भारतकोश
संग्रह पर लौटें

मृच्छकटिकम् (सटीक संस्कृत नाटक)

Mricchakatikam with Sanskrit-Hindi Commentary

महाराज शूद्रक / पं. जयशंकर लाल त्रिपाठी द्वारा

DevanagariSanskritpublished760 पृष्ठ

४१८ मृच्छकटिकम्

चारुदत्तः—प्रियं नः प्रियम् ।
विदूषकः—दासीए पुत्ता ! किं चिरइदोसि ? (दास्याः पुत्र ! किं चिरायितोऽसि ?).
चेटः—अज्ज मित्तेअ ! मा कुप्प, जाणत्थलके विशुमलिदे त्ति कदुअ गदागदिं कलेन्ते चिलइदेम्हि । (आर्य मैत्रेय ! मा कुप्य, यानास्तरणं विस्मृतमिति कृत्वा गतागतिं कुर्वन् चिरायितोऽस्मि ।)
चारुदत्तः—वर्द्धमानक ! परिवर्त्तय प्रवहणम् । सखे मैत्रेय ! अवतारय वसन्तसेनाम् ।
विदूषकः—किं णिअडेण वद्धा से गोडा जेण सअं ण ओदरेदि । (उत्थाय प्रवहणमुद्घाट्य) भोः ! ण वसन्तसेणा, वसन्त-सेणो क्खु एसो । (किं निगडेन बद्धावस्याः पादौ येन स्वयं नावतरति ।) (भोः न वसन्तसेना, वसन्तसेनः खल्वेषः ।)
चारुदत्तः—वयस्य ! अलं परिहासेन, न कालमपेक्षते स्नेहः । अथवा स्वयमेवावतारयामि । (इत्युत्तिष्ठति)
आर्यकः—(दृष्ट्वा) अये ! अयमेव प्रवहणस्वामी । न केवलं श्रुतिरमणीयो दृष्टिरमणीयोऽपि । हन्त ! रक्षितोऽस्मि ।
चारुदत्तः—(प्रवहणमधिरुह्य दृष्ट्वा च) अये ! तत् कोऽयम् ?

'करिकर-समबाहुः सिंहपीनोन्नतांसः
पृथुतर-सम-वक्षास्ताम्रलोलायताक्षः ।


चारुदत्त--प्रिय है, हमारे लिये प्रिय है ।
विदूषक—दासी के बच्चे ! क्यों देर कर दी ?
चेट—आर्य मैत्रेय ! मत नाराज होइये । गाड़ी का बिछावन भूल गया था इसलिये आना जाना करने में देर हो गयी ।
चारुदत्त—वर्धमानक गाड़ी घुमाओ । मित्र मैत्रेय ! वसन्तसेना को उतारो ।
विदूषक—क्या इसके पैर बेड़ी से बंधे हैं जो यह स्वयं नहीं उतर पा रही है। (उठ कर, गाड़ी खोलकर) अरे ! यह वसन्तसेना नहीं है, यह तो वसन्तसेन है ।
चारुदत्त—मित्र हंसी मत करो । प्रेम समय का विलम्ब नहीं चाहता है । अथवा मैं स्वयं ही उतारता हूँ । (यह कह कर उठता है ।)
आर्यक—(देखकर) अरे ! ये ही गाड़ी के स्वामी हैं । ये केवल सुनने में ही अच्छे नहीं हैं अपि तु देखने में भी अच्छे लगते हैं । अहो ! अब (मेरी) रक्षा हो गयी ।
अन्वयः—करिकरसमबाहुः, सिंहपीनोन्नतांशः, पृथुतरसमवक्षाः, ताम्रलोलाय-

सप्तमोऽङ्कः ४१९

कथमिदमसमानं प्राप्त एवंविधो यो
वहति निगडमेकं पादलग्नं महात्मा ॥ ५ ॥

ततः को भवान् ?
आर्यकः — शरणागतो गोपालप्रकृतिरार्यकोऽस्मि ।


ताक्षः, एवंविधः, महात्मा [ अस्ति, सः ] कथम्, इदम्, असमानम्, [ दण्डम् ], प्राप्तः, पादलग्नम्, एकम्, निगडम्, वहति ॥ ५ ॥

शब्दार्थ — करिकर-समबाहुः = हाथी की सूँड़ के समान भुजाओं वाला, सिंहपीनोन्नतांशः=शेर के समान मोटे और ऊँचे कन्धों वाला, पृथुतरसमवक्षाः=विशाल और समतल वक्षस्थलवाला, ताम्रलोलायताक्षः=ताम्बें के समान, चञ्चल और बड़ी-बड़ी आंखोंवाला, यः=जो, एवंविधः=इस प्रकार का महात्मा=महापुरुष है वह, कथम्=कैसे, इदम समानम्=इस प्रकार के अनुचित [ दण्ड ] को, प्राप्तः=प्राप्त कर, पादलग्नम्=पैर में लटकी हुई एक, निगडम्=बेड़ी को, वहति=ढो रहा है, धारण किये हुये है ॥ ५ ॥

अर्थ —चारुदत्त--( गाड़ी पर चढ़कर और देखकर ) अरे, तो यह कौन है ?
हाथी की सूँड़ के समान विशाल भुजाओं वाला, शेर के समान ऊँचे और मोटे कन्धों वाला, विशाल और समतल वक्षस्थलवाला, ताम्बें के समान रंगवाले चञ्चल और विशाल नेत्रों वाला जो इस प्रकार का महापुरुष है वह कैसे इस प्रकार के अनुचित दण्ड को प्राप्त करके पैर में लगी हुई एक बेड़ी को ढो रहा है, धारण किये हुये है ॥ ५ ॥
तब आप कौन हैं ?

टीका — आर्यकस्य स्वरूपं बन्धनं च विलोक्य चारुदत्त उत्प्रेक्षते—करिकरेति । करिणः=गजस्य करेण=शुण्डादण्डेन समौ=तुल्यौ बाहू=भुजौ यस्य तादृशः, सिंहस्य=मृगाधिपस्य इव पीनो = परिपुष्टौ, उन्नतौ = उच्छ्रितौ च अंशौ = स्कन्धौ यस्य तादृशः, पृथुतरम्=अतिविशालम् समम्=अनुच्चनीचम्, वक्षः=उरःस्थलं यस्य सः, ताम्रे =ताम्रवर्णे, लोले=चञ्चले, आयते=आयताकारे विशाले इत्यर्थः, अक्षिणी=नेत्रे यस्य तादृशः, सः=पुरोदृश्यमानः, एवंविधः=पूर्वोक्तवैशिष्ट्ययुक्तः, महात्मा=महापुरुषः, अस्ति, सः, कथम् = कस्मात् कारणात्, इदम्=पुरो दृश्यमानम्, अंसमानम् = अयोग्यम् अनुचितं बन्धनम्, प्राप्तः = उपगतः, सन्, पादलग्नम्=चरणनिबद्धम् एकम्, निगडम्=शृङ्खलाम्, वहति=धारयति । एवंविध-महापुरुष-लक्षणवत इदं बन्धनमाश्चर्यकरमिति भावः । लुप्तोपमालंकारः । मालिनी वृत्तम् ॥ ५ ॥

अर्थ—आर्यक--शरण में आया हुआ, अहीर का पुत्र आर्यक हूँ ।

४२० | मृच्छकटिकम्

चारुदत्तः—किं घोषादानीय योऽसौ राज्ञा पालकेन बद्धः ?
आर्यकः—अथ किम् ।
चारुदत्तः

विधिनैवोपनीतस्त्वं चक्षुर्विषयमागतः ।
अपि प्राणानहं जह्यां न तु त्वां शरणागतम् ॥६॥

( आर्यको हर्षं नाटयति )
चारुदत्तः—वर्द्धमानक ! चरणान्निगडमपनय ।
चेटः—जं अज्जो आणवेदि । ( तथा कृत्वा ) अज्ज ! अवणीदाइं णिगलाइं । ( यदार्य आज्ञापयति । ) ( आर्य ! अपनीतानि निगडानि । )


चारुदत्त—क्या जिसे राजा पालक ने अहीरों की बस्ती से पकड़ कर जेल में बन्द करा दिया था ?
आर्यक—हां, वही ।

अन्वयः—विधिना, एव, उपपन्नः, त्वम्, चक्षुर्विषयम्, आगतः, अहम्, प्राणान्, अपि, जह्याम्, तु, शरणागतम्, त्वाम्, न, [ जहामि ] ॥ ६ ॥

शब्दार्थविधिना = भाग्य से, एव=ही, उपनीतः = लाये गये, त्वम्=तुम आर्यक, चक्षुर्विषयम्=दर्शन के विषय को, आगतः=प्राप्त हुये हो, दिखाई दिये हो, अहम् = मैं चारुदत्त, प्राणान् = अपने प्राणों को, अपि = भी, जह्याम् = छोड़ दूँ, तु = किन्तु, शरणागतम् = शरण में आये हुये, त्वाम् = तुम को, =नहीं, [ छोड़ सकता ] ॥ ६ ॥

