भारतकोश
संग्रह पर लौटें

मृच्छकटिकम् (सटीक संस्कृत नाटक)

Mricchakatikam with Sanskrit-Hindi Commentary

महाराज शूद्रक / पं. जयशंकर लाल त्रिपाठी द्वारा

DevanagariSanskritpublished760 पृष्ठ

३०० मृच्छकटिकम्

अपि च—

मेघो जलार्द्रमहिषोदरभृङ्गनीलो
विद्युत्प्रभा-रचित-पीत-पटोत्तरीयः ।
आभाति संहतबलाक-गृहीतशङ्खः
खं केशवोऽपर इवाक्रमितुं प्रवृत्तः ॥ २ ॥

जीवानन्दः, सपदि=सत्त्वरम्, अन्तरिक्षम्=गगनम्, उत्कण्ठितस्य=प्रियविरहव्याकुलस्य जनस्य, हृदयम्=मानसम्, च=तथा, समम्=एककालमेव, रुणद्धि=आवृणोति, विषयान्तरात् विमुखीकरोति चित्तमिति भावः। अत्र सहोक्तिरलङ्कारः, वसन्ततिलका वृत्तम् ॥ १ ॥

**विमर्श—**कामप्रभाववृद्धि में वर्षा का विशेष योग रहता है। यहाँ छह श्लोकों में यही वर्णन है। 'मेघाच्छन्नं तु दुर्दिनम्' कोश के अनुसार बादलों से घिरा हुआ दिन 'दुर्दिन' होता है। परन्तु यहाँ केवल मेघ अर्थ करना चाहिये क्योंकि मेघ ही आकाश और चित्त दोनों को आच्छादित करता है ॥ १ ॥

अन्वय—जलार्द्रमहिषोदरभृङ्गनीलः, विद्युत्प्रभारचितपीतपटोत्तरीयः, संहतबलाकगृहीतशङ्खः, अपरः, केशवः, इव, खम्, आक्रमितुम्, प्रवृत्तः, मेघः, आभाति ॥२॥

शब्दार्थजलार्द्रमहिषोदरभृङ्गनीलः = पानी से गीले किये गये भैंसे के पेट और भौंरे के समान नील (काले) वर्णवाला, विद्युत्प्रभारचितपीतपटोत्तरीयः= बिजली की चमक से बने हुये पीले दुपट्टे वाला, **संहतबलाकगृहीतशङ्खः=**एक साथ चलनेवाले बगुलों की पंक्तिरूपी शंख को लेनेवाला, अपरः = दूसरे, **केशवः=**विष्णु के, **इव=**समान, खम् = आकाश को, **आक्रमितुम्=**लांघने के लिये, **प्रवृत्तः=**सन्नद्ध, तैयार, **मेघः=**बादल, **आभाति=**शोभित हो रहा है।

विष्णुपक्ष में—**जलार्द्रमहिषोदरभृङ्गनीलः—**इसमें अर्थभेद नहीं है। परन्तु **विद्युत्प्रभारचितपीतपटोत्तरीयः’—**बिजली की चमक के समान बने हुये पीतवस्त्र के दुपट्टे वाले—**और संहतबलाकगृहीतशङ्खः=**एकत्रित बगुलों की पंक्ति के समान पाञ्चजन्यनामक अपने शंख को धारण किये हुये—यह अर्थ है ॥ २ ॥

अर्थ—और भी—

पानी से गीले किये गये भैंसे के पेट और भौंरें के समान काला, बिजली की चमक से बने हुये पीतवस्त्र के दुपट्टे को धारण करनेवाला, (विष्णुपक्ष में—बिजली की कान्ति के समान बने हुये पीताम्बर के दुपट्टेवाले), एकत्रित बगुलों की पंक्तिरूपी शंखवाला (विष्णुपक्ष में—एकत्रित हुये बगुलों की पांत के समान शंख को धारण करनेवाले) दूसरे (वामनरूपधारी) विष्णु के समान, आकाश को लांघने के लिये तैयार मेघ शोभित हो रहा है। [यहाँ वामनरूपी विष्णु के साथ मेघ की सुन्दर उपमा है।] ॥ २ ॥

पञ्चमोऽङ्कः ३०१

अपि च—

केशवगात्रश्यामः, कुटिल-बलाकावली-रचित-शङ्खः । विद्युद्गुणकौशेयश्चक्रधर इवोन्नतो मेघः ॥ ३ ॥

टीका—मेघसौन्दर्यं वर्णयन्नाह—मेघ इति। जलेनाद्रं जलाद्रं च तन्महि- षोदरं च जलाद्रंमहिषोदरं भृङ्गश्च तद्वन्नीलः = श्यामः। महिषस्य स्वत एव श्यामत्वेऽपि जलाद्रंस्यातिश्यामलता ततोऽप्युदरदेशे नैल्याधिक्यमिति प्रतिपादनाय तथोक्तिः। विद्युत्प्रभया रचितं पीतपटवदुत्तरीयं यस्य सः। विष्णुपक्षे विद्युत्प्रभा इव रचितं पीतपटः=पीताम्बरमेव उत्तरीयं येन सः; संहता=पुञ्जीभूताः बलाकाः= बका एव गृहीतः शंखो येन सः, विष्णुपक्षे संहतबलाकवद् गृहीतः शङ्खः=पाञ्चजन्यो येन सः, वर्णेन साम्यम्; एतादृशः मेघः=घनः, अपरः=अन्यः, केशवः=विष्णुः, इव, खम् = आकाशम्, आक्रमितुम् = आच्छादयितुम्, विष्णुपक्षे पादविक्षेपेणाधिकर्तुम्, प्रवृत्तः=उद्युक्तः सन्, विभाति=शोभते। अत्र प्रसिद्धातिरिक्तस्य केशवस्याभेदेन मेघे उत्कटकोटिकसंशयादुत्प्रेक्षालङ्कारः। एवं प्रथमे पादे तादृशमहिषोदरभृङ्गाभ्यां मेघस्य अवैधर्म्यसाम्यकथनात् उपमा, द्वितीये च विद्युत्प्रभायां विषये तादात्म्येना- रोपितस्य पीतोत्तरीयस्य केशवसाम्यरूपप्रकृतार्थोपयोगित्वात् परिणामालंकारः, तृतीये च निरपह्नुतविषये बलाके शङ्खस्याभेदेनारोपात् रूपकम्—इत्येतेषाम- लङ्काराणां परस्परसापेक्षतया सङ्करः इति जीवानन्दाचार्यः। वसन्ततिलकं वृत्तम् ॥ २ ॥

विमर्श—इसमें मेघ का वर्णन वामनरूपधारी विष्णु के समान किया गया है। पौराणिक कथानुसार वामनरूप में विष्णु ने आकाशपर्यन्त पैर से नाप लिया था। इसमें संकर अलङ्कार की छटा संस्कृत टीका में देखें ॥ २ ॥

अन्वयः—केशवगात्रश्यामः, कुटिलबलाकावलीरचितशङ्खः, विद्युद्गुणकौशेयः, मेघः, चक्रधरः, इव, उन्नत:, [ दृश्यते ] ॥ ३ ॥

शब्दार्थ—केशवगात्रश्यामः = भगवान् श्रीकृष्ण के शरीर के समान श्याँवला, कुटिलबलाकावलीरचितशङ्खः = तिरछी बगुलियों की पंक्तिरूपी शङ्ख धारण करने वाला, विद्युद्गुणकौशेयः=बिजली रूपी सूत्रों से बने हुये रेशमी वस्त्रवाला, मेघः= बादल, चक्रधरः=चक्रधारी, विष्णु, इव=के समान, उन्नत:=उमड़ता हुआ [ दृश्यते= दिखाई दे रहा है । ] ॥ ३ ॥

अर्थ—और भी— भगवान् श्रीकृष्ण के समान श्याँवले रंगवाला, बगुलों की तिरछी पंक्तिरूपी शङ्ख धारण करने वाला, बिजलीरूपी सूत्रों से बने हुये रेशमी वस्त्र (पीताम्बर) वाला बादल चक्रधारी विष्णु के समान उमड़ता हुआ [ दिखाई ] दे रहा है ॥३॥

३०२मृच्छकटिकम्

एता निषिक्तरजतद्रवसन्निकाशा धारा जवेन पतिता जलदोदरेभ्यः।
विद्युत्प्रदोषशिखया क्षणनष्टदृष्टाश्छिन्ना इवाम्बरपटस्य दशाः पतन्ति ॥४॥

टीकापूर्वोक्तमेवार्थं पुनरार्यया प्रतिपादयति—केशवेति। केशवगात्रवत् = श्रीकृष्णशरीरमिव, श्यामः=नीलः, कुटिला=वक्रा या, बलाकानाम्=वकानाम् अवलो=पङ्क्तिः, सा एव रचितः = धृतः, शङ्खः - कम्बुः येन सः तादृशः, विद्युत्=तडित् एव, गुणः = सूत्रम्, तदेव कौशेयम्=चीनवस्त्रं यस्य सः तथोक्तः, मेघः = जलधरः, चक्रधरः=चक्रधारी विष्णुः, इव=यथा, उन्नतः=उदितः, दृश्यते इति शेषः। उपमा रूपकं चालंकारौ। आर्या वृत्तम् ॥ ३ ॥

विमर्श—इसमें द्वितीय श्लोक के भावार्थ की पुनरुक्ति है। अतः यह प्रक्षिप्त सा प्रतीत होता है ॥ ३ ॥

अन्वयः—निषिक्तरजतद्रवसन्निकाशाः, जलदोदरेभ्य, जवेन, पतिताः, विद्युत्प्रदीपशिखया, क्षणदृष्टनष्टाः, एताः, धाराः, अम्बरपटस्य, छिन्नाः, दशाः, इव, पतन्ति ॥ ४ ॥

शब्दार्थनिषिक्तरजतद्रवसन्निकाशाः=टपकते हुये चाँदी के घोल के समान, जलदोदरेभ्यः=मेघों के पेटों से, जवेन=शीघ्रता से, पतिताः=गिरती हुयीं विद्युत्प्रदीपशिखया=बिजलीरूपीदीपक की शिखा (लौ) से, क्षणदृष्टनष्टाः=क्षणभर के लिये दिखाई देकर नष्ट = अदृश्य हो जानेवाली, एताः = ये, धाराः = जलधारायें, अम्बरपटस्य=आकाशरूपी वस्त्र की, छिन्नाः=टूटी हुई, दशाः=छोर, इव=के समान, पतन्ति=गिर रहीं हैं ॥ ४ ॥

अर्थ—टपकते हुये चाँदी के घोल के समान, मेघों के पेट (मध्यभाग) से जल्दी जल्दी गिरतीं हुयीं, बिजलीरूपी दीपक की शिखा से क्षणभर के लिये दिखाई देकर अदृश्य हो जानेवालीं ये पानी की धारायें आकाशरूपी वस्त्र के टूटे हुये छोर=सूत्रों के समान गिर रहीं हैं ॥ ४ ॥

टीकादुर्दिनस्यैव वैचित्र्यं निरूपयतिएता इति। निषिक्ताः=क्षरिताः, ये रजतद्रवाः=द्रवीभूतरजतानीत्यर्थः, तेषां सन्निकाशाः=समानाः, जलदानाम्=मेघानाम्, उदरेभ्यः=जठरेभ्यः, पतिताः = निर्गताः, विद्युदेव=तडिदेव, प्रदीपशिखा=दीपकज्वाला, तया, क्षणेन=मुहूर्तम्, दृष्टाः=अवलोकिताः पश्चात् नष्टाः=अदर्शनं गताः, एताः = पुरो वर्तमानाः, धाराः = जलधाराः, अम्बरपटस्य = आकाशरूपवस्त्रस्य, छिन्नाः = त्रुटिताः, दशाः = प्रान्तभागाः, सूत्राणि, इव, पतन्ति = क्षरन्ति। यथा जीर्णवस्त्रात् सूत्राणि निःसृत्य पतन्ति तथैव आकाशात् जलधाराः क्षरन्तीति भावः। अत्र रूपकमुत्प्रेक्षा चालङ्कारौ वसन्ततिलकं वृत्तम् ॥ ४ ॥

पञ्चमोऽङ्कः ३०३

संसक्तैरिव चक्रवाकमिथुनैर्हंसैः प्रडीनैरिव
व्याविद्धैरिव मीनचक्रमकरैर्हर्म्यैरिव प्रोच्छ्रितैः ।
तैस्तैराकृतिविस्तरैरनुगतैर्मेघैः समभ्युन्नतैः
पत्रच्छेद्यमिवेह भाति गगनं विश्लेषितैर्वायुना ॥ ५ ॥

अन्वयः—संसक्तैः, चक्रवाकमिथुनैः, इव, प्रडीनैः, हंसैः, इव व्याविद्धैः, मीनचक्र-मकरैः, इव, प्रोच्छ्रितैः, हर्म्यैः, इव, तैः, तैः, आकृतिविस्तरैः, वायुना, विश्लेषितैः, अनुगतै, समभ्युन्नतैः, मेघैः, इह, गगनम्, पत्रच्छेद्यम्, इव, भाति ॥ ५ ॥

शब्दार्थःसंसक्तैः = आपस में सटे हुये, चक्रवाकमिथुनैः = चकवी चकवे के जोड़ों के, इव=समान, प्रडीनैः=उड़ते हुये, हंसैः=हंसों के, इव=समान, व्याविद्धैः=इधर उधर उछाले गये, मीनचक्रमकरैः=मछलियों के समुदाय और मकरों के, इव=समान, प्रोच्छ्रितैः=अत्यन्त ऊँचे, हर्म्यैः=महलों के, इव=समान, तैः तैः=उन-उन, आकृतिविस्तरैः = आकार से फैलनेवाले, वायुना=हवा से, विश्लेषितैः=अलग किये गये, अनुगतैः=एक दूसरे के पीछे आनेवाले, समभ्युन्नतैः=बहुत ऊँचे, मेघैः=बादलों से, इह=यहाँ, गगनम्=आकाश, पत्रच्छेद्यम्=चित्र के, इव=समान, भाति=शोभित हो रहा है ॥ ५ ॥

अर्थ—आपस में मिले हुये चकवीचकवे के जोड़े के समान, उड़ते हुये हंसों के समान, (समुद्रमन्थन के समय इधर उधर) उछाले गये मछलियों के समूह और मकरों के समान, अत्यन्त ऊँचे ऊँचे महलों के समान, उन उन [भिन्न भिन्न] आकारों के विस्तारवाले, हवा के [झोकों] द्वारा तितर बितर किये गये, एक दूसरे के पीछे आने वाले, ऊँचे ऊँचे बादलों से यहाँ आकाश चित्र के समान शोभित हो रहा है ॥ ५ ॥

टीका—दुर्दिनमेव भङ्ग्यन्तरेण साधयति—संसक्तैरिति । संसक्तैः=परस्पर-मिलितैः, चक्रवाकमिथुनैः=कोकयुगलैः, इव; प्रडीनैः=उड्डीयमानैः, हंसैः=मरालैः, इव; व्याविद्धैः=समुद्रमथनकाले समन्तात् विक्षिप्तैः, मीनानाम्=मत्स्यानाम्, चक्रैः=समूहैः, तथा मकरैः=एतन्नाम्ना प्रसिद्धैः जलजन्तुविशेषैः, इव; प्रोच्छ्रितैः=अत्युन्नतैः, हर्म्यैः=प्रासादैः इव; तैः तैः=तत्तद्दिगवस्थितैः, आकृतिभिः=आकृतिभेदेन, विस्तरैः =बहुलैः, वायुना=पवनेन, विश्लेषितैः=इतस्ततश्चालितैः, अनुगतैः=युक्तैः, समभ्युन्नतैः=अत्युन्नतैः, मेघैः=जलदैः, करणभूतैः, इह=एतद्देशावच्छिन्नम्, गगनम्=आकाश-तलम्, पत्रच्छेद्यम्=आलेख्यम्, चित्रम्, इव, भाति=शोभते । यथा चित्रं विविधाकृति-विशिष्टं भवति तथैवाकाशमपि वर्तते । अत्र वायुवेगविच्छिन्ने प्रकृते मेघे तत्तद्-विशेषणविशिष्टानां परेषां चक्रवाकमिथुनादीनामुत्कटकोटिकसंशयादुत्प्रेक्षालङ्कार इति तत्त्वविदः । शार्दूलविक्रीडितं वृत्तम् ॥ ५ ॥

३०४मृच्छकटिकम्

एतत्तद्धृतराष्ट्रवक्त्रसदृशं मेघान्धकारं नभो दृष्टो गर्जति चातिदर्पितबलो दुर्योधनो वा शिखी । अक्षद्यूतजितो युधिष्ठिर इवाध्वानं गतः कोकिलो हंसाः सम्प्रति पाण्डवा इव वनादज्ञातचर्यां गताः ॥ ६ ॥

अन्वयः—मेघान्धकारम्, एतत्, नभः, तद्धृतराष्ट्रवक्त्रसदृशम्, [ अस्ति ]; अतिदर्पितबलः, शिखी, दुर्योधनः, वा, दृष्टः [ सन् ], गर्जति; कोकिलः, अक्षद्यूत-जितः, युधिष्ठिरः, इव, अध्वानम्, गतः, सम्प्रति, हंसाः, पाण्डवाः, इव, वनात्, अज्ञातचर्याम्, गताः ॥ ६ ॥

शब्दार्थ—मेघान्धकारम् = मेघों के कारण अन्धकारयुक्त, एतत्=यह, नभः=आकाश, तद्धृतराष्ट्रवक्त्रसदृशम्=उस धृतराष्ट्र के मुख के समान, [ अस्ति=है ]; अतिदर्पितबलः=रूप के अति घमण्डवाला [ दुर्योधनपक्ष में—अत्यन्त अभिमानयुक्त सेनावाला ], शिखी=मोर, दुर्योधनः वा=दुर्योधन के समान, हृष्टः=हर्षित होता हुआ, गर्जति = चिल्ला रहा है; कोकिलः=कोयल, अक्षद्यूतजितः=पासे के खेल में पराजित, युधिष्ठिरः=ज्येष्ठ पाण्डव, इव=के समान, अध्वानम्=मौन [ अध्वानम् । युधिष्ठिर पक्ष में वनमार्ग ] को, गतः = चली गयी है, सम्प्रति=इस वर्षाकाल में, हंसाः=हंस पक्षी, पाण्डवाः=पाण्डवों के, इव=समान, वनात्=वनसे, अज्ञातचर्याम्=अज्ञातवास को, गताः=चले गये ॥ ६ ॥

