मृच्छकटिकम् (सटीक संस्कृत नाटक)
Mricchakatikam with Sanskrit-Hindi Commentary
महाराज शूद्रक / पं. जयशंकर लाल त्रिपाठी द्वारा
अष्टमोऽङ्कः ४५७
शकारः—एदेहिं दे दशणहुप्पलमण्डलेहिं
हत्थेहिं चाडुशद-ताडण-लम्पडेहिं ।
कड्ढामि दे वलतणुं णिअ-जाणकादो
केशेशु वालि-दइदं वि जहा जड़ाऊ ॥ २० ॥
( एताभ्यां ते दशनखोत्पलमण्डलाभ्यां हस्ताभ्यां चाटुशतताडनलम्पटाभ्याम् ।
कर्षामि ते वरतनुं निजयानकात् केशेषु वालिदयितामिव यथा जटायुः ॥२०॥
**अन्वयः—**दशनखोत्पलमण्डलाभ्याम्, चाटुशतताडनलम्पटाभ्याम्, एताभ्याम्, ते, हस्ताभ्याम्, जटायुः, बालिदयिताम्, इव, यथा, केशेषु, (गृहीत्वा) ते, वरतनुम्, निजयानकात्, कर्षामि ॥ २० ॥
**शब्दार्थ—**दशनखोत्पलमण्डलाभ्याम् = दश नाखून रूपी कमलों के मण्डल (घेरा) वाले, चाटुशतताडनलम्पटाभ्याम् = सैकड़ों चापलूसी की बातों की तरह पीटने के लालची, एताभ्याम् = इन, ते = तेरे, हस्ताभ्याम् = दोनों हाथों से, जटायुः = जटायु, बालि-दयिताम् = बालि की पत्नी तारा के, इव, यथा = समान, केशेषु = बालों को, (गृहीत्वा पकड़ कर) ते = तुम्हारे, वसन्तसेना के, वरतनुम् = सुन्दर शरीर को, निजयानकात् = अपनी गाड़ी से, कर्षामि = बाहर खींचता हूँ ॥ २० ॥
अर्थ—शकार—
दश नाखनरूपी कमलों के घेरे वाले, चापलूसी के सैकड़ों वचनों के समान पीटने के लालची इन दोनों, तेरे हाथों से अपनी गाड़ी से तुम्हारे सुन्दर शरीर को उसी प्रकार बाहर खींच लेता हूँ जिस प्रकार जटायु ने बालि की पत्नी तारा को खींचा था ॥ २० ॥
**टीका—**स्वोपहासमसह्मानः शकारः स्वप्रतिक्रियां प्रकटयति—एताभ्यामिति। दश = दशसंख्याकाः, नखाः = कररुहाः, उत्पलमण्डलानि इव = कमलसमूह इव, मण्डल-शब्दः समूहार्थे प्रसिद्ध स्वार्थे वा बोध्यः तथा चाटुशतानि = प्रियवचनशतानि इव ताडनानि = प्रहाराः, तेषु लम्पटाभ्याम् = लुब्धाभ्याम्, कुशलाभ्यामित्यर्थः, एताभ्याम् = पुरो वर्तमानाभ्याम्, ते = तव, वसन्तसेनाया इत्यर्थः, हस्ताभ्याम् = कराभ्याम्, जटायुः = गरुडपुत्रः, रामायणे प्रसिद्धः पक्षिविशेषः, बालिदयिताम् = बालिपत्नीम्, ताराम्, इव, यथा = यद्वत्, केशेषु = कचेषु गृहीत्वा, ते = तव, वसन्तसेनायाः, वरतनुम् = सुन्दरशरीरम्, निजयानमात् = स्वकीयशकटात्, कर्षामि = अवतार्य बहिष्करोमि। अत्र शकारवचनात् प्रसिद्धकथाविरोधः परिहरणीयः उपमालंकारः, वसन्ततिलकं वृत्तम् ॥ २० ॥
विमर्श—'मण्डल' का अर्थ 'घेरा' और 'समूह' दोनों हो सकते हैं। पञ्जों का घेरा बनाकर उसी से खींचकर बाहर कर देगा अथवा कमलसमूहतुल्य नाखूनों से बाहर कर देगा। यहाँ 'कठोरता' अभिव्यक्त करना अभीष्ट है।
४५८ मृच्छकटिकम्
विटः—
अग्रा ह्य मूर्द्धजेष्वेताः स्त्रियो गुणसमन्विताः ।
न लताः पल्लवच्छेदर्महंन्त्युपवनोद्भवाः ॥२१॥
तदुत्तिष्ठ त्वम्। अहमेनामवतारयामि। वसन्तसेने ! अवतीर्यताम्।
( वसन्तसेना अवतीर्य एकान्ते स्थिता । )
शकारः—( स्वगतम् ) जे शे मम वअणावमाणेण तदा लोशग्गी शन्धुक्खिदे, अज्ज एदाए पादप्पहालेण अणेण पज्जलिदे, त शम्पदं माले-
जटायु ने बालि की पत्नी को कहीं से नहीं खींचा था। किन्तु शकार की बातें यों ही अनर्गल होती हैं, इसलिये यह दोष नहीं है। ते, ते, इव, यथा इनकी पुनरुक्ति और असम्बद्धार्थता भी दोष नहीं है ॥ २० ॥
**अन्वयः—**गुणसमन्विताः, एताः, स्त्रियः, मूर्धजेषु, अग्रा ह्याः, उपवनोद्भवाः, लताः, पल्लवच्छेदम्, न, अर्हन्ति ॥ २१ ॥
**शब्दार्थ—**गुणसमन्विताः=विविध गुणों से युक्त, एताः=ये, स्त्रियः=स्त्रियां, मूर्धजेषु=बालों को, पकड़ कर, अग्राह्याः=खीचने योग्य नहीं, होती हैं, उपवनोद्भवाः=बगीचे में होने वाली, लताः=लतायें, पल्लवच्छेदम्=पत्तों को तोड़ने, न=नहीं, अर्हन्ति=योग्य होती हैं ॥ २१ ॥
अर्थ--विट-- गुणवती, इन स्त्रियों के बालों को पकड़ कर नहीं खींचना चाहिये। बगीचे में लगने वाली लता पत्ते तोड़ने लायक नहीं होती हैं ॥ २१ ॥
**टीका—**केशग्रहणायोद्यतं शकारं निषेधन् विटस्तत्र हेतुमाह —अग्राह्या इति । गुणैः=सौन्दर्यादिभिः विविधकलादिभिश्च, समन्विताः=युक्ताः, एताः=वसन्तसेना-सदृश्यः, स्त्रियः=नार्यः, कामिन्यः, मूर्धजेषु=केषेषु, केशावच्छेदेनेत्यर्थः, अवच्छेदार्थे सप्तमीति केचित्, अग्राह्याः = ग्रहीतुमयोग्याः, भवन्ति। इमाः हि सम्मानमर्हन्ति नतु तिरस्कारम् । यतो हि, उपवनोद्भवाः=उपवनेषु समुद्भूताः, लताः=व्रततयः, पल्लवच्छेदम्=किसलयभङ्गम्, न=नैव, अर्हन्ति=योग्याः भवन्तीति भावः । एवञ्च यथा गुणवतीनां सम्यक् परिपालितानां लतानां पत्राणि न छिद्यन्ते तथैव वसन्तसेना-तुल्यानां गुणवतीनां स्त्रीणां केषादिकर्षणं सर्वथाऽनुचितमिति भावः । सादृश्ये पर्यवसानात् दृष्टान्तालकारः, पथ्यावक्त्रं वृत्तम् ॥ २१ ॥
**अर्थ—**इसलिये तुम रहो। मैं इसको उतारता हूँ। वसन्तसेना जी ! उतर जाइये।
( वसन्तसेना उतर कर एकान्त में खड़ी हो जाती है । )
शकार— ( अपने में ) उस समय इसके वचनों के कारण अपमान से जो क्रोधाग्नि पहले लगी थी, आज इसके पैर के प्रहार से वह प्रज्वलित हो उठी है ।
अष्टमोऽङ्कः ४५९
मि णं। भोदु, एव्वं दाव (प्रकाशम्) भावे! भावे! (योऽसौ मम वचना- नापमानेन तदा रोषाग्निः सन्धुक्षितः, अद्य एतस्याः पादप्रहारेणानेन प्रज्वलितः, तत् साम्प्रतं मारयाम्येनाम्। भवतु, एवं तावत्।) (भाव! भाव!)
