काश्यप संहिता (वृद्ध जीवकीय तन्त्र व विद्योतिनी हिन्दी टीका सहित)
Kashyapa Samhita Hindi
महर्षि काश्यप / जीवक (टीकाकार: श्री सत्यपाल भिषगाचार्य) द्वारा
स्रोत: Kashyapa Samhita (Vriddha Jivakiya Tantra) with Vidyotini Hindi Commentary (उद्गम)
उपोद्घातः ९१
घृतैः क्षारैः कषायैश्च क्षीरैः सोत्तरबस्तिभिः । यदि नोपशमं गच्छेद्वेदस्तत्रोत्तरो विधिः ।।
कुशलस्यापि वैद्यस्य यतः सिद्धिरिहाध्रुवा । उपक्रमो जघन्योऽयमतः स परिकीर्तित ।।
इत्युल्लेखेन शल्यतन्त्राचार्योऽपि कायचिकित्साप्रस्थानस्य समादरं दर्शयति। अष्टप्रस्थानाचार्यतया ज्ञायमानस्य धन्वन्तरेः प्रस्थानान्तरनिबन्धेषु कौमारभृत्यादिविशेषविषया अपि विशेषतो निर्दिष्टा भेवयुः, अस्मिन् शल्यप्रस्थानीयेऽपि निबन्धे पूर्वभागे शारीरस्थाने गर्भिणीव्याकरणादौ (पृ. ३०३) कौमारभृत्यसंबन्धिनोऽपि विषयाः प्रसङ्गेन लेशतो निर्दिष्टाः सन्ति। तत्राचार्यान्तरप्रस्थानान्तरोल्लेखं विनैवेदृशविषयोपवर्णनं काश्यपसिद्धान्तमभिलक्ष्य स्वतो वा विहितमिति नावधार्यते, किन्त्वेतावताऽस्याचार्यस्य कौमारभृत्यविषयेऽपि विचारविशेष आसीदिति वक्तुं शक्यते। एकैकप्रस्थानाचार्या अप्येते प्रस्थानान्तराचार्याणां विषयेषु तानाद्रियन्ते। अद्यत्वेऽपि शारीरतत्तदवयवविशेषचिकित्सानिष्णाताः पाश्चात्यविद्याभिषजोऽवयवान्तरभैषज्ये तद्विशेषविज्ञानवतस्तदाचार्यानाद्रियन्ते। कायचिकित्सकाः शस्त्रचिकित्सकान् शस्त्रचिकित्सकाश्च कायचिकित्सकांस्तत्त-दुचितभैषज्येऽपेक्षन्ते च। युक्तं चैतत्। किन्तु आत्रेयभेदादिभिः काश्यपात्रेयादयो नामग्राहं गृहीताः, सुश्रुतेन कायचिकित्सका नामतो न निर्दिष्टाः केवलं तेषां विषयाः सूचिताः, कश्यपेनात्रेयस्य नामनिर्देशोऽपि शिष्योपक्रमणीये धन्वन्तरये स्वाहेति देवतारूपेण धन्वन्तरेर्निर्देशं विहायान्यत्राचार्यरूपेण धन्वन्तरेर्नाम सांप्रतिकोपलब्धग्रन्थभागे गृहीतं न दृश्यते, केवलं शल्यसम्प्रदायमात्रोल्लेखः कृतः। स च सम्प्रदायो धन्वन्तरेर्दिवोदासस्यान्येषां वा पूर्वाचार्याणामिति न परिच्छेतुं शक्यते। वेदेऽप्येतद्विषयोपलम्भेन वेदसमयादेव धारावाहिकरीत्याऽनुवर्तमानयं शल्यविद्या आत्रेयकश्यपादिभ्यः पूर्वमपि प्रतिष्ठिता समादृता चासीत्। आत्रेयेणापि धन्वन्तरेरेवोल्लेखो विहितो, न तु दिवोदासस्य सुश्रुतस्य वा। धान्वन्तरीयशब्देन च सुश्रुतादयोऽभिप्रेता उतान्य एव पूर्वे धान्वन्तरशल्यसम्प्रदायाचार्या इति च नावधार्यते, केवलं तल्लेखेन शस्त्र-साम्प्रदायिकपूर्वाचार्यमार्गाभिज्ञत्वमायाति।।
अस्य ग्रन्थस्य विषयः
विषयश्चास्य ग्रन्थस्य कौमारभृत्यम्। तत्रयोजनं च कौमारभृत्यं नाम कुमारभरणधात्रीक्षीरदोषसंशोधनार्थं दुष्टस्तन्यग्रहसमुत्थानां च व्याधीनामुपशमनार्थम्' (सु.अ. १) इति सुश्रुतेन निर्दिष्टम्। तेन च स्वग्रन्थस्य शल्यप्रधानतया सूत्रस्था^१नोद्देशग्रन्थानुसारेणोत्तर तन्त्रे २७ तः ३८ पर्यन्तं द्वादशाध्यायैः कौमारभृत्यमनुवर्णितम्। परं तत्र विशेषतो ग्रहस्कन्दपूतनादिप्रतिषेधविधानानि तदुपयोगीनि कतिपयौषधानि केवलमुपदर्शितानीत्यस्मिन्विषये ज्ञातव्यानां बहूनां विषयाणामवशिष्यमाणतया एतदीयं कौमारभृत्यमांशिकमेव लक्ष्यते। चरकाचार्येण तु स्वग्रन्थस्य कायचिकित्सारूपत्वमनुपालयता किल आयुर्वेदस्याष्टाङ्गेषु कौमार भृत्यं नाममात्रेणोद्दिश्य तद्विषये उदासितमेव।।
अस्यां काश्यपसंहितायां तु बालकानामूत्पत्तौ रोगेषु निदानेषु प्रतीकारेषु ग्रहादिप्रतिषेधे तत्संबन्धितयाऽन्तर्वलीदुष्प्रजाताधात्र्यादीनां दोषनिर्हरणे च विज्ञेयान् विषयान् तदुपष्टम्भकतया शारीरेन्द्रियविमानादिस्थानीयविषयानपि प्राधान्येनोपादाय प्रासङ्गिकैर्विषयान्तरैश्चान्तराऽन्तराऽऽपूर्य निरूपणदर्शनेन आदितोऽन्तपर्यन्तमनुस्यूतस्यास्य विषयस्य उपलब्ध भाग इव त्रुटितभागेष्वपि सम्भवितया चास्य ग्रन्थस्य सर्वाङ्गसम्पन्नकौमारभृत्यस्थानीयत्वं साधु युज्यते।।
अत्र ग्रन्थे तत्र तत्र निर्दिष्टैर्बालसम्बन्धिभिः प्रश्नैः प्रतिवचनैः, 'कौमारभृत्यमष्टानां तन्त्राणामाद्यमुच्यते (पृ. ६१), कौमारभृत्यमतिवर्धनमेतदुक्तम् (पृ. ९२) इत्यादिग्रन्थाभ्यन्तरीणलेखैः, क्वचन 'कौमारभृत्ये' इति (पृ. ९२, १४५, संहिताकल्पे) पुष्पिकालेखेन च तदेव कण्ठतः स्फुटीक्रियते।।
१. नवग्रहाकृतिज्ञान स्कन्दस्य च निषेधनम्। अपस्मारशकुन्योश्च रेवत्याश्च पुनः पृथक् ।।
पूतनायास्तथाऽन्याया मण्डिकाशीतपूतना। नैगमेषचिकित्सा च ग्रहोत्पत्तिः सयोनिजा ।।
कुमारतन्त्रमित्येतच्छारीरेषु च कीर्तितम्। (सुश्रुतसूत्रस्थाने)
| ९२ | काश्यपसंहिता वा वृद्धजीवकीयं तन्त्रम् |
|---|
प्राचीने नावनीतके कौमारभृत्यविषयतया निर्दिष्टे चतुर्दशाध्याये कश्यपजीवकयोर्नामनिर्देशेन सह नानौषधप्रयोगोल्लेखदर्शनेन, अष्टाङ्गहृदयस्योत्तरतन्त्रे कौमारभृत्यविषयमुपादायोल्लिखितेऽध्यायत्रये, कश्यपोक्तत्वेन निर्दिष्टयोर्दन्तरोगभैषज्यग्रहरदशाङ्गधूपयोः काश्यपीयोक्त-(पृ. ७) च्छायानुविधायिनः स्तन्यदोषपरीक्षादेश्च दर्शनेनाभ्यामपि कौमारभृत्यै एतस्योपजीवनं समीक्ष्यते । सुश्रुतीये कौमारभृत्ये “ये च विस्तरतो दृष्टाः कुमाराबाधहेतुभिः” इति सामान्यनिर्देशेऽपि तदीयव्याख्यायां डल्लनेन “पार्वतकजीवकबन्धकप्रभृतिभिः” इति उल्लिखितेषु कौमारभृत्याचार्येषु त्रिषु द्वौ नाममात्रेण शिष्येते, एतद्ग्रन्थोपलम्भेन जीवकः पुनरुज्जीवति ।
‘कौमारभृत्यास्त्वपरे जङ्गमस्थावराश्रयात् । द्वियोनिं ब्रुवते धूपं कश्यपस्य मते स्थिताः’ ।। (क.धूपकल्पे)
इत्यत्रोल्लेखेन कौमारभृत्येऽन्येऽपि प्राञ्च आचार्या बभूवुः । अन्येऽपि कश्यपस्योपजीवका आसन्, कश्यपः कौमारभृत्ये प्रधानाचार्य आसीदित्यवगम्यते ।।
कौमारभृत्ये शारीरप्रकृतिविपर्यासेन स्कन्देवत्यादिबालग्रहवैकृतेन स्तन्यादिदोषेण च जायमानानां बालकाबाधानां निरसनमुद्दिश्य नानाभैषज्यानि, बालग्रहप्रतीकाराः, अन्येऽप्येतदनुस्यूता विषया उपवर्ण्यन्ते । तदिदं कौमारभृत्यं कायचिकित्साया भूतविद्यायाश्च बालभैषज्योपयोगिनस्तदनुषङ्गेण गर्भधात्रीसूतिकादिसम्बद्धांश्च विषयान् प्राधान्येनोपादाय समुपबृंह्य पृथक्प्रस्थानरूपेण समुदेतीत्यस्मिंश्चिकित्साप्रस्थानस्येव भूतविद्याप्रस्थानस्यापि विषयाः प्रविशन्ति । भैषज्यविद्येव भूतग्रहादिप्रतिषेधविद्या वैदिक्यामप्यवस्थायामासीदेव । छान्दोग्योपनिषदि सप्तमाध्याये ‘नक्षत्रविद्यां भूतविद्यां सर्पजनविद्याम्’ इति प्राचीनविद्यासु भूतविद्याऽपि निर्दिष्टा । अथर्ववेदेऽप्येतदीया विषयास्तदुपयोगिनो मन्त्राश्च बहुश उपलभ्यन्ते इति पूर्वमुक्तमेव । अत एवेयमाथर्वणविद्यात्वेनापि कीर्त्यते । इतिहासदृशाऽपीयं भूतविद्या सर्वतः प्राक्कालेऽवगम्यमानाऽतिप्राचीनकालादेवात्मनः सत्तामवगमयति ।।
कौमारविषये क्रियाकालगुणोत्तरतन्त्रमुपलभ्यते । तत्र कुमारबाधाकरा ग्रहास्तत्तद्दिनमासवर्षभेदेन पीडाकरा बालग्रहविशेषास्तन्निवारका मन्त्रप्रयोगाः कल्पाः कानिचिदौषधादीनि धात्वादीनि च बहुशो निरूपितानि । तत्र शकुनीरेवतीपूतनाभ्योऽन्येऽप्युपशतं बालग्रहाः, मन्त्रा अपि पौराणिकच्छायोपजीविनः, विधानमालाद्यद्धृतानि स्कन्दमार्कण्डेयपुराणादवाक्यानि, बाल¹चिकित्सामृतकल्याणवर्मकृतबालतन्त्रयोगसुधानिध्यादयोऽर्वाचीननिबन्धग्रन्थाद्यत्वे बालतन्त्रविषये उपलभ्यन्ते । तेष्वपि वर्षमासदिनभेदेन विभिन्ना बालग्रहा इति तेषु क्रियाकालगुणोत्तरे चैकच्छाया प्रक्रियाऽवगम्यते । अस्यां काश्यपसंहितायां तु कतिपये एव ग्रहपूतनादयः, वर्षमासदिनभेदेन विभिन्ना ग्रहा नैव, स्कन्दरेवतीपूतनादिप्राचीननामभिरेव तेषामुल्लेखः, मन्त्रा अपि प्रायो वैदिकच्छायानुविधायिनः, क्वचन (मातङ्गीविद्योपदेशे क रेवतीकल्पे) प्राकृतशब्दगर्भो मन्त्रोपदेशः, भैषज्यविषयोऽपि विभिन्न इत्यनयोर्मियो विभिन्ना प्रक्रिया समुपलक्ष्यते । उभयतो विषयतुलनायां क्रियाकालगुणोत्तरादिनिर्देशेषु विकासावस्थाप्रक्रियाया दर्शनेन तदपेक्षया काश्यपसंहितायां बहुप्राचीनसम्प्रदायावलम्बः समीक्ष्यते । सुश्रुते निर्दिश्यमाना बालग्रहा अप्यविकासावस्थामनुभावयन्ति ।।
रावण²कृतं बालकुमारतन्त्रं दशग्रीवबालतन्त्रं वेत्यभिधीयमानमेकं प्राचीनं बालतन्त्रमुपलभ्यते । अस्य षष्ठसप्तमशताब्द्यां चीनभाषायां विहितोऽनुवादोऽप्यस्तीति श्रूयते । एतद्ग्रन्थविषये Biblio Theque Nationale Paris नाम्नि पुस्तके विशेषतो निरूपितमस्ति तदात्वे तावति दूरे जातानुवादतया ततोऽपि प्राचीनेऽस्मिन् ग्रन्थेऽपि वर्षमासदिनभेदेन व्यवस्थितानां ग्रहपूतनादिप्रभेदानामुल्लेखेन एषा विकसिताऽपि प्रक्रिया नार्वाचीना वक्तुं शक्यत इत्यविकसितपद्धतेस्ततोऽपि प्राग्भावःसुतराम् ।।
१. बालचिकित्सामृतं नाम स्वीयैः 'परकीयैश्च पद्यैर्बालसम्बन्धिरोगौषधानां विहितसङ्ग्रहं कायगतपत्रलिखितं जीर्णप्रायं पुस्तकं नेपालराजकीयपुस्तकालये विद्यते ।
२. अस्मिन् बालतन्त्रे नन्दा सुनन्दा पूतना मुखमण्डिका कटपूतना शकुनिका शुष्करेवता अर्यका सूतिका निर्ऋतिका पिलिपिच्छिका कामुकेति द्वादश मातृका निर्दिष्टाः सन्ति । ग्रन्थलेख एवमादिरूपेण दृश्यते—
उपोद्घातः । १३
बालग्रहरूपेण स्कन्दस्योल्लेखस्तदाराधनविधानं चास्यां संहितायां दृश्यते। स्कन्दस्योपासनाप्रणाली प्राचीना। 'छान्दोग्योपनिषद्रीत्या^१ महाभाष्या^३दिष्वपि स्कन्दस्योल्लेखाेऽस्ति। महाभारते वनपर्वणि स्त्रीणां गर्भनाशकत्वेन बालरक्षाकरत्वेन च स्कन्दस्योल्लेखोऽस्ति। स्कन्दादीनां बालग्रहरूपेणोपवर्णनं महाभारतीयं सुश्रुतोक्तं च प्रायः साम्येन दृश्यते। पारस्कर-गृह्यसूत्रेऽपि नवजातबालकविनाशहेतुतया स्कन्दस्योल्लेखो वर्तते। एतद्विषये श्रीयुतमन्मथमुखोपा^४ध्यायेन विशेषतो वर्णितमस्ति॥
अस्यां काश्यपसंहितायां तत्र तत्रानेके नवीना विषयाविचाराः, रमणीया निरूपणरीतयः, विशेषोपपत्तिदृष्टयश्च प्रतिभासमाना निबन्धस्य प्राचीनार्षोन्मेषगौरवमवगमयन्ति। तथाहि—
दन्तजन्माध्याये (पृ. ११) दन्तानां विभेदाः, तेषां सम्पद्विपत्, कुमाराणां कुमारीणां च दन्तेषु वैशेष्यमित्यादयो दन्तविषयका विज्ञानविशेषा अन्यत्रानुपलब्धा उपलभ्यन्ते॥
स्वेदाध्याये (पृ. २६) स्वेदविषये बहवो विज्ञातव्यविषया निरूपिताः सन्ति। साम्प्रतिकबाष्पस्वेदनादिप्रक्रियापेक्षया एतदीयप्रक्रियायां न विचारन्यूनता वक्तु शक्यते। बालानां स्वेदने मार्मिकी प्रक्रिया च समीक्ष्यते॥
लक्षणाध्याये (पृ. ४७) सामुद्रिकलक्षणानि सविशेषं निरूपितानि, परमन्ते खण्डितानि। लक्षणप्रकाशोद्धृतपाराशर-संहितायामप्येतादृशान्येव प्रौढानि सामुद्रिकलक्षणानि वर्तन्ते। त्रुटितांशस्य विषयस्तत एवाध्यवसेयः॥
रोगे उपद्रवान्तरोत्पत्तौ पूर्वरोगस्योपद्रवस्य वा केवलं प्रथमप्रतीकारमतमननुमान्य तीव्रतरमुपक्रम्योभयोर्हिते प्रतीकारे स्वमतमुपदर्शितम् (पृ. ३९)॥
प्रसवविलम्बे परोक्तस्य व्यायाममुसलघातादिपक्षस्य सयुक्तिकं निरसनम् (पृ. ८५)॥
अतिबालेषु अश्मर्युद्धरण-तीक्ष्णौषधादिप्रयोगेषु मार्मिकी अनुज्ञा (पृ. १२२)॥
बस्तिकर्मणो बालकादिषु सुप्रयुक्तस्य अमृतस्थानीयस्य भिषक्पितृबालकादीनां सर्वेषां श्रेयस्करत्वं, दुष्प्रयुक्तस्य तु अनर्थावहत्वमिति बालके कस्मात् समयादारभ्य बस्तिकर्मेत्यत्र बहुनामाचार्याणां स्वस्य च मतोपन्यासेन गभीरो विचारः। (पृ. १४७)॥
बालानां फक्करोगे त्रिचक्ररथोद्भावनम् (पृ. १४१)॥
एकनाभिकयोः कस्मात् तुल्यं मरणजीवितम्। रोगारोग्यं सुखं दुःखं न तु तृप्तिः समानजा।।
इत्यादिना यमलविषये विचित्रः प्रश्नविशेषः, सोपपत्तिकं चोत्तरम् (रेवतीकल्पे श्लो. ६२)॥
प्रथमे दिवसे मासे वर्षे वा गृह्णाति नन्दना नाम मातृका। तथा गृहीतमात्रेण प्रथमं भवति ज्वरः, अशुभं शब्दं मुञ्चत्यात्कारं च करोति, स्तन्यं न गृह्णाति। बलिं तस्य प्रवक्ष्यामि येन संपद्यते शुभम्। नद्युभयतटमृत्तिकां गृहीत्वा पुत्तलिकां कृत्वा शुक्लौदनं, शुक्लपुष्पं, शुक्लाः सप्तध्वजाः, सप्तप्रदीपाः, सप्तस्वस्तिकाः, सप्तवटकाः, सप्तशष्कुलिकाः, सप्तजम्बूफलानि, सप्त मुष्टिकाः, गन्धाः, पुष्पं, ताम्बूलं, मत्स्यमांसं, सुराग्रभक्तं च पूर्वस्यां दिशि चतुष्पथे मध्याह्ने बलिर्देयः, ततोऽश्वत्थपत्रं कुम्भे प्रक्षिप्य शान्त्युदकेन स्नापयेत्। रसोन्सिद्धार्थकमेषशृङ्गनिम्बपत्रशिवनिर्माल्यैर्बालकं धूपयेत्। ॐनमो रावणाय अमुकस्य व्याधिं हन हन मुञ्च मुञ्च हीं फट् स्वाहा। एवं दिनत्रयं बलिं दत्त्वा चतुर्थे दिवसे ब्राह्मणं भोजयेत्, अतः सम्पद्यते शुभम्।