अर्थ—[ दुर्योधन के कुशासन की तुलना वर्षा के साथ है । ] बादलों के कारण अन्धकारयुक्त यह आकाश धृतराष्ट्र ( दुर्योधन के पिता ) के मुख के समान है । [ आंखों से रहित धृतराष्ट्र का मुख और चन्द्रसूर्यरहित आकाश इन दोनों की समानता है । ] अपने रूप के घमण्डवाला मोर [ दुर्योधनपक्ष में अतिघमण्डी सेनावाला ] दुर्योधन के समान प्रसन्न होता हुआ शब्द कर रहा है । कोयल पांसे में हारे हुये युधिष्ठिर के समान मौन [ युधिष्ठिर पक्ष में—वनमार्ग ] को प्राप्त हो गयी है । इस वर्षाऋतु में हंस पाण्डवों के समान वन [ हंसपक्ष में पानी ] से अज्ञातवास को चले गये हैं [ अर्थात् वन से जैसे पाण्डव अज्ञातस्थान पर चले गये उसी प्रकार यहाँ के वन=जल को छोड़कर हंस मानसरोवर चले गये । ] ॥ ६ ॥

टीकावर्षाकाले विविधप्राणिनां स्वाभाविकीं स्थितिं वर्णयतिएतदिति । मेघैः=अभ्रैः, अन्धकारः=तमो यत्र तत्, एतत्=दृश्यमानम्, नभः=गगनम्, तस्य=प्रसिद्धस्य महाभारतीस्य धृतराष्ट्रस्य=दुर्योधनजनकस्य, वक्त्रसदृशम्=आननतुल्यम्; सादृश्यञ्चोभयोः आलोकनासामर्थ्यरूपम्, यथा नेत्रशून्यतया धृतराष्ट्रोऽवलोकयितुं न समर्थः तथैव सूर्यचन्द्राभावात् गगनमपि प्रकाशशून्यमस्तीति भावः, अतिदर्पितबलः = मयूरपक्षे—मेघावलोकनजन्मानन्दाभिव्यञ्जकम्, बलम् = रूपम् यस्य

पञ्चमोऽङ्कः ३०५

( विचिन्त्य ) चिरं खलु कालो मैत्रेयस्य वसन्तसेनायाः सकाशं गतस्य, नाद्यापि आगच्छति ।

( प्रविश्य )

विदूषकः- अहो ! गणिआए लोभो अदक्खिणदा अ, जदो ण कधावि किदा अण्णा, अणाअरेण ज्जेव अभणिअ किंपि एवमेव गहिदा रअणावली । एत्तिआए ऋद्धीए ण तए अहं भणिदो, 'अज्ज मित्तअ ! वीसमीअदु मल्ल-

तादृशः, दुर्योधनपक्षे -अतिदर्पितम् = अतिगर्वितम्, बलम् = सैन्यम् यस्य तादृशः, शिखी = मयूरः, दुर्योधनः = ज्येष्ठकौरवः, वा = इव ( वा स्याद् विकल्पोपमयोरेवा- र्थेऽपि समुच्चये — इति विश्वः ) हृष्टः = प्रसन्नः, सन्, गर्जति = शब्दायते, पक्षे दर्पयुक्तं गर्जनं करोति; कोकिलः = पिकः, अक्षद्यूते = पाशक्रीडायाम्, निर्जितः= पराभूतः, युधिष्ठिरः = ज्येष्ठपाण्डवः, इव, अध्वानम् = ध्वानस्य = शब्दस्य अभावम्, मौनमित्यर्थः, पक्षे वनमार्गम्, गतः=प्राप्तः, कोकिलः मौनोऽभूत्, पराज- यात् युधिष्ठिरो वनं जगाम; सम्प्रति = अस्मिन् वर्षाकाले, हंसाः = मरालाः, पाण्डवाः = पाण्डुपुत्राः, इव, वनात् = जलात् 'जीवनं भुवनं वनम्' इत्यमरः, पक्षे सर्वविदित- वनात्, यद्वा ल्यब्लोपे पञ्चमी, वनं परित्यज्येत्यर्थः अज्ञाते = लोकैरविदिते विराटराज्ये इत्यर्थः, हंसपक्षे अज्ञाते = लोकैरविदिते मानसरोवराख्ये, चर्याम् = गमनम्, गताः = प्राप्ताः, वर्षातौ हंसा मानसरोवरं यान्तीति प्रसिद्धिः । अत्रोपमालङ्कारः, शार्दूल- विक्रीडितं वृत्तम् '। ६ ।।

विमर्श- जन्मान्ध धृतराष्ट्र और चन्द्रसूर्यरहित आकाश की सुन्दर उपमा है । कोकिल शब्द पुल्लिङ्ग है । ध्वान = शब्द, न ध्वानम् = अध्वानम् अर्थात् मौन । युधिष्ठिरपक्ष में अध्वानम् = मार्ग द्वितीयान्त एकवचन है। अज्ञातचर्याम् के स्थान पर अज्ञातचर्यम्-यह भी पाठ है। 'वा' शब्द इव के अर्थ में भी प्रयुक्त होता है- 'वा स्याद्विकल्पोपमयोरेवार्थेऽपि समुच्चये । विश्वकोष । यहाँ चारों पादों में उपमायें हैं ।। ६ ।।

अर्थ- ( सोंचकर ) मैत्रेय को वसन्तसेना के पास गये हुये बहुत समय बीत चुका है, अभी भी नहीं [ वापस ] आया है ।

शब्दार्थ- अदक्षिणता = उदार न होना । मल्लकेन = मिट्टी आदि के बर्तन से । अकन्दसमुत्थिता = बिना जड़ के पैदा होने वाली । अकलहः = झगड़ारहित, ग्राम-समागमः = गाँव वालों की सभा । गणिकाप्रसङ्गात् = वेश्या के सम्पर्क से ।

( प्रवेश करके )

अर्थ-विदूषक- अहो ! वसन्तसेना का लोभ और अनुदारता ( देखो ) । ( रत्नावली लेने के ) अतिरिक्त दूसरी बात ही नहीं कही । उपेक्षापूर्वक बिना

२० मृ०

३०६ मृच्छकटिकम्

केण पाणीअं पि पिविय गच्छीअदु त्ति । ता मा दाव दासीए धीआए गणि- आए मुहं पि पेक्खिस्सं । ( सनिर्वेदम् ) सुट्ठु क्खु वुच्चदि 'अकन्दसमुत्थिदा पउमिणी, अवञ्चओ वाणिओ अचोरो सुवण्णआरो, अकलहो गामसमागमो अलुद्धा गणिआ' त्ति, दुक्करं एदे संभावीअन्ति । ता पिअवअस्सं गदुअ इमादो गणिआ-पसङ्गादो णिवत्तावेमि । ( परिक्रम्य दृष्ट्वा ) कथं पिअव- अस्सो रुक्खदाडिआए उपविट्ठो चिट्ठदि; ता जाव सप्पामि । ( उपसृत्य ) सोत्थि भगदे, वड्ढदु भवं । ( अहो ! गणिकाया लोभोऽदक्षिणता च यतो न कथाऽपि कृता अन्या । अनादरेणैव अभणित्वा किमपि एवमेव गृहीता रत्नावली । एतावत्या ऋद्ध्या न तया अहं भणितः 'आर्य मैत्रेय ! विश्रम्यताम्, मल्लकेन पानीयमपि पीत्वा गम्यता'मिति । तत् मा तावत् दास्याः पुत्र्या गणिकाया मुखमपि प्रेक्षिष्ये । सुष्ठु खलु उच्यते-'अकन्दसमुत्थिता पद्मिनी, अवञ्चको वणिक्, अचौरः सुवर्णकारः,अकलहो ग्रामसमागमः, अलुब्धा गणिका' इति, दुष्करमेते सम्भाव्यन्ते । तत् प्रियवयस्य गत्वा अस्मात् गणिकाप्रसङ्गात् निवर्त्तयामि । कथं प्रियवयस्यो वृक्ष- वाटिकायामुपविष्टस्तिष्ठति; तद्यावदुपसर्पामि । स्वस्ति भवते, वर्द्धतां भवान् । )

चारुदत्तः—( विलोक्य ) अये ! सुहृन्मे मैत्रेयः प्राप्तः । वयस्य ! स्वाग- तम्, आस्यताम् ।


कुछ कहे हुये यों ही रत्नावली ले ली । इतनी सम्पन्न होने पर भी उसने यह नहीं कहा —'आर्य मैत्रेय ! आराम कर लीजिये, मिट्टी के पात्र से पानी भी पीकर जाइये ।' इसलिये अब इस वेश्या की बच्ची का मुह भी नहीं देखूँगा । ( कष्ट- पूर्वक ) यह ठीक ही कहा जाता है--मूल के विना उत्पन्न होने वाली कमलिनी, न ठगने वाला बनिया, चोरी न करने वाला सुनार, झगड़ा-रहित ग्रामसभा ( गाँववालों की सभा ), निर्लोभ वेश्या--ये सभी होना कठिन हैं । इसलिये प्रिय मित्र के पास चल कर इस वेश्या के संसर्ग से छुड़वाता हूँ। ( घूम कर देख कर ) क्या प्रिय मित्र बगीचे में बैठे हुये हैं। तो इनके पास चलता हूँ। ( पास जाकर ) आपका कल्याण हो । आपकी वृद्धि हो ।

टीकाअदक्षिणता=दाक्षिण्यस्याभावः, कृपणता, अन्या = रत्नावलीग्रहणा- तिरिक्ता । अनादरेणैव = उपेक्ष्यैव । मल्लकेन = मृदादिनिर्मितपात्रेण । कन्दात्= मूलात्, समुत्थिता=उत्पन्ना, तथा न भवतीति भावः । अविद्यमानः कलहः यस्मिन् तादृशः । ग्रामशब्दो लक्षणया ग्रामवासिनां बोधकः, ग्रामवासिनां, सम्मेलनं कलहशून्यं न भवतीति । गणिकाप्रसङ्गात्=वेश्यासंसर्गात्, निवर्तयामि=दूरीकरोमि ।

