्पं शिरीषस्य मूलं स्योनाकमेव च ॥ २७३ ॥ चव्यं लाक्षा पयसा च कल्कीकृत्याक्षसंमितान् । पक्त्वा चाथ कषायेण तैलप्रस्थं विपाचयेत् ॥ २७४ ॥ एतदभ्यञ्जनाद्धन्यात्सन्निपातात्मकं ज्वरम् । तैलं जात्यादिकं नाम वातपित्तकफापहम् ॥ २७५ ॥ ज्वरे षट्चरणं तैलम् । लाक्षाविश्वानिशामूर्वामञ्जिष्ठाखर्जिकामयैः । षड्गुणेन च तक्रेण सिद्धं तैलं ज्वरान्तकृत् ॥ २७६ ॥ शोषे शिरीषाद्यं तैलम् । मूलं त्वचं च पत्रं च प्रवालं स्कन्धमेव च । शिरीषाद्वितुले दद्याद्धर्मस्त्वेष प्रकीर्तितः ॥ २७७ ॥ वरुणः पारिभद्रश्च ककुभश्चतुरङ्गुलः । विल्वोऽग्निमन्थः श्योनाकः करघाटः सवञ्जुलः॥२७८॥ गन्धर्वहस्तः काकोली काश्मरी पाटली तथा । निदिग्धिकाऽथ वार्त्ताकी शालिपर्णी मयूरकः ॥२७९॥ तुरगी श्रेयसी चैव शतावर्युदकं तथा । सुषव्यतिबला चैव दन्ती सिंहमुखी तथा ॥ २८० ॥ पञ्चाशत्पलिकान् भागान्मूलं पुष्पं च रोहिषात् । निष्क्वाथ्यैस्त्रिफलायाश्च प्रस्थस्त्रिगुणितो भवेत् ॥ २८१ ॥ कोलकानां कुलत्थानां यवानां तत्समं तथा । द्राक्षायाः शतपुष्पायाः कुर्यादाढकमाढकम् ॥ २८२ ॥

५६ आयुर्वेदियग्रन्थमाला। [तैलाधिकारः छागलस्य तु मांसस्य द्वे तुले तत्र दापयेत् । एतत्सर्वं समालोड्य तोयद्रोणेषु पञ्चसु ॥ २८३ ॥ द्विद्रोणशेषं पूतं च तैलद्रोणेन संसृजेत् । पाठा मगधजा रास्ना सुषवी गोक्षुरं बला ॥ २८४ ॥ प्रियङ्गूर्द्वे हरिद्रे च मांसी चैला कुटन्नटम् । देवदारु वचा लोध्रं कुष्ठं व्याघ्रनखं शठी ॥ २८५ ॥ मञ्जिष्ठा मधुकं मुस्तं रोध्रं द्वे चापि सारिवे । सश्रीप्रियं चन्दनं च रक्तकं तैलपर्णिकम् ॥ २८६ ॥ समृणालत्वचं पत्रं पतङ्गं नीलमुत्पलम् । एषां द्विपलिकान् भागान् रम्भागर्भं समावपेत्॥२८७॥ दध्नो दद्याच्च त्रीन्द्रोणान् ततः सिद्धं निधापयेत् । शैरीषमिति विख्यातमेतत्तैलं क्षयापहम् ॥ २८८ ॥ प्रशस्तममृताकारं पानाभ्यञ्जनबस्तिषु । अपस्मारं तथोन्मादं शोषान् सोपद्रवानपि ॥ २८९ ॥ अङ्गमर्दमथो दाहं पाण्डुत्वं स्वरवैकृतम् । अर्दितं गृध्रसीं गुल्मान् कम्पं पक्षवधं तथा ॥ २९० ॥ हनुग्रहं खुडावातमूर्ध्ववातापतानकौ । मूकत्वं गद्गदत्वं च बाधिर्यं कर्णवेदनाम् ॥ २९१ ॥ उरौ जानुनि कुक्षौ च विसर्पं वातशोणितम् । हन्याद्गरुडबलोपेतो जीवेच्च शरदां शतम् ॥ २९२ ॥ प्रयोगादस्य तैलस्य न च रोगाः क्रमन्ति तम् । विषपीताश्च दुष्टाश्च भूतोपहतचेतसः ॥ २९३ ॥ ये पिबन्ति शिरीषाद्यं नीरुजस्ते भवन्ति हि । मूलकर्मविकाराणां भूतानां दंष्ट्रिणामपि ॥ २९४ ॥ अस्पृश्यं तद्गृहं यत्र तैलमेतद्विधीयते ।

गदनिग्रहः । ५७ शोषे सुकुमारतैलम् । मधुकस्य शतं दद्यात्काश्मर्याश्च तथाऽऽढकम् ॥२९५॥ परूषकाणां द्राक्षायाः खर्जूरौदनपाकयोः । मधूकपुष्पस्य तथा तथा मौञ्जातमाढकम् ॥ २९६ ॥ द्विद्रोणेऽपां विपक्तव्यं चतुर्थांशावशेषितम् । तस्मिन् कषाये पूते च पुनरग्नावधिश्रयेत् ॥ २९७ ॥ आर्द्रामलककाश्मर्यविदारीक्षुरसाढकम् । तैलाढकं च संयोज्य पचेत्क्षीरे चतुर्गुणे ॥ २९८ ॥ तस्मिंस्तथा पच्यमाने कल्कांश्चैमान् समावपेत् । पिप्पलीं शृङ्गवेरं च कदलीं च शतावरीम् ॥ २९९ ॥ बलां तालं कदम्बं च सूक्ष्मैलां पद्मबीजकम् । शृङ्गाटकं कसेरुं च जीवनीयानि यानि च ॥ ३०० ॥ द्विपलिकान् पृथग्दत्त्वा विपचेन्मृदुनाऽग्निना । तत्सिद्धं स्रावयित्वाशु शीतं क्षौद्रेण संसृजेत् ॥३०१॥ नस्ये चाभ्यञ्जने पाने प्रशस्ते बस्तिकर्मणि । वातव्याधिषु सर्वेषु क्षतक्षीणे शिरोग्रहे ॥ ३०२ ॥ पार्श्वशूले प्रमेहे च गुल्मे चार्शोभगन्दरे । वातभग्नाङ्गहीनानां कासे श्वासे च हृद्ग्रहे ॥ ३०३ ॥ ज्वरातिसारे ह्यरचौ कर्णनादे स्वरक्षये । सुकुमारमिदं तैलं बालवृद्धसुखावहम् ॥ ३०४ ॥ एतद्धि वृष्यं बल्यं च रक्तमांसविवर्धनम् । स्वरवर्णकरं चैव शोषिणाममृतोपमम् ॥ ३०५ ॥ प्रपाकस्यास्य तैलस्य सम्यक्सिद्धस्य यो भवेत् । उदश्विदि विमध्यार्थे(?) सोऽपि कृत्यकरो भवेत् ३०६ एकादश च षट् चैव शोषिणां य उपद्रवाः । सुकुमारं प्रशमयेन्मेघोऽग्निमिव वृष्टिमान् ॥ ३०७ ॥

