भारतकोश
संग्रह पर लौटें

मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)

Manameyodaya of Narayana Bhatta with Commentary

नारायण भट्ट एवं नारायण पण्डित द्वारा

DevanagariHindipublished672 पृष्ठ

बादरायणात्मा 153 तच्चानुभवनं भूतभौतिकानां मतं यदि । विषयत्वात्तर्हि तेषां न तद्धर्मत्वमश्नुते ॥ न ह्यग्निरुष्णः स्वात्मानं दहतीत्युपगम्यते । शिक्षितस्सन्न हि नटः स्वस्कन्धमधिरोक्ष्यति ॥ अतः क्रिया विरुद्धैषा स्वात्मनीति श्रुतं बुधैः । रूपादिभिः स्वस्वरूपं विषयीक्रियते न हि ॥ नह्येवं भूतधर्मेण सता चैतन्यवस्तुना । भूतभौतिकवस्तूनां विषयीकरणं भवेत् ॥ भूतभौतिकवस्तूनि बाह्यान्याध्यात्मिकानि च । तच्चैतन्येन विषयीक्रियन्त इति सम्मतम् ॥ अतो यथैवोपलब्धेः सद्भावोऽभ्युपगम्यते । व्यतिरेकोऽप्येवमस्याः विषयेभ्योऽभ्युपेयताम् ॥ उपलब्धिस্বরূপोऽसावात्मेत्यस्माभिरिष्यते । तस्मात्तथाविधो ह्यात्मा सिद्धो देहविलक्षणः ॥ उपलब्धेरैकरूप्यान्नित्यत्वमपिचात्मनः । अहं वस्त्विदमद्राक्षमिति प्रत्यभिसन्धितः ॥ स्मृतीच्छाद्युपपत्तेश्च विज्ञानं क्षणिकं न सः । 3 युक्त्यन्तरं पुनरिदं वस्तुतस्त्ववधार्यताम् ॥ यथोपलब्धिर्भवति दीपादौ सति साधने । नैतावता दीपधर्मः सोपलब्धिर्भविष्यति ॥ M.R. 20

154 मानमेयरहस्यश्लोकवार्तिके तथैव सति देहेऽस्मिन् साधने धीर्भविष्यति । न भविष्यत्यसति च न स्याद्देहगता ततः ॥ देहेनापि नचात्यन्तमुपयोगोऽत्र दृश्यते । निश्चेष्टेऽपिच देहेऽस्मिन् दृश्यन्ते स्वाप्रसंविदः ॥ तस्माद्देहातिरिक्तत्वमनवद्यं तथाऽस्तिता । इत्यात्मचिन्ता युक्तिस्था विज्ञेया बादरायणी ॥ चैत्रस्तारक्ष्वीं स्वप्ने तनुमास्थाय बुध्यते । मानुषीमात्मनः पश्यन् तनुं तदुभयानुगम् ॥ आत्मानमनुसंधत्ते स्वयं देहविलक्षणम् । सर्वलोकप्रसिद्धोऽयं प्रत्ययोऽप्यवमृश्यताम् ॥ (36) वेदान्तात्मा. 1 अथ सर्वार्थसिद्धयुक्तः वैदिकात्मविनिर्णयः । विलिख्यते सुनिष्पन्नः विस्तरोऽन्यत्र दृश्यताम् ॥ मनुष्योऽहं कृशः स्थूलः इत्यादिसार्वलौकिकः । अभेदप्रत्ययोऽह्यस्ति नीलो घट इतीदृशः ॥ मम देहोऽप्यहमिमं जानामीत्यादिभेदधीः । अपिह्यस्ति मम क्षेत्रमित्यादिप्रत्ययो यथा ॥ लोके भेदेऽप्यभेदेन प्रत्ययो दृश्यते यथा । सेयं ज्वाला तथाचायो दहतीत्यादिलक्षणः ॥