जदिच्छशे लम्बदशा-विशालं पावालअं शुत्तशदेहि जुत्तम्। मंशं च खादुं तह तुट्ठिं अ कादुं चूहू चूहू चुक्कु चूहू चूहू त्ति ॥ २२ ॥
(यदीच्छसि लम्बदशाविशालं प्रावारकं सूत्रशतैर्युक्तम्।) मांसञ्च खादितुं तथा तुष्टिञ्च कर्तुं चूहू चूहू चुक्कु चूहू चूहू इति ॥ २२ ॥
[ भभक कर जलने लगी है।) अतः अब इसको मार डालूँगा। अच्छा ऐसा हो। (प्रकट में) भाव! भाव!
**टीका—**त्वम्=शकारः, उत्तिष्ठ=दूरं तिष्ठ, एकान्ते=एकस्मिन् भागे, वचनाव- मानेन=वचनानां वचनैर्वा अवमानः तिरस्कारः, तेन, तदा=पूर्वस्मिन् काले, रोषाग्निः=क्रोधाग्निः, सन्धुक्षितः=ज्वलनार्थं प्रदीप्तः, पादप्रहारेण=चरणतलताडनेन, प्रज्वलितः=प्रकृष्टरूपेण ज्वलितः, मारयामि=हन्मि।
**अन्वयः—**यदि, सूत्रशतैः, युक्तम्, लम्बदशाविशालम्, प्रावरकम्, तथा, चूहू, चूहू, चुक्कु, चूहू, चूहू' इति (ध्वनिं कुर्वन्), मांसम्, खादितुम्, तुष्टिम्, च, कर्तुम्, इच्छसि—॥ २२ ॥
**शब्दार्थ—**यदि=अगर, सूत्रशतैः=सैकड़ों सूतों-धागों से, युक्तम्=बना हुआ, लम्बदशाविशालम्=लम्बी किनारी होने से विशाल, प्रावरकम्=दुपट्टा को, तथा= और 'चूहू चूहू, चुक्कु चूहू, चूहू'—इस प्रकार की आवाज करते हुये, मांसम्=मांस को, खादितुम्=खाना, च=और तुष्टिम्=मन के सन्तोष को, कर्तुम्=करना, इच्छसि=चाहते हो—॥ २२ ॥
**अर्थ—**यदि सैकड़ों धागों से युक्त (बने हुये), लम्बी किनारी वाले विशाल दुपट्टे को (चाहते हो) तथा 'चूहू, चूहू, चुक्कु चूहू, चूहू' ऐसी आवाज करते हुये मांस खाना और (मन की) सन्तुष्टि करना चाहते हो तो—॥ २२ ॥
**टीका—**शकारः विटं प्रलोभयितुमाह-यदीति। यदि=चेत्, सूत्रशतैः= सूत्राणाम्=तन्तूनाम्, शतैः, युक्तम्=विशिष्टम्, निर्मितमिति भावः, प्रावरकम्= उत्तरीयम्, प्राप्तुमिच्छसि, तथा, 'चूहू चूहू चुक्कु, चूहू चूहू' इत्याकारकं ध्वनिं कुर्वन्, मांसम्=आमिषम्, खादितुम्=भोक्तुम्, च=तथा, तुष्टिम्=मनसः सन्तोषम्, कर्तुम्=विधातुम्, इच्छसि=अभिलषसि, अत्राग्रिमवाक्ये-अन्वयं कृत्वा निरपेक्षता सम्पादनीया। उपजातिवृत्तम् ॥ २२ ॥
४६० मृच्छकटिकम्
विटः--ततः किम् ? शकारः--मम पिअं कलेहि । ( मम प्रियं कुरु । ) विटः--वाढं करोमि, वर्जयित्वा त्वकार्यम् । शकारः--भावे ! अकज्जाह गन्धे वि णत्थि, लक्खशो कावि णत्थि । ( भावः ! अकार्यस्य गन्धोऽपि नास्ति, राक्षसी कापि नास्ति ! ) विटः--उच्यतां तर्हि । शकारः--मालेहि वसन्तशेणिअं । ( मारय वसन्तसेनाम् । ) विटः-- ( कर्णौ पिधाय )
बालां स्त्रियञ्च नगरस्य विभूषणञ्च वेश्यामवेश-सदृश-प्रणयोपचाराम् । एनामनागसमहं यदि मारयामि केन डुपेन परलोकनदीं तरिष्ये ॥ २३ ॥
**अर्थ--विट--**तो क्या करना होगा ? **शकार--**मेरा प्रिय करो । **विट--**हाँ करूँगा, लेकिन अनुचित काम को छोड़ कर । **शकार--**अनुचित कार्य की गन्ध ( लेश ) भी नहीं है, कोई राक्षसी भी नहीं है । **विट--**तब कहिये ( क्या करना है ) ? **शकार--**वसन्तसेना को मार डालो ।
**अन्वयः--**यदि, अहम्, बालाम्, स्त्रियम्, च, नगरस्य, विभूषणम्, च, अवेश्यसदृशप्रणयोपचाराम्, अनागसम्, एनाम्, वेश्याम्, घातयामि, ( तर्हि ) केन, उडुपेन, परलोकनदीम्, तरिष्ये ॥ २३ ॥
शब्दार्थ —यदि = अगर, अहम् = विट, बालाम् = युवावस्था को प्राप्त करने वाली, च = और, स्त्रियम् = स्त्री, च = और, नगरस्य = उज्जैन नगर की, विभूषणम् = आभूषणस्वरूप, अवेशसदृशप्रणयोपचाराम् = वेश्याओं के अयोग्य प्रेम करने वाली अर्थात् वास्तविक सच्चा प्रेम करने वाली, अनागसम् = निरपराध, एनाम् = इस, वेश्याम् = वेश्या वसन्तसेना को, हन्मि = मार डालता हूँ, ( तर्हि = तो ) केन = किस, उडुपेन = नौका से, परलोकनदीम् = दूसरे लोक की नदी ( वैतरणी नदी ) को, तरिष्ये = पार कर सकूँगा ॥ २३ ॥
अर्थ--विट-- ( कानों को बन्द करके ) यदि मैं, बाला ( अल्प अवस्था वाली ) स्त्री और इस नगर की आभूषण, वेश्याओं के अयोग्य प्रेम अर्थात् वास्तविक प्रेम करने वाली निरपराध इस वेश्या ( वसन्तसेना ) को मार डालता हूँ तो किस नौका से परलोक नदी ( वैतरणी ) को पार कर सकूँगा ॥ २३ ॥
अष्टमोऽङ्कः ४६१
शकारः—अहं ते भेडकं दइश्शं । अण्णं च विवित्ते उज्जाने इध मालन्तं को तुमं पेक्खिश्शदि । ( अहं ते उडुपं दास्यामि । अन्यच्च विविक्ते उद्याने इह मारयन्तं कस्त्वां प्रेक्षिष्यते ? )
विटः—( कर्णौ, विधाय )
पश्यन्ति मां दश दिशो वनदेवताश्च, चन्द्रश्च दीप्तिकिरणश्च दिवाकरोऽयम् । धर्मानिलौ च गगनञ्च तथान्तरात्मा भूमिस्तथा सुकृति-दुष्कृति-साक्षिभूताः ॥ २४ ॥
टीका—सामान्यप्राणिनामपि हिंसा महदनिष्टकरी, तत्रापीदृश्याः निरपराधायाः हिंसने तु न मे स्वर्गगमनसम्भवः—इति प्रतिपादयति विटः—**बालामिवि । यदि=**चेत्, **अहम्=**विटः, **बालाम्=**तारुण्यमुपयानतीमप्रौढामिति भावः, तत्रापि, **स्त्रियम्=**नारीम्, तत्रापि **नगरस्य=**पुरस्य, उज्जयिन्या इत्यर्थः, विभूषणम्= आभूषणस्वरूपाम्, **अवेशसदृशः=**वेश्याजनानुपयुक्तः, अकृत्रिमः, प्रणयोपचारः= प्रणयव्यवहारः यस्यास्तादृशीम् वेश्यात्वेऽपि कुलस्त्रीणामिव प्रणयव्यवहाररतामिति भावः, **अनागसम्=**निरपराधाम् **एनाम्=**पुरोवर्त्तमानाम्, **वेश्याम्=**गणिकां वसन्तसेना- मित्यर्थः, **घातयामि=**हन्मि, **तर्हि=**तदा एतादृशाकार्यानुष्ठाने सति, केन उडपेन= केन प्लवेन, अल्पनोंकयेति भावः, **परलोकनदीम्=**परलोक-पथमध्यवर्तिनीम् ‘वैतरिणीम्’ इति प्रसिद्धां सरित्, **तरिष्ये=**अतिक्रमिष्यामि, न केनापीति भावः । तृ धातुः भ्वादिगणे परस्मैपदी पठितः, अस्य आत्मनेपदीत्वेन प्रयोगे च्युतसंस्कारता दोषो बोध्यः । परिकरालंकारः, वसन्ततिलकं वृत्तम् ॥ २३ ॥
विमर्श—यहाँ विट का कथन अति महत्त्वपूर्ण है । सामान्य प्राणी की हिंसा भी पापजनक होती है । यहाँ तो पहले **बाला=**अल्प अवस्थावाली, दूसरे स्त्री, तीसरे उज्जयिनी की आभूषण, चौथे वेश्या होने पर भी वेश्याओं में असम्भव स्वाभाविक प्रेम करने वाली, पांचवे निरपराध वसन्तसेना को मारना महत् अनिष्ट-साधक होगा । यहाँ हिंसा के पाप को बढ़ाने में उत्तरोत्तर कथन का महत्त्व है । अतः विट किसी भी प्रकार वसन्तसेना को मारने के पक्ष में नहीं है । क्योंकि उसे परलोक न जा सकने का भय मन में है ॥ २३ ॥
अर्थ—शकार--मैं तुम्हें नौका दे दूँगा । और फिर इस बगीचे में मारते हुये तुम्हें कौन देखेगा ?