अर्थ—चारुदत्त—( देखकर ) अरे ! मेरे मित्र मैत्रेय आ गये । मित्र ! स्वागत है, बैठिये ।

पंचमोऽङ्कः ३०७

विदूषकः--उवविट्ठोम्हि । ( उपविष्टोऽस्मि । ) चारुदत्तः--वयस्य ! कथय तत् कार्यम् । विदूषकः--तं क्खु कज्जं विणट्ठं । ( तत् खलु कार्यं विनष्टम् । ) चारुदत्तः--किं तया न गृहीता रत्नावली ? विदूषकः--कुदो अम्हाणं एत्तिअं भाअधेअं ? णव-णलिण-कोमलं अञ्जलि मत्थए कदुअ पडिच्छिदा । ( कुतोऽस्माकमेतावद् भागधेयम् ? नव-नलिन-कोमलमञ्जलिं मस्तके कृत्वा प्रतीष्टा । ) चारुदत्तः--तत् किं ब्रवीषि विनष्टमिति ? विदूषकः--भो ! कथं ण विणट्ठं ? जं अभुत्तस्स अपीदस्स चोरेहिं अब-हिदस्स अप्पमुल्लस्स सुवण्णभण्डस्स कारणादो चदुस्समुद्द-सारभूदा रअणमाला हारिदा । ( भोः ! कथं न विनष्टम् ? यद् अभुक्तस्य अपीतस्य चोरैरपहृतस्य अल्पमूल्यस्य सुवर्णभाण्डस्य कारणात् चतुःसमुद्रसारभूता रत्नमाला हारिता । ) चारुदत्तः--वयस्य ! मा मैवम् ।

यं समालम्ब्य विश्वासं न्यासोऽस्मासु तया कृतः ।
तस्यैतन्महतो मूल्यं प्रत्ययस्यैव दीयते ॥ ७ ॥


विदूषक--बैठा हूँ ।
चारुदत्त--मित्र ! उस काम के विषय में कहिये ।
विदूषक--मित्र वह कार्य तो चौपट ( नष्ट ) हो गया ।
चारुदत्त--क्या उसने रत्नावली नहीं ली ?
विदूषक--हम लोगों का ऐसा भाग्य कहाँ ? नवीन कमल के समान अंजलि सिर पर रख कर उसको ले लिया ।
चारुदत्त--तब क्यों कह रहे हो—नष्ट हो गया ?
विदूषक--क्यों नहीं नष्ट हो गया ? जो न भोग किये गये, न पान किये गये, चोरों द्वारा चुराये गये अल्पमूल्यवाले सुवर्ण आभूषणों के बदले में चारों समुद्रों [ से घिरी पृथ्वी ] की सारभूत रत्नावली खो दी ।

अन्वयः--यम्, विश्वासम्, समालम्ब्य, अस्मासु, तया, न्यासः, कृतः, तस्य, महतः, प्रत्ययस्य, एव, एतत्, मूल्यम्, दीयते ॥ ७ ॥

शब्दार्थ--यम् = जिस, विश्वासम् = विश्वास को, समालम्ब्य=मान कर, अस्मासु=हम लोगों में अर्थात् हमारे पास, तया=उस वसन्तसेना ने, न्यासः=धरोहर, कृतः=रखी थी, तस्य=उस, महतः=महान्, प्रत्ययस्य=विश्वास का, एव=ही, एतत्=यह, मूल्यम्=कीमत, दीयते=दी जा रही है ॥ ७ ॥

३०८ | मृच्छकटिकम्

विदूषकः--भो वअस्स ! एदं पि से दुदिअं सन्तावकारणं जं सहीअण-दिण्ण-संणाए पडन्तोवारिदं मुहं कदुअ, अहं उवहसिदो, ता अहं बम्हणो भविअ दाणि भवन्तं सीषेण पडिअ विण्णवेमि--णिवत्तोअदु अप्पा इमादो बहु-पच्चवाआदो गणिआपसङ्गादो। गणिआ णाम, पादुअन्तर-प्पणिठ्ठा विअ लेट्टुमा दुक्खेण पुण णिराकरीअदि। अपि च, भो वअस्स ! गणिआ, हत्थी, काअत्थओ, भिक्खु चाटो, रासहो अ, जर्हि एदे णिवसन्ति, तर्हि दुट्ठा वि ण जाअन्ति। (भो वयस्य ! एतदपि मे द्वितीयं सन्तापकारणम्, यत् सखीजन-दत्त-संज्ञया पटान्तापवारितं मुखं कृत्वा अहमुपहसितः, तदहं ब्राह्मणो भूत्वा इदानीं भवन्तं शीर्षेण पतित्वा विज्ञापयामि--निवर्त्यतामात्मा अस्मात् बहु-प्रत्यवायात् गणिकाप्रसङ्गात्। गणिका नाम पादुकान्तरप्रविष्टा इव लेष्टुका, दुःखेन पुनर्निराक्रियते। अपि च भो वयस्य ! गणिका, हस्ती, कायस्थः, भिक्षुः, चाटः, रासभश्च--यत्र एते निवसन्ति, तत्र दुष्टा अपि न जायन्ते।)

अर्थ--जिस विश्वास को मान कर हम लोगों के पास उस वसन्तसेना ने धरोहर रखी थी उस महान् विश्वास का ही यह मूल्य चुकाया जा रहा है; (दिया जा रहा है) ॥ ७ ॥

टीका--त्वया अल्पस्य हेतो बहु हारितमिति विदूषकवचनस्य प्रत्युत्तरं वदति--यमिति। यम्=लोकोत्तरम्, विश्वासम्=प्रत्ययम्, समालम्ब्य=समाश्रित्य, तया=वसन्तसेनया, अस्मासु=अस्मादृशेषु, न्यासः=अलङ्कारनिक्षेपः, कृतः=निहितः, महतः = अमितमूल्यस्य, तस्य, प्रत्ययस्य = विश्वासस्य, एतत् = इदम्, मूल्यम्=निष्क्रयम्, दीयते = समर्प्यते । इयं रत्नावली विश्वासस्यैव प्रतिदानम्, न तु अलङ्कारभाण्डस्येति भावः पद्यावक्त्रं वृत्तम् ॥ ७ ॥

विमर्श--संकुचित वृत्तिवाले विदूषक के कथन का निराकरण करने के लिये यहाँ चारुदत्त का कथन उसके व्यक्तित्व की महत्ता एवम् उदारता प्रकट करता है ॥ ७ ॥

अर्थ--विदूषक--मित्र ! मेरे सन्ताप का दूसरा यह भी कारण है कि अपनी सखियों की ओर इशारा करके अपने आंचल के किनारे से मुख ढक करके (छिपा करके) उस (वसन्तसेना) ने मेरी हँसी भी उड़ायी, तो अब मैं ब्राह्मण होकर भी (आपके पैरों पर) शिर रखकर आप से यह निवेदन करता हूँ कि बहुत कठिनाइयों से भरे हुये इस वेश्यासंसर्ग से अपने को मुक्त कर लीजिये। वेश्या तो जूते में पड़ी हुयी कंकड़ी के समान बाद में बहुत कष्ट से निकाली जाती है। और भी मित्र ! जहाँ वेश्या, हाथी, कायस्थ, भिक्षुक, शठ और गधे रहते हैं वहाँ दुष्ट भी नहीं रह सकते।

पञ्चमोऽङ्कः ३०६

चारुदत्तः—वयस्य ! अलमिदानी सर्वं परिवादमुक्त्वा; अवस्थयै- नास्मि निवारितः । पश्य—

वेगं करोति तुरगस्त्वरितं प्रयातुं
प्राणव्ययान्न चरणास्तु तथा वहन्ति ।
सर्वत्र यान्ति पुरुषस्य चलाः स्वभावाः
खिन्नास्ततो हृदयमेव पुनविशन्ति ॥ ८ ॥

अर्थ—चारुदत्त— मित्र इस समय निन्दा करना व्यर्थ है, (निर्धन) अवस्था ने ही (वेश्यासर्ग से) रोक दिया है। देखो—

अन्वयः— तुरगः, त्वरितम्, प्रयातुम्, वेगम्, करोति, तु, प्राणव्ययात्, तस्य, चरणाः, तथा, न, वहन्ति; (एवमेव), पुरुषस्य, चलाः, स्वभावाः, सर्वत्र, यान्ति, (परन्तु), ततः, खिन्नाः, पुनः, हृदयम्, एव, विशन्ति ॥ ८ ॥

शब्दार्थ—तुरगः = घोड़ा, त्वरितम् = शीघ्र ही, प्रयातुम् = दौड़ने के लिये, वेगम्= वेग को, करोति= करता है; तु= लेकिन, प्राणव्ययात्= शक्ति क्षीणता के कारण, तस्य = उस घोड़े के, चरणाः = कदम, पैर, तथा= उस प्रकार (वेग से), न= नहीं, वहन्ति = ढोते हैं, चल पाते हैं; (एवम् एव= इसी प्रकार) पुरुषस्य = मनुष्य के, चलाः = चञ्चल, स्वभावाः = स्वभाव, मनोवृत्तियाँ, सर्वत्र= सभी स्थानों पर, यान्ति= जाती हैं, (परन्तु = लेकिन), ततः = उन स्थानों से, खिन्नाः = निराश होती हुयीं, पुनः= फिर, हृदयम् एव = मनमें ही, विशन्ति = घुस जाती हैं, वापस लौट आती हैं ।।८।।