अर्थचारुदत्त
भाग्य द्वारा ही लाये गये तुम मेरे नेत्रों के विषय बने हो, दिखाई पड़ रहे हो, मैं अपने प्राणों को भी छोड़ दूँ किन्तु शरण में आये हुये तुम [ आर्यक ] को नहीं छोड़ सकता । ( तुम्हारी जीवनरक्षा अवश्य करूँगा । ) ॥ ६ ॥

टीकाविधिना=भाग्येन, एव उपनीतः=अत्र प्रापितः, त्वम्=आर्यकः, मम, चक्षुषोः = नेत्रयोः, विषयम् = गोचरम्, आगतः=प्राप्तः, असि, अहम् = चारुदत्तः, प्राणान्=अशून्, अपि, जह्याम्=त्यजेयम्, तु=परन्तु, शरणे=रक्षणे, आगतम्=प्रपन्नम्, त्वाम्=आर्यकम्, =नैव, जहामीत्यर्थः । स्वकीयप्राणपरित्यागेनापि तव जीवन-रक्षां करिष्यामीति भावः । पथ्यावक्त्रं वृत्तम् ॥ ६ ॥

( आर्यक हर्ष का अभिनय करता है । )
अर्थचारुदत्त—वर्धमानक ! पैर से बेंडी हटा दो ।
चेट—आर्य की जो आज्ञा । ( पैर की बेड़ी हटा कर ) आर्य ! बेड़ियाँ हटा दीं ।

सप्तमोऽङ्कः ४२१

आर्यकः--स्नेहमयान्यन्यानि दृढंतराणि दत्तानि । विदूषकः--सङ्कच्छेहि णिअडाइं, एसो वि मुक्को, सम्पंदं अम्हे वज्जि- स्सामो । ( सङ्कच्छस्व निगडानि, एषोऽपि मुक्तः, साम्प्रतं वयं व्रजिष्यामः । ) चारुदत्तः धिक् शान्तम् । आर्यकः--सखे चारुदत्त ! अहमपि प्रणयेनेदं प्रवहणमारूढः । तत् क्षन्तव्यम् । चारुदत्तः--अलङ्कृतोऽस्मि स्वयंग्राहप्रणयेन भवता । आर्यकः--अभ्यनुज्ञातो भवता गन्तुमिच्छामि । चारुदत्तः--गम्यताम् । आर्यक :--भवतु, अवतरामि । चारुदत्तः--सखे ! नावतरितव्यम् । प्रत्यग्रापनीतसंयमनस्य भवतः अलघुसंचारा गतिः । सुलभपुरुषसञ्चारेऽस्मिन् प्रदेशे प्रवहणं विश्वास- मुत्पादयति, तत् प्रवहणेनैव गम्यताम् । आर्यकः--यथाह भवान् ।


आर्यक--प्रेममयी दूसरी बेड़ियां डाल दीं ।

विदूषक--( चारुदत्त के पैर में ) बेड़ियां डाल दो । यह भी छूट गया । अब हम लोग ( कारागार ) चलेंगे ।

चारुदत्त--ऐसी बात को धिक्कार है । शान्त रहो ।

आर्यक--मित्र चारुदत्त ! मैं भी प्रेम के कारण ही इस गाड़ी पर चढ़ा । अतः क्षमा करिये ।

चारुदत्त--आपके द्वारा स्वयं इस गाड़ी पर चढ़ने के स्नेह से मैं अलंकृत हो गया हूँ ।

आर्यक--आपसे आज्ञा लेकर जाना चाहता हूँ ।

चारुदत्त--जाइये ।

आर्यक--अच्छा, उतरता हूँ ।

चारुदत्त--मित्र ! मत उतरो । अभी अभी बेड़ी हटाने से आपकी गति तेज नहीं है ( अर्थात् आप जल्दी जल्दी नहीं चल पायेंगे । ) राजपुरुषों के आवा- गमन से युक्त इस स्थान पर ( मेरी ) गाड़ी विश्वास उत्पन्न कराती है, इसलिये गाड़ी से ही जाइये ।

आर्यक--आप की जैसी आज्ञा ।

४२२मृच्छकटिकम्

चारुदत्त : — क्षेमेण व्रज बान्धवान्, — आर्यकः — ननु मया लब्धो भवान् बान्धवः । चारुदत्तः — स्मर्त्तव्योऽस्मि कथान्तरेषु भवता,— आर्यकः — स्वात्मापि विस्मर्यते ? चारुदत्तः — त्वां रक्षन्तु पथि प्रयान्तममराः,— आर्यकः — संरक्षितोऽहं त्वया । चारुदत्तः — स्वैर्भाग्यैः परिरक्षितोऽसि —, आर्यकः — ननु हे ! तत्रापि हेतुर्भवान् ॥ ७ ॥

अन्वयः – क्षेमेण, बान्धवान्, व्रज। ननु, मया, भवान्, बान्धवः, लब्धः। भवता, कथान्तरेषु स्मर्त्तव्यः। स्वात्मा, अपि, विस्मर्यते ? पथि, प्रयान्तम्, त्वाम्, अमराः, रक्षन्तु, अहम्, त्वया, रक्षितः। स्वैः भाग्यैः, परिरक्षितः, असि, ननु, हे, तत्र, अपि, भवान्, हेतुः ॥ ७ ॥

शब्दार्थ--क्षेमेण = कुशलतापूर्वक, बाधवान् = बन्धुबान्धवों के पास, व्रज = जाइये। ननु = निश्चित ही, मया = मुझे, भवान् = आप चारुदत्त, बान्धवः = बान्धव, लब्धः = प्राप्त हो गये। भवता = आप (आर्यक) द्वारा, कथान्तरेषु = अन्य बातचीत के प्रसंग में, अस्मि स्मर्त्तव्यः = मेरी याद करनी चाहिये। स्वात्मा = अपनी आत्मा, अपि = भी, विस्मर्यते = भुलाई जाती है ?, पथि = मार्ग में, प्रयान्तम् = जाते हुये, त्वाम् = तुम्हारी (आर्यक की), अमराः = देवता लोग, रक्षन्तु = रक्षा करें, अहम् = मुझ आर्यक की, त्वया = तुम [चारुदत्त] ने, रक्षितः = रक्षा की है, स्वैः = अपने [आर्यक के], भाग्यैः = भाग्य से, परिरक्षितः = सुरक्षित, असि = हो, ननु = निश्चित ही, तत्र = उसमें, अपि = भी, भवान् = आप [चारुदत्त] ही, हेतुः = कारण, हैं ॥ ७ ॥

अर्थ--चारुदत्त — कुशलता के साथ अपने बन्धुओं के पास जाइये। आर्यक — निश्चित ही मैंने आपको बन्धु पा लिया है। चारुदत्त — अन्य प्रसङ्गों में मुझे भी याद करना। आर्यक — क्या अपनी आत्मा भी भुलाई जाती है ? चारुदत्त — मार्ग में जाते हुये तुम्हारी रक्षा देवता करें। आर्यक — मेरी रक्षा तो आपने ही कर दी। चारुदत्त — अपने भाग्य से सुरक्षित हो। आर्यक — मित्रवर ! इसमें भी तो आप ही कारण हैं।

टीका--साम्प्रतं प्रयाणसमये आर्यकचारुदत्तौ परस्परं शिष्टाचारं विधातुमुक्तिप्रत्युक्तिभ्यां प्रतिपादयतः—क्षेमेणेति । क्षेमेण = आर्यक ! त्वं कुशलेन, बान्धवान् = आत्मीयान्, व्रज = याहि। आर्यकः प्रतिवदति-ननु भोः = निश्चयेन, मित्रवर !,

सप्तमोऽङ्कः ४२३

चारुदत्तः— यत्, उद्यते पालके महती रक्षा न वर्त्तते, तत् शीघ्रमपक्रामतु भवान् ।

आर्यकः — एवं पुनर्दर्शनाय । ( इति निष्क्रान्तः )

चारुदत्तः —

कृत्वैवं मनुजपतेर्महद्व्यलीकं
स्थातुं हि क्षणमपि न प्रशस्तमस्मिन् ।
मैत्रेय ! क्षिप निगडं पुराणकूपे
पश्येयुः क्षितिपतयो हि चारदृष्ट्या ॥ ८ ॥