अन्वयः—सुकृतदुष्कृतसाक्षिभूताः, दश, दिशः, वनदेवताः, च, चन्द्रः, च, दीप्तकिरणः, अयम्, दिवाकरः, च, धर्मानिलौ, च, गगनम्, च, तथा, अन्तरात्मा, च, तथा, भूमिः, माम्, पश्यन्ति ॥ २४ ॥
| ४६२ | मृच्छकटिकम् |
|---|
शकारः--तेण हि पडन्तोवालिदं कडुअ मालेहि। (तेन हि पटान्तापवारितां कृत्वा मारय।)
विटः--मूर्ख ! अपध्वस्तोऽसि।
शब्दार्थ--सुकृतदुष्कृतसाक्षिभूताः=पुण्य और पाप के साक्षी (गवाह), दश=दश, दिशः=दिशायें, च=और, वनदेवताः=वन के देवता, च=और चन्द्रः=चन्द्रमा, दीप्तकिरणः=प्रखर किरण वाला, अयम्=यह, दिवाकरः=सूर्य, च=और धर्मानिलौ=धर्म और वायु, च=और, गगनम्=आकाश, च=और, तथा=तथा, अन्तरात्मा, तथा=और, भूमिः=पृथ्वी, माम्=मुझ=पापकर्ता विट को, पश्यन्ति=देखते ।। २४ ।।
अर्थ - विट--
पुण्य और पाप की साक्षी दश दिशायें, वन के देवता, चन्द्रमा, प्रखर किरणों वाला यह सूर्य, धर्म और वायु, आकाश और अन्तरात्मा तथा पृथ्वी मुझे [पापकर्ता विट को] देखते हैं ।। २४ ।।
टीका--विविक्ते कस्तवां प्रेक्षिष्यते इति शकारवचनस्योत्तरदानायाह विटः-पश्यन्तीति। सुकृतस्य=पुण्यस्य, दुष्कृतस्य=पापस्य च साक्षिभूताः=साक्षाद्द्रष्टारः, दश=दशसंख्याकाः दिशः=आशाः, वनदेवताः=अरण्याधिदेवताः, च=तथा, चन्द्रः=शशी, च=तथा, दीप्तकिरणः=प्रखरकिरणः, अयम्=पुरो दृश्यमानः, दिवाकरः=दिनकरः, धर्मः=सुकृतम्, अनिलः=पवनः, गगनः=आकाशः, तथा, अन्तरात्मा=जीवात्मा, तथा, भूमिः=पृथ्वी, माम्=पापकारिणं विटम्, पश्यन्ति=अवलोकयन्ति। एवञ्चैतेषां साक्षित्वे पापं कतुं न प्रभवामीति विटस्याभिप्रायः। तुल्ययोगितालंकारः वसन्ततिलकं वृत्तम् ।। २४ ।।
विमर्श—इस श्लोक में समुच्चयार्थ अनेक 'च' और 'तथा' शब्द प्रयुक्त हैं। यहाँ अप्रस्तुत दिशा आदि का 'पश्यन्ति' इस एक क्रिया के साथ सम्बन्ध होने से तुल्ययोगिता अलंकार है। 'साक्षिभूताः' यह पुलिङ्ग बहुवचन है। इसमें आवश्यकतानुसार लिङ्ग और वचन का परिवर्तन कर लेना चाहिये ।। २४ ।।
शब्दार्थ--पटान्तापवारिताम्=कपड़े से छिपी हुई, अपध्वस्त=अधमाधम, वृद्धकोलः=बूढ़ा शूकर, अनुनयामि=मनाता हूँ, परिधास्यामि=पहनूंगा, पीठकम्=चौकी, तख्त, महत्तरक=मेण्ठ, मुखिया, अकार्यम्=अनुचित कार्य, प्रवहणपरिवर्तनेन=गाड़ी बदल जाने से, प्रभवामि=प्रभाव कर पा रहा हूँ, परपिण्डभक्षकः=दूसरे का अन्न खाने वाला।
अर्थ—शकार—तब तो कपड़े से छिपाकर मारो।
विट--मूर्ख ! तुम बहुत नीच हो।
अष्टमोऽङ्कः | ४६३
शकारः—अधम्मभीरू एशे बुद्धकोले । भोदु, थावलअं चेडं अणुणेमि । पुत्तका ! थावलका ! चेडा ! शोवण्णखड॒आईं दइश्शं (अधर्मभीरुरेष वृद्धकोलः । भवतु, स्थावरकचेटमनुनयामि । पुत्रक ! स्थावरक ! चेट ! सुवर्णकटकानि दास्यामि । )
चेटः—अहं पि पहिलिशं । ( अहमपि परिधास्यामि । )
शकारः—शोवण्णं दे पीठके कालइश्शं । ( सौवर्णं ते पीठकं कारयिष्यामि । )
चेटः—अहं उवविशिशशं । ( अहमपि उपवेक्ष्यामि । )
शकारः—शव्वं दे उच्छिट्टं दइश्शं । ( सर्वं ते उच्छिष्टं दास्यामि । )
चेटः—अहं पि खाइश्शं ( अहमपि खादिष्यामि । )
शकारः—शव्वचेडाणं महत्तलकं कलइश्शं । ( सर्वचेटानां महत्तरकं करिष्यामि । )
चेटः—भटके ! हुविशं । ( भट्टक ! भविष्यामि । )
शकारः—ता मण्णेहि मम वअणं । ( तन्मन्यस्व मम वचनम् । )
चेटः—भटके ! शव्वं कलेमि, वज्जिअ अकज्जं । ( भट्टक ! सर्वं करोमि वर्जयित्वा अकार्यम् । )
शकारः—अकज्जाह गन्धे वि णत्थि । ( अकार्यस्य गन्धोऽपि नास्ति । )
चेटः—भणादु भटके । ( भणतु भट्टकः । )
शकार—यह बूढ़ा सुअर अधर्म से डरने वाला है । अच्छा, स्थावरक चेट को मनाता हूँ । बेटा, स्थावरक, चेट ! सोने के कड़े दूँगा ।
चेट—मैं भी पहन लूँगा ।
शकार—तुम्हारे लिये सोने का पीठासन बनवा दूँगा ।
चेट—मैं भी बैठूँगा ।
शकार—मैं तुम्हें बचा हुआ [ जूठन ] सारा भोजन दे दूँगा ।
चेट—मैं भी खा लूँगा ।
शकार—सभी नौकरों का मुखिया बना दूँगा ।
चेट—स्वामिन् ! मैं बन जाऊँगा ।
शकार—तो मेरी बात मान लो ।
चेट—स्वामिन् ! केवल अनुचित कार्य छोड़कर सभी कुछ करूँगा ।
शकार—अकार्य की गन्ध भी नहीं है ।
चेट—तो स्वामी कहिये ।
४६४ मृच्छकटिकम्
शकारः—एणं वशन्तशेणिअं मालेहि । ( एनां वसन्तसेनां मारय । )
चेटः—पशीददु भट्टके ! इमं मए अणज्जेण अज्जा पवहणपलिवत्तणेण आणीदा । ( प्रसीदतु भट्टकः इयं मया अनार्येण आर्या प्रवहणपरिवर्त्तनेनानीता । )
शकारः—अले चेडा ! तवावि ण पहवामि ? ( अरे चेट ! तवापि न प्रभवामि ? )
चेटः—पहवदि भट्टके शलीलाह, ण चालित्ताह । ता पशीददु पशीददु भट्टके । भाआमि क्खु अहं ( प्रभवति भट्टकः शरीरस्य, न चारित्रस्य । तत् प्रसीदतु भट्टकः, बिभेमि खलु अहम् । )
शकारः—तुमं मम चेड़े भविअ कश्श भाआशि ? ( त्वं मम चेटो भूत्वा कस्मात् बिभेषि ? )
चेटः—भट्टके ! पललोअश्श । ( भट्टक ! परलोकात् । )
शकारः—के शे पललोए ? ( कः सः परलोकः ? )
चेटः—भट्टके ! शुकिद-दुक्किदश्श पलिणामे । ( भट्टक ! सुकृतदुष्कृतस्य परिणामः । )
शकारः—केलीशे शुकिदस्य पालिणामे ? ( कीदृशः सुकृतस्य परिणामः ? )
चेटः—जादिशे भट्टके बहु-शोवण्ण-मण्डिदे । ( यादृशो भट्टकः बहुसुवर्णमण्डितः । )
शकारः—दुक्किदश्श केलीशे ? ( दुष्कृतस्य कीदृशः ? )
शकार—इस वसन्तसेना को मार डालो ।
चेट—स्वामी खुश रहें, ( नाराज न हों ) मैं नीच गाड़ी बदल जाने के कारण पूज्य वसन्तसेना को लाया हूँ ।
शकार—अरे चेट ! तुम पर भी मेरा प्रभाव नहीं है ।
चेट—स्वामी शरीर पर प्रभाव है, न कि चरित्र पर । इस लिये स्वामी नाराज न हों, मैं डर रहा हूँ ।
शकार—तुम मेरे नौकर होकर किससे डर रहे हो ?