५८ आयुर्वेदियग्रन्थमाला । [तैलाधिकारः अर्शसि लघुकासीसाद्यं तैलम् । काशीसलाङ्गलीदन्तीकरवीराम्लैः पचेत् । तैलमर्कपयोन्मिश्रमभ्यङ्गात्पायुकीलजित् ॥ ३०८ ॥ अर्शसि पृथुकासीसाद्यं तैलम् । कासीसं सैन्धवं कृष्णा शुण्ठी कुष्ठं च लाङ्गली । शिला ट्रेकाश्वमारश्च जन्तुहृद्दन्तिचित्रकौ ॥ ३०९ ॥ हरितालं तथा स्वर्णक्षीरी चैतैः पचेत्समैः । तैलं सुधार्कपयसा गवां मूत्रे चतुर्गुणे ॥ ३१० ॥ एतदभ्यङ्गतोऽर्शासि क्षारवत्पातयेद्ध्रुवम् । क्षारकर्मकरो ह्येष न च दूष्यते वलिम् ॥ ३११ ॥ अर्शसि चित्रकाद्यं तैलम् । चित्रकं मदनं पीलुं शृङ्गवेरं शुकाननाम् । स्रोतोर्जं सैन्धवं दन्ती हरितालं मनःशिलाम् ॥३१२॥ तालीसं करवीरस्य मूलं लाङ्गलिकां वचाम् । भद्रकं क्षीरिकां चैव स्वर्णक्षीरीं च पेषयेत् ॥ ३१३ ॥ सुह्वर्कक्षीरकुडवौ पाच्यमाने प्रदापयेत् । मूत्रे चतुर्गुणे तैलं पक्कमर्शोहरं भवेत् । क्षारकर्मकरं ह्येतदभ्यङ्गात्तैलमुत्तमम् ॥ ३१४ ॥ कुष्ठे शिंशपासारतैलम् । दवदुदावपुंनाटवाकुची- तुम्बीफलोन्मत्तहयारिदारुभिः । तुङ्गफलत्वग्धरिमन्थवह्निजैः प्रस्थोन्मितैः श्यामलसारषड्गुणैः ॥ ३१५ ॥ तैलाढकार्थेन परिप्लुतैस्तैस्तैलं विदध्याद्गलिबन्धयन्त्रे । तत्तैलमभ्यङ्गविधौ प्रदिष्टं पथ्याशिनां कुष्ठविघातकृत्स्यात ३१६ कुष्ठे वज्रकं तैलम् । मूलं स्नुहाद्भात्त्वक् शिरीषाश्वमारा- दर्कान्मालत्याश्चित्रकास्फोटनिम्बात् ।

गदनिग्रहः । ५९ बीजं कारञ्जं सार्षपं प्रापुनाटं श्रेष्ठं जन्तुघ्नं त्र्यूषणं द्वे हरिद्रे ॥ ३१७ ॥ तैलं पक्वं साधितं तैः समूत्रैस्त्वग्दोषाणां कुष्ठनाडीव्रणानाम् । अभ्यङ्गेन श्लेष्मवातोद्भवानां नाशयालं वज्रकं वज्रतुल्यम् ३१८ कुष्ठे महावज्रकं तैलम् । एरण्डतार्क्ष्यघननीपकदम्बभार्गी- कम्पिल्लवेल्लफलिनीसुरवारिणीभिः । निर्गुण्ड्यरुष्करमुराह्वसुवर्णदुग्धा- श्रीवेष्टगुग्गुलुशिलापडुतालुकैश्च ॥ ३१९ ॥ तुल्यं स्नुगर्कदुग्धं सिद्धं तैलं महावज्रकाह्वम् । अतिशयति वज्रकगुणान् श्वित्रार्शोग्रन्थिमालाघ्नम् ॥३२० कुष्ठे श्वेतकरवीराद्यं तैलम् । श्वेतकरवीरपल्लवमूलत्वक्पुष्पचित्रकविडङ्गानि । कुष्ठार्कमूलसर्षपशियुत्वग्रोहिणीकटुकाः ॥ ३२१ ॥ एतैस्तैलं सिद्धं कल्कैः पादांशकैर्गवां मूत्रम् । दत्त्वा तैलचतुर्गुणमभ्यङ्गात्कुष्ठकण्डूघ्नम् ॥ ३२२ ॥ कुष्ठे सिन्दूराद्यं सूर्यपाकं तैलम् । सिन्दूरशङ्खचूर्णकहरितालमनःशिलायवक्षारैः । कासीसकच्छसंभवगन्धाद्यैःसंयुक्तैस्तैलम् ॥ ३२३ ॥ दिनकरतप्तं पामाविर्चचिकादद्रुकुष्ठकिटिमादीन् । नाशयति लेपमात्राद्भूयो भूयः कपालकुष्ठमपि ॥ ३२४ ॥ कुष्ठे कुष्ठकालानलं तैलम् । क्षारद्वयं कटुत्रीणि पञ्चैव लवणानि च । वचा कुष्ठं हरिद्रे द्वे विडङ्गं चित्रकं विषम् ॥ ३२५ ॥ हरितालं शिला गन्धं सिन्दूरं तुत्थखर्परम् । रामठं च रसोनं च मदनं च रसाञ्जनम् ॥ ३२६ ॥