भवान्=चारुदत्तः, मया = आर्यकेण, बान्धवः=आत्मीयः, लब्धः=प्राप्तः, 'राजद्वारे श्मशाने च यस्तिष्ठति सः बान्धवः' इत्याद्युक्तेः। चारुदत्तो ब्रूते-भवता=आर्यकेण त्वया, कथान्तरेषु=अन्यविषयकवार्ताप्रसङ्गेषु, स्मर्त्तव्यः=स्मरणीयः, अस्मि=अहम्, अत्र 'अहमर्थकः 'अस्मि' इति अव्ययशब्दः । आर्यकः प्रतिब्रूते— स्वात्मा अपि=निजात्मा अपि, विस्मर्यते=विस्मरणीयो भवति ? चारुदत्तः शुभमांशसति-पथि=मार्गे, प्रयान्तम्=व्रजन्तम्, त्वाम्=आर्यकम्, अमराः=देवाः, रक्षन्तु=अवन्तु, त्रायन्ताम्, आर्यकः प्रतिवदति--अहम्=आर्यकः, त्वया=चारुदत्तेन, संरक्षितः=परित्रातः, चारुदत्तः स्वस्य हेतुत्वं निराकरोति-स्वैः = निजैः, भाग्यैः=भागधेयैः, परिरक्षितः=परित्रातः, असि, आर्यकस्तत्रापि चारुदत्तस्यैव हेतुत्वमङ्गीकर्तुं प्रतिवदति ननु=निश्चये, हे=भोः मित्र !, तत्रापि=तादृशक्षणेऽपि, भवान्=चारुदत्तः, एव, हेतुः=कारणमिति भावः । एवञ्च भवानेव मे मुख्यः परित्रातेति आर्यकस्याशयः । शार्दूलविक्रीडितं वृत्तम् ॥ ७ ॥

विमर्श— यहां उक्ति-प्रत्युक्ति के माध्यम से आर्यक की कृतज्ञता और चारुदत्त की महानुभावता का अति सुन्दर चित्रण किया गया है ॥ ७ ॥

अर्थ—चारुदत्त— चूंकि पालक राजा (आपको पकड़ने के लिये) उद्यत है और सुरक्षा की व्यवस्था नहीं है अतः आप शीघ्र ही चले जाइये ।

आर्यक— अच्छा, फिर दर्शन करने के लिये (आशा बनाये हुये) जा रहा हूँ । (यह कहकर निकल जाता है ।)

अन्वयः— एवम्, मनुजपतेः, महत्, व्यलीकम्, कृत्वा, अस्मिन् (स्थाने) क्षणम्, अपि, स्थातुम्, न, हि, प्रशस्तम्, मैत्रेय; निगडम्, पुराणकूपे, क्षिप, हि; क्षितिपतयः, चारदृष्ट्या, पश्येयुः ॥ ८ ॥

शब्दार्थ— एवम्=पूर्वोक्त प्रकार का, मनुजपतेः=राजा पालक का, महत्=बहुत बड़ा, व्यलीकम्=अपराध, कृत्वा=करके, अस्मिन्=इस स्थान पर, उद्यान में, क्षणम्=थोड़ी देर, अपि=भी, स्थातुम्=रुकना, न हि=निश्चित रूप से नहीं,

४२४ मृच्छकटिकम्

( वामाक्षिस्पन्दनं सूचयित्वा ) सखे मैत्रेय ! वसन्तसेनादर्शनोत्सुकोऽयं जनः । पश्य —

अपश्यतोऽद्य तां कान्तां वामं स्फुरति लोचनम् ।
अकारणपरित्रस्तं हृदयं व्यथते मम ॥ ६ ॥

प्रशस्तम्=अच्छा है, मैत्रेय=मित्र मैत्रेय !, निगडम्=बेड़ी को, पुराणकूपे=पुराने कुआँ में, ( जिसका पानी सूख जाने से कोई वस्तु दिखाई नहीं देती है ), क्षिप=फेंक दो, हि=क्योंकि, क्षितिपतयः=राजा, चारदृष्ट्या=गुप्तचररूपी नेत्र से, पश्येयुः=देख लेंगे ॥ ८ ॥

अर्थ—चारुदत्त—
राजा पालक का ऐसा [ आर्यकरक्षारूपी ] महान् अपराध करके यहाँ क्षण भर भी रुकना ठीक नहीं है । हे मैत्रेय ! बेड़ी को पुराने [ अन्धे ] कुआँ में फेंक दो । क्योंकि राजा लोग गुप्तचर रूपी नेत्र से देख लेंगे ॥ ८ ॥

**टीका—**सुरक्षितं कृत्वाऽऽर्यकं विसृज्य चारुदत्तः आत्मनः सुरक्षार्थं मैत्रेयं निर्दिशति–कृत्वैवमिति । एवम्=इत्थम्, मनुजपतेः=राज्ञः पालकस्येत्यर्थः, महत्=अत्यन्तम्, व्यलीकम्=अप्रियम्, अहितमिति भावः, कृत्वा=विधाय, अस्मिन्=प्रदेशे इत्यर्थः, क्षणम् अपि=मुहूर्तमपि, स्थातुम्=वर्तितुम्, नहि=नैव, प्रशस्तम्=युक्तम्, अतः हे मैत्रेय=मित्र, निगडम्=आर्यकस्य पादादपाकृतं निगडम्, पुराणकूपे=जलादिशून्ये 'अन्धकूपे' इति प्रसिद्धम्, क्षिप=पातय, हि=यस्मात्, क्षितिपतयः=राजानः, चारदृष्ट्या=गुप्तचररूपदृष्ट्या, पश्येयुः=अवलोकयेयुः । 'चारैः पश्यन्ति राजानः' इति वचनमनुस्मृत्य चारुदत्तः भयमुपैति । अत्र कारणेन कार्यसमर्थनरूपोऽर्थान्तरन्यासोऽलङ्कारः, प्रहर्षिणी वृत्तम् ॥ ८ ॥

अर्थ—( बायीं आँख का फड़कना सूचित करके ) मित्र मैत्रेय । यह व्यक्ति [ मैं ] वसन्तसेना के दर्शन के लिये अति उत्सुक है । देखो —

**अन्वयः—**अद्य, ताम्, कान्ताम्, अपश्यतः, मम, वामम्, लोचनम्, स्फुरति, अकारणपरित्रस्तम्, मम, हृदयम्, व्यथते ॥ ६ ॥

**शब्दार्थ—**अद्य=आज, इस समय, ताम्=उस, कान्ताम्=प्रेयसी वसन्तसेना को, अपश्यतः=न देखने वाले, मम=मेरा [ चारुदत्त का ], वामम्=बाँया, लोचनम्=आँख, स्फुरति=फड़क रही है, अकारणपरित्रस्तम्=बिना किसी कारण के घबड़ाया हुआ, हृदयम्=हृदय, व्यथते=व्यथित हो रहा है, परेशान हो रहा है ॥ ९ ॥

अर्थ—आज [ इस समय ] उस प्रेयसी वसन्तसेना का दर्शन न करने वाले मेरी बाँयी आँख फड़क रही है । बिना किसी कारण के घबड़ाया हुआ मेरा हृदय व्यथित हो रहा है ॥ ९ ॥

सप्तमोऽङ्कः ४२५

तदेहि, गच्छावः। (परिक्रम्य) कथमभिमुखमनाभ्युदयिकं श्रमणकदर्शनम्।
(विचार्य) प्रविशत्वयमनेन पथा, वयमप्यनेनैव पथा गच्छामः।

( इति निष्क्रान्तः। )

इत्यार्यकापहरणं नाम सप्तमोऽङ्कः।

-: ० :-


**टीका—**तदानीं चारुदत्तो दुर्निमित्तोत्पत्तिं वसन्तसेनायाः अदर्शनमूलिकां चिन्तयति—अपश्यत इति। अद्य=अस्मिन् काले, ताम्=पूर्वोक्ताम्, मदीयाम् कान्ताम्=प्रेयसीम्, वसन्तसेनामित्यर्थः, अपश्यतः=अनवलोकयतः मम=चारुदत्तस्य, वामम्=सव्येतरम्, लोचनम्=नेत्रम्, स्फुरति=स्पन्दते, अकारणं परित्रस्तम्=व्याकुलम्, हृदयम्=चित्तम्, व्यथते=व्यग्रं भवति। विभावनालंकारः, आर्या वृत्तम् ॥ ९ ॥

**विमर्श—**भावी अनिष्ट के संकेत को चारुदत्त ठीक से नहीं समझ पा रहा है। वह उसे वसन्तसेना के दर्शन न होने के कारण होने वाला मान रहा है। यहाँ कारण के अभाव में कार्योत्पत्ति होने से विभावना अलंकार है ॥ ६ ॥

**अर्थ—**इस लिये आओ, चलें। (घूम कर) अरे सामने अमङ्गलसूचक इस बौद्ध संन्यासी का दर्शन क्यों ? (सोचकर) यह इस मार्ग से प्रवेश करे, आये। हम लोग इस (दूसरे) मार्ग से चल रहे हैं।

(इस प्रकार सभी निकल जाते हैं।)

"इस प्रकार आर्यक का अपहरण नामक सप्तम अङ्क समाप्त हुआ॥

॥ इस प्रकार जयशङ्करलाल-त्रिपाठि-विरचित 'भावप्रकाशिका, हिन्दी-संस्कृत-व्याख्या में मृच्छकटिक का सप्तम अंक समाप्त हुआ ॥

अष्टमोऽङ्कः (वसन्तिसेना-मोतन)

अष्टमोऽङ्कः

( ततः प्रविशति आर्द्रचीवरहस्तो भिक्षुः । )

भिक्षुः —अज्ञा ! कलेध धम्मशञ्चअं । ( अज्ञाः ! कुरुत धर्मसञ्चयम् । )

शञ्जम्मध णिअपोटं णिच्चं जग्गेध झाण-पड़हेण
विशमा इन्द्रिअ-चोला हलन्ति चिलसञ्चिदं धम्मं ॥ १ ॥
( संयच्छत निजोदरं नित्यं जागृत ध्यानपटहेन ।
विषमा इन्द्रियचौरा हरन्ति चिरसञ्चितं धर्मम् ॥ १ ॥ )


( इसके बाद गीला वस्त्र हाथ में लिये हुये भिक्षुक प्रवेश करता है । )

अन्वयः—निजोदरम्, संयच्छत, ध्यानपटहेन, नित्यम्, जाग्रत, विषमाः, इन्द्रियचौराः, चिरसञ्चितम्, धर्मम्, हरन्ति ॥ १ ॥

शब्दार्थनिजोदरम्=अपने पेट को, संयच्छत=सीमित करो, ध्यानपटहेन=ध्यानरूपी नगाड़े से, नित्यम्=रोज, सदैव, जाग्रत=जागते रहो, विषमाः=कष्टकारक, इन्द्रियचौराः=इन्द्रियरूपी चोर, चिरसञ्चितम्=बहुत समय से एकत्र किये गये, धर्मम्=धर्म को, पुण्य को, हरन्ति=चुरा लेते हैं ॥ १ ॥

अर्थभिक्षु ( =बौद्धसंन्यासी )—अरे अज्ञानियों ! ( मूर्खो ! ) धर्म का संचय करो —

अपने पेट को सीमित करो, [ कम खाओ ] ध्यानरूपी नगाड़े से सदा जागते रहो । ( कारण यह है कि ) कष्टकारक इन्द्रियरूपी चोर बहुत समय से सञ्चित धर्म को चुरा लेते हैं, हर लेते हैं ॥ १ ॥

टीका--संयम एव धर्मरक्षणस्य परमोपाय इति प्रतिपादयन्नाह भिक्षुःबौद्धधर्मावलम्बी संन्यासीसंयच्छतेति । निजोदरम्=निजम्=स्वीयम्, उदरम्=जठरम्, संयच्छत=सङ्कोचयत, केवलमुदरं पूरयितुमेव जीवनं न नाशयतेति भावः । ध्यानपटहेन=ध्यानमेव पटहः=ढक्का, तेन, नित्यम्=सदैव, जाग्रत=विनिद्राः तिष्ठत, जाग्रतः पुंसो न चौर्यादिकं संभवतीति भावः । किमर्थमत आहविषमाः=दुरन्ताः, कष्टकारिण इत्यर्थः इन्द्रियचौराः=इन्द्रियाणि=चक्षुरादीन्येव चौराः=तस्कराः, चिरसञ्चितम्=सुदीर्घकालात् सुरक्षितम्, धर्मम्=पुण्यम्, सुकृतम्, हरन्ति=मुष्णन्ति । अत इन्द्रियनिग्रहार्थं यत्नं कुरुतेति भावः । रूपकमलंकारः, आर्या वृत्तम् ॥ १ ॥

विमर्श—बौद्ध भिक्षु लोगों को सावधान करने के लिये उपर्युक्त बाते कहता है ॥ १ ॥

अष्टमोऽङ्कः / ४२७

अवि अ, अणिच्चदाए पेक्खिअ केवलं दाव धम्माणं शलणम्हि ।
(अपि च, अनित्यतया प्रेक्ष्य केवलं तावद्धर्माणां शरणमस्मि ।)
पञ्चजण जेण मालिदा इत्थिअ मारिअ गाम रक्खिदे ।
अवले अ चण्डाल मालिदे अवसंवि शे णले शग्गं गाहदि ॥ २ ॥
(पञ्चजना येन मारिताः स्त्रियं मारयित्वा ग्रामो रक्षितः ।
अबलश्च चाण्डालो मारितः अवश्यं स नरः स्वर्गं गाहते ॥ २ ॥)


अर्थ— और भी, (संसार के सभी पदार्थों को) अनित्यत्व रूप से देख कर धर्म की शरण में आया हूँ।

अन्वयः——येन, पञ्चजनाः, मारिताः, स्त्रियम्, मारयित्वा, ग्रामः, रक्षितः, अबलः, चण्डालः, च, मारितः, सः, नरः, स्वर्गम्, अवश्यम्, गाहते ॥ २ ॥

शब्दार्थ —येन=जिस व्यक्ति ने, पञ्चजनाः=पाँच (कर्मेन्द्रियरूपी) लोगों को, मारिताः,=मार डाला है, स्त्रियम्=अविद्यारूपी स्त्री को, मारयित्वा=मार कर, ग्रामः=आत्मा अथवा शरीर की, रक्षितः=रक्षा की है; च=और, अबलः=दुर्बल, चाण्डालः=चाण्डाल (घमंड) मारितः=मार डाला.है, सः=ऐसा वह, नरः=मनुष्य, स्वर्गम्=स्वर्ग को, अवश्यम्=निश्चित ही. गाहते=प्राप्त करता है ॥२॥

अर्थ - जिस व्यक्ति ने पाँच (कर्मेन्द्रिय रूपी) लोगों को मार डाला है, [निष्क्रिय बना दिया है।] अविद्यारूपी स्त्री को मार कर [समाप्त कर] आश्रयभूत ग्राम=शरीर की रक्षा की है। और अबल घमण्डरूपी चाण्डाल को भी मार डाला है, ऐसा व्यक्ति निश्चित रूप से स्वर्ग प्राप्त करता है ॥ २ ॥

टीका—-कीदृशो जनः स्वर्गं प्राप्नोतीत्यत्र भिक्षुः मार्गं निर्दिशति-पञ्चेति । येन=जनेन, पञ्चजनाः=पञ्चकर्मेन्द्रियाणि, मारिताः=विनाशिताः, स्वस्वविषयेभ्यो निवार्य स्वाधीनाः कृता इत्यर्थः, स्त्रियम् = अविद्यारूपाम्, मारयित्वा = तत्त्वज्ञानेन विनाशय, ग्रामः=आत्मा, शरीरं वा, रक्षितः-परिपालितः, च = तथा, अबलः=दुर्बलः, चाण्डालः=अहङ्कारः, मारितः=विनाशितः, सः=पूर्वोक्त-वैशिष्ट्य-युतः, नरः=मनुष्यः, स्वर्गम्=सुरलोकम्, गाहते=प्राप्नोति । अत्र पञ्चजन-स्त्री-ग्राम-चाण्डालशब्दाः लक्षणया इन्द्रियादिपदार्थबोधका इति बोध्यम् । वैतालीयँ वृत्तम् ॥ २ ॥

विमर्श—यहाँ 'पञ्चजनाः, यह पाँच कर्मेन्द्रियों को, 'स्त्रियम्' अविद्या को, : ग्रामः' आत्मा या शरीर को, 'चाण्डालः' अहङ्कार को प्रतिपादित करते हैं। इसमें वैतालीय छन्द है, लक्षण -

'षड्विषमेऽष्टौ समे कलास्ताश्च समे स्युनोनिरन्तराः ।
न समात्र पराश्रिता कला वैतालीयंन्ते रलौ गुरु ॥ २ ॥

४२५मृच्छकटिकम्

शिल मुण्डिदे तुण्ड मुण्डिदे चित्त ण मुण्डिदे कीश मुण्डिदे।
जाह उण अ चित्त मुण्डिदे शाहु सुट्ठु शिल ताह मुण्डिदे ॥ ३ ॥
(शिरो मुण्डितं तुण्डं मुण्डितं चित्तं न मुण्डितं किं मुण्डितम् ?
यस्य पुनश्च चित्तं मुण्डितं साधु सुष्ठु शिरस्तस्य मुण्डितम् ॥ ३ ॥)

गिहिद-काशाओदए एशे चीवले, जाव एदं लट्टिअ-शालकाहकेल्के सज्जाणे पविशिअ पोक्खलिणीए पक्खाजिअ लहुं लहुं अवक्कमिश्शं।

अन्वयः—शिरः, मुण्डितम्, तुण्डम्, मुण्डितम्, (यदि) चित्तम्, न, मुण्डितम्, (तदा) किम्, मुण्डितम्; पुनः, यस्य, च, चित्तम्, साधु, मुण्डितम्, तस्य, शिरः, सुष्ठु, मुण्डितम् ॥ ३ ॥

शब्दार्थशिरः=शिर, मुण्डितम्=मुड़ा लिया, तुण्डम्=मुंह (दाढ़ी-मूँछ), मुण्डितम्=मुड़ा ली, यदि=यदि, चित्तम्=मन, =नहीं, मुण्डितम्=स्वच्छ कराया, तदा=तब, किम्=क्या, मुण्डितम्=मुड़ाया, स्वच्छ कराया, पुनः च = और फिर, यस्य=जिसका, चित्तम्=चित्त; मुण्डितम्=मुड़ाया हुआ, स्वच्छ करवाया हुआ है, तस्य=उसका, शिरः=सिर, सुष्ठु=अच्छी प्रकार से, मुण्डितम्=मुड़ा हुआ है ॥ ३ ॥

अर्थ—शिर मुड़ा लिया, मुख (दाढ़ी मूंछ) मुड़ा ली किन्तु यदि चित्त नहीं मुड़ाया तो उसने क्या मुड़ाया। और जिसने चित्त मुड़ाया उसीने शिर भी अच्छी प्रकार मुड़ा लिया ॥ ३ ॥

टीका—बाह्यशरीरशुद्धिरेव न पर्याप्ता, किन्तु अन्तःशुद्धिरपीति प्रतिपाद-यति—शिर इति। शिरः=मस्तकम्, तत्रास्थाः केशा इत्यर्थः, मुण्डितम्=केशरहितं कृतम्, तुण्डम्=मुखम्, मुण्डितम्=श्मश्वादिशून्यं कृतम्, यदि=परन्तु यदि, चित्तम्=अन्तःकरणम्, =नैव, मुण्डितम्=स्वच्छं कृतम्, किं मुण्डितम्=किं परिष्कृतम्, न किमपीति भावः। पुनश्च, यस्य=जनस्य, चित्तम् = अन्तःकरणम्, मुण्डितम्=स्वच्छं कृतम्, विषयविकारशून्यं सम्पादितम्, तस्य=जनस्य, शिरः=मस्तकम्, साधु=सम्यग् रूपेण, मुण्डितम्=स्वच्छं कृतम्। एवञ्च चित्तशुद्धिरेव तात्त्विकी तदर्थमेव यतनीयमिति तदभिप्रायः। वैतालीयं वृत्तम् ॥ ३ ॥

विमर्श—भिक्षु का आशय यह है कि जब तक चित्त की शुद्धि नहीं होती है तब तक शिर, दाढ़ी मूंछ मुड़ाना ढोंग है। कवि की यह व्यङ्ग्योक्ति है। इसमें भी वैतालीय छन्द है। लक्षण पूर्वश्लोक के विमर्श में देखें ॥ ३ ॥

शब्दार्थगृहीतकषायोदकम्=कसैले रंग के पानी को सोख लेने वाला, चीवरम्=वस्त्र-खण्ड, पुष्करिण्याम्=पोखरी तलैया में, लघु-लघु = बहुत जल्दी, नासिकाम्=नाक को, विदध्वा=छेद कर, अपवाहयति=बाहर निकाल देता है, अशरणः=असहाय।

अष्टमोऽङ्कः ४२६

( गृहीत-कषायोदकमेतत् चीवरम्, यावदेतत् राष्ट्रियश्यालकस्य उद्याने प्रविश्य पुष्करिण्यां प्रक्षाल्य लघु लघु अपक्रमिष्यामि । ) ( परिक्रम्य तथा करोति ) ।

( नेपथ्ये )

शकारः—चिट्ठ, ले दुट्ठशमणका ! चिट्ठ । (तिष्ठ, रे दुष्टश्रमणक तिष्ठ ।)

भिक्षुः—( दृष्ट्वा सभयम् ) ही अविदमाणहे ! एशे शे लाअशाल-शण्ठाणे आगदे । एक्केण भिक्खुणा अवलाहे किदे अण्णं वि जंहिं जंर्हि भिक्खुं पेक्खदि, तहिं तहिं गोणं विअ णासं विन्धिश्र ओवाहेदि । ता कहिं अशलणे शलणं गमिश्शं ? अथवा भट्टालके ज्जेव बुद्धे मे शलणे । ( आश्चर्यम् । एष स राज-श्याल-संस्थानक आगतः । एकेन भिक्षुणा अपराधे कृते, अन्यमपि यस्मिन् यस्मिन् भिक्षुं प्रेक्षते, तस्मिन् तस्मिन् गामिव नासिकां विद्ध्वा अपवाहयति । तत् कस्मिन् अशरणः शरणं गमिष्यामि ? । अथवा भट्टारक एव बुद्धो मे शरणम् । )

( प्रविश्य सखड्गेन विटेन सह । )

शकारः—चिट्ठ, ले दुट्ठशमणका ! चिट्ठ आवाणअ-मज्झ-पविट्ठश्श विअ लत्तमूलअश्श शीशं दे मोडइश्शं । (तिष्ठ रे दुष्टश्रमणक ! तिष्ठ । आपानक-मध्य-प्रविष्टस्येव रक्तमूलकस्य शीर्षं ते भङ्क्ष्यामि । ) ( इति ताडयति । )


अर्थ—यह वस्त्र कसैले=गेरुआ रंग के पानी को सोख चुका है, ( रंग गया है ) तो अब राजा के शाले के बगीचे में घुस कर पुष्करिणी पोखरी में धोकर जल्दी ही भाग चलूँगा । ( घूमकर वैसा ही करता है । )

( पर्दे के पीछे से )

अर्थशकारः—रुक जा दुष्ट बौद्ध संन्यासी, रुक जा ।

भिक्षु—( देख कर भय के साथ ) आश्चर्य है, यह तो राजा का ( दुष्ट ) शाला संस्थानक आ गया । किसी एक भिक्षुक के अपराध करने पर जहाँ कहीं भी जिस किसी भी भिक्षुक को देखता है वहाँ वहाँ बैल के समान [ उसकी ] नाक को छेद कर बाहर भगा देता है । इसलिये बेसहारा अब मैं किसकी शरण में जाऊँ ? अथवा स्वामी बुद्ध ही मेरे रक्षक हैं ।

शब्दार्थ—आपानक=मदिरा पीने वालों की गोष्ठी, रक्तमूलकस्य=लाल मूली ( ताजी मूली ) के, भङ्क्ष्यामि=काट डालूँगा, निर्वेदधूतकषायम्=वैराग्य के कारण गेरुआ रंग के कपड़े पहनने वाले, सुखोपगम्यम्=आनन्दपूर्वक सेवन करने योग्य ।

( तलवारधारी विट के साथ प्रवेश करके )

अर्थशकार—रुक जा दुष्ट बौद्ध संन्यासी ! रुक जा । मदिरा पीने वालों के बीच में रखी हुई लाल (ताजी) मूली के समान तेरा शिर काट डालूँगा । [ काट डालता हूँ । ] [ यह कह कर पीटता है । ]

४३० | मृच्छकटिकम्

विटः--काणेलीमातः ! न युक्तं निर्वेद-धृत-कषायं भिक्षुं ताडयितुम्। तत् किमनेन। इदं तावत् सुखोपगम्यमुद्यानं पश्यतु भवान्।

अशरण-शरण-प्रमोदभूतैर्वनतरुभिः क्रियमाण-चारु-कर्म।
हृदयमिव दुरात्मनामगुप्तं नवमिव राज्यमनिर्जितोपभोग्यम् ॥ ४ ॥

[विट--काणेली के बच्चे ! वैराग्य के कारण गेरुआ रंग के वस्त्र धारण करने वाले संन्यासी को पीटना ठीक नहीं है। तो इससे क्या लाभ ? आनन्दपूर्वक उपभोग करने योग्य इस बगीचे को आप देखिये।

अन्वयः-- अशरणशरणप्रमोदहेतुभूतैः, वनतरुभिः, क्रियमाणचारुकर्म, दुरात्मनाम्, हृदयम्, इव, अगुप्तम्, नवम्, राज्यम्, इव, अनिर्जितोपभोग्यम्, [ इदम्, उद्यानम्, पश्यतु ] ॥ ४ ॥

शब्दार्थ-- अशरण-शरण-प्रमोद-हेतुभूतैः = बेघर लोगों के घर और आनन्दस्वरूप, वनतरुभिः = जगल के वृक्षों के द्वारा, क्रियमाणचारुकर्म = जिसमें सुन्दर कार्य किया जा रहा है ऐसे, दुरात्मनाम् = दुष्टों के, हृदयम् इव = हृदय के समान, अगुप्तम् = अनियन्त्रित, नवम् = नये, राज्यम् इव = राज्य के समान, अनिर्जितोपभोग्यम् = उपभोगयोग्य सभी वस्तुओं को समुचित रूप से वश में न किये गये, [ इदम् = इस, उद्यानम् = बगीचे को, पश्यतु = देखिये ] ॥ ४ ॥