चेट—स्वामी ! परलोक से ।
शकार—वह परलोक कौन है ?
चेट—स्वामी ! पुण्य और पाप का परिणाम ।
शकार—पुण्य का कैसा फल ?
चेट—जैसे स्वामी आप बहुत सोने से अलंकृत हैं ।
शकार—पाप का कैसा ?
अष्टमोऽङ्कः ४६५
चेटः—जादिशे हग्गे पलपिण्डभक्खके भूदे । ता, अकज्जं ण कलइश्शं ।
( यादृशोऽहं परपिण्डभक्षको भूतः । तदकार्यं न करिष्यामि । )
शकारः—अले ! ण मालिश्शशि ? (अरे न मारयिष्यसि ?) (इति बहुविधं ताडयति ।)
चेटः—पिट्ठदु भट्टके; मालेदु भट्टके, अकज्जं ण कलइश्शं । ( ताडयतु भट्टकः, मारयतु भट्टकः, अकार्यं न करिष्यामि ।)
जेण म्हि गब्भदाशो विणिम्मिदे भाअधेअदोशेहिं ।
अहिअं च ण कीणिस्सं तेण अकज्जं पलिहलामि ॥ २५ ॥
( येनास्मि गर्भदासो विनिर्मितो भागधेयदोषैः ।
अधिकञ्च न क्रेष्यामि तेनाकार्यं परिहरामि ॥ २५ ॥ )
चेट—जैसा मैं दूसरे के अन्न को खाने वाला बना । अतः अनुचित कार्य नहीं करूँगा ।
शकार—अरे ! नहीं मारोगे ? ( यह कह कर अनेक प्रकार से पीटता है । )
चेट—स्वामी पीटो, मार डालो, किन्तु अनुचित कार्य नहीं करूँगा ।
टीका पटान्तेन=वस्त्रखण्डेन, अपवारिताम्=आच्छादिताम्, समावृताम् वा, अपध्वस्तः=अधमाधमः, वृद्धकोलः = वृद्धशूकरः, पीठकम्=आसनम्, उच्छिष्टम्= भोजनावशिष्टम्, महत्तरकम्=प्रमुखम्, मन्यस्व=परिपालय, गन्धः=लेशः, प्रवहणस्य= यानस्य, परिवर्तनेन=व्यत्यासेन, प्रभवामि = प्रभुर्भवामि, चारित्रस्य = चरित्रस्य, स्वार्थिकेऽणि प्रत्यये साधुः, परस्य=अन्यस्य, पिण्डानाम् = दीयमानग्रासादीनाम्, भक्षकः=खादकः, ताडयतु=पीडितं करोतु ।
अन्वयः—येन, भागधेयदोषैः, गर्भदासः, विनिर्मितः, अस्मि, तेन, अधिकम्, न, क्रेष्यामि, अकार्यम्, च, परिहरामि ॥ २५ ॥
शब्दार्थ—येन=जिस ( पापकर्म ) के कारण, भागधेयदोषैः=भाग्य के दोषों से, गर्भदासः=जन्मकाल से ही दास, विनिर्मितः=बना दिया गया, अस्मि=हूँ, तेन=इस लिये, अधिकम्=और अधिक, नं=नहीं, क्रेष्यामि=खरीदूँगा, अकार्यम्= अनुचित काम को, च=भी, परिहरामि=नहीं करूँगा, बचाऊँगा ॥ २५ ॥
अर्थ—जिस कारण भाग्य के दोषों से जन्मकाल से ही दास बना दिया गया हूँ । अतः (वर्जित पाप कर्म करके और ) अधिक ( पाप ) नहीं खरीदूँगा ( करूँगा ) । और अनुचित काम नहीं करूँगा ( दूर रखूँगा ) ॥ २५ ॥
टीका—अकार्यस्य करणे चेटो हेतुमाह-येनेति । येन=यस्माद्धेतोः, भागधेयदोषैः= पूर्वजन्माचारिताकार्यफलभूतदुरदृष्ट-परिणामवशात्, स्वार्थे धेयप्रत्ययः, गर्भदासः= आजन्म-भृत्यः, विनिर्मितः=विहितः, ब्रह्मणोति शेषः, अस्मि=भवामि, तेन=तस्माद्धेतोः,
३० मृ०
| ४६६ | मृच्छकटिकम् |
|---|
वसन्तसेना—भाव ! शरणागदम्हि । ( भाव ! शरणागतास्मि । )
विटः—काणेलीमातः ! मर्षय मर्षय । साधु स्थावरक ! साधु ।
अप्येष नाम परिभूतदशो दरिद्रः
प्रेष्यः परत्र फलमिच्छति नास्य भर्ता ।
तस्मादमी कथमिवाद्य न यान्ति नाशं
ये वर्द्धयन्त्यसदृशं सदृशं त्यजन्ति ॥ २६ ॥
अकार्यम्=अनुचितं कार्यम्, परिहरामि=परित्यजामि, अधिकम्=अनुभूयमानादेतादृश-भोगाधिकम्, न=नैव, क्रेष्यामि=स्वदुष्कृत-कर्म-मूल्यदानेन ग्रहीष्यामीति भावः । आर्या वृत्तम् ॥ २५ ॥
अर्थ—वसन्तसेना—भाव ! शरण में आयी हुई हूँ ।
विट—काणेली के पुत्र ! क्षमा करो । क्षमा करो । वाह स्थावरक ! वाह ।
अन्वयः—परिभूतदशः, दरिद्रः, प्रेष्यः, अपि, एषः, परत्र, फलम्, इच्छति, नाम, ( परन्तु ), अस्य, भर्ता, न, ( इच्छति ), तस्मात्, ये, असदृशम्, वर्धयन्ति, सदृशम्, त्यजन्ति, ते, अद्य, कथमिव, नाशम्, न, यान्ति ॥ २६ ॥
शब्दार्थ—परिभूतदशः=दयनीय दशावाला, दरिद्रः=निर्धन, प्रेष्यः=सेवक, अपि=भी, एषः=यह चेट, परत्र=परलोक में, फलम्=फल को, इच्छति=चाहता है, नाम वाक्यालंकारार्थं प्रयुक्त है । परन्तु=लेकिन, अस्य=इस का, भर्ता=स्वामी शकार, न=नहीं ( इच्छति=चाहता है ।) तस्मात्=इसलिये, ये=जो, असदृशम्=अनुचित को, वर्धयन्ति=बढ़ाते हैं, [ और ] सदृशम्=उचित को, त्यजन्ति=छोड़ते हैं, अमी=वे लोग, अद्य=आज ही, इसी क्षण, कथमिव,=किस कारण, नाशम्=विनाश को, न=नहीं, यान्ति=प्राप्त करते हैं ॥ २६ ॥