६० आयुर्वेदीयग्रन्थमाला । [तैलाधिकारः एतत्सर्वं समांशं च स्नुह्यर्कपयसा प्लुतम् । षड्गुणं सार्षपं तैलं तैलान्मूत्रं चतुर्गुणम् ॥ ३२७ ॥ सर्वं मन्दानले पक्कं ग्राह्यं तैलावशेषकम् । हन्त्यष्टादश कुष्ठानि मांसमेदोगतानि च ॥ ३२८ ॥ दुष्टव्रणानि शतानि जीर्णनाडीव्रणानि च । हन्ति श्वित्रमसाध्यं च दद्रुपामाविचर्चिकाः ॥ ३२९ ॥ एतत्तैलं सदाऽभ्यङ्गात्कुष्ठव्याधिहरं नृणाम् । कुष्ठे कनकक्षीर्याद्यं तैलम् । कनकक्षीरी शैलं भार्गी दन्तीफलानि मूलं च ॥३३०॥ जातीप्रवालसर्षपलशुनविडङ्गं करञ्जत्वक् । सप्तच्छदार्कपल्लवमूलत्वङ्निम्बचित्रकास्फोटाः ॥ ३३१ गुञ्जैरण्डो बृहतीमूलकसुसराजर्कफलानि । कुष्ठं तुम्बरु पाठा मूर्वा मुस्तं निशा च षड्ग्रन्था ॥३३२ एडगजबीजशिग्रुत्र्यूषणभल्लातकाक्षवकाः । हरितालमवाक्पुष्पी तुत्थं कम्पिल्लकोऽमृतासङ्गः॥३३३ सौराष्ट्री कासीसं दार्वी त्वक् खर्जिका लवणम् । कल्कैरेतैस्तैलं करवीरमूलपल्लवकषाये ॥ ३३४ ॥ सार्षपमथवा तैलं गोमूत्रे चतुर्गुणे साध्यम् । कडुकालाभौ स्थाप्यं तत्सिद्धं तेन मण्डलान्यशु ॥३३५ छिन्द्याद्भिषगभ्यङ्गात्कण्डूकोठांश्च विनिहन्यात् । पामायां आर्द्रकाद्यं तैलम् । आर्द्रकस्यार्कदुग्धस्य स्नुकक्षीरस्य पृथक् पृथक् ॥३३६॥ द्वे द्वे पले तु द्विपलं सिन्दूरं च समाहरेत् । भूर्जकर्षविमिश्राणि कटुतैलस्य पाचयेत् ॥ ३३७ ॥ पलानि दश चाभ्यङ्गात्कच्छूरोगविनाशनम् । दद्रूरोगे दाव्यद्यं सूर्यपाकतैलम् । दार्वीखण्डैः संयुक्तैः कासमर्द्दकसंभवैः ॥ ३३८ ॥

२.] गदनिग्रहः । ६१ मूलैर्महोटिकायास्तु स्वरसेन समन्वितैः । स्नुहीक्षीरनिशामूर्वागृहधूमफणिज्जकैः ॥ ३३९ ॥ रालाविडङ्गमगधागौरसर्षपनागरैः । चक्रमर्दकनाडीकाबाकुचीनक्तमालकैः ॥ ३४० ॥ मूलकस्य च बीजैस्तु सुरसारग्वधच्छदैः । सक्षारलवणोपेतैर्गोमूत्रैः परिपेषितैः ॥ ३४१ ॥ कटुतैलस्थितैः पक्कैः सम्यग्रविगमस्तिभिः । कृतमाशु नराणां तु हन्यादेभिः प्रलेपनम् ॥ ३४२ ॥ दद्रूं विचर्चिकां कण्डूं पामां दुर्मुक्तकं (?) तथा । कुष्ठे गुग्गुल्याद्यं सूर्यपाकतैलम् । गुग्गुलुमरिचविडङ्गैः सर्षपकासीसमुस्तसर्जरसैः॥३४३॥ श्रीवेष्टतालगन्धैर्मनःशिलाकुष्ठकम्पिल्लैः । उभयहरिद्रासहितैः कटुतैलं विमिश्रितैरेभिः ॥ ३४४ ॥ आदित्यरश्मिपक्कैः कुष्ठं विनिहन्ति संस्पर्शात् । कुष्ठे विद्रावणं तैलम् । मनःशिलाले सिन्दूरं सौराष्ट्री गन्धकस्तथा ॥ ३४५ ॥ ससिकथकं सर्जरसं कासीसं पुरकुन्दरू । श्व्याह्वः शल्लकि कम्पिल्लं कटुकुष्ठं चाप्यरुष्करम् ॥३४६॥ गवां मूत्रेण संसिद्धं कटुतैलं प्रयोजयेत् । पामाविचर्चिकादद्रूकण्डुकुष्ठक्रिमीन् व्रणान् ॥ ३४७ ॥ अभ्यङ्गाच्छमयेत्येतन्नाम्ना विद्रावणं मतम् । कुष्ठे महासुगन्धं तैलम् । चन्दनं कुङ्कुमोशीरं प्रियङ्गुत्रुटिरोचनाः ॥ ३४८ ॥ तुरुष्कागुरुकस्तूर्यः कर्पूरं जातिपत्रिका । जातीकङ्कोलपूगानां लवङ्गस्य फलानि च ॥ ३४९ ॥ नलिका नलदं कुष्ठं हरेणुस्तगरः प्लवम् । ६

६२ आयुर्वेदीयग्रन्थमाला । [ तैलाधिकारः नखं व्याघ्रनखं स्पृक्का बोलो दमनको मुरा ॥ ३५०॥ स्थौणेयकं चोरकं च शैलेयं सैलवालुकम् । सरलः सप्तपर्णश्च च लाक्षा तामलकी तथा ॥ ३५१ ॥ लामजकं पद्मकं च धातक्याः कुसुमानि च । प्रपौण्डरीकं कर्पूरः समान्शैः शाणमात्रकैः ॥ ३५२ ॥ महासुगन्धमित्येतत्प्रस्थं तैलस्य साधयेत् । प्रस्वेदमलदौर्गन्ध्यकण्डुकुष्ठहरं परम् ॥ ३५३ ॥ अनेनाभ्यक्तगात्रः स्याद्वृद्धः सप्ततिकोऽपि वा । युवा भवति शुक्राढ्यः स्त्रीणां चात्यन्तवल्लभः ॥३५४॥ सुभगो दर्शनीयश्च गच्छेच्च प्रमदाशतम् । वन्ध्यापि लभते गर्भं षण्ढोऽपि पुरुषायते ॥ ३५५ ॥ अपुत्रः पुत्रमाप्नोति जीवेच्च शरदं शतम् । कुष्ठे मरीचाद्यं तैलम् । मरीचं त्रिवृता मुस्तं हरितालं मनःशिला ॥ ३५६ ॥ देवदारु हरिद्रे द्वे मांसी कुष्ठं सचन्दनम् । विशाला करवीरश्च भानुक्षीरं शक्रद्रसः ॥ ३५७ ॥ एतेषां कार्षिकान् भागान् विषस्यार्धपलं भवेत् । प्रस्थं च कटुतैलस्य गोमूत्रे द्विगुणे पचेत् ॥ ३५८ ॥ मृत्पात्रे लोहपात्रे वा शनैर्मृद्वग्निना भिषक् । तैलेनानेन नश्यन्ति रोगा देहे शरीरिणाम् ॥ ३५९॥ पामा विचार्चिका चैव दद्रुविस्फोटकानि च । अभ्यङ्गेन प्रणश्यन्ति श्यामलत्वं प्रजायते ॥ ३६० ॥ प्रच्छिन्नान्यपि श्वित्राणि तैलेनानेन प्रक्षयेत् । चिरोत्थमपि यच्छिद्रं सवर्णं प्रक्षणाद्भवेत् ॥ ३६१ ॥ कुष्ठे आमरिकं तैलम् । गुञ्जामूलं फलं कुष्ठं विषं सिन्दूरसिक्थकम् । द्वे हरिद्रे जलञ्जाल्चौ गुग्गुलूत्रे तयैव च ॥ ३६२ ॥

२.] गदनिग्रहः । ६३ कृकलाससमायुक्तं कटुतैलं विपाचयेत् । क्षिपेत्स्वरुपद्रव्याणि सुदग्धान्यवतारयेत् ॥ ३६३ ॥ उद्धृत्य तैलमध्यात्तु सूक्ष्मचूर्णानि कारयेत् । चूर्णं तैले पुनः कृत्वा त्रिशूलीं दापयेत्ततः ॥ ३६४ ॥ जीवन्तीं जीवनीमूलं तथा च व्रणरोहिणीम् । एतच्चूर्णं समालोड्य त्वेकरात्रं तु धारयेत् ॥ ३६५ ॥ शिरोरोगं व्रणं कुष्ठं पामां चैव विचार्चिकाम् । ये व्रणा न प्ररोहन्ति गम्भीरा भैरवाश्च ये ॥ ३६६ ॥ तांस्तु नाशयते सर्वान् सप्ताहेन न संशयः । भिषजां नात्र सन्देहस्तैलं आमरिकं खलु ॥ ३६७ ॥ व्रणे महाकषायं तैलम् । उदुम्बरो वटश्चैव प्लक्षः पिप्पल एव च । मधूक आम्रः सर्जश्च जम्बूद्वयमथार्जुनः ॥ ३६८ ॥ कम्पिल्लकः पियालश्च कदम्बस्तिन्दुकस्तथा । पलाशो रोध्रसंमिश्रं बदरं पद्मकेसरम् ॥ ३६९ ॥ शिरीषो बीजकश्चैव तथा रक्तं च चन्दनम् । अमीषां क्वाथकल्काभ्यां तैलं मन्दाग्निसधितम् ॥३७०॥ नाम्ना महाकषायं तु क्षिप्रमभ्यञ्जनाद्धरेत् । व्रणांस्तु देहिनामेतच्चिरकालभवानपि ॥ ३७१ ॥ वल्मीके मनःशिलाद्यं तैलम् । मनःशिलालभल्लातसूक्ष्मैलागुरुचन्दनैः । जातीपल्लवपत्रैश्च निम्बतैलं विपाचयेत् ॥ ३७२ ॥ वल्मीकं नाशयत्येतद्द्बहुच्छिद्रं बहुस्रवम् । गण्डमालायां फणिज्जकाद्यं तैलम् । फणिज्जकः सक्षवको नादेयं नवमालिका ॥ ३७३ ॥ अश्मन्तको विडङ्गानि मयूरकफलानि च । वितुन्नकं देवदारु सहदेवा च कङ्कलः ॥ ३७४ ॥

६४ आयुर्वेदीयग्रन्थमाला । [ तैलाधिकारः बीजं कारञ्जपालाशं मूलकस्र्यार्जकस्य च । महापर्पटको मुस्तं त्रिकटु त्रिफला वचा ॥ ३७५ ॥ सुवर्चला च हिङ्गुश्च समभागानि कारयेत् । अक्षमात्रैः पचेदेभिस्तैलप्रस्थं सुखाग्निना ॥ ३७६ ॥ अजाक्षीरेण संयुक्तमजाक्षीरे चतुर्गुणे । तदस्य नस्यं दद्याच्च गण्डमालाविनाशनम् ॥ ३७७ ॥ विदारिकां गलग्रन्थि गलगण्डं च नाशयेत् । गण्डमालायां काकादनीतैलम् । काकादनीलाङ्गलिकानदीहतुण्डिकाफलैः ॥ ३७८ ॥ जीमूतबीजकर्कोटैर्विशालाकृतवेधनैः । पाठान्वितैः पलार्धांशैर्विषकर्षयुतैः पचेत् ॥ ३७९ ॥ प्रस्थं करञ्जतैलस्य निर्गुण्डीस्वरसाढके । अनेन गण्डमाला हि चिरजा पूयवाहिनी ॥ ३८० ॥ सिद्ध्यत्यसाध्यकल्पापि पानाभ्यञ्जननावनैः । रक्तपित्ते मूर्वाद्यं तैलम् । मूर्वामधुकद्राक्षेक्षुरसचन्दनपद्मकैः ॥ ३८१ ॥ सारिवाद्ययनक्ताहैस्तैलप्रस्थं विपाचयेत् । क्षीरे चतुर्गुणे पक्त्वा कल्कैरक्षसमैर्भिषक् ॥ ३८२ ॥ रक्तपित्तहरं त्वेतद्वर्ण्यं वातघ्नमुत्तमम् । मूर्वातैलमिदं नाम्ना सवर्णकरणं परम् ॥ ३८३ ॥ कुष्ठे विषादनं तैलम् । कम्पिल्लकनिशायुग्मैः शालनिर्यासचित्रकैः । पुरकीटारिसंयुक्तैः पालिकैः सुविचूर्णितैः ॥ ३८४ ॥ एकीकृत्य समैरेभिर्विषस्य च पलद्वयम् । आतपे स्थापयेद्धीमान् कटुतैलपरिप्लुतम् ॥ ३८५ ॥ विषादनमिदं तैलं लेपात्सिध्मविचर्चिके । हन्ति पामापचीव्यङ्गादुष्टव्रणभगन्दरान् ॥ ३८६ ॥

गदनिग्रहः । ६५ कुष्ठे जीवन्त्याद्यं तैलम् । जीवन्ती मञ्जिष्ठा दार्वी कम्पिल्लकः पयस्तुत्थम् । एष घृततैलपाकः सिद्धः सर्जरससंयुक्तः ॥ ३८७ ॥ देयः समधुच्छिष्टो विपादिका तेन शाम्यतेऽभ्यक्ता । चर्मैककुष्ठं किटिभं सिध्मं शाम्यत्यलसकं च ॥ ३८८ ॥ पामायां जीरकाद्यं तैलम् । जीरकस्य पलं पिष्टं सिन्दूरार्धपलं तथा । कटुतैलं पचेदेभिः सद्यः पामाहरं परम् ॥ ३८९ ॥ कृमिरोगे विडङ्गाद्यं तैलम् । विडङ्गानि स्नुहीक्षीरमर्कक्षीरं तथैव च । गुञ्जाफलानि गण्डीरं श्यामा निर्दहनी तथा ॥३९०॥ एतैर्गोमूत्रसंपिष्टैस्तैलं मूर्ध्नि निधापयेत् । कृमयः पूरणादेव नश्यन्त्यपि विमार्गगाः ॥ ३९१ ॥ वातरोगे गडूचीतैलम् । तुलां पचेज्जलद्रोणे गडूच्याः पादशेषितम् । क्षीरद्रोणयुतं कल्कैः पचेत्तैलाढकं शनैः ॥ ३९२ ॥ पिष्टैर्मधुकमञ्जिष्ठाजीवनीयैर्युतं तथा । कुष्ठैलागुरुमृद्वीकामांसीव्याघ्रीनखैर्नखैः ॥ ३९३ ॥ हरेणुश्रावणीव्योषशताह्वाशृङ्गिसारिवैः । त्वक्पत्रागुरुविक्रान्तास्थिरातामलकीघनैः ॥ ३९४ ॥ नतकेसरह्रीवेरपद्मकोत्पलचन्दनैः । सिद्धं तच्छनकैस्तैलं पानाभ्यञ्जनबस्तिषु ॥ ३९५ ॥ धन्यं पुंसवनं स्त्रीणां गर्भदं वातपित्तनुत् । तोदकम्परुजायामशिरःकम्पामयार्दितान् ॥ ३९६ ॥ हन्याद्रुणकृतान्दोषान् गडूचीतैलमुत्तमम् । वातरोगे द्वितीयं गडूचीतैलम् । अमृतायास्तुलाः पञ्च द्रोणेष्वष्टास्वपां पचेत् ॥३९७॥

२. द्वितीय खण्ड: गुल्म, प्रमेह, कुष्ठ, श्वास व कास रोग चिकित्सा

३६ आयुर्वेदीयग्रन्थमाला । [तैलाधिकारः पादशेषं तु सक्षीरं तैलस्यार्धाढकं पचेत् । एलामांसीनतोशीरसारिवाकुष्ठचन्दनैः ॥ ३९८ ॥ शतपुष्पाबलामेदामहामेदद्धिर्जीवकैः । काकोलीक्षीरकाकोलीश्रावण्यतिबलानखैः ॥ ३९९ ॥ महाश्रावणिजीवन्तीविदारीकपिकच्छुभिः । शतावरीतामलकीकर्कटाख्याहरेणुभिः ॥ ४०० ॥ वचागोक्षुरकैरण्डरास्नाकालासहायचरैः । द्विजीरकर्षमसहदारुमिश्रापि कार्षिकैः ॥ ४०१ ॥ मञ्जिष्ठायास्त्रिकर्षेण मधुकाष्टपलेन तु । कल्कैस्तत्क्षीणवीर्याग्निबलसंमूढचेतसः ॥ ४०२ ॥ उन्मादवेपापस्मारैर्युक्तांश्च प्रकृतिं नयेत् । वातव्याधिहरं श्रेष्ठं तैलामग्रममृताह्वयम् ॥ ४०३ ॥ वातरोगे सहचरं तैलम् । समूलशाखस्य सहाचरस्य तुलां समेतां दशमूलतश्च । पलानि पञ्चाशदभीरुतश्च पादावशेषं विपचेद्ग्रहेऽपाम् ॥४०४॥ तत्र सेव्यनखकुष्ठहिमैलास्पृग्विग्रयङ्गनलिकाम्बुशिलाजैः । लोहितानलदलोहमुरार्वैः कोपनामिशितुरुष्कनखैश्च ॥ ४०५॥ तुल्यक्षीरे पालिकैस्तैलपात्रं सिद्धं कृच्छ्रान् शीलितं हन्ति वातान् । कम्पाक्षेपस्तम्भशोषादियुक्तान् गुल्मोन्मादान् पीनसं योनिरोगान् ॥ ४०६ ॥ वातरोगे नीलसहचरतैलम् । सहचरहस्ती नीलोत्पलशतगात्रस्तृषातुरः पक्कितः । सलिलद्रोणतडागे सुतसधर्मांशुतप्त इव ॥ ४०७ ॥ तैलमक्षमतोऽसौ दद्यात्तैलाच्चतुर्गुणं च पयः । षट्कं प्रसूनबिसैन्धवकल्कैश्चाप्योनितैलितैः ॥४०८॥

एलामृणालकुष्ठप्रियङ्गुकाश्मीरपुरलोहैः । श्रीवेष्टकसर्जरसैश्चन्दनशैलेयरजनीभिः ॥ ४०९ ॥ दारुशताह्वापथ्यैः केसररसपेलवघनैश्च । तीर्णो मालतीकुसुमैः सहचरनीलाञ्जवनपतितः॥ ४१० मेदोस्थिमजमांशासृग्रुधिरशुक्रसंश्रयांश्चिरोत्पन्नान् । हन्याद्वातविकारानशीतिमेतन्महानीलम् ॥ ४११ ॥ वातरोगे दशमूलाद्यं तैलम् । दशाङ्घ्रिकेशरारिष्टब्राह्मीपाठाकटुत्रिकैः । शठीपुनर्नवाभार्गीसुरसाम्बुफलत्रिकैः ॥ ४१२ ॥ शङ्खपुष्पीत्वगेलार्कमुनिपादपपल्लवैः । अङ्कोटवरुणास्फोटशिरीषकटभीफलैः ॥ ४१३ ॥ कृमिघ्नमूलशम्पाकसर्पामरदारुभिः । प्रियङ्गुहिङ्गुमञ्जिष्ठासुमुखातन्दुलीयकैः ॥ ४१४ ॥ गिरिकर्णीवचाकुष्ठकङ्गुष्ठरजनीद्वयैः । मधुकसारसिन्धूत्थसितनीलोत्पलाम्बुदैः ॥ ४१५ ॥ कटुतैलं समैरेभिः पक्कं क्षीरे चतुर्गुणे । सोन्मादं हन्त्यपस्मारं पानाभ्यञ्जननावनैः ॥ ४१६ ॥ डाकिनीभूतवेतालनैगमेषादिकान् ग्रहान् । कृत्याभिचाररक्षांसि नाशयत्यखिलान्यपि ॥ ४१७ ॥ तैलमेतत्सुरेन्द्रेण नन्दस्य कथितं पुरा । बालस्य किल रक्षार्थ विष्णोरमिततेजसः ॥ ४१८ ॥ १ अनेकनीलपुष्पयुक्तं सहचरं शतपलमितं समूलपत्रशाखमुत्पाट्य खण्डशः प्रकल्पयित्वा संक्षुद्य द्रवद्वैगुण्यग्रहणविधानात् द्विद्रोणमिते जले प्रक्षिप्य तीव्रा- तपे शोषयेत् । पादशेषे कषाये गालयित्वा, तैलप्रस्थद्वयं, अष्टप्रस्थमितं दुग्धं, मदगन्धा.(सप्तपर्णी)दीनां मालतीपुष्पान्तानां प्रत्येकं कर्षमितानां कल्कं च दत्त्वा मन्दाग्निना तैलं साधयेदिति भावः ।

