हर्षचरितम् (महाकवि बाणभट्ट - संकेत एवं जगन्नाथ पाठक सान्वय हिन्दी व्याख्या सटीक)
Harshacharitam of Mahakavi Banabhatta with Sanket and Hindi Commentary
महाकवि बाणभट्ट द्वारा
प्रथम उच्छ्वासः ३ नमः सर्वविदे तस्मै व्यासाय कविवेधसे । चक्रे पुण्यं सरस्वत्या यो वर्षमिव भारतम् ॥ ३ ॥ संप्रत्युत्कृष्टकवित्वाभिमानेन तादृशमेव कविवरं स्तौति—नमः सर्वस्येत्यादिना । सर्वा वेदादिका विद्या गीतादिकलाश्च वेत्ति यस्तस्मै । तदुक्तम्—'नासौ शब्दो न तद्वाच्यं न सा विद्या न सा कला । जायते यत्र काव्याङ्गमहो भारो महाकवेः ॥' इति कविरेव वेधाः । उक्तं च—'अपारे काव्यसंसारे कविरेव प्रजापतिः' । कवीनां वेधाः । कविशब्दोऽत्रोपचारात्कविबुद्धिषु वर्तते । तेन कविबुद्धीनां श्रेष्ठ इत्यर्थः । तथा चाह मुनिः—इतिहासोत्तमादस्माज्जायन्ते कविबुद्धयः' इति । यद्वा व्युत्पत्यु- त्पादनद्वारेण कवय एवंभूताः सन्तः क्रियन्ते । मुख्य एव कविशब्दस्यार्थः । यदु- क्तम्—'इदं कविवरैः सर्वैराख्यानमुपजीव्यते' इति । पुण्यं पावनम् । यदुक्तम्— 'भारताध्ययनात्पुण्यादपि पादमधीयतः । श्रद्दधानस्य पूयन्ते सर्वपापानि देहिनः ॥' इति । सरस्वती वाणी, तस्या लतया इव पुष्पादिहेतुत्वाद्वर्षं वृष्टिमिव । वर्षं वा स्थानविशेषः । 'यतोऽसौ तत्रास्ते । यदुक्तम्—'यदिहास्ति तदन्यत्र यन्नेहास्ति न तत्क्वचित्' । भरतानधिकृत्य कृतो ग्रन्थो भारतस्तम् । यद्वा—भारतं वर्षमिव । भरतः कश्चिद्राजा तस्य निवासं भारतं वर्षं भूभागैकदेशस्तदिव । उक्तं च— 'स्याद्वृष्टयां लोकधात्र्यंशे वत्सरे वर्षमस्त्रियाम्' इति । यद्वा—भारतवर्षान्तरस्था मावा मनुष्येषु सुलभास्तद्वन्महाभारतस्था सरस्वती । एतदपि सरस्वत्याख्यया पुण्यम् ॥ ३ ॥ समस्त ( विद्याओं और कलाओं को ) जानने वाले और कवियों के प्रजापति महर्षि व्यास को प्रणाम है, जिन्होंने सरस्वती ( नदी ) से पवित्र ( भारत ) वर्ष की भाँति (अपनी) सरस्वती ( वाणी ) से भारत ( महाभारत ग्रन्थ ) का निर्माण किया। ॥ ३ ॥ † जिस प्रकार कालिदास के आदर्श थे—महर्षि वाल्मीकि, उसी प्रकार महर्षि व्यास को सम्भवतः इन्होंने अपना आदर्श माना था । यह चयन बाण के स्वभाव के अनुकूल था । बाण अपनी कृति के द्वारा सर्व जगत् को 'बाणोच्छिष्ट' कर लेना चाहते थे, जैसा महर्षि व्यास ने भी कहा है—'जो जो यहां ( महाभारत में ) है, वह अन्यत्र है और जो-जो यहां नहीं है, वह कहीं नहीं है।' इसी प्रकरण के नवम पद्य में स्वयं बाण ने कवि की उस वाणी को सराहा है जो महाभारत की कथा के समान सभी प्रकार के वृत्तान्तों से युक्त होकर तीनों जगत् में व्याप्त नहीं हो जाती है अर्थात् अपनी व्याप्ति में सबको समेट नहीं लेती है ।
४ हर्षचरितम् प्रायः कुकवयो लोके रागाधिष्ठितदृष्टयः १। कोकिला इव जायन्ते वाचालाः २कामकारिणः ॥ ४ ॥ सन्ति श्वान इवासंख्या जातिभाजो गृहे-गृहे । एवं सर्वज्ञतागुणकथनेन कविप्रशंसां कृत्वा काव्यप्रशंसामाह-प्राय इत्यादिना । काव्यमेतं नाम स्वभावसुभगम् । येनेदृशा अपि कवयः प्रायः प्राचुर्येण कोकिला इव जायन्ते वल्गुवाचः सम्पद्यन्ते, किं पुनः संविशिष्टा न जायेरन् । केचित्पुनर्भूयसा कुत्सिताः कवयो जायन्त इति कुकविनिन्देवैयमिति व्याख्यातवन्तः । रागो द्वेषपूर्व- कोऽनर्थाभिनिवेशस्तेनाधिष्ठिता दृष्टिवुद्धिर्येषाम् । वाचाला असंबद्धप्रलापिनः । कामेन स्वेच्छया, न त्वलंकारकृद्दर्शितनीत्या कुर्वन्ति ये ते । कोकिलपक्षे-कुकन्ति गृह्णन्ति चेतांसीति कुकाः, ते च ते वयो मयूरप्रवराः पक्षिणः, रागो लोहित्यम् । दृष्टिश्चक्षुः । वाचा भारत्या । आला आ समन्ताल्लान्त्यावर्जयन्ति यतस्तादृशाः सन्तः । कामं व्यसनं कुर्वन्ति तच्छीलाः । कामोद्दीपनविभावतां यान्तीत्यर्थः । यद्वा—अवा- चालाः । अकारप्रश्लेषोऽत्र ॥ ४ ॥ सन्तीत्यादि । असंख्या अगणनार्हाः । जाति स्वरूपवर्णनामात्त्ररूपां वक्रोक्तिशून्यां भजन्ते । 'गतोऽस्तमर्को भातीन्दुर्यान्ति वासाय पक्षिणः' इत्यादिवत् । श्वानोऽप्य- संख्याः । नास्ति संख्यं संग्रामो येषां ते । जातिशब्देनात्र श्वजातिसमवेता अमेध्यभक्ष- णादयो गृहीताः । यद्वा—श्वत्वं नाम जातिस्तत्प्रतिपादनं प्रयोजनान्तरशून्यतामावेद- राग (लाली) से युक्त दृष्टि वाले कोकिल जिस प्रकार वाचाल एवं कामोद्दीपक होते हैं उसी प्रकार संसार में प्रायः कुकवि राग (द्वेषपूर्वक अनर्थाभिनिवेश) से युक्त दृष्टि वाले होकर असम्बद्ध प्रलाप करते हैं और स्वेच्छानुसार काम करते हैं (न कि आलङ्कारिकों द्वारा प्रदर्शित मार्ग पर चलते हैं) ॥ ४ ॥ कुत्तों के समान घर-घर में केवल जन्म लेनेवाले† कवि असंख्य हैं, जो स्वरूप मात्र का वर्णन करते हैं। शरभों के समान उत्पादक‡ अर्थात् नव निर्माण करने वाले कवि † जातिभाजः, अर्थात् वे कवि जो केवल जाति (स्वभाव वर्णना मात्र) करने वाले, वक्रोक्तिशून्य हैं। ‡ उठे पैरों वाले। शरभ एक प्राणी है जिसके आठ पैर होते हैं और सब ऊपर की ओर उठे रहते हैं। १. मूर्त्तयः । २. कामचारिणः ।
प्रथम उच्छ्वासः ५ उत्पादका न बहवः कवयः शरभा इव ॥ ५ ॥ अन्यवर्णपरावृत्त्या बन्धचिह्ननिगूहनैः । अनाख्याताः सतां मध्ये कविश्चोरो विभाव्यते ॥ ६ ॥ श्लेषप्रायमुदीच्येषु प्रतीच्येष्वर्थमात्रकम् । उत्प्रेक्षा दाक्षिणात्येषु गौडेष्वक्षरडेम्बरम् ॥ ७ ॥ यति । उत्पादना नवनिर्माणकारिणः, ऊर्ध्वपादाश्च । शरभा हि प्राणिभेदाः । अष्ट- पादा एते । श्वजातीया इति केचित् ॥ ५ ॥ अन्येति । कविश्चोरः सहृदयानां मध्येऽनाख्यातः न कथितोऽपि ज्ञायते । न आ समन्तात्ख्यातः, अपि तु किञ्चित्प्रथितो वा । अन्ये पूर्वकविनिबद्धविलक्षणा ये वर्णा अक्षराणि तेषां रचनेन बन्धचिह्नं श्रीलक्ष्मीप्रभृतिरचनालिङ्गम् । अन्ये तु भाषा- लंकारप्रभृतिबन्धचिह्नमाहुः । अथ च सतां साधूनां मध्ये चौरो लक्ष्यते । कीदृक् ? न ना अना कापुरुषः अख्यातोऽप्रसिद्धः । केन ? अन्यः प्राक्तनच्छायाव्यतिरिक्त- स्त्रासकृतः पाण्डिमादिवर्णो मुखरागविशेषस्तत्परिवर्तनेन । यद्वा—शूद्रत्वे सति द्विजादिवर्णाश्रयेण । स्वजात्युचितस्य स्वभावस्य त्यक्तुमशक्यत्वाद्भावप्रकटनमवश्य- मेव भवति । यतो बन्धः शृङ्खलादिकृतो ग्रन्थिस्तच्चिह्नं त्वग्दूषणादि ॥ ६ ॥ श्लेषेत्यादि । मात्रकपदेन श्लेषयमकाद्यलंकारशून्यत्वं दर्शयति । अक्षरेत्यादि- नार्थविशेषाभावं प्रसादादिगुम्फनाभावं चाख्याति । एतदुक्तं भवति—क्वचित्कश्चिद् गुणोऽपि भवति । स च भवन्नपि न सहृदयजनावर्जक इति । अमुनैवाभिप्रायेण नव इत्यादीनि प्रत्येकं विशेषणपदानि वक्ष्यति ॥ ७ ॥ जगत् में बहुत नहीं हैं ॥ ५ ॥ सहृदय जनों के बीच अप्रसिद्ध कवि दूसरे कवि के वर्णों को बदल देने से एवं निर्माण के चिह्नों को छिपाने से चोर समझा जाता है, क्योंकि चोर भी लोगों के बीच मुख के अक- स्मात् फीके पड़ जाने से और हाथों पर लगे हुए बेड़ी के दागों को छिपाने से पहचान लिया जाता है ॥ ६ ॥ उत्तरी क्षेत्र के कवियों की रचना श्लेष-प्रधान होती है । पश्चिमी क्षेत्र के कवि प्रधान रूप से अर्थाडम्बर में लगे रहते हैं । दाक्षिणात्य कवि उत्प्रेक्षा करने में निपुण होते हैं और गौड़- देशीय ( प्राच्य ) कवियों की रचना में अक्षरमात्र का प्राचुर्य रहता है ॥ ७ ॥ १. डम्बरः ।