अर्थ— घोड़ा शीघ्र भागने के लिये वेग (ताकत) लगाता है परन्तु शक्ति क्षीणता के कारण पैर उस प्रकार वेग से नहीं चलते हैं, इसी प्रकार मनुष्य के चञ्चल स्वभाव (मनोवृत्तियाँ) सभी ओर जाते हैं परन्तु (कहीं भी सफल न हो सकने के कारण) निराश होकर पुनः मनमें ही वापस लौट आते हैं। (अतः निर्धनता के कारण ही वेश्यासंग छूट जायगा, उसकी निन्दा करने का कोई लाभ नहीं है)॥८॥

टीका—निर्धनतैव गणिकाप्रसङ्गात् वारयति, न तत्र अन्यदपेक्ष्यमिति सांध- यन्नाह—वेगमिति । तुरगः = अश्वः, त्वरितम् = शीघ्रम्, प्रयातुम् = गन्तुम्, धावितु-मिति भावः, वेगम् = जवम्, करोति = विदधाति, तु= किन्तु, प्राणव्ययात्= शक्ति-क्षीणतया, हेतोः, तस्य= अश्वस्य, चरणाः = पादाः, तथा= वेगपूर्वकम्, न, वहन्ति = न चलन्ति, एवमेव, पुरुषस्य = मनुष्यस्य, चलाः = चञ्चलाः, स्वभावाः = मनोवृत्तयः, सर्वत्र= साध्यासाध्येषु, यान्ति= व्रजन्ति, तु= किन्तु, ततः = तत्तत्स्थानेभ्यः, खिन्नाः = निराशाः, असफला इति भावः, पुनः, हृदयम् = चित्तम्, एव, विशन्ति = प्रविशन्ति, परावर्तन्ते इति भावः । एवञ्च अस्मद्दरिद्रतैव मनोरथबाधिकेति बोध्यम् । दृष्टान्ता- लङ्कारः, बसन्ततिलका वृत्तम् ।। ८ ।।

३१०मृच्छकटिकम्

अपि च—वयस्य !

यस्यार्थास्तस्य सा कान्ता, धनहार्यो ह्यसौ जनः ।
( स्वगतम् ) न, गुणहार्यो ह्यसौ जनः । ( प्रकाशम् )
वयमर्थैः परित्यक्ताः, ननु त्यक्तैव सा मया ॥ ६ ॥

विमर्श— किसी समय तेज दौड़नेवाला घोड़ा भी शक्तिस्रीण होने पर चाह कर भी जैसे नहीं दौड़ पाता है, उसी प्रकार असमर्थ मनुष्य की चित्तवृत्तियाँ भी दौड़कर मनमें ही रह जाती हैं। चारुदत्त का स्वभाव वसन्तसेना के पास गया हुआ भी अर्थाभाव के कारण दुःखी होकर वहाँ से वापस लौट आया'—इस विशेष के प्रस्तुत रहते उसी प्रकार के अप्रस्तुत सामान्य का कथन होने से उत्तरार्ध में अप्रस्तुतप्रशंसा है और वह—शीघ्र चलने की इच्छा करता हुआ भी घोड़ा असमर्थ होने के कारण नहीं चल पाता—इस प्रकार समान धर्मवाली वस्तु का प्रतिबिम्बित होने से पूर्वार्द्ध के दृष्टान्त अलङ्कार से सङ्कीर्ण है। दोनों का संकर अलङ्कार है ॥८॥

अन्वयः— यस्य, अर्थाः, (सन्ति), तस्य, सा, कान्ता, हि, असौ, जनः, धनहार्यः, न, असौ, जनः, गुणहार्यः (अस्ति), वयम्, अर्थैः, परित्यक्ताः, (अतः), सा, मया, ननु, त्यक्ता, एव ॥ ६ ॥

शब्दार्थ— यस्य=जिसके पास, अर्थाः=धन, सन्ति=हैं, तस्य=उसकी, सा=वह वसन्तसेना, कान्ता=प्रेयसी है, हि=क्योंकि, असौ=वह, जन=वेश्या, धनहार्यः=धन से खरीदी जाने योग्य, न=नहीं, असौ जनः=वह वसन्तसेना, गुणहार्यः=गुणों से वश में होने वाली, अस्ति=है, वयम्=हम लोग, अर्थैः=धन के द्वारा, परित्यक्ताः=छोड़ दिये गये हैं, (अतः=इसलिये), ननु=निश्चित ही, सा=वह वसन्तसेना, मया=मुझ चारुदत्त के द्वारा, त्यक्ता एव=छोड़ ही दी गयी ॥ ६ ॥

अर्थ— और भी मित्र !

जिसके पास धन है, उसी की वह वसन्तसेना है क्योंकि वह वेश्या धन से खरीदी जाने योग्य है।

(अपने में) नहीं, वह तो गुणों से वश में होने योग्य है।

(प्रकाश) धन ने हम लोगों को छोड़ दिया, अतः निश्चित ही हम लोगों ने वेश्या को छोड़ दिया ॥ ६ ॥

टीका— मद्गुणवशवर्त्तिनी वसन्तसेना निर्धनमपि मां न परित्यजतीति सम्यग् जानन्नपि विदूषकस्य सन्तोषायस्यान्यथा वदति-यस्येति। यस्य=पुरुषस्य, समीपे, अर्थाः =धनानि, सन्ति; तस्य=जनस्य, सा=वसन्तसेना, कान्ता=प्रेयसी, हि=यतः, असौ= वेश्यारूपी जनः, धनेन=वित्तेन, हार्यः=वश्यः, अस्ति, परन्तु वयम्, अर्थैः=धनैः, परित्यक्ताः=विरहिताः, अतः, मया=चारुदत्तेन, सा=वसन्तसेना, त्यक्ता=परित्यक्ता

पञ्चमोऽङ्कः ३११

विदूषकः—( अधोऽवलोक्य, स्वगतम् ) जधा एसो उद्धं पेक्खिअ दीहं णिस्ससदि, तथा तक्केमि मए विणिवारिअन्तस्स अधिअदरं वड्ढिदा से उक्कण्ठा। ता सुट्ठु क्खु एव्वं वुच्चदि—'कामो वामो'त्ति। ( प्रकाशम् ) भो वअस्स ! भणिदं अ ताए—'भणेहि चारुदत्तं अज्ज पओसे मए एत्थ आअन्तव्वं'त्ति। ता तक्केमि रअणावलीए अवसिट्टुट्ठा अवरं मग्गिदुं आअमिस्सदि'त्ति। ( यथा एष ऊर्ध्वं प्रेक्ष्य दीर्घं निःश्वसिति; तथा तर्कयामि-मया निवार्यमाणस्य अधिकतरं वृद्धा अस्य उत्कण्ठा। तत् सुष्ठु खल्वेवमुच्यते 'कामो वामः' इति। भो वयस्य ! भणितञ्च तया 'भण चारुदत्तम्—अद्य प्रदोषे मया अत्र आगन्तव्यम्, इति, तत् तर्कयामि रत्नावल्या अपरितुष्टा अपरं याचितुमागमिष्यतीति। )
चारुदत्तः—वयस्य ! आगच्छतु, परितुष्टा यास्यति।
चेटः—( प्रविश्य ) अवेध माणहे ! ( अवेत मानवाः ! )

जधा जधा वरशदि अभ्रखण्डे तथा तथा तिम्मदि पुट्ठिचम्मे।
जधा जधा लग्गदि शीदवादे तथा तथा वेवदि मे हअक्के ॥ १० ॥
यथा यथा वर्षति अभ्रखण्डम्, तथा तथा तिम्यति पृष्ठचर्म।
यथा यथा लगति शीतवातस्तथा तथा वेपते मे हृदयम् ॥ १० ॥


एव। एवञ्च तस्याः परित्यागविषये विदूषकेण न किमपि कर्तव्यमिति भावः। अत्र श्लोके चतुर्थपादस्यार्थं प्रति तृतीयपादस्य अर्थस्य हेतुतया काव्यलिङ्गमलङ्कारः ॥ ९ ॥

अर्थ—विदूषक—( नीचे की ओर देखकर अपने में ) जिस प्रकार ये ऊपर देखकर लम्बी सांसें ले रहे हैं ( आहें भर रहे हैं ) इससे मैं अनुमान कर रहा हूँ कि मेरे द्वारा वेश्यासंग से रोके जानेवाले इनकी उत्कण्ठा और अधिक बढ़ रही है। इसलिये यह ठीक ही कहा गया है—'कामविकार उल्टा होता है।' (प्रकट में) हे मित्र ! और उसने यह कहा है—'चारुदत्त से कहना कि आज सायंकाल मुझे उनके पास आना है।' इससे यह सोंचता हूँ कि रत्नावली से सन्तुष्ट न होनेवाली वह वेश्या कुछ और लेने के लिये आयेगी।'

चारुदत्त—मित्र, आने दो। सन्तुष्ट होकर जायेगी।

अन्वयः—अभ्रखण्डम्, यथा, यथा, वर्षति, पृष्ठचर्म, तथा, तथा, तिम्यति; शीतवातः, यथा, यथा, लगति, तथा, तथा, मे, हृदयम्, वेपते ॥ १० ॥

शब्दार्थअभ्रखण्डम् = बादलों का टुकड़ा, यथा यथा = जैसे जैसे, वर्षति = बरस रहा है, पृष्ठचर्म = पीठ का चमड़ा, तथा तथा = वैसे वैसे, तिम्यति = भीग रहा है; शीतवातः = ठण्डी हवा, यथा, यथा = जैसे जैसे, लगति = लग रही है, तथा तथा = वैसे वैसे, मे-मेरा, हृदयम् = हृदय, वेपते = काँप रहा है ॥ १० ॥

३१२ मृच्छकटिकम्

( प्रहस्य )

वंशं वाए शत्तच्छिद्दं शुशद्दं वीणं वाए शत्ततन्ति णदन्ति ।
गीअं गाए गद्दहश्शाणुलूअं के मे गाणे तुम्बुलू णालदे वा ॥११॥
वंशं वादयामि सप्तच्छिद्रं सुशब्दं वीणां वादयामि सप्ततन्त्रीं नदन्तीम् ।
गीतं गायामि गर्दभस्यानुरूपं को मे गाने तुम्बुरुर्नारदो वा ॥ ११ ॥

आणत्तम्हि अज्जआए वसन्तसेणाए—कुम्भीलआ ! गच्छ तुमं मम


अर्थ—चेट—( प्रवेश करके ) मनुष्यों ! [ यह ] समझ जाइये—

बादलों का टुकड़ा जैसे जैसे बरस रहा है, पीठ का चमड़ा वैसे वैसे भीग रहा है; जैसे जैसे ठण्डी हवा लग रही है, वैसे वैसे मेरा हृदय काँप रहा है ॥ १० ॥

टीका—वर्षाजलेनाईशरीरः कम्पमानश्चेटोऽन्यान् सावधानान् कर्तुमाह— यथा यथेति । अभ्रखण्डम् = मेघखण्डम्, यथा यथा=येन येन प्रकारेण, वर्षति = कटति, जलवर्षणं करोति, पृष्ठचर्म=शरीरस्य पश्चाद्भागः, तथा तथा, तिम्यति = आर्दीर्भवति; शीतवातः=शीतलः पवनः, यथा यथा, लगति=शरीरं स्पृशति, तथा तथा, मे=मम, हृदयम्=मनः, अन्तःकरणम्, वेपते=कम्पते । उपेन्द्रवज्रा वृत्तम् ॥१०॥

विमर्श—वर्षा की अवस्था प्रस्तुत करने के लिये चेट का कथन है ॥ १० ॥

अन्वयः—सप्तच्छिद्रम्, सुशब्दम्, वंशम्, वादयामि; नदन्तीम्, सप्ततन्त्रीम्, वीणाम्, वादयामि; गर्दभस्य, अनुरूपम्, गीतम्, गायामि; गाने, तुम्बुरुः, नारदः, वा, मे, कः ॥ ११ ॥

शब्दार्थ—सप्तच्छिद्रम् = सात छेदों वाली, सुशब्दम् = मधुर आवाजवाली, वंशम् = बाँसुरी को, वादयामि = बजा रहा हूँ; नदन्तीम् = झंकार करनेवाली, सप्त-तन्त्रीम्=सात स्वरों के उत्पादक तन्त्रों से युक्त, वीणाम्=वीणा को, वादयामि=बजा रहा हूँ; गर्दभस्य = गधे के, अनुरूपम् = समान, गीतम्=गाना को, गायामि=गा रहा हूँ; गाने=गाने में, तुम्बुरुः=तुम्बुर, वा=अथवा, नारदः=नारद, मे=मेरे विषय में, कः=कौन हैं, अर्थात् मेरे सामने कुछ नहीं है ॥ ११ ॥

( हंस कर )

अर्थ—सात छेदोंवाली, मधुर आवाजवाली बांसुरी बजा रहा हूँ । झंकार करनेवाली, सात तारोंवाली वीणा बजा रहा हूँ । गधे के समान मैं गाता हूँ । गाने में तुम्बुरु (गन्धर्व) या नारद मेरे सामने क्या हैं ? अर्थात् कुछ नहीं है ॥११॥

टीका—इदानीं चेटः स्वगीतकौशलं प्रदर्शयितुमाह—सप्तच्छिद्रमिति । सप्त-च्छिद्रम् = षड्जादिसप्तस्वरोत्पादकसप्तरन्ध्रयुक्तम्, सुशब्दम् = सुस्वरम्, वंशम्=वेणुम्, वादयामि=ध्वनयामि । नदन्तीम्=शब्दायमानाम्, सप्ततन्त्रीम्=सप्तसंख्याक-

पञ्चमोऽङ्कः ३१३

आगमणं अज्जचारुदत्तश्श णिवेदेहि'त्ति । ता जाव आज्जचारुदत्तश्श गेहं गच्छामि । ( परिक्रम्य प्रविष्टकेन दृष्ट्वा ) एशे चारुदत्ते रुक्खवाडिआए चिट्ठदि । एशे वि शे दुट्ट वडुके । ता जाव उपशप्पेमि । कथं ढक्किदे दुबाले रुक्खवाडिआए । भोदु, एदश्श दुट्ठवडुकश्श शण्णं देमि । ( इति लोष्टगुटिकाः क्षिपति । ) ( आज्ञप्तोस्मि आर्यया वसन्तसेनया-'कुम्भीलक ! गच्छ त्वम्, मम आगमनम् आर्यचारुदत्तस्य निवेदय' इति । तद् यावत् आर्यचारुदत्तस्य गेहं गच्छामि । एष चारुदत्तो वृक्षवाटिकायां तिष्ठति एषोऽपि स दुष्टवटुकः । तद्यावदुपसर्पामि । कथमाच्छादितं द्वारं वृक्षवाटिकायाः । भवतु, एतस्य दुष्टवटुकस्य संज्ञां ददामि । )

विदूषकः—अए ! को दाणि एसो पाआरवेहिट्ठदं विअ कइत्थं मं लोट्टकेंहि ताडेदि ? । ( अये ! क इदानीमेष प्राकारवेष्टितमिव कपित्थं मां लोष्टकैस्ताडयति ? )

चारुदत्तः—आराम-प्रासाद-वेदिकायां क्रीडद्भिः पारावतै पतितं भवेत् ।


स्वरोत्पादकसप्ततन्त्रीयुक्ताम्, वीणाम् = वाद्यविशेषम्, च, वादयामि = शब्दितां करोमि । गर्दभस्य=रासभस्य, अनुरूपम्=तुल्यम्, गीतम्=गानम्, गायामि=करोमीति भावः । गाने=गानकलायाम्, तुम्बुरुः=तन्नाम्ना प्रसिद्धो गन्धर्वः, वा=अथवा, नारदः = देवर्षिः, मे = मम सम्बन्धे, कः = कीदृशो गुणशाली, न गणनीय इति भावः । अत्रोपमानापेक्षयोपमेयस्याधिक्यवर्णनात् व्यतिरेकालंकारः । शालिनीवृत्तम् ।। ११ ।।

अर्थ—आर्या वसन्तसेना ने आज्ञा दी है—'कुम्भीलक ! तुम जाओ, आर्य चारुदत्त को मेरे आगमन की सूचना दे दो ।' इसलिये आर्य चारुदत्त के घर जाता हूँ । ( घूमकर घुसनेवाले दरवाजे से देखकर ) ये आर्य चारुदत्त वृक्षवाटिका ( फुलवाड़ी ) में बैठे हैं, और वह दुष्ट ब्राह्मण का बच्चा भी है । तो अब समीप में चलता हूँ । क्या वृक्षवाटिका ( फुलवाड़ी ) का दरवाजा बन्द है । अच्छा, इस दुष्ट ब्राह्मण को इशारा करता हूँ । ( इस प्रकार कहकर कंकड़ियां=मिट्टी के ढेले फेंकता है । )

विदूषक—अरे ! इस समय कौन चहारदीवार से घिरे हुये कैंथे के समान मुझे कंकड़ियों से मार रहा है ।

चारुदत्त—फुलवाड़ी के महल की चौकी पर खेलते हुये कबूतरों ने गिरा दी होंगी ।

३१४ | मृच्छकटिकम्

**विदूषकः—**दासीए पुत्त ! दुट्ट पारावअ ! चिट्ठ चिट्ठ, जाव एदिणा दण्डकट्ठेण सुपक्कं विअ चुअफलं इमादो पासादादो भमिए पाडइस्सं । ( इति दण्डकाष्ठमुद्यम्य धावति ) दास्याः पुत्र ! दुष्ट पारावत ! तिष्ठ तिष्ठ, यावदेतेन दण्डकाष्ठेन सुपक्वमिव चूतफलम् अस्मात् प्रासादात् भूमौ पातयिष्यामि ।)

चारुदत्तः—( यज्ञोपवीते आकृष्य ) वयस्य ! उपविश । किमनेन । तिष्ठतु दयितासहितस्तपस्त्री पारावतः ।

**चेटः—**कधं पारावदं पेक्खदि, मं ण पेक्खदि । भोदु, अवराए लोट्ट-गुडिआए पुणो वि ताडइस्सं । ( तथा करोति । ) कथं परावर्तं प्रेक्षते, मां न प्रेक्षते ! भवतु, अपरया लोष्टगुटिकया पुनरपि ताडयिष्यामि । )

विदूषकः—( दिशोऽवलोक्य ) कधं कुम्भीलओ ! ता जाव उपसप्पामि । ( उपसृत्य द्वारमुद्घाट्य ) अरे कुम्भीलअ ! पविश । साअदं दे । ( कथं कुम्भीलक ! तद् यावदुपसर्पामि । अरे कुम्भीलक ! प्रविश । स्वागतं ते । )