तथा भेदप्रत्ययोऽपि ह्यभेदेऽपिच दृश्यते । चन्द्रद्वयं घटमठाकाश इत्यादिलक्षणः ॥ बलाबलव्यवस्थायां कर्तव्यायां प्रसज्यते । सर्वत्राप्रामाण्यशङ्का यथा चैषाऽवधार्यताम् ॥ निर्वापितारोपितवत् ज्वालैक्यप्रत्ययस्थले । सादृश्यसाद्देश्यमुखदोषाणां संभवो यथा ॥ अयःपिण्डस्थलेऽन्योन्यव्यतिहारधियामपि । हेतुर्विलक्षणो योगः यथा स्यात्प्रकृते तथा ॥ साद्देश्यसंसर्गमुखदोषसद्भावशङ्कया । स्यादभेदप्रत्ययोऽप्रामाण्यशङ्काकलङ्कितः ॥ तथा भेदप्रत्ययोऽपि शिलापुत्रस्य देहवत् । राहोश्शिरोवदैक्यस्याग्रहणाद्वा भवेदिति ॥ तादृशाप्रामाण्यशङ्काकलङ्कान्न विमुच्यते । घटस्यात्मेत्यादिवत्तु ममात्मेत्यन्यथा भवेत् ॥ 2 एवंच नित्यशास्त्रोत्थसंप्रदायानुसारतः । भेदधीः प्रबला नान्येत्याहुश्शास्त्रैकलोचनाः ॥ यथा चन्द्रे यथा सूर्ये परिमाणाल्पविभ्रमः । दिङ्मोहादिभ्रमश्चैव तलमालिन्यविभ्रमः ॥ एवंलक्षणकस्सर्वश्शास्त्रेणैव निवार्यते । तथा शास्त्रानुग्रहेण बलाबलविनिर्णयः ॥

156 मानमेयरहस्यश्लोकवार्त्तिके ततः स्वतो वा युक्त्या वा योगदर्शनतोऽपिवा । आत्मनः सिद्धिरित्याहुः इति देहात्मसंग्रहः ॥ (37) आर्हतात्मा. 1 आर्हतानामात्मतत्त्वं प्रागेव सुनिरूपितम् । तदेवचात्माऽध्यायेऽस्मिन् अन्यूनत्वाय चिन्त्यते देहेन्द्रियमनःप्राणधीभ्योऽन्योऽनन्यसाधनः । स्वयंप्रकाशप्रत्यक्षसिद्ध आत्मेति निर्णयः ॥ आत्मा चैतन्यरूपस्स्यात्परिणामी करोति च । साक्षाद्भोक्ता स्वीयदेहसमानपरिमाणवान् ॥ प्रतिक्षेत्रं विभिन्नश्च विचित्रश्चाप्यनन्तकः । स च पौद्गलिकादृष्टसंयुतः पुरुषार्थभाक् ॥ आत्मतत्त्वं तु सहजचिद्रूपपरिणामवत् । आवृतिप्रक्षयादेषः सार्वज्ञ्यैकरसः स्वयम् ॥ ज्ञानाद्भिन्नो नचाभिन्नः भिन्नाभिन्नः कथंचन । ज्ञानं पूर्वापरीभूतं सोऽयमात्मेति कीर्तितः ॥ उपादेयं परं ज्योतिरुपयोगैकलक्षणः । उपयोगः कर्मणैकीभूतस्यास्य विवेचनम् ॥ 2 औदयश्चौपशमिकः क्षायिकः पारिणामिकः । एते जीवस्य चत्वारः भावाः पर्यायलक्षणाः ॥

आर्हतात्मा 157 स स्यादौदयिको भावः यः कर्मोदयलक्षणः । स चौपशमिको भावः यः कर्मोपशमात्मकः ॥ स एव क्षायिको भावः यस्स्यात् मोक्षपदाभिधः । स पारिणामिको भावः सहजः चित्स्वभावता ॥ समनस्कोऽमनस्कश्च स जीवो द्विविधो मतः । संज्ञिनस्समनस्काः स्युः अमनस्काः त्रसाः स्थिराः गुणपर्यायवद्द्रव्यं तत्रस्थाः निर्गुणाः गुणाः । चैतन्यसुखदुःखाद्याः पर्यायगुणलक्षणाः ॥ 3 सत्कर्मपुद्गलाः पुण्यं पापं तस्य विपर्ययः । पूरयन्ति गलन्तीति पुद्गला इति निर्णयः ॥ धर्मः प्रवृत्तिहेतुः स्यादधर्मः स्थितिकारणम् । अधर्मे गलिते धर्मः स्यादूर्ध्वगतिसाधनम् ॥ आत्मनश्चलनं योगः तेन कर्म पुमानयम् । आदत्ते सलिलं विष्वक् तप्तायःपिण्डवत् सदा ॥ तदेव पौरुषं ज्योतिः इन्द्रियेभ्यस्स्रवत्सदा । स्पृशच्च विषयान् तद्धीरूपेण परिणाम्यदः ॥ स चास्रवः, तस्य धीरैः कर्तव्यस्संवरस्सदा । आस्रवस्स्रोतसो द्वारं संवृणोतीति संवरः ॥ इति मानमेयरहस्यश्लोकवार्तिके प्रमेयकाण्डे प्रथमः परिच्छेदः

अथ प्रमेयकाण्ड द्वितीय परिच्छेद प्रारम्भः. (38) धर्मधर्मिभाववादः. 1 अथ मीमांस्यते धर्मधर्मिभावे विदां मतम् । सर्वेषां च विवादानां प्रायशोऽत्रैव विश्रमः ॥ सदसत्कार्यवादो वा नित्यानित्यविकल्पना । क्षणास्थिरविवादश्च सृष्टिप्रळयकल्पना ॥ द्वैताद्वैतविवादश्च मोक्षवादोऽपि तादृशः । तदुपायविवादो वा वादेऽस्मिन् पर्यवस्यति ॥ अद्रव्यवादिनः केचित्केचिद्द्रव्यैकवादिनः । तदैक्यवादिनः केचित् केचित्तद्भेदवादिनः ॥ भेदाभेदं वदन्त्यन्ये केचित्सन्मात्रवादिनः । असन्मात्रविदः केचित् तेषां भावोऽवमृश्यताम् । 2 स्पर्शादीन् जगतो धातून् पञ्च वैभाषिका विदुः शब्दात्मनश्चतुर्ष्वेव केचिदित्यपरेऽब्रुवन् ॥ स्पर्शाद्येकद्वित्रिचतुस्स्वभावानपरे विदुः । निर्धर्मका निराधाराः न चेत्स्यादनवस्थितिः ॥ धर्मोपकारशक्तीनां भेदे तास्तस्य किं यदि । नोपकारस्ततस्तासां, तथा स्यादनवस्थितिः ॥ 158

धर्मधर्मिभाववादः 159 नानोपाध्युपकाराङ्गशक्त्यभिन्नात्मनो ग्रहे । सर्वात्मनोपकार्यस्य को भेदस्स्यादनिश्चितः ॥ एकोपकारके ग्राह्ये नोपकारास्ततोऽपरे । दृष्टे तस्मिन्नदृष्टेऽपि तद्ग्रहे सकलग्रहः ॥ त्वगाद्येकैकेन्द्रियस्य ग्राह्या इत्यपि तत्स्थितिः । तेषां पुञ्जः प्रपञ्चोऽयं संबन्धस्यानवस्थितेः ॥ क्षीणानि चक्षुरादीनि रूपादिष्वेव पञ्चसु । न षष्ठमिन्द्रियं द्रव्यग्राहकं विद्यते बहिः ॥ तत्र धर्मातिरेकेण धर्मिणोऽनुपलम्भनात् । संघातमात्र एवायं गवादिस्स्यादनादिवत् ॥ सिद्धे ज्ञानसुखादीनां गुणत्वे गुणिकल्पना । न तु तत्सिद्धमस्माकं तावन्मात्रोपपत्तितः ॥ एत एव विशेषैकवादिनोऽद्रव्यवादिनः । प्रायो वैभाषिका एते यथाच वनवादिनः ॥ ३ अथ केचन सन्मात्रं विदुः तत्तु स्वलक्षणम् । तदेतत्सर्वसामान्यसहमित्यपि तैः स्मृतम् ॥ द्रव्यं गुणः कर्म जातिः नाम चेत्यपि पञ्चधा । विकल्प्यते वासनया वस्तुभावेन तद्यथा ॥ गोविन्दो वेणुमान् श्यामः गोपोऽयं गायतीत्यपि । प्रतीतिर्व्यवहारश्च वर्तते न तु वस्तुतः ॥

60 मानमेयरहस्यश्लोकवार्तिके एकस्यार्थस्वभावस्य प्रत्यक्षस्य सतस्स्वयम् । कोऽन्यो न दृष्टो भागस्स्यात् यः प्रमाणैः परीक्ष्यते॥ स्वलक्षणः स प्रत्यक्षः निर्विकल्पकगोचरः । इत्याहुस्ते हि सन्मात्रवादिनः धर्मिवादिनः ॥ सामान्यवादिनश्चापि तथैवापोहवादिनः । बाह्याद्वैतिन इत्येवं कथ्यन्ते बहुरूपतः ॥ भेदे धर्मिस्वरूपे तु भ्रमः क्वापि न संभवेत् । धर्मरूपेऽनवस्था स्यात् अन्योन्याश्रयताऽपि वा ॥ भेदकाग्रहणे भेदो न गृह्येत कथंचन । तस्य चाग्रहणे सोऽपि न गृह्येतेति संग्रहः ॥ अभावस्य यथा देशकालाद्यैः सिद्धिरन्यथा । तथा रूपादिवस्तूनां किं न स्यात्सिद्धिरन्यथा ॥ साधारणोऽथान्यथा वा संबन्धो धर्मधर्मिणोः । आद्ये सकलसांकर्यं अन्त्ये भेदो न सिद्ध्यति ॥ आधाराधेयभावोऽपि न भेदे व्यवतिष्ठते । स्वभावात्रियमश्चेत्स्यात् स्वभावादेव चैकता ॥ 4 सौत्रान्तिकानां सिद्धान्तः प्रायेणायमिति स्थितः। द्रव्याद्रव्यैक्यसिद्धान्तस्त्वथ कापिलसम्मतः ॥ वस्तुजातं प्रतीत्यैव व्यवस्थाप्यं हि सर्वशः । धर्मी धर्मः प्रतीयेते नातोऽन्यतरनिह्नवः ॥

धर्मधर्मिभाववादः 1 कार्यकारणयोर्द्रव्यगुणयोः कर्मकर्मिणोः । जातिव्यक्त्योरभेदोऽयं सम्मतोऽयुतसिद्धयोः ॥ धर्मत्वादथ कार्यत्वात् संयोगाप्राप्त्यसंभवात् । संवित्त्युत्पत्तिसत्तानां भेदेनानवभासनात् ॥ धर्मोऽसौ धर्म्यभिन्नस्स्यादिति सांख्यव्यवस्थिति कथंचिदाश्रितत्वादिः स्यात्तु भेदविवक्षया ॥ यथेह कानने सन्ति तिलका इति गीस्तथा । 5 वैशेषिकादयः केचिद्भेदमेकान्ततो विदुः ॥ प्रतीतिं व्यवहारं च प्रमाणं तेऽपि मन्वते । दर्शनस्पर्शनाभ्यां चाप्येकार्थग्रहणादिति ॥ अबाधिता प्रत्यभिज्ञा धर्म्यभावे हि दुर्घटा । धर्माभावः पट्वपटुप्रत्ययानुपपत्तितः ॥ पीतशङ्खभ्रमादेश्चाप्ययोगान्न हि संभवी । स एवच तदैवान्यैः शुक्लत्वेनोपलभ्यते ॥ अधिष्ठानस्य कार्त्स्न्येन भानेऽभाने च न भ्रमः भाताभाताकृतिर्भिदा कथं निर्धर्मके भवेत् ॥ आविर्भावतिरोभावधर्मकेष्वनुयायि यत् । तद्धर्मि यत्र वा ज्ञानं प्राग्धर्मग्रहणाद्भवेत् ॥ ग्राह्यभेदे ग्राहकाणां भेदस्स्यादन्यथापुनः । अन्योन्यसंश्रयापत्त्या विजयी मध्यमागमः ॥ M.R. 21

162 मानमेयरहस्यश्लोकवार्तिके वेद्यहेतुफलाकारैः भिन्नैरेका समेति धीः । तथा बाह्येऽपि दृष्टत्वात् युगपत्क्रमशोऽपिवा ॥ प्रतिसंबन्ध्यनेकत्वं यथा नैकस्य बाधकम् । तथा संबन्ध्यनेकत्वं नाश्रयैकत्वबाधकम् ॥ अनादाविह संसारे पूर्वपूर्वोपदॆशतः । शिक्ष्यमाणाः पुनर्बालाः व्युत्पद्यन्ते तथातथा ॥ सर्वोऽपि भेदो युगपत्सहसैवोपलभ्यते । सेनावनसभातारामण्डलादिविभागवत् ॥ आगन्तुकोऽथवाऽवस्था धर्मो मिथ्येति न क्षमः । जननादेश्च मिथ्यात्वे नित्यत्वं वाऽथ तुच्छता ॥ नित्यं सत्त्वमसत्त्वं वाऽहेतोरन्यानपेक्षणात् । अपेक्षातो हि भावानां कादाचित्कत्वसंभवः ॥ अस्तीहीति प्रतिज्ञाने नास्तीहीत्युत्तरं क्षमम् । प्रवृत्तिभिर्विशिष्टार्था बालमूकादिधीरपि ॥ 6 ननु निर्धर्मको धर्मः उत वा स्यात्सधर्मकः । आद्येऽभिलपनं न स्यात् अन्त्ये स्यादनवस्थितिः॥ केचिद्धर्माः धर्मिणः स्युः स्वान्यनिर्वाहकाः परे । गोत्वादिनिष्कर्षशब्दे धर्मी धर्मविशेषकः॥ सत्त्वं प्रामाणिकत्वाख्यं प्रमेयत्वं च वाच्यता । पदार्थत्वादिकं सर्वैः स्वस्ववृत्तीति सम्मतम् ॥

धर्मधर्मिभाववादः 163 घटकुड्यवदन्यत्वेऽनन्यत्वे तु स्वरूपवत् । न गुणस्य गुणत्वं स्यादित्यसत्त्वोक्तिबाधतः ॥ दृष्यादन्यदनन्यद्वा दूषणं नतु दूषणम् । गर्दभादिवदन्यत्वे,ऽनन्यत्वे दूषणीयवत् ॥ सामान्यं वा विशेषं वा वादी नाङ्गीकरोति चेत् । भ्रान्तिबाधौ हि न स्यातां कुत्र किं केन साध्यते ॥ द्रव्यं सत्त्वमथाद्रव्यमसत्त्वमिति शाब्दिकम् । असत्त्वेन मृषात्वं स्यादद्रव्यस्येति चेन्न तत् ॥ असत्त्वं सत्त्वभिन्नत्वं द्योतकत्वादि तन्मतम् । नतु तुच्छं यतश्चार्थक्रियाकारित्वमिष्यते ॥ 7 भेदाभेदे हेतवो ये कीर्तिताः धर्मधर्मिणोः । अभेदधीः प्राक्, परतश्चैकशब्दानुविद्धधीः ॥ सामानाधिकरण्यं च मत्वर्थीयविनाकृतम् । सहोपलम्भनियमः इत्याद्याः, तत्र चोच्यते ॥ नाभेदधीः प्राग्वैशिष्ट्यात् धर्म्यैक्यादेकतामतिः । मत्वर्थीयः पृथक्सिद्धे सहभावोऽपि भेदकः ॥ तदिहाभिन्नधीर्भिन्ने भ्रान्तिः ज्वालैक्यबुद्धिवत् । अभिन्ने भेदधीश्चैवं स्याच्चन्द्रद्वित्वबुद्धिवत् ॥ धर्मधर्मिस्वरूपैक्ये स्यान्नान्यतरधीः क्वचित् । सहधीश्च क्वचिन्न स्यात् सम्मतैक्ये यथा घटे ॥

सहस्रशस्सुप्रयोगास्सन्त्येव ह्यौपचारिकाः । तत्त्वं विनिश्चाययितुं अज्ञानां तैर्न शक्यते ॥ भेदाग्रहादिकारित्वात् धर्मत्वाद्देशसाम्यतः । परिमाणैक्यतश्चेत्याद्यसारं सांख्यकल्पितम् ॥ बाधासिद्ध्यन्यथासिद्धिर्व्यभिचारादिविप्लुताः । हेतवस्तद्विदामेव जुगुप्सामात्रहेतवः ॥ यत्तु भेदे स्वरूपादिविकल्पः तत्र कथ्यते । यद्बुद्धौ यत्र यद्भ्रान्तिः न स्यात्, सा तत्र तद्विदा ॥ अभेदेऽपि स्वरूपादिविकल्पानुपपत्तयः । भेदे यथा तथैव स्युः समाधिश्चोभयोस्समः ॥ 8 तस्माद्धर्मश्च धर्मी च निरपेक्षौ परस्परम् । विवादानवकाशस्स्यादभावे धर्मधर्मिणोः ॥ क्व वा विधीयते किंवा साध्यं किं किंच साधनम् । कः पक्षः कश्च दृष्टान्तः सर्वं खल्विह दुर्घटम् ॥ इदमित्थंत्वयो किंचिद्यदि केनापि भज्यते । इदं नास्तीति वाचोऽपि भङ्गोऽन्यतरभङ्गतः ॥ विसंवादादिसाध्येषु विकल्पत्वादिहेतवः । व्याकुलाः पक्षहेत्वादिबाधाबाधविकल्पतः ॥ व्यवहारो हि जगतो भवत्यालम्बने क्वचित् । न तत्सामान्यतो नास्ति कथंता तु परीक्ष्यते ॥

धर्मधर्मिभाववादः 165

सामान्यनिश्चितार्थेन विशेषे तु बुभुत्सिते । परीक्षा वर्तते स्वेष्टप्रमाणोत्पादनात्मिका ॥ संबन्धेऽनुपपत्तिर्या वृत्तित्वे याऽपि तादृशी । स्वीयकार्यविरोधेन सा नात्रोत्प्रेक्षितुं क्षमा ॥ वासनावशतस्सर्वनिर्वाहे शून्यता वरम् । इष्टप्रसक्तिरितिचेदनिष्टं तेऽस्तिवा नवा ॥ नास्ति चेन्नैव दूष्योऽन्योऽप्यस्ति चेत्तत्प्रसज्यते । इष्टानिष्टाविभागस्तु तिरश्चामपि दुर्वचः ॥ भेदमात्रापह्नवस्तु स्वक्रियायां विरुध्यते । न विरोधस्य संत्यागी लौकिको नाप्यलौकिकः ॥ ९ अथ भेदाभेदवादसारांशोऽत्रावधार्यताम् । अर्हत्पातञ्जलकुमारिलप्रभृतिसम्मतः ॥ यदि ह्येकान्ततो भिन्नं विशेष्यात्स्याद्विशेषणम् । स्वानुरूपां सदा बुद्धिं विशेष्ये जनयेत्कथम् ॥ स्फटिकादौ तु लाक्षादिस्वरूपा या मतिर्भवेत् । अव्युत्पन्नस्य सा मिथ्या व्युत्पन्नानां हि भेदधीः ॥ न तु जात्यादिनिर्मुक्तं वस्तु दृष्टं कदाचन । तद्विवेकेन वा तानि लाक्षादिस्फटिकादिवत् ॥ तत्रापि चेन्न दृश्येत भेदः कैश्चित्कदाचन । रक्तादिबुद्धिसम्यक्त्वं विनिवार्येत केन वा ॥

166 | मानमेयरहस्यश्लोकवार्तिके

नानिष्पन्नस्य संबन्धो निष्पत्तौ युतसिद्धता । तथाच सति संबन्धे हेतुः कश्चिन्न विद्यते ॥ समवायवियोगाच्च विश्लेषस्स्यात्परस्परम् । तत्कॢप्तावव्यवस्था स्यात्तस्यतस्यान्यसंगतेः ॥ अथ तस्यात्मरूपत्वान्नान्यसंबन्धकल्पना । अभेदात्समवायोऽस्तु स्वरूपं धर्मधर्मिणोः ॥ अतो जात्यादिरूपेण धर्मी यद्गृह्यते नरैः । पाररूप्यं न तस्यास्तीत्यप्रामाण्यं न युज्यते ॥ यो ह्यन्यरूपसंवेद्यः संवेद्येतान्यथापुनः । स मिथ्या नतु तेनैव यो नित्यमवभासते ॥ अत्यन्तभिन्नताऽस्माभिः नैव कस्यचिदिष्यते । सर्वे हि वस्तु रूपेण भिद्यते न परस्परम् ॥ सर्ववस्तुषु बुद्धिश्च व्यावृत्यनुगमात्मिका । तेन नात्यन्तभेदोऽपि स्यात्सामान्यविशेषयोः ॥ तस्मात्सास्नादिमत्स्वेव गोत्वं यस्मात्तदात्मकम् । तादात्म्यमस्य कस्माच्चेत्स्वभावादिति गम्यताम् ॥ स्वरूपसत्त्वमात्रेण नच किंचिद्विशेषणम् । स्वबुद्ध्या रज्यते येन विशेष्यं तद्विशेषणम् ॥ अस्ति ह्यालोचनं ज्ञानं प्रथमं निर्विकल्पकम् । बालमूकादिविज्ञानसदृशं शुद्धवस्तुजम् ॥

धर्मधर्मिभाववादः 167 व्यावृत्तिरनुवृत्तिर्वा तदानीं नानुभूयते । तयोराधारभूता तु व्यक्तिरेवावसीयते ॥ महासामान्यमन्यैस्तु द्रव्यं सदिति चोच्यते । सामान्यविषयत्वं च प्रत्यक्षस्यैवमाश्रितम् ॥ विशेषास्तु प्रतीयन्ते सविकल्पकबुद्धिभिः । ते च केचित्प्रतिद्रव्यं केचिद्बहुषु संश्रिताः ॥ पूर्वोक्तादेव तु न्यायात्सिद्धयेदत्रावयव्यपि । तस्याप्यत्यन्तभिन्नत्वं न स्यादवयवैस्सह ॥ व्यक्तिभ्यो जातिवच्चैष न निष्कृष्टः प्रतीयते । कैश्चिदव्यतिरिक्तत्वं कैश्चिच्च व्यतिरिक्तता ॥ दूषिता साधिता वापि नच तत्र बलाबलम् । कदाचिन्निश्चितं कैश्चित् तस्मान्मध्यस्थता वरम् ॥ ततोऽन्यानन्यते तस्य स्तो न स्तश्चेति कीर्त्यते । तस्मात्स्याच्चित्रवत्सर्वं मृषैव त्वेकरूपता ॥ तदभिन्नादभिन्नस्य तदभेदो न हीष्यते । रसरूपादिभेदस्य विनिपातः प्रसज्यते ॥ वस्त्वनेकान्तवादाच्च न संदिग्धाप्रमाणता । ज्ञानं संदिह्यते यत्र तत्र न स्यात्प्रमाणता ॥ इहानेकान्तिकं वस्त्वित्येवं ज्ञानं सुनिश्चितम् । संदिग्धैकान्तवादो हि स्यात्क्लैब्यैकनिबन्धनः ॥