६८ आयुर्वेदीयग्रन्थमाला। [तैलाधिकारः अभ्यज्य सर्वगात्राणि भोक्तव्यं रिपुवेश्मनि । तैलमभ्यञ्जनं श्रेष्ठं वसतोऽरातिसङ्कटे ॥ ४१९ ॥ अथ विलिप्तभगा भगशालिनी यदि रमेत नरं दिवसे शुभे । मदनसायकजर्जरितोरसो भवति तस्य तयाऽपहृतं मनः॥४२०॥ ताम्बूलमुखवासेषु व्यञ्जनाहारयोगतः । अनामिकाग्रसंयुक्तं वशीकरणमुत्तमम् ॥ ४२१ ॥ भग्ने गन्धतैलम् । रात्रौ रात्रौ तिलान् कृष्णान् वासयेदस्थिरे जले । दिवा दिवा शोषयित्वा गवां क्षीरेण भावयेत् ॥४२२॥ तृतीयं सप्तरात्रं तु भावयेन्मधुकाम्बुना । ततः क्षीरं पुनः पीत्वा सुशुष्कांश्चूर्णयेद्बुधः ॥ ४२३ ॥ काकोल्यादिं सयष्ट्याह्वं मञ्जिष्ठां सारिवां तथा । कुष्ठं सर्जरसं मांसीं सुरदारु सचन्दनम् ॥ ४२४ ॥ शतपुष्पां च संचूर्ण्य तिलचूर्णेन योजयेत् । पीडनार्थे प्रकर्तव्यं सर्वगन्धशृतं पयः ॥ ४२५ ॥ चतुर्गुणेन पयसा तत्तैलं विपचेद्भिषक् । एलामंशुमतीं पत्रं जीरकं तगरं तथा ॥ ४२६ ॥ रोध्रं प्रपौण्डरीकं च तथा कालानुसारिवाम् । शिरीषकं क्षीरशुक्लामनन्तां समधूलिकाम् ॥ ४२७ ॥ पिष्ट्वा शृङ्गाटकं चैव पूर्वोक्तान्यौषधानि च। एभिस्तद्विपचेत्तैलं शास्त्रविन्मृदुनाग्निना ॥ ४२८ ॥ एतत्तैलं सदा पथ्यं भग्नानां सर्वकर्मसु । आक्षेपके पक्षघाते तालुशोषे तथार्दिते ॥ ४२९ ॥ मन्यास्तम्भे शिरोरोगे कर्णशूले हनुग्रहे । बाधिर्ये तिमिरे चैव ये च स्त्रीषु क्षयं गताः ॥ ४३० ॥ पथ्यं पाने तथाऽभ्यङ्गे नस्ये बस्तिषु भोजने । ग्रीवास्कन्धोरसां वृद्धिरमुनैवोपजायते ॥ ४३१ ॥

गदनिग्रहः। ६९ मुखं च पद्मप्रतिमं ससुगन्धिसमीरणम् । गन्धतैलमिदं नाम्ना सर्ववातविकारनुत् । राजार्हमेतत्कर्तव्यं राज्ञामेव विचक्षणैः ॥ ४३२ ॥ इति श्रीसोढलग्रथिते गदनिग्रहे तैलाधिकारो द्वितीयः । अथातस्तृतीयश्चूर्णाधिकारः । गुल्मे हिङ्ग्वाद्यं चूर्णम् । हिङ्गु त्रिकटुकं पाठां हपुषामभयां सठीम् । अजमोदाजगन्धे च तिन्तिडीकाम्लवेतसम् ॥ १ ॥ दाडिमं पौष्करं धान्यमजाजीं चित्रकं वचाम् । द्वौ क्षारौ लवणे द्वे च चव्यं चैकत्र चूर्णयेत् ॥ २ ॥ चूर्णमेतत्प्रयोक्तव्यमन्नपानेऽप्यनत्ययम् । प्राग्भक्तमथवा पेयं मद्येनोष्णोदकेन वा ॥ ३ ॥ पार्श्वहृद्बस्तिशूलेषु गुल्मे वातकफात्मके । आनाहे मूत्रकृच्छ्रे च गुदयोनिरुजासु च ॥ ४ ॥ ग्रहण्यार्शोविकारेषु प्लीहपाण्डामयेऽरुचौ । उरोविबन्धे हिक्कायां श्वासे कासे गलग्रहे ॥ ५ ॥ भावितं मातुलुङ्गस्य चूर्णमेतद्रसेन वा । बहुशो गुटिकाः कार्याः कार्मुकाः स्युस्ततोऽधिकाः॥६॥ शूले द्वितीयं हिङ्ग्वाद्यं चूर्णम् । हिङ्गुग्रन्थिकधान्यकाग्निकवचाचव्याग्निपाठाः सठी वृक्षाम्लं लवणत्रयं त्रिकटुकं क्षारद्वयं दाडिमम् । पथ्यापुष्करवेतसाम्लहपुषाजाज्याजगन्धैः कृतं चूर्णं भावितमेतदार्द्रकरसे स्याद्बीजपूरस्य च ॥ ७ ॥ आध्मानग्रहणीविकारगुदजान् गुल्मानुदावर्तकान् प्रत्याध्मानगरोदराश्मरिरुजस्तूणीद्वयारोचकान् !