अर्थ—दयनीय दशा में पड़ा हुआ निर्धन सेवक भी यह (चेट) परलोक में फल की इच्छा करता है किन्तु इसका स्वामी (शकार) नहीं (इच्छा करता है) । इसलिये जो अनुचित को बढ़ाते हैं और उचित को छोड़ते हैं, वे आज ही, किस कारण नष्ट नहीं हो जाते हैं ॥ २६ ॥
टीका—अनुचितानुष्ठातुरपि शकारस्य समृद्धिं दृष्ट्वा खेदं व्यनक्ति--अपीति । परिभूता=तिरस्कृता अपमानिता दशा=अवस्था यस्य सः, दरिद्रः=निर्धनः, अपि, एषः = पुरोवर्तमानः, प्रेष्यः=सेवकः चेटः, परत्र=परलोके, फलम् = सुकृतदुष्कृत-परिणामम्, इच्छति=वाञ्छति, परन्तु, अस्य=सेवकस्य, भर्ता=स्वामी शकारः, न=नैव, फलमिच्छतीति भावः, तस्मात्=अतो हेतोः, ये=ये जनाः, असदृशम्=अनुचितं कार्यं जनं वा, वर्धयन्ति = एधयन्ति, तथा, सदृशम् = उचितं योग्यं वा, त्यजन्ति=परिहरन्ति, अमी=अनुचितकर्तारः शकारादयः, अद्य=अस्मिन् क्षण एव, कथमिव=कस्मात् कारणात्, नाशम्=क्षयम्, न=नैव, यान्ति=व्रजन्ति । अनुचित-कार्यकर्ता
अष्टमोऽङ्कः ४६७
अपि च—रन्ध्रानुसारी विषमः कृतान्तो
यदस्य दास्यं तव चेश्वरत्वम्।
श्रियं त्वदीयां यदयं न भुङ्क्ते
यदेतदाज्ञां न भवान् करोति ॥ २७ ॥
शकारोऽद्यापि सम्पन्नः सुखं भुङ्क्ते, धर्मचारपरायणश्चेटोऽद्यापि दास्यतामेव गत इति महदाश्चर्यकरमिति तद्भावः। जगद्धरस्तु-काकुं मत्वा नाशं यान्त्येवेति भाव इत्याह। अत्र विशेषोक्तिः, अप्रस्तुतप्रशंसा वेति बोध्यम्। वसन्ततिलकं वृत्तम् ॥२६॥
**अन्वयः--**कृतान्तः, रन्ध्रानुसारी, विषमः, यत्, अस्य, दास्यम्, तव, च, ईश्वरत्वम्, ( विहितम् ), यत्, अयम्, त्वदीयाम्, श्रियम्, न, भुङ्क्ते, यत्, भवान्, एतदाज्ञाम्, न, करोति ॥ २७ ॥
शब्दार्थ—कृतान्तः=ब्रह्मा, भाग्य, रन्ध्रानुसारी=दोष देखने वाला, विषमः=उल्टा, विपरीत कार्य करने वाला, है, यत्=क्योंकि, अस्य=इस चेट की, दास्यम्=नौकरी, तव च=और तुम्हारी, ईश्वरत्वम्=मालिकगीरी, बनाई, यत्=जो कि, अयम्=यह चेट, त्वदीयाम् = तुम्हारी, श्रियम्=लक्ष्मी का, न=नहीं, भुङ्क्ते=उपभोग करता है, यत्=जो कि, भवान्=आप शकार, एतदाज्ञाम्=इस चेट की आज्ञा ( पालन ) को, न=नहीं, करोति=करते हैं ।। २७ ।।
अर्थ--और भी —
भाग्य छिद्र=दोष देखने वाला उल्टा काम करने वाला है क्योंकि इसकी नौकरी और तुम्हारी मालिकगीरी बनायी है। क्योंकि यह चेट तुम्हारी धन-सम्पत्ति का उपभोग नहीं करता है और तुम इसकी आज्ञा का पालन नहीं करते हो ॥ २७ ॥
**टीका--**दैवस्य विपरीतकर्तृत्वं निन्दन्नाह-रन्ध्रेति । कृतान्तः = दैवम्, 'कृतान्तःक्षेमकर्मणि सिद्धान्तयमदैवेषु' इति हेमचन्द्रः, रन्ध्रम्=छिद्रम्, दोषमिति भावः, अनुसारी=अनुसरति=पश्यतीति भावः, छिद्रानुसन्धायी, दोषमात्र-द्रष्टा न तु गुणैकपक्षपातीत्यर्थः, विषमः=फलानुमेयत्या विपरीत:, धार्मिकस्य बहु-गुणवतोऽपि क्लेशतावाप्ति., अधार्मिकस्य दोषवतोऽपि सुखप्राप्तिस्तस्य वैपरीत्ये प्रमाणमिति बोध्यम् । यत्=यस्मात्, अस्य=अमुष्य चेटस्य, दास्यम्=सेवकत्वम्, तव च=तथा शकारस्य, ईश्वरत्वम्=स्वामित्वम्, विहितम्, यत्=यस्मात्, अयम्=चेटः, त्वदीयाम्=शकारसम्बन्धिनीम्, श्रियम्=सम्पत्तिम्, न=नैव, भुङ्क्ते=उपभुङ्क्ते, यत्=यस्मात् च, भवान्=शकारः, एतस्य = चेटस्य, आज्ञाम्=आदेशम्, न=नैव, करोति=पालयति । काव्यलिङ्गमलङ्कारः, उपजातिवृत्तम् ॥ २७ ॥
४६८ मृच्छकटिकम्
शकारः—( स्वगतम् ) अधम्मभीलुए बुड्ढखोडे, पललोअभीलू एशे गब्भदाशे । हग्गे लट्टिश्राले कश्श भाआमि बल-पुलिश-मणुश्शे ? (प्रकाशम्) अले गब्भदाशे चेटे ! गच्छ तुमं, ओवलके पविशिअ वीशन्ते एअन्ते चिट्ठ । ( अधर्मभीरुको वृद्धशृगालः, परलोकभीरुरेष गर्भदासः । अहं राष्ट्रियश्यालः कस्माद्बिभेमि वर-पुरुष-मनुष्यः ? ) ( अरे गर्भदास चेट ! गच्छ त्वम्, अपवारके प्रविश्य विश्रान्त एकान्ते तिष्ठ । )
**चेटः—**जं भट्टके आणवेदि । ( वसन्तसेनामुपसृत्य ) अज्जए ! एत्तिके मे विहवे । ( यद्भर्तृक आज्ञापयति । ) ( आर्ये ! एतावान् मे विभवः।) (इति निष्क्रान्तः।)
शकारः—( परिकरं बध्नन् ) चिट्ठ वसन्तशेणिए ! चिट्ठ, मालइश्शं । ( तिष्ठ वसन्तसेने ! तिष्ठ, मारयिष्यामि । )
**विटः—**आः ! ममाग्रतो व्यापादयिष्यसि ? ( इति गले गृह्णाति । )
शकारः—( भूमौ पतति ) भावे भट्टकं मालेदि । ( इति मोहं नाटयति । चेतनां लब्ध्वा ) ( भावो भर्तृकं मारयति । )