नवोऽर्थो जातिरग्राम्या¹ श्लेषोऽक्लिष्टः स्फुतो रसः । ²विकटाक्षरबन्धश्च कृत्स्नमेकत्र दुष्करम् ॥ ८ ॥ किं कवेस्तस्य काव्येन सर्ववृत्तान्तगामिनी । कथेव भारती यस्य न ³व्याप्नोति जगत्त्रयम् ॥ ९ ॥ उच्छ्वासान्तेऽप्यखिन्नास्ते येषां वक्त्रे सरस्वती ।
नव इत्यादि । नव आद्यैः कविभिरनिबद्धः, चमत्कारी च । जातिः स्वभा- वोक्तिः । अग्राम्येति । न तु 'गतोऽस्तमर्कः' इत्यादिरूपा । सधर्मेषु तन्त्रप्रयोगः श्लेषः । अक्लिष्टः सम्यगनेकार्थप्रतिपादनक्षमः । स्फुटो दुर्बोधमङ्गवागादिभिरदूषितः। रसः शृङ्गारादिः । विकट उदारतालक्षणबन्धगुणयुक्तः । यत्र सति नृत्यन्तीव पदानि प्रतिभासन्ते ॥ ८ ॥ किमित्यादि । वृत्तानि वर्णमात्रागणसमाधंसमविषमरूपाणि तदन्तगमनं तद्वि- रचनक्षमत्वम् । भारती वाणी । व्याप्नोति । अदृष्टमपि दृष्टमिव जगत्त्रयं प्रतिमानव- शाद्व्युत्पत्तेश्च तथात्वेन प्रकाशयति । यद्वा—जगत्त्रयप्रथिता भवतीति स्फुट एवार्थः । भरतानधिकृत्य ग्रथिता भारती कथेव । सापि सर्वे ये वृत्तान्ताः सत्पुरुषचरितान्यु- पाख्यानानि च तान्गमयति बोधयति । तथा सर्वत्र ज्ञेया भवति । तथा च— ‘नारदोऽश्रावयद्देवानसितो देवलः पितॄन् । गन्धर्वयक्षरक्षांसि श्रावयामास वै शुकः ॥' इत्युक्तम् ॥ ९ ॥ अधुना स्वगुरुतः स्वप्रभृतिभिः कृतानाख्यायिकादीन्काव्यभेदान्स्तुवन्नोद्धत्यार्थं सर्वत्र नमस्कारमाह—उच्छ्वासान्त इति । उच्छ्वास इवोच्छ्वासो विश्रान्तिस्थानं सर्गादिवत्कथासन्धिरतस्यान्तेऽप्यखिन्ना उच्छ्वासान्तरकरणक्षमाः । अविच्छिन्नप्रति- माना इति यावत् । गुरुत्वादबहुवचनम् । 'नान्त्यन्ते ह्याम्बुघेर्वक्त्रम्' इति वक्त्रलक्षणम्' ।
नवीन अर्थ (जिसे अबतक किसी कवि ने नहीं लिखा हो, अर्थात् चमत्कारी), अग्राम्य जाति (अर्थात् स्वभावोक्ति) अक्लिष्ट (बिना माथापच्ची के ही समझ में आ जाने वाली) श्लेष, सुबोध रस एवं आकर्षक शब्दों का संचयन—इन सब गुणों का एकत्र (किसी काव्य में) होना कठिन है ॥ ८ ॥ उस कवि के काव्य से क्या, जिसकी वाणी सब प्रकार के वृत्तान्तों वाली महाभारत की कथा के समान तीनों जगत् में व्याप्त नहीं होती ॥ ९ ॥ जो उच्छ्वास के बाद भी नहीं थकते और जिनके मुख में सरस्वती विराजमान है
१. अग्राम्याः । २. विकटो । ३. प्राप्नोति दिगन्तरम् ।
प्रथम उच्छ्वासः कथमाख्यायिकाकारा न ते वन्द्याः कवीश्वराः ॥ १० ॥ कवीनामगलद्दर्पो नूनं वासवदत्तया । शक्त्येव पाण्डुपुत्राणां गतया कर्णगोचरम् ॥ ११ ॥ पदबन्धोज्ज्वलो³ हारी कृतवर्णक्रमस्थितिः । भट्टारहरिश्चन्द्रस्य गद्यबन्धो³ नृपायते ॥ १२ ॥ वक्त्रे सरस्वती । वृत्तविशेषयोगिनीत्यर्थः । एतस्मिन्नाख्यायिकाङ्गिर्भाविवस्तुसंस्- चनाय वाग्विरच्यते । तथा चाह भामहः—'वक्त्रं चापरवक्त्रं च काव्ये काव्यार्थ- शंसिनि' इति । आख्यायिकाः कुर्वन्तीत्याख्यायिकाकाराः । यद्वा—आख्यायिकैवा- कारो येषाम् । अथ 'कविं पुराणम्' इति न्यायेन कवयश्च त ईश्वरा हरिहरब्रह्माणः । उच्छ्वसन्ति भूतान्यस्मिन्नित्युच्छ्वासः कल्पस्तदन्ते संहारेऽपि तेऽखिन्नाः कल्पान्तर- जननोद्योगिनस्तेषां मुखे वागीशी । उक्तं च—सरस्वतीवाग्बलमुत्तमोऽनिलः’ इत्यादि । आख्यायिकाभिराख्यानैराकारो येषाम् । सर्वस्य हि शास्त्रागमसमधि- गम्याः, न पुनः प्रत्यक्षलक्ष्याः । ते च वन्द्याः सर्वस्य ॥ १० ॥ कवीनामिति । वासवदत्ता कथा, वासवेन शक्रेण दत्ता च । कर्णः श्रवणं, राधेयश्च । कवीनां काव्यकर्तॄणां, द्रोणादीनां च ॥ ११ ॥ पदेत्यादि । पदानां सुप्तिङन्तानां बन्धः प्रकृष्टा रचना । रीतिरित्यर्थः । स्वमण्डलावष्टम्भश्च । हारी हृद्यः, हारयुक्तश्च । अहारीति वा । न कस्यचिदपि यो हरति । कृता वर्णानामक्षराणां क्रमेण भामहादिप्रदर्शितनीत्या स्थितिरवस्थां यत्र, कृतयुगवर्द्धर्णानां द्विजादीनां क्रमेण मन्वादिस्मृतिकारप्रकाशितमार्गेण स्थितिः पालनं यस्मिन्सतीति च । भट्टारेति पूजावचनम् ॥ १२ ॥ ऐसे आख्यायिकाओं का निर्माण करने वाले कवि क्यों नहीं वन्दनीय हैं ? ॥ १० ॥ निश्चय ही सुबन्धु की रचना 'वासवदत्ता' के कानों तक पहुँचते ही कवियों का अभि- मान उस प्रकार चूर्ण हो गया जिस प्रकार इन्द्र द्वारा प्राप्त 'शक्ति' नामक अस्त्र विशेष को कर्ण के पास देखते ही द्रोण आदि का गर्व बिल्कुल नहीं रहा ॥ ११ ॥ आर्य हरिश्चन्द्र द्वारा निर्मित गद्यकाव्य राजा के समान है, उसमें शब्दों की रचना निर्मल है, वह मनोहर है एवं उसमें आलंङ्कारिकों के मतानुसार अक्षरों की एक क्रम से संघटना है । (राजा भी अपने पद या मण्डल पर जम कर रहता है, हार धारण करता है, या 'अहारी' पाठ के अनुसार किसी का हरण नहीं करता एवं ब्राह्मण आदि वर्णों की क्रमानुसार स्थिति रखता है) ॥ १२ ॥ १. पुत्रस्य । २. पदबद्धोज्ज्वलो हारिकृतकण्ठक्रमस्थितिः । ३. पद्य ।
८ हर्षचरितम् १अविनाशिनमग्राम्यमकरोत्सातवाहनः । विशुद्धजातिभिः कोशं रत्नैरिब सुभाषितैः ॥ १३ ॥ कीर्तिः प्रवरसेनस्य प्रयाता कुमुदोज्ज्वला । सागरस्य परं पारं कपिसेनेव सेतुना ॥ १४ ॥ सूत्रधारकृतारम्भैर्नाटकैर्बहुभूमिकैः । सपताकैर्यशो लेभे ३भासो देवकुलैरिव ॥ १५ ॥ ४निर्गतासु न वा कस्य कालिदासस्य सूक्तिषु । अविनाशिनमित्यादि । अविनाशिनं प्रसिद्धम्, अनश्वरं । च अग्राम्यं वैदग्ध्य- युक्तम्, अग्राममवं च । जातिः स्वभावोक्तिरूपोऽलङ्कारः । कोशः समुच्चयः, शब्दज्ञश्च । सुभाषितैः सूक्तिभिः, शोभनं च भाषितं प्रभाववर्णनं येषां तैः ॥ १३ ॥ कीर्तिरत्यादि । प्रवरसेन कश्चित्कविः प्रवे प्लुते रसो येषां ते प्रवरसा वानरा- स्तेषामिनः स्वामी, प्रवरा च सेना यस्य स सुग्रीवश्च । कुमुदवत्कैरववत् । यद्वा—कुमु- मिस्तस्या मुत् प्रहर्षस्तद्येति, कुमुदेन वानरसेनापतिना च । सेतुः प्राकृतकाव्यग्रन्थः, सेतुश्च ॥ १४ ॥ सूत्रेत्यादि । सूत्रधारः पूर्वरङ्गस्य प्रवक्ता याञ्चिक्यः' स्थपतिश्च । भूमिकाः पात्राणि रामाद्यनुकार्यावस्थाभूमयः, उपभोगनिमित्तान्युत्पत्तिस्थानानि । पताका अर्थप्रकृतिः । उक्तं च—'बीजं बिन्दुः पताका च प्रकरी कार्यमेव च । अर्थप्रकृतयो ह्येताः पञ्च सर्वप्रयोगाः ॥' इति । 