चेटः—( प्रविश्य ) अज्ज ! वन्दामि । ( आर्य ! वन्दे । )

**विदूषकः—**अरे ! कहिं तुमं ईदिसे दुद्दिणे अन्धआरे आअदो । ( अरे ! कस्मिन् त्वमीदृशे दुर्दिने अन्धकारे आगतः । )

**चेटः—**अले एशा शा । ( अरे एषा सा । )

**विदूषकः—**का एशा का ? ( का एषा का ? )

**चेटः—**एशा शा । ( एषा सा । )


**विदूषक—**अरे दासी के बच्चे, दुष्ट कबूतर ! ठहर जा, ठहर जा; इस लकड़ी के डण्डे से पके हुये आम के समान तुझे इस महल से नीचे गिराता हूँ । ( यह कह कर लकड़ी का डण्डा लेकर दौड़ता है । )

चारुदत्त -- ( जनेऊ पकड़ कर ) मित्र ! बैठो । इससे क्या लाभ ? उस बेचारे कबूतर को अपनी प्रेयसी कबूतरी के साथ बैठा रहने दो ।

**चेट—**क्या, कबूतर को देख रहा है, मुझे नहीं देख रहा है । अच्छा अब दूसरी कंकड़ी से फिर मारता हूँ । ( वैसा ही करता है । )

विदूषक— ( चारों ओर देखकर ) क्या कुम्भीलक ! तो पास चलता हूँ । ( पास जाकर दरवाजा खोलकर ) अरे कुम्भीलक ! आओ, तुम्हारा स्वागत है ।

चेट—( प्रवेश करके ) आर्य ! प्रणाम करता हूँ ।

**विदूषक—**अरे ! तुम इस प्रकार के दुर्दिन के अन्धेरे में किस लिये आये हो ?

**चेट—**अरे ! यह वह है ।

**विदूषक—**वह कौन वह कौन ?

**चेट—**वह यह है ।

पञ्चमोऽङ्कः ३१३

विदूषकः--किं दाणि दासोए पुत्ता ! दुब्भिक्खकाले बुद्धरङ्को विअ उद्धकं सासाअसि 'एसा सा सा' त्ति ! (किमिदानीं दास्याः पुत्रः ! दुर्भिक्ष-काले वृद्धरङ्क इव ऊर्ध्वकं श्वासायसे 'एषा सा सा' इति )

चेटः--अले तुमं पि दाणि इन्द्र-मह-कामुको विअ सुट्ठु किं काका-असि 'का का' त्ति । ( अरे त्वमपीदानीमिन्द्रमहकामुक इव सुष्ठु किं काका-यसे 'का का' इति ? )

विदूषकः--ता कहेहि । ( तत् कथय । )

चेटः--( स्वगतम् ) भोदु, एव्वं भणिश्शं । ( प्रकाशम् ) अले ! पण्हं दे दइश्शं । ( भवतु, एवं भणिष्यामि । अरे ! प्रश्नं ते दास्यामि । )

विदूषकः--अहं दे मुण्डे गोडं दइस्सं । ( अहं ते मुण्डे पादं दास्यामि )

चेटः--अले, जाणाहि दाव, तेण हि कस्मिं काले चूआ मोलेन्ति । ( अरे ! जानीहि तावत्, तेन हि कस्मिन् काले चूता मुकुलयन्ति ? )

विदूषकः--अरे दासीए पुत्ता ! गिम्हे । ( अरे ! दास्याः पुत्र ! ग्रीष्मे । )

चेटः--( सहासम् ) अले ! णहि णहि । ( अरे ! नहि नहि । )

विदूषकः--( स्वगतम् ) किं दाणि एत्थ कहिस्सं ? । ( विचिन्त्य ) भोदु, चारुदत्तं गदूअ पुच्छिस्सं । ( प्रकाशम् ) अरे ! मुहूत्तअं चिट्ठ ! ( चारुदत्त-मुपसृत्य ) भो वअस्स ! पुच्छिस्सं दाव, कस्सिं काले चूआ मोलेन्ति ? ( किमिदानीमत्र कथयिष्यामि ? भवतु चारुदत्तं गत्वा प्रक्ष्यामि । अरे मुहूर्तकं तिष्ठ ! भो वयस्य ! प्रक्ष्यामि तावत्, कस्मिन् काले चूता मुकुलिता भवन्ति ? )


विदूषक—अरे दासी के बच्चे ! दुर्भिक्ष के समय वृद्ध कृपण के समान इस समय क्यों लम्बी लम्बी सांस ले रहे हो—'एषा सा सा, ( वह यह ) ।'

चेट—अरे ! तुम भी इस समय इन्द्रोत्सव के लोभी कौआ के समान 'का का' ऐसा कह रहे हो ?

विदूषक—तो कहो ।

चेट—( अपने में ) अच्छा, ऐसा कहूँगा । ( प्रकट में ) अरे ! तुम्हें प्रश्न देता हूँ । ( सवाल पूछता हूँ । )

विदूषक--अरे ! मैं तेरे सिर पर पैर रख दूँगा ।

चेट--अरे ! जानते हो आम में मंजरी कब लगतीं हैं ?

विदूषक—अरे दासी के बच्चे ! गर्मी में ।

चेट--( हंसी के साथ ) अरे ! नहीं । नहीं ।

विदूषक—( अपने में ) इसका क्या उत्तर देना चाहिये ? ( सोचकर ) अच्छा, चारुदत्त के पास जाकर पूछता हूँ । ( प्रकट में ) अरे ! कुछ देर ठहरो ।

३१६ मृच्छकटिकम्

चारुदत्तः—मूर्ख ! वसन्ते ।
विदूषक—( चेटमुपगम्य ) मुक्ख ! बसन्ते । ( मूर्ख ! वसन्ते । )
चेटः—दुदिअं दे पण्हं दइश्शं । शुशमिद्धाणं गामाणां का लक्खणं कलेदि ? । ( द्वितीयं ते प्रश्नं दास्यामि । सुसमृद्धानां ग्रामाणां का रक्षां करोति ? )
विदूषकः—अरे रच्छा । ( अरे ! रथ्या । )
चेटः—( सहासम् ) अले ! णहि णहि । ( अरे ! नहि नहि । )
विदूषकः—भोदु, संसए पड़िदम्हि । ( विचिन्त्य ) भोदु, चारुदत्तं पुणो वि पुच्छिस्सं । ( पुनर्निवृत्य चारुदत्तं तथैवोदाहरति । ) ( भवतु, संशये पतितोऽस्मि । भवतु चारुदत्तं पुनरपि प्रक्ष्यामि । )
चारुदत्तः—वयस्य ! सेना ।
विदूषकः—( चेटमुपगम्य ) अरे ! दासीए पुत्ता ! सेणा । ( अरे ! दास्याः पुत्र ! सेना । )
चेटः—अले ! दुवे बि एकक्किंश कडुआ शिग्धं भणाहि । ( अरे ! द्वे अपि एकस्मिन् कृत्वा शीघ्रं भण । )
विदूषकः—सेणावसन्ते । ( सेनावासन्ते । )
चेटः— णं पलिवत्तिअ भणाहि । ( ननु परिवर्त्य भण । )
विदूषकः ( कायेन परिवृत्य ) सेणावसन्ते । ( सेनावासन्ते । )


( चारुदत्त के पास जाकर ) हे मित्र ! मैं तुमसे पूछता हूँ किस समय आम में मञ्जरी आतीं हैं ?
चारुदत्त—मूर्ख ! वसन्त में ।
विदूषक—( चेट के पास जाकर ) मूर्ख ! वसन्त में ।
चेट—दूसरा प्रश्न देता हूँ । अत्यन्त समृद्ध गांवों की रक्षा कौन करता है ?
विदूषक—अरे ! रथ्या ( रक्षा करती है ) ।
चेट—( हँसी के साथ ) नहीं, नहीं ।
विदूषक—अरे ! संशय में फँस गया हूँ । ( सोच कर ) अच्छा, फिर चारुदत्त से पूछता हूँ । ( फिर चारुदत्त के पास जाकर उसी प्रकार पूछता है । )
चारुदत्त—मित्र ! सेना ।
विदूषक—( चेट के पास जाकर ) अरे दासी के बच्चे ! सेना ।
चेट—अरे ! दोनों को एक में मिलाकर जल्दी से कहो ।
विदूषक—सेना-वसन्त ।
चेट—अरे ! उल्टा कर कहो ।
विदूषक—( शरीर से उलट=घूमकर ) सेना-वसन्त ।

पञ्चमोऽङ्कः ३१७

चेटः—अले मुक्ख वडुका ! पदाइं पलिवत्तावेहि । ( अरे मूर्ख वटुक ! पदे परिवर्त्तय । ) विदूषकः—(पादौ परिवर्त्त्य) सेणावसन्ते । (सेना वसन्ते ।) चेटः—अले मुक्ख ! अक्खलपदाइं पलिवत्तावेहि । ( अरे मूर्ख ! अक्षरपदे परिवर्त्तय । ) विदूषकः—(विचिन्त्य) वसन्तसेणा । (वसन्तसेना ।) चेटः—एशा शा आददा । (एषा सा आगता ।) विदूषकः—ता जाव चारुदत्तस्स णिवेदेमि । (उपसृत्य) भो चारुदत्त ! धणिओ दे आगदो । (तद् यावत् चारुदत्तस्य निवेदयामि । भो चारुदत्त ! धनिकस्ते आगतः ।) चारुदत्तः—कुतोऽस्मत्कुले धनिकः ? विदूषकः—जइ कुले णत्थि, ता दुवारे अत्थि । एसा वसन्तसेणा आगदा । (यदि कुले नास्ति, तद्द्वारे अस्ति । एषा वसन्तसेना आगता ।) चारुदत्तः—वयस्य ! कि मां प्रतारयसि ? विदूषकः—जइ मे वअणे ण पत्तिआअसि, ता एदं कुम्भीलअं पुच्छ । अरे दासीए पुत्ता ! कुम्भीलअ ! उवसप्प । (यदि मे वचने न प्रत्येषि । तत् एतत् कुम्भीलकं पृच्छ । अरे दास्याः पुत्र ! कुम्भीलक उपसर्प ! ) चेटः—(उपसृत्य) अज्ज ! वन्दामि । (आर्य ! वन्दे ।)


चेट—अरे मूर्ख ब्राह्मण ! पद बदल कर ।
विदूषक—(पैर बदल कर) सेना वसन्त ।
चेट—अरे मूर्ख ! अक्षरों के पद बदल कर ।
विदूषक—(सोचकर) वसन्तसेना ।
चेट—वह यह आयी हुई है ।
विदूषक—तो आर्य चारुदत्त से निवेदन करता हूँ । (पास जाकर) हे चारुदत्त ! आपका धनिक (साहूकार) आ गया है ।
चारुदत्त—अरे हमारे कुल में धनिक कहाँ से ?
विदूषक—यदि कुल में नहीं है तो दरवाजे पर है । यह वसन्तसेना आयी हुयी है ।
चारुदत्त—मित्र ! क्यों मुझे ठग रहे हो ?
विदूषक—यदि मेरी बात पर विश्वास नहीं करते हो तो इस कुम्भीलक से पूछो । अरे दासी के बच्चे कुम्भीलक ! इधर आओ ।
चेट—(पास जाकर) आर्य ! प्रणाम करता हूँ ।

३१८ | मृच्छकटिकम्

**चारुदत्तः—**भद्र ! स्वागतम् । कथय—सत्यं प्राप्ता वसन्तसेना ?
**चेटः—**एशा शा आददा वसन्तसेणा । ( एषा सा आगता वसन्तसेना । )
चारुदत्तः—(सहर्षम्) भद्र ! न कदाचित् प्रियवचनं निष्फलीकृतं मया । तद् गृह्यतां परितोषिकम् । ( इत्युत्तरीयं प्रयच्छति । )
चेटः—( गृहीत्वा प्रणम्य सपरितोषम् ) जाव अज्जआए णिवेदेमि । ( यावदार्यायै निवेदयामि । ) ( इति निष्क्रान्तः । )
**विदूषकः-**भो । अवि जाणासि; किं णिमित्तं ईदिसे दुट्ठिणे आअदेत्ति? । ( भोः ! अपि जानासि; किं निमित्तमीदृशे दुर्दिने आगतेति ? )
**चारुदत्तः—**वयस्य ! न सम्यगवधारयामि ।
**विदूषकः-**मए जाणिदं । अप्पमुल्ला रअणावलो, बहुमूलं सुवण्णभण्डअं त्ति ण परिदुट्टा अवरं मग्गिदुं आददा ( मया ज्ञातम् । अल्पमूल्या रत्नावली, बहुमूल्यं सुवर्णभाण्डकम् इति न परितुष्टा, अपरं याचितुमागता । )
चारुदत्तः—( स्वगतम् ) परितुष्टा यास्यति ।
( ततः प्रविशति उज्ज्वलाभिसारिकावेशेन वसन्तसेना सोत्कण्ठा, छत्रधारिणी विटश्च । )
विटः—( वसन्तसेनामुद्दिश्य )

अपद्मा श्रीरेषा प्रहरणमनङ्गस्य ललितं
कुलस्त्रीणां शोको मदनवरवृक्षस्य कुसुमम् ।


**चारुदत्त—**भद्र ! स्वागत है । कहो, सचमुच वसन्तसेना आयी है ?
**चेट—**हां, वह वसन्तसेना आयी हुयी है ।
चारुदत्त—( हर्ष के साथ ) भद्र ! मैंने कभी भी प्रियवचन को निष्फल नहीं किया । [ अर्थात् प्रिय बोलने वाले को खाली नहीं लोटाया ), इस लिये पुरस्कार ग्रहण करो । ( यह कह कर दुपट्टा दे देता है । )
चेट—(लेकर सन्तोष के साथ प्रणाम करके) तो चल कर आर्या (वसन्तसेना) से निवेदन करता हूँ । ( यह कर निकल जाता है । )
**विदूषक—**मित्र, जानते हो इस दुर्दिन में क्यों आयी है ?
**चारुदत्त—**मैं ठीक से नहीं समझ पा रहा हूँ ।
**विदूषक—**मैंने समझ लिया । रत्नावली कम मूल्य की है और सुवर्णभाण्ड अधिक मूल्य का है अतः वह सन्तुष्ट नहीं है, और कुछ लेने के लिये आयी है ।
चारुदत्त—( अपने आप में ) सन्तुष्ट होकर वापस जायेगी ।
( इसके बाद उज्ज्वल अभिसारिका वेश से उत्कण्ठित वसन्तसेना, छत्रधारिणी दासी और विट का प्रवेश ) ।

पञ्चमोऽङ्कः ३१६

सलीलं गच्छन्ती रतिसमयलज्जाप्रणयिनी रतिक्षेत्रे रङ्गे प्रियपथिकसार्थैरनुगता ॥ १२ ॥

**अन्वयः—**रतिसमयलज्जाप्रणयिनी, प्रियपथिकसार्थैः, अनुगता, रङ्गे, ( इव ), रतिक्षेत्रे, सलीलम्, गच्छन्ती, एषा, अपद्मा, श्रीः, अनङ्गस्य, ललितम्, प्रहरणम्, कुलस्त्रीणाम्, शोकः, मदनवरवृक्षस्य, कुसुमम्, [ अस्ति ] ॥ १२ ॥

**शब्दार्थ—**रतिसमय लज्जाप्रणयिनी = सम्भोग काल में [ कृत्रिम ] लज्जा प्रदर्शित करने वाली, प्रियपथिकसार्थैः=प्रिय पथिकों के समूहों के द्वारा, अनुगता=पीछा की गयी, रङ्गे=नाट्य रंगमंच [ के, इव=समान ], रतिक्षेत्रे=संकेतित रतिस्थल पर, सलीलम् = हावभाव के साथ, गच्छन्ती = जाने वाली, एषा = यह वसन्तसेना, अपद्मा = विना कमल की, श्रीः=लक्ष्मी, अनङ्गस्य = कामदेव का, ललितम्=सुन्दर, प्रहरणम् = अस्त्र, कुलस्त्रीणाम् = कुलवधुओं का, शोकः=शोक, मदनवरवृक्षस्य=कामदेवरूपी श्रेष्ठ वृक्ष का, कुसुमम्=पुष्प, है ॥ १२ ॥

अर्थ—विट—( वसन्तसेना को लक्षित करके )—

सम्भोग के समय [ कृत्रिम ] लज्जा प्रदर्शित करने वाली, प्यारे पथिकों से पीछा की गयी, नाट्य रंगमंच के समान संकेतित रतिस्थल पर हावभाव के साथ जाने वाली यह वसन्तसेना बिना कमल की लक्ष्मी ( है ), कामदेव का सुकुमार अस्त्र ( है ), उच्चकुलोत्पन्न वधुओं के लिये [ साक्षात् ] शोक ( है ), कामरूपी सुन्दर वृक्ष का फूल है ॥ १२ ॥

टीका— अभिसारार्थं गच्छन्त्याः वसन्तसेनायाः सौन्दर्यातिशयं वर्णयति—अपद्मेति। रतिसमये = सम्भोगकाले, या, लज्जा = त्रपा कुलस्त्रीणामिति भावः, तस्याः प्रणयिनी=सहचरी, वेश्या भूत्वापि संभोगावसरे कुलस्त्रीणामिव कृत्रिम-त्रपाप्रदर्शिनीति भावः, यद्वा रतिसमये लज्जाया अप्रणयिनीति च्छेदः, तेन स्वच्छन्द-रतिसम्भव इति बोध्यम्। प्रियाः=हृद्याः ये पथिकाः=पान्थाः, तेषाम्, सार्थैः=समूहैः, अनुगता=अनुसृता, रङ्गे=रागवर्द्धिनि, रंगमंच इव, रतिक्षेत्रे=संकेतित-रतिक्रीडास्थले, सलीलम्=सविलासम्, गच्छन्ती = प्रयान्ती, एषा=पुरोवर्तमाना, वसन्तसेनेति भावः, अपद्मा=पद्मरहिता, कमलेऽनुपविष्टा, श्रीः=लक्ष्मीः, अनङ्गस्य=कामदेवस्य, ललितम् = सुन्दरम्, प्रहरणम् = अस्त्रम्, कुलस्त्रीणाम्=कुलवधूनाम्, शोकः=साक्षात् शोकस्थानम्, अस्यामासक्ताः स्वकुलपत्नीः अपि त्यजन्ति तेनेयं तासां शोकजनिकेति भावः, मदनवरवृक्षस्य=कामरूपश्रेष्ठवृक्षस्य, कुसुमम्=पुष्पम्, अस्तीति शेषः। अत्र विषयं निरपहृत्य वसन्तसेनायां श्रीप्रभृतीनां तादात्म्येनारोपात् मालारूपकमलङ्कार इति बोध्यम्। शिखरिणी वृत्तम् ॥ १२ ॥