इदं कौमारिलमतमुक्तं तादात्म्यलक्षणम् । पातञ्जलार्हदादीनां सिद्धान्तोऽप्ययमेव हि ॥ अत्रैव च क्वचित्कांचिद्विशेषं परिगृह्य ये । प्रवृत्ता मतभेदास्ते सन्ति वेदान्तिनामपि ॥ सत्यासत्यविभागेनाविरोधं केचिदूचिरे । प्रतीत्यैव विरोधस्य पराहतिरितीतरे ॥ परे विप्रतिपद्यन्ते प्रतीतावेव तादृशि । तत्त्वं देवो विजानाति चित्रा मानुषशेमुषी ॥ (३९) द्रव्यवादः. 1 द्रव्यादिव्यवहारेषु विकल्पोऽथ प्रदर्श्यते । न द्रव्यं नाम वस्त्वस्ति वस्तुत्वेऽपि गुणादितः ॥ नातिरिक्तं पृथक्त्वेऽपि न प्रत्यक्षं तदिष्यते । प्रत्यक्षेऽपि विकल्पोऽयमिति वादः प्रवर्तते ॥ उपलम्भे विश्रमोऽतः तत्रापि शपथोक्तयः । एवं प्रकारस्सर्वत्र विचारः सौगताहृतः ॥ गुणे कर्मणि सामान्ये विशेषादौ प्रवर्तते । विवर्तवासना काचिन्महती तैस्समाश्रिता ॥ तामेवाश्रित्य कतिचित् स्वंस्वं सिद्धान्तमभ्यधुः । तद्विवर्तपदार्थेऽपि विकल्पो विविधोऽस्ति हि ॥

द्रव्यवादः 169 तुच्छं विवर्त्तमपरेऽथानिर्वाच्यं विदुः परे । अन्यथात्वं विदुः केचित् साधारण्यं विदुः परे ॥ २ ख्यातिवादे पुनस्तत्त्वमेतस्य स्फुटमग्रतः । द्रव्यं नित्यं ब्रह्म तत्त्वं परमार्थं च सन्मतम् ॥ इति ब्रह्मविदः प्राहुः अत्रच श्लोकवार्तिकम् । महासामान्यमन्यैस्तु द्रव्यं सदिति भाषितम् ॥ शब्दाद्वैतविदः शब्दं द्रव्यमित्यभिमन्वते । कालाद्वैतविदः कालं द्रव्यमेकमुदैरयन् ॥ स्याद्वादिनां तु सिद्धान्ते त्वेतत्स्याद्द्रव्यलक्षणम् । अनागतपरिणामावस्थं द्रव्यमितीर्यते ॥ तद्वर्त्तमानपर्यायं भाव इत्याभिधीयते । द्रूयन्ते यानि पर्यायैः पर्यायैर्वा द्रवन्त्यपि ॥ द्रव्याणि तानि निर्दिष्टान्यद्रव्याणि द्विधा पुनः । आगन्तवः स्युः पर्यायाः सहजास्स्युर्गुणा इति ॥ सांख्यानां सकलं द्रव्यं अनेकान्तविदामपि । वैशेषिकादिसिद्धान्ते द्रव्यं धर्मितया स्थितम् ॥ गुणकर्मादिधर्माणामिति पूर्वं निरूपितम् । मूर्तं द्रव्यं विदुः केचित् परिणामीति केचन ॥ द्रव्यं शक्तिमदित्येके ह्यद्रव्यं नहि शक्तिमत् । यथा शक्तिरशक्तैवं अद्रव्यं स्वान्यसाधकम् ॥ M.R. 22

अवस्थाधारता द्रव्यमिति स्वायंभुवादयः । आगन्तुकापृथक्सिद्धधर्मोऽवस्थेति कीर्त्यते ॥ स्फुरद्द्रव्यमिळद्धर्मोऽवस्थेत्येके विदुर्बुधाः । अवस्थातद्वतोर्भेदाभेदं तु बहवो विदुः ॥ द्रव्यं नित्यमवस्थास्स्युरनित्या इति भाषितम् । पातञ्जले महाभाष्ये सुवर्णमकुटादिवत् ॥ ३ एवं गुणपदं कर्मपदाद्यमपि दृश्यते । वस्तुमात्रे संप्रयुक्तं कथं तत्त्वव्यवस्थितिः ॥ तस्माद्वस्तुव्यवस्थायां व्यवहारा न चेशते । प्रयोगाल्पत्वभूयस्त्वनिर्णयः प्राज्ञदुश्शकः ॥ तस्माद्विरुद्धसंस्कारशिक्षितानां मनीषिणाम् । अन्योन्यं प्रत्यवस्थाने व्यवहारान्न निर्णयः ॥ अतएव हि शब्दानां सर्वेषां सर्वशक्तताम् । सर्वात्म्यवादिनः प्राहुः व्यवस्थां सहकारिभिः ॥ सहकारिविकल्पस्तु वासनामनुवर्तते । अतश्च वासना सर्वमिति सौगतनिर्णयः ॥ ४ वासनानां तु वैचित्र्यं वस्तुवैचित्र्यमूलकम् । वैचित्र्यं चापि वस्तूनां स्वभावादिति तद्विदः ॥ एवंविधाऽपि काचित्स्याद्वासनेति च सौगताः । साऽपि बाह्यार्थनिष्ठेति विदुर्बाह्यार्थवादिनः ॥

गुणवादः 171 एवंविधविचारे तु प्रतिष्ठा कुत्र शाश्वती । इति संचिन्त्य मध्यस्थाः सम्प्रदायमुपाश्रयन् ॥ सर्वेऽपि हि स्वोपलम्भं वदन्त्यखिलसाक्षिकम् । तथाच लोकानुभवोऽप्येवमेवेति सम्भ्रमात् ॥ तेन वादी स्वोपलम्भं भ्रमबुद्ध्या त्यजेदपि । त्रासितोऽपि बुधैरेवं न बिभेति विशुद्धधीः ॥ भवन्ति बहवः क्लीबाः अचलो यस्स बुद्धिमान् । इत्यतो वादभेदोऽपि सत्त्वाशयवशानुगः ॥ (40) गुणवादः. 1 गुणाः प्रधानं सांख्यानां त्रयस्सत्त्वादिलक्षणाः । अप्रधानं याज्ञिकानां मतं द्रव्यादिलक्षणम् ॥ शक्त्यादयो गुणाः प्रोक्ता ह्यर्थशास्त्रविशारदैः । शोभादयो गुणास्त्विष्टाः काव्यालङ्कारवेदिभिः ॥ शुक्लादयो गुणाः केचित्तार्किकैः परिभाषिताः । दोषप्रतिद्वन्दितया गुणास्स्युस्सर्वसम्मताः ॥ रज्ज्वादिकं तु संघातं वस्त्वस्ति गुणशब्दितम् । तस्मात्सामान्यतो दृष्टौ वस्तुमात्रं गुणो मतः ॥ तथैव सर्वशब्दो हि वस्तुमात्रे प्रयुज्यते । तथापि पारिभाषिक्या वृत्त्या शास्त्रे व्यवस्थितिः॥

गुणे द्रव्यव्यपेक्षेऽपि द्रव्येऽपि गुणकाङ्क्षिणि । अन्योन्यनिरपेक्षे च गुणद्रव्ये प्रसिद्ध्यतः ॥ सर्वेषां वासना प्रायस्तर्कशास्त्रानुसारिणी । यतः पदार्थसंशुद्ध्यै शास्त्रमेतत्प्रवर्तितम् ॥ अतस्तदनुरोधेन गुणोद्देशोऽत्र गृह्यते । रूपं रसस्ततो गन्धस्स्पर्शस्संख्या ततः परम् ॥ परिमाणं पृथक्त्वं च संयोगस्तदनन्तरः । विभागश्च परत्वं चापरत्वं बुद्धिरेवच ॥ ततस्सुखं दुःखमिच्छा द्वेषो यत्नो गुरुत्वकम् । द्रवत्वस्नेहसंस्काराः शब्दोऽदृष्टं गुणा इमे ॥ न गुणानां पृथक्सत्ता व्याहारो द्रव्यसत्तया । इति केचित्तार्किकाश्च प्राहुरित्यपि दृश्यते ॥ स्वरूपमेव संबन्धः स स्वभावनिबन्धनः । इत्याहुर्गुणगुण्यायोस्समवायं द्विषन्ति ये ॥ विशेषसामान्यभेदात् गुणान् द्वेधा विदुर्बुधाः । सामान्यद्रव्यवृत्तित्वे सामान्यगुणेतेष्यते ॥ विशेषद्रव्यवृत्तित्वे तत्त्वं प्राहुः कुमारिलाः । रूपं गन्धो रसः स्पर्शः स्नेहस्सांसिद्धिको द्रवः ॥ बुद्ध्यादिभावनावन्ताश्च शब्दो वैशेषिका गुणाः । संख्यादिरपरत्वान्तः द्रवोऽसांसिद्धिकस्तथा ॥