'यदवृत्तं तु परार्थं स्यात्प्रधानस्योपकारकम् । प्रधान वच्च कल्पेत सा पताकेति कीर्त्यते ॥' इति वैजयन्ती च पताका ॥ १५ ॥ निर्गतास्विति । निर्गता उच्चारितमात्राः । आस्तां तावदर्थविगतिः, आपात एव सातवाहन ने निर्दोष गुणालङ्कारयुक्त सुभाषितों का एक संग्रह तैयार किया जो विशुद्ध जाति के रत्नों के कोष के समान कभी विनष्ट नहीं होने वाला, वैदग्ध्यपूर्ण हुआ ॥ १३ ॥ प्रवरसेन नामक कवि की कुमुद के समान उज्ज्वलकीर्ति सेतु (बन्ध) नामक प्राकृत काव्य के द्वारा पार कर गई, जैसे कुमुद नाम के एक बानर-सेनापति से शोभित वानरों की सेना सेतु के द्वारा समुद्र पार पहुँच गई थी ॥ १४ ॥ भास ने देवमन्दिरों के समान अपने नाटकों से लोक में ख्याति प्राप्त की जिनका आरंभ सूत्रधार करता है, जिनमें पात्रों की भूमिकायें (अवस्थायें) और सहायक कथायें (पताका) रहती हैं ॥ १५ ॥ नई उगती हुई मंजरियों के समान मधुर एवं सरस कालिदास की सूक्तियों में १. कुविनाशिनम् । २. भूपिकैः । ३. भासा । ४. निसर्गसूरवंशस्य ।
प्रथम उच्छ्वासः ९ प्रीतिर्मधुरसान्द्रासु मञ्जरीष्विव जायते ॥ १६ ॥ समुद्दीपितकन्दर्पा कृतगौरीप्रसाधना । हरलीलेव नो कस्य विस्मयाय बृहत्कथा ॥ १७ ॥ गीतध्वनिवत्किमपि श्रोत्रहारिणः । यदुक्तम्—'अपर्यालोचितेऽप्यर्थे बन्धसौन्दर्य- संपदा । गीतवद्धृदयाह्लादं तद्विदां विदधाति यत् ॥ तत्काव्यम्' इत्यादि । तथा निर्गताः सर्वदेशप्रतीताः, अन्यत्र—निर्गता अभिनवोद्भिन्नाः न वा कस्येत्यनेनैतदुक्तम् । आस्तां तावत्काव्यतत्त्वविदः सहृदया विवेक्तारः येऽपि शास्त्रप्रहितबुद्धयो दुरूह- मत्सरप्रायास्तेषामपि या हृदयमाह्लादयन्ति । तथा चोक्तम्—'असुणिअ परमंथाण वि हरेइ वाआमआणं कइम्माण । आणणजकुवलअवणमलद्धगंधाण वि सुहाइ ॥', इति । मधुराश्च ताः सान्द्राः सरसाः । अन्यत्र—मधुना मकरन्देन जलकेन रसेन सान्द्राः सुगन्धयः ॥ १६ ॥ समुदित्यादि । बृहत्कथा कस्य न विस्मयाय । अपि तु सर्वस्यैव गर्वविनाशाय भवतीत्यर्थः । अद्भुतकथावर्णनादाश्चर्याय । समुद्दीपितो वृद्धिं नीतः कंदर्पो यस्याम् । कामजनानां बहूनां वृत्तान्तानां वर्णनादुद्बोधितः स्मरो ययेति वा । काव्यसेवया हि शृङ्गाररसः समुद्भवति । तथा चोक्तम्—'ऋतुमाल्यालंकारप्रियजनगान्धर्वकाव्य- सेवाभिः । उपवनगमनविहारैः शृङ्गाररसः समुद्भवति ॥' यद्वा समुद्दीपितः ख्यातिं नीतः कन्दर्पो नरवाहनदत्तो यस्यामिति । स हि कामांश इत्यागमः । कृतं गौर्या विद्याभेदस्याराधनं यस्याम् । सा हि नरवाहनदत्तेनेशारूपाराधितेति तत्रोक्तम् । यद्वा—गौरीं प्रति पूरयति गौरप्रः । साधनपरिकरबन्धो यथा प्रस्तावो यस्मात् । गौरीप्रेरितेन हि हरेण तथा तस्यां परिकरबन्धः कृतो यथा सातीव पिप्रिये । हर- लीलापि समुत् सहर्षा, दग्धकामा च । कृतं गौर्याः प्रसाधनं मण्डनं यस्याम् । क्व कामं प्रति तादृग्द्वेषः, क्व च कान्तां प्रति प्रसाधनमिति कृत्वा विस्मयमाश्चर्यम् ॥ १७॥ उच्चारमात्र से ही किसे आनन्द नहीं आता ? ॥ १६ ॥ जैसे कामदेव को जलाकर भस्म करना और पार्वती का शृङ्गार करना आदि परस्पर विरुद्ध बातों से शिव की लीला किसे नहीं विस्मित करती, उसी प्रकार वर्णनों द्वारा कन्दर्प (कामदेव या नरवाहनदत्त) को प्रकाशित करने वाली एवं पार्वती के प्रति आराधना से युक्त (गुणाढ्य की) बृहत्कथा किसे नहीं विस्मय-विमुग्ध करती ? ॥ १७ ॥
१० | हर्षचरितम् 'आढ्यराजकृतोत्साहैर्हृदयस्थैः स्मृतैरपि । जिह्वान्तःकृष्यमाणेव न कवित्वे प्रवर्तते ॥ १८ ॥ तथापि नृपतेर्भक्त्या भीतो निर्वहणाकुलः । करोम्याख्यायिकाम्भोदौ जिह्वाप्लवनचापलम् ॥ १९ ॥ सुखप्रबोधललिता सुवर्णघटनोज्ज्वलैः । शब्दैराख्यायिका भाति शय्येव प्रतिपादकैः ॥ २० ॥ आढ्येति । आढ्यराजः कश्चित्कविः । उत्साहो नृत्ते तालविशेषः । उदीर्यमाणऽ- गीत्याधारभूतपदोपचारात्काव्यमप्युत्साह इति केचित् । यत्र पूर्वं श्लोकेनार्थ उपक्षि- प्यते, पश्चात्स एव गद्येन वितन्यते, मध्ये वृत्तानिबन्धश्च भवति, स परिसमाप्तार्थ उत्साह उच्यत इत्यन्ये । अपिः समुच्चये । यद्वा—आढ्यराजहृदयस्था अप्यन्तर्जिह्वां नाकर्षयन्ति, तत्कथा त एव स्मृता इत्यपि शब्दार्थः ॥ १८ ॥ एवमनौद्धत्यमुक्तवाह—तथेत्यादि । तथापीत्थं जानन्नपि जिह्वाप्लवनलक्षणं चापलं करोमि । यतो नृपतेर्भक्त्याहमभि इतः समन्ताद्युक्तः । निर्वहणे समाप्ता- वाकुलः । जिह्वा चाम्भावकालवातस्तत्र वहन्त्यां कश्चिद्यथा प्लवनरूपं चापलं करोति । अत्र पक्षे—अभीतोऽत्रस्तः निर्वहणं पारप्राप्तिः । 'कृत्ये च' इति णत्वम् ॥ १९ ॥ सुखेत्यादि । सुखेन जायासम्मितत्वेन हृदयाह्लादनपूर्वम्, न तु वेदितहासादि- वत्, यः प्रबोधः प्रकृष्टं बोधनं धर्मादिसाधनव्युत्पत्तिः । उक्तं च—'कटुकोषधि- आढ्यराज के उत्साह या महान् कार्य को हृदयस्थ करके स्मरण करने पर मानो मेरी जीभ मुँह के भीतर की ओर खिंची जा रही है और कविता करने में प्रवृत्त नहीं हो रही है (निष्कर्ष यह कि आढ्यराज के सामने मैं कवि बनने का साहस नहीं कर पा रहा हूँ) ॥ १८ ॥ ऐसा जानता हुआ भी मैं सम्राट् के प्रति अपने असाधारण अनुराग से प्रेरित होकर आख्यायिका रूपी समुद्र को पार करने में आकुलता और भय का अनुभव करते हुए भी अपनी जीभ (अर्थात् वाणी द्वारा) के चप्पू द्वारा तैरने की चपलता कर रहा हूँ ॥ १९ ॥ बिना किसी आयास के सुखपूर्वक समझ में आ जाने से सुन्दर लगने वाली और आकर्षक रचना वाले एवं विवक्षित अर्थ को व्यक्त करने वाले शब्दों से आख्यायिका उस शय्या के समान शोभित है जिसपर सुखपूर्वक नींद तोड़ी जाती है और जो सोने से मढ़े पायों से चमकती है ॥ २० ॥ १. आद्य । २. घटनोज्ज्वला; घटिटोज्ज्वला ।