**विमर्श—**विट यहाँ भाग्य की उलटी क्रिया का वर्णन करता है। जो अच्छा कार्य करने वाला है वह नौकर बना है और जो गलत काम करने वाला है वह मालिक बना है।
यहाँ प्रथमपादगत वाक्यार्थ के प्रति अन्य तीन वाक्यों के अर्थ निष्पादक होते हुये हेतु हैं अतः यहाँ काव्यलिङ्ग अलंकार है ॥ २७ ॥
अर्थ—शकार—( अपने में ) यह बूढ़ा सियार [ विट ] अधर्म से डरने वाला है और यह जन्म से सेवक [ चेट ] परलोक से डरने वाला है। मैं श्रेष्ठ पुरुष राजा का शाला किससे डरने वाला हूँ । ( प्रकट में ) अरे जन्मकाल से ही नौकर चेट ! तुम जाओ, छिपने योग्य स्थान पर घुसकर शान्त होकर एकान्त में बैठो।
**चेट—**स्वामिन् ! जैसी आज्ञा ! ( वसन्तसेना के पास जाकर ) आर्ये ! इतनी ही मेरी शक्ति थी । ( यह कह कर निकल जाता है । )
शकार—( कमर कसता हुआ ) ठहर जा वसन्तसेना, ठहर जा, तुझे मार डालता हूँ ।
**विट—**आह ! मेरे आगे ही मारोगे ? ( यह कह कर गला पकड़ लेता है । )
शकार—( जमीन पर गिर पड़ता है । ) भाव ! स्वामी को मारते हो । ( मूर्च्छित होने का अभिनय करता है । होश में आकर । )
अष्टमोऽङ्कः ४६९
शव्वकालं मए पुट्टे मंशेण अ घिएण अ । अज्ज कज्जे शमुप्पण्णं जादे मे वेलिए कथं ॥ २८ ॥ ( सर्वकालं मया पुष्टो मांसेन च घृतेन च । अद्य कार्ये समुत्पन्ने जातो मे वैरिकः कथम् ॥ २८ ॥ )
( विचिन्त्य ) भोदु, लद्धे मए उवाए । दिण्णा बुद्धखोडेण शिरश्चालण-शण्णा, ता एदं पिशिअ वसन्तशेणिअं मालइश्शं । एव्वं दाव । ( प्रकाशम् ) भावे ! जं तुमं मए भणिदे, तं कथं हग्गे एव्वं वड्ढकेहिं मल्लकंपमाणेहिं कुलेहिं जादे अकज्जं कलेमि ? एव्वं एदं अङ्गोकलावेंदुं मए भणिदं । ( भवतु, लब्धो मया उपायः । दत्ता वृद्धशृगालेन शिरश्चालनसञ्ज्ञा, तदेतां प्रेष्य वसन्तसेनां मारयिष्यामि । एवं तावत् । ) ( भाव ! यत् त्वं मया
अन्वयः—मया, मांसेन, च, घृतेन, च, सर्वकालम्, पुष्टः, [ भवान् ] अद्य, कार्ये, समुत्पन्ने, मे, वैरिकः, कथम्, जातः ? ॥ २८ ॥
शब्दार्थ—मया = मेरे ( शकार के ) द्वारा, मांसेन = मांस से, च = और, घृतेन = घी से, सर्वकालम् = सदैव, पुष्टः = पुष्ट किये गये [ भवान् = आप ], अद्य = इस समय, कार्ये = काम के, समुत्पन्ने = उपस्थित होने पर, मे = मेरे शकार के, वैरिकः = दुश्मन, कथम् = क्यों, जातः = बन गये ? ॥ २८ ॥
अर्थ—मेरे द्वारा मांस और घी से सदैव परिपुष्ट हुये आप आज काम उपस्थित होने पर मेरे वैरी क्यों बन गये ? ॥ २८ ॥
टीका—विटस्य वैरित्वे शकार आश्चर्यं व्यनक्ति—सर्वेति । मया = शकारेण, मांसेन = आमिषेण, च = तथा, घृतेन = सर्पिषा, सर्वकालम् = सदैव, पुष्टः = सामर्थ्ययुक्तः, कृतः, भवान् = विटः, अद्य = अस्मिन् क्षणे, कार्ये = प्रयोजने, समुत्पन्ने = सम्प्राप्ते सति, मे = मम, शकारस्य, वैरिकः = वैरी एव वैरिकः, स्वार्थे कः, शत्रुः, कथम् = कस्मात्, जातः = भूतः । मया वर्धितस्य ते मम विरोधोऽनुचित इति तद्भावः । पथ्यावक्त्रं वृत्तम् ॥ २८ ॥
विमर्शः—शकार का आशय यह है कि मैंने सदैव मांस, घी आदि खिलाकर तुम्हें इसीलिये शक्तिशाली बनाया था कि मौका पड़ने पर मेरी सहायता करोगे । किन्तु तुम आशा के विपरीत, सहायता करने की अपेक्षा, मेरे ही शत्रु बन बैठो हो, यह कहाँ तक उचित है ॥ २८ ॥
अर्थ—( सोंचकर ) अच्छा, मुझे उपाय समझ में आ गया बूढ़े सियार ने सिर हिलाकर मुझे सावधान कर दिया है । अतः इस ( विट को ) भेजकर (हटा कर ) वसन्तसेना को मारूँगा । अच्छा ऐसा करता हूँ । ( प्रकट में ) भाव ! जो तुमसे
४७० | मृच्छकटिकम्
भणितः, तत् कथमहमेवं बृहत्तरैः मल्लकप्रमाणैः कुलैर्जातोऽकार्यं करोमि ? एवमेतदङ्गीकारयितुं मया भणितम् ।)
विटः—किं कुलेनोपदिष्टेन शीलमेवात्र कारणम् ।
भवन्ति सुतरां स्फीताः सुक्षेत्रे कण्टकिद्रुमाः ॥ २६ ॥
मैंने कहा था, तो पुरवा (शकोरा) के समान बहुत बड़े कुल में पैदा होकर अनुचित काम करूँगा। यह तो मैंने इससे इसलिये कहा था कि यह (वसन्तसेना) मुझे स्वीकार कर ले।
