भारतकोश
संग्रह पर लौटें

मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)

Manameyodaya of Narayana Bhatta with Commentary

नारायण भट्ट एवं नारायण पण्डित द्वारा

DevanagariHindipublished672 पृष्ठ

वैशेषिकदर्शनम् भावनाख्यस्तु संस्कारः जीववृत्तिरतीन्द्रियः । स्मरणे प्रत्यभिज्ञायामप्यसौ हेतुरुच्यते ॥ शब्दो ध्वनिश्च वर्णश्च मृदङ्गादिभवो ध्वनिः । कण्ठसंयोगादिजन्यः वर्णास्ते कादयो मताः ॥ सर्वश्शब्दो नभोवृत्तिः श्रोत्रोत्पन्नस्तु गृह्यते । तारङ्गद्वा मौकुलाद्वा न्यायात्तस्य जनिर्मता ॥ तस्मादनित्या एवेति सर्वे शब्दाः व्यवस्थिताः । धर्माधर्मावदृष्टं स्याद्धर्मः स्वर्गादिसाधनम् ॥ अधर्मो नरकादीनां हेतुर्निन्दितकर्मजः । लोकान्तराणि तद्योग्यशरीराणि च सन्ति नः ॥ इमौ तु वासनानाश्यौ ज्ञानादपि विनश्यतः । क्षेत्रज्ञस्येश्वरज्ञानाद्विशुद्धिः परमा मता ॥ यदा चर्मवदाकाशं वेष्टयन्तीह मानवाः । तदा शिवमविज्ञाय दुःखस्यान्तो भविष्यति ॥ (8) वैशेषिकदर्शनम् 1 योगाचारविभूत्या यस्तोषयित्वा महेश्वरम् । चक्रे वैशेषिकं शास्त्रं कणादं तं नमाम्यहम् ॥ काणादन्यायमतयोस्समानार्था इमे स्थिताः । वैशेषिके विशेषोऽपि त्वियानेवावगम्यते ॥

40 मानमेयरहस्यश्लोकवार्तिके

शब्दोपमानयोर्नैव प्रामाण्यमतिरिच्यते । अनुमानगतार्थत्वादिति वैशेषिकं मतम् ॥ पीलुपाकविदस्त्वेते गौतमीयाः पुनर्विदुः । पिठरे पाकमित्येतत् विदितं सर्ववादिनाम् ॥ समवायोऽतीन्द्रियस्स्यादिति वैशेषिकं मतम् । प्रत्यक्षस्समवायीति नैयायिकविनिर्णयः ॥ एते वैशेषिकाः प्रायः जरत्तार्किकलक्षणाः । प्रायो नैयायिका एव नव्यतार्किकशब्दिताः ॥ तेष्वपि प्रायशः प्राच्यनव्यभेदास्त्वनेकधा । भूता अपि भविष्यन्ति सर्वेषां दर्शनेष्विव ॥ आत्माऽनुमेयो जरतां नव्यानां मानसो मतः । इत्यौपनिषदैः भेदाः बहवः स्युः प्रदर्शिताः ॥ द्वित्वे च पाकजोत्पत्तौ विभागे च विभागजे । यस्य न स्खलिता बुद्धिः तं वै वैशेषिकं विदुः ॥ विनाशकविनाशस्य या बुद्धिः प्रतियोगिनी । साऽपेक्षाधीः तद्विनाशात् द्वित्वादिर्हि विनश्यति । अनुमेयेन संबद्धं प्रसिद्धं च तदन्विते । तदभावे च नास्त्येव तल्लिङ्गमनुमापकम् ॥ विपरीतमतो यत्स्यात् एकेन द्वितयेन वा । विरुद्धासिद्धसंदिग्धमलिङ्गं काश्यपोऽब्रवीत् ॥

वैशेषिकदर्शनम् 41 विद्याऽविद्याविभागोऽपि विशेषो न्यायनिर्णयात् । उपघातात्मकं दुःखं प्रसादजनकं सुखम् ॥ वीचीसंतानवच्छब्दसंतानश्च निरूपितः । सर्वा सर्वगता जातिरिति वैशेषिकं मतम् ॥ 2 एवं सामान्यतः प्रोक्तस्समुद्देशः तथा पुनः । तत्तत्प्रकरणे तत्तद्विशेषः प्रतिपाद्यते ॥ एकं शास्त्रमिति प्रायः बहुभेदं विदुर्बुधाः । सांख्यास्तु निर्विशेषां तां प्रकृतिं कारणं विदुः ॥ भूतानि तु विशेषाः स्युः तस्मादाव्यक्तिकास्तु ते । विशेषेष्वेव विश्रान्ताः ये ते वैशेषिका इति ॥ सामान्यस्य प्रधानस्य प्रतिद्वन्द्वितया स्थिताः । प्राक्पाकजविशेषेण विशिष्टाः परमाणवः ॥ तंतं कार्यं प्रारभन्ते कलमाद्यङ्कुरं स्वयम् । संस्कारः पुंस एवेष्टः प्रोक्षणाभ्युक्षणादिभिः ॥ स्वगुणाः परमाणूनां विशेषाः पाकजा मताः । इत्यौदयनभारत्या सविशेषस्य हेतुताम् ॥ वदतां काणभक्षाणां ख्यातिर्वैशेषिका इति । विशेषाख्यपदार्थस्य स्वीकर्तृत्त्वविशेषतः ॥ वैशेषिका इति ख्यातिः आपातादिति तात्त्विकाः । 3 अत्र तत्त्वावबोधार्थाः पदार्थपरिशुद्धयः । M.R. 6

42 मानमेयरहस्यश्लोकवार्तिके

अथाऽत्र प्रथमोऽध्यायः पदार्थोद्देशलक्षणः ॥ अथ द्वितीयोऽध्यायस्स्यात्सामान्यद्रव्यलक्षणः । आत्माऽध्यायस्तृतीयस्स्यात् तुर्यस्स्यान्नित्यलक्षणः कर्माध्यायः पञ्चमस्स्यात् षष्ठस्स्याद्धर्मलक्षणः । अथ स्यात्सप्तमोऽध्यायस्सामान्यगुणलक्षणः ॥ बुद्धयध्यायस्त्वष्टमः स्यात्प्रत्यक्षो नवमो मतः । सुखाध्यायस्तु दशमः इत्यध्याय्यार्थसंग्रहः ॥ या न्यायपरिशुद्धौ श्रीवेदान्ताचार्यसूरिभिः । न्यायवैशेषिकभिदासूक्तिरेषा निशाम्यताम् ॥ पञ्चाध्याय्यामाक्षपाद्यां यत्त्ववार्गङ्गिर्निवेश्य च । कुशकाशालम्बनीत्या कणभक्षकथां पुनः ॥ निरुध्यन्ते नैगमिक्यः पदव्यो विबुधोत्तमैः । स्वयमन्तः प्रहसति नूनं तत्र स गौतमः ॥ इत्येवं शास्त्रसारार्थः प्रमेयांशे समुद्धृतः । प्रमाणादिषु वादेषु प्रमेयाब्धिः पुरः स्थितः ॥ 4 प्रायेण तार्किका एते स्वसिद्धान्तव्यवस्थितिम् इच्छन्ति तर्कपर्यायभूतलाघवयुक्तिभिः ॥ तत्र लाघवयुक्तीनामुदाहरणसूचनम् । तमश्शक्त्योर्नातिरेकः हेम्नस्तैजसता तथा ॥ कालादेश्चातिरिक्तत्वं जीवे देहातिरिक्तता ।

सांख्यदर्शनम् ४३ विज्ञानादातिरेकश्चेत्यादिरन्यत्र विस्तरः ॥ 5 अथात्र नव्यसिद्धान्तविशेषांशो विविच्यते । अनुमानागमाभ्यां च सिद्ध्यत्यत्र महेश्वरः ॥ नेश्वरादतिरिच्यन्ते दिक्कालाकाशशब्दिताः । त्रसरेणौ विश्रमेण न ह्रस्वपरिमण्डले ॥ सत्ता नाम न सामान्यं विशेषो नातिरिच्यते । नाना च समवायस्स्यात् प्रागभावो न सम्मतः ॥ शक्तिस्संख्या च कार्यत्वं कारणत्वं तथैवच । स्वत्वं च प्रतियोगित्वं विषयत्वादयोऽपिच ॥ अतिरिच्यन्त इत्याहुः स्पार्शनो वायुरुच्यते । त्रसरेणुर्मनो भूतं मूर्तं भूतमितीर्यते ॥ रूपाद्यो नानुद्भूताः नापिच व्याप्यवृत्तयः । चित्रं च नातिरिक्तं स्यादित्याद्यन्यत्र विस्तरः ॥ (५) सांख्य दर्शनम् 1 अथ कापिलसिद्धान्ते प्रमेयपरिकल्पना । प्रायेण विदिताऽप्यत्र मीमांसार्यै निरूप्यते ॥ चतुर्विधः पदार्थः स्यात्कश्चित्प्रकृतिरेवहि । प्रकृतिर्विकृतिः कश्चित् कश्चिद्विकृतिरेवच ॥ अन्योऽनुभयरूपस्स्यात् षष्टितन्त्रस्य संग्रहः । पञ्चविंशतितत्त्वानापि संक्षेपलक्षणः ॥