जयति¹ ज्वलत्प्रतापज्वलनप्राकारकृतजगद्रक्षः² । सकलप्रणयिमनोरथसिद्धिश्रीपर्वतो हर्षः ॥ २१ ॥ वत्काव्यमविद्याव्याधिभेषजम् । आह्लाद्यमृतवत्काव्यमविवेकगदापहम् ॥' इति । सुवर्णघटना शोभनाक्षररचना । प्रतिपादकैर्विवक्षिताभिधायकैः । शय्यापक्षे-सुखं यः प्रबोधः स्वापादुरुत्थानम् । सुवर्णघटना हेमयोजना । प्रतिपादकैः खट्वाया उत्थापकैः । तदा पादानां प्रतिच्छन्दाः प्रतिपादकाः पुरुषयत्नोत्थापिताः पादमुद्रास्तैः । अत्र च शोभनो वर्णोऽलक्तादिकृतः ॥ २० ॥ इदानीं यमुद्दिश्येयमाख्यायिका क्रियते तस्य 'तथापि नृपतेर्भक्त्या' इत्यनेन नृपतिशब्देन सामान्येन निर्देशं कृत्वा विशेषेणाह—जयतीत्यादि । ज्वलन्दोप्रतया प्रसरन्, प्रताप एव ज्वलनस्तं प्राति पूरयति य आकारस्तेन कृता जगति रक्षा येन सः । सकलानां प्रणयिनां ये मनोरथास्तत्सिद्धौ श्रियां पर्वतो गिरिः । श्रियस्तत्र कटी- भूता इव स्थिता इति यावत् । यद्वा—यथा पर्वतस्थः कश्चिद्दुरभिभवः, तद्वद्वक्षस्या श्रीरिति । अथ च श्रीपर्वताख्यो गिरिरोहगेव । तथा च ज्वलत्प्रकृष्टतापो यो ज्वलनो 'जठराग्निः स एव निषेधकत्वात्प्राकारः सालस्तेन कृता मुक्तेर्विघ्नहेतुतया जगतो भूलोकस्य रक्षा येन सः । अन्यत्रोत्सादनं तद्यावत् । अन्ये तु—त्रिपुरदाहे यो विघ्नमकरोद्गणेशस्तदा हरेण ज्वलत्प्रकृष्टतापो ज्वलनप्रकारो निर्मितः । तेन तत्र रक्षा विधीयत इत्याहुः । ज्वलनप्राकारश्च द्वौ मुद्रारूपौ मन्त्रविशेषौ स्तः, ताभ्यां कृतजगद्रक्ष इति केचित् । प्रणयिनः सिद्धिकामाः । हर्षः कथानायकः । इतरत्र- हर्षकारितया हर्षः । सर्वत्र च परमार्थतो हर्ष एव जयति । तस्यैवाभिलषणीय- त्वात्स एव काव्येन क्रियत इति ध्वनयति ॥ २१ ॥ सम्राट् हर्ष की विजय हो, जो चारों ओर प्रज्वलित प्रतापाग्नि की दीवार बनाकर सारे जगत् की रक्षा करते हैं और जो समस्त प्रियजनों के मनोरथ सिद्ध करने में †श्रीपर्वत के सदृश हैं ॥ २१ ॥ † श्रीपर्वत—यह आन्ध्र के गुण्टूर जिले का एक पर्वत है जो छठी-सातवीं शताब्दियों में मन्त्र-तन्त्र के लिए प्रसिद्ध था । मन्त्रयान का जन्मस्थान यही था । मालतीमाधव और कादम्बरी में भी इसका उल्लेख है । इसके सम्बन्ध में तत्कालीन समाज में यह प्रसिद्धि थी कि यहाँ हर प्रकार के मनोरथ सिद्ध हो जाते हैं । मालतीमाधव की एक भिक्षुणी सौदामिनी मन्त्र-तन्त्र सीखने श्रीपर्वत पर गई थी और कादम्बरी के जरद्द्राविड़ धार्मिक को भी श्रीपर्वत से सम्बन्धित अचम्भों की बहुत बातें याद थीं । १. जयत्युज्ज्वलप्र० जयज्ज्वलप्र० । २. प्रकार ।
१२ हर्षचरितम् एवमनुश्रूयते—पुरा किल भगवान्स्वलोकमधितिष्ठन्परमेष्ठी विका- सिनि पद्मविष्टरे समुपविष्टः ^१सुनासीरप्रमुखैर्गीर्वाणैः^२ परिवृतो ^३ब्रह्मोद्याः कथाः कुर्वन्नन्याश्च निरवद्या विद्यागोष्ठीर्भावयन्कदाचिदा- साञ्चक्रे। तथासीनं च तं त्रिभुवनप्रतीक्ष्यं मनुदक्षचाक्षुषप्रभृतयः प्रजापतयः सर्वे च सप्तर्षिपुरःसरा ^४महर्षयः सिषेविरे। केचिदृचः स्तुतिचतुराः समुदचारयन्। ^५केचिदपचितिभाञ्जि यजूंष्यपठन्। केचित्प्रशंसासामानि^६ सामानि जगुः। अपरे ^७विवृतक्रतुक्रियातन्त्रा- एवमिति। अनुश्रूयते पारम्पर्येणाकर्ण्यते। किलेत्यत एवागमसूचनाय। भग- वानिति केवलनिर्देश उल्लुण्ठनपरिहारार्थम्। ब्रह्मलोकमित्युक्ते सत्युत्कर्षदायिन्या- त्मीयताप्रतिपत्तिर्न स्यादिति स्वग्रहणं साभिप्रायम्। अधितिष्ठन्बहुमानेन तद्योग- क्षेमादिकमुद्वहन्। परमे पदे तिष्ठतीति परमेष्ठी। विकासिनीति नित्ययोग इनिः। विष्टरमासनम्। सुनासीरः इन्द्रः। गिरः स्तुतिरूपा वर्णयन्ति भजन्तीति गीर्वाणा देवाः। गीरेव बाणः शरो येषामिति वा, परिवृतश्चतुर्दिक्कं वृतः परिवलितः। तस्य चतुर्मुखत्वात्। ब्रह्म वदन्तीति ब्रह्मोद्याः। 'वदः सुपि क्यप् च'। ब्राह्मणा वेदेन, ब्रह्माणि परमात्मनि वा वेदितव्या ब्रह्मोद्याः। उक्तं च--'ब्रह्मोद्या सा कथा यस्या- मुच्यते ब्रह्म शाश्वतम्' इति। सामान्यविशेषभावेन 'उष्ट्रासिकामासते' इतिवत्। ब्रह्मवदनरूपा वा कथास्तासां वक्ष्यमाणगोष्ठ्यभिप्रायेण प्राधान्यात्स्वयं करणम्। निरवद्या दोषरहिताः। तथा च वात्स्यायनः--'या गोष्ठी लोकविद्विष्टा या च स्वैर- विसर्पिणी। परहिंसात्मिका या च न तामवतरेद्बुधः॥ लोकचित्तानुवर्तिन्या क्रीडा- मात्रैककार्यया। गोष्ठ्या सह चरन्विद्वांल्लोकसिद्धिं नियच्छति॥' समानविद्या- ऐसा सुना जाता है—बहुत पहले की बात है, भगवान् ब्रह्मा अपने ब्रह्मलोक में शासन कर रहे थे। किसी विकसित कमल के आसन पर विराजमान हो इन्द्रप्रमुख देवताओं के बीच घिरे हुए शाश्वत ब्रह्म के विषय में चर्चा कर रहे थे और अन्य दोषरहित विद्यागोष्ठियों में भाग ले रहे थे। उस प्रकार बैठे हुए तीनों लोकों के पूजनीय भगवान् ब्रह्मा की सेवा में मनु, दक्ष, चाक्षुष आदि प्रजापति और सप्तर्षि आदि सब महर्षि संलग्न थे। स्तुति में चतुर उनमें कुछ ने ऋचाओं का पाठ किया। कुछ ने पूजन के यजुर्वेदीय मन्त्र पढ़े। कुछ ने प्रशंसामूलक सामों को १. शुनासीर। २. गीर्वाणगणैः। ३. ब्रह्मोदिताः। ४. महामुनयः। ५. अपि विभाञ्जि। ६. सामानि। ७. विततक्रतु०।
Digitized by Arya Samaj Dayanand Ashram Chennai and eGangotri १३ न्मन्त्रान्व्याचचक्षिरे । विद्याविसंवादकृताश्च तत्र तेषामन्योन्यस्य १विवादाः प्रादुरभवन् । अथातिरोषणः प्रकृत्या महातपा मुनिरत्रेस्तनयस्तारापतेर्भ्राता नाम्ना दुर्वासा द्वितीयेन मन्दपालनाम्ना मुनिना सह कलहायमानः २सामगायन्क्रोधान्धो विस्वरमकरोत् । सर्वेषु च तेषु ३शापभयप्रति- पन्नमौनेषु मुनिष्वन्यालापलीलया चावधीरयति४ कमलसम्भवे, भगवती कुमारी किञ्चिदुन्मुक्तबालभावे भूषितनवयौवने वयसि५ वित्तशीलवृद्धिवयसामनुरूपैरालापैरेकत्रासनबन्धो गोष्ठी । प्रतीक्ष्यः पूज्यः सम्यगु- दात्तादिभ्रैश्चर्यादिप्राधान्यादुदचारयञ्जगुः । अपचितिः पूजा । सामानि जगुरिति साम्नां गानमेवोचितम् । विद्याविसंवादकृता इति, न तु मात्सर्यादिना । प्रादुरभव- न्नित्यनौचित्यशङ्कया तत्कर्तृत्वपरिहारः । प्रकृत्येति । अन्यथा ब्रह्मसन्निधानेन कथमीदृगाक्षेपः । कथमीदृशोऽवकाश इत्याह—महातपा इति । मुनिरित्यनेनास्य ज्ञानप्राधान्यात्तुल्यतोद्भासनमतीवोप- कारः । अत्रेस्तनय इति न केवलं महातपस्वेन यावदत्रितनयत्वेन ब्रह्मलोकप्राप्ति- रस्य । ततस्तारापतेरित्यादिना तथाभूतपरमप्रजापतिसम्बन्धयोग्यत्वमस्याख्यायते । द्वितीयेनेति तत्समत्वमुच्यते । कथं सामगानेऽप्यनवहित इत्याह—क्रोधान्ध इति । सर्वेष्वित्यादौ देवी सरस्वती श्रुत्वा जहासेति क्रियाप्रतिपत्तिरस्य मा भूदित्युत्त मप्रकृति- त्वादन्येत्याद्युक्तम् । अन्येन सहा लापलीलाकथाक्रीडया । कुमारीति । कुमारीत्वेनास्या गान किया। अन्य लोगों ने यज्ञक्रियाआ के उपयोग में आनेवाले मन्त्रों की व्याख्या की। वहाँ उन लोगों के बीच मत-मतान्तर को लेकर परस्पर विद्याविषयक विवाद उठ खड़े हुए। तब स्वभाव से अत्यन्त क्रोधी, महातपस्वी, अत्रि का पुत्र, तारापति (चन्द्र) का भ्राता दुर्वासा का मुनि मन्दपाल नाम के दूसरे मुनि के साथ झगड़ा कर बैठा और सामगान करते हुए क्रोध से अन्धा होकर स्वर-भङ्ग कर दिया। शाप न दे दे, इस डर से सबके सब मुनि चुप हो गए और दूसरों के साथ बात करने के बहाने ब्रह्माजी ने भी (उस विस्वर साम- गान की) उपेक्षा की। पर कुमारी सरस्वती (वहीं उपस्थित थी)। वह कुछ-कुछ बालभाव छोड़ नये यौवन को सुशोभित करने वाली उम्र में आ पहुँची थी। १. विद्याविवादाः । २. सामगायः । ३. शापभवास्त्र । ४. अवधीरयति । ५. नवे वयसि । CC-0.Panini Kanya Maha Vidyalaya Collection.
१४ हर्षचरितम् वर्तमाना, गृहीतचामरप्रचलद्भुजलता पितामहमुपवीजयन्ती, निर्भर्त्सनताडनजातरागाभ्यामिव १स्वभावारुणाभ्यां पादपल्लवाभ्यां समुद्भासमाना, शिष्यद्वयेनेव पदक्रममुखरेण नूपुरयुगलेन वाचालित- चरणयुगला, धर्मनगरतोरणस्तम्भविभ्रमं बिभ्राणा जङ्घाद्वितयम्२, सलीलमुत्कलहंस३कुलकलालापप्रलापिनि मेखलादाम्नि४ विन्यस्त- वामहस्तकिसलया, विद्वन्मानसनिवासलग्नेन गुणकलापेनेवांसाव५- लम्बिना ६ब्रह्मसूत्रेण पवित्रीकृतकाया, भास्वन्मध्यनायकमनेकमक्ता- नुयातमपवर्गमार्गमिव ७हारमुद्वहन्ती, वदनप्रविष्टसर्वविद्यालक्तक- हास्यादिकं नानुचितमिति दर्शयति । भूषितेत्यनेन दर्शनीयत्वमाह- पितामहमिति । सर्वप्राधान्यमनेनोक्तम् । निर्भर्त्सनं ताडनं तेन तदर्थं वा यत्ताडनं रोषादमुमिहननं तद्वशाच्च जातरागाभ्यामिव पादपल्लवाभ्यामित्येनेनारुणत्वं सौकुमार्यं चाह । अत एव गाढताडनेन रक्तत्वमुत्प्रेक्षितम् । ताडितो वायं ताडितस्तत्तुल्यो रागो जातो ययोरिति व्याख्येयम् । पदक्रमं पादन्यासपरिपाटी । अन्यत्र च—पदानि च क्रमश्च तत्पदक्रमम्, चरणौ पादौ चरणाश्च विशिष्टशाखापाठकता वाचालिताः शोभिता ययेति । उत्का उत्सुकाः । मेखलादाम्नि रशनागुणे । मानसं चित्तं, सरोविशेषश्च । चँवर पकड़ कर भुजलता को हिलाते हुए पितामह (ब्रह्माजी) पर झल रही थी। दुर्वासा के प्रति झुंझलाइट के कारण भूमि पर पटकने से मानो लाल हुए स्वाभाविक लाल अपने पादपल्लवों से शोभित हो रही थी। पदन्यास से मुखरित होने वाले नूपुरों से उसके दोनों चरण वाचाल हो रहे थे, मानो पदपाठ और क्रमपाठ के अभ्यास में मुखर दो शिष्य अपने चरण अर्थात् शाखा का स्वाध्याय कर रहे हों। उसकी दोनों जाँघें धर्मनगर के तोरणस्तम्भ का अनुकरण कर रही थीं। उत्सुक कलहंस की भाँति अव्यक्त शब्द करती हुई करधनी (मेखलादाम) पर वह लीला के साथ बायें हस्त-किसलय को रखे हुए खड़ी थी। विद्वानों के मानस (चित्त या मानस सरोवर) में हमेशा निवास करने से संक्रान्त हुए गुणों (श्लेष से तन्तुओं) के रूप में कंधे पर लटकते हुए ब्रह्मसूत्र से उसका शरीर पवित्र हो रहा था। वह चमकते हुए मध्यमणि युक्त और अनेक मोतियों से गुम्फित हार को पहने थी, जो सूर्य के मध्य से ले जाने वाले और अनेक मोक्षगामी जीवों द्वारा अनुसृत मोक्षमार्ग की तरह था। मुख में प्रविष्ट समस्त विद्याओं के चरण- १. स्वभावारुणपाद। २. द्वितीयम्। ३. कुलकल, कुलाकलालापप्र । ४. धाम्नि । ५. नेवांशाव । ६. सहजब्रह्म । ७. हारमुरसासमु ।
रसेनेव पाटलेन१ स्फुरता दशनच्छदेन विराजमाना, संक्रान्तकमला- सनकृष्णाजिनप्रतिमां २मधुरगीताकर्णनावतीर्णशशिहरिणामिव कपोल- स्थलीं दधाना, तिर्यक्सौवज्ञनुन्नमितैकभ्रूलता, श्रोत्रमेकं विस्वरश्रवण- कलुषितं प्रक्षालयन्तीवा४पाङ्गनिर्गतेन लोचनाश्रुजलप्रवाहेणेतरश्रवणेन च विकसितसितसिन्धु५वारमञ्जरीजुषा हसतेव प्रकटितविद्यामदा, श्रुतिप्रणयिभिः प्रणवैरिव कर्णवतंस६कुसुममधुकरकुलैरूपास्यमाना, सूक्ष्मविमलेन प्रज्ञाप्रतानेनेवांशुकैनाच्छादितशरीरा,७ वाङ्मयमिव
गुण अपि भास्वान्दोषो मध्यनायकः पदकं यत्र तत् । अथ च भास्वतो मध्यं तेन नयनि सः । यदुक्तम्—‘परिव्राड्योगयुक्तश्च शूरश्चाभिमुखे हतः । द्वाविमौ पुरुषौ लोके सूर्यमण्डलभेदिनौ ॥’ इति । मुक्ता मौक्तिकानि, मोक्षगामिनश्च । हारं मुक्ता- कलापं च, अपवर्गमपि । हारं हरसम्बन्धिनं तत्प्रसादप्राप्यत्वात् । ‘अलक्तरसेनेव पाटलेन’ इति वा पाठः । स्फुरतेति रोषात् । भगवतीकपोले शशिहरिणस्यैवावतारः सम्भाव्यत इति शशिपदम् । अत्र हि कपोले ब्रह्मकृष्णाजिनसंक्रान्तिः, तत्र काम- सम्भावना सामान्यहरिणस्यावतरणे । कलुषितं प्रक्षालयन्तीवेति । सलिलस्य क्षालन- मेव युक्तमिति समुचितेयमुक्तिः । श्रुतिप्रणयिभिरिति । श्रूयते इति श्रुतिर्ध्वनिस्तया प्रणवः प्रशंसातिशयो येषां तैः यद्वा = श्रुतौ श्रोत्रे तत्कर्तृकः प्रणयः प्रार्थना मधुरः ध्वनित्वाद्येषां तैः । कर्णसम्बन्धैरिति व्याख्याने तु कर्णवतंसेत्यादिना पुनरुक्त्यम- परिहार्यम् । श्रुतिर्वेदोऽपि । सूक्ष्मार्थदर्शित्वात्सूक्ष्मस्तीक्ष्णः विमलस्तत्त्वग्राही । अन्यत्र—सूक्ष्मं तनु, विमल शुक्ल्म् । प्रतानः प्रसारः ।
के आलते मे मानों पाटल हुए (क्रोध से) फड़कते ओठ उसे सुशोभित कर रहे थे । उसके कपोलों पर ब्रह्माजी के काले मृगचर्म की छाया पड़ रही थी; मानो उसके मीठे गीतों को सुनने के लिए चन्द्रमा का मृग ही वहाँ उतर कर आ गया हो । उसकी एक भौंह कुछ तिरस्कार का भाव लिये हुए टेढ़ी और ऊपर की ओर उठी हुई थी । आँख के कोने से निकलते हुए आँसू की धारा से मानो वह भ्रष्ट पाठ के श्रवण करने से कलुषित अपने एक कान को धो रही थी और उसके दूसरे कान पर खिले हुए श्वेत सिन्धुवार की मञ्जरी हँस रही थी जिसमें उसका विद्यामद प्रकट हो रहा था । उसके कान पर लगे कर्नफूल पर भौंरे छाये हुए थे, मानों वह श्रुति (वेद) से प्रेम करने वाले अनेक प्रणवों (‘ओँ’ अक्षरों) से उपासित हो रही थी । प्रज्ञा के प्रतान की तरह बहुत बारीक तन्तुओं से बना और उज्ज्वल
१. पाटलेनेव च । २. साममधुर; समम; प्रतिबिम्बां मधुर । ३. सावर्णमु । ४. तीवाङ्गवनि । ५. सिन्दु । ६. संसक्तमधु; वतंसमधु । ७. तनुलता ।
१६ हर्षचरितम् निर्मलं दिक्षु दशनज्योत्स्नालोकं विकिरन्ती १ देवी सरस्वती श्रुत्वा जहास । दृष्ट्वा तु तां तथा हसन्तीं स मुनिः 'आः पापकारिणि, दुर्गृहीत- विद्यालवावलेपदुर्विदग्धे, मामुपहससि' इत्युक्त्वा शिरःकम्पशीर्य- माणबन्धविशरारोरुन्मिषत्पिङ्गलिम्नो जटाकलापस्य २ रोचिषा ३ सिञ्च- न्निव रोषदहनद्रवेण दश दिशः, कृतकालसन्निधानामित्रांन्धकारित- ४ ललाटपट्टाष्टापदामन्तकान्तःपुरमण्डनपत्रभङ्गमकरिकां भ्रुकुटिमाबध्नन्, अतिलोहितेन चक्षुषाऽमर्षदेवतायै स्वरुधिरोपहारमिव प्रयच्छन्, दृष्ट्वेत्यादौ । स मुनिस्तां तथा हसन्तीं दृष्ट्वा शापजलं जग्राहेति सम्बन्धः । तथेति पादताडनभ्रूक्षेपादिपूर्वम् । स मुनिरिति प्राग्वर्णितस्वरूपः । आ इत्यक्षमायाम् । मामिति योऽहं त्रैलोक्यप्रख्यातरौषणस्तमेवेति । समीप एव विशीर्यंते तच्छीलो विश- रारुरितश्चामुतश्च । अत एवोन्मिषत्पिङ्गलिमा । रोचिषा दीप्त्या । रोषदहनो द्रवो रस इव, द्रवत्वं च यद्यपि विशिष्टस्यैव तेजसः सुवर्णादि सम्भवति, तथाप्यत्रोप- चारात्साहश्यम् । कालः कृष्णो गुणो यमश्च । अन्धकारितं संकुचितत्वाददर्शनीयमेव चकितं ललाटपट्टमेवाष्टापदम् । यथा प्रतिपङ्क्ति अष्टौ पदान्यस्येत्यष्टापदं चतुरङ्गफलकम् । अत एवानेन भ्रूसमुन्नमनमव्यक्तीकृतरखेवत्तया विस्पष्टव्यलीक- मेतत् । 'ललाटमुपगीयते । भ्रुवोर्मूलसमुत्क्षेपादभ्रुकुटिं परिचक्षते' । सुशब्द्ः सुतरां अंशुक उसका शरीर ढँक रहा था। वह वाङ्मय के समान निर्मल अपने दाँतों से चाँदनी का आलोक दिशाओं में छिटका रही थी। (दुर्वासा के स्वरहीन पाठ को) सुन कर वह हँस पड़ी। दुर्वासा ने सरस्वती को उस प्रकार हँसते देखकर 'ओ पाप करने वाली, निम्न रूप से प्राप्त विद्या के लेश पर अभिमान से भरी ओ दुर्विदग्धे ! तू मेरा उपहास कर रही है?' यह कह कर बार-बार शिरःकम्प के कारण बंधन के शिथिल हो जाने पर इधर उधर खुले हुए पीताभवर्ण की चमक से युक्त, जटा-समूह के तेज से मानो क्रोधाग्नि के द्रव से समस्त दिशाओं को सींचने लगे। भौंहें चढ़ने लगीं, यमराज का सन्निधान प्राप्त कर चुकी थीं, उनके ललाटरूपी शतरंज खेल के पट्टे को मानो अपनी कालिमा से मलिन १. किरन्ती । २. जटासञ्चयस्य । ३. शोचिषा । ४. ललाटाष्टापदां, ५. अन्तर्केमण्डन ।
Digitized by Arya Samaj Foundation Chennai and eGangotri प्रथम उच्छ्वासः १७ निर्दयदष्टदशनच्छदभयपलायमानामिव वाचं रुन्धन्दन्तांशुच्छलेन, ¹अंसा- वस्रंसिनः शापशासनपट्टस्येव ग्रथ्नन्ग्रन्थिमन्यथा कृष्णाजिनस्य, ²स्वेद- कणप्रतिबिम्बितैः ³शापशङ्काशरणागतैरिव सुरासुरमुनिभिः प्रतिपन्न- सर्वावयवः, कोपकम्पतरलिताङ्गुलिना करेण ⁴प्रसादनलग्नामक्षरमा- लामिवाक्षमालामाक्षिप्य कामण्डलवेन वारिणा ⁵समुपस्पृश्याचम्य शापजलं जग्राह । अत्रान्तरे स्वयम्भुवोऽभ्याशे⁶ समुपविष्टा देवी मूर्तिमती पीयूषफेन- नैरपेक्ष्यसूचनाय वा चोभयसम्बन्धः । अंसावस्रंसिन इति । संरम्भाच्छासनपट्टः शुक्लत्वाल्लिपिकार्ष्ण्याच्च सितासितवर्णसंवलितमध्यः पर्यन्तशुक्लश्च भवति । अत एव ते बिन्दुचित्रत्वादुपान्तशुक्लत्वाच्च कृष्णाजिनमुत्प्रेक्षते । यथा शासनपट्टे सति क्वचिद्ग्रामादावधिकारो भवति, तद्वच्च जनसमूहः प्रार्थनां करोति । स हस्तपादा- दिके सर्वस्मिन्नङ्गे गलति । कोपेत्यादौ कम्पग्रहणम् । रोषः शरीरं बाधत इति यावत् । सन्निवेशसाधर्म्यादुक्तम्—अक्षरमालामिवेति । सरस्वतीसम्बन्धितया चोक्तम्—प्रसादनलग्नामिति । विक्षिप्यन्ते । यश्च विरुद्धपक्षः प्रसादयति स विक्षि- प्यते तिरस्क्रियते । कामण्डलवेन मुनिकरकमवेन । समुपस्पृश्याचम्य । अत्रान्तर इत्यादौ मूर्तेश्चतुर्भिर्वेदैः सह सावित्रो समुत्तस्थ्याविति सम्बन्धः । कर रही हो और जैसे वे यमराज के अन्तःपुर की पत्रभङ्गमकरिकाएँ हों। आँखें अत्यन्त लाल हो गईं, मानो वे अमर्ष देवता के लिए अपने ही रुधिर का उपहार भेंट कर रहे थे । बड़ी बेदर्दी से ओठ कट जाने के भय से मानों भागती हुई वाणी को वे अपने दांतों की प्रभा के बहाने मानों रोक रहे थे । शाप के शासनपट्ट की भाँति कंधे गिरते हुए कृष्ण मृगचर्म की गांठ दूसरे प्रकार से बाँधने लगे । शाप के भय से शरण में आये हुए की तरह सुर, असुर और मुनि उनके स्वेदकणों से भरे समस्त अङ्गों में प्रतिबिम्बित हो रहे थे । क्रोध से उत्पन्न काँपकँपी के कारण चंचल अंगुलियों वाले हाथ से उन्होंने मानो प्रसन्न करने के लिए लगी हुई अक्षरमाला की भाँति अपनी अक्षमाला को फेंक दिया और कमण्डलु के जल- से आचमन करके शाप देने के लिए जल उठाया । इस अवसर पर देवी सावित्री ब्रह्माजी के समीप सदेह बैठी थी। वह अमृत के फेन १. असंस्रंसिनः । २. स्वेदंप्रति । ३. शापभयाच्छरण । ४. प्रसादलग्नामक्षमालां विक्षिप्य; अक्षरावलिकामिवाक्षरमाला । ५. स समुप । ६. अभ्यासे । २ ह० CC-0. Panini Kanya Maha Vidyalaya Collection.
१८ हर्षचरितम् पटलपाण्डुरं कल्पद्रुमदुकूलवल्कलं १ वसाना, २बिसतन्तुमयेनांशुके- नोन्नतस्तनमध्यबद्धगात्रिकाग्रन्थिः, ३तपोबलनिर्जितत्रिभुवनजयपताका- भिरिव तिसृभिर्भस्मपुण्ड्रकराजिभिर्विराजितललाटाजिरा, स्कन्धावल- म्बिना ४सुधाफेनधवलेन तपःप्रभावकुण्डलीकृतेन गङ्गास्रोतसेव ५ योग- पट्टकेन विरचितवैकक्ष्यका, ६ सव्येन ब्रह्मोत्पत्तिपुण्डरीकमुकुलमिव ७स्फटिककमण्डलुं करेण कलयन्ती, दक्षिणमक्षमालाकृतपरिक्षेपं कम्बुनिर्मितोर्मिकादन्तुरितं ८ तर्जनतरङ्गिततर्जनीकमुत्क्षिपन्ती करम्, 'आः पाप, क्रोधोपहत, दुरात्मन्, अज्ञ, अनात्मज्ञ, ब्रह्मबन्धो, मुनि- खेट ९, अपसद, १०निराकृत, कथमात्मस्खलितविलक्षः सुरासुरमुनि- अभ्याशे समीपे । गात्रिकाग्रन्थिर्ग्रन्थिविशेषः स्वस्तिकाकारः स्त्रीणामुत्तरीयस्य स्तनो- द्देशे भवति । तिलकं पुण्ड्रकं स्कन्धावंसौ वायुस्थानानि च स्कन्धाः । फेनैस्तद्वद्धव- लेन । 'तिर्यग्वक्षसि विक्षिप्तं वैकक्ष्यकमुदाहृतम्' । सव्येन वामेन । पुण्डरीकमुकुलं मुकुलितं पद्मम् । कलयन्ती क्षिपन्ती, धारयन्ती वा । परिक्षेपः परिवलनम् । कम्बुः शङ्खः । ऊर्मिका बालिका । दन्तुर इव दन्तुरो व्याप्तस्तम् । तर्जनं निभर्त्सनम् । तरङ्गिता तर्जिता चलिता । तर्जनौ प्रदेशिन्यङ्गुष्ठनिकटाङ्गुलिः क्रोधोपहतेत्यात्म- विनाशायैव ते क्रोध इत्युक्तं, भवति । ब्रह्मबन्धो निकृष्टब्राह्मण । अपसदो नीचः । पटल के सदृश उज्ज्वल कल्पद्रुम से प्राप्त दुकूलाकृति छाल को पहने थी । उसने अपने उन्नत स्तनों के मध्य को बिसतन्तु के बने हुए अंशुक को स्वस्तिकाकार गाँती से बाँध रखा था। भस्म की तीन रेखायें उसके ललाट के प्रांगण में शोभायमान थीं मानो उसने अपने तपोबल से जीते हुए तीनों भुवन की जयपताका हो। कंधे पर अवलम्बित, अमृत फेन से समान धवल और मानों तपस्या के प्रभाव से टेढ़े किये हुए गङ्गा के सोते के समान उसने अपने योगपट्ट को वक्ष पर टेढ़ा लटका कर वैकक्ष्यक बना लिया था । उसके बायें हाथ में ब्रह्माजी की उत्पत्ति वाले पुण्डरीक के मुकुल के सदृश स्फटिक मणि का कमण्डलु डोल रहा था। यह अपनी दाहिनी भुजा को ऊपर की ओर फेंक रही थी जो अक्षमाला से परिवेष्टित, शंख की बनी अंगूठी से व्याप्त थी और जिसकी तर्जनी चञ्चल हो रही थी (वह बोल उठो—) 'अरे पापी, क्रोध का मारा, दुरात्मा, मूर्ख, अपने आप को न पहचानने वाला, पतित ब्राह्मण, पाखण्डी साधु, नीच, स्वाध्यायशून्य, अपनी गलती से लज्जित, १. दुकूल । २. बिश । ३. तपोनिर्जित । ४. फेनध । ५. शगाप ऽ६. वैकक्षा । ७. स्फुरि । ८. दन्तुरं । ९. खेटापसदनिरस्कृत । १०. निराकृते CC-0.Panini Kanya Maha Vidyalaya Collection.
२. उच्छ्वास ३-४: श्रीकण्ठ जनपद-वर्णन, प्रभाकरवर्धन चरित एवं राज्यवर्धन-हर्ष जन्म
Digitized by Arya San... प्रथम उच्छ्वासः Chennai and eGangotri १९ 'मनुजवृन्दवन्दनीयां त्रिभुवनमातरं भगवतीं सरस्वतीं शप्तुमभिलषसि' इत्यभिदधाना, रोषविमुक्तवेत्रासनैरोङ्कारमुखरित२मुखैरुत्क्षेप३दोलायमान- जटाभारभरितदिग्भिः४ परिकरबन्धभ्रमित५कृष्णाजिनाटोपच्छायाश्यामाय- मानदिवसैरमर्षनिःश्वासदोलाप्रेङ्खोलितब्रह्मलोकैः सोमरसमिव स्वेदविसर- व्याजेन स्रवद्भीरग्निहोत्रपवित्रभस्मस्मेरललाटैः ६कुशतन्तुचामरचीरचीव- रिभिराषाढिभिः प्रहरणीकृतकमण्डलुमण्डलैमूर्तैश्चतुर्भिर्वेदैः सह बृसीमपहाय सावित्री समुत्तस्थौ । ततो 'मर्षय भगवन्, अभूमिरेषा शापस्य' इत्यनुनाथ्यमानोऽपि निराकृतोऽस्वाध्यायः विलक्षो लज्जितः । सुरासुरमनुजाश्च परस्परविरुद्धानुष्ठानाः । अत्र पुनरीदृशामपि न विप्रतिपत्तिरिति भावः । अभिलषसीति । इच्छामात्रकमपीदं महत्साहसमित्यर्थः । ओंकार एव मुखरितं मुखं येषां तैः । परिकरबन्धः पर्यङ्क- बन्धः । स चोत्थितस्यापि संरम्भभाजो भवति । आटोपो वक्षःप्रदेशे श्यामायमानो रात्रिरिवाचरद्दिवसा यैहैंतुमिरित्यर्थः । अमर्षनिःश्वासैर्दोलावत्प्रेङ्खोलितश्चलितो ब्रह्मलोको यः । कुशतन्तूनां चामरमिव चामरं गुच्छः । कुशतन्तुनचामरं दर्भपिञ्जू- लम्, चीरचीवरं वृक्षत्वग्वस्त्रं ते विद्येते येषां तैः । 'आषाढसंज्ञो दण्डस्तु पालाशो व्रतचारिणाम्' । तत इत्यादौ शापोदकं जग्राहेति विससर्जेति सम्बन्धः । मर्षय क्षमस्व । अनु- देवता, असुर, मुनि मनुष्यसमूह द्वारा वन्दनीय त्रिभुवन की माता देवी सरस्वती को शाप देना चाहता है ?' यह कहती हुई सावित्री मूर्तिमान चारों वेदों के साथ कुशासन छोड़ उठ खड़ी हुई। क्रोध से उन मूर्तिमान वेदों ने भी अपने-अपने वेत्रासन छोड़ दिए, उनके मुख ओंकार की ध्वनि से भर रहे थे, वेग से ऊपर की ओर फेंकने से उनका चञ्चल जटाभार मानों दिशाओं में फैलने लगा। उनकी कमर में लपेट कर बाँधे हुए काले मृगचर्म की बनी छाया से दिन में अंधेरा छाने लगा, वे अपने अमर्षजन्य निःश्वासों से सारे ब्रह्मलोक को दोलायमान करने लगे । उनके शरीर से सोमरस के समान स्वेदजल निकल रहे थे । अग्नि- होत्र के पवित्र भस्म से उनके ललाट चमक रहे थे । वे कुश के तन्तुओं से बने चामर एवं वल्कल और आषाढसंज्ञक पलाश का दण्ड धारण किये हुए थे । वे अपने कमण्डलु से मारने के लिए तत्पर हो उठे । तब 'हे भगवन्, क्षमा करो, यह शाप देने योग्य नहीं' इस प्रकार देवताओं के प्रार्थना १. मनुजमाननीयां । २. मुखर । ३. आक्षेप । ४. भरितशिरोभिः । ५. कृष्णाजिनपटच्छा । ६. कुशतन्तुचारुचामर ।
विबुधैः, ‘उपाध्याय ! स्खलितमेकं क्षमस्व’ इति बद्धाञ्जलिपुटैः प्रसाद्य- मानोऽपि स्वशिष्यैः, ‘पुत्र, मा कृथास्तपसः प्रत्यूहम्’ इति निवार्यमा- णोऽप्यत्रिणा, रोषावेशविवशो दुर्वासाः ‘दुर्विनीते ! व्यपनयामि ते विद्या- जनितामुन्नतिमिमाम्, अधस्ताद्गच्छ मर्त्यलोकम्’ इत्युक्त्वा तच्छा- पोदकं विससर्ज ।¹ प्रतिशापदानोद्यतां सावित्रीम् ‘सखि, संहर रोषम्², असंस्कृतमतयोऽपि जात्यैव द्विजन्मानो माननीयाः’ इत्यभिदधाना³ सरस्व- त्येव न्यवारयत् । अथ तां तथा शप्तां सरस्वतीं दृष्ट्वा पितामहो भगवान्कमलोत्पत्ति- लग्नमृणालसूत्राभिव धवलयज्ञोपवीतिनीं तनुमुद्वहन्, उद्गच्छदच्छा- ङ्गुलीयमरकतमयूखलताकलापेन त्रिभुवनोपप्लवप्रशमकुशापीडधारि-
नाद्यमानः प्रार्थ्यमानः। प्रत्यूहं विघ्नम्। उन्नतिमिति। उच्चदेशस्थश्चाधस्तान्नीयत इति समुचितेयमुक्तिः। असंस्कृतमतयः संस्काररहिताः। अथेत्यादौ भगवान्पितामहः सुधीरमुवाचेति सम्बन्धः। तथेति। तेन प्रकारेण निरपराधां सरस्वतीमित्यर्थः। धवलयज्ञोपवीतिनीमिति। प्रशंसायां नित्ययोगे वा मत्वर्थीयः। 'बिसकिसलयच्छेदपाथेयवन्तः' इतिवत्। अन्यथा कर्मधारये कृते मत्व- र्थीय एकवृद्धद्यनुमितौ बहुव्रीहौ प्रतिपत्तिर्मवतीति। इतरत्र तु·बुद्धिद्वयमिति लघुत्वा- त्प्रक्रमस्तेत्युक्तम्। उद्गच्छन्नच्छाङ्गुलीयमरकतस्य मयूखलताकलापो यस्य तेन करेण आपीडः समूहः। पातं विन्यासम्। पातयन्कुर्वन्। अत्र हि धात्वर्थंगनानुष्ठानमात्र-
