मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)
Manameyodaya of Narayana Bhatta with Commentary
नारायण भट्ट एवं नारायण पण्डित द्वारा
ग्रामीणस्य प्रथमतः पश्यतो गवयादिकम् । सादृश्यधीर्गवादीनां या स्यात्सा करणं मतम् । वाक्यार्थस्यातिदेशस्य स्मृतिर्व्यापार इष्यते । गवयादिपदानां तु शक्तिधीरुपमा फलम् ॥ तस्मादयं स गवयो नामेत्येवंविधा मतिः । उपमानैकजन्यैव न प्रमाणान्तरोद्भवा ॥ साधर्म्यादथ वैधर्म्याद्धर्ममात्राच्च तत् त्रिधा । गवयो गौरिवेत्यादिवाक्यं साधर्म्यमूलकम् ॥ गवादिवन्न द्विशफः भवेद्वाजीति यद्वचः । तद्वैधर्म्यनिदानं स्यात् धर्ममात्रात्पुनर्यथा ॥ दीर्घग्रीवः प्रलम्बोष्ठः कण्टकाशी क्रमेलकः । सादृश्यवचनं चैतद्द्वयोरस्यादुपलक्षणम् ॥ प्रत्यक्षप्रत्यभिज्ञास्स्युः सादृश्यादिधियो यतः । गवयेन सदृग्गौरित्येषा नोपमितिस्ततः ॥ प्रसिद्धेन हि सादृश्यमप्रसिद्धस्य गम्यते । गवा गवयपिण्डस्य न तु युक्तो विपर्ययः ॥ यच्चावगतविज्ञानं प्रत्युत्पन्ननिदानजम् । सा संगतिः स संवादः सोऽनुवाद इतीर्यते ॥ सादृश्यस्यानिमित्तत्वान्निमित्तस्याप्रतीतितः । समयो दुर्ग्रहः पूर्वं शब्देनानुमयाऽपिवा ॥ M.R. 52
प्रायस्सर्वेऽनुमानान्तर्भावमाहुर्यथापुनः । एषैव गौरसेतिबुद्धिरनुमाऽन्योन्यहस्तवत् ॥ यद्वाऽऽप्तवाक्याद्युत्पत्तिश्चिह्नोन्नीतानिमित्ततः । ३ अथ मीमांसकैकान्तः किंचित्संगृह्यतेऽधुना ॥ दृश्यमानार्थसादृश्यात्स्मर्यमाणार्थगोचरम् । असन्निकृष्टसादृश्यज्ञानं मैमांसकं मतम् ॥ गवयस्थितसादृश्यदर्शनं करणं भवेत् । फलं गोगतसादृश्यज्ञानमित्यवधार्यते ॥ तस्माद्यत्स्मर्यते तत् स्यात्साहश्येन विशेषितम् प्रमेयमुपमानस्य सादृश्यं वा तदन्वितम् ॥ प्रत्यक्षेणावबुद्धेऽपि सादृश्ये गवि च स्मृते । विशिष्टस्यान्यतोऽसिद्धेरुपमानप्रमाणता ॥ प्रत्यक्षे च यथा देशे स्मर्यमाणे च पावके । विशिष्टविषयत्वेन नानुमानाप्रमाणता ॥ तथोपमानप्रामाण्यं विदुषां हृदयङ्गमम् । आग्नेयवाक्यं स्वसदृक्सौर्येणोपमितं यदा ॥ तदाचोपस्थिते स्वार्थे तृतीयोंऽशो ह्यपेक्षितः । सौर्यभावनया ग्राह्य इत्यस्त्येतत्प्रयोजनम् ॥ तथा प्रतिनिधिद्रव्यसंग्रहोऽपि क्वचिद्भवेत् । नचेदमनुमानादिनेति मानं पृथक्ततः ॥
उपमानम् 47 4 उपमानप्रमेयं चेत्संबन्धः स्यात्पदार्थयोः । स सामयिक एव स्यात् आरण्यकनरश्रुतः ॥ एवमारण्यकाः केचित् केचिन्नागरकास्तथा । केचिद्देशान्तरनरविश्रुताः कतिचित्पुनः ॥ द्वीपान्तरनरप्रोक्ता एवं सर्वे पदात्मकाः । शब्दास्स्युरिति संकेतसिद्धान्तः विजयी भवेत् ॥ औत्पत्तिकं तु संबन्धं शब्दस्यार्थेन ये विदुः । अर्थापत्तिप्रमाणेन साक्षात्तैस्तद्ग्रहो मतः ॥ प्रत्यक्षं चानुमानं च तदुत्पादे प्रवर्तते । अतस्संबन्धविज्ञानं त्रिप्रमाणकमुच्यते ॥ संबन्धाक्षेपशान्त्यन्ते वागेषा श्लोकवार्तिके । शब्दवृद्धाभिधेयांश्च प्रत्यक्षेणात्र पश्यति ॥ श्रोतुश्च प्रतिपन्नत्वमनुमानेन चेष्टया । अन्यथाऽनुपपत्त्या च बुद्धयेत् शक्तिं द्वयाश्रिताम् ॥ अर्थापत्त्याऽवबुध्यन्ते संबन्धं त्रिप्रमाणकम् । न च सामयिकस्तस्मात्संबन्ध इति निर्णयः ॥ ये तु सामयिकं तं च संबन्धं तार्किका विदुः । तेषां व्याकरणादीनि प्रमाणानीति निश्चितम् ॥ अतस्संकेतसंबन्धसिद्ध्यर्थं मार्गशोधनम् । तन्मार्गप्रतिरोधाय त्रिप्रमाणकतोदिता ॥
412 मानमेयरहस्यश्लोकवार्तिके सर्वमेतच्च वेदस्यापौरुषेयत्वसिद्धये । तत्पौरुषेयतायै च नदीनां सागरो गतिः ॥ (84) अर्थापत्तिः 1 प्रमाणषट्कविज्ञातो यत्रार्थो नान्यथा भवेत् । अदृष्टं कल्पयेदन्यं साऽर्थापत्तिरुदाहृता ॥ तत्र प्रत्यक्षतो ज्ञाताद्दाहाद्दहनशक्तता । तथैवानुमितात्सूर्ये यानात्तच्छक्तिशालिता ॥ तथैवोपमितार्थात्स्यादर्थान्तरकल्पना । इत्यायूह्यं बुधैस्तत्र निर्णयांशोऽवगम्यताम् ॥ साधारणप्रमाणानामसाधारणमानतः । विरोधादविरुद्धांशे धीरर्थापत्तिरुच्यते ॥ यथा जीवनमानस्य मन्दिराभावमानतः । विरोधात्करणीभूतात् बहिर्भावस्य कल्पना ॥ तस्माद्यो विद्यमानस्य गृहाभावोऽवगम्यते । स हेतुस्स बहिर्भावमगृहीत्वा न गृह्यते ॥ प्रमेयस्य प्रवेशोऽयं विशेषोऽस्त्यनुमानतः । विलक्षणप्रमाणत्वात् तस्य नास्त्यत्र दोषता ॥ 2 तार्किकध्वंसनोपायमेतादृशमजानता । गुरुणा कल्पितः कश्चिज्जीवनस्यात्र संशयः ॥
अर्थापत्तिः 413 जीवनं किल विज्ञातं वेश्मवर्तितया पुरा । तस्माज्जीवनसंदेहः भवेद्वेश्मन्यदर्शनात् ॥ संदिग्धं जीवनं त्वेतत् बहिर्भावस्य बोधकम् । अर्थापत्तेः प्रभावोऽयं यत्सन्दिग्धोऽपि बोधयेत् ॥ एवं जीवनसंदेहे स्यात्संदिग्धविशेषणः । हेतुरित्यनुमानत्वनिरासः सुकरो मतः ॥ तत्संदेहव्युदासाय कल्पना या प्रवर्तते । संदेहापादकादर्थादर्थापत्तिरसौ मता ॥ दृष्टान्तदृष्टनियमस्मरणे त्वनुमा मता । प्रतिघातालोचने स्यादर्थापत्तिर्विलक्षणा ॥ विना कल्पनयाऽर्थेन दृष्टेनानुपपन्नताम् । नयता दृष्टमर्थं या साऽर्थापत्तिस्तु कल्पना ॥ 3 अर्थापत्तेस्तु नैवेह प्रमाणान्तरतेष्यते । व्यतिरेकव्याप्तिबुद्ध्या चरितार्था हि सा यतः ॥ सत्त्वभोजनयोर्व्याप्ये स्यातां जीवनपीनते । जीवित्वे च गृहासत्त्वं बहिसत्त्वं प्रसाधयेत् ॥ पीनत्वे च दिवाऽभुक्तिः रात्रिभोजनसाधनम् । इति नैयायिकाः प्राहुः इतरेऽपि तदध्वगाः ॥ अनियम्यस्य नायुक्तिः नानियन्तोपपादकः । न मानयोर्विरोधोऽस्ति प्रसिद्धे चाप्यसौ समः ॥