44 मानमेयरहस्यश्लोकवार्तिके आद्य एको विभुर्नित्यः प्रधानं गुणसाम्यतः । प्रतिक्षणसजातीयपरिणाम्यपि शाश्वतः ॥ द्वितीयस्सप्तधा प्रोक्तः महान् तस्मादहंकृतिः । रूपगन्धरसस्पर्शशब्दास्तन्मात्रलक्षणाः ॥ तृतीयष्षोडशविधः व्योमाद्यं भूतपञ्चकम् । एकादशेन्द्रियाणि स्युः ज्ञानकर्मोभयात्मना ॥ यद्यप्यनन्ता भूतानां स्याद्विकारपरम्परा । तत्त्वान्तरोत्पादकत्वं प्रकृतित्वमिहेप्सितम् ॥ तच्च सौक्ष्म्यं हेतुकार्यभावस्येत्यवगम्यते । गुणापचित्युपचितिभेदात्सौक्ष्म्यं तदन्यता ॥ चतुर्थः पुरुषोऽनेकः भोक्ता चैतन्यलक्षणः । कूटस्थनित्यो मध्यस्थः द्रष्टा साक्षी च केवलः तन्मात्रपञ्चकं भूतपञ्चकं ज्ञानपञ्चकम् । कर्मपञ्चकमन्यच्च पञ्चकं शेषपञ्चकम् । एवं च पञ्चकं पञ्च तत्त्वानां पञ्चविंशतिः ॥ 2 अथ षष्टिपदार्थ्यास्तु विभागोऽप्यवधार्यताम् । प्रधानास्तित्वमेकत्वं अर्थवत्त्वमथान्यता । पारार्थ्यं च तथाऽनैक्यं वियोगो योग एव च ॥ शेषवृत्तिरकर्तृत्वं मौलिकार्थाः दश स्मृताः । विपर्ययः पञ्चविधः तथोक्तां नव तुष्टयः ॥

सांख्यदर्शनम् करणानामसामर्थ्यं अष्टाविंशतिधा मतम् । इति षष्टिः पदार्थानां अष्टाभिस्सिद्धिभिस्सह ॥ 3 षष्टितन्त्राभिधः कश्चिदागमः कपिलर्षिणा । प्रणीत इति वेदान्तसूत्रे भास्करभाषितम् ॥ संप्रतीश्वरकृष्णीयकारिका तत्त्वकौमुदी । सांख्यसिद्धान्तमुकुर इति सर्वत्र निश्चितम् ॥ सांख्यप्रवचनं नाम या षडध्याप्यपीक्ष्यते । विज्ञानभिक्षुभाष्यं च तत्प्राच्यैर्नाभिवीक्षितम् ॥ पातञ्जल चतुष्पादं यदेतर्ह्युपलभ्यते । तद्धि सांख्यप्रवचनमिति माधवसंग्रहः ॥ 4 स्वभावेनैव चिच्छक्तिर्विषयप्रवणा यदि । अनिर्मोक्षप्रसंगोऽतः किञ्चित् द्वारमपेक्षते ॥ न चक्षुरादिमात्रं तत् संकल्पानुपपत्तितः । न मनोमात्रविश्रान्तिः स्वप्ने व्याघ्राभिमानतः ॥ नाहंकारे तत्त्वपूर्तिः सुषुप्तौ प्राणदर्शनात् । न बुद्धयन्ता तत्त्वपङ्क्तिः बुद्धेः परिमितत्वतः ॥ 5 कारणं त्वपरिच्छिन्नं प्रधानं प्रकृतिर्हि सा । कार्यहेत्वोरभेदः स्यादसतः संभवः कुतः ॥ असत्त्वे नास्ति संबन्धः कारणैस्सत्त्वसङ्गिभिः ।