टीका—उपायः=वसन्तसेनायाः हत्योपायः, शिरश्चालनसंज्ञा=शिरः चालयित्वा सावधानता, मम शिरसि आक्रम्येदं सूचितं विटेन यदस्योपस्थितौ वसन्तसेनायाः मारणमसम्भवमिति भावः । केचिदनुमतिप्रदानमित्यर्थं प्रतिपादयन्ति, यत्=वसन्तसेनाबधादिविषयकं यत्किमपि, मल्लकप्रमाणैः=चषकतुल्यैरित्यर्थः । महत्त्वख्यापनाय समुद्रप्रमाणैरिति वक्तव्ये मौर्ख्यात् मल्लकप्रमाणतया कुलमुपमिनोतीति प्रामाणिकाः । क्वचिद् 'गल्लकप्रमाणैः'=कुक्कुरोपमैरिति पाठः स्वकुलस्य कुक्कुरतुल्यतां प्रकटयति मौर्ख्यादिति तद्भावः । एतत्=पूर्वोक्तं भयादिजनकमित्यर्थः, अङ्गीकारयितुम्=मां स्वीकर्तुमिति भावः ।
विमर्शः— शिरश्चालनसंज्ञा-इस पद के अर्थ विवादग्रस्त हैं। कुछ लोग-शिर हिलाकर अनुमति देना – अर्थ करते हैं। दूसरे लोग—शिर हिलाकर बुद्धि दे दी—यह अर्थ करते हैं।
वास्तव में यहाँ लाक्षणिक अर्थ लेना चाहिये। मेरा सिर हिलाकर=गर्दन पर हमला करके मुझे सावधान कर दिया है कि उस (विट) की उपस्थिति में वसन्तसेना का वध करना सम्भव नहीं है। यह अर्थ मानने में अग्रिम पंक्ति भी प्रमाण है—'तदेतं प्रेष्य वसन्तसेनां मारयिष्यामि ।'
मल्लकप्रमाणैः— अपने कुल की महत्ता के लिये समुद्रादि की उपमा न देकर मल्लक=मिट्टी के प्याला के साथ उपमा देना शकार की मूर्खता को प्रकट करता है। कहीं-कहीं 'गल्लकप्रमाणैः' ऐसा पाठ है। गल्लक का अर्थ कुक्कुर है। कुत्तों के समान कुल में पैदा होने वाला—यह भी ठीक ही है। यहाँ भी शकार की मूर्खता प्रकट होती है।
अन्वयः—कुलेन, उपदिष्टेन, किम्, अत्र, शीलम् एव, कारणम्, सुक्षेत्रे, कण्टकिद्रुमाः, सुतराम्, स्फीताः, भवन्ति ॥ २६ ॥
शब्दार्थ—कुलेन=कुल को, उपदिष्टेन = कहने से, किम्=क्या ? अत्र=इस [ अनुचित कार्यादि करने ] में, शीलम् = स्वभाव, एव = ही, कारणम् = कारण, हैं,
अष्टमोऽङ्कः ४७१
शकारः—भावे ! एशा तव अग्गदो लज्जाअदि, ण मं अङ्गीकलेदि, ता गच्छ, थाअलअचेडे मए पिट्ठिदे गदे वि। एशे पलाइअ गच्छदि, ता तं गेण्हिअ आअच्छदु भावे। ( भाव ! एषा तवाग्रतो लज्जते, न मामङ्गीकरोति तद् गच्छ, स्थावरकचेटो मया ताडितो गतोऽपि। एष पलाय्य गच्छति, तत् तं गृहीत्वा आगच्छतु भावः । )
विटः— स्वगतम् )
अस्मत्समक्षं हि वसन्तसेना शौण्डीर्यभावान्न भजेत मूर्खम् ।
तस्मात् करोम्येष विविक्तमस्या विविक्तविस्त्रम्भरसो हि कामः ॥ ३० ॥
सुक्षेत्रे=अच्छे खेत में, कण्टकिद्रुमाः = कांटेदार वृक्ष, भी, सुतराम् = अच्छी तरह, स्फीताः=विकसित, भवन्ति=होते हैं ॥ २६ ॥
अर्थ-विट —
कुल को बताने से क्या लाभ ? इस [ अनुचित काम को करने ] में स्वभाव ही प्रमुख कारण होता है। अच्छे खेत में कांटेदार पौधे भी खूब विकसित होने ( बढ़ने ) लगते हैं ॥ २६ ॥
टीका—अकार्यकरणे कुलं नैव, अपितु मानवस्वभाव एव प्रमुखं कारणमस्तीति विटः प्रतिपादयति—किमिति । कुलेन = उच्चवंशेन, उपदिष्टेन = कथनेन, किम्=किं प्रयोजनम्, न किमपीति भावः, अत्र = अनुचितकार्यकरणे, शीलम्=स्वभावः, एव, कारणम्=प्रमुखो हेतुः । दृष्टान्तेन समर्थयते—सुक्षेत्रे=उत्कृष्टभूमिवति क्षेत्रे, कण्टकिद्रुमाः=कण्टकयुताः वृक्षाः अपि, सुतराम्=भृशम्, स्फीताः=विकसिताः, भवन्ति=जायन्ते । एवञ्च संद्वंशे समुत्पन्नोऽपि दुःस्वभावतयाकार्यं कर्तुं शक्नोतीति तद्भावः । अत्रार्थान्तरन्यासोऽलंकारः, पथ्यावक्त्रं वृत्तम् ॥ २६ ॥
अर्थ—शकार—भाव ! तुम्हारे आगे यह वसन्तसेना लजा रही है, अतः मुझे नहीं स्वीकार कर रही है, इसलिये जाओ । मेरे द्वारा प्रताडित स्थावरक चेट चला भी गया है । वह भाग कर जा रहा है । अतः भाव उसको पकड़ कर आ जाइये ।
अन्वयः—वसन्तसेना, शौण्डीर्यभावात्, अस्मत्समक्षम्, मूर्खम्, न, भजेत, तस्मात्, एषः [ अहम् ], अस्याः ( कृते ), विविक्तम्, करोमि, हि, कामः, विविक्तविश्रम्भरसः, [ अस्ति ] ॥ ३० ॥
शब्दार्थ—वसन्तसेना=वसन्तसेना, शौण्डीर्यभावात्=घमण्डी स्वभाव के कारण, अस्मत्समक्षम्=हम लोगों के सामने, मूर्खम्=मूर्ख शकार को, न=नहीं, भजेत=स्वीकार करे [ करती हो ], तस्मात्=इस लिये, एषः=यह, [ अहम्=मैं विट ] अस्याः=इसके, [ कृते=लिये ], विविक्तम्=एकान्त, करोमि=कर दे रहा हूँ, हि=
४७२ | मृच्छकटिकम्
( प्रकाशम् ) एवं भवतु, गच्छामि ।
वसन्तसेना--(पटान्ते गृहीत्वा) णं भणामि शलणागदम्हि । ( ननु भणामि शरणागतास्मि । )
विटः -- वसन्तसेने ! न भेतव्यं न भेतव्यम् । काणेलीमातः ! वसन्तसेना तव हस्ते न्यