मृच्छकटिकम् (सटीक संस्कृत नाटक)
Mricchakatikam with Sanskrit-Hindi Commentary
महाराज शूद्रक / पं. जयशंकर लाल त्रिपाठी द्वारा
अष्टमोऽङ्कः ४३७
शकारः—शुट्ठु भावे भणादि । ( सुष्ठु भावो भणति । )
बहु-कुशुम-विचित्तदा अ भूमी कुशुम-भलेण विणामिदा अ लुक्खा । दुम-शिहल-लदा-अ-लम्बमाणा पणश-फला विश वाणला ललन्ति ॥ ८ ॥ ( बहुकुसुमविचित्रिता च भूमिः कुसुमभरेण विनामिताश्च वृक्षाः । द्रुम-शिखर-लताव-लम्बमानाः पनसफलानीव वानरा ललन्ति ॥ ८ ॥ )
**समन्तादालिङ्गिताः, अमी=**एते, **वृक्षाः,=**तरवः, **नृपाज्ञया=**राज्ञोऽनुशासनेन, **आदेशेन वा, रक्षिजनैन=**रक्षकलोकेन, **पालिताः=**रक्षिताः, पोषिताः, **सदाराः=**सपत्नीकाः **नराः=**पुरुषाः, **इव=**तुल्याः, **निर्वृतिम्=**सुखम्, **यान्ति=**लभन्ते । अत्र वृक्षाणां नरैः सह साम्यबोधनादुपमालंकारः, वंशस्थबिलं वृत्तम् ॥ ७ ॥
**अन्वयः—**भूमिः, बहुकुसुमविचित्रिता, वृक्षाः, च, कुसुमभरेण, विनामिताः, द्रुमशिखरलतावलम्बमानाः, वानराः, पनसानि, इव, ललन्ति ॥ ८ ॥
**शब्दार्थ—**भूमिः=पृथ्वी, बहुकुसुमविचित्रिता=[ गिरे हुये ] बहुत से फूलों से रंग विरंगी, ( हो गयी है ।) च=और, वृक्षाः=पेड़, कुसुमभरेण=फूलों के भार से, विनामिताः=झुकाये हुये, ( हो गये हैं), द्रुमशिखर-लतावलम्बमानाः=पेड़ों की चोटी की लताओं में लटकने वाले, वानराः=बन्दर, पनसफलानि=कटहल के फल, इव=के समान, ललन्ति=अच्छे लग रहे हैं ॥ ८ ॥
**अर्थ—शकार—**भाव ! आप ठीक ही कहते हैं—
पृथ्वी (गिरे हुये) अनेक फूलों के कारण रंग बिरंगी हो गयी है, और पेड़ फूलों के बोझ से झुकाये हुये हो गये हैं, पेड़ों की चोटियों की लताओं पर लटकने वाले बन्दर कटहल के फल के समान अच्छे लग रहे हैं ॥ ८ ॥
**टीका—**शकारोऽपि स्वबुद्धयनुकूलं सौन्दर्यं वर्णयति-बहुकुसुमेति । **भूमिः=**उद्यानस्य पृथ्वी, **बहुभिः=**पतितैरनेकविधैः, **पुष्पैः=**सुमनोभिः, **विचित्रिता=**शबलिता, विविधवर्णेति भावः, **कुसुमभरेण=**पुष्पाणां भारेण, **विनामिताः=**अवनामिताः, सञ्जाताः, **द्रुमाणां=**वृक्षाणाम्, **ये शिखराः=**अग्रभागाः, **तेषु याः लताः=**व्रततयः, **तासु अवलम्बमानाः=**दोलायमानाः, **वानराः=**कपयः, **पनसफलानि=**कण्टकि-फलानि भाषायाम् 'कटहल' इति प्रसिद्धम्, **इव=**यथा, **ललन्ति=**शोभन्ते । उत्प्रेक्षालंकारः, पुष्पिताग्रा वृत्तम् ॥ ८ ॥
विमर्श—'ललन्ति' इस प्राकृत का संस्कृत रूप 'लोलन्ति' ही शुद्ध है । अथवा स्वार्थिक णिच् करके लययन्ति या लालयन्ति ऐसा भी माना जा सकता है ।
'नम' धातु मित् है अतः ह्रस्व होने से 'विनमिता' यह होना चाहिये ? इसका समाधान यह है कि 'विनामाः कृताः' इस अर्थ में घञन्त 'विनाम' से यह नामधातु का रूप 'तत्करोति तदाचष्टे' इस वातिक से सम्भव है । बन्दरों में कटहल की सम्भावना के कारण उत्प्रेक्षा अलंकार है ॥ ८ ॥
| ४३८ | मृच्छकटिकम् |
|---|
विटः—काणेलीमतः ! इदं शिलातलमध्यास्यताम् ।
शकारा—एशे म्हि आशिदे । ( इति विटेन सह उपविशति ) भावे ! अज्ज वि तं वशन्तशेणिअं शुमरामि; दुज्जण-वअण विअ हडककादो ण ओशलदि । ( एषोऽस्मि आसितः । भाव ! अद्यापि तां वसन्तसेनां स्मरामि, दुर्जनवचनमिव हृदयान्नापसरति । )
विटः—( स्वगतम् ) तथा निरस्तोऽपि स्मरति ताम् । अथवा—
स्त्रीभिर्विमानितानां कापुरुषाणां विवर्द्धते मदनः ।
सत्पुरुषस्य स एव तु भवति मृदुर्नैव वा भवति ॥ ६ ॥
शकारः—भावे ! कावि वेला थावडकचेडश्श भणिदश्श 'पवहणं
अर्थ—विट—काणेली के बच्चे ! इस शिलाखण्ड पर बैठ जाओ ।
शकार—लो बैठ गया । ( विट के साथ बैठ जाता है । ) भाव ! आज भी उस वसन्तसेना को याद कर रहा हूँ । दुष्ट के वचन के समान वह हृदय से नहीं निकल रही है ।
अन्वयः—स्त्रीभिः, विमानितानाम्, कापुरुषाणाम्, मदनः, विवर्धते, तु, सत्पुरुषस्य, सः, एव, मृदुः, भवति, न, वा, भवति ॥ ६ ॥
शब्दार्थ—स्त्रीभिः=स्त्रियों के द्वारा, विमानितानाम्=अपमानित किये गये, कापुरुषाणाम्=कायर या नीच पुरुषों का, मदनः=काम-विकार, विवर्धते=और अधिक बढ़ता है, तु=परन्तु, सत्पुरुषस्य=सज्जन पुरुष का, सः=वह, काम, एव=ही, मृदुः=कमजोर, क्षीण, भवति=हो जाता है, न वा=अथवा नहीं, भवति=होता है ॥ ६ ॥
अर्थ—विट—( अपने में ) उस प्रकार से अपमानित ( होकर ) भी उस ( वसन्तसेना ) को याद कर रहा है । अथवा—
स्त्रियों द्वारा अपमानित ( तिरस्कृत ) नीच पुरुषों का कामविकार और अधिक बढ़ता है । लेकिन सज्जन पुरुषों का वही कामविकार क्षीण हो जाता है अथवा नहीं रह जाता है ॥ ६ ॥
टीका—कामविकारविषये शकारस्य निकृष्टत्वमुपपादयति—स्त्रीभिरिति । स्त्रीभिः=कामिनीभिः, विमानितानाम्=तिरस्कृतानाम्, उपेक्षितानामिति भावः, मदनः=कामविकारः, विवर्धते=भृशं वृद्धिं प्राप्नोति, तु=परन्तु, सत्पुरुषस्य=सज्जनस्य, स्त्रीभिरपमानितस्येति भावः, स एव=पूर्वोक्तः कामविकार एव, मृदुः=क्षीणः, भवति=जायते, नवा=अथवा नैव, भवति=उत्पद्यते, समाप्तिमुपगच्छति, तेन वैराग्यादियुताः जायन्ते इति भावः । अप्रस्तुतप्रशंसालंकारः, आर्या वृत्तम् ॥ ९ ॥
अर्थ—शकार—भाव ! ( श्रीमन् ! ) स्थावरक सेवक से यह कहे हुये
अष्टमोऽङ्कः ४३९
गेण्हिअ लहुं लहुं आगच्छे'त्ति। अज्ज वि ण आगच्छदि त्ति, चिरम्हि बुभुक्खिदे। मज्झण्हहे ण शक्कीअदि पादेहिं गन्तुं। ता पेक्ख पेक्ख— (भाव! कापि वेला स्थावरकचेटस्य भणितस्य प्रवहणं गृहीत्वा लघु लघु आगच्छेति। अद्यापि नागच्छतीति चिरमस्मि बुभुक्षितः। मध्याह्ने न शक्यते पादाभ्यां गन्तुम्। पश्य पश्य—)
णभोमज्झगदे शूले दुप्पेक्खे कुविद-वाणल-शलिच्छे।
भूमीदढ़-शन्तत्ता हदपुत्तशदे व्व गन्धाली ॥ १० ॥
(नभोमध्यगतः सूरो दुष्प्रेक्ष्यः कुपितवानरसदृशः।
भूमिर्दृढसन्तप्ता हतपुत्रशतेव गान्धारी ॥ १० ॥)
विटः—एवमेतत्—
छायासु प्रतिमुक्तशष्पकवलं निद्रायते गोकुलं
तृष्णार्तैश्च निपीयते वनमृगैरूष्णं पयः सारसम्।
कितना समय बीत चुका है कि 'गाड़ी लेकर जल्दी ही आ जाना।' अभी भी नहीं आया है। मैं बहुत देर से भूखा हूँ। दोपहर में पैदल जाया नहीं जा सकता। देखो देखो—
अन्वयः— नभोमध्यगतः, सूर्यः, कुपितवानरसदृशः, दुष्प्रेक्ष्यः, [अस्ति], हतशतपुत्रा, गान्धारी, इव, भूमिः, दृढसन्तप्ता [जाता अस्ति।] ॥ १० ॥
शब्दार्थः— नमोमध्यगतः = आकाश के मध्यभाग में स्थित, सूर्यः = सूरज, कुपितवानर-सदृशः = क्रुद्ध बन्दर के समान, दुष्प्रेक्ष्यः = कष्ट से देखने योग्य [हो गया है], हतशतपुत्रा = मरे हुये सो पुत्रों वाली, गान्धारी = दुर्योधन की माता, इव = के समान, भूमिः = जमीन, दृढसन्तप्ता = बहुत तपी हुई [गान्धारीपक्ष में दुःखी] हो गयी है ॥१०॥
अर्थ— आकाश के मध्यभाग में स्थित सूर्य क्रुद्ध वानर के समान कष्ट से देखने योग्य हो गया है। मरे हुये सौ पुत्रों वाली गान्धारी के समान पृथ्वी बहुत सन्तप्त [गरम, गान्धारी-पक्ष में दुखी] हो गई है॥ १० ॥
टीका— मध्याह्नस्यासहनीयावस्थां वर्णयति—नभ इति। नभसः = आकाशस्य, मध्ये = मध्यभागे गतः = विद्यमानः, सूर्यः = दिवाकरः, कुपितेन = क्रुद्धेन, वानरेण = कपिना, सदृशः = सदृशः, दुष्प्रेक्ष्यः = दुखेन द्रष्टुं योग्यः, जातोऽस्ति, हतम् = महाभारतयुद्धे मारितं पुत्राणाम् = सुतानाम्, शतम् = शतसंख्याकं यस्याः सा, तादृशी, गान्धारी = दुर्योधनजननी, इव = यथा, भूमिः = पृथ्वी, दृढम् = भृशं सन्तप्ता = उष्णा, गान्धारीपक्षे - दुःखयुक्ता जातेति भावः। उपमाऽलंकारः, भार्याजातिवृत्तम् ॥ १० ॥
अन्वयः——गोकुलम्, छायासु, प्रतिमुक्तशष्पकवलम्, निद्रायते, तृष्णार्तैः, वन्यमृगैः, च, उष्णम्, सारसम्, पयः, निपीयते, सन्तापात्, अतिसङ्कुचितैः, नरैः, वबरी-
४४० मृच्छकटिकम्
सन्तापादतिशङ्कितैर्न नगरीमार्गो नरैः सेव्यते तप्तां भूमिमपास्य च प्रवहणं मन्ये क्वचित् संस्थितम् ॥ ११ ॥
शकारः--भावे !
शिलशि मम णिलीणे भाव ! शुज्जश्श पादे शउणि-खग-विहङ्गा लुक्खशाहाशु लीणा । णल-पुलिश-मणुश्शा उण्हदीहं शशन्ता घल-शलण-णिशण्णा आदपं णिव्वहन्ति ॥ १२ ॥
मार्गः, न, सेव्यते, [ अतः ], मन्ये, तप्ताम्, भूमिम्, अपास्य, प्रवहणम्, क्वचित् संस्थितम्, [ अस्ति ] ॥ ११ ॥
**शब्दार्थ--**गोकुलम्=गायों का झुण्ड, छायासु=छाया में, प्रतिमुक्तशष्पकवलम्=घास का चरना छोड़ता हुआ, निद्रायते=नींद ले रहा है, ( ऊँघ रहा है । ), च=और, तृष्णार्तैः=प्यास से व्याकुल, वनमृगैः=जंगली जानवरों के द्वारा, उष्णम्=गरम, सारसम्=तालाब का, पयः=पानी, पीयते=पिया जा रहा है । सन्तापात्=गरमी के कारण, अतिशङ्कितैः=अत्यधिक शंकाग्रस्त, नरैः=लोगों के द्वारा, नगरी-मार्गः=नगर की सड़क राजपथ, न=नहीं, सेव्यते=प्रयुक्त की जा रही है, अतः, मन्ये=सोंचता हूँ, कि, तप्ताम्=गरम, भूमिम्=पृथ्वी को, अपास्य=छोड़कर, प्रवहणम्=बैलगाड़ी, क्वचित्=कहीं, ठण्डी जगह, संस्थितम्=खड़ी हो गयी है ॥ ११ ॥
टीका शकारोक्तं मध्याह्नसन्तापं समर्थयन् विटोऽपि प्रवहणानागमने विलम्बहेतुं प्रतिपादयति-छायास्विति । गोकुलम्=गवां कुलम् गोपदेन स्त्री-पुंसयोरुभयोर्ग्रहणमिति बोध्यम्, छायासु=अनातपेषु, प्रतिमुक्ताः=परित्यक्ताः शष्पकवलाः=अर्धोपभुक्त-नवतृणग्रासाः, येन यत्र वा तद् यथा, स्यात् तथा, [क्रियाविशेषणम्] निद्रायते=निद्रामनुभवति, विश्राम्यतीति भावः, तृष्णार्तैः=पिपासितैः, वनमृगैः=आरण्यपशुभिः, उष्णम्=सूर्य-किरण-प्रभावात् तप्तम्, सारसम्=सरोवर्ति, पयः=जलम्, निपीयते=निःशेषेण आस्वाद्यते, सन्तापात्=औष्ण्यात्, अतिशङ्कितैः=अतिशंकाग्रस्तैः, नरैः=लोकैः, नगर्याः=उज्जयिन्याः, मार्गः=पन्थाः, राजपथः, न=नैव, सेव्यते=आश्रीयते, तप्तं मुख्यमार्गं विहाय पथ्यासु गम्यते गृहे एव वा स्थीयते, अतः, मन्ये=सम्प्रधारयामि, तप्ताम्=उष्णाम्, भूमिम्=धराम्, अपास्य=परित्यज्य, प्रवहणम्=शकटयानम्, क्वचित्=कुत्रचित् शीतलस्थाने इति भावः, संस्थितम्=अवस्थितम् । अत्रोत्प्रेक्षा-स्वभावोक्त्यादीनां सङ्करः, शार्दूलविक्रीडितं वृत्तम् ॥ ११ ॥
**अन्वयः--**हे भाव !, सूर्यस्य, पादः, मम, शिरसि, निलीनः, ( अस्ति ), शकुनिखगविहङ्गाः, वृक्षशाखासु, लीनाः, ( सन्ति ), नर-पुरुष-मनुष्याः, उष्णदीर्घम्, श्वसन्तः, गृह-शरण-निष्ष्णाः, आतपम्, निर्वहन्ति ॥ १२ ॥
| अष्टमोऽङ्कः | ४४१ |
|---|
( भाव !
शिरसि मम निलीनो भाव ! सूर्यस्य पादः
शकुनि-खग-विहङ्गा वृक्षशाखासु लीनाः ।
नर-पुरुष-मनुष्या उष्णदीर्घं श्वसन्तो
गृह-शरण-निष्षणा आतपं निर्वहन्ति ॥ १२ ॥ )
भावे अज्ज वि शे चेडो णाअच्छदि । अतणो विणोदणणिमित्तं किं पि गाइश्शं । ( इति गायति ) भावे ! भावे ! शुदं तुए, जं मए गाइदं । ( भाव ! अद्यापि स चेटो नागच्छति । आत्मनो विनोदननिमित्तं किमपि गास्यामि । ) ( भाव ! भाव ! श्रुतं त्वया यन्मया गीतम् ? )
शब्दार्थ—हे भाव !=श्रीमन्, सूर्यस्य=सूर्य की, पादः=किरण, मम=मेरे (शकार के), शिरसि=शिर पर, निलीनः=पड़ी हुई (अस्ति=है), शकुनिखगविहङ्गाः=पक्षी (खग=विहङ्ग), वृक्षशाखासु=पेड़ों की शाखाओं में, निलीनाः=छिपे हुये, (सन्ति=हैं), नरपुरुषमनुष्याः=मनुष्य (=नर=पुरुष), उष्णदीर्घम्=गरम और लम्बी, श्वसन्तः=सांसें लेते हुये, गृहशरणनिष्षणाः=गृह (=शरण) में बैठे हुये, आतपम्=गर्मी को, निर्वहन्ति=बिता रहे हैं ॥ १२ ॥
अर्थ—शकार—भाव !
सूर्य की किरण मेरे शिर पर गिर पड़ी है । (शकुनि, खग,) पक्षी लोग पेड़ों की शाखाओं में छिपे हुये हैं । (नर, पुरुष,) मनुष्य गरम और लम्बी सांसे लेते हुये, घरों में बैठे हुये गर्मी बिता रहे हैं (धूप का समय बिता रहे हैं) ॥ १२ ॥
टीका—शकारोऽपि ग्रीष्मातपस्य प्रभावं वर्णयति-शिरसीति । भाव इति गद्यस्थेन अन्वयो न कार्यः । भाव=श्रीमन्, सूर्यस्य=रवेः, पादः=किरणः, मम=शकारस्य, शिरसि=मूर्ध्नि, निलीनः=निपतितः, अस्ति, शकुनिखगविहङ्गाः=पक्षिणः, त्रयाणामेकत्वेऽपि शकारवचनात् न दोषः, तस्यैतादृशप्रयोगस्वभावात्, वृक्षाणाम्=पादपानाम् शाखासु=शाखास्थितपल्लवादीनां मध्ये इति भावः, लीनाः=ताभिः सह निःशब्दं विद्यमानाः, सुप्ताः वा, सन्ति, नर-पुरुष-मनुष्याः=मनुष्याः, त्रयोऽपि समानार्थाः, उष्णं तप्तं च तत् दीर्घम्=बहुकालव्यापि यथा स्यात् तथा, श्वसन्तः=श्वासं त्यजन्तः, गृहशरणनिष्षणाः = गृहे आसीनाः, गृहस्य शरणस्य च समानार्थता, 'शरणं गृहरक्षित्रो' रिति कोशात्, आतपम् = आतपयुक्तसमयम्, निर्वहन्ति = यापयन्ति । शकारवचनात् पुनरुक्तिदोषः सोढव्यः । मालिनी वृत्तम् ॥ १२ ॥
अर्थ—भाव ! अभी तक वह चेट (नौकर) नहीं आया है । अपना मन बहलाने के लिये कुछ गाऊँगा । (यह कह कर गाने लगता है ।) भाव ! तुमने सुना जो मैंने गाया ।
४४२ | मृच्छकटिकम्
विटः--किमुच्यते, गन्धर्वो भवान् ?
शकारः--कधं गन्धव्वे ण भविश्शं ? ( कथं गन्धर्वो न भविष्यामि ? )
हिङ्गुज्जले जीलक-भद्रमुत्ये बचाह गण्ठो शगुडा अ शुण्ठी ।
एशे मए शेविद गन्धजुत्ती कधं ण हग्गे मधुल-इशलेत्ति ॥ १३ ॥
( हिङ्गूरुज्ज्वला जीरक-भद्रमुस्ता वचाया ग्रन्थिः सगुडा च शुण्ठी ।
एषा मया सेविता गन्धयुक्तिः कथं नाहं मधुरस्वर इति ॥ १३ ॥ )
भावे ! पुणोवि दाव गाइश्शं । ( तथा करोति ) भावे ! भावे ! शुदं तुए, जं मए गाइदं ? ( भाव ! पुनरपि तावत् गास्यामि । ) ( भाव ! भाव ! श्रुतं त्वया यन्मया गीतम् ? )
विटः--क्या कह रहे हो, क्या आप गन्धर्व हैं ?
अन्वयः--हिङ्गूरुज्ज्वला, जीरकभद्रमुस्ता, वचायाः, ग्रन्थिः, सगुडा, शुण्ठी, च, एषा, गन्धयुक्तिः, मया, सेविता, ( तदा ), अहम्, कथम्, न, मधुरस्वरः, ( भविष्यामि ) इति ॥ १३ ॥
शब्दार्थ--हिङ्गूरुज्ज्वला=हींग के मिलाने से उज्ज्वल=सफेद, जीरकभद्र-मुस्ता=जीरा, और नागरमोथा से युक्त, वचायाः=वचनामक औषधि की, ग्रन्थिः=गांठ, सगुडा=गुड़ मिली हुई, शुण्ठिः-सोंठ, एषा=यह, गन्धयुक्तिः=गन्धयुक्त औषधियों का योग, मया=मैंने (=शकार ने ), सेविता=सेवन की है, खायी है, ( तदा=तब ), अहम्=मैं, कथम्=क्यों, न=नहीं, मधुरस्वरः=मीठी आवाजवाला, ( भविष्यामि=होऊँगा ), इति=ऐसा ॥ १३ ॥
अर्थ--शकार--क्यों नहीं गन्धर्व होऊँगा —
हींग को मिलाने के कारण सफेद, जीरा सहित नागरमोथा वाली, वचनामक ओषधि की गांठ और गुड़ मिलाई हुई सोंठ--इस पूर्वोक्त गन्धयुक्त योग का मैंने सेवन किया है, तब मैं मधुर आवाज वाला क्यों नहीं होऊँगा ॥ १३ ॥
टीका--शकार आत्मनो मधुरस्वरवत्त्वस्य साधनमाह-हिङ्गूरुज्ज्वेलेति । हिङ्गूरुज्ज्वला=हिङ्गुभिः=पाकोपयोगिद्रव्यविशेषैः 'हींग' इति भाषायां प्रसिद्धैः, उज्ज्वला=गन्धविशिष्टा, जीरकभद्रमुस्ता=जीरक इति मुस्ता इति च सुकण्ठ-सम्पादनौषधिविशेषः, 'मुस्त' 'नागरमोथा' इति हिन्द्याम्, तद्वतीत्यर्थः, 'अर्श आदिभ्योऽच्' इति मत्वर्थेऽच्प्रत्ययः, वचायाः=तन्नाम्न्याः, ग्रन्थिः=काण्ठः, सगुडा=गुडविशिष्टा, शुण्ठी=हिन्द्यां 'शोंठ' इति ख्याता शुष्कतां प्रापितमार्द्रकमिति भावः, च, एषा पूर्वोक्ता, गन्धयुक्तिः=गन्धयोगः, सुगन्धिद्रव्यविशेषमिश्रिता, सेविता=उपभुक्ता, अतः, अहम्=शकारः, कथम्=केन हेतुना, न=नैव, मधुरस्वरः=मधुरध्वनिः भविष्यामीति भवेयमिति वा शेषः, उपजातिः वृत्तम् ॥ १३ ॥
अर्थ--भाव ! फिर से गाऊँगा । ( ऐसा कह कर गाने लगता है ! ) भाव ! भाव ! आपने सुना जो मैंने गाया ?
अष्टमोऽङ्कः । ४४३
**विटः--**किमुच्यते, गन्धर्वो भवान् ? **शकारः--**कधं गन्धव्वे ण भवामि ? ( कथं गन्धर्वो न भवामि ? )
हिङ्गुज्जले दिण्ण-मरीच-चूण्णे वग्घाल्लिदे तेल्ल-घिएण मिश्शे ।
भुत्ते मए पालहुदीअ-मंशे कधं ण हग्गे मधुलश्शलेत्ति ? ॥ १४ ॥
( हिङ्गज्ज्वलं दत्तमरीचचूर्णं व्याघारितं तैलघृतेन मिश्रम् ।
भुक्तं मया पारभृतीयमांसं कथं नाहं मधुरस्वर इति ॥ १४ ॥ )
भावे ! अज्जवि चेडे णाअच्छदि । ( भाव ! अद्यापि चेटो नागच्छति । )
विटः--स्वस्थो भवतु भवान्, सम्प्रत्येव आगमिष्यति । )
( ततः प्रविशति प्रवहणाधिरूढा वसन्तसेना चेटश्च । )
**विट--**क्या कह रहे हो, क्या आप गन्धर्व हैं ?
**अन्वयः--**हिङ्गूज्ज्वलम्, दत्तमरीच-चूर्णम्, तैलघृतेन, मिश्रम्, व्याघारितम्, पारभृतीयमांसम्, मया, भुक्तम्, अहम्, कथम्, न, मधुरस्वरः, [ भविष्यामि, भवेयं वा ] ॥ १४ ॥
**शब्दार्थ--**हिङ्गूज्ज्वलम्=हींग की गन्ध से युक्त ( शोभित ), दत्तमरीच-चूर्णम्=काली मिरच के चूर्ण से युक्त, तैलघृतेन=तेल तथा घी से मिश्रम्=मिला हुआ, व्याघारितम्=बघारा गया, पारभृतीयमांसम्=कोयल का मांस, मया=मैंने, ( शकार ने ) भुक्तम्=खाया है, अहम्=मैं शकार, कथम्=क्यों, न=नहीं, मधुर-स्वरः=मीठी आवाज वाला, ( भविष्यामि, भवेयम्=होऊँगा ) ॥ १४ ॥
**अर्थ--शकार--**मैं गन्धर्व क्यों नहीं होऊँगा ?
हींग से ( उसकी गन्ध से ) सुवासित, काली मिरच के चूर्ण से युक्त, तेल और घी से मिला हुआ, बघारा गया कोयल का मांस मैंने ( शकार ने ) खाया है मैं क्यों नहीं मधुर आवाज वाला होऊँगा ॥ १४ ॥
**टीका--**पुनरपि मधुर-स्वरवत्त्वे साधनमाह शकारः--हिङ्गूज्ज्वेलेति। हिङ्गु=पाकद्रव्यविशेषः, तेन उज्ज्वलम्=सुवासितम्, दत्तम्=प्रक्षिप्तम्, मरिचानाम्=श्याम-मरिचानां चूर्णम्=पिष्टं रजः, यस्मिन् तत्, तैलघृतेन=तैलेन आज्येन च, मिश्रम्=सम्मिश्रितम्, व्याघारितम्=शुष्कतासम्पादनाय सुपक्वतां प्रापितम्, पारभृतीय-मांसम्=पिकामिषम्, मया=शकारेण, भुक्तम्=उप-सेवितम्, अहम्=शकारः, कथम्=केन हेतुना, न=नैव, मधुरस्वरः=मधुरध्वनिः, भविष्यामि भवेयं वेति शेषः। उपजातिवृत्तम् ॥ १४ ॥
**अर्थ--**भाव ! चेट ( सेवक ) अभी तक नहीं आया।
**विट--**आप घबड़ाइये नहीं, जल्दी ही आयेगा।
( इसके बाद प्रवहण=गाड़ी पर बैठी हुई वसन्तसेना और चेट प्रवेश करते हैं। )
| ४४४ | मृच्छकटिकम् |
|---|
चेटः—भीदे क्खु हग्गे। मज्झणिहके शुज्जे। मा दाणिं कुविदे लाअ-शाल-शण्ठाणे हुविशदि। ता तुलिदं वहामि। जाध, गोणा ! जाध। (भीत: खल्वहम्। माध्याह्निकः सूर्यः। मा इदानीं कुपितो राजश्यालसंस्थानो भविष्यति। तत् त्वरितं वहामि। यातम्, गावो ! यातम्।)
वसन्तसेना—हद्धी ! हद्धी ! ण क्खु वड्ढमाणअस्स अअं सरसंजोगो, किं ण्णेदं ? किं ण क्खु अज्जचारुदत्तेण वाहणपरिस्समं परिहरन्तेण अण्णो मणुश्शो अण्णं पवहणं पेसिदं भविस्सदि ? फुरदि दाहिणं लोअणं, वेवदि मे हिअअं, सुण्णाओ दिसाओ, सव्वं ज्जेव विसंठुलं पेक्खामि। (हा धिक् ! हा धिक् ! न खलु वर्द्धमानकस्यायं स्वरसंयोगः। किन्न्व इदम् ? किं खलु आर्यचारुदत्तेन वाहनपरिश्रमं परिहरता अन्यो मनुष्योऽन्यत् प्रवहणं प्रेषितं भविष्यति ? स्फुरति दक्षिणं लोचनम्, वेपते मे हृदयम्, शून्याः दिशः, सर्वमेव विसंष्ठुलं पश्यामि।)
शकारः—(नेमिघोषमाकर्ण्य) भावे ! भावे ! आगदे पवहणे। (भाव ! भाव ! आगतं प्रवहणम्।)
विटः—कथं जानासि ?
शकारः—किं ण पेक्खदि भावे ? बुद्धशूअले विअ घुलघुलाअमाणं लक्खीअदि। (किं न प्रेक्षते भावः ? वृद्धशूकर इव घुरघुरायमाणं लक्ष्यते।)
विटः—(दृष्ट्वा) साधु लक्षितम्। अयमागतः।
शकारः—पुत्तका थावलका, चेडा ! आगदे शि ? (पुत्रक, स्थावरक, चेट ! आगतोऽसि ?)
चेट—मैं डर रहा हूँ। दोपहर का सूरज है। इस समय राजश्याल संस्थानक नाराज न हो जाय। अतः शीघ्र ही गाड़ी ले चलता हूँ। चलो बैलो, चलो।
वसन्तसेना—हाय, हाय ! निश्चित ही यह वर्धमानक की आवाज नहीं है। यह क्या बात है ? क्या आर्य चारुदत्त गाड़ी और गाड़ीवान दोनों के परिश्रम को बचाते हुये [ अर्थात् उन्हें विश्राम देने के लिये ] दूसरा गाड़ी वाला व्यक्ति और दूसरी गाड़ी भेज दी है ? दाहिनी आँख फड़क रही है, मेरा हृदय कांप रहा है, सारी दिशायें शून्य हैं, सभी कुछ विपरीत दिखाई दे रहा है।
शकार – (गाड़ी के धुरे की आवाज सुनकर) भाव ! भाव ! गाड़ी आ गई।
विट—तुम कैसे जानते हो ?
शकार—श्रीमन् आप नहीं रहें हैं, बूढ़े सुअर के समान घुर घुर आवाज करती हुई मालूम पड़ रही है ?
विट – (देखकर) अच्छा समझा। यह आ गया।
शकार—बेटा, स्थावरक, चेट ! तुम आ गये हो ?
अष्टमोऽङ्कः ४४५
**चेटः—**अध इं । ( अथ किम् । )
**शकारः—**पवहणे वि आगदे ? ( प्रवहणमप्यागतम् ? )
**चेटः—**अध इं । ( अथ किम् । )
**शकारः—**गोणा वि आगदे ? ( गावावपि आगतौ ? )
**चेटः—**अध इं । ( अथ किम् । )
**शकारः—**तुमं पि आगदे ? ( त्वमपि आगतः ? )
चेटः—( सहासं ) भट्टके ! अहंपि आगदे । ( भट्टारक ! अहमप्यागतः । )
**शकारः—**ता पवेशेहि पवहणं । ( तत् प्रवेशय प्रवहणम् । )
**चेटः—**कदलेण मग्गेण ? ( कतरेण मार्गेण ? )
**शकारः—**एदेण ज्जेव पाआलखण्डेण । ( एतेनैव प्राकारखण्डेन । )
**चेटः—**भट्टके ! गोणा मलेन्ति, पवहणे वि भज्जेदि, हग्गे वि चेड़े मलामि । ( भट्टारक ! गावौ म्रियेते, प्रवहणमपि भज्यते, अहमपि चेटो म्रिये । )
**शकारः—**अले लाअशालए हग्गे; गोणा मले, अवले कीणिशं, पवहणे भग्गे अवलं घडाइशं, तुमं मले अप्णे पवहणवाहके हुविशदि । ( अरे ! राजश्यालकोऽहम्; गावौ मृतौ, अपरौ क्रेष्यामि । प्रवहणं भग्नम्, अपरं घटयिष्यामि; त्वं मृतः, अन्यः प्रवहणवाहको भविष्यति । )
**चेटः—**शव्वं उववण्णं हुविशदि, हग्गे अत्तणकेलके ण हुविशं । ( सर्वमुपपन्नं भविष्यति, अहमात्मीयो न भविष्यामि । )
**चेट—**और क्या ?
**शकार—**गाड़ी भी आ गई ?
**चेट—**और क्या ?
शकार — दोनों बैल भी आ गये ?
**चेट—**और क्या ?
**शकार—**तुम भी आ गये ?
चेट—( हसता हुआ ) मालिक ! मैं भी आ गया ।
**शकार—**तब गाड़ी को लाओ ।
**चेट—**किस रास्ते से ?
**शकार—**इसी चहार दीवारी से ।
**चेट—**मालिक ! बैल मर जायेंगे, गाड़ी टूट जायगी, और मैं चेट भी मर जाऊँगा ।
**शकार—**अरे ! मैं राजा का शाला हूँ, बैल मर गये, दूसरे खरीद लूँगा । गाड़ी टूट गई, दूसरी बनवा लूँगा । तुम मर गये, दूसरा गाड़ीवान बन जायगा ।
**चेट—**सब कुछ ठीक हो जायगा, केवल मैं आपका सेवक ( जीवित ) नहीं रह सकूँगा ।
४४६ मृच्छकटिकम्
शकारः--अले ! शव्वं पि णश्शदु पाआलखण्डेण पवेशेहि पवहणं । ( अरे ! सर्वमपि नश्यतु, प्राकारखण्डेन प्रवेशय प्रवहणम् । )
चेटः--विभज्ज ले पवहण ! शमं शामिणा, विभज्ज, अण्णे पवहणे भोदु । भट्टके शदुअ णिवेदेमि ( प्रविश्य ) कधं ण भग्गे ? भट्टके ! एशे उवत्थिदे पवहणे । ( विभज्यस्व, रे प्रवहण ! समं स्वामिना विभज्यस्व, अन्यत् प्रवहणं भवतु, भट्टारकं गत्वा निवेदयामि । ) ( कथं न भग्नम् ? भट्टारक ! एतदुपस्थितं प्रवहणम् । )
शकारः--ण छिण्णा गोणा ? ण मला लज्जू ? तुमं पि ण मले ? ( न छिन्नौ गावौ ? न मृता रज्जवः ? त्वमपि न मृतः ? )
चेटः--अध इं । ( अथ किम् । )
शकार-अरे ! सभी कुछ नष्ट हो जाने दो, (किन्तु तुम इसी) चहार दीवारी से गाड़ी लाओ ।
चेट-टूट जा गाड़ी, मालिक के साथ टूट जा । दूसरी गाड़ी बन जायगी, मालिक से जाकर कहता हूँ । ( प्रवेश करके ) क्या, नहीं टूटी ? मालिक ! यह गाड़ी उपस्थित है ।
शकार-बैल नहीं टूटे ? गाड़ी नहीं मरी ? और तुम भी नहीं मरे ।
चेट-और क्या ?
टीका--माध्याह्निकः=मध्याह्ने भवः, कुपितः=क्रुद्धः, वहामि=नयामि । स्वरसंयोगः=कण्ठस्वरः, वाहनपरिश्रमम्=वाहनशब्देन वृषभयोश्चालकस्य च ग्रहणं बोध्यम्, उभयोः विश्रामार्थमिति भावः, मनुष्यः=प्रवहणचालकः, विसंष्ठुलम्=विपरीतम्, नेमिघोषम्=चक्राधारध्वनिम् घुरघुरायमाणम्=घुर-घुर-इति ध्वनिम् कुर्वत्, अत्र 'घुर घुर' इत्यव्यक्तशब्दं करोतीत्यर्थे क्यष्-प्रत्ययान्तस्य शानजन्तस्य रूपं बोध्यम् । लक्षितम्=ज्ञातम्, प्राकारखण्डेन=प्राकारभागेन, उपपन्नम्=पुनरपि सम्पन्नम्, विभज्यस्व=विशेषेण भग्नं भव, स्वामिना=शकारेण, समम्=सार्धम् । सहैव द्वावपि म्रियेतामिति तद्भावः ।
शब्दार्थ--पुरस्करणीयः = आगे करने योग्य । वप्रीयम् = पितृसम्बन्धि, प्रवहणस्वामी=गाड़ी का मालिक, अधिरोह=चढ़िये, परिवर्त्त्य=घुमाओ, परावर्त्त्य=घुमा कर, अवतीर्य=उतर कर, अवलम्ब्य=पकड़ कर, मुषितौ=चुरा लिये गये, खादितौ=खा लिये गये । मध्याह्नार्क-ताप-च्छिन्न-दृष्टेः=दोपहर के सूर्य के सन्ताप से चकाचौंध नेत्रोंवाले, प्रतिवसति=बैठी हुई है ।
अष्टमोऽङ्कः ४४७
शकारः—भाव ! आअच्छ, पवहणं पेक्खामो । भावे ! तुमं पि मे गुलु पलगुलु पेक्खिशि शादलके अब्भन्तलके त्ति पुलक्कलणीएत्ति तुमं दाव पवहणं अग्गदो अहिलुह । ( भाव ! आगच्छ, प्रवहणं पश्यावः। भाव ! त्वमपि मे गुरुः परमगुरुः, प्रेक्ष्यसे सादरकः अभ्यन्तरक इति पुरस्कारणीय इति त्वं तावत् प्रवहणमग्रतः अधिरोह । )
विटः— एवं भवतु । ( इत्यारोहति )
शकारः—अधवा चिट्ठ तुमं । तुह वप्पकेलके पवहणे ? जेण तुमं अग्गदो अहिलुहशि । हग्गे पवहणशामी अग्गदो पवहणं अहिलुहामि ! ( अथवा तिष्ठ त्वम् । तव वप्रीयं (पितुः) प्रवहणम् येन त्वमग्रतः अधिरोहसि । अहं प्रवहणस्वामी, अग्रतः प्रवहणमधिरोहामि । )
विटः—भवानेवं ब्रवीति ।
शकारः—जइ वि हग्गे एवं भणामि, तथावि तुह एशे आदले अहिलुह भट्टकेत्ति भणिदूं । ( यद्यपि अहमेवं भणामि, तथापि तव एष आदरः 'अधिरोह भट्टारक' इति भणितुम् । )
विटः—आरोहतु भवान् ।
शकारः— एशे शम्पदं अहिलुहामि । पुत्तका ! थावलका ! चेडा ! पलिवत्तावेहि पवहणं । ( एष साम्प्रतमधिरोहामि । पुत्रक ! स्थावरक ! चेट ! परिवर्तय प्रवहणम् । )
चेटः— ( परावर्त्य ) अहिलुहदु भट्टालके । ( अधिरोहतु भट्टारकः । )
अर्थ—शकार—भाव ! आओ, हम दोनों गाड़ी देखें । भाव ! तुम भी मेरे गुरु हो, परमगुरु हो । तुम्हें मैं आदर से देखता हूँ, तुम मेरे मन की बात जानने वाले हो, इस लिये तुम आगे चलने योग्य हो अतः पहले तुम्हीं गाड़ी पर चढ़ो ।
विट— ऐसा ही हो । ( यह कह कर चढ़ता है । )
शकार— अथवा तुम रुक जाओ । तुम्हारे बाप की गाड़ी है जो तुम आगे ( पहले ) चढ़ रहे हो । मैं गाड़ी का मालिक हूँ, अतः गाड़ी पर पहले मैं चढ़ता हूँ ।
विट— आपने ही ऐसा कहा था ।
शकार— यद्यपि मैंने ऐसा कहा था किन्तु किन्तु तुम्हें यह आदर प्रदर्शित करना चाहिये था 'स्वामी आप गाड़ी पर चढ़ें ।'
विट— आप चढ़िये ।
शकार— अब मैं चढ़ता हूँ । बेटा, स्थावरक, चेट ! गाड़ी घुमाओ ।
चेट— ( गाड़ी घुमाकर ) स्वामिन् ! गाड़ी पर चढ़िये ।
४४८ मृच्छकटिकम्
शकारः—( अधिरुह्यावलोक्य च शङ्कां नाटयित्वा त्वरितमवतीर्य विटं कण्ठेऽवलम्ब्य ) भावे ! भावे ! मलेशि मलेशि । पवहणाधिलूढा लक्खशी चोले वा पडिवशदि । जइ लक्खशी तदा उभे वि मूशे, अध चोले तदा उभे वि खज्जे । ( भाव ! भाव ! म्रियसे म्रियसे । प्रवहणाधिरूढा राक्षसी चौरो वा प्रतिवसति । यदि राक्षसी, तदा उभावपि मुषितौ, अथ चोरः तदा उभावपि खादितौ । )
विटः—न भेतव्यम् । कुतोऽत्र वृषभयाने राक्षस्याः सञ्चारः । मा नाम ते मध्याह्नार्क-ताप-च्छिन्न-दृष्टेः स्थावरकस्य सकञ्चुकां छायां दृष्ट्वा भ्रान्तिरुत्पन्ना ?
शकारः—पुत्तकाः ! थावलका ! चेडा । जीवेशि ? ( पुत्रक ! स्थावरक ! चेट ! जीवसि ? )
चेट—अध इं । ( अथ किम् )
शकारः—भावे ! पवहणाधिलूढा इत्थिआ पडिवशदि । ता अवलोएहि । ( भाव ! प्रवहणाधिरूढा स्त्री प्रतिवसति । तदवलोकय । )
विटः—कथं स्त्री ! ।
अवनतशिरसः प्रयाम शीघ्रं पथि वृषभा इव वर्षताडिताक्षाः ।
मम हि सदसि गौरवप्रियस्य कुलजनदर्शनकातरं हि चक्षुः ॥ १५ ॥
शकार—( चढ़ कर और देखकर शंका का अभिनय करके तुरन्त उतर कर विट को गले में पकड़कर ) भाव ! भाव ! तुम मर गये, मर गये । गाड़ी पर चढ़ी हुई राक्षसी अथवा चोर रहता है । यदि राक्षसी है तब तो हम दोनों चुरा लिये गये, और यदि चोर है तो दोनों खा लिये गये ।
विट—मत डरिये । इस बैलगाड़ी में राक्षसी कहाँ से आ सकती है । दोपहर में सूर्य की धूप से चकाचौंध भरी दृष्टि वाले तुम्हें स्थावरक की कुर्तायुक्त परछाईं देख कर भ्रान्ति पैदा हो गई है ।
शकार—बेटा, स्थावरक, चेट ! जीवित हो ।
चेट—और क्या ?
शकार—भाव ! गाड़ी पर चढ़ी हुई स्त्री बैठी है । अतः देखो ।
अन्वयः—पथि, वर्षताडिताक्षाः, वृषभाः, इव, अवनतशिरसः, शीघ्रम्, प्रयामः, हि, सदसि, गौरवप्रियस्य, मम, चक्षुः, कुलजनदर्शनकातरम्, हि ॥ १५ ॥
शब्दार्थ—पथि=रास्ते में, वर्षताडिताक्षाः=वर्षा, जलधारा से प्रताड़ित नेत्रों वाले, वृषभाः=बैलों, इव=के समान, अवनतशिरसः=झुके हुये शिर वाले ( हम लोग ), शीघ्रम्=जल्दी ही, प्रयामः=भाग चलें, हि=क्योंकि, सदसि=सभा में,
अष्टमोऽङ्कः ४४३
वसन्तसेना—(सविस्मयमात्मगतम्) कहं मम णअणाणं आयासअरो ज्जेव राजस्सालो। ता संसइदम्हि मन्दभाआ। एसो दाणि मम मन्दभाइणोए ऊसरक्खेत्तपाडिदो विअ वीअमुट्ठो णिफ्फलो इध आगमगो संवुत्तो। ता किं एत्थ करइस्सम्? (कथं मम नयनयोरायासकर एव राजश्यालः। तत् संशयिताऽस्मि मन्दभाग्या। एतदिदानीं मन्दभाग्याया ऊषरक्षेत्रपतित इव बीजमुष्टिः निष्फलमिहागमनं संवृत्तम्। तत् किमत्र करिष्यामि?)
**शकारः—**कादले क्खू एशे बुड्ढचेड़े पवहणं णावलोएदि। भावे! आलोएहि पवहणं। (कातरः खल्वेषः वृद्धचेटो प्रवहणं नावलोकयति। भाव! आलोकय प्रवहणम्।)
समाज में, गौरवप्रियस्य=प्रतिष्ठा को चाहने वाले, मम=[विट की], चक्षुः= आंख, कुलजनदर्शनकातरम्=कुलीन स्त्री को देखने में डरने वाली है, हि=यह निश्चित है ।। १५ ।।
अर्थ—क्या स्त्री है?
[यदि स्त्री है तो हम लोग] मार्ग में वर्षा की जलधारा से ताड़ित आँखों वाले बैलों की तरह झुके हुये शिर वाले शीघ्र ही भाग चलें। क्योंकि सभा= समाज में प्रतिष्ठा चाहने वाले मेरे नेत्र कुलीन स्त्रियों के दर्शन में डरने वाले हैं ।। १५ ।।
टीका—प्रवहणे यदि नाम स्त्री तदाऽवाभ्यां किं करणीयमित्यत्राह विटः—अवनतेति। यदि स्त्री अस्ति तदा, पथि=मार्गे, गमनकाले इति भावः, वर्षताडिताक्षाः = वर्षाजलधाराप्रताडितनेत्राः, वृषभाः = बलीवर्दाः, इव=यथा, अवनतम्=नम्रीकृतम् शिरः=मूर्धा यैस्ते, वयम्, शीघ्रम्=तत्कालमेव, प्रयामः=पलायामहे, हि=यतः, सदसि=सभायाम् समाजे वा, गौरवम्=प्रतिष्ठा, प्रियम् यस्य तस्य, मम= विटस्य, चक्षुः=नेत्रम्, कुलजनानाम्=कुलीनस्त्रीणाम्, दर्शने = अवलोकने, कातरम्= भीरु, हि=निश्चयेन। एवञ्च कातरोऽहं न स्त्रीं द्रक्ष्यामीति तद्भावः। अत्रार्थान्तरन्यासोऽलंकारः, पुष्पिताग्रा वृत्तम् ।। १५ ।।
शब्दार्थ—सविस्मयम्=आश्चर्यपूर्वक, आयासकरः=कष्ट देने वाला, संशयिता= सन्देह में पड़ी हुई, ऊषर-क्षेत्रपतितः=ऊषर खेत में गिरे हुये, बीजमुष्टिः= बीजों की मुट्ठी, कातरः=डरपोक, उड्डीयन्ते=उड़ रहे हैं।
अर्थ—वसन्तसेना—(आश्चर्यसहित अपने में) क्या मेरी आँखों को खटकने वाला राजश्यालक ही है। इस कारण अभागिन मैं सन्देह में पड़ गई हूँ। इसलिये ऊषर क्षेत्र में गिराये गये बीजों की मुट्ठी के समान मेरा यहाँ आना, इस समय, व्यर्थ हो गया। अतः अब क्या करना चाहिये।
शकार—डरपोक यह बूढ़ा चेट गाड़ी नहीं देख रहा है। भाव! गाड़ी देखो।
२९ मृ०
४५० मृच्छकटिकम्
विटः--को दोषः । भवत्वेवं तावत् ।
शकारः--कधं शिआला उड्डेन्ति वाअशा वच्चेन्ति । ता जाव भावे अक्खीहिं खक्खीअदि, दन्तेहिं पेक्खिअदि, ताव हग्गे पलाइस्सं । ( कथं शृगाला उड्डयन्ते, वायसा व्रजन्ति । तद् यावत् भावः अक्षिभ्यां भक्ष्यते, दन्तैः प्रेक्ष्यते, तावदहं पलायिष्ये । )
विटः-- ( वसन्तसेनां दृष्ट्वा सविषादमात्मगतम् ) कथमये ! मृगी व्याघ्र-मनुसरति । भोः कष्टम् ।
शरच्चन्द्रप्रतीकाशं पुलिनान्तरशायिनम् । हंसी हंसं परित्यज्य वायसं समुपस्थिता ॥ १६ ॥
विट-- क्या बुराई है, ऐसा ही हो ।
शक.र-- क्यों सियार उड़ रहे हैं, कौवे भाग रहे हैं, अतः जब तक भाव को आँखों से खा नहीं लिया जाता, दांतों से देख लिया नहीं जाता, तब तक मैं भाग जाता हूँ ।
अन्वयः-- हंसी, शरच्चन्द्रप्रतीकाशम्, पुलिनान्तरशायिनम्, हंसम्, परित्यज्य, वायसम्, समुपस्थिता ॥ १६ ॥
शब्दार्थ-- हंसी=हंसी, शरच्चन्द्रप्रतीकाशम्=शरत्कालीन [ विमंल ] चन्द्रमा के समान, पुलिनान्तरशायिनम् = नदी के किनारे की जमीन पर लेटे हुये, हंसम्=हंस को, परित्यज्य = छोड़कर, वायसम्=कौवा के पास, समुपस्थिता = आ गयी है ॥ १६ ॥
अर्थ--विट-- ( वसन्तसेना को देखकर खेद-सहित, अपने में ) अरे, मृगी व्याघ्र के पीछे क्यों जा रही ? हाय कष्ट है—
हंसी शरत्कालीन चन्द्रमा के समान [ उज्ज्वल ], नदी के किनारे की जमीन पर लेटे हुये हंस को छोड़कर कौवा के पास आ गयी है ॥ १६ ॥
टीका--चारुदत्तं परित्यज्य वसन्तसेनायाः समागमने आश्चर्यं व्यनक्ति विटः-- शरदिति । हंसी=मराली, शरदः=तन्नामकर्तुविशेषस्य निर्मलस्येति भावः, चन्द्रः=शशी, तस्य प्रतीकाशम्=तुल्यम्, पुलिनस्य=नदीसमीपदेशस्य, अन्तरे=अभ्यन्तरे, शायिनम्=विद्यमानम्, हंसम् = मरालम्, परित्यज्य = त्यक्त्वा, वायसम् = काकम्, समुपस्थिता = समुपागता । यशोराशिचारुदत्तं विहाय काकतुल्यं शकारमुपगमनं वसन्तसेनाया अनुचितमेवेति भावः । अत्राप्रस्तुतप्रशंसालंकारः, पथ्यावक्त्रं वृत्तम् ॥ १६ ॥
अष्टमोऽङ्कः ४५१
( जनान्तिकम् ) वसन्तसेने ! न युक्तमिदं नापि सदृशमिदम् ।
पूर्वं मानादवज्ञाय द्रव्यार्थे जननीवशात् ।
वसन्तसेना— ण । ( इति शिरश्चालयति ) ( ण । )
विटः—
अशौण्डीर्यस्वभावेन वेशभावेन मन्यते ॥ १७ ॥
ननूक्तमेव मया भवतीं प्रति—'सममुपचर भद्रे ! सुप्रियञ्चाप्रियञ्च' ।
अन्वयः— पूर्वम्, मानात्, अवज्ञाय, [ इदानीम् ] जननीवशात्, द्रव्यार्थे, [ आगतासि, अथवा ] अशौण्डीर्यस्वभावेन, वेशभावेन, [ वा आगतासीति मया ] मन्यते ॥ १७ ॥
शब्दार्थ— पूर्वम् = इससे पहले, मानात् = घमण्ड के कारण, अवज्ञाय = तिरस्कार करके, [ इदानीम् = इस समय ], जननीवशात् = माता के कारण, द्रव्यार्थे = धन के उद्देश्य से [ आगतासि = आई हो, अथवा ] अशौण्डीर्यस्वभावेन = अनुदार स्वभाव वाले, वेशभावेन = वेश्यापन के कारण [ आगतासि = आई हो, इति = ऐसा, मया = मेरे द्वारा ] मन्यते = माना जा रहा है ॥ १७ ॥
अर्थ— ( जनान्तिक ) यह [ यहाँ आना ] तुम्हारे लिये उचित नहीं है, योग्य नहीं है –
इससे पहले घमण्ड के कारण तिरस्कार करके [ इस समय ] माता के कारण [ भेजी गई ] धन के लिये [ आई हुई हो । ]
वसन्तसेना— नहीं । [ ऐसा कह कर सिर हिलाती है । ]
विट-- ( तब ) अनुदार स्वभाव वाले [ = स्वाभिमानशून्य ] वेश्यापन के कारण [ आई हुई हो, ऐसा मैं ] समझता हूँ ॥ १७ ॥
टीका— वसन्तसेनाया निन्दां कुर्वन् तस्या वेश्यात्वं साधयति विटः- वंमिति । पूर्वम् = इतः पूर्वम्, यदा शकारो धनादिना वशीकर्तुमैच्छत् तदा, मानात् = दर्पात्, अवज्ञाय = तिरस्कृत्य, इदानीम्, जननीवशात् = पालनकर्याः समादेशेन, द्रव्यार्थे = धनार्थम्, आगतासीति । वसन्तसेना इदं निषेधति-न = नैव, अहं धनार्थमत्र नैवा-गतास्मि । पुनरपि विटस्तस्या आगमनहेतुं प्रतिपादयति-अशौण्डीर्यम् = गर्वराहित्यम्, अनौदार्यं वा स्वभावः = प्रकृतिः यस्य, तादृशेन वेशभावेन = वेश्यात्वेन, हेतुना आगतासीति मया, मन्यते = स्वीक्रियते ॥ १७ ॥
अर्थ – मैंने आपसे पहले ही कहा था –
'हे भद्रे ! प्रिय अथवा अप्रिय दोनों की समान रूप से सेवा करो ( क्योंकि तुम वेश्या हो ।' ( इस पद्यांश की व्याख्या प्रथम अंक के ३१वें श्लोक में देखनी चाहिये ।)
४५२ मृच्छकटिकम्
वसन्तसेना--पवहणबिवज्जासेण आगदा सरणागदम्हि । ( प्रवहण-विपर्यसिनागता शरणागताऽस्मि । )
विटः--न भेतव्यं न भेतव्यम् । भवत्वेनं वञ्चयामि । ( शकारमुपगम्य ) काणेलीमातः ! सत्यं राक्षस्येवात्र प्रतिवसति ।
शकारः--भावे ! भावे ! जइ लक्खशी पड़िवशदि, ता कीश ण तुमं मूशेदि ? अध चोले, ता किं ण तुमं भक्खिदे ? ( भाव ! भाव ! यदि राक्षसी प्रतिवसति, तत् केन न त्वां मुष्णाति ? अथ चौरः तत् किं न त्वं भक्षितः ? )
विटः--किमनेन निरूपितेन । यदि पुनरुद्यानपरम्परया पद्भ्यामेव नगरीमुज्जयिनीं प्रविशावः, तदा को दोषः स्यात् ?
शकारः--एव्वं किदे किं भोदि ? ( एवं कृते किं भवति ? )
विटः--एवं कृते व्यायामः सेवितो धुर्याणाञ्च परिश्रमः परिहृतो भवति ।
शकारः--एवं भोदु । थावलआ ! चेडा । गेह पवहणं । अथवा चिट्ठ चिट्ठ, देवदाणं वम्हणाणं च अग्गदो चलणेण गच्छामि । णहि णहि,
शब्दार्थ--प्रवहण-विपर्यसिन=गाड़ी की अदला-बदली के कारण, काणेली माता है जिस की ऐसा अर्थात् काणेली का बेटा, उद्यानपरम्परया= एक बगीचे से दूसरे में, दूसरे से तीसरे में--इसी प्रकार से आगे तक, धुर्याणाम् = बैलों का, परिहृतः=बचत, ओषधीकर्तुम्=औषधि बनाना, दुष्करम्=अति कठिन, अभिसारयि-तुम्=अभिसार करने के लिये। रोषिता = नाराज करा दी गई थी, प्रसादयामि=प्रसन्न करता हूँ। विज्ञप्तिम्=निवेदन।
अर्थ--वसन्तसेना--गाड़ी की अदला बदली के कारण आ गई हूँ, शरण में आई हूँ।
विट - मत डरो, मत डरो। अच्छा, इसको धोखा देता हूँ। ( शकार के पास जाकर ) काणेली के बेटे ! इस गाड़ी में तो सचमुच राक्षसी बैठी है।
शकार--भाव ! भाव ! यदि राक्षसी बैठी है तो तुम्हें क्यों नहीं चुराती है ? अगर चोर है तो तुम्हें क्यों नहीं खा लिया ?
विट--इस विवाद से क्या लाभ ? यदि हम दोनों बगीचे-बगीचे होकर पैदल ही उज्जैन शहर में चलें तो क्या बुराई है ?
शकार--ऐसा करने से क्या लाभ होगा ?
विट--ऐसा करने पर व्यायाम कर लिया जायगा ? और बैलों का परिश्रम बच जायगा।
शकार--ऐसा ही हो। स्थावरक चेट ! गाड़ी ले जाओ। अथवा रुको, रुको, देवताओं और ब्राह्मणों के आगे पैदल ही चलता हूँ। नहीं, नहीं, गाड़ी पर चढ़कर
अष्टमोऽङ्कः ४५३
पवहणं अहिलुहिअ गच्छामि । जेण दूरदो मं पेक्खिअ भणिश्शन्ति, 'एशे शे लट्टिशले भट्ठालके गच्छदि ।' ( एवं भवतु । स्थावरक ! चेट ! नय प्रवहणम् । अथवा तिष्ठ, देवतानां ब्राह्मणानाञ्चाग्रतः चरणेन गच्छामि । नहि, नहि, प्रवहणमधिरुह्य गच्छामि । येन दूरतो मां प्रेक्ष्य भणिष्यन्ति —'एष स राष्ट्रि- यस्यालो भट्टारको गच्छति ।' )
विटः- ( स्वगतम् ) दुष्करं विषमौषधीकर्तुम् । भवतु, एवं तावत् । ( प्रकाशम् ) काणेलीमातः ! एषा वसन्तसेना भवन्तमभिसारयितुमागता ।
वसन्तसेना- सन्तं पावं सन्तं पावं । ( शान्तं पापं शान्तं पापम् । )
शकारः- ( सहर्षम् ) भावे ! भावे ! मं पवलपुलिशं मणुश्शं वाशु- देवकं ? ( भाव ! भाव ! मां प्रवरपुरुषं मनुष्यं वासुदेवकम् ? )
विटः- अथ किम् ।
शकारः- तेण हि अपुव्वा शिली शमाशादिदा, तश्शि काले मए लोशाइदा, शम्पदं पादेशुं पडिअ पशादेमि । ( तेन ही अपूर्वा श्रीः समासा- दिता, तस्मिन् काले मया रोषिता, साम्प्रतं पादयोः पतित्वा प्रसादयामि । )
विटः- साधु अभिहितम् ।
शकारः- एशे पादेशुं पडेमि । ( इति वसन्तसेनामुपसृत्य ) अत्तिके । अम्बिके ! शृणु मम विष्णत्तिं । ( हे मात: ! अम्बिके ! शृणु मम विज्ञप्तिम् । ) ( एष पादयोः पतामि । )
एशे पडेमि चलणेशु विशालणेत्ते ! हत्थञ्जलिं दशणहे तव शुद्धदन्ति !
चलता हूँ । जिससे लोग दूर से ही मुझको देख कर यह कहेंगे—'यह राजा का शाला संस्थानक स्वामी जा रहा है ।
विट- ( अपने में ) विष को औषधि बनाना बहुत कठिन है । अच्छा, ऐसा हो । ( प्रकट रूप में ) कणेली के पुत्र ! वह वसन्तसेना आपके साथ अभिसार करने के लिये आई है ।
वसन्तसेना- ऐसा मत कहो, मत कहो ।
शकार- ( हर्षसहित ) भाव ! भाव ! मुझ प्रवर पुरुष, मनुष्य वासुदेव के साथ ( अभिसार के लिये आयी है ) ?
विट- और क्या ?
शकार- तब तो अपूर्व लक्ष्मी प्राप्त कर ली । उस समय मैंने नाराज कर दी थी, इस समय पैरों पर गिर कर मनाता हूँ ।
विट- बहुत ठीक कहा ।
| ४५४ | मृच्छकटिकम् |
|---|
जं तं मए अवकिदं मदणातुलेण तं खम्मिदाशि बलगत्ति ! तव म्हि दाशे ॥ १८ ॥
( एष पतामि चरणयोर्विशालनेत्रे !, हस्ताञ्जलि दशनखे ! तव शुद्धदन्ति ! यत्तन्मयाऽपकृतं मदनातुरेण, तत् क्षामितासि वरगात्रि ! तवास्मि दासः ॥१८॥)
अन्वयः---( हे ) विशालनेत्रे ! एषः, अहम् ( तव ), पादयोः, पतामि, ( हे ) शुद्धदन्ति ! तव, ( पादयोः ), दशनखे, हस्ताञ्जलिम्, ( करोमि ), ( हे ) वरगात्रि ! मदनातुरेण, मया, तव, यत्, अपकृतम्, तत्, क्षामिता, असि, ( अहम् ) तव, दासः, अस्मि ॥ १८ ॥
शब्दार्थ---( हे ) विशालनेत्रे !=बड़ी-बड़ी आँखों वाली !, एषः = यह, मैं, ( तव = तुम्हारे ) चरणयोः=पैरों पर, पतामि=गिरता हूँ, ( हे ) शुद्धदन्ति=शुद्ध=उज्ज्वल दाँतों वाली ! तव= तुम्हारे ( पादयोः = पैरों के ) दशनखे=दश नाखूनों में, हस्ताञ्जलिम्=हाथों की अञ्जलि, ( करोमि = रख रहा हूँ ), हे वरगात्रि ! = सुन्दर अङ्गों वाली, मदनातुरेण=कामवासना से व्याकुल, मया=मैंने ( शकार ने ), तव=तुम्हारा, वसन्तसेना का, यत्=जो, अपकृतम् = अपकार, बुरा किया है, तत्=उसे, क्षामिता=क्षमा करायी गयी, असि=हो, ( अहम्=मैं, शकार ) तव=तुम्हारा, वसन्तसेना का, दासः=सेवक, अस्मि=हूँ ॥ १८ ॥
अर्थ--शकार--यह मैं तुम्हारे पैरों पर गिरता हूँ । ( ऐसा कह कर, वसन्तसेना के पास जाकर ) हे माता ! अम्बिके ! मेरी प्रार्थना सुनो--
हे बड़ी-बड़ी आँखोंवाली ! यह मैं ( तुम्हारे ) पैरों पर गिरता हूँ । हे उज्ज्वल दाँतों वाली ! तुम्हारे ( पैरों के ) दश नाखूनों में अपने हाथों की अंजलि रखता हूँ । हे सुन्दर शरीर वाली ! कामवासना से व्याकुल मैंने ( शकार ने ) उस समय तुम्हारे साथ जो बुरा किया था उसको क्षमा करता हूँ, मैं तुम्हारा दास=सेवक हूँ । [ अतः क्षमा कर दो । ] ॥ १८ ॥
टीका--शकारः पूर्वं विहितमपराधं क्षन्तुं वसन्तसेनां निवेदयति । एष इति । हे विशालनेत्रे ! = हेदीर्घाक्षि, एषः = पुरो वर्तमानः, अहम् = शकारः, तव, चरणयोः = पादयोः, पतामि = नमामि, हे शुद्धदन्ति = शुद्धाः = उज्ज्वलाः दन्ताः यस्यास्तत्-सम्बुद्धौ, उज्ज्वलदशने, तव = वसन्तसेनायाः, ( पादयोः ), दशनखे=दशानां नखानां समाहारः दशनखम्, तस्मिन्, दशकररुहे, हस्तयोः=करयोः अञ्जलिम्=सम्पुटम्, करोमि, हे वरगात्रि ! = वरम् उत्कृष्टं गात्रम् = शरीरं यस्यास्तत्सम्बुद्धौ, हे उत्कृष्टशरीरे !, मदनेन=कामवासनया, आतुरेण=व्याकुलेन,
अष्टमोऽङ्कः ४५५
वसन्तसेना—( सक्रोधम् ) अवेहि, अणज्जं मन्तेशि । ( इति पादेन ताडयति ) ( अपेहि, अनार्यं मन्त्रयसि )
शकारः—( सक्रोधम् )
जे चुम्बिदे अम्बिकामानुकेहिं गदे ण देवाणं वि जे पणामं ।
शे पाडिदे पादतलेन मुण्डे वणे शिआलेण जधा मुदङ्गे ॥१६॥
( यच्चुम्बितमम्बिकामातृकाभिर्गतं न देवानापि यत् प्रणामम् ।
तत् पतितं पादतलेन मुण्डं वने शृगालेन यथा मृताङ्गम् ॥१६॥ )
मया=शकारेण, तव=वसन्तसेनायाः, यत्=यत्किञ्चिदपि, अपकृतम्=अप्रियमाचरितम्, तत्=तत्सर्वम्, क्षामिता=क्षमां याचितासि, अहम्=शकारः, तव=वसन्तसेनायाः, दासः=सेवकः, अस्मि=वर्ते । अतस्त्वयाऽवश्यं क्षन्तव्य इति भावः । वसन्ततिलकं वृत्तम् ॥ १८ ॥
अर्थ वसन्तसेना ( क्रोधपूर्वक ) दूर हट जाओ, अनुचित बोल रहे हो । ( ऐसा कह कर पैर से मारती है । )
अन्वयः—यत्, अम्बिकामातृकाभिः, चुम्बितम्, यत्, देवानाम्, अपि, प्रणामम्, न, गतम्, तत्, मुण्डम्, वने, शृगालेन, मृताङ्गम्, यथा, ( त्वया ), पादतलेन, पातितम् ॥ १९ ॥
शब्दार्थ—यत्=जो, अम्बिकामातृकाभिः=माताओं के द्वारा, चुम्बितम्=चूमा गया था, यत्=जो, देवानाम्=देवताओं के, अपि=भी, प्रणामम्=प्रणाम को, न=नहीं, गतम्=गया था, उनके सामने भी नहीं झुका था, तत्=उस, मुण्डम्=शिर को, वने=वन में, शृगालेन=सियार के द्वारा, मृताङ्गम्=मरे शरीर, यथा=के समान, (त्वया=तुम वसन्तसेना ने ), पादतलेन=पैर के तलवे से, पातितम्=गिरा दिया, तिरस्कृत कर दिया ॥ १९ ॥
अर्थ—शकार—( क्रोध के साथ )
जिस शिर को माताओं ने चूमा था, जो शिर देवताओं के सामने भी नहीं झुका था उस शिर को वन में शियार द्वारा मरे हुये शरीर के समान तुमने पैर के तलवे से गिरा दिया, तिरस्कृत कर दिया ॥ १६ ॥
टीका—वसन्तसेनया कृतं शरीरपातं दृष्ट्वा शकारः स्वशरीरस्योत्कृष्टत्वं ब्रवीति—यदिति । यत्=पुरो वर्तमानम्, अम्बिकामातृकाभिः=जननीभिः, शकारवचनात् पुनरुक्तिः सोढव्या, चुम्बितम्=स्नेहेन मुखादिना चुम्बितम्, यत्=पूर्वोक्तम्, देवानाम् अपि=सुराणामपि, प्रणामम्=प्रणम्रताम्, प्रणतिम्, न=नैव, गतम्=प्रापितम्, तत् मुण्डम्=मम शिरः, वने=अरण्ये, शृगालेन=जम्बूकेन, मृताङ्गम्=मृतदेहम्, यथा=इव, त्वया=वसन्तसेनया, पादतलेन=चरणतलेन, पातितम्=पतनावस्थां प्रापितम्,
४५६ | मृच्छकटिकम्
अले थावलआ, चेडा ! कहिं तुए एशा शमाशादिदा ? ( अरे स्थावरक ! चेट ! कस्मिन् त्वया एषा समासादिता । )
चेटः--भट्टके ! गाम-शअलएहिं लुद्धे लाअमग्गे, तदो चालुदत्तश्श लुक्खवाडिआए पवहणं थाविअ, तहिं ओदलिअ, जाव चक्कपलिबट्टिं कलेमि, ताव एशा पवहणविपज्जाशेण इह आलूढेत्ति तक्केमि । ( भट्टक ! ग्रामशकटैः रुद्धो राजमार्गः, तदा चारुदत्तस्य वृक्षवाटिकायां प्रवहण स्थापयित्वा तस्मिन्नवतीर्य, यावत् चक्रपरिवृत्तिं करोमि, तावदेषा प्रवहणविपर्ययेन इह आरूढेति तर्कयामि ।)
शकारः--कधं पवहण-विपज्जाशेण आगदा, ण मं अहिशालिदुं ? ता ओदल, ओदल मम केलकादो पवहणादो । तुमं तं दलिद्दशत्थवाहपुत्तकं अहिशा- लेशि, मम केलकाईं गोणाई वाहेशि ; ता ओदल ओदल गब्भदाशि ! ओदल ओदल । ( कथं प्रवहणविपर्ययेनागता, न मामभिसारयितुम् । तदवतर अवतर मदीयात् प्रवहणात् । त्वं तं दरिद्रसार्थवाह-पुत्रकमभिसारयसि, मदीयौ गावौ वाह- यसि; तदवतर अवतर गर्भदासि ! अवतर अवतर । )
वसन्तसेना--तं अज्जचारुदत्तं अहिसारेसि त्ति जं सच्चं अलङ्किदम्हि इमिणा वअणेण । सम्पदं जं भोदु, तं भोदु । ( तमार्थचारुदत्तमभिसारयसि इति यत् सत्यम् अलङ्कृतास्मि अनेन वचनेन । साम्प्रतं यद्भवतु तद्भवतु । )
ताडितमिति यावत् । एवञ्च तव कृत्यमतीवानुचितमिति बोध्यम् । उपमालङ्कारः, उपजातिवृत्तम् ॥ १६ ॥
**अर्थ—**अरे स्थावरक चेट ! यह तुम्हें कहाँ मिल गयी ।
**चेट—**स्वामिन् ! गाँव की गाड़ियों से जब रास्ता अवरुद्ध ( जाम ) हो गया था, तब चारुदत्त की वृक्षवाटिका ( बगीचा ) में गाड़ी खड़ी करके, वहाँ उतर कर जब तक पहिया बदलने लग गया, तब तक गाड़ी की अदला-बदली के कारण यह इस गाड़ी में बैठ गयी-ऐसा सोचता हूँ ।
**शकार—**क्या गाड़ी की अदलाबदली से यहाँ आ गई है, मेरे साथ अभिसार के लिये नहीं आई ? तो मेरी गाड़ी से उतर जा, उतर जा । तुम इस दरिद्र सार्थवाहपुत्र चारुदत्त के साथ अभिसार करती हो और मेरे बैलों को ( गाड़ी में अपने ले जाने के लिये ) जोतती हो । तो उतर जा, उतर जा, गर्भकाल से ही दासी ! उतर जा, उतर जा ।
वसन्तसेना—'उन चारुदत्त के साथ अभिसार करती हो' यह सच है तो इस कथन से अपने को विभूषित मानती हूँ । अब जो हो, सो हो ।