१. भगवान् सनत्कुमारस्तं स्कन्द इत्याचक्षते (छान्दोग्ये)।
२. सेनानीनामहं स्कन्दः (भगवद्गीतायाम्)।
३. 'जीविकार्थे चापण्ये' इति सूत्रव्याख्याने महाभाष्ये शिवः स्कन्द इति॥
४. Indian Historical Quarterly Vol 7. P. 309.
| ९४ | काश्यपसंहिता वा वृद्धजीवकीयं तन्त्रम् |
|---|
विषमज्वरनिर्देशाध्याये तृतीयचतुर्थादिज्वराणां तत्तद्दिनाविर्भावे सम्भवन्तीनामुपपत्तीनां वर्णनमस्ति (खिलस्थाने अ. १)॥
बालकानां षष्ठे मासि सर्वैराचार्यैरन्नप्राशनस्य विधानेऽपि एतदीयाचार्येण तत्संस्कारविधानं निर्दिश्य षष्ठे मासि फलप्राशनमात्रं, द्वादशमासिकस्यान्नमभिलषतोऽल्पशोऽन्नभोजनमितिअनुपचिताग्निबलस्यातिशिशोः मृदुपाकेन फलरसेनैवोपयोगः, संवत्सरोत्तरमेवान्नोपयोगः कीर्त्यते । आधुनिकैः पाश्चात्त्यवैद्यकनिष्णांतैरपि एवमेवातिबालेषु फलोपयोगो वर्षोत्तरमेवान्नोपयोगः साधीयस्त्वेन कीर्त्यते (खिलस्थाने अ. १३)॥
वेदनाध्याये वाचा स्वेवेदनां प्रकटयितुमशक्तानां बालानां तत्तच्चेष्टाविशेषैस्तत्तद्रोगाणां तत्तदङ्गवेदनानां च आनुमानिकविज्ञानवर्णनम् (पृ. ३३)॥
रोगाणां विज्ञानोपायाः निदानपूर्वरूपरूपादयः चरकसंहितायां विमानस्थाने चतुर्थाध्याये—
‘आप्ततश्रोपदेशेन प्रत्यक्षकरणेन च । अनुमानेन च व्याधीन् सम्यग् विद्याद्विचक्षणः’ ।।
इति प्रत्यक्षादयस्तद्विज्ञानोपायाः प्रदर्शिताः । सुश्रुतेनापि दर्शनस्पर्शनप्रश्नादय उपाया उल्लिखिताः । तेन प्राचीने सम्प्रदाये दर्शनस्पर्शनप्रश्नादिभिर्निदानादिपञ्चरूपाणि विविच्य रोगपरिज्ञानं निर्दिश्यते । नाडीविज्ञानस्योल्लेखश्चरकसुश्रुतादिषु प्राचीनग्रन्थेषु अस्यां काश्यपसंहितायामपि न निर्दिष्टः । नाडीपरीक्षाया अर्वाचीनग्रन्थेष्वेव निर्देशोपलम्भेन स एष विषयः पश्चात्काले प्रचलितोऽवगम्यते । नाडीविज्ञानस्य भारताच्चीनोपगमनं भारतीयमेवेदं विज्ञानमित्यपि मतमस्ति । सेयं प्रक्रिया भारत एवोद्भूता देशान्तरसम्प्रदायच्छायया वाऽत्र प्रचलितेति विचारो विषयान्तरत्वादास्तां तावत् । यथा तथापि प्राचीनग्रन्थेष्वेतस्य विषयस्यानुल्लेखेन पूर्वकालिकत्वं समर्थयितुं प्रमाणान्तरमपेक्ष्यते । बालकविषये तु अतिबालकानां वाक्शक्तिवैकल्येन यथावदवबोधनाक्षमतया तदीयचेष्टाविशेषै रोगविज्ञानस्य प्रक्रियाऽपि अस्यां काश्यपसंहितायां वेदनाध्याये (पृ. ३३), अन्यत्रापि तत्र तत्र वर्णिता दृश्यते ।।
प्राचीनाचार्याः सूक्ष्मविचारशक्त्युन्मिषितदृष्टयो येषु येषु विषयेषु प्रवर्तन्ते तत्र तत्रान्तस्तलपर्यन्तमवगाह्य मार्मिकैरूपन्यासैरुपदेश्यान्यथावदवबोधयन्ति । कौमारभृत्यविषये प्रवृत्तेन कश्यपेन आचार्यान्तरीणसर्वसाधारणविषया इव बालकेष्वतिबालकेषु चोपयोगिनोऽनेके विषयाः सम्यक् सूचिता उपलभ्यन्ते ।।
वातपित्तकफानां त्रयाणां दोषाणां निर्देशो वैदिके लेखेऽप्युपलभ्यते । ऋग्वेदे–‘त्रिधातु शर्म वहतं शुभस्पति’ इति त्रिधातुशब्दोल्लेखोऽस्ति । यः शब्दो वातपित्तकफरूपत्रिदोषपरत्वेन सायनाचार्येण व्याख्यातः। ब्रूमफिल्डविदुषाऽपि तदेवाङ्गीकृतम् । जीमरप्रभृतिभिः कैश्चिदन्य एवार्थो विहितः । किन्तु अथर्ववेद उपलभ्यमानेषु वातगुल्मवातीकृतेत्यादिपदेष्वर्थान्तरस्यासङ्गत्त्या सर्वत्रैकरूप्यस्यौचित्येन त्रिदोषपरत्वमेव संगच्छेते नार्थान्तरम्' इत्युल्लिखितं पी. सी. राय¹महोदयेन । ग्रन्थेष्वप्यात्रेयसुश्रुतकश्यपादित आरम्भाद्यपर्यन्तमपि भारतीयप्रक्रियायां त्रिदोषपद्धतिधाराप्रवाहगत्याऽनुवर्तते । सुश्रुते वातपित्तकफानां त्रयाणां धातूनां दोषाणां वा देहसम्भवे रोगोत्पत्तौ वा हेतुत्वपक्षो बहुशो निर्दिष्टः । सुश्रुते क्वचन त्रिदोष ²पक्षस्यैकीयत्वेनोल्लिख्य रक्तस्यापि चतुर्थहेतुभवो निर्दिष्टः । पूर्वकालिके महावज्रस्य प्राचीनबौद्धवैद्यकग्रन्थे बावरोपलब्धनवनीतादिग्रन्थेषु त्रिदोषप्रक्रियैवावलम्बिता दृश्यते । जीवकचिकित्साप्रक्रियायां महावग्गे विनयपिटकेऽपीयमेव त्रिदोषपद्धतिरुपात्ता दृश्यते । कात्यायनीयवार्तिकेऽपि
१. हिष्ट्री ऑफ् हिन्दु केमिष्ट्री Vol I भूमिकायां Pxxxv. पी.सी.राय.
२. वातपित्तश्लेष्माण एव देहसंभवहेतवः तैरेवाव्यापन्नैरधोमध्योर्ध्वसन्निविष्टैः शरीरमिदं धार्यतेऽगारमिव स्थूणाभिस्तिसृभिरतश्च त्रिस्थूणमाहुरेके । त एव व्यापन्नाः प्रलयहेतवः । तदेभिरेव शोणितचतुर्थैः संभवस्थितिप्रलयेष्वप्यविरहितं शरीरं भवति । सुश्रुते सूत्रस्थाने २१ अध्याये ।।
उपोध्दातः | ९५
वातपित्तकफानां समभिव्याहारो दृश्यते। B. C. 460 वर्षपूर्वभवस्य हिपोक्रिटसनाम्नः प्राचीनपाश्चात्यवैद्यजन्मनोऽपि पूर्वं भारते त्रिदोषपद्धतिः परिनिष्ठिताऽऽसीत्। तदीयवैद्यकविज्ञाने पित्तकफरक्तजलानां चतुर्णां दोषतया प्रदर्शनमपि भारतीयप्राचीनत्रिदोषपद्धतेर्वासनयोपरक्ते तन्मनसि सौश्रुतविज्ञानप्रगत्या विचारविकासं उन्नीयते॥
अत्रेदं प्रतिभाति—प्राग्विज्ञाने स्पष्टं पार्थक्येन सर्वानुस्यूततयाऽवगम्यमानौ 'अग्निः सोमश्च उष्णं शीत'श्च वा मौलिके तत्त्वे अवभासतः। येन वैदिक्यां यागप्रक्रियायामस्यादित एवारभ्याग्नीषोमयौः पर्युपासनाऽनुवर्तते। शारीरिक्यां परिस्थित्यामपि शीतोष्णभावेन सोमाग्निरूपयोः शुक्रशोणितयोदहसम्भवहेतुतया तदनुषङ्गेणाग्नीषोमीयत्वं गर्भस्य सुश्रुतेऽपि निर्दिष्टमस्ति। वायोस्त्वेतद्द्वययोगभावितया तदन्यतरान्तः-प्रवेशेऽपि अर्थक्रियाविशेषविकासदृशा सत्त्वरजस्तमांसीवाग्निवायुसोमात्मकतया वातपित्तकफास्त्रयो धातवो देहधारतया विकारेण दोषतामापद्य रोगजनकतया च प्राचीनायुर्वेदविद्भिर्निर्धारयन्त, तन्मूलिकैवेयं त्रिदोषपद्धतिः कश्यपात्रेयभेदादिभिः प्रत्नाचार्यैरूपादीयत च। यथा यथा क्रमशो विचारविशेषोन्मेषः, तथा तथा नवनवानि तत्त्वान्यपि पुरःस्फुरन्ति। अतः किल सुश्रुताचार्येण बहुशो वातपित्तकफानां त्रयाणां दोषाणां निदानतामभ्युपगम्यापि प्रथमकक्ष्यायां त्रयाणामेषां दोषत्वेऽपि द्वैतीयिक्यां कक्ष्यायां विकृतेन रक्तेनापि बह्नर्थोद्भवस्य विमर्शे तेषां त्रयाणामिव चतुर्थस्य रक्तस्यापि व्रणादौ प्राधान्यवाद उपदिष्टः। हिपोक्रीटसविदुषो वैद्यकविज्ञाने पित्तकफरक्तजलानां चतुर्णां दोषतया प्रदर्शनमपि भारतीय-प्राचीनत्रिदोषपद्धतेर्वासनयोपरक्ते तन्मनसि सौश्रुतविज्ञानप्रगत्या विचारविकासं उन्नीयते। तदेवं विचारविकासः कालानुक्रमेण पुरातनपद्धतेरेव परिष्कारं द्रढयति॥
काश्यपसंहितायां कल्पस्थाने (लशुनकल्पे) कौतुककारी महीयांल्लशुनकल्पप्रयोगोऽप्यस्ति। चीनदेशान्तर्गते कासगरनामकस्थाने बौद्धस्तूपेन सह बावरनामकेन पाश्चात्यान्वेषकेण भूगर्भादुपलब्धेषु सप्तग्रन्थेषु त्रयो वैद्यकग्रन्थाः, येषु नावनीतकं नामैकः, द्वितीयो लशुनस्य विशेषगुणगौरवावबोधको ग्रन्थः, तृतीयश्च ७२ श्लोकात्मको नानायोगौषधनिरूपको लेखः। एषां लेखसमयेऽपि प्राचीने तदीयरचनाकालस्ततोऽपि प्राचीन इति पूर्वमुक्तमेव। मुद्रिते नावनीतकेऽपि आदितः सविस्तरं काशिराजेन सुश्रुतायोपदिष्टं लशुनविधानमस्ति। तत्र लशुनस्योत्पत्तौ कथन प्रयोगांशेषु विभेददर्शनेऽपि काश्यपीयलशुनकल्पीयप्रयोगच्छाया बहुत ईक्ष्यते। भाषारचनालोचनेऽपि नावनीतकलेखात् काश्यपीयलेखे प्राग्भावः स्फुरति। चरकसंहितायामपि लशुनोपयोगोऽस्ति। इत्थं पुरा कालभैषज्यग्रन्थेऽप्युपलभ्यमानो लशुनोपयोगोऽर्वाग्भावशङ्कायै न प्रभवति। लशुनं हि स्वगुणगौरवेण केवलं रसेन ऊनमित्वन्यर्थतया रसोनमित्युच्यते। भेषजेषु विशेषतो गीयते चायुर्देवे। धार्मिकदृष्ट्या स्मृतिग्रन्थेषु लशुनं द्विजेभ्यो विगीयतां नाम, भैषज्यग्रन्थेषु गुणगौरवेण किन्न प्रशस्यताम्। अस्यां काश्यपसंहितायां पुराकाल एवामृतोद्गारालशुनस्योत्पत्तिमभिधाय स्थानदोषेण दुर्गन्धमिदं द्विजैरग्राह्यमिति धर्मशास्त्रमर्यादां स्पष्टमुल्लिखँल्लोकोपकारदृशा तस्य गुणमहिमानं कल्पं च निरूपयामास तत्कल्पाध्याये महर्षिः कश्यपः। जातिविशेषैरभक्ष्याणां सुरादीनां सर्वेषु निषिद्धानां हस्तिमांसरखरमूत्रादीनामपि गुणविचारेण तत्र तत्र रोगेषूपयोगोल्लेखा आर्षेष्वपि भैषज्यगुणेषु बहुश उपलभ्यन्ते। नैतावता तेषामुपदेशकानां धर्ममार्गपरित्याग इति न वा धर्मदृढव्रतैरप्युपादेय इत्यपि शङ्कनीयं भवति। उक्तमेव—
'न शास्त्रमस्तीत्येतावत् प्रयोगे कारणं भवेत्। रसवीर्यविपाका हि श्वमांसस्यापि वैद्यके' ।
(वात्स्यायनीये कामसूत्रे सां.अ.अ. २)
इति। श्येनयागस्य हिंसारूपतयाऽनुपादेयत्वेऽपि तद्दोषमङ्गीकृत्याभिचारेणैहिकं सदुदर्कं कामयतामिष्टसाधनाय 'श्येनेनाभिचरन् यजेत' इति श्रौतमपि विधानमुपलभ्यत एव। 'यो हि हिंसितुमिच्छेत् तस्यायमभ्युपायः' इति शबरस्वामिभिरेतत् समर्थितं
१. आर्तवं शोणितं त्वाग्नेयं, अग्नीषोमीयत्वाद् गर्भस्य (सुश्रुते सूत्रस्थाने अ. १४)
२. तच्च वीर्यं द्विविधमुष्णं शीतं च, अग्नीषोमीयत्वाज्जगतः (सुश्रुते सूत्रस्थाने अ. ४०)
९६ | काश्यपसंहिता वा वृद्धजीवकीयं तन्त्रम्
च । लशुनस्योल्लेखो गौतमधर्मसूत्रे (१५. ३०), मनुस्मृतौ (५. ५, १९), याज्ञवल्क्यस्मृतौ (१. १७६) महाभारते (८. २०३४, १३. ४३६३) अप्यस्ति ॥
हिङ्गुप्रयोगदर्शनमपि नार्वाचीनत्वशङ्कायै प्रभवति । यतो हिङ्गु बहोः कालात् पूर्वत उपादीयते भारतीयग्रन्थेषु । धार्मिकग्रन्थेष्वपि श्राद्धादौ हिङ्गु पितृप्रियमित्युल्लिख्यते । चरकसुश्रुतयोः काश्यपीये तत्र तत्रौषधेषु तत्सहयोगो वर्ण्यते । काश्यपीयादौ हिङ्गुवाचकत्तया बाल्हीकशब्दोऽपि प्रयुज्यते । तेन बाल्हीकाद्देशान्तरादस्य भारतीयैः परिचय उपयोगो वा विहितः स्यात् । येनास्य तद्देशनाम्नाऽपि व्यवहार इति प्रतिभाति । परं भारतस्य बाल्हीकदेशस्य च मिथः सम्पर्कस्तदीयवैद्यानां च परिचयः पूर्वकालादेवासीदिति आत्रेयकश्यपादिभिरपि बाल्हीकभिषजः काङ्कायनस्य नामनिर्देशेन बाल्हीकानां पुनः पुनरुल्लेखेन च विज्ञायते । बाल्हीकदेशस्तु यवनानामाक्रमणात् प्रागपि इरानियजातीयानां साम्राज्ये प्रतिष्ठितो बलखप्रदेशः । तदात्वे तत्रत्याया इरानजातेः समुन्नतिसमये तदीयभिषां तदौषधानां च भारतीयपुरातनग्रन्थेषूपादानं सङ्गच्छते च ॥
भावप्रकाशे पारसीकयवान्या उल्लेखेन पश्चात्तनदेशान्तरवस्तूपादानदर्शनेऽपि चरकसुश्रुतकाश्यपीयादिप्राचीनग्रन्थेषु न तथोल्लेखोऽस्ति । किन्तु यवानीशब्दमात्रस्य निर्देशोऽस्ति । यवानीशब्दस्तु न यवनशब्दान्निष्पन्नो न वा यवनसम्बन्धाभिधायी । इन्द्रव^१रुणेतिसूत्रे यवशब्दे द्यवानीशब्दो निष्पाद्यते पाणिनिना । वार्तिककृता कात्यायनेन ‘यवाद्दोषे’ इति दुष्टयवार्थे स शब्दः स्त्रियां साध्यते । अतोऽयं भारतीय एव प्राचीनो यवानीशब्दोऽपि नान्यथा शङ्कायै प्रभवति ॥
अत्र देशविशेषनिर्देशः
एतत्पुस्तकस्योपलभ्यमानान्तिमपत्रगते देशसात्म्याध्याये (खिलस्थाने) देशविशेषेण रोगविशेषान् निदर्शयितुं तदात्वे एतद्विद्यासमुन्मेषाद्विदृशाकिल प्रसिद्धं कुरुक्षेत्र मध्यदेशं प्रकल्प्य तदनुसारेण पूर्वादिंगतानां देशविशेषाणामुल्लेखोपक्रमो दृश्यते । यदि नामायमध्यायः साकल्येनोपालप्स्यत तदान्येऽपि बहवो देशास्तादात्विका अवागमिष्यन्त । परमेतावत्येवास्य पुस्तकस्य विच्छेदेन क्षुधितस्यार्धकेवल एव प्रतिरोध इवोत्कलिका बलान्निगृहीतव्या भवति । अन्त्यभागविलोपेन तत्रोल्लिखितानां पश्चिमोत्तरदेशानामपरिज्ञानेऽपि पूर्वदिग्गताः दक्षिणदिग्गताश्च कतिपये देशा विज्ञायन्ते । यद्यपि पूर्वदक्षिणगता अपि प्राचीनाः सर्वे देशा नोल्लिखिताः, अपितु रोगोचिता एव केचनोल्लिखिता भवेयुः । तेष प्रियङ्गु-नवध्वान-वानसी-मुकुद-विवहे-घटानामुपलभ्यमानग्रन्थान्तरेषु संवादकनिर्देशालाभेनानिर्धारणेऽपि तत्सहचरितानामधो निर्दिष्ठानां देशनाम्नां प्राचीनत्वेन विज्ञायमानतया सर्वाणीमानि प्राचीनकालाद्व्यवहृतान्यवगम्यन्ते । अधस्तनानि देशनामानि प्राचीनपरिचयेन सह श्रीयुतकनिड्ङ्गाम^२विदुषा श्रीयुतनन्द^३लालमहोदयेन श्रीयुत E. J. ^४Rapson महाशयेन स्वीयप्राचीनभौगोलिकग्रन्थेषु निर्दिष्टान्युपलभ्यन्ते ॥
मध्ये—कुरुक्षेत्रप्रदेशः—शतयोजनमितः । स तु सर्वत्र प्रसिद्धः ।
पौरस्त्यदेशाः—
कुमारवर्तनीः—महाभारते (सभा. अ. २९) कुमारदेशस्योल्लेखोऽस्ति । सोऽयं रीवासमीपगतः कुमारदेश इत्युच्यते ॥
कटीवर्षः—अद्यत्वे वङ्गदेशे वर्धमानप्रान्ते वर्तमानः कटवाप्रदेशोऽयमित्युच्यते ।
मगधः—ऋग्वेदोऽथर्ववेदे च मगधदेशस्योल्लेखदर्शनेनास्य पुरासमयादेव स्वनाम्ना प्रसिद्धिरुपलभ्यते । मागधस्योल्लेखस्तैत्तिरीयब्राह्मणे (३. ४. १. १), जैमिनीयब्राह्मणे (१६५) अप्यस्ति ॥
१. इन्द्रवरुणभवशर्वरुद्रमृडहिमारण्ययवयवनमातुलाचार्याणामानुकू (पा.सू. ४-१-४९)
२. Ancient Geography of India.
३. Geographical Dictionary.
४. Ancient India (Cambridge History of India Vol. I).
उपोद्घातः ९७
ऋषभद्वीपः—महाभारते (वनपर्व. अ. ८५) ऋषभस्योल्लेखाेऽस्ति । बृहत्संहितायामपि दक्षिणतः ऋषभो निर्दिष्टोऽस्ति । मदुरासन्निहितः ऋषभपर्वतप्रदेशः इति केचन वदन्ति । परं पूर्वदेशस्थित एव ऋषभद्वीपोऽस्याभिमतः स्यात् ।।
पौण्ड्रवर्धनकम्—पुण्ड्रवर्धनमप्येतदेवोच्यते । पुण्ड्रदेशत्य राजधानीयमासीत् । हरिवंश-पद्म-ब्रह्माण्डपुराणादिषु वासुदेववृपते राजधानीत्वेन निर्दिश्यते च । सोऽयमद्यत्वे मालदाप्रान्तगतपाण्डुवाप्रदेशः कथ्यते । महाभारते भीमदिग्विजय पूर्वस्यां पुण्ड्रदेशः, वराहसंहितायां पौण्ड्रदेश उल्लिखितोऽस्ति । श्रीयुतपार्जिटरमहोदयः पुण्ड्रं पौण्ड्रं च भिन्नौ स्वीकृत्य पुण्ड्रो गङ्गाया उत्तरतोऽङ्गवङ्गयोर्मध्ये, पौण्ड्रो गङ्गाया दक्षिणतो वर्तमानसन्थालपरगनान्तर्गतवीरभूमप्रदेश इति निरूपयति ।
मृत्तिकावर्धनमानकम्—सोऽयं वर्धमानदेशः सम्भाव्यते । मार्कण्डेयपुराणवेतालपञ्चविंशत्यादिषु विन्ध्यस्योत्तरतः, देवीपुराणे (अ. ४६) वङ्गसमीपे वर्धमानदेश उल्लिखितोऽस्ति ।।
कर्वटम्—महाभारते भीमदिग्विजय पूर्वस्यां कर्वटदेशस्योल्लेखाेऽस्ति । बृहत्संहितायामप्यस्य निर्देशोऽस्ति ।।
मातङ्कम्—युक्तिकल्पतरौ कामरूपस्य दक्षिणपूर्वतौ मातङ्ग देशो रत्नखनितया निर्दिष्टोऽस्ति ।।
ताम्रलिप्तम्—महाभारते (भीष्म. अ. ९, सभा. अ. २९) भीमसेनदिग्विजय बृहत्संहितायामन्येषु पुराणबौद्धग्रन्थदशकुमारचरितादिष्वपि निर्दिष्टमस्ति । ह्युन्सङ्गेनाप्येतदुल्लिखितम् । अशोकशिलालेखेऽपि निर्दिष्टमस्ति । सोऽयं वङ्गीयमेदिनापुरप्रान्तगतः तमलूकनाम्ना प्रसिद्धोदेशोऽवगम्यते ।।
चीन¹कम्—चीनदेशस्योल्लेखो महाभारते (सभा. अ. ५१) मनुस्मृतौ (१०-४४) चास्ति । साहित्यपरिषत्पत्रिकायां चीनशब्दो वर्तमानस्य अनामा (Annama) देशस्य बोधकतया दर्शितः । कौशेयवस्त्रस्य चीनांशुकत्वेन पुराकालात्प्रसिद्धिः, बर्माप्रदेशे विशेषतःकौशेयवाणिज्यं तत्प्रदेशस्य चीनराज्यत्वमप्यासीत् । चीनकेतिकप्रत्ययान्तशब्देन लघुचीनरूपः स प्रदेशो बोधितः प्रतिभासते ।।
कौशल्यम्—कोशलदेशः उत्तरकोशलदेशश्च रामायणे (उत्तर. अ. १०), पद्मपुराणे (उत्तर. अ. ६८), अवदानशतकादिषु च निर्दिष्टोऽस्ति ।।
कलिङ्गम्—महाभारते (वन. अ. ११३) सहदेवदिग्विजय, बृहत्संहितायां, अशोकशिलालेखेऽप्युल्लिखितमस्ति । महाभारतसमये उत्कलस्य बहवो भागाः कलिङ्गराज्यान्तर्गता आसन् । कालिदाससमये कलिङ्गोत्कलौ भिन्नाव्वास्ताम् (रघुवंशे ४) ।।
दाक्षिणात्यदेशाः—
काञ्ची—महाभारते (भीष्म. अ. ९) पाद्मे (उत्तर अ. ७४) अपि उल्लिखिताऽस्ति महाभाष्येऽपि चीरचोलकाञ्चीनामुल्लेखाेऽस्ति । द्रविडचोलदेशस्य राजधान्यासीत् । अद्यत्वेऽपि काञ्ची (काञ्जीवरम्) प्रसिद्धैव ।।
कावीरम्—सोऽयं कावेरीनदीपरिसरप्रदेशः सम्भाव्यते । कावेर्या उल्लेखः स्कन्दपुराणादिषु दृश्यते । कालिदासेनापीयमुल्लिखिता (रघु. ४)ऽस्ति ।।
चिरिपाली—त्रिचिनापल्लया लौकिकं नामान्तरं भाति । रावणसेनापतेस्त्रिशिरोनामकस्य नाम्ना पूर्वं त्रिशिरः पल्लीति नामासीत् । तस्य एव समयवशेन त्रिचिनापल्लीति नाम्ना प्रसिद्धिरभूत् । अस्या एव समयवशेन उरगपुरं निचुलपुरमियपि नामान्तरं बभूव । पूर्वं पाण्ड्यानां चोलानां चेयं राजधान्यासीत् ।।
१. अस्यां संहितायां सचीरकमितिपाठे (खिल.अ. २५) मुद्रितेऽपि चीरस्य दक्षिणतः पश्चाद्वक्ष्यमाणतया, पूर्वतश्चीनस्यौचित्येन, प्राचीनलिप्यां नकारस्य रेफपाठसंभवेनापि सचीनकमित्येव युक्तं प्रतिभाति ।।
| ९८ | काश्यपसंहिता वा वृद्धजीवकीयं तन्त्रम् |
|---|
चीरराज्यम्—चीरदेशो महाभाष्येऽप्युल्लिखितः । चीरशब्दः केरलपुत्रशब्दस्यापभ्रष्टसंक्षिप्तलूपान्तरमुच्यते । सोऽयमद्यत्वे मैसूरराज्येऽन्तर्भवति ॥
चोरः—चोरः चोल इत्येक एव । अशोकशिलालेखे चोडशब्देन व्यवहारोऽस्ति । काञ्चीपुरनृपतेश्चोलनाम्नोऽभिधानेन तन्नामासीत् । पद्मपुराणे चोलस्य द्रविडदेशे उल्लेखोऽस्ति । पाणिनीयगणपाठेऽपि देशवाची चोलशब्दो दृश्यते । बृहत्संहितायामप्युल्लिखितोऽस्ति । सोऽयमद्यत्वे कारोमण्डलप्रदेशेऽन्तर्भवति ॥
पुलिन्दः—महाभारते सहदेवदिग्विजये दक्षिणतः पुलिन्दस्योल्लेखाऽस्ति । अशोकशिलालेखेऽपि दृश्यते । नर्मदातटे विन्ध्यगिरेर्मध्यदेशे पुलिन्ददेशः स्मिथ महोदयेन प्रदर्श्यते । तारासन्त्रे कामरूपोत्तरभागे, महाभारते वनपर्वणि हरिद्वारोत्तरपश्चिमप्रदेशोऽपि पुलिन्दोल्लेखेन पुलिन्दजातिमादायान्यत्रापि प्रयोगो ज्ञायते । हिमालयप्रान्तगतजातिषु पुलिन्दशब्दः पश्चात् प्रायुज्यतेति स्मिथ महोदये निरूपयति ॥
ड्रु(द्र)विडः—महाभारते वनपर्वणि, वराहसंहितामनुस्मृत्यादिष्वप्युल्लिखितोऽस्ति । मद्रासतः कन्याकुमारीपर्यन्तो देशो द्रविडनाम्ना व्यवहृत आसीत् । बूलरमहाशयो द्रविडस्यैव चोल इति नामान्तरं वक्ति ॥
करघाटः—महाभारते (सभा. अ. ३१) सहदेवदिग्विजये दक्षिणतः करहाटकदेशस्योल्लेखाऽस्ति । स्कान्दे सह्याद्रिखण्डे काराष्ट्रदेशस्य राजधानी निर्दिष्टाऽस्ति । भाण्डारकरमहोदयेनापि (E. H. D.) पुस्तके एव देशो वर्णितोऽस्ति । अद्यत्वे कराड इति प्रसिद्धः स देशो विज्ञायते ॥
कान्तारम्—महाभारते सहदेवदिग्विजये दक्षिणतः कान्ता रकदेशस्योल्लखोऽस्ति । अरण्यकमप्येतदेवेति वदन्ति । महाभारते (सभा. अ. ३१), देवीपुराणेऽप्यरण्यस्योल्लेखोऽस्ति । सोऽयं देशोऽद्यत्वे औरङ्गाबादप्रदेशो दक्षिणकोङ्गणं च । तत्रत्या राजधानी तगर इत्यासीत्, येदानीं दौलताबादनाम्ना निर्दिश्यते ॥
वराहः—वितस्ताया दक्षिणतो वराहावत रस्थानस्य वराहमूलकत्वेन प्रसिद्धिरिव कौशिकीतीरे नेपालपरिसरप्रदेशे वर्तमानस्य कोकामुखतीर्थस्थानस्य वराहक्षेत्रतया पूर्वसमयात् प्रसिद्धिरस्ति । वराहपुराणेऽप्यस्य महिमा गीयते । परमंत्र दाक्षिणात्यदेशेषु गणितस्य वराहस्य पाश्चात्त्यपौरस्त्यदेशयोस्तयोरसङ्गमनीयतया दक्षिणतोऽवस्थितमन्यमेव पुरा प्रसिद्धं वराहदेशमभिप्रेत्यसौ शब्दः । यः साम्प्रतं 'वरार' नाम्ना निर्दिश्यते स एव किमु ? ॥
आभीरः—गुर्जरदेशस्य दक्षिणपूर्वभागस्थो नर्मदामुखप्रदेश आभीरनाम्ना व्यवहृत आसीत् । अयमेव ग्रीकैः Abira इत्यभ्यधीयत । महाभारते (सभा. अ. ३१) समुद्रसन्निधौ सोमनाथसन्निहितगुर्जरदेशीयसरस्वतीतीरे आभीरा निर्दिष्टाः । गुर्जरस्य दक्षिणतः सूरतप्रदेशोऽप्याभीरदेशे मिलित आसीदित्यपि कस्यचिन्मतम् । तारासन्त्रे कोङ्कणदक्षिणतस्तापतीपश्चिमतटपर्यन्तमाभीरो निर्दिष्टः । ल्यासनमहोदयो वायविले निर्दिष्ट आफ्रीर (Offir) देश एवाभीर इति मन्यते । भारतस्य पश्चिमतस्तापतीतो देवगढपर्यन्तो देश आभीर इति इलियमह महोदयस्य मतम् । वन्क्रिडमहोदयः सिन्धुनदस्य पूर्वत आभीरं मन्यते । विष्णु— (अ. ५) ब्रह्माण्डपुराणयोराभीरदेशे सिन्धुनद्या उल्लेखोऽस्ति । आभीरशब्दस्य जातिवाचकताया तन्निवासमादायान्येऽपि देशा आभीरनाम्ना व्यवहृताः सन्तु नाम । अत्र कुरुक्षेत्रं मध्ये कृत्वा दक्षिणतो वर्ण्यमान आभीरदेशो गुर्जरप्रान्तीयः सम्भवति । यत्र भिल्लाः साम्प्रतमपि निवसन्ति । बृहत्संहितायामपि दक्षिणनैर्ऋत्यभागे आभीरदेशो निर्दिष्टोऽस्ति ॥
एवमुल्लिखिता इमे देशाः प्राचीना एव विज्ञायन्ते । अत्र मगधासु महाराष्ट्रमिति मगधस्य महाराष्ट्रत्वेन निर्देशः कौशल्यदेशस्योल्लेखश्चास्ति । कोशलदेशः B. C. 400 समये मगधराज्याङ्गभूत उपवर्ण्यते । बुद्धसमये कोशलदेशस्य प्रतिष्ठाऽप्यासीत् । मगधे महाराष्ट्रपरिस्थितिमौर्यैभ्यः पूर्वं नन्दकाले बुद्धकालिकशिशुनागवंशीया-जातशत्रुसमयेऽपि R. D. व्यानर्जीमहोदयैः, H. R. चौधरीमहोदयैरपि स्वीये प्राचीनभारतपुस्तके वर्णिताऽस्ति । कोशलस्य पृथगुल्लेखेन पाण्ड्यदेशस्याकीर्तनेन सह मगधे महाराष्ट्रभावोल्लेखोऽयं बुद्धकालिकीं परिस्थितिं सूचयति । वात्स्येन पूरिते खिलभागे एवं दर्शनेन, वात्स्यीये
उपोद्घातः ९९
प्रतिसंस्करणे उत्सर्पिण्यवसर्पिणी श्रमणनिर्ग्रन्थशकपल्लवहूणादिसंशयावहशब्ददर्शनेननापि वात्स्यस्य बुद्धेन सहसामयिकः सन्निकर्षोऽनुमीयते ॥
अत्रैव पूर्वभागे भोजनकल्पाध्याये—(श्लो. ४०-५१)ऽपि केषाञ्चिद्देशानां नामान्युल्लिखितानि सन्ति । तेषु कतिपयानां प्रसिद्धानां कुरु-कुरुक्षेत्र-नैमिष-पाञ्चाल-कोशल-शूरसेन-मत्स्य-दशार्ण-शिशिराद्रि-(हेमाद्रि) विपाशा-सारस्वत-सिन्धु-सौवीर-काश्मीर-चीना-ऽपरचीन-खश-बाह्लीक-काशी-पुण्ड्राऽङ्ग-वङ्ग-कलिङ्ग-किरातादिदेशानां महाभारतादिषु प्राचीनग्रन्थेष्वप्युपलम्फेन प्राचीनत्वमेवावधार्यते । अन्येषां माणीचर-हारीतपाद-दासेरक-शातसार-रामण-काचा-ऽनूपकपट्टनानां तु नामान्यप्यन्यत्र न सुलभानीत्यप्रसिद्धा एते देशा अपि पुराकाल एव व्यवहृता ज्ञायन्ते । एते देशाः कुत्रत्याः पश्चिमोत्तरप्रदेशस्था वेति विचारयन्तु विद्वांसः । खलगते देशोल्लेखे महाराष्ट्रत्वेन निर्दिष्टोऽपि मगधोऽत्र नाम्नाऽपि न निर्दिष्टः । कोशलस्तूल्लिखितोऽस्ति । अन्येऽपि तत्रोल्लिखिताः केचन देशविशेषा अत्र न निर्दिष्टाः । प्रत्युत पूर्वत्वेन निश्चीयमानाः सिन्धु-सौवीर-कुरु-पाञ्चाल-बाह्लीकादयः प्राचीनाः केचन पश्चाद्विलुप्तव्यवहारा अपि देशा एव पूर्वभागलेखे दृश्यन्त इत्यनयोः पूर्वोत्तरभागगतयोर्देश-विशेषोल्लेखयोरनुसन्धाने बुद्धसमयसन्निकर्षे ज्ञायमानाद्वात्स्यात् पूर्वभागनिबन्धुर्वृद्धजीवकस्य मूलाचार्यस्य कश्यपस्यापि प्राचीनत्वं विशेषतोऽनुसन्धीयते इत्यलं पल्लवितेन ॥
(४) भारतीयभैषज्यसमर्थनपरिच्छेदः
अस्या भारतीयायुर्वेदविद्यायाः स्वीयप्राचीनसम्प्रदायपरम्परयैवाभ्युत्थानम्, उतास्यां देशान्तरीयवैद्यकेनापि शिलान्यासः । किं वा यूरोपप्रदेशेऽपि सर्वप्राथम्येन ग्रीसदेशे सभ्यतायाः भैषज्यविद्यायाश्चोदयेतिवृत्तस्यावगमेन तदीयवैद्यकस्य भारतीयवैद्यके प्रभावानुप्रवेशः, किं वा परेषामधमर्णभावमनुपेतमपि भारतीयवैद्यकं भारत एव विश्रान्तमुत बहिःप्रदेशानपि स्वालोकोद्भासितान् विदधौ । एषां विषयाणां विमर्शं विना भारतीयायुर्वेदस्रोतः पूर्वपरिस्थितेर्न सम्यगवभासः, पूर्वेषामायुर्वेदाचार्याणामपि भारतीयपरम्परयैव औपदेशिकः सम्प्रदायोऽपि शैथिल्यमापद्येत इत्यस्मिन् विषयेऽपि विवेचनमत्रोपष्टम्भकं भवेदिति तद्विषयके विमर्शे नानाविदुषां मतान्यप्युपदर्श्य स्वमनसि प्रतिभातया दृशा किमपि विमृश्यते ॥
केचन भारतीयविज्ञानात् पाश्चात्त्यविज्ञानस्य प्राग्भावं साधयितुं कृतबुद्धयः उभयतः केषुचिदंशेषु सादृश्यमवलम्ब्य भारतीयवैद्यके पाश्चात्त्यविज्ञानप्रभावानुप्रवेशः, 'भेदस्य गान्धारवर्तितयोल्लेखेन यवनसम्पर्कात् तदीयवैद्यके यावनप्रभावानुवेध-इति चोपन्धस्यन्ति ॥
अन्ये केचन एवमुपवर्णयन्ति—सर्वप्रथमतया यूरोपविभागे भैषज्यविद्याया उदय ईशवीयाब्दारम्भात् पूर्वं पञ्चमशताब्द्यां (B. C. 460) हिपोक्रेटिस (Hippocrates) नाम्नो ग्रीकविदुषः समजनि । यस्तत्रत्यवैद्यविद्यायाः पितेत्युच्यते । तदीये भैषज्यग्रन्थे यूरोपदेशेऽनुद्भाविनां केवलं भारतीयत्वेन तत एव विज्ञेयानां जीरकार्द्रकमरिचत्वगेलातेजःपत्रादीनामौषधेषु प्रयोगस्य, तत उपषष्टिवर्षोत्तरस्य (B C. 400) थियोफ्रेष्टस (Theophrastus) नाम्नो भिषजो लेखेऽपि भारतीयानां बहुशो वनस्पतीनां प्रयोगस्य, एवमन्यैरपि प्राचीनपाश्चात्त्यवैद्यैर्भारतीयवनस्पत्याद्यौषधानामुल्लेखनस्य दर्शनेन च तेषु भारतीयवैद्यकविज्ञानप्रभावोऽवगम्यते इति ॥
तदस्मिन्नुभयविधे विमर्शो वस्तुतत्त्वमवधारयितुं भैषज्यविद्याया इव सभ्यताया यातायातस्य पूर्वेतिहासादेश्च विचारस्याप्यावश्यकतया लेशतस्तद्विषयेकेनोपष्टम्भकेन सह प्रकृतविषयमुपन्यस्तुं लेखनी प्रवर्त्तते ।
भारतीयानामिवार्यमन्यानां पाश्चात्त्यानां च प्राथमिकोद्गमस्थानविषयके आलोचने 'उत्तरध्रुवसन्निहितप्रदेशः प्राक्तनोऽभिजनः । तत एव क्रमशः प्रसरणेन परित आर्याणामुपगमः' इति केषाञ्चित् महाशयानां दृष्टिः । अन्ये केचन विद्वांसः सुदूरोत्तरभाग^१
१. It is now established that ancient Indo-Aryan, Greek, Iranian. Slavonic. Teutonic. Italo celtic, Tokharian languages descended from a parent stock of language which we may call strictly Indo-European or loosely Aryan. The language and along with it certain elements of a very
१०० | काश्यपसंहिता वा वृद्धजीवकीयं तन्त्रम्
एव मार्याणां प्राथमिकं प्रभवस्थानं, ततः शाखाविभेदेन प्रसरन्तस्ते केचन पाश्चात्त्यप्रदेशेषु केचन पौरस्त्यप्रदेशेष्वभ्युपगताः, पौरस्त्या शाखैव भारतीयेति निरूपयन्ति । परमुपलब्धेषु सांसारिकसाहित्येषु ऋग्वेदः सर्वप्रथमं साहित्यमिति सर्वैरङ्गीक्रियते । तदालोचने तत्रोल्लिखिता देशनदीनगरग्रामपर्वतादयः । सर्वे पाञ्चालसिन्धुसौवीरादिपरिसरप्रदेशगताएव दृश्यन्ते । तत्रत्यानामार्याणामन्यतः कुतश्चिदागमनं तेषामन्यत्पूर्वाभिजनं वोल्लिखितं न किमप्युपलभ्यते । तत्र सुरजातीयानामसुराणां च मिथः सङ्घर्षादिवृत्तं च लभ्यते । एतदनुसन्धानेन पाञ्चालसिन्धु-सौवीरप्रदेशस्तत्सन्निकृष्टैरानेवब्लोनियाऽसीरियादिप्रदेशश्च पूर्वाभिजनस्थानमवगम्यते । आस्तां तावदिदं पूर्वाभिजनविषयकं विचारान्तरम् । किन्तु याः खलु प्राचीना जातयस्तासां प्राचीनासु भाषासु ऋग्वेदस्य भाषायास्तद्भवतत्समादिरूपेण बहुशः साम्यदर्शनेन भाषातत्त्वदृशाऽपि बहोः कालात्पूर्वमेकस्मादेव मूलवृक्षात् परितः शाखाप्रसरणमनुमीयते विवेचकैः ॥
न केवलं भाषादृष्ट्यैव, अपितु प्राचीनतमासु पाश्चात्त्यजातिषु भारतीयजातौ च विषयान्तरीयसभ्यताया अति बहुशः साम्यमनुसन्धीयते । तत्रैकस्यां प्राचीनतमपरिस्थितौ वर्तमाना सभ्यता ततः प्रसृतासु शाखासु प्रसरन्ती पाश्चात्त्यप्राचीनजातिषु भारतीयशाखायां च न्यूनाधिकभावेन समच्छायामापादयामास । किं वा वैदिकी आर्यसभ्यता परितः प्रसरन्ती पाश्चात्त्यप्रदेशीयपूर्वजातिष्वपि स्वं प्रतिफलनं विदधौ इति विचारान्तरमुपतिष्ठते ॥
बेब्लोनियां प्रदेशे कसाऽइटिस्-(Kassites B. C. 1760) वंशोद्भवानां राजकुमाराणां नामसु सूर्येन्द्रमरुच्छब्दानां;
developed culture were disseminated in Asia and Europe by the speakers of the common Aryan of Indo-European language most probably the beginning of the second millenium. B.C. The speakers of the common Aryan language either in the plains of Hungary in the valley of the Danube as Giles maintains in the Cambridge History of India or in Southern Russia near about the Caspian Sea as Carnoy and other scholars have maintained. In any way there is no doubt that they lived in a geographical area in which such trees as birch (bhurja), willow etc. were abundant and these trees are found, as has been pointed out by various scholars, only in the region from East Prussia to the Pamirs, The Aryanam Vaejo (the home land of the Aryas), of the Iranian tradition also may be modern Ajarbaizan, one of the states in the Caucasus.
Names of gods like Mitra, Nasatya, Indra, Varuna etc. have been discovered in the inscriptions of the Mittanians, and other traces of the presence of the Aryans between 1800-1400 B. C. have been discovered in Asia Minor. These land-marks show that various branches of the Aryans were on the move in this period, in search of new lands and it was probably in this period that the Indo-Iranians also migrated towards the east and settled down on the confines of India and Iran. A schism soon took place amongst the Indo-Iranians and the that branch whom we call the Indo-Aryan migrated further to the East towards India.
From a comparative study of the literature and religion of the Iranians and the Indo-Aryans (viz. the Gathas of the Avesta and the Athrvaveda) it is abundantly clear that they inherited common religious and literary traditions. The religion was entirely ritualistic and there is no doubt that this religion had its origin in a still earlier period amongst the speakers of the common Aryan language because elements of this ritualism are found also amongst other branches of the Aryan speaking people. Literary tradition also seems to be very old, if we are to judge from the common parentage of the metres used in the Homeric epics, those used in the Avestan Gathas and those used in the Vedas.
EVIDENCE OF THE PRESENCE OF THE ARYANS IN ASIA MINOR.
१. The Kassites who established a dynasty at Babylon in 1760 B. C. In the names of their princes we get the following elements-Surias (Surya), (Indas (Indra), Maruttas (Marutah) and-bugas (Iranian baga-god). They introduced also the use of horse for the first time.
उपोद्घातः १०१
पश्चिमैशियाः कैपोडोसिया-(Cappadocia) स्थाने हिताई¹टी (Hittites) मित्तानी (Mittani) नाम्न्योः प्राचीनजात्योर्मिथः सङ्घर्षोत्तरमुपजाते (B. C. 1360) सन्धिशिलालेखे तयोर्वैवाहिकसम्बन्धे च साक्षितया मित्रवरुणेन्द्रनासत्यानां; वोगस्²काय (Boghaz Keui B. C. 1400) शिलालेखे संख्यावाचकादि³शब्दानां; सिरिया⁴प्यालष्टाइनदेशोद्भवानां राज्ञामार्यनामसदृशनाम्नां चोल्लेखोपलम्भेन वैदिकसभ्यतायाः पूर्वं तावति दूरेऽप्यालोक⁵प्रसरणं स्पष्टीभवति ।
सुमेरियन्प्रदेशीयानां पूर्वनृपाणां भारतीयग्रन्थदृष्टानां च पूर्वनृपाणां केवलं वर्णोपभ्रंशमात्रतो विशिष्टमानुक्र⁶मिकं साम्यं वेब्लोनियानां मन⁷सुनाम्नाऽभिहितस्यादिमव्यवस्थापकस्य भारतीयग्रन्थोक्तस्य मनोश्च नाम्ना कार्येण च साम्यं, तत्रत्यशिलालेखादिगतप्रत्नव्यावहारिकनियमेषु बहुशो मानवीयव्यवहारसाम्यं चोपलभ्यते । सुमेरियन्प्रदेशोपलब्धमानवस्तुलेखादिषु भारतीयग्रन्थदृष्टानां बहुशः साम्योपलम्भे श्रीयुतबा⁸डेलमहाशयेनापि बहुशो निरूपितमस्ति । उभयत एवं राज्ञामानुक्रमिकं साम्यं सुमेरियन्प्रदेशीयैर्नृपैर्भारतस्याधिष्ठानेन, भारतीयैर्वा नृपैः सुमेरियन्प्रदेशादिपर्यन्तमपि शासितत्वेन वोभयथाऽपि संभवति । नह्येकदेशाधीशानां देशान्तराधिपत्यं न संभवति ॥
सुराणामसुराणां च मिथः प्राकृतिकेन विरोधेन संमर्दादिकान् विषयानुपादाय पुराणेषु ऋग्वेदेऽपि असुरोल्लेखो बहुशो दृश्यते । असीरियन्-वेब्लोनियन्जातीनामुपास्या प्रधानदेवता असुरअहुरनाम्नोपलभ्यन्ते । असीरियन्शब्दोऽपि प्राचीनभारतीयैर्विशेषतः परिचितानसुरान् प्रत्यायन्दृश्यते ॥
अद्यत्वे श्रीयुतसिटानलायडमहाशयस्य, डाक्टर हेनरी फ्रेङ्कफोर्ड-महाशयस्य चाध्यक्षभावेन इराकप्रदेशीये टयल-अगरमनामकस्थाने भूगर्भान्वेषणे भग्नावशेषस्य प्राचीनमन्दिरस्य तदन्तःकोष्ठेऽनेकेषां महत्त्वपूर्णप्राचीनवस्तूनां कतिपयानां महेञ्जोदारोभूगर्भोपलब्धवस्तुसंवादिनामप्युपलम्भेन इराकदेशस्यपञ्चसहस्त्रवर्षपूर्वसभ्यतायां भारतीयसभ्यतायाः प्रभाव आसीदिति;
१. A treaty signed by the kings of Mittani, settled in the upper Euphrates Valley, and the kings of the Hittites in 1360 B. C. we get the names of Aryan gods-In-da-ra, U-ru-v-na, Mi-i-tra, and Na-sa-at-ti-i-ia, Some of the Mittani kings had Aryan names-Sutarna, Dusratta, Artatama. २. The Boghaz keui Inscription (about 1400 B. C.) of the Mittanians, contains Aryan numeralsaika, teras, panza satta, nav. ३. The Hittites of Cappadocia probably spoke an Aryan language in the 16th and 15th centuries B. C. Cf. the Pronouns-kuis, kuit, the Verb esmi, and the formation of the present stems in-numi (Sktnomi) etc. ४. From old documents discovered at Tell-el-Amarna we get names of some princes of Syria and Palestine and these also look like Aryan names-cf. Biridaswa, Suwardata, Yasdata, Artamanya. ५. Greater India by Kalidasnag M. A., D. Litt; No. J, P. 5 ६. "सुमेरियन्प्रदेशीयाः पूर्वे नृपाः— 'उक्कुसि, वक्कुस, निमिरूद, पुनपुन, नक्षअनेन .... शगुर, मनिशमंज, नरमअंश, दलीप' इ. 'इक्ष्वाकु, विकुक्षि, निमि, पुरञ्जय, अनेना, ..... सगर, असमञ्ज अंशुमान्, दिलीप' इत्यादयश्च बहुशः क्रमशश्च समाना दृश्यन्ते", इति सरस्वतीमासिकस्य १९३७ अप्रेलसंख्यायां वर्णितमस्ति । ७. Manu's Land and Trade laws by R. S. Vaidyanath Aiyer. ८. अद्यत्वे वैडल (L. A. Waddell) महाशयेन महेञ्जोदरो-हरप्पा-भूगर्भनिर्गतानां मेसोपोटामिया-सुमेरियन्प्रदेशोपलब्धानां मुद्रादीनामितिहासादीनां च विशेषानुसन्धानपूर्वं तुलनया भारतीयानां प्राचीननृपाणां तद्देशोपलब्धमुद्रादिषु एकद्विपुरुषपर्यन्तमपि समच्छायतया नामसाम्यं, केषांचिदक्षराणां सङ्केतानां वस्त्वन्तराणां शिल्पकलादीनां च समच्छायां प्रतिपाद्य उभयोर्देशयोः प्राक्तने सम्बन्धविषये एकं ग्रन्थं Makers of Civilisation in race and history. निर्माय स्वीयो विचारः प्रकटीकृतोऽस्ति ॥
| १०२ | काश्यपसंहिता वा वृद्धजीवकीयं तन्त्रम् |
|---|
तथा श्रीयुतसरआरेलष्टीनमहाशयस्यान्वेषणे बलूचिस्तानप्रदेशे दक्षिणेरानप्रदेशे चोपलब्धानां प्राचीनवस्तूनां निदर्शनेन भारतस्य प्राचीनसुमेरियाप्रदेशस्य (साम्प्रतिकेरानदेशस्य) च प्राचीनः समसभ्यतासम्बन्ध आसीदित्यपि तेषां रिपोर्टपत्रादिभ्योऽवगम्यते ॥
प्यालिश्टाइन (Palestine) प्रदेशस्य भूगर्भनिर्गतसभ्यतायाः परीक्षणे तत्प्रदेशस्य समये समये विभिन्नदेशीयैराक्रान्ततया तत्र तेषु तेषु स्थानेषु तत्तदीयानां पूर्वलक्षणानामुपलम्मेऽपि एकस्मिन्स्थाने सर्वप्राचीनतया महेञ्जोदारोप्रदेशोपलब्धसंवादिनां प्राचीनभारतीयसभ्यताचिह्नानामुपलम्भेन भारतीय एव सभ्यतालोकस्तत्र सर्वप्राथमिक इति मेथिक्सोसा¹इतीलेखः प्रतिपादयति ॥
अद्यत्वे परिस्कृतपथरथादिव्यवस्थायाऽपि मिर्जापुरीयादिसुन्दरमृत्पात्रादीनां सन्तिकृष्टेऽपि नगरान्तरे नीयमानानां रक्षणाय कियदवधीयते जनैः । बंहीयोभिर्दुर्गमैः पार्वत्यशर्करादिप्रदेशैरन्तरितानां मिश्रप्यालिश्टाइनेराकभारतानां चिरकालावस्थायिनामलङ्कारादीनां यातायात्सौकर्येऽपि स्वल्पमप्याघातमसहमानानां मृत्पात्रादीनामपि शिल्पसाम्यमसाधारणं मिथः परिचयचिह्नमुपलक्ष्यते ॥
न केवलमेतावदेव, पाश्चात्त्यानां प्राचीनशाखासु भारतीयानां प्राचीनपरिस्थितौ च दृष्टानि धार्मिकसामाजिकआध्यात्मिकादिषु बहुषु विषयेषु समसूत्रानुवेधसाधनानि सभ्यतासाम्यलक्षणानि ऐतिहासिकतत्त²ल्लेखतो बहुशो लभ्यन्ते ॥
प्रत्यक्षानुभवमेव साक्षित्योपादाय भारतस्य प्राचीनावस्थाया अनुसन्धानेऽप्येतदीया सभ्यता प्राचीनतमैवावलोक्यते- महेञ्जोदारोभूगर्भाद्द्वयः प्राचीनतमा देवमूर्तयोऽप्युपलब्धाः । तत्र ब्रह्मविष्णुमहेश्वराणां संवलनरूपा त्रिमूर्तिः, हस्तिव्याघ्रखड्गिमृगसहिता शिवमूर्तिः, स्त्रीदेवतामूर्तिरपि दृश्यते । स्त्रीदेवता (Mathi Gods) मूर्त्तयः सिन्धुतीरे वालुकास्थाने इलाम-पर्सिया-एसियामाइनर-सीरिया-प्यालिश्टाइन-साइप्रस-एजियन्सीतट-बाल्कन-मिश्रदेशेष्वपि, ग्रीसदेशस्य क्रेटाद्वीपे अग्रपृष्ठयोः
१. Quarterly Journal of the Mythic Society Bangalore.
२. (क) मिश्रदेशीये पूर्वसंप्रदायेऽपरिवर्तनीयकुलपरम्परानुसारिपौरोहित्य-सेनावृत्ति-शिल्पव्यापार-दास्यरूपचतुःप्रस्थानविभागे भारतीयवर्णभेदच्छाया; तदीये पूर्ववृत्ते भारतीये इव जलप्लावनवृत्तः प्रजापतिस्थानीय ‘क’ शब्दितदेवतोल्लेखः; तद्देशीयभाषायां मात-इवु-आत्म्-पुष-उषा-आप-अपूप-त्रादिशब्देषु बहुषु माता-इभ-आत्मा-पुष्प-उषा-आप-अपूप नरादिशब्दानां किञ्चिद्विकृत्याऽविकलभावेन च शब्दतोऽर्थतश्च साम्यमपेक्ष्यते । एतद्विषये श्रीयुतध्यानचन्द्रमहाशयेन (Quarterly Journal of Mythic Society Vol. XXI, No3, P. 250), श्रीयुताविनाशचन्द्रमहाशयेनापि (Rigvedic India Vol 1, P. 245, बहु लिखितं वर्तते । मन्त्रान्तरेष्विव शाखाभेदकृतं पाठभेदं विनैव एकयैवानुपूर्व्या भारतं व्यापृवतो वैदिकस्य सावित्रीमन्त्रस्यावगमेन तेतान्द्यैश्च ऋगादिसौरमन्त्रैः प्रतिपाद्यस्य सूर्यदेवस्योपासनं भारतीयः प्राचीनोऽसाधारणो धर्मः । भारतस्य दूरपश्चिमभागवर्ति प्रत्नतरं नष्टं भ्रष्टं विशालतमं मार्तण्डमन्दिरमपि भारतीयानां चिरानुवृत्तं सूर्योपासनमवबोधयति । मिश्रदेशे प्राचीननगरेऽप्रचलितस्य सूर्योपासनस्य पश्चात् ...... नृपतिसमये जनैः प्रतिरोधेऽपि बलात्प्रवर्तननेतिहासः, पञ्चसहस्रवर्षपूर्वतनेन तदीयसमाधिशवेन साकं वैदिकोक्तिच्छायानुविधायिसूर्यस्तोत्रमुत्कीर्णञ्चोपलभ्यते । पञ्चसहस्त्रवर्षपूर्वतनानां मिश्रदेशोपलब्धभाण्डशिल्पकलादीनामद्यत्वेगवेषणेन महेञ्जोदारो-हरप्पादिप्रदेशभूगर्भनिर्गतानां प्राचीनभारतवस्तुशिल्पकलादीनां च तुलनायां न केवलमुभयेषां समानता, किन्तु मिश्रीयानतिशयानां भारतीयाः कलादयो विवेचकैर्विविच्यमाना मिश्रादपि भारतस्य ज्यैष्ठगर्भितं समसूत्रानुवेधं प्रत्याययन्ति ॥
(ख) रोमदेशीयप्राचीनजातेः इटुस्कन (Etruscan) नाम्ना धार्मिके विषये सप्तमपञ्चमपुरुषाभ्यन्तरे वैवाहिकसम्बन्धनिषेधनियमे “वध्वा वरस्य वा तातः कूटस्थाद्यदि सप्तमः” इति प्राचीनस्मृतिनियम साम्यस्य प्राचीनरोमग्रीसादिदेशसम्प्रदायोपलब्धेषु लिङ्गपूजननन्दिपूजन-पितृश्राद्धाग्निशालाऽग्निहोम-गुरुकुलशिक्षाप्रणाली-जांतसंस्कार-पुनर्जन्मवादाध्यात्मवादिषु भारतीयासाधारणविषयप्रतिबिम्बनस्य; बृटिशानां पूर्वतमावस्थास्वरूपायाः केल्ट (Celtic) जातेर्धर्माचार्याणां डूइड (Druid)-जातीयानां धार्मिकनियमेषु विंशतिवर्षान्तं ब्रह्मचर्यधारणम्, अन्तिमे वयसि वानप्रस्थचर्या, उच्चकुले विद्यादानम्, आत्मनोऽमरत्ववाद इत्यादिकेषु भारतीयासाधारणधर्मच्छायाया दर्शनेन भारतीयसभ्यतासम्बन्धो न केवलं प्राचीनतरमूलशाखास्वेव अपि तु ततः परं विभक्तासूपशाखाजातिव्यवहारेष्वप्युपलभ्यते ॥
उपोद्घातः | १०३
सिंहव्याघ्रसमन्विता Minoan नाम्ना व्यवहृता देवी मूर्तिः, एलोनियादेशे सिंहवाहना Cybele नाम्ना व्यवहृता देवीमूर्तिश्च प्राचीना लभ्यन्त इति महेञ्जोदारोविवरणपुस्तकादुपलम्भो $^१$भारतीयं च देशान्तरीयं समसूत्रानुवेधं दर्शयति ॥
भारतीयानां पुराकाले दूरदूरदेशान्तरपर्यन्तमप्युपगमस्तत्परिचयश्च ज्ञायते । वैदिक्यामप्यवस्थायां भुज्युप्रभृतीनां द्वीपान्तरगमनमवाप्यते । प्राचीनेतिहासा Bibliotheca/अनुसन्धाने ययातिनृपतेः पुत्राणामनुद्रुह्यतुर्वसुप्रभृतीनां स्वनियोगापरिपालनेन पित्रा द्वीपान्तरेषु निष्कासनं, पाण्डवैर्दूरदूरदेशानामपि विजयः, महाभारतीयुद्धभूमौ दूरदेशनृपाणामपि सद्भावः, भारतीयनृपादीनां गान्धारादिपश्चिमप्रान्तियैः सह वैवाहिकसम्बन्धः, पुराणे नीलनद्या नामोल्लेखः, पाश्चात्यदेशीयप्राचीनेतिहासमुद्रादिष्वपि नामसंवादं लब्धवतां केषाञ्चिन्नृपादीनां भारतहरिवंशादिषु नामोपलम्भः, मनुसंहितायामपि देशान्तरीयजातिविशेषाणां मूलस्त्रोतोनिर्देशनमित्यादीनि प्राचीनभारतस्य देशान्तरेषु सम्बन्धमवगमयन्ति । पश्चादपि (B. C. 217 समये) (Tsin Shih Huanungti) सम्राजो राज्ये भारतादष्टादशभिक्षूणां चीनदेशे उपगमवृत्तं, B. C. 200 शताब्द्यां Changkin नामकचीनदेशीयपुरुषस्य भारते यातायातवृत्तं च श्रीयुतकालिदासनाग$^२$महाशयेनोल्लिखितमस्ति ॥
प्राचीनसभ्यताया यातायातविषये बहूनां विवेचकानां बहुशो विचाराः सन्ति । समय एव याथातथ्यं स्फुटीकरिष्यति । तथेतरथापि वा भारतीय प्राचीणार्याणां प्राचीनपाश्चात्यजातीनां च सभ्यतासु अतिपुराकालेऽपि सन्निकृष्टो मिथः सम्बन्ध आसीदिति वक्तुं शक्यते ॥
आस्तां तावदसौ सभ्यतान्तरसम्बन्धः, प्रकृते वैद्यकविषयेऽप्यभितो दृशं प्रसार्य विचारणे इदं पुरो भवति—
लोके यावन्ति प्राचीनवैद्यकानि तेषु सर्वेषु ऋग्वेदोत्तरम् आथर्वणं वैद्यकसाहित्यं सर्वप्रथममिति सम्मन्यते । अथर्ववेदो भारतीयचिकित्साविज्ञानस्योत्पत्तिस्थानमिति वैज्ञानिकदृष्टिपथ्येऽप्यमूल्योऽयं ग्रन्थं इत्यु$^३$च्यते ॥
आथर्वणे तेषु तेषु रोगेषु मन्त्रप्रक्रियया औषधप्रक्रियया च द्विधा चिकित्सा प्रदर्श्यते । एवम्भावेनैव कौशिकसूत्रकृताऽपि क्वचन मन्त्रोपयोगेन केवलं जलादीनां सेचनेन पानेन वा विनियोगः प्रदर्श्यते । क्वचन मन्त्रेण सहापि तेषु तेषु रोगेषु औषधविशेषाणामप्युपयोगो विहितोऽस्ति । रोगोत्पत्तौ कारणत्वेन दुष्टा देवविशेषा ग्रहस्कन्दादयो यातुधाना वा मन्त्रेषूपलभ्यन्ते ।
१. ब्रह्मविष्णुमहेश्वरा भारते प्राचीनतरकालादेवोपास्यन्ते । भिन्नभिन्नदेवोपासनामार्गे देशकालान्तरेण प्रचालिते तत्तदुपासनापथानां परस्परविमर्दं परिहर्तुमेकीकरणेन उमामहेश्वरहरिहरादी नामिव ब्रह्मविष्णुमहेश्वराणामभेदभावमवबोधयन्ती संवलिताकारारित्रमूर्त्तिरप्युपास्यतां प्रपेदे । दिलीपनृपेण कामिकाचले त्रिमूर्त्तेरुपासना विहिताऽऽसीदिति देवीपुराणेऽपि (अ. ६०) दृश्यते । बहु पुराकालादेवात्र प्रसिद्धतया भारतस्यैवासाधारण्य एता देवताः । येन महेञ्जोदारोप्रदेशेऽपि त्रिमूर्त्तिशिवमूर्त्यादीनामुपलम्भः समुचित एव । ईदृशमूर्त्तिभिः सहैवोपलब्धा स्त्रीमूर्त्तिरपि भारतीयैः पुराकालादुपासितायाः स्त्रीदेवताया एव मूर्तिः । शक्तेरुपासनासंप्रदायो भारते प्राचीनकालादेवानुवर्तते । कुलजातयोऽपि भारते पुराकालादनुवर्तन्ते । महाभारतरामायणपुराणादिष्वपि दुर्गादिदेवी-नामुपासनेतिहासा अनेके लभ्यन्ते । निगमवत्पुराकालादेव प्रसिद्धास्तन्त्रादयो बहुश आगमाअपि शक्तेर्महिमानमुपासनामुपासकान् महर्ष्यादींश्च प्रतिपादयन्ति । पूर्वापरप्रसृतप्राकारायिते हिमवति अर्वाग्पराग्भागयातायातसाधनघाटीद्वारदेशरूपेषु उद्यान-जालन्धर-पूर्णगिरि-कामरूपेषु चत्वारि शक्तेर्महापीठानि तत्र तत्रान्यान्यपि शतशः पीठोपपीठानि भारते पुराकालान्मान्यन्ते । शक्तिप्रभेदानां काल्यादीनामुत्पत्तेश्चरित्राणाञ्चेतिहासा भारतीया एव । शक्त्युपासनासम्प्रदायो द्विसहस्रवर्षेभ्योऽर्वाचीन इति वदतां केषाञ्चिद्विदुषां प्रतिवादाय महेञ्जोदारोपलब्धा ईदृश्यः प्राचीनतरा मूर्त्तयोऽपि विवेचकानां नयनान्मुद्घाटयन्ति । एवमासेतुहिमाचलं विश्वमभिव्याप्य वर्त मानो भारते समुत्पन्नः शक्त्युपासनासम्प्रदायो गुणमहिम्ना शाखोपशाखाभिर्विजृम्भमाणे देशान्तरेषूपलब्धानां स्त्रीदेवतामूर्तीनां तत्तन्त्रैर्नामान्तरेण व्यवहारेऽपि तत्र तत्र भारतीयसभ्यतायाः प्रभावं प्रसारयति ॥ २. Greater India (P. 22) by Kalidas Nag. ३. आयुर्वेद वों नव्यरसायन पृ. ५
८ का.सं.
| १०४ | काश्यपसंहिता वा वृद्धजीवकीयं तन्त्रम् |
|---|
तेषां निरसनदृशा मान्त्रिकी प्रक्रिया, रोगाणां निरसनाय औषधप्रक्रियाऽप्यथर्ववेदीयभैषज्ये लभ्यते। तत उत्तरोत्तरं मन्त्रविद्ययोपचारपथमतिशय्य औषधोपचारपथः प्रससार। परम्तन्तोऽद्यापि कचनांशविशेषैर्मान्त्रिकविद्याऽप्युपचाररूपेण ग्रन्थेषु व्यवहारेषु चानुवर्तत एवेत्यवोचाम ।।
आसीरियावेल्लोनियाप्रदेशे पूर्वकाले भारतीयपूर्वदृष्टाविव अशुचिपुरुषसहवाससम्पर्कसम्भाषोच्छिष्टभोजनादिना रोगागमः, रोगाणां भूतप्रेतपिशाचाद्युपसर्गरूपत्वं, दुर्दर्शभीषणमूर्त्यादिकल्पना, रोगनिरसनायाभिमन्त्र्य जलादिपानमौषधविशेषभक्षणम्, औषधिविशेषधारणं, प्रतिसरबन्धनं, पिष्टकधूल्यादिभी रोगिणामावरणं, वृक्षविशेषपल्लवादिभि रोगिणो मार्जनं, रोगकारकदुष्टदेवताभ्यश्छागशूकरादिबलिदानं, तान्त्रिकपद्धताविव प्रतिपक्षव्यक्तेः केशनखपादधूल्याद्यभिमन्त्रणेन प्रतिकृतिं निर्मायापमार्जनम्, ऋग्वेदोपलब्धमार्डूकदेवतासमच्छायानाम्ना मर्डूकाख्यदेवताया उपासनेन रोगपरिहारश्चैवमादयो बहव आथर्वणतान्त्रिकादिभारतीयप्रयोगसमानप्राया उपायादयो दृश्यन्ते। भोजनात्पूर्वं प्रातरौषधोपयोगः, विरेचनस्य महिमा, तैलेन विरेचनम्, उदरामये पर्वतीयलवणोपयोगः लशुनोपयोगः, मेहोगे मूत्रपरीक्षणं, दन्तरोगे कीटानां हेतुता, इत्यादयोऽप्यायुर्वेदीय-विचारानुरूपा विचारा वस्तूपयोगा अपि तेषां लभ्यन्ते। यथा आथर्वणसम्प्रदाये य एव शान्तिपुष्ट्यादिप्रयोक्तारो धार्मिको आचार्यास्ते मान्त्रिक्या प्रक्रियया औषधाद्युपयोगेन च रोगपरिहर्तारो भिषजोऽप्यासन्, ये अथर्वाणोऽभिधीयन्ते, एवमेव मिश्रादिदेशीयपूर्ववृत्तेऽपि धर्मगुरव एव रोगादेरपि चिकित्सका (Priest Doctor) आसन्, येन तदीया देवालया एव प्राधान्येन चिकित्सास्थानान्यासन्। तादृशस्थलेषु औषधोल्लेखलेखा अप्यलभ्यन्त ।।
बेब्लोनियाप्रदेशे रोगिणां चिकित्सार्थै आपणादिषु जनसमवायेषु उपस्थाप्यमानानां वृत्तोपलम्भेन तदात्वे तत्र भैषज्यविद्याया विशेषोन्नतिर्नासीदिति हेरोडोटस् नाम्न ऐतिहासिकविदुष उक्तेः प्रतिवादेन क्याम्बलथोम्स १न्नामको विद्वान् बेब्लोनियानां वैद्यकं नानुन्नतमासीत्, शस्त्रभिषजः शल्यचिकित्सायामन्यथाकुर्वाणा दण्ड्या इति हेसूर्वन् (Hemmurabri) नृपसमये राजनियम एवासीत्, इति दर्शयन् B. C. 700 समये अर्डनना (Arda-nana) नामकवैद्येन लिखिते उपलब्धे वृत्तान्तपत्रे नेत्रचिकित्सनेन सप्ताष्टदिवसैरायोग्यस्य, नासिकाव्रणाद्धिरुपचारेणोपजातस्य रुधिरस्त्रावस्यान्तरौषधपट्टबन्धेन प्रतीकारस्य चैवमादीनां प्रतीकारादीनां सफलताया उल्लेखोपलम्भेन पूर्वसमयादेव भैषज्यविज्ञानमपि तत्र समुन्नतमासीदिति निश्चाययति ।।
आसीरियाप्रदेशे पूर्वकालेऽपि शस्त्रचिकित्सा विशेषतः प्रचालिताऽऽसीदिति Herbert Loewe २महोदयेन लिखितमस्ति ।।
मिश्रदेशीये प्राचीने पेपर्यरख्ये त्वक्पत्रे सार्द्धशतं रोगाः, तथा एवर्स (Ebers) त्वक्पत्रे ज्वरोदररोगजलोदरदन्तशोथप्रभृतयः १७० विधा रोगाश्चोपवर्णिता दृश्यन्ते। तद्देशीयद्वादशवंशसमयलिखिते एकस्मिन् पुस्तके तत्रत्यायाः कस्याश्चिन्नार्यारजोषिकारार्बुदादयो रोगाः, अद्यत्वेऽभ्युपगम्यमाना नेत्ररोगाणां प्रभेदाश्च लभ्यन्ते, सूक्ष्मरोगाणामपि तत्र गणनादर्शनेन न तत्र रोगाणां बाहुल्यमनुमेयमपि तु तदात्वे तत्रत्यानां विदुषां रोगविषये विज्ञानबाहुल्यमुन्नतमासीदिति प्रतीयते। हेरोडोटस्विद्वानपि नीलनदीपरिसरप्रदेशं स्वास्थ्यप्रदं वर्णयति। तत्रत्यानामपि असीरियादिप्रदेशान्तरेष्विव भूतप्रेतदेवप्रकोपादितो रोगोत्पत्तिवाद आसीत्। चिकित्साविषयका ग्रन्था मन्त्रमया आसन्, धार्मिकाः पुरोहिताश्चिकित्सका अप्यासन् इति George Faucart विद्वां ३न्निरूपयति। प्राचीनमिश्रदेशेऽप्यथर्ववेदानुरूप्येण मन्त्रतन्त्रसहितस्य चिकित्साविज्ञानस्य रसायनशास्त्रस्य च व्यवहार आसीदिति Cf. Berthelot ४महाशयोऽप्युल्लिखति। प्राचीनमिश्रदेशे तैलघृतवृक्षभैषज्यानामपि व्यवहारः श्रूयत इति श्रीयुतसुरेन्द्रना ५थदास-गुप्तमहाशयोऽपि निर्दिशति ।।
१. E. R. E. Vol 4. P. 746 by R. C. Thompson.
२. E. R. E. Vol 4. P. 757.
३. E. R. E. Vol. 4. P. 749.
४. Cf. Berthelot 'Les origines de i' olehienie P. 81-83.
५. प्रवासो ३४ भाग १ खण्ड. पृष्ठ १९४
उपोद्घातः | १०५
रोमदेशीयप्राचीनेट्रुष्कन् (Etruscan)—जातेः, ग्रीसदेशीयप्राचीनजातेश्च पूर्ववृत्तेऽपि रोगनिवृत्तये देवतोपासनाप्रार्थनावल्यादयो मान्त्रिका उपचारा अप्युपलभ्यन्ते ॥
केल्टिकजातीयविचारे वैद्यकस्य धर्मस्य च मिथो घनिष्ठः सम्बन्धः। तदीया धर्मगुरवो डुइडनामका एव चिकित्सका अप्यासन्। आथर्वणपद्धताविव तेषामपि मान्त्रिके औषधसम्बन्धिनि चिकित्सने दृष्टिरासीदिति T. Barns ^१महोदयो लिखति ॥
यूरोपीयट्यूटून (Teuton)—जातेः प्राचीनचिकित्सायां मर्सवर्गस्य (Mersseburg) मान्त्रिकप्रयोगेण (Charms) सह कतिपयभारतीयवैदिकमन्त्राणां सादृश्यमुपलभ्यते, कृमिरोगेऽस्थिभग्नचिकित्सायां तु विशेषरूपेण तत्सादृश्यं सुस्पष्टं परिदृश्यते इति एडालू^२वार्ट कून् (Adalbert Kuhn) अपि लिखति।
एतज्जातेः प्राचीनविचारे भूतानां देवप्रकोपस्य पापानां च रोगे कारणत्वं, दैवप्रकोपेज पशुबल्यादीनां प्रतीकारः, रोगपरिहाराय वृक्षत्वगादौ तदीयमन्त्रं विलिख्य हस्तादौ धारणं मन्त्रपाठः, यन्त्रधारणं देवमूर्त्याप्लवजलपानं, धूपादिभिर्भूताद्यपसारणप्रक्रिया चासादिति K. Sudhoff महाशयो J. Jolly महा^३शयोऽपि वर्णयति। एषां विषयाणामनुसन्धाने आथर्वणप्रक्रियाया भारतीयायुर्वेदीयप्रक्रियायाश्च तत्रापि बहुधा साम्यमुपलभ्यते। लिथुनियादिजात्यन्तरेष्वपि शब्द-विशेषाचारव्यवहारायुर्वेदीयविषयादिषु भारतीयच्छायानुवेधो दृश्यते ॥
उत्तरअमेरिकाय रेडइण्डियन च्यारोकी (Cherokees) जातीयानां प्राचीने मान्त्रिकभैषज्येऽपि आथर्वणमान्त्रिकप्रयोगस्य बहुधा साम्यमीक्ष्यते इत्यपि जाँ^४ली (J. Jolly) महाशयो लिखति ॥
"चीनप्रदेशे सार्द्धचतुःसहस्रवर्षपूर्वतने तदीयग्रन्थे दशसहस्रप्रकाश ज्वरस्य, 'चतुर्दशविभागा आमाशयस्य निर्दिष्टाः सन्ति। नाडीपरीक्षायां तत्र विशेषदृष्टिरासीत्। B. C. 400 वर्षपूर्वत आरभ्य प्रतिवर्षमुपजायमानानामामयानां निघण्टपत्रं कल्पितमासीत्। चीनदेशीयभैषज्यग्रन्थे आर्द्रक-दाडिममूल-वत्सनाभ-गन्धक-पारद-बहुविधप्राणिमलमूत्रासङ्ख्यवृक्षपत्रमूलादीना-मौषधरूपेणोल्लेखोऽस्ति। चीनदेशेऽद्यापि लक्षशो द्रव्याणां वृक्षपत्रमूलादीन्यौषधरूपेण विक्रीयन्ते। शीतलावेधनविज्ञानं तत्र पूर्वमेवासीत्। चिकित्साशास्त्रेतिहासप्रणेता ग्यारिसन्महाशयो याथातथ्येन चीनदेशीयैर्भारतादेव भैषज्यविद्याऽलम्भीति निरूपयति" इति श्रीसुरेन्द्रनाथदासगुप्तमहा^५शयेन निर्दिष्टमस्ति ॥
चीनराज्यस्य B. C. 200 सामयकतया चीनोल्लेखगर्भं कौटिल्यशास्त्रं नातिप्राचीनमिति कस्यचिदभ्युपगमे अवेस्ताग्रन्थे निर्दिष्टासु पञ्चसु जातिषु चीनानामप्युल्लेखदर्शनेन चीनस्य प्राचीनत्वमेव। चीननामकं माण्डलिकराज्यं B. C. 900 शताब्द्रामासीदिति मोदीमहाशयेन निर्दिष्टमिति जयचन्द्रविद्या^६लङ्कारमहोदयो वर्णयति ॥
१. E. R. E. Vol 4. P. 747.
२. A. Kuhu Zeitschrift fur verglei Cheude Sprachfoss Chung XIII P. 49-74 & 113-157.
३. The cure of wounds and fractures is aflected by incantations which have been compared by A. Kuhn with the Mersseburg charm of German antiquity.
J. Jolly. E. R. E. Vol 4. P. 754.
४. The charms of the Atharvaveda have been fitly compared with the sacred formulae of the Cherokees and other spells current among the Indians of North America.
E. R. E. Vol 4. P. 754. by J. Jolly.
५. प्रवासी ३४ भाग १ खण्ड. पृ. १९४
६. भारत के इतिहास की रूपरेखा पृ. ७००
१०६ काश्यपसंहिता वा वृद्धजीवकीयं तन्त्रम्
तुर्फानप्रदेशाद्दक्षिणतः काराशरनामके स्थाने पूर्वसमये केचन प्राचीनकूचजातीया आसन्। ईशवीयारम्भात्पूर्वं कदा तेषां तत्रोपगम इति किमपि न ज्ञायते। सा कूचजातिरार्यशाखीया इत्यनुमन्यते सर्वैः। पश्चाद् द्वित्रशताब्दीसमये वणिग्जनैः सह बौद्धधर्मप्रचाराय तत्रोपगतान् भारतीयभिक्षूनालोक्य अस्मदीयपूर्वदेशोद्भवा एते भारतीया इत्यात्मीयभावेन बहुशस्ते सद्कुवन्नितीतिवृत्तं तेषामुपलभ्यते¹ ।।
एतज्जातेस्तत्प्रदेशस्य च विषये चीनभाषायामुल्लिखितं प्रागितिवृत्तमेवमुपलभ्यते। द्वितीयशताब्द्यां मध्येशियापरिसरप्रदेशान् विजयमानेनापि चीनराज्येन बलवत्या कूचजात्याऽधिष्ठितेऽस्मिन् प्रदेशे आक्रान्तुमशक्ये सत्युभयोद्देशयोर्मिथो मैत्रीसम्बन्धः स्थापितोऽभूत्। ईशवीयाब्दारम्भोत्तर २६५-३१६ अब्दसमयान्तरे तत्र बौद्धधर्मः पूर्णतया प्रचलितआसीत्। कुमारजीवनामा बौद्धभिक्षुस्तत्रैवासीत्। अन्येऽपि बौद्धभिक्षवस्तत्रोपगताः। बहूनि बौद्धस्तूपमन्दिराण्युपि निरमीयन्त। तान्यद्यापि भूगर्भादुपलभ्यन्ते। भारतीया वणिजो बौद्धधर्मप्रचारकाश्चानेनैव पथा चीनदेशयातायातमकूर्वन्। ईशवीयाब्दारम्भात्राक्कालादेवारम्भ दक्षिणदेशस्थानां चीनदेशे व्यापारमार्गोप्येष एवासीत्। हुयेन्सङ्गनामा चैनिकपरिव्राजकोऽप्यनेनैव वर्त्मना भारतमुपागमत्, इत्येवमनर्वाचीनं तदीयं चीनभारतसहयोगि प्राग्वृत्तमवगम्यते। तत्र भूगर्भशोधनेऽतः परमपि प्रवृत्ते प्राचीनभारतसम्बन्धीनि बहूनि विशेषान्तराण्युपलब्धुं शक्येयुरित्याशास्यते। तत्र ब्राह्मलिप्यां लिखितानि प्राचीनसंस्कृतपुस्तकानि भारतीयसंस्कृतग्रन्थेभ्यः कूचभाषायामनुदिताः काष्ठपट्टिकोत्कीर्णा लिखिताश्चानुवादग्रन्था अपि बहुश उपलब्धाः। भूगर्भाद्बहूनि प्राचीनवस्तून्यप्युपलब्धानीत्यपि स्टाइनमहाशयेन² निर्दिष्टमस्ति ।।
भाषातत्त्वविदा A. C. उलनरमहाशयेन तदीयकूचभाषायाः संस्कृतेन सह तुलनायां भारतीयायुर्वेदी यौषधिवाचकानां संस्कृतशब्दानां कानिचिद्विकृतानि कानिचिद्भाषोच्चारणकृतवैचित्र्यमात्रवन्ति रूपाणि कानिचित्तद्रूपाणि च स्वरूपाण्युपलभ्यन्ते। रायल एशियाटिकसोसाइटीपत्रिकायां³ प्रकाशितमस्ति। ते शब्दा यथा—
| कूचभाषा | संस्कृत | कूचभाषा | संस्कृत |
|---|---|---|---|
| माञ्च्छ | (माञ्जिष्ठा) | सुक्ष्मेल | (सूक्ष्मेला) |
| करञ्जपीज | (करञ्जबीज) | प्रियङ्कु | (प्रियङ्गु) |
| अपमार्क | (अपामार्ग) | विरङ्क | (विडङ्ग) |
| सारिप | (शारिवा) | उपद्रव | (उपद्रव) |
| मर्गी | (मार्गी) | शालवर्णी | (शालपर्णी) |
| किञ्चेल | (किञ्जल्क) | किरोत | (गिलोध) |
| तकरु | (तगर) | कुन्तर्क | (गुन्द्रक) |
| पृङ्करच | (भृङ्गराज) | चिपक | (जीवक) |
| करुणसारि | (कालानुसारी) | शञ्चपो | (शिंशपा) |
| पितरी | (विदारी) | पिप्पाल | (पिप्पली) |
| अश्वकान्ता | (अश्वगन्धा) | मोततें | (अजमोदा) |
| तेचवती | (तेजोवती) | कोरोशा | (गोरोचन) |
| मेत | (मेदा) | पिस्सौ | (विश्वा) |
| खादिर | (खदिर) | सुमां | (सोम) |
१. India and China No 2. P. 24.
२. Innermost Asia Vol II P. 565-572. P. 1028.
३. J. R. A. S. 1925, P. 623
उपोद्घातः १०७
इत्येवमनिश्चितपूर्वसमयात् तावति दूरे वर्तमानायाः प्राचीनकूचजातेरार्यजातीयत्वस्य स्पष्टोल्लेखेन तत्संवादयता पश्चात्सङ्गतानं भारतीयानामात्मीयत्वेन समादरोल्लेखेन च भारतीयार्यजातित्वेन निश्चितानां कूचानां भाषायामपि भारतीयौषधिशब्दानां विकृत्याऽविकृत्या च बहुशोऽनुप्रवेशदर्शने सति भारतीयजातेस्तत्तद्देशोपगमनेन साकं ते शब्दा अपि तत्रोपगताः किं वा समयेनोपगताः स्युः, उभयथाऽपि भारतीयायुर्वेदस्य तावति देशकालविप्रकर्षेऽपि प्रचारः प्राचीनगौरवाय ॥
इरानाभिजनानां पारसीकानांमवेस्ताख्ये मूलग्रन्थेऽथर्ववेदस्य तदीयभाषायां देववाण्याश्च विशेषतः सन्निकर्षो दृश्यते । तेषामुपास्या देवता भारतीयैः परिचितस्यासुरस्योच्चारणमात्रविभेदेनाहुरनाम्ना निर्दिश्यते । अग्न्युपासन–गोपूजन–सूर्योपासन–होमप्राधान्य–मित्रादिदेवताप्रभृतिषु बहुषु विषयेष्वपि प्राचीनभारतस्यालोकस्तत्र भासते । इरानजातीया भारतीयायैर्भ्य एव विभक्ता इतीतिहासविद्भिरप्युल्लिख्यते । इरानप्रदेशे एकमेनियन्स (Achaemenians) नृपकुले, तथा प्रथमडेरियस (Darius I. B. C. 521) नृपसमये डेमोकेडियस (Demokedes) नामा, समयान्तरे स्टेसीयस (Ctesias) अपोलोनीडस् (Apollonides) नामानौ च ग्रीकवैद्या आसन् । इरानदेशीये ग्रीकदेशीये च भेषज्ये बहुशो विचारसाम्येन इरानदेशे ग्रीकवैद्यकस्य प्रभावोऽप्यासीदित्येल्लेखोऽपि दृ¹श्यते । इरानप्रदेशेऽपि ससेनियन्सन्नृपवंशे राजकुले ग्रीकवैद्या इव भारतीयवैद्या अप्यासन् विदेशीयानां तद्देशीयानां च वैद्यानां मिथः प्रतिस्पर्द्धाऽऽसीदिति स्पीगल²महाशयोऽप्युल्लिखति । तेन इरानदेशीयवैद्यके येष्वंशेषु ग्रीसोपज्ञमुद्भूता असाधारणा विषयाः परिच्छिद्यन्ते, तेषु ग्रीसवैद्यकस्य प्रभावः स्यान्नाम, परं वैद्यकविषये ये भारतीयायुर्वेदीयरोगशारीरकादिविषयका ऽविचाराः समानतया तत्रोपलभ्यन्ते, ये वा ग्रीकादिसाधारणा अपि भारतीया विचारास्तत्र ज्ञायन्ते, तेषु भारतीयवैद्यानां तदीयवैद्यकस्य च प्रभावो निरूपणीयः । ग्रीसवैद्यके भारतीयायुर्वेदीयविषयाणामपि साम्यं कीथ—(A. B. Keith) महाशयेन यथा निर्दिष्टमस्ति, तेष्वंशेषु तत्रापि साक्षात् परंपरया वा भारतीयः प्रभावः पश्चान्निरूपयिष्यते । इरानदेशेन सह भारतस्य देशतोऽपि सन्निकर्षोऽस्ति । तस्यैवप्रथमडेरियसन्नृपतेः साहाय्यभावेन B. C. 479 समये प्लेटियारणस्थले ग्रीसवीरैः सह भारतीयसेनाया युद्धे³स्योल्लेखनमपि लभ्यते । तदेवम् इरानभारतयोर्धनतरे मिथः सम्बन्धे भारतीयवैद्यानामपि तत्र प्रतिष्ठितत्वे चागम्यमाने भारतीयवैद्यानां विशेषरूपेण तत्र प्रभावो निरूपणीयः । किमन्यत्, इरानदेशीयपर्शू⁴भारति (Pehlavi) भाषायां भिषग्भेषजमन्त्रादिशब्दसमाना वेषज (Baeshaza, Beshaj), भिजिष्क (Bejishka) माथू, इत्यादिशब्दा अप्युपलभ्यन्ते । किं बहुना अर्मिनियन् (Armenian) भाषायामपि एषां शब्दानामेव स्वरूपास्तराणि (Bzhishk, Bzhshkel) दृश्यन्ते । इरानभाषायामपि वैद्यवाचको भिजिष्कशब्दः, औषधवाचको वेषजंशब्दोऽपि भारतीयभिषग्भेषज-शब्दयोरेवोच्चारविभेदकृतः स्वरूपविशेषः । तथाविधौ अथर्ववेदोक्तौ ऋग्वेदोक्तौ च प्रधानशब्दावपि भारतात् तत्र सङ्क्रान्तौ चेत् तत्र भारतीयायुर्वेदस्य प्रभाव एतावताऽपि बहुशोऽनुमातुं शक्य⁵ते । किं बहुना
१. Encyclopaedia of Religion and Ethics Vol 4, P. 759 by L. C. Casartelli. २. Spiegal thinks it probable that in populous cities foreign physicians often competed with native ones. Under the Sassanians, too, we find Greek physicians at the royal court, and Spiegal is of opinion that Indian physicians made their way there also. (Eran Alterth.) E. R. E. Vol IV P. 759. ३. Greater India by Kalidas Nag M. A. D. Litt. No. I, P. 15. ४. The commonest term to indicate indifferently ‘medicine’, ‘healing’, ‘medicaments’, or ‘physician’ is Baeshaga, corresponding to Sanskrit Bhishaj, Bheshaja. In Pehlavi we find this word as Beshsj, but more commonly under the curiously inverted from bejishak as in modern Persian and Armenian words Bezhishk ‘physician’ and ‘Bezhshkel’ ‘heal’ By L. C. Casartelli, E. R. E Vol 4, P. 757. ५. There is no question of a Greek influence either on the medical knowledge current in ancient Iran. The Iranians use in the Avesta the word Bhaesaj, which was certainly derived either from Indian
१०८ काश्यपसंहिता वा वृद्धजीवकीयं तन्त्रम्
पारसीकमतप्रवर्तकाज्जस्थुष्ट्रादपि प्राक्तनैस्तद्देशीयनिवासिभिर्मागीजातीयैर्यै गुप्ता वैद्यकविद्या भारतीयब्राह्मणेभ्योऽधिगतेति चतुर्थशताब्द्या रोमेतिहासलेखकानाम् ‘अमीनस् मर्सिनस्’ प्रभृतीनां लेखोपलम्भेन, इरानदेशेऽतिपुराकालादेव भारतीयवैद्यकप्रभावस्य स्पष्टतया ततः परमपि भारतीयवैद्यानामुपगमवृत्तोपलम्भेन च भारतीयायुर्वेदस्यालोकस्तत्र चिरात् प्रतिफलितः स्पष्टीभवति । आयुर्वेदीयग्रन्थेषु चरकवृद्धजीवकीयादिषु बाल्हीकभिषक्त्वेन काङ्कायनो निर्दिष्टोऽस्ति । पुरा बहुकालमिरानाधिपत्येनाधिष्ठितो बलखप्रदेशो बाल्हीकशब्देन बोध्यते । काङ्कायनस्य सुश्रुतव्याख्योद्धृतसुश्रुतसतीर्थ्यत्वोक्तेः प्रामाणिकत्वे ‘बाल्हीकभिषजां वर’ इति निर्दिष्टेन काङ्कायनेन तत्र प्रवर्तिता वैद्यकविद्या भारतीयैव सिध्यति । अन्यथाऽपि भारतीयाचार्यैः सह पक्षप्रतिपक्षभावेन दर्शितसंवादस्य काङ्कायनस्य आचार्यकुक्षौ संमानेन निबन्ध संग्रहादौ संस्कृतभाषामयानां तदीयवचनानामुद्धारदर्शनेनापि भारतीयानुरूप एव तदीयोऽपि सम्प्रदायो न देशान्तरीयः, बुद्धसामयिकस्य जीवकस्याध्यापकत्वेनाभ्युपगतेनात्रेयेण काश्यपेनापि निर्दिष्टस्य बाल्हीकभिषजां वरस्य काङ्कायनस्य समयो ग्रीकवैद्यैः सह सम्पर्कमुपेतानां पूर्वोल्लिखितानामिराननृपाणां समयाद् अन्ततोऽपि गत्वा एकद्वशतवर्षपूर्व एव दृश्यत इति तत्र भारतीनां सम्बन्धः प्रभावश्च न किं प्राचीनतरः सिद्ध्यति ? प्रत्युत एतावन्तोऽशाइति परिच्छेतुं न शक्यन्ते, तदपि इरानप्रदेशाद्भारताच्च कतिपये वैद्यकविषया ग्रीसवैद्यके प्रतिसङ्क्रान्ताः सन्तीति मतमपि E. B. बृहत्¹कोशे निर्दिष्टमस्ति ॥
एवमादिरूपेण दूरदूरमपि प्राचीनेष्वनेकदेशेषु शाखोपशाखारूपासु प्राचीनानेकजातिष्वपि न्यूनाधिकरूपेण भारतीयप्राचीनव्यवहृतीनामाथर्वणप्रक्रियासाम्येन मान्त्रिकप्रक्रियया भेषजोपयोगेन च चिकित्सनसम्प्रदायस्य च गमकान्यसाधारणलक्षणानि बहुशो दृश्यन्ते । येषु प्रकृविच्छेदविस्तरभयाद्दिङ्मात्रमिह निदर्शितम् । एवं दर्शनं भारतस्य देशान्तराणां चातिपुराकालादेव मिथः परिचयं सम्पर्कं व्यवहारं विद्याविज्ञानादिसङ्क्रमणादिकं च निश्चाययति ॥
प्राचीनभारतस्य सभ्यताया विषयान्तरविभागेष्विव आयुर्वेदीयविभागेऽपि प्राचीन एवोन्मेषः । आध्यात्मिकेषु विचारेषु बाह्येषु कलाकौशलादिषु च पुरासमयाद्विकसितां दृशं दधद्भारतं सर्वोपजीव्यशारीरयात्रोपयोगिनि भेषज्यप्रस्थाने कथमुदासीत । आयुर्वेदीयसंहितासु तु लोकसृष्टेः समकालमेव ब्रह्मणायुर्वेदोद्गमः प्रतिपाद्यते । वैदिके साहित्ये यथा हि विद्यान्तराणि तथैव वैद्यकविषया अपि ऋग्यजुःसामतैत्तिरीयादिषु ततोऽप्याथर्वणे विशेषत उपलभ्यन्ते ॥
वैदिकसमयादेवायुर्वेदविद्यायाः संमाननेन उपवेदपदमुपादीयते² । वैदिके समयेऽपि नानाप्रस्थानान्तरेष्विव आयुर्वेदीये प्रस्थानेऽपि पूर्वे महर्षयो बहुशः कृतपरिशीलनास्तत्तद्दशोबभूवुः । वैदिके समये शतशो वैद्याः, सहस्त्रश औषधानि, अनेकशा रोगाः, तत्तत्प्रतीकारोपायाश्चासन्निति प्रतिपादितमेव । ततः पराक्कालेऽपि आधुनिकविचारेण उपत्रिसहस्त्रवर्षप्राचीनतयाऽनुसन्धीयमानेषु ऐतरेय–शतपथ–कौषीतक्यादिब्राह्मणेषु छान्दोग्याद्युपनिषत्सु गर्भोपनिषदि श्रौतसूत्रादिषु गृह्यसूत्रादिषु रामायणमहाभारत³पुराणादिष्वपि
Bhesaj, Bhaisajya found both in the Rk and Atharvavedas, both of which are more ancient than the Gathas. The word is not of Indo-European origin and the Greeks do not use it. The persistence of this word in Iranian shows that the Iranians had most probably preserved medical tradition not of Greek origin but most probably of Indian origin. Even admiting that the Atharvaveda is of the same age as that of the Avesta there is no doubt that Rgveda is older than both and the word is found in it too.
१. Persian and Indian sources contributed something to Greek Medicine, As to the amount and the character of these contributions, we are not yet in a position to speak with definiteness.
E. B. Vol 15, P. 198.
२. लक्ष्मणविशल्यीकरणम् ।
३. उपातिष्ठन्नथो वैद्याः शल्योद्धरणकोविदाः । सवोपकरणैर्युक्ताः कुशलेः साधु शिक्षिताः—
(महाभारत भीष्मपर्वणि अ. १२०)
उपोद्घातः | १०९
अङ्गप्रत्यङ्गादीनि शारीरकाणि रोगास्तत्परिहारोपाया भेषजानि एवमादाय आयुर्वेदीयविषयास्तत्सम्बन्धिन इतिहासा उपाख्यानान्युल्लेखाश्चोपलभ्यन्ते। महाभारते यु^१द्धादिष्वपि साङ्ग्रामिकसैन्यैः सह वैद्यानां चिकित्सकानामपि सह नयनं सर्वोपकरणोपेतानां शास्त्रविशारदानां बहूनां वैद्यानां युद्धशिबिरेष्ववस्थापनं, तद्द्वारा आहतानां प्रतीकारप्रवृत्तिरपि तत्र तत्र दृश्यते। एष विषयो मत्थू^२महाशयेनापि निर्दिष्टोऽस्ति। रामायणे सुषेणवैद्यकथा प्रसिद्धैव॥
कौटिलीये सा^३ङ्ग्रामिकाधिकरणे शस्त्रयन्त्रागदस्नेहवस्त्रहस्तचिकित्सकस्त्र्यादीनामपि सेनापृष्ठभागेऽवस्थानं निर्दिष्टमस्ति।
पुराणेतिहासादिष्वपि न खल्वेष विषयो विरलः॥
तदेवं गुरुदक्षिणाप्रदेयाश्वानां प्राप्त्यै काशीपतिं दिवोदासमुपयुषे गालवाय हिमवन्मूले वायव्यदिशि मारीचकश्यपस्याश्रमस्य निर्देशनस्योपलम्भेन दिवोदासादनतिपूर्वं किं वा तत्समकाले कृताश्रमो मारीचकश्यप इति महाभारतोल्लेखः, मारीचकश्यपस्य ऋक्सर्वानुक्रमसूत्रे बृहद्देवतायामप्युपलम्भः, आत्रेयसहभावित्वाद् वायोर्विदस्य मारीचकश्यपात्रेयपुनर्वसुसहभावः, कृष्णात्रेयस्य पुनर्वस्वात्रेयसामानाधिकरण्यं, चिकित्सितप्रवर्तकत्वेन कृष्णात्रेयस्य महाभारते निर्देशः, आत्रेयान्तेवासितया भेस्योल्लेखः भेडसहभावितयाऽऽत्रेयपुनर्वसूपदेशतया च गान्धारनृपस्य नग्नजित उल्लेखः, नग्नजितो दारुवाहस्य च सामानाधिकरण्यं, दारुवाहस्य काश्यपीये निर्देशः, गान्धारनृपस्य नग्नजित ऐतरेयब्राह्मणे, गान्धारस्य प्राणविदो नग्नजितस्तत्पुत्रस्य स्वर्जितोऽपि शतपथब्राह्मणे कीर्तनं, दिवोदासस्य कौषीतकिब्राह्मणे कौषीतक्युपनिषदि काठकसंहिताब्राह्मणांशे महाभारतेऽप्युपलम्भः, तत्पूर्वपुरुषत्वेन धन्वन्तरेलर्भिश्रेत्येवं सर्वतो दृशः प्रवर्त्य विचारणे मारीचकश्यपः, पुनर्वसुरात्रेयः, भेडः, नग्नजिद्दारुवाहः, वायोर्विदश्चैते भैषज्यविद्याचार्या ऐतरेयकौषीतकिशतपथकाठकब्राह्मणकालादनर्वाचीना धन्वन्तरिदिवोदासवद्ब्राह्मणोपनिषत्सहभावेन लेशतः पौर्वापर्येण वा वर्तमाना आसन्निति पूर्वं प्रतिपादितमेव॥
आत्रेयकश्यपादिभिरपि कति पूर्वाचार्याणां मतानि बहूनि नामानि च गृहीतानि दृश्यन्ते। एषामात्रेयादीनां संहितार्कतृतायाऽपि पूर्वाचार्योपदिष्टानां विप्रकीर्णविषयाणां संहननमभिव्यज्यते॥
तदेवं वैदिकात्समयात् परम्परानुवृत्ता क्रमविकासेन विवृद्धा चिकित्साविद्या पूर्वतनग्रन्थानां विलोपेनाद्यत्वेऽनुपलम्भेऽपि उपलभ्यमानात्रेयसुश्रुतकश्यपादिग्रन्थान्तर्गतविषयाणां निध्याने तत्समये परां प्रौढिमापन्नाऽनुभूयते। चिकित्साप्रधानैरात्रेयकश्यपभेदादिभिरपि शल्यप्रक्रियायाः सूचनेन शल्यविद्याऽपि प्राचीना तदात्वे प्रस्थानविशेषरूपेण प्रौढिमादधानाऽवगम्यते। एभिरेवात्रेयादिभिरुल्लिखितेषु शालाक्यादि षड्विभागान्तरेष्वपि विचारपूर्णाः प्रौढा ग्रन्थाः स्युः। कालवशेनैषामपि लोपो महते खेदाय॥
आश्विन-भारद्वाज-जतूकर्ण-पाराशर-हारीत-क्षारपाणि-भानुपुत्र-भोज^४-कपिलबलादीनामाचार्याणां भूततन्त्रस्य चाद्यत्वे मूलग्रन्थानुपलम्भेऽपि तेषां वचनानि ताडपत्रीये प्राचीने ज्वरसमुच्चये, केषाञ्चिदेषामाचार्याणामन्येषामपि कतिपयानां वचनानि पश्चात्तनैषु तन्त्रसारे चरकादिव्याख्यासु निबन्धग्रन्थेषु च समुद्धृतानि बहून्युपलभ्यन्ते। एवमुपलम्भेन तावत्कालपर्यन्तमपि तेषामाचार्याणां ग्रन्था उपलभ्यमानाः परिशील्यमानाश्वासन्निति स्पष्टप्रतीतयेऽद्यापि चिह्नमावशिष्यते॥
१. I. कोशं यन्त्रायुधं चैव ये च वैद्याश्चिकित्सकाः। तत्संगृह्य ययौ राजां ये चापि परिचारकाः। ५८ उद्योग अ. १५१
II. शिबिराणि महार्हाणि राज्ञां तत्र पृथक्पृथक्। तत्रासन् शिल्पिनः प्राज्ञाः शतशो दत्तवेतनाः।
सर्वोपस्करर्णैर्युक्त वैद्याः शास्त्रविशारदाः। (१२) उद्योगे अ. १५२
२. Antiquity of Hindu Medicine by D. C. Muthu A. D. P. 21, 52.
३. चिकित्सकाः शस्त्रयन्त्रागदस्नेहवस्त्रहस्ताः स्त्रियश्चान्रपानरक्षिण्यः उद्धर्षणीयाः पृष्ठतोऽनुगच्छेयुः (कौटिलीये अधिकरणे १०)।
४. एष भोजः प्राचीनाचार्यः सुश्रुतसमकालीनो नतु धारानगरराधीशः॥
११० काश्यपसंहिता वा वृद्धजीवकीयं तन्त्रम्
प्राचीनैरात्रेयकश्यपादिभिः काम्पिल्यगङ्गाद्वारादिकं तत्तत्स्थानमलङ्कुर्वद्भिरायुर्वेदाचार्यैस्तत्तत्स्थलेष्वेव स्वोपदेशपरम्परया शिष्यसंप्रदायाद्यभिवर्धनेन स्वस्वीया विचारा एव केवलं न प्रकाशिताः, अपि तु अद्यत्वे वैद्यविद्यापीठमधिष्ठितैस्तैस्तैर्वैद्याचार्यैस्तत्र तत्र प्रदेशे सम्भूय वैद्यसंमेलनसमितिमवस्थाप्य स्वस्वविचारोद्भूतानां नवनवानां प्राचीनानाञ्च विषयाणां विमर्शनमिव प्राचीनकालेऽपि यदा कदाचित् देशदेशान्तरागतैस्तदानीन्तनैः प्रसिद्धैस्तैस्तैराचार्यैस्तेषु तेषु स्था<sup>१</sup>नेषु सम्भूय परिषदमवस्थाप्यापि परस्परविमर्शा विधीयमाना आसन्। येनैवं विमर्शे शाणसङ्घर्षोज्ज्वलानि रत्नानीव तानि तानि सिद्धान्तरत्नानि, नवनवा विचाराः, स्वस्वाभिप्रायविचाराश्च स्वस्वसंहितासु निर्दिष्टाः दृश्यन्ते ॥
पाणिनिनाऽपि गर्गादिभ्यो यञिति (४-१-१०५) सूत्रीयगर्गादिगणे जतूकर्णपराशराग्निवेशशब्दानामुल्लेखनेन, कथादिभ्यष्ठगिति (४-४-२) सूत्रे कथादिगणे आयुर्वेदशब्दं प्रवेश्य तत्र साधुरित्यर्थे ‘आयुर्वेदिकः’ इति पदसाधनेन च तदात्वेऽप्यायुर्वेदविद्या समुन्नतावस्थायामासीत्, तत्र कुशलाविदांसोऽपि बहव आसन्नित्यपि प्रतीयते । 'मन्त्रायुर्वेदप्रामाण्यवच्च तत्प्रामाण्यमाप्तप्रामाण्यात्' इति (२-१-६७) सूत्रकृता गौतमेन तत्तदौषधोपयोगोपदेशानुसारेण तत्तद्रोगनिवृत्त्यादीनां लाभेन आयुर्वेदस्य विषभूताशनिप्रतिषेधार्थानां मन्त्राणां च तत्तत्प्रयोगविशेषे फलानुपप्लवेन यथा प्रामाण्यं व्यवस्थितमेतत्तौल्येषु सर्वेषां वेदानां प्रामाण्यमिति आयुर्वेदादेः प्रामाण्यं सिद्धवत् कृत्वा तन्निदर्शनेन सर्वेषां वेदानां प्रामाण्यस्य व्यवस्थापनेन प्राचीनाचार्याणामेषां समयेऽप्यायुर्वेदविद्यायाः प्रचारः, संमाननं, प्रामाण्यं चाभ्युपगतमासीदिति च ज्ञायते, न्यायमञ्जरीका<sup>२</sup>रेण जयन्तभट्टेनाप्यस्मिन्विषये सुनिरूपितमस्ति ॥
महावग्गादिपालीग्रन्थलेखे कालाञ्जन-रसाञ्जन-स्रोतोञ्जनगैरिकाद्यौषधानां, भगन्दरादिरोगाणां त्रिदोषाणां, स्वेदनबस्तिकर्मादीनां च भारतीयायुर्वेदिकविषयाणां तदीयशब्दैर्व्यवहृतानामुपलम्भेन जीवकीयचिकित्सनवृत्तेन च बुद्धसमयेऽपि (B. C. 600) (B. C. 600) एतदीयः प्रचारो बहुशः स्फुटीभवति ॥
महावग्गीयजीवकस्य चरित्रानुसन्धाने गुरुणा परीक्षायै वनस्पत्यालोचनाय नियुक्तेनानेनैकस्याप्यनुपयोगिनो वनस्पतेरनुपलम्भवर्णनेन भेषजप्रयोगेण बहूनां तीव्ररोगाणां चिकित्सनेतिवृत्तेन च कायचिकित्सायाम्, अन्त्रभेदनकपालभेदपर्यन्तया शस्त्रप्रक्रिययाऽपि चिकित्सनेन शल्यप्रस्थानेऽप्यसाधारणं विशेषविज्ञानं तदीयमवगम्यते । तस्य महावग्गतिब्बतीयकथा-जातकादिलेखेभ्यो बुद्धस्य तत्कालीननृपादीनां च चिकित्सनस्य निर्देशेन तस्य बुद्धसामयिकत्वं, तल्लेखात्तस्य तक्षशिलायाममध्ययनमपि निश्चेतुं शक्यते । परं महावग्गलेखात् तद्विद्याप्रमुखात् कस्माच्चिदेवाचार्यात् तदध्ययनमायाति । तिब्बतीयेोप<sup>३</sup>कथात आत्रेयात् तदध्ययनं प्रतीयते इति केचन वदन्ति । तस्य मूलं तु न प्राप्यत इति पूर्वं (पृ. ४१) उक्तमेव । तेन स चात्रेयः चरकसंहिताया मूलाचार्यः पुनर्वसुरात्रेयएवेति न ततोऽवधार्यते । चरकसंहिताया लेखादपि पुनर्वसुरात्रेयो, भिक्षुरात्रेयः, कृष्णात्रेय इति त्रय आत्रेयास्तदानीं वैद्यविद्यायामाचार्यत्वेन प्रसिद्धा ज्ञायन्ते । आत्रेय इति गोत्रनाम । तद्गोत्रोत्पन्ना अनेके पूर्वापरा आत्रेयशब्देन शब्द्यन्ते । जीवकस्याचार्यत्वेनाभ्युपगत आत्रेयः कतम इति एतावतैवानिश्चीयमानतया आत्रेयशब्दसाम्यमात्रेण स एव पुनर्वसुरात्रेयो जीवकगुरुरिति न वक्तुं शक्यते । आत्रेयेण तिस्रैषणीयाध्याये त्रिविधौषधवर्णने ‘शस्त्रप्रणिधानं पुनश्छेदनभेदनव्यधनदारणलेखनोत्पाटनप्रच्छनसीवनैषणक्षारजलौकसश्च’ इति शस्त्रप्रणिधानस्य नाममात्रोद्देशोऽस्ति (पृ. ५७८) । सोऽपि तदध्यायीयविषयाणामन्ते कृष्णात्रेयत्वस्योल्लेखात्तदीयः प्रतीयते । काश्यपसंहितायां ‘परतन्त्रस्य समयम्’ इति शल्यविद्यायाः परतन्त्ररूपेणोल्लेखवदात्रेयेणापि ‘धान्वन्तरीयाणाम्’ ‘एके’ इत्यादिशब्दैर्धान्वन्तरंसंप्रदायो निर्दिष्टः। चिकित्सास्थाने द्विव्रणीयाध्याये शल्यप्रस्थानीयोपचाराणामपि निर्देशोऽस्ति । परं स निर्देशः पश्चाद्दृढबलपूरितांश
१. हिमवतः पार्श्वे, चैत्ररथवने, जनपदमण्डले पाञ्चालक्षेत्रे काम्पिल्यराजधान्यां, पञ्चगङ्गे च आयुर्वेदीयविचाराय महर्षीणां समवायश्चरकंसंहितायां तत्र तत्रोल्लिखितोऽस्ति । तत्रैव विमानस्थाने परिषदोऽपि निरूपणमस्ति । काश्यपसंहितायामपि जातिसूत्रीये ‘इति परिषद्’ (पृ. ७९) ‘भूयांसः’ (पृ. १५३) इति परिषदो विद्वत्समवायस्य चोल्लेखोऽस्ति ॥ २. न्यायमञ्जर्याम् (पृ. २५३-२६०)। ३. Tibetan Tales P. 98.