७० आयुर्वेदीयग्रन्थमाला । [ चूर्णाधिकारः ऊरुस्तम्भमतिभ्रमं च मनसो बाधिर्यमष्ठीलिकां प्रत्यष्ठीलिकया सहापहरति प्राक्पीतमुष्णाम्बुना ॥ ८ ॥ रुक्कुक्षिवङ्क्षणकटीजठरान्तरेषु बस्तिस्तनांसफलकेषु च पार्श्वयोश्च । शूलानि नाशयति वातबलासजानि हिङ्ग्वाद्यमाद्यमिदमाश्विनसंहितायाम् ॥ ९ ॥ गुल्मे शार्दूलं चूर्णम् । हिङ्ग्राविडशुण्ठ्यजाजिविजयावाख्याभिधानामयै- श्चूर्णं कुम्भनिकुम्भमूलसहितैर्भागोत्तरं वर्धितैः । पीतं कोष्णजलेन कोष्ठकरुजागुल्मोदरादीन्नयं शार्दूलं प्रसमं प्रमथ्य हरति व्याधीन्मृगौघानिव ॥१०॥ गुल्मे नाराचं चूर्णम् । सिन्धूत्थपथ्याकणदीप्यकानां चूर्णानि तोयैः पिबतां कवोष्णैः। प्रयाति नाशं कफवातजन्मा नाराचनिर्भिन्न इवामयौघः ॥११॥ गुल्मे पूतीकाद्यं चूर्णम् । पूतीकपत्रगजचिर्मटचव्यवह्नि- व्योषं च संस्तरचितं लवणोपधानम् । दग्ध्वा विचूर्ण्य दधिमस्तुयुतं प्रयोज्यं गुल्मोदरश्वयथुपाण्डुगुदोद्भवेषु ॥ १२ ॥ गुल्मे हिङ्ग्वाद्यं चूर्णम् । हिङ्गुत्रिगुणं सैन्धवमस्मात्रिगुणं च तैलमैरण्डम् । तन्त्रिगुणरसोनरसं गुल्मोदावर्तशूलघ्नम् ॥ १३ ॥ श्वासे विजयं चूर्णम् । त्रिकत्रयं वचा हिङ्गुः पाठा क्षारो निशाद्वयम् । चव्यतिक्ताकलिङ्गाग्निशताह्वालवणानि च ॥ १४ ॥ अन्त्रिबिल्वाजमोदं च गणोऽष्टाविंशको मतः । एतानि समभागानि सूक्ष्मचूर्णानि कारयेत् ॥ १५ ॥

३.] गदनिग्रहः । ७१ एरण्डतैलसंयुक्तं सद्यो लिह्यात्ततो नरः । बिडालपदकं चापि पिवेदुष्णेन वारिणा ॥ १६ ॥ श्वासं हन्यात्तथा शोषमर्शसि च भगन्दरम् । हृच्छूलं पार्श्वशूलं च बस्तिशूलमरोचकम् ॥ १७ ॥ प्लीहकासप्रमेहांश्च कामलां पाण्डुरोगताम् । आमवातमुदावर्त्तमन्त्रवृद्धिं गुदकृमीन् ॥ १८ ॥ हन्याच्च ग्रहणीरोगान् ये मया परिकीर्तिताः । महाज्वरोपसृष्टानां भूतोपहतचेतसाम् ॥ १९ ॥ अप्रजानां च नारीणां प्रजावर्धनमेव च । विजयं नाम चूर्णेदं सर्वव्याधिहरं परम् ॥ २० ॥ वातरोगे अजमोदाद्यं चूर्णम् । अजमोदमरिचपिप्पलिविडङ्गसुदारुचित्रकशताह्वाः । सैन्धवपिप्पलिमूलं भागा नवस्य पलिकाः स्युः ॥ २१ ॥ शुण्ठी दशपलिका स्यात्पलानि तावन्ति वृद्धदारुकस्यापि । अभया पलानि पञ्च सर्वाण्येकत्र कारयेच्चूर्णम् ॥ २२ ॥ समगुडवटकानदतस्तच्चूर्णं कोष्णवारिणा पिबतः । नश्यन्त्यामानिलजाः सर्वे रोगाः सुदारुणाः शीघ्रम् ॥२३॥ विश्वाचीप्रतूनीतूनीरोगाश्च गृध्रसी चोग्रा । कटिपृष्ठगुदस्फुटनं स्फुटनं चैवास्थिजङ्घयोस्तीव्रम् ॥ २४ ॥ श्वयथुः स्तब्धोऽङ्गसन्धिषु ये चान्ये चामवातसंभूताः । सर्वे प्रयान्ति नाशं तम इव सूर्यांशुविध्वस्तम् ॥ २५ ॥ क्षुद्बोधमरोगित्वं स्थिरयौवनतां च वलीपलितनाशम् । कुरुते च तदभ्यासाद्बहूनन्यानपि गुणांश्च ॥ २६ ॥ वातरोगे आभाद्यं चूर्णम् । आभा रास्ना गडूची च शतावर्यां महौषधम् । शतपुष्पाऽश्वगन्धा च हपुषा वृद्धदारकम् ॥ २७ ॥

७२ आयुर्वेदग्रन्थमाला । [ चूर्णाधिकारः यवानी चाजमोदं च समभागानि कारयेत् । सूक्ष्मचूर्णमिदं कृत्वा बिडालपदकं पिबेत् ॥ २८ ॥ मद्यैर्मांसरसैर्युषैस्तत्रेणोष्णोदकेन वा । सर्पिषा वापि लेह्यं तु दधिमण्डेन वा पुनः ॥ २९ ॥ अस्थिसन्धिगतं वायुं स्नायुमज्जाश्रितं तथा । कटिग्रहं गृध्रसीं च मन्यास्तम्भं हनुग्रहम् ॥ ३० ॥ ये च कोष्ठगता रोगास्तांश्च सर्वान् प्रणाशयेत् । आमाद्यं नाम चूर्णेदं सर्वव्याधिविनाशनम् ॥ ३१ ॥ अतिसारे कपित्थाष्टकम् । यवानीपिप्पलीमूलचातुर्जातकनागरैः । मरिचेन्द्रयवाजाजीधान्यसौवर्चलैः समैः ॥ ३२ ॥ वृक्षाम्लधातकीकृष्णाबिल्वदाडिमदीप्यकैः । त्रिगुणैः षड्गुणसितैः कपित्थाष्टगुणीकृतैः ॥ ३३ ॥ चूर्णोऽतिसारग्रहणीक्षयगुल्मगलामयान् । कासश्वासाग्निसार्दार्शःपीनसारोचकाञ्जयेत् ॥ ३४ ॥ ग्रहण्यां द्वितीयं कपित्थाष्टकम् । कनकत्रुटिवराङ्गविश्वौषधं धान्यका चव्याजाजीयवान्यश्च तुल्यांशकाः । मरिचदहनदाडिमं धातकी चुक्रिका बिल्वसौवर्चलं पिप्पलीमूलवृक्षाम्लकम् ॥ ३५ ॥ अपरमपि कपित्थाष्टकं षड्गुणा पिप्पली सर्वतुल्यांशका शर्करा । ग्रहणिगदनाशनं वह्निसन्दीपनं कासहृद्रोगगुल्मार्शसां नाशनम् ॥ ३६ ॥ ग्रहण्यां दाडिमाष्टकम् । कर्षोन्मिता तुगाक्षीरी चातुर्जातं द्विकार्षिकम् । यवानीधान्यकाजाजीग्रन्थिव्योषं पलाशकम् ॥ ३७ ॥

३.] गदनिग्रहः । ७३ पलानि दाडिमादष्टौ सितायाश्चैकतः कृतः । गुणैः कपित्थाष्टकवच्चूर्णोऽयं दाडिमाष्टकः ॥ ३८ ॥ अतिसारे द्वितीयं दाडिमाष्टकचूर्णम् । दाडिमस्य पलान्यष्टौ चातुर्जातं पलद्वयम् । अजाजीनां पलार्धं तु पलार्धं धान्यकस्य च ॥ ३९ ॥ पृथक्पलांशकान् भागान् त्रिकटोग्रन्थिकस्य च । त्वक्क्षीरी वालकं चैव दद्यात्कर्षसमान् भिषक् ॥ ४० ॥ शर्करायाः पलान्यष्टौ तदेकस्थं विचूर्णयेत् । आमातीसारशमनं कासहृत्पार्श्वशूलनुत् ॥ ४१ ॥ हृद्रोगमरुचिं गुल्मं ग्रहणीमग्निमार्दवम् । प्रयुक्तो नाशयत्येष चूर्णोऽयं दाडिमाष्टकः ॥ ४२ ॥ गलरोगे एलाद्यं चूर्णंम् । एला त्वग्दलनागपुष्पमरिचं स्यात्पिप्पली नागरं भागैर्भागविवर्धितं क्रमयुतैः सर्वैश्च तुल्या सिता । एतच्चूर्णमजीर्णगुल्मजठरेऽप्यर्शःसु हृद्रोगिषु कासश्वासिषु रक्तपित्तिषु हितं कण्ठे विकाराश्च ये ॥४३॥ अरोचके वृद्धैलाद्यं चूर्णम् वृद्धैला पिप्पलीमूलं चव्यचित्रकनागरम् । मरिचं दीप्यकं चैव वृक्षाम्लं चाम्लवेतसम् ॥ ४४ ॥ अजमोदाऽजगन्धा च कपित्थं चार्थकार्षिकम् । अत्यन्तपरिशुद्धायाः शर्करायाश्चतुष्पलम् ॥ ४५ ॥ चूर्णं सेव्यमिदं पुम्भिः परमं रुचिवर्धनम् । प्लीहकासमथार्शांसि श्वासशूलं वमिज्वरम् ॥ ४६ ॥ निहन्ति दीपयत्यग्निं बलवर्णकरं परम् । वातानुलोमनं हृद्यं कण्ठजिह्वाविशोधनम् ॥ ४७ ॥

७४ आयुर्वेदौयग्रन्थमाला । [ चूर्णाधिकारः अरोचके कर्पूराद्यं चूर्णम् । कर्पूरचोचकङ्कोलजातीफलदलाः समाः । लवङ्गनागमरिचकृष्णाशुण्ठ्यो विवर्धिताः ॥ ४८ ॥ चूर्णं सितासमं हृद्यं रोचनं क्षयकासजित् । वैस्वर्यश्वासगुल्मार्शश्छर्दिकण्ठामयापहम् ॥ ४९ ॥ प्रयुक्तं चानपाने हि भेषजद्वेषिणां वरम् । अरोचके त्वगेलाद्यं चूर्णम् । त्वगेलाव्योषधान्याम्लनागकेसरजीरकम् । लवलीफलकङ्कोलं लवङ्गं जातिपत्रिका ॥ ५० ॥ भागानिमान् समान् कृत्वा दद्याद्विगुणितां सिताम् । ईषत्कर्पूरसंयुक्तं चूर्णं रुचिकरं परम् ॥ ५१ ॥ गुल्मे त्रिलवणाद्यं चूर्णम् । त्रिलवणहपुषाजमोदाजगन्धावचाहिङ्गुपाठोपकुञ्चीशठी जी- रकाजाजिकुस्तुम्बरीवाष्पिकाः कारवी तुम्बरुः स्वर्जिका या- वशूको जटा पौष्करं दाडिमं तिन्तिडीकं विडङ्गानि भार्गी वरी वेधको, मिशिमरिचगजोपकुल्याऽभया पञ्चकोलं निकुम्भा विशाला यवानी सुराह्वं च तत्सर्वमेकत्र चूर्णीकृतं बीजपूरार्द्रके- णासकृद्भावितं यः पिबेत्प्रातराहारकालेऽथवा मासमात्रं हिताशी नरः। प्लुतमशिशिरवारिणा जीर्णमद्येन तक्रेण मूत्रेण कोलाम्भ- सा मस्तुना सर्पिषौष्ट्रेण दुग्धेन कौलत्थयूषेण वा क्षारनिश्चोत- तोयेन वा दाडिमाद्वा रसेनात्मवानेभिरेवौषधैः साधितं वा घृतं, हृदयगुदकटीयकृत्प्लीहजं तस्य शूलं प्रणश्येतथा गुल्मविष्टम्भ- दुर्नामकृच्छ्रोदराध्मानहिध्मारुचिश्लीपदश्वासकासाः प्रपक्तुं च शक्तो भवेत्पावकः प्राश्यमानानि पाषाणचूर्णान्यपि ॥ ५२ ॥ १ अत्र दण्डकाख्यश्छन्दः । तत्र प्रथमं द्वौ न गणौ, अनन्तरं द्वाविंशती रगणा ज्ञेयाः ।