अर्थ-- बेघर लोगों के घर और आनन्दस्वरूप वन के वृक्षों के द्वारा जिसमें सुन्दर कार्य किया जा रहा है, जो दुष्टों के हृदय के समान अनियन्त्रित [ स्वेच्छया विहारयोग्य ] है, जो नये [ तत्काल-प्राप्त ] राज्य के समान उपभोगयोग्य वस्तुओं को अच्छी तरह वश में नहीं किये हुये हैं, अथवा बिना जीता हुआ और सभी के उपभोग के योग्य है, ऐसे बगीचे को देखिये ॥ ४ ॥

टीका-- विटः उद्यानस्य सुखोपगम्यतां प्रतिपादयति-अशरणेति। अशरणानाम् = गृहरहितानाम्, 'शरणं गृहरक्षितोः' इत्यमरः, शरणैः = आश्रयैः, तथा प्रमोदहेतुभूतैः = आनन्दस्वरूपैः वनतरुभिः = उद्यानस्थवृक्षैः, क्रियमाणम् = सम्पाद्यमानम्, चारु = रमणीयम्, कर्म = कार्यम्, [ पुष्पफलादिदानात् छायादिदानाच्चेति भावः, ] यत्र, तादृशम्, दुरात्मनाम् = दुष्टानाम्, हृदयम् = चित्तम्, इव = तुल्यम्, अगुप्तम् = अनियन्त्रितम्, स्वेच्छापूर्वकविहारयोग्यम्, तथा, नवम् = नवीनम्, सद्य एव विजितम्, राज्यम् = साम्राज्यम्, इव = यथा, अनिर्जितम् = शासनेन अनायतीकृतम्, उपभोग्यम् = सर्वजनभोगयोग्यम्, इदम्, उद्यानं पश्यतु भवानिति गद्यस्थेनान्वयः कार्यः। उपमालंकारः, पुष्पिताग्रा वृत्तम् ॥ ४ ॥

शब्दार्थ-- उपासकः = सेवा करने वाला, बुद्ध का पुजारी, आक्रोशति = गाली दे रहा है, धन्यः = प्रशंसनीय, पुण्यः = पवित्र, श्रावकः = स्तुतिकर्ता चारण, कोष्ठकः =

अष्टमोऽङ्कः ४३१

भिक्षुः—शाभदं। पशोददु उवाशके। (स्वागतम्, प्रसीदतु उपासकः।)

शकारः—भावे! पेक्ख, पेक्ख, आक्क्रोशदि मं। (भाव! प्रेक्षस्व प्रेक्षस्व, आक्रोशति माम्।)

विटः—किं ब्रवीति?

शकारः—उवाशके त्ति मं भणादि। किं हग्गे णाविदे? (उपासक इति मां भणति। किमहं नापितः?)

विटः—बुद्धोपासक इति भवन्तं स्तौति।

शकारः—थुणु, शमणका! थुणु। (स्तुहि श्रमणक! स्तुहि।)

भिक्षुः—तुमं धण्णे, तुमं पुण्णे। (त्वं धन्यः, त्वं पुण्यः।)

शकारः—भावे! धण्णे पुण्णे त्ति मं भणादि। किं हग्गे शलावके, कोष्टके, कोम्भकाले वा? (भाव! धन्यः पुण्य इति मां भणति। किमहं श्रावकः, कोष्ठकः, कुम्भकारो वा?)

विटः—काणेलीमातः! ननु धन्यस्त्वं पुण्यस्त्वमिति भवन्तं स्तौति।

शकारः—भावे! ता कीश एशे इध आगदे? (भाव! तत् केन एष इहागतः?)


भण्डारी या जुआरी, कुम्भकारः=कुम्हार, प्रवरम्=श्रेष्ठ, भगिनीपतिना=बहनोई, पुराणकुलत्थयूषशबलानि=पुरानी कुलथी के घोल के समान रंगवाली, दूष्यगन्धीनि=दुर्गन्धयुक्त, चीवराणि=वस्त्रों को, प्रक्षालयसि=धोते हो, अचिरप्रव्रजितेन=शीघ्र ही संन्यासी बना हुआ, एकप्रहारिकम्=एक ही प्रहार से समाप्त होने योग्य।

अर्थभिक्षु—आपका स्वागत है, उपासक प्रसन्न हो।

शकार—भाव (श्रीमन्)! देखो, देखो गाली दे रहा है।

विट—क्या कह रहा है?

शकार—मुझे उपासक [सेवक] ऐसा कह रहा है। क्या मैं नाई हूँ?

विट—बुद्ध के उपासक=सेवक—ऐसी स्तुति करता है।

शकार—स्तुति करो, स्तुति करो।

भिक्षु—तुम धन्य हो, तुम पुण्यवान् हो।

शकार—भाव! मुझे धन्य, पुण्य ऐसा कह रहा है। तो क्या मै स्तुति करने वाला चारण हूँ, या भण्डारी=जुआरी हूँ या कुम्हार हूँ?

विट—काणेली के बच्चे! 'तुम धन्य हो, पुण्यवान् हो' ऐसा कह कर तुम्हारी स्तुति करता है।

शकार—भाव! तो यह किस लिये यहाँ आया?

४३२ | मृच्छकटिकम्

भिक्षुः--इदं चीवलं पक्खालिदुं । ( इदं चीवरं प्रक्षालयितुम् । )

शकारः--अले दुट्ठशमणका ! एशे मह बहिणीपदिणा शव्वुज्जाणाणं पवले पुप्फकलण्डुज्जाणे, दिण्णे, जर्हि दाव शुणहका शिआला पाणिअं पिअन्ति । हग्गे वि पिवलपुरिशे मणुश्शके ण व्हाआमि । तर्हि तुमं पुक्खलिणीए पुलाणकुलुत्थ-जूश-शवलाइं दुश्श-गन्धिआई चीवलाइं पक्खलेशि । ता तुमं एक्कपहालिअं कलेमि । ( अरे दुष्टश्रमणक ! एतन्मम भगिनीपतिना सर्वोद्यानानां प्रवरं पुष्पकरण्डकोद्यानं दत्तम्, यस्मिन् तावत् शुनकाः शृगालाः पानीयं पिबन्ति, अहमपि प्रवरपुरुषो मनुष्यको न स्नामि । तत्र त्वं पुष्करिण्यां पुराण-कुलत्थ-यूष-शबलानि दूष्यगन्धीनि चीवराणि प्रक्षालयसि । तत् त्वामेकप्रहारिकं करोमि । )

विटः--काणेलीमातः ! तथा तर्कयामि, यथा अनेन अचिरप्रव्रजितेन भवितव्यम् ।

शकारः--कथं भावे जाणादि ? ( कथं भावो जानाति ? )

विटः--किमत्र ज्ञेयम् । पश्य--

अद्याप्यस्य तथैव केशविरहाद् गौरी ललाटच्छविः, कालस्याल्पतया च चीवरकृतः स्कन्धे न जातः किणः । नाभ्यस्ता च कषाय-वस्त्र-रचना दूरं निगूढान्तरो वस्त्रान्तश्च पटोच्छ्रयात् प्रशिथिलं स्कन्धे न सन्तिष्ठते ॥ ५ ॥


भिक्षु—इस वस्त्र को धोने के लिये ।

शकार—अरे दुष्ट बौद्ध संन्यासी ! मेरी बहन के पति ने मुझे सभी उद्यानों में श्रेष्ठ यह पुष्पकरण्डक उद्यान दिया है जिसमें कुत्ते और सियार पानी पीते हैं । जिसमें मैं श्रेष्ठ पुरुष भी स्नान नहीं करता हूँ । उसमें पुष्करिणी=पोखरी ( तलैया ) में पुरानी कुलथी के घोल से रंगे हुये दुर्गन्धयुक्त वस्त्रों को धो रहे हो, इस लिये तुम्हें एक ही प्रहार से मार डालता हूँ ।

विट—काणेली के बच्चे ! मैं ऐसा सोचता हूँ कि यह अभी शीघ्र ही संन्यासी बना है ।

शकार—भाव ! आप कैसे जानते हैं ?

अन्वयः--अस्य, ललाटच्छविः, अद्य, अपि, केशविरहात्, तथैव, गौरी, कालस्य, अल्पतया, स्कन्धे, चीवरकृतः, किणः, च, न, जातः, कषायवस्त्ररचना, च, न, अभ्यस्ता, दूरम्, निगूढान्तरम्, पटोच्छ्रयात्, प्रशिथिलम्, वस्त्रान्तम्, च, स्कन्धे, न, सन्तिष्ठते ॥ ५ ॥

अष्टमोऽङ्कः ४३३


शब्दार्थ—अस्य = इस बौद्ध भिक्षु की, ललाटच्छविः = मस्तक की कान्ति [ रूप ], अद्य = आज, अपि = भी, केशविरहात् = बालों के न होने [ मूड़े जाने ] के कारण, तथैव = पूर्ववत्, गौरी = गोरी [ सामान्य रंगवाली ] है, कालस्य = समय के, अल्पतया = कम होने के कारण, अर्थात् कुछ ही समय पहले संन्यासी बनने के कारण, स्कन्धे = कन्धे पर, चीवरकृतः = कपड़े [ पहनने ] के कारण किया गया, किणः = निशान, ढट्ठा, च = भी, न = नहीं, जातः = बन पाया है, कषायवस्त्ररचना = गेरुआ रंग के वस्त्र पहनना, च = भी, न = नहीं, अभ्यस्ता = अभ्यास कर पाया है, सीख पाया है, दूरम् = बहुत अधिक, निगूढान्तरम् = शरीर के मध्य भाग को ढकने वाला, पटोच्छ्रयात् = कपड़े की लम्बाई के कारण, प्रशिथिलम् = बहुत ढीला-ढाला, वस्त्रान्तम् = कपड़े का छोर, च = भी, स्कन्धे = कन्धे पर, न = नहीं, सन्तिष्ठते = रुक पा रहा है ॥ ५ ॥

अर्थ—विट— इसमें जानना क्या है ? देखिये—

इसके शिर की छवि ( रंग ) आज भी केशों के न होने से पहले के समान ही गोरी है । [ सामान्य रंग वाली है । ] थोड़ा ही समय बीतने के कारण इसके कन्धे पर कपड़े [ पहनने ] के कारण ढट्ठा ( निशान ) भी नहीं बन पाया है, गेरुआ वस्त्र पहनने का भी अभ्यास नहीं है । बहुत दूर तक शरीर के मध्य भाग को ढकने वाला, कपड़े की लम्बाई के कारण बहुत ढीला-ढाला, कपड़े का छोर [ किनारा ] भी कन्धे पर नहीं रुक पा रहा है ॥ ५ ॥

टीका—विटोऽचिर-प्रव्रजितत्वं प्रदर्शयति—अद्येति । अस्य = पुरोवर्त्तमानस्य भिक्षुकस्य, ललाटच्छविः = मस्तकस्य कान्तिः, केशविरहात् = केशानां मुण्डनात्, तथैव = संन्यासग्रहणात् पूर्वं यथासीत् तद्वदेव, गौरी = गौरवणां, उज्ज्वलेति भावः, इदमचिरमुण्डने एव सम्भवति । कालस्य = संन्यासग्रहणसमयस्य, अल्पतया = अचिरतया, सत्त्वरमेव प्रव्रजितत्वेनेत्यर्थः, स्कन्धे = अंसदेशे, चीवरकृतः = भिक्षुवस्त्र-विशेषधारणेन कृतः, किणः = चिह्नविशेषः शुष्कव्रणमिति भावः, च, न = नैव, जातः = सम्पन्नः, कषायवस्त्ररचना = कषायवस्त्रधारणम्, वसनानां कषायीकरणं वा, न = नैव अभ्यस्ता = परिशिक्षिता, दूरम् = अत्यधिकम्, निगूढम् = आच्छादितम् अन्तरम् = शरीरमध्यदेशः, येन तादृशम्, वस्त्रान्तम् = चीवरस्य अन्तभागः, पटोच्छ्रात् = वस्त्रदैर्ध्यात्, प्रशिथिलम् = श्लथत्वं प्राप्तम्, अत एव, स्कन्धे = अंसे, न = नैव, सन्तिष्ठते = स्थातुं प्रभवतीति भावः । अत्रानुमानमलङ्कारः, शार्दूलविक्रीडितं वृत्तम् ॥ ५ ॥

विमर्श—नवीन बौद्ध संन्यासी का सुन्दर चित्रण है ॥ ५ ॥

२८ मृ०

४३४मृच्छकटिकम्

भिक्षुः—उवाशके ! एव्वं, अचिल-पव्वजिदे हग्गे । ( उपासक ! एवम्, अचिरप्रव्रजितोऽहम् । )

शकारः—ता कीश तुमं जातमेत्तक ज्जेव ण पव्वजिदे ? ( तत् केन त्वं जातमात्र एव न प्रव्रजितः ? ) ( इति ताडयति । )

भिक्षुः—णमो बुद्धश्श । ( नमो बुद्धाय । )

विटः—किमनेन ताडितेन तपस्विना ? मुच्यतां, गच्छतु ।

शकारः—अले ! चिट्ठ दाव, जाव शम्पधालेमि । ( अरे ! तिष्ठ तावत् यावत् सम्प्रधारयामि । )

विटः—केन सार्द्धम् ?

शकारः—अत्तणो हडक्केण । ( आत्मनो हृदयेन । )

विटः—हन्त ! न गतः ।

शकारः—पुत्तका हडक्का ! भट्टके ! पुत्तके ! एशे शमणके अवि णाम किं गच्छदु, किं चिट्ठदु ? ( स्वगतम् ) णावि गच्छदु, णावि चिट्ठदु । ( प्रकाशम् ) भावे ! शम्पधालिदं मए हडक्केण शह । एशे मह हडक्के भणादि । ( पुत्रक हृदय ! भट्टारक ! पुत्रक ! एष श्रमणकः अपि नाम किं गच्छतु, किं तिष्ठतु ?) (नापि गच्छतु, नापि तिष्ठतु ।) (भाव ! सम्प्रधारितं मया हृदयेन सह । एतन्मम हृदयं भणति । )

विटः—किं ब्रवीति ?


अर्थभिक्षु—उपासक ! ऐसा ही है, मैंने कुछ ही पहले संन्यास-ग्रहण किया है।

शकार—तो तुम पैदा होते ही संन्यासी क्यों नहीं बन गये ? ( ऐसा कह कर पीटने लगता है । )

भिक्षु—बुद्ध भगवान को नमस्कार ।

विट—इस बेचारे संन्यासी को पीटने से क्या लाभ ? छोड़ दीजिये, यहाँ से चला जाय ।

शकार—अरे रुक जा जब तक मैं निश्चय करता हूँ ।

विट—किसके साथ ?

शकार—अपने हृदय के साथ ।

विट—हाय ! नहीं गया ।

शकार—बेटा हृदय ! स्वामी ! पुत्रक ! क्या यह बौद्ध संन्यासी चला जाय अथवा रुका रहे ? ( अपने में ) न जाये न रुके ( प्रकट में ) भाव ! मैंने मन के साथ सोच लिया । मेरा मन यह कह रहा है ।

विट—क्या कह रहा है ?

अष्टमोऽङ्कः ४३५

शकारः— मावि गच्छदु, मावि चिट्ठदु, मावि ऊश्शशदु, मावि णीशशदु। इध ज्जेव झत्ति पड़िअ मलेदु। (मापि गच्छतु, मापि तिष्ठतु, मापि उच्छ्वसितु, मापि निःश्वसितु। इहैव झटिति पतित्वा म्रियताम्।)

भिक्षुः— णमो बुद्धश्श। शलणागदेम्हि। (नमो बुद्धाय। शरणागतोऽस्मि।)

विटः— गच्छतु।

शकारः— ...णं शमएण। (ननु समयेन।)

विटः— कीदृशः समयः?

शकारः— तधा कद्दमं फेलदु, जहा पाणिअं पङ्काइलं ण होदि। अथवा पाणिअं पुञ्जीकदुअ कद्दमे फेलदु। (तथा कर्दमं क्षिपतु, यथा पानीयं पङ्काविलं न भवति। अथवा पानीयं पुञ्जीकृत्य कर्दमे क्षिपतु।)

विटः— अहो मूर्खता?

विपर्यस्तमनश्चेष्टैः शिला-शकल-वर्ष्मभिः।
मांसवृक्षैरियं मूर्खैर्भाराक्रान्ता वसुन्धरा ॥ ६ ॥


शकार— न जाय, न रुके, न उच्छ्वास ले, न निश्वास ले, यहीं शीघ्र गिर कर मर जाय।

भिक्षु— भगवान् बुद्ध को प्रणाम। मैं शरण में आया हूँ।

विट— चला जाय।

शकार— शर्त के साथ।

विट— कैसी शर्त?

शकार— उस प्रकार से कींचड़ फेके जिससे पानी गन्दा न हो, अथवा पानी को इकट्ठा करके कीचड़ में फेंके।

अन्वयः— विपर्यस्तमनश्चेष्टैः, शिलाशकलवर्ष्मभिः मांसवृक्षैः, मूर्खैः, इयम्, धरा, भाराक्रान्ता, अस्ति ॥ ६ ॥

शब्दार्थ— विपर्यस्तमनश्चेष्टै = विपरीत = अव्यवस्थित मन और कार्य वाले, शिलाशकलवर्ष्मभिः = पत्थर के टुकड़े के समान [मोटे या बेकार] शरीर वाले, मांसवृक्षैः = मांस के पेड़ों से, मांसमय पेड़ों से, मूर्खै = मूर्खों से, इयम् = यह, धरा = पृथिवी, भाराक्रान्ता = बोझ से दबी हुई, अस्ति = है ॥ ६ ॥

अर्थ—विट— अहो मूर्खता !

[लोक से] विपरीत मन और काम वाले, पत्थर के टुकड़े के समान शरीर वाले, मांस के वृक्ष मूर्खों से यह पृथ्‍वी बोझ से दबी हुई है ॥ ६ ॥

टीका— शकारस्य मूर्खतामयं वचनमाकर्ण्य विटः खेदं प्रकटयति-विपर्यस्तेति। विपर्यस्ते=विपरीते मनश्चेष्टे येषाम् यद्वा विपरीता=लोकविरुद्धा मनसः चेष्टा=

४३६मृच्छकटिकम्

( भिक्षुः नाट्येन आक्रोशति । )
शकारः—किं भणादि ? ( किं भणति ? )
विटः—स्तौति भवन्तम् ।
शकारः—थुणु थुणु, पुणा वि थुणु । ( स्तुहि, स्तुहि पुनरपि स्तुहि, )
( तथा कृत्वा निष्क्रान्तो भिक्षुः । )
विटः – काणेलीमातः ! पश्योद्यानस्य शोभाम् ।

अमी हि वृक्षाः फल-पुष्प-शोभिताः कठोर-निष्पन्द-लतोपवेष्टिताः ।
नृपाज्ञया रक्षिजनेन पालिता नरा सदारा इव यान्ति निर्वृतिम् ॥ ७ ॥

व्यापारो येषां तादृशैरित्यपि केचिदाहुः तन्न समीचीनम्, चेष्टायाः करचरणादि-व्यापाररूपत्वात्, शिलाशकलानि=पाषाणखण्डानि एव वर्ष्मणि=शरीराणि येषां तैः अतिनिर्दयैरित्यर्थः, मांसवृक्षैः=मासस्य पादपैः मांसमयमहीरुहैः, मूर्खैः=मूढैः, इयम्=पुरो वर्तमाना, वसुन्धरा=रत्नप्रसूः पृथिवी, भाराक्रान्ता=भारेण कष्टयुक्तेति भावः । अत्र रूपकमलङ्कारः, पथ्यावक्त्रं वृत्तम् ॥ ६ ॥

अर्थ— ( भिक्षु अभिनय के साथ गाली देता है । )
शकार— क्या कहता है ?
विट— आपकी स्तुति करता है ।
शकार— स्तुति करो, स्तुति करो, फिर स्तुति करो ।
( वैसा करके भिक्षुक चला जाता है । )

अन्वयः— फलपुष्पशोभिताः, कठोर-निष्पन्दलतोप-वेष्टिताः, अमी, वृक्षाः, नृपाज्ञया, रक्षिजनेन, पालिताः, सदाराः, नराः, इव, निर्वृतिम्, यान्ति ॥ ७ ॥

शब्दार्थ— फलपुष्पशोभिताः=फल और फूलों से शोभित, कठोरनिष्पन्दलतोप-वेष्टिताः=पुरानी होने से, कठोर=मोटी और निश्चल लताओं से घिरे हुये, अमी=ये, वृक्षाः=पेड़, नृपाज्ञया=राजा की आज्ञा से, रक्षिजनेन=वनरक्षकों के द्वारा, पालिताः=पालित=रक्षित, सदाराः=सपत्नीक, नराः=पुरुषों, इव=के समान, निर्वृतिम्=सुख को, यान्ति=प्राप्त कर रहे हैं ॥ ७ ॥

अर्थ—विट— काणेली के बच्चे ! बगीचे की शोभा देखो —
फल और फूलों से शोभायमान, पुरानी अत एव मोटी तथा निश्चल लताओं के द्वारा घिरे हुये ये वृक्ष, राजा की आज्ञा से रक्षकों द्वारा परिपालित=संरक्षित सपत्नीक पुरुषों के समान सुख प्राप्त कर रहे हैं ॥ ७ ॥

टीका— शृङ्गाररसाभिमुखं शकारं कर्तुमुद्यानस्य शोभां वर्णयति विटः- अमीति । फलैः=ऋतुभवैः फलैः पुष्पैश्च उपशोभिताः=समलंकृताः, कठोराभिः=प्राचीनतया परिपुष्टाभिः, स्थूलाभिरित्यर्थः, लताभिः=व्रततिभिः, उपवेष्टिताः=

अष्टमोऽङ्कः ४३७

शकारः—शुट्ठु भावे भणादि । ( सुष्ठु भावो भणति । )

बहु-कुशुम-विचित्तदा अ भूमी कुशुम-भलेण विणामिदा अ लुक्खा । दुम-शिहल-लदा-अ-लम्बमाणा पणश-फला विश वाणला ललन्ति ॥ ८ ॥ ( बहुकुसुमविचित्रिता च भूमिः कुसुमभरेण विनामिताश्च वृक्षाः । द्रुम-शिखर-लताव-लम्बमानाः पनसफलानीव वानरा ललन्ति ॥ ८ ॥ )


**समन्तादालिङ्गिताः, अमी=**एते, **वृक्षाः,=**तरवः, **नृपाज्ञया=**राज्ञोऽनुशासनेन, **आदेशेन वा, रक्षिजनैन=**रक्षकलोकेन, **पालिताः=**रक्षिताः, पोषिताः, **सदाराः=**सपत्नीकाः **नराः=**पुरुषाः, **इव=**तुल्याः, **निर्वृतिम्=**सुखम्, **यान्ति=**लभन्ते । अत्र वृक्षाणां नरैः सह साम्यबोधनादुपमालंकारः, वंशस्थबिलं वृत्तम् ॥ ७ ॥

**अन्वयः—**भूमिः, बहुकुसुमविचित्रिता, वृक्षाः, च, कुसुमभरेण, विनामिताः, द्रुमशिखरलतावलम्बमानाः, वानराः, पनसानि, इव, ललन्ति ॥ ८ ॥

**शब्दार्थ—**भूमिः=पृथ्वी, बहुकुसुमविचित्रिता=[ गिरे हुये ] बहुत से फूलों से रंग विरंगी, ( हो गयी है ।) च=और, वृक्षाः=पेड़, कुसुमभरेण=फूलों के भार से, विनामिताः=झुकाये हुये, ( हो गये हैं), द्रुमशिखर-लतावलम्बमानाः=पेड़ों की चोटी की लताओं में लटकने वाले, वानराः=बन्दर, पनसफलानि=कटहल के फल, इव=के समान, ललन्ति=अच्छे लग रहे हैं ॥ ८ ॥

**अर्थ—शकार—**भाव ! आप ठीक ही कहते हैं—

पृथ्वी (गिरे हुये) अनेक फूलों के कारण रंग बिरंगी हो गयी है, और पेड़ फूलों के बोझ से झुकाये हुये हो गये हैं, पेड़ों की चोटियों की लताओं पर लटकने वाले बन्दर कटहल के फल के समान अच्छे लग रहे हैं ॥ ८ ॥

**टीका—**शकारोऽपि स्वबुद्धयनुकूलं सौन्दर्यं वर्णयति-बहुकुसुमेति । **भूमिः=**उद्यानस्य पृथ्वी, **बहुभिः=**पतितैरनेकविधैः, **पुष्पैः=**सुमनोभिः, **विचित्रिता=**शबलिता, विविधवर्णेति भावः, **कुसुमभरेण=**पुष्पाणां भारेण, **विनामिताः=**अवनामिताः, सञ्जाताः, **द्रुमाणां=**वृक्षाणाम्, **ये शिखराः=**अग्रभागाः, **तेषु याः लताः=**व्रततयः, **तासु अवलम्बमानाः=**दोलायमानाः, **वानराः=**कपयः, **पनसफलानि=**कण्टकि-फलानि भाषायाम् 'कटहल' इति प्रसिद्धम्, **इव=**यथा, **ललन्ति=**शोभन्ते । उत्प्रेक्षालंकारः, पुष्पिताग्रा वृत्तम् ॥ ८ ॥

विमर्श—'ललन्ति' इस प्राकृत का संस्कृत रूप 'लोलन्ति' ही शुद्ध है । अथवा स्वार्थिक णिच् करके लययन्ति या लालयन्ति ऐसा भी माना जा सकता है ।

'नम' धातु मित् है अतः ह्रस्व होने से 'विनमिता' यह होना चाहिये ? इसका समाधान यह है कि 'विनामाः कृताः' इस अर्थ में घञन्त 'विनाम' से यह नामधातु का रूप 'तत्करोति तदाचष्टे' इस वातिक से सम्भव है । बन्दरों में कटहल की सम्भावना के कारण उत्प्रेक्षा अलंकार है ॥ ८ ॥