इदमादित्येन पद्यं तस्य चार्थोऽयमुच्यते । व्याप्यमेवोपपाद्यं स्यात् व्यापकश्चोपपादकः ॥ विरोधे नैव मानं स्यात् अनुमानेऽपि सा भवेत् विस्तरो न्यायकुसुमाञ्जल्यादौ वीक्ष्यतां बुधैः । 4 यत्र त्वपरिपूर्णस्य वाक्यस्यान्वयसिद्धये । शब्दोऽध्याह्रियते तत्र श्रुतार्थापत्तिरिष्यते ॥ पीनो दिवा च नात्तीति सांकाङ्क्षवचनश्रुतेः । तदेकदेशविज्ञानं श्रुतार्थापत्तिरुच्यते ॥ तामर्थगोचरां केचिदपरे शब्दगोचराम् । कल्पयन्त्यागमाच्चैनामभिन्नां प्रतिजानते ॥ प्रायशश्चानया वेदे व्यवहारः व्यवस्थितः । सोऽवैदिकः प्रसज्येत यद्येषा भिद्यते ततः ॥ वह्निसंसर्गतो दाहस्यान्यथाऽनुपपत्तितः । क्लृप्तिर्दहनशक्तेस्तु दृष्टार्थापत्तिरुच्यते ॥ प्रमाणग्राहिणीत्वेन दृष्टार्थापत्तितोऽधिका । श्रुतार्थापत्तिरेष्टव्या प्रमेयग्राहिणी परा ॥ 5 प्राभाकरास्त्विमं भेदं न विवक्षन्ति तद्यथा । अर्थं बुद्ध्वा शब्दक्लृप्तिरिति सर्वत्र विश्रुता ॥ केवलं द्वारमित्युक्ते पिधेहीति न कल्प्यते । किंतु क्लृप्तिः पिधानस्य तदर्थस्यैव लाघवात् ॥
अतएवच शब्दस्य नाध्याहारमिमे विदुः । भाट्टा नैयायिकाश्चापि शब्दाध्याहारवादिनः ॥ पुष्पेभ्य इति शुद्धोक्तौ स्पृह्यार्थो यदि कल्प्यते । चतुर्थ्यनुपपत्तिस्स्यात् शब्दस्तदुपपादकः ॥ अर्थाध्याहारपक्षे तु कार्यं वेदार्थ इष्यते । स एव धर्मः वेदैकगम्यता न विरोत्स्यते ॥ द्रव्यक्रियागुणादीनां धर्मत्वं ये विदुर्बुधाः । अन्यथाऽनुपपत्त्या हि तेषां वेदस्य कल्पना ॥ लौकिकोऽलौकिकश्चेति यथा शब्दो द्विधा मतः । लौकिक्यलौकिकी चेति श्रुतार्थापत्तिरप्यसौ ॥ (85) अनुपलब्धिः. 1 प्रत्यक्षादेरनुत्पत्तिः प्रमाणाभाव उच्यते । साऽऽत्मनोऽपरिणामो वा विज्ञानं वाऽन्यवस्तुनि। तत्र तृतीयपादेनानुपलब्धिर्विवक्षिता । तुरीयेन तु पादेनाभावबुद्धिर्विवक्षिता ॥ प्रमायाः करणत्वे तु फलं हानादिबुद्धयः । इति न्यायोऽभ्युपेतव्य इति वार्तिककृन्मनः ॥ अथ तस्यैव विवृतिः सम्प्रदायप्रवर्तकैः । प्रकाशितो लिख्यतेऽत्र पुनः वैशद्यसिद्धये ॥
2 अधोपलम्भयोग्यत्वे सत्यप्यनुपलम्भनम् । अभावाख्यं प्रमाणं स्यात् अभावस्यावबोधकम् ॥ विषयं तद्घधीनांश्च सन्निकर्षादिकान्विना । उपलम्भस्य सामग्रीसंपत्तिरिह योग्यता ॥ सा च ज्ञाततयाऽभावज्ञानस्य सहकारिणी । अज्ञातोऽनुपलम्भस्तु सत्तामात्रेण बोधकः ॥ योग्यत्वावगमार्थं हि सूक्ष्मार्थाभाववेदने । सूक्ष्मबोधकनेत्रांशुसंपातार्थं प्रयस्यते ॥ योग्यत्वस्य च संदेहे विपर्यासेऽथवा सति । अभावेऽपि हि संदेहः भ्रमो वाऽस्त्येव तद्यथा ॥ तमसि भ्रष्टमन्विष्यन् कराभ्यामङ्गुलीयकम् । सर्वोर्वीस्पर्शसंदेहात् अभावेऽप्येति संशयम् ॥ तथैव सर्वतोऽस्पर्शो मत्वा सर्वाभिमर्शनम् । सत एवाङ्गुलीयस्याप्यभावं बुध्यते भ्रमात् ॥ द्विविधोऽनुपलम्भः स्यात्प्रतियोगिप्रभेदतः । प्रमितिश्च स्मृतिश्चेति तत्राद्या प्रतियोगिनी ॥ प्रत्यक्षादिप्रभेदेन प्रमितिः पञ्चधा स्थिता । तथैवानुपलम्भोऽपि प्रविभागमिहार्हति ॥ अभावाख्यं तु वस्त्वेव नास्तीत्याह प्रभाकरः । हसन्ति चिन्तां तस्यान्तेवसन्तः पुनरीदृशीम् ॥
अनुपलब्धिः 4 3 इति मीमांसकाः प्राहुः अत्र नैयायिका जगुः । अभावः प्रत्यक्ष इति सर्वानुभवसाक्षिकः ॥ येनेन्द्रियेण या व्यक्तिः गृह्यते तेन तद्गता । जातिश्च तदभावश्च गृह्येते इति निर्णयः ॥ विशेषणतया सन्निकर्षेणैष प्रतीयते । सां हि स्वरूपसंबन्धः न च ज्ञाननिरूपिता ॥ स्याद्योग्यानुपलब्धिश्च करणे सहकारिणी । प्रतियोग्युपलम्भे चाभावो नैवोपलभ्यते ॥ यदि स्यादुपलभ्येतेत्येवं यत्र प्रसज्यते । तादृशप्रतियोगित्वं योग्यताऽनुपलब्धिगा ॥ तस्मात्तमसि कुम्भादेरभावो नोपलभ्यते । तत्र कुम्भोपलब्धिस्तु प्रसङ्गं नैव चार्हति ॥ तस्मादनुपलब्धिस्तु न मानान्तरमिष्यते । अपिचानुपलम्भस्याज्ञातस्य यदि हेतुता ॥ ज्ञानाकरणकत्वेन प्रत्यक्षत्वमिहाक्षतम् । यदि ज्ञातस्य हेतुत्वं तत्रापि तदपेक्षया ॥ दुरुद्धराऽनवस्था स्यात् साऽपि चाभावलक्षणा । भावान्तराभाववादेऽनुपलब्धिः न विद्यते ॥ स्वरूपेण पुनर्जाने भावरूपेण वेद्यते । प्रतियोगिस्पर्शितायां अभावत्वेन तद्ग्रहः ॥ M.R. 53
4 दृश्यसत्ता भवेद्व्याप्या दर्शनं व्यापकं मतम् । व्यापकानुपलब्ध्यैव व्याप्याभावोऽवसीयते ॥ लिङ्गेनानुपलब्ध्यैव ह्यभावस्य गतार्थता । इति बौद्धाः तन्न युक्तं लिङ्गज्ञानानवस्थितेः ॥ अभिप्रायस्सौगतानां तेषामेषोऽवधार्यताम् । यो न्यायमञ्जरीन्यायरत्नाकरविशोधितः ॥ दृश्यं सद्यत्र यत्किंचिद्वस्तु नैवोपलभ्यते । नास्ति तद्वस्तु तत्रेति बुद्धिसत्त्वे पुमानिव ॥ न दृश्यते चात्र देशे दृश्योऽपि कलशस्त्विति । स्वभावहेतुरनुपलब्धिः स्यात्प्रतिषेधकः ॥ यैवैकज्ञानसंसर्गिवस्त्वन्यतरगोचरा । धीस्सैवैकतरस्येष्टाऽनुपलब्ध्यभिधा ततः ॥ उपलब्धेरभावोऽन्यो नोपलब्ध्यतिरेकतः । तस्मान्न तस्यानुपलब्ध्यन्तरापेक्षयाऽस्थितिः ॥ योऽसावन्यतरस्योपलम्भः स स्वयमेवहि । संवेद्य इत्यपि ततो नैव चात्रानवस्थितिः ॥ नास्तीत्यादिव्यवहृतियोग्यताऽभावशब्दिता । तादात्म्यमेव संबन्धः तया तस्या इति स्थिति ॥ बहुधाऽनुपलब्धिर्हि तीर्थकृद्भिर्निरूपिता । एकादशविधामेके परे षोडशधा विदुः ॥