करने पर भी, 'आचार्य एक अपराध क्षमा करें' इस प्रकार अपने शिष्यों से प्रसन्न किये जाने पर भी 'पुत्र, तपस्या में विघ्न न करो', इस प्रकार अत्रि द्वारा रोके जाने पर भी क्रोध के वशीभूत दुर्वासा ने कहा—'दुर्विनीते, मैं तेरे इस विद्याजनित गर्व को दूर करता हूँ, तू नीचे मर्त्यलोक में जा और शाप के जल को छिड़क।' प्रतिशाप देने के लिए सावित्री तैयार हो गई तो सरस्वती ने 'सखी, तू अपने क्रोध को समेट ले, संस्कारशून्य बुद्धि होने पर भी जाति के कारण ही ब्राह्मण हमारे मान्य हैं' यह कहते हुए रोक दिया। तब पितामह भगवान् ब्रह्मा ने दुर्वासा के शाप से ग्रस्त सरस्वती को देखा। उनके शरीर पर सफेद जनेऊ ऐसा लगता था मानों कमल में उत्पत्ति के होने से उसके मृणाल
१. प्रतिशापोद्यतां सावित्री०। २. रुषम्। ३० इत्यभिदधती।
प्रथम उच्छ्वासः २१
णेव दक्षिणेन करेण निवार्य शापकलकलम्, अतिविमलदीर्घर्भाविष्कृत- युगारम्भसूत्रपातमिव दिक्षु पातयन् दशनकिरणैः सरस्वतीप्रस्थानमङ्गल- पटहेनेव पूरयन्नाशाः, स्वरेण सुधीरमुवाच—'ब्रह्मन्, न खलु साधु- सेवितोऽयं पन्थाः येनासि प्रवृत्तः । निहन्त्येष परस्तात् । उद्दाम- प्रसृतेन्द्रियाश्वसमुत्थापितं हि रजः कलुषयति दृष्टिमक्षजिताम् । कियद्दूरं वा चक्षुरीक्षते । विशुद्धया हि धिया पश्यन्ति कृतबुद्धयः सर्वानर्थानसतः सतो वा । निसर्गविरोधिनी चेयं पयःपावकयोरिव धर्मक्रोधयोरेकत्र वृत्तिः । आलोकमपहाय कथं तमसि निमज्जसि । क्षमा हि मूलं सर्वतपसाम् । परदोषदर्शनदक्षा दृष्टिरिव कुपिता बुद्धिर्न ते आत्मरागदोषं पश्यति । क्व महातपोभारवैवधिकता, क्व पुरो-
वृत्तिः क्रिया । यथा—'संवस्ते क्षालिते वस्त्रे' इति । पन्था व्यवहारः, मार्गश्च । निहन्ति पातयति । प्रसृतानि गन्तुं प्रवृत्तानि, प्रसृता च जङ्घा । रजौरागः, धूलिश्च । कलुषयति कार्याकार्यदर्शनासर्थां करोति । दृष्टिं बुद्धिम्, नेत्रं च । अक्षाणी- न्द्रियाणि, रथाङ्गं चाक्षः । तेन च रथो लक्ष्यते । कृतबुद्धयः संस्कृतमतयः । असदविद्यमानम् । निसर्गः स्वभावः । आलोको विवेकः, प्रकाशश्च । तमः अन्धकारम्, अज्ञानमपि । दोषाः, सव्यमण्डलत्वादीनि च । कुपिता क्रुद्धा, धातुवैषम्यदूषिता च । आत्मरागदोषमिति । आत्मभूतगुणदर्शनम्, लौहित्यलक्षणं च विकारम्, 'वोढा
सूत्र लग गए हो । उन्होंने अपने दाहिने हाथ से, जिसकी निर्मल अंगूठी के मरकत से किरणें फूट कर निकल रही थीं और जो त्रिभुवन के कष्ट को दूर करने के लिए कुश की पवित्री धारण कर रहा था, शापजन्य कोलाहल को शान्त किया । अति विमल और फैलती हुई दाँतों की किरणों से मानों भविष्य के होने वाले सतयुग का आरम्भिक सूत्रपात करते हुए; सरस्वती के प्रस्थान के समय मङ्गलपटह के समान अपनी आवाज से दिशाओं को भरते हुए ब्रह्माजी ने गम्भीरतापूर्वक कहा—'हे ब्राह्मण, आपने जिस मार्ग को अपनाया है वह अच्छे लोगों के द्वारा सेवित नहीं है, अन्त में गिरा देता है । जो जितेन्द्रिय नहीं हैं उनकी आंखें उच्छृङ्खल (बेलगाम) इन्द्रियरूपी घोड़ों द्वारा उठी रज (धूल, राग) निस्तेज बना देती हैं । चर्मचक्षु कहाँ तक देख सकते हैं ? बुद्धिमान् लोग अपने विशुद्ध प्रज्ञारूपी चक्षु से समस्त भले-बुरे को देख लेती हैं । जल और अग्नि के समान धर्म और क्रोध का एक जगह रहना स्वभावविरुद्ध है । प्रकाश (विवेक) को छोड़ अन्धकार (अज्ञान) में क्यों गिर रहे हो ? क्षमा तो सब तपस्याओं का मूल है । दूसरों की बुराइयों को ही देखने में निपुण
२२ Digitized by Arya Samaj Foundation, Chennai and eGangotri हर्षचरितम् भागित्वम् ? अतिरोषणश्चक्षुष्मानन्ध एव जनः । नहि कोपकलुषिता विमृशति मतिः कर्तव्यमकर्तव्यं वा । कुपितस्य प्रथममन्धकारीभवति विद्या, ततो भ्रुकुटिः । आदाविन्द्रियाणि रागः समास्कन्दति, चरमं चक्षुः । आरम्भे तपो गलति, पश्चात्स्वेदसलिलम् । पूर्वमयशः स्फु- रति, अनन्तरमधरः । कथं लोकविनाशाय ते विषपादपस्येव जटा- वल्कलानि जातानि । अनुचिता खल्वस्य मुनिवेषस्य हारयष्टिरिव वृत्त- मुक्ता चित्तवृत्तिः । शैलूष इव वृथा वहसि कृत्रिममुपशमशून्येन चेतसा तापसाकल्पम् । अल्पमपि न ते पश्यामि कुशलजातम् । अनेनाति- लघिम्नाऽद्याप्युपर्यव प्लवसे ज्ञानोदन्वतः । न खल्वेनडमूक़ा एडा जडा वा सर्वं एते महर्षयः । रोषदोषनिषण्णे स्वहृदये निग्राह्ये किमर्थ- भारस्य धोमद्भिर्जनैर्वैवधिकः स्मृतः । दोषैकग्राहिहृदयः पुरोभागी निगद्यते ॥' रागोऽभूत्गुणामिनन्दनम्, रक्तता च । जटाः शिखाः, मूलानि वल्कलानि मुनि- वस्त्राणि, त्वचश्च । वृत्तमुक्ता शीलेन त्यक्ता, परिवर्तुलमौक्तिका च । 'जायोपजीवो हि जनः शैलूषः कथितो बुधैः' । आकल्पो वेषः । जातं प्रकारः । अतिलघिमानु- पादेयता तुच्छत्वात् । उपर्येवेत्यन्तःप्रवेशाभावाद् । लघुश्च जलोपरि प्लवते । 'कथिता अनेडमूक़ाः श्रोतुं वक्तुं च खलु न ये शक्ताः । एडास्तु श्रुतिहीना जडास्तु मूर्खा बुधैः प्रोक्ताः' ।। रोष एव दोषस्तस्य निष्णा नियमेनावस्थितियंत्र तस्मिन्स्व- दृष्टि के समान तुम्हारी क्रोध से अभिभूत बुद्धि अपने ही भीतर उत्पन्न रोग दोष को नहीं देख पा रही है। कहाँ महान् तप के भार को वहन करने की क्षमता और कहाँ एकमात्र दूसरों के अवगुण ग्रहण करना ! अत्यन्त क्रोधी स्वभाव का नेत्रधारी भी अन्धा है, क्योंकि क्रोध से कलुषित हो जाने पर बुद्धि कर्तव्य और अकर्तव्य का विचार नहीं कर पाती । पहले क्रोधी व्यक्ति की विद्या धुंधली हो जाती है और पीछे उनकी भौंह । पहले राग इन्द्रियों को घेरता है, पीछे (लाली रूप में) आँखों में व्याप्त हो जाता है । आरम्भ में तपस्या विगलित हो जाती है । पश्चात् स्वेदजल । पहले अयश स्फुरित होने लगता है, फिर अधर (फड़फड़ाने लगते हैं) विषवृक्ष के समान तुम्हारे जटारूपी वल्कल लोक विनाश के लिए कैसे उत्पन्न हो गए ? तुम्हारी शीलरहित चित्तवृत्ति इस मुनिवेष के लिए वर्त्तुल मोतियों वाली हारयष्टि के समान अनुचित है । शमभाव से रहित चित्त के द्वारा नट के समान कृत्रिम तपस्वी के वेष को व्यर्थ ही ढो रहे हो । (इससे) तुम्हारा भी कल्याण नहीं देख रहा हूँ । इसी हल्केपन से आज भी तुम ज्ञान-समुद्र के ऊपर-ऊपर ही तैर रहे हो । वे सब महर्षि कानों के बहरे, आँखों के अन्धे और मूर्ख नहीं हैं । जब कि CC-0.Panini Kanya Maha Vidyalaya Collection.