46 मानमेयरहस्यश्लोकवार्तिके 6 आश्रयाश्रयिभावेन व्यवहारो विवक्षया । यथेह कानने सन्ति तिलका इति लौकिकः ॥ तदभेदैकान्तवादः सांख्यानामिति निर्णयः । पातञ्जलाः पुनर्भेदाभेदवादावलम्बिनः ॥ भिन्नाभिन्नत्वमेकस्य कुतोऽत्र परिकल्पितम् । द्वयं सांख्यमतेनैव मुक्त्वा बुद्धस्य शासनम् ॥ इति वार्तिककारोक्त्या भेदाभेदविदोऽपिच । सांख्यास्सन्तीति विदुषामेवमभ्यूहितुं क्षमम् ॥ तस्माद्गुणः क्रिया जातिर्न द्रव्यादतिरिच्यते । 7 सारूप्यमेव सामान्यं तत्रापि परिनिश्चितम् ॥ प्रकृतेरविशेषेण विशेषो नात्र संमतः । अत्यन्तभेदाभावेन समवायोऽनपेक्षितः ॥ भावान्तरमभावस्स्यात्परिणामविशेषतः । तत्त्वान्तरं नैव कालः उत्पत्तिरुपाधिभिः ॥ न कर्तृत्वं न कर्माणि लोकस्य सृजति प्रभुः । न कर्मफलसंयोगं स्वभावस्तु प्रवर्तते ॥ 8 शरीरं द्विविधं लिङ्गं मातापितृजमित्यपि । सूक्ष्ममाकल्पनियतं स्थूलं तूत्पत्तिनाशवत् ॥ सूक्ष्मं महदहंकारेन्द्रियतन्मात्रसंचयः । .. सर्गादिजं तत्प्रत्यात्ममेकैकं भावरूपितम् ॥

सांख्यदर्शनम् धर्माधर्मादयो भावाः तैर्लिङ्गमधिवासितम् । परिगृह्य स्थूलदेहं नटवद्व्यवतिष्ठते ॥ 9 भावैर्विना न लिङ्गं स्यात् न भावा लिङ्गमन्तरा अतोऽस्ति द्विविधस्सर्गः एष प्रत्ययलक्षणः ॥ तृतीयो भौतिकस्सर्गः स्थूलो देवादिभेदतः । लिङ्गेषु बुद्धिर्मुख्येति सैव व्यवहृतेः पदम् ॥ साऽचेतना चितिच्छायापत्त्या चेतनवद्भवेत् । चेतनोऽपि ज्ञानसुखदुःखवानिव लक्ष्यते ॥ 10 अन्योन्यानुग्रहस्सोऽयमविवेकानिबन्धनः । बुद्धिर्महत्तत्त्वमेतदन्तःकरणमुच्यते ॥ प्रत्यभिज्ञाऽनुसंधानकार्यनिर्वहणक्षमा । विषयाकारिणी बुद्धिवृत्तिः ज्ञानमितीर्यते ॥ बुद्धेस्सत्त्वसमुद्रेकोऽध्यवसायोऽपि स स्मृतः । उपलब्धिः पुनः पुंसो वृत्तिमद्बुद्धिदर्शनम् ॥ तस्मात् ज्ञानं चोपलब्धिः बुद्धिश्चार्थान्तरं मतम् ततश्च बुद्धिः त्रिविधै रञ्जकैरुपराज्यते ॥ 11 विषयेणोपरागोऽयं संबन्धो ज्ञानलक्षणः । पुरुषेणोपरागो यः स भेदाग्रहलक्षणः ॥ व्यापारेणोपरागोऽयं वृत्तिः कर्तव्यामित्यसौ । तस्मान्ममेदं कर्तव्यमिति बुद्धेर्निरूपणा ॥

48 मानमेयरहस्यश्लोकवार्त्तिके अविभागोऽपि बुद्ध्यात्मा भ्रान्तैरेवं निरीक्ष्यते । ग्राह्यग्राहकसंवित्तिभेदवानिति सौगताः ॥ सविभागोऽपि बुद्ध्यात्मा भ्रान्तैरित्थं विलोक्यते । उपरागैस्त्रिभिरविभक्तात्मैवेति कापिलाः ॥ बाह्यमाभ्यन्तरं चेति करणं द्विविधं मतम् । 12 चक्षुराद्यं दशविधं बाह्यमाभ्यन्तरं पुनः ॥ मनोऽहंकारबुद्ध्याख्यं त्रिविधं तत्प्रकीर्तितम् । आलोचना बाह्यवृत्तिः संकल्पो मनसो मतः ॥ अभिमानोऽहंकृतेः स्याद्बुद्धिरध्यवसायभूः । अन्तःकरणसामान्यवृत्तिः प्राणा इतीर्यते ॥ शारीरके प्राणचिन्ता चैतत्सिद्धान्तदूषणी । अस्ति ह्यालोचनं ज्ञानं प्रथमं निर्विकल्पकम् ॥ बालमूकादिविज्ञानसदृशं शुद्धवस्तुजम् । संमुग्धं वस्तुमात्रं तु प्राग्गृहन्त्यविकल्पितम् ॥ तत्सामान्यविशेषाभ्यां कल्पयन्ति मनीषिणः । इति प्राहुस्सांख्यवृद्धाः प्रायस्सौगतसोदराः ॥ 13 सत्त्वं रजस्तम इति गुणाः प्रकृतिलक्षणाः । सुखं दुःखं च मोहश्च तदेषामुपलक्षणम् ॥ प्रकाशश्च प्रवृत्तिश्च नियमश्च प्रयोजनम् । अन्योन्याभिभवे शान्ता घोरा मूढा च वृत्तयः ॥

सांख्यदर्शनम् 49

ऽम्येनावस्थितौ तुल्यपरिणामपरंपरा । विनाभाववृत्तित्वमित्याद्या इह वृत्तयः ॥ त्मा ज्ञातव्य इत्युक्त्या विवेक्तव्यः प्रधानतः । यप्युक्त्या च युक्त्या च ज्ञानान्मोक्षं विदुस्त्विमे ॥ त्मानुमेयसिद्धान्तः सांख्यानामिति निर्णयः । त्मप्रत्यक्षसिद्धान्तः प्रायेणेतरसम्मतः ॥ ग्यं विषयत्यागादित्योपनिषदं मतम् । गाद्विषयवैराग्यमिति कापिलदर्शनम् ॥ भुक्तं क्षीयते कर्म कल्पकोटिशतैरपि । र्वकर्मक्षयादेव मोक्षस्स्याद्भोगवादिनाम् ॥ यतश्चैकभविकपक्षः पातञ्जलानुगैः । ीकृतस्तस्य वैशद्यं मोक्षवादे भविष्यति ॥ नो विवेकख्यात्याख्यतत्त्वसाक्षात्कृतेः पुनः । ारब्धविपाकानां बीजभावविदाहतः ॥ र्माशयानां प्रारब्धविपाकानां तु भोगतः । वश्यंभावि चानाशि कैवल्यमिति निर्णयः ॥ वसाक्षात्कृतिः प्रायः मोक्षसाधनमुच्यते । विद्या भ्रान्तिरूपा हि साक्षात्कृत्या निवर्तते ॥ त्विच्छन्ति च सर्वेषां सप्रसादं सशक्तिकम् । र्वज्ञं तैः तत्प्रसादमूलोपासनमिष्यते ॥ २. 7

50 मानमेयरहस्यश्लोकवार्तिके तत्त्वनिर्णयमात्रेण भगवान्न प्रसीदति । न वा निःश्रेयसं तस्मादुपास्त्यै तत्त्वनिर्णयः (10) पातञ्जल दर्शनम्. 1 हिरण्यगर्भोपज्ञं यद्योगशास्त्रं प्रकीर्तितम् । तदीयसंहितासारं संजग्राह पतञ्जलिः ॥ न परीक्षाशास्त्रमेतत् किंतु स्यादनुशासनम् । स्वार्थोपदेशेन परनिरासोऽप्यभिसंहितः ॥ तत्त्वज्ञानं सांख्यशास्त्रे योगेऽनुष्ठानमुच्यते । ज्ञानानुष्ठानसंयोगात् अपृथक्स्थितिरेतयोः ॥ ज्ञानयोगो भक्तियोगः प्रथमे पाद ईरितः । कर्मयोगस्तदुभयहेतुस्साधनपादगः ॥ विभूतिपादेऽभ्युदयः निःश्रेयसमथान्तिमे । प्रतिपादं प्रधानार्था इति शास्त्रार्थसंग्रहः ॥ ज्ञानयोगस्स्वात्मचिन्ता भक्तिरीश्वरचिन्तनम् । कर्मयोगः कर्मनिष्ठा फलसंगविवर्जिता ॥ हेयं च हेयहेतुश्च मोक्षस्तद्धेतुरित्यपि । शास्त्रं व्युत्पादयत्येतदिममर्थचतुष्टयम् ॥ 2 सर्वान् जन्तूनुद्दिधीर्षुः दुःखसंसारसागरात् । उपादत्ते सत्त्वचित्तं परः कारुणिकः पुमान् ॥

पातञ्जलदर्शनम् 51 अनुग्रहोपदेशादेर्विना तेन न संभवः । सर्गप्रलयसन्तानः बीजाङ्कुरवदिष्यते ॥ ज्ञानक्रियाशक्तियुक्तं चित्तं सर्वातिशाय्यदः । अनादिसिद्धं तस्यास्ति शुद्धसत्त्वं प्रधानजम् ॥ पूर्वपूर्वोपात्तचित्तं तादृक्संकल्पवासितम् । उत्तरोत्तरचित्तानामुपादाने निबन्धनम् ॥ सात्त्विकाः परिणामाश्च तस्य भोग्यतया स्थिताः । नचेश्वराणां नानात्वं भिन्नाभिप्रायभङ्गतः ॥ ज्ञानैश्वर्ये शुद्धसत्त्वे स्यातामस्य सनातने । पुंप्रकृत्योश्च संयोगवियोगौ तन्निबन्धनौ ॥ ३ सर्वज्ञलिङ्गं निरतिशयमीशनलक्षणम् । प्रणिधानं नाम भक्तिः तदुपासनलक्षणम् ॥ इच्छामात्रेण सकलजगदुद्धरणक्षमः । यतस्तदेकाश्रयणं वरणं शरणस्य तत् ॥ यद्यस्येष्टं तत्तु तस्य प्रयोजनमिति स्थितम् । सर्वभूतानुग्रहोऽस्य जगत्कर्तुः प्रयोजनम् ॥ स कालेनानवच्छेदात्पूर्वेषां गुरुरुच्यते । प्रणवो वाचकस्तस्य तन्मूलं तदुपासनम् ॥ स्वाध्यायाद्योगमासीत योगात्स्वाध्यायमाचरेत् । स्वाध्याययोगसंपत्त्या परमात्मा प्रसीदति ॥

52 मानमेयरहस्यश्लोकवार्तिके अनादिनिधनं विष्णुं सर्वलोकमहेश्वरम् । लोकाध्यक्षं स्तुवन्नित्यं सर्वदुःखातिगो भवेत् ॥ सादृश्यादीश्वरध्यानं तदनुग्रहमूलतः । स्वात्मसाक्षात्कारहेतुरिति तद्योगदर्शनम् ॥ उपायस्सुकरस्सोऽयं शीघ्रं चापि फलप्रदः । केषांचित् क्षीणदोषाणां विश्वासोऽत्र महात्मनाम् । 4 स एव भक्तियोगस्स्यात् ज्ञानयोगोऽधुनोच्यते । चित्तवृत्तिनिरोधोऽसौ स्वसाक्षात्कारकारणम् ॥ आगमेनानुमानेन ध्यानाभ्यासवशेन च । त्रिधा प्रकल्पयन् प्रज्ञां लभते योगमुत्तमम् ॥ ध्यानाभ्यासरसश्चैषः धर्ममेघ इतीर्यते । परं प्रसंख्यानमेतत्पुंमात्रध्यानलक्षणम् ॥ ध्यानप्रकर्षपर्यन्तजा चिच्छायावती तु या । अविप्लवा विवेकोपलब्धिः मोक्षस्य कारणम् ॥ सा शुक्लकृष्णमुत्पाद्य धर्मं बन्धं विमोचयेत् । प्रकृष्टधर्मजो मोक्ष इति स्वायंभुवं मतम् ॥ अत्र कैश्चिद्धर्ममेघस्समाधिः पक्व उच्यते । तेन ज्ञानैकसाध्योऽसौ मोक्ष इत्येव तन्मतम् ॥ अयं तु परमो धर्मो यद्योगेनात्मदर्शनम् । इति स्मृतिवचस्तत्र प्रमाणं च प्रदर्श्यते ॥

प्रज्ञाप्रासादमारुह्य ह्यशोच्यश्शोचतो जनान् । भूमिष्ठानिव शैलस्थस्सर्वान् प्राज्ञोऽनुपश्यति ॥ ५ अधिकारस्स चित्तस्य स्थितिहेतुरुदीरितः । यः कृत्यशेषः तच्छून्यं चित्तं मूले विलीयते ॥ तस्य चित्तस्य विलयात्स्वस्वरूपे प्रतिष्ठितः । पुरुषः केवलो गौणी सा प्रतिप्रसवात्मिका ॥ संयोगाभाव एवासौ दृशेः कैवल्यमुच्यते । कृतकृत्यं ख्यातिपर्यवसानं चित्तचेष्टितम् ॥ यश्च नैरात्म्यसिद्धान्तो निर्वाणद्वारमुच्यते । तदेतच्चित्तविषयमिति सम्यग्विशोधितम् ॥ ६ ज्ञातव्यमखिलं ज्ञातं हातव्यमखिलं तथा । प्राप्तव्यमखिलं प्राप्तं कर्तव्यमखिलं कृतम् ॥ चतुर्विधा इमाः ख्याताः यास्ताः कार्यविमुक्तयः चरितार्था च मे बुद्धिः गुणाश्चानाधिकारिणः ॥ स्वस्वरूपप्रतिष्ठोऽहं एताश्चित्तविमुक्तयः । ततश्च नाहं नैवास्मि न मे चेति विनिश्चयः ॥ ७ क्षिप्तं मूढं च विक्षिप्तमेकाग्रं पञ्चमं पुनः । निरुद्धमिति चित्तस्य भूमयः पञ्च कीर्तिताः ॥ चित्तं चतुर्विधं तत्र व्युत्थानं प्रथमं मतम् । समाध्यारम्भसंज्ञं तु द्वितीयं परिकीर्तितम् ॥

54 मानमेयरहस्यश्लोकवार्तिके एकाग्रता निरोधश्च तृतीयं च तुरीयकम् । तत्र पूर्वस्य संस्कारश्चोत्तरेण निहन्यते ॥ स्वयं निरोधसंस्कारः नश्येत्सीससुवर्णवत् । स्वभावतस्तत्त्वपक्षपातस्सर्वत्र दृश्यते ॥ 8 निरोधश्च समाधिश्च तथैवैकाग्रतेति च । स्थूलमध्यमसूक्ष्माख्याः परिणामास्स्युरन्तराः। ते धर्मलक्षणावस्थाभेदात् बाह्याः प्रकीर्तिताः । देशकालदशाभेदात् त्रैविध्यमभिसंहितम् ॥ चितिशक्ते ऋते सर्वे प्रतिक्षणविकारिणः । प्रतिक्षणपरीणामोऽवस्था सूक्ष्म उदाहृतः ॥ मध्यमो भूतभाव्यादिव्यवहारस्य गोचरः । घटादिपरिणामो यः स स्थूल इति निर्णयः ॥ भेदाभेदोऽत्राभिमतः तादात्म्यं धर्मधर्मिणोः । भावाभावविरोधस्तु स्यात्प्रतीतिपराहतः ॥ 9 बुद्धिवृत्तिः प्रमाणं स्याच्चिच्छायाऽत्र प्रमा मता आप्तेश्वरप्रणीतश्च वेद आगमलक्षणः ॥ वाच्यवाचकभावोऽस्य नित्यः संकेतसूचितः । यो विकल्पो निर्विषयख्यातिवादस्स उच्यते ॥ नात्रासत्ख्यातिवादस्स्यान्नापि ख्यातेरपह्नुतिः । तस्माद्योगाचारगुर्वोः मार्गादेष विलक्षणः ॥

[Header] पातञ्जलदर्शनम् 55 10 चित्तवृत्तिनिरोधस्याभ्यासवैराग्यलक्षणौ । उपायौ प्रथमौ ज्ञेयौ तत्स्वरूपं निशाम्यताम् ॥ अभ्यासः स्थितियततः स्यात् तृष्णाहानिर्विरागता । तृष्णाक्षयसुखं सर्वसुखेभ्यो हि विशिष्यते ॥ 11 योगो द्विधस्स्यात्संप्रज्ञातासंप्रज्ञातभेदतः । ध्येयमात्रस्फूर्तिराद्यः तच्छून्योऽनन्तरो मतः ॥ सालम्बनस्स्यात्प्रथमः निरालम्बन उत्तरः । सबीजः प्रथमः प्रोक्तः निर्बीजस्स्यादनन्तरः ॥ मृदुर्मध्योऽधिमात्रश्च स्यादुपायस्त्रिधा मतः । मृदुर्मध्यश्च तीव्रश्च संवेगोऽपि त्रिधा स्थितः ॥ तत्र प्रत्येकयोगेन योगिनो नवधा मताः । तत्रोत्तरेषु चासन्ना सिद्धिः भक्ते ततोऽपिच ॥ संप्रज्ञातसमाधिस्तु समापत्तिरितीर्यते । तत्र ग्राह्यसमापत्तिः स्थूलसूक्ष्मविभेदतः ॥ सवितर्का निर्वितर्का सविचारा तथेतरा । चतुर्विधैवं तद्भिन्ना या तु ग्रहणगोचरा ॥ समापत्तिश्च सानन्दा निरानन्देति भिद्यते । स्याद्ग्रहीतृसमापत्तिः सास्मिता च निरास्मिता ॥ इति द्विधा तथा चाष्टौ समापत्तय ईरिताः । सर्वस्फूर्तिनिरोधे तु द्वितीयो योग उच्यते ॥

6 मानमेयरहस्यश्लोकवार्तिके

संस्कारमात्रशेषं तु चित्तमत्रावतिष्ठते । 12 तद्भवप्रत्ययोपायप्रत्ययाभ्यां द्विधं मतम् ॥ एते भवप्रत्ययाः स्युः ये भवन्ति पुनर्भुवि । योगिनस्ते बहुविधाः पुराणेषु प्रपञ्चिताः ॥ दश मन्वन्तराणीह तिष्ठन्तीन्द्रियचिन्तकाः । भौतिकास्तु शतं पूर्णं सहस्रं त्वाभिमानिकाः ॥ बौद्धा दशसहस्राणि तिष्ठन्ति विगतज्वराः । पूर्णं शतसहस्रं तु तिष्ठन्त्यव्यक्तचिन्तकाः ॥ पुरुषं निर्गुणं प्राप्य कालसंख्या न विद्यते । एते हि तौष्टिकाः प्रोक्ताः विवेकख्यातिवर्जिताः ॥ तेषां चित्तं लीनमपिचोत्तिष्ठेत्सुप्तचित्तवत् । उपायप्रत्ययानां तु चित्तं नावर्तते पुनः ॥ विवेकिनस्सर्वमिदं हेयं दुःखमनागतम् । हेयहेतुस्तु संयोगोऽविद्यया द्रष्टृदृश्ययोः ॥ हानं दृशेस्तु कैवल्यं संयोगाभावलक्षणम् । हानोपायोऽविप्लवा स्यात् विवेकख्यातिलक्षणा ॥ प्रतिप्रसवहेयास्स्युः सूक्ष्माः संस्कारलक्षणाः । स्थूलास्तु ध्यानहेयाः स्युः क्लेशलक्षणवृत्तयः ॥ स प्रतिप्रसवः ख्यातः तस्यैव ध्वंसलक्षणः । तथाच धर्मिनाशेन धर्मनाश इति स्थितम् ॥

13 हेतुवादोच्छेदवादशाश्वदादा इति त्रयम् । उपादाने च हाने चोपेक्षायां च क्रमान्मतम् ॥ तन्नोपादेय आत्माऽसौ नापि हेयोऽपितु स्वयम् । उपेक्षणीय एवातः आत्मा शाश्वतिको मतः ॥ 14 नित्योदिता च व्यङ्ग्या च चिच्छक्तिः द्विविधा मता । आद्या कूटस्थचिच्छक्तिः पुरुषस्स प्रकीर्तितः ॥ तत्सन्निधानाच्चित्तस्य या पुनः व्यज्यतेऽपरा । तदभिव्यक्तचैतन्यं चित्तं व्यङ्ग्येति कीर्त्यते ॥ चिच्छाया चेतनायमानं चापि भवत्यदः । प्रतिबिम्बाभिधा सैव पूर्वा बिम्बाभिधा मता ॥ सांनिध्यात् व्यञ्जनं यच्च तदेव प्रतिबिम्बनम् । तच्चित्तं वेद्यतां याति स्वाकारस्य समर्पणात् ॥ स्वकर्मानुगुणं भोक्ताऽधिष्ठितः परमात्मना । इति सांख्यैः स कथितः ये शान्तब्रह्मवादिनः ॥ तस्य यस्सुखदुःखादिभोगः कर्मनिबन्धनः । स एव पौरुषो भोगः विवेकाग्रहमूलकः ॥ अभिप्रायेण तेनैव कथितं विन्ध्यवासिना । या सत्त्वतप्यता सैव पुरुषे तप्येतेति च ॥ चित्तमेव द्रष्टृदृश्योपरक्तं त्वंशभेदतः । सर्वार्थमित्युच्यते यच्चेतनाचेतनात्मकम् ॥ M.R. 8

58 मानमेयरहस्यश्लोकवार्तिके न तत्स्वभासं दृश्यत्वात् साक्षिवेद्यमतस्स्थि- नार्थः प्रतीतो भवति तत्प्रतीतेरवेदने ॥ बुद्धिवृत्तिश्चिदाकारा चिच्छायाप्रतिसंक्रमात् सा चितिः वृत्त्यवच्छिन्ना चिद्वेद्येत्यभिधीय[ते] नातश्चित्तं स्वप्रकाशं न चित्तान्तरगोचरः । किंतु वेद्यं साक्षिणेति व्यवहारव्यवस्थितिः एवं सवृत्तिकं चित्तं साक्षिवेद्यं सदा मतम् यतस्साक्षी स कूटस्थोऽन्यथाऽलं चित्तवस्तु[?] 15 तथैव प्रकृतेश्चापि द्वे शक्ती सहजे स्थिते । अनुलोमप्रतीलोमपरिणामविभेदतः ॥ अनुलोमः परीणामो भूतान्तो यो बहिर्मु[खः] स्वकारणानुप्रवेशः प्रतिलोमोऽस्मितावधि[ः] ते एव पुरुषार्थस्य कर्तव्यत्वमितीर्यते । तादृक्शक्तिद्वितयक्षय एव कृतार्थता ॥ 16 यद्यप्येते तु सहजे शक्ती यत्नो विमुक्तये शास्त्रोपदेशवैयर्थ्याभावश्चाप्यवधार्यताम् । पुंप्रकृत्योरनादिर्यः भोक्तृभोग्यत्वलक्षणः बन्धः तस्मिन् सति व्यक्तचेतना प्रकृति[ः] कर्तृत्वस्याभिमानेन दुःखस्यानुभवेन च । कथमात्यन्तिकी दुःखनिवृत्तिस्स्यान्ममेत्य[त...]