व्यापकानुपलब्धिस्तु प्रायशस्सर्वसम्मता । व्यापकानुपलब्ध्या हि पक्षे व्याप्यं निवर्त्यते ॥ या व्यापकविरुद्धस्य चोपलब्धिरनन्तरा । पृथिवीत्वव्यापकस्य द्रव्यत्वस्य विरोधिनः ॥ गुणत्वस्योपलम्भेन पृथिवीत्वनिषेधधीः । तया संपद्यत इति साऽपि सर्वत्र सम्मता ॥ 5 अत्र प्रतिब्रुवन्त्येवं कुमारिलमुखा बुधाः । अक्षादेवोत्पद्यतेऽसावभावो मानमिष्यते ॥ त्रिरूपलिङ्गजन्यार्थदृक्प्रमाणमितीरयन् । कथं तुच्छस्वरूपस्य कारणापेक्षितां वदेत् ॥ अनुमा दुर्निरूपाऽत्र मानमित्यैक्यवादिना । तस्मादनुपलम्भोऽस्ति, प्रमाणं वाऽथवा न सः अक्षापेक्षा तु नाभावग्रहणायोपयुज्यते । किंतु दृश्यादर्शनाय भूतलाद्यवबुद्धये ॥ दृश्यादर्शनमक्षं च मिलित्वैवावबोधयेत् । अभावेन विशिष्टं तं भावं यद्भूतलादिकम् ॥ नच भिन्नेन्द्रियग्राह्यं किंचिदस्त्यनुरागकृत् । नहि लाक्षानुरक्तेऽपि स्फटिके धीस्त्वगादिभिः इत्यादिवचनं तु स्यात्संबन्धाग्रहगोचरम् । प्रकृते तूभयोश्चैव संसर्गोऽभावगोचरः ॥
-20 मानमेयरहस्यश्लोकवार्तिके त्वाचं क्षीरं तस्य रसः संसर्गोऽपि च रासनः । तथाच मधुरं क्षीरमिति लोके विशिष्टधीः ॥ शब्दस्तु श्रावणः तस्य चार्थे श्रोत्रो न चान्वयः । तस्मान्न चक्षुः शब्दादिरहितस्यावबोधकृत् ॥ 6 अत्र नैयायिकानां तु सिद्धान्तोऽयं निरर्गलः । सर्वोपाख्यावियुक्तत्वान्नेयमस्तीति वोच्यताम् ॥ अभावश्चाक्षुषज्ञानविषयो वाऽभ्युपेयताम् । अभावस्य विचारे तु कृत एतस्य विस्तरः ॥ (86) शब्दाक्षेपः. 1 नन्वत्र प्रथमं शब्दे प्रामाण्यं नावकल्पते । प्रामाण्येऽपि पृथग्भावो नास्तीत्यथ परीक्ष्यते ॥ अर्थप्रतीतिजनकं प्रमाणमिति सम्मतम् । विकल्पमात्रमूलत्वान्नार्थं शब्दाः स्पृशन्त्यमी ॥ अङ्गुल्यग्रे हस्तियूथशतमित्यादिवाक्यतः । एष वन्ध्यासुतो यातीत्यतो वाऽर्थः क इष्यते ॥ लोलाक्षीणां लक्षमभिरमयेद्यः पुमानिह । स गन्धर्वपदं प्राप्नोतीति च श्रूयते स्वनः ॥ स्वर्गकामो दर्शपूर्णमासाभ्यां च यजेदिति । वाक्यस्यार्थे कथं लोके न स्यात् श्रद्धैव केवलम्॥
शब्दक्षेपः 421 अर्थो निरूप्यमाणश्च को वा शब्दस्य शक्यते । वक्तुं, न जातिः न व्यक्तिः न तद्वानाम् कश्चन ॥ संबन्धोऽप्यस्य नार्थेन नित्योऽस्ति समयोऽथवा । शक्यः संन्नपि वा बोद्धुं अर्थे कथमतीन्द्रिये ॥ वाक्यार्थोऽपि न निर्णेतुं पार्यते पारमार्थिकः । नियोगभावनाभेदसंसर्गादिस्वभावकः ॥ तत्प्रतीत्यभ्युपायश्च किं पदार्थः पदानि वा । वाक्यं वा व्यतिषिक्तार्थं स्फोटो वेति न लक्ष्यते ॥ सिद्धायामपि तबुद्धौ तस्याः द्रढिमकारणम् । नित्यत्वमाप्तोक्तत्वं वा न सम्यगवतिष्ठते ॥ पदे नित्येऽपि वैदिक्यो रचनाः कर्तृपूर्विकाः । नित्या वा कृतकत्वेऽपि कृताः केनेति दुर्गमम् ॥ कर्ताऽस्ति स च निर्द्वन्द्वः स चैकः स च सर्ववित् । स च कारुणिको वेति प्रतिपत्तुं न शक्यते ॥ परस्परविरुद्धाश्च सन्ति भूयांस आगमाः । तेषां कस्येश्वरः कर्ता कस्य नेति न गम्यते ॥ वेदे दोषाश्च विद्यन्ते व्याघातः पुनरुक्तता । फलस्यानुपलम्भश्च तथा फलविपर्ययः ॥ सिद्धकार्योपदेशाच्च वेदे संशेरते जनाः । किमस्य कार्ये प्रामाण्यं सिद्धेऽर्थे वोभयत्र वा ॥
२२ मानमेयरहस्यश्लोकवार्तिके तेन वेदप्रमाणत्वं विषमे पथि वर्तते । जीविकोपायबुद्ध्या वा श्रद्धया वाऽभ्युपेयताम् ॥ २ विकल्पयोनयश्शब्दा विकल्पाश्शब्दयोनयः । कार्यकारणता तेषां नार्थं शब्दाः स्पृशन्त्यतः ॥ भिक्षुणा जातिमात्रस्य तथा जातिमतोऽपि वा । जातिमद्योगस्य चापि वाच्यत्वमिह दूषितम् ॥ एकस्यार्थस्वभावस्य प्रत्यक्षस्य सतः स्वयम् । कोऽन्यो न दृष्टो भागः स्याद्यः प्रमाणैः परीक्ष्यते ॥ वस्तुरूपं हि निर्भागं तत् प्रत्यक्षनिवेदितम् । अतो बलाल्लिङ्गशब्दौ अपोहविषयौ मतौ ॥ नागोर्निवृत्तिर्नासप्तिनिवृत्तिर्वाऽवबुध्यते । किंतु वस्तुस्वरूपेण स शब्दार्थोऽवगम्यते ॥ व्यावृत्तेष्वनुवृत्तं तं अपश्यन्तः परीक्षकाः । अतद्व्यावृत्तिरूपं तं सुनिष्कृष्य प्रचक्षते ॥ अनादिवासनावेगात् व्यावृत्तिरपि सा पुनः । सद्रूपमिव भिन्नं च तत्रतत्रावभासते ॥ ३ इति सौगतसिद्धान्तः एष शाब्दिकसौगतः । तद्वाक्यार्थात्मना वाक्यं निर्भागं हि विवर्तते ॥ वाक्यार्थो वाक्यतो नार्थान्तरमित्यवधार्यते । शब्दस्य न विभागोऽस्ति कुतोऽर्थस्य भविष्यति ॥
शब्दप्रामाण्यवादः 423 विभागैः प्रक्रियामात्रमविद्वान् प्रतिपद्यते । शाब्दवैवर्तवादोऽयं वाक्यार्थे ह्यस्य विस्तरः ॥ 4 शाक्या वैशेषिकाश्चापि पृथक् शब्दस्य मानताम्। नाङ्गीकुर्वन्ति तैरुक्तं वचनं चेदमुच्यते ॥ प्रत्यक्षमनुमानं च प्रमाणे सदृशात्मनः । अप्रत्यक्षस्य संबन्धात् अन्यतः प्रतिपत्तितः ॥ अपोद्धृताभिधायी च शब्दः वस्तु न संस्पृशेत् । अपोहवाचोयुक्त्या च शून्यता सैव सम्मता ॥ प्रशस्तपादभाष्यानुवादोऽप्येष निशम्यताम् । वक्तृप्रामाण्यसापेक्षः श्रुतिस्मृत्यादिलक्षणः ॥ आम्नायोऽप्यनुमानं तद्वचनादिति सूत्रणात् । वक्तृज्ञानानुमानेन प्रामाण्यं तस्य सम्मतम् ॥ (87) शब्दप्रामाण्यवादः. 1 अत्रोच्यते वेदविदां सम्प्रदायस्य संग्रहः । यदर्थं सकलं शास्त्रं मीमांसाख्यं प्रवर्तितम् ॥ पदार्थानां तु संसर्गमसमीक्ष्य प्रजल्पतः । वक्तुरेव प्रमादोऽयं न शब्दोऽत्रापराध्यति ॥ तेनाभिधातृदौरात्म्यकृतेयमयथार्थता । प्रत्ययस्येति, शब्दानां नार्थासंस्पर्शिता स्वतः ॥
हस्तसंज्ञाद्युपायेन जनयत्येव विप्लवम् ॥ या तु जात्यादिशब्दार्थपराकरणवर्त्मना । अर्थासंस्पर्शिता सैषाऽपोहवादे निराकृता ॥ 2 तत्रानुमानमेवेदं बौद्धैर्वैशेषिकैःश्रितम् । भेदस्सांख्यादिभिस्त्विष्टः न सूक्तं भेदकारणम् ॥ पदमभ्यधिकाभावात् स्मारकान्न विशिष्यते । यदाधिक्यं भवेत्किंचित् तत्पदस्य न गोचरः ॥ धूमादौ देशकालादिद्वारा त्ववगते सति । संबन्धनियमे तेन गमकत्वं प्रतीयते ॥ शब्दस्य गमकत्वं तु प्राग्वृद्धेभ्योऽवगम्यते । न संबन्धान्तरं तत्र नचाप्यत्रात्मसंश्रयः ॥ वृद्धेषु पूर्वपूर्वेषु गमकत्वं हि गृह्यते । अथोत्तरोत्तरेषां तु गमकत्वग्रहो भवेत् । यावन्तो यादृशा येच यदर्थप्रतिपादने । वर्णाः प्रज्ञातसामर्थ्याः ते तथैवावबोधकाः ॥ तेषां तु गुणभूतानामर्थप्रत्यायनं प्रति । साहित्यमेकवक्तृत्वं क्रमश्चापि विवक्षितः ॥ तस्माद्गमकतैवादावभिधायकता ततः । ज्ञायते तन्निमित्तेति संज्ञासंज्ञित्वलक्षणा ॥
शब्दप्रामाण्यवादः प्रसिद्धा हीन्द्रियं लिङ्गं अभिधायकमित्यपि । एवमन्येऽपि गमकविशेषाः तत्र चेन्द्रियम् ॥ सत्तामात्रेण गमयत्यर्थं सन्निहितं पुनः । यत्तु व्याप्यतया ज्ञायमानं लिङ्गं तदुच्यते ॥ गमकं व्यापकस्यैतत्, यत्त्वेतदभिधायकम् । गमकत्वस्यावगमादेव तद्गमयत्यदः ॥ तत्संज्ञापरपर्यायमभिधायकतात्मकम् । संबन्धमध्यवस्यन्ति नान्यमित्यवधार्यते ॥ औत्पत्तिकस्स शब्दस्यार्थेनेत्येष हि विश्रुतः । यस्त्रिप्रमाणक इति चोपमाने निरूपितः ॥ वाक्यार्थे तु पदार्थेभ्यस्संबन्धानुभवाहते । बुद्धिरुत्पद्यते तेन भिन्नाऽसावक्षबुद्धिवत् ॥ संकेतमूलो वेदस्स्याच्चेष्टावद्बोधकत्वतः । शब्दत्वाद्वा देवदत्तनिन्दादिवदित्यसत् ॥ संकेतयितुरज्ञानात्संप्रदायेऽपि संतते । बोधकत्वं ततो नित्यमनुमानं तु बाधितम् ॥ यथा वह्नौ दाहकता यथा बोधकतेन्द्रिये । तथा शब्दे गमकता दृष्टा स्वाभाविकी च सा तस्याश्च ग्रहणं चापि शब्दे लिङ्गवदिष्यते । तथाऽपि शब्दो नार्थस्य लिङ्गं भवितुमर्हति ॥ M.R. 54
426 मानमेयरहस्यश्लोकवार्तिके बोध्यबोधकभावोऽत्र संबन्धोऽन्यत्रचापरः । व्याप्यव्यापकभावस्स्यात् धीद्वारं तु द्वयोस्समम् । ३ तत्राकाङ्क्षादिमद्वाक्यतादृग्वाक्यार्थयोरपि । स्वभावाद्यदि संसर्गः नियमो व्याप्तिरेव सः ॥ इति वैशेषिकस्वान्तमेष नैयायिकाशयः । संकेतरूपस्संबन्धः संबन्धत्वेन भासते ॥ न साहचर्यरूपेण तेन न व्याप्तिलक्षणः । साहचर्यं च संबन्धः संमतो लिङ्गलिङ्गिनोः ॥ शब्दार्थयोश्च समयस्सामग्रीभेदतो भिदा । वह्निः क्षुरं मोदकश्चेत्यादिशब्दप्रयोगतः ॥ दाहनं पाटनं च स्यात्पूरणं सहितौ यदि । साहचर्यं नैव तस्मात् शब्दो मानान्तरं मतम् । मीमांसकानां सिद्धान्ते नियमो व्याप्तिरुच्यते । शक्तिर्बोधकता, तेन नानुमानं प्रसज्यते ॥ संबन्धग्रहणं चापि त्वनन्तैर्न च संभवि । अपूर्वोऽपि च वाक्यार्थः कदाचिदनुभूयते ॥ येचान्विताभिधानस्य वादिनः तन्मते पुनः । गृहीत एव संबन्ध इति शङ्का भवेदपि ॥ शब्दो मानान्तरं लोकवेदसाधारणं मतम् । वर्णराशिः क्रमव्यक्तः पदमित्यभिधीयते ॥
शब्दप्रामाण्यवादः 42 पदानां सन्निधिर्वाक्यं तद्राशिः ग्रन्थ इष्यते । इति कौमारिलमतं अथ प्राभाकरं पुनः ॥ 4 गुरुर्लौकिकशब्दानामनुमानत्वमिच्छति । सर्वशब्दानुमानत्ववादिनः कणभोजिनः ॥ अत्र लौकिकवाक्यानां व्यभिचाराभिमानतः । अर्थासंस्पर्शितां शब्दस्याहुः केचित्पुराविदः ॥ 5 अत्र प्रतिब्रुवाणानामभिप्रायोऽयमुच्यते । विवक्षितार्थविज्ञानमिन्द्रियार्थनिबन्धनम् ॥ तस्य ज्ञानं च वाक्येन लिङ्गभूतेन गम्यते । ज्ञात्वैवार्थं ब्रवीतीति य एवमवधारितः ॥ तस्य ज्ञानेन नियतं वाक्यं ज्ञानानुमापकम् । ज्ञानं चार्थविनाभावि तेनार्थेऽपि विनिश्चयः ॥ ततोऽर्थे निश्चिते पश्चात्सोऽर्थो वाक्येन गम्यते । तस्यां दशायां वाक्यस्य तस्य स्यादनुवादता ॥ वाक्यार्थस्यानुमानेन व्यभिचारभये गते । अभिधत्ते पुनर्वाक्यमनुवाद इति स्थितम् ॥ 6 नान्तरीयकताऽभावाच्छब्दानां वस्तुभिस्सह । नार्थसिद्धिस्ततस्ते हि वक्तृभिप्रायसूचकाः ॥ इति कीर्तिवचोमूलो विचारोऽत्रावधार्यताम् । व्यवहाराविसंवादान्मानतेन्द्रियलिङ्गयोः ॥
428 मानमेयरहस्यश्लोकवार्तिके आप्तवादाविसंवादाच्छब्दः प्रामाण्यमृच्छति । पूर्वं वाक्यं लिङ्गभूतं वक्तुर्ज्ञानावधारणे ॥ वक्तृज्ञानप्रसूतं हि वाक्यं तत्कार्यमिष्यते । कार्यात्कारणसिद्धिश्च सर्वेषामपि सम्मता ॥ ततश्च पुंवाक्यमात्रं न शास्त्रमभिधीयते । नन्वर्थ एव प्रथमं पुंवाक्येनावगम्यते ॥ अन्यथा तु कथं वक्तुः धीर्विशिष्टाऽनुमीयते । अर्थेनैव विशेषो हि निराकारतया धियाम् ॥ नचाप्रतीतेनार्थेन विशेषो ह्यवगम्यते । अत्र ब्रूते यथार्थत्वशङ्कयाऽर्थो न निश्चितः ॥ अनिश्चितो नहि ज्ञात इति तात्पर्यसंग्रहः । वाक्याद्वाक्यार्थानुमानवादिनस्सौगतानुगाः ॥ वैशेषिकाश्च गुरवः वक्तृज्ञानानुमाविदः । तत्रापि गुरवो लोकवाक्यमात्रानुमाविदः ॥ अपौरुषेयमेवैकं शास्त्रं वाक्यचयात्मकम् । तत्रापि चोदना शास्त्रं नाभिधेति विनिर्णयः ॥ आप्तवादाविसंवादसामान्यादनुमानतः । अभिन्नत्वमनूद्येत्थं दूषितं श्लोकवार्तिके ॥ आप्तवादाविसंवादादत्रचेदनुमानता । निर्णयस्तावता सिद्धयेद्बुद्धयुत्पत्तिर्न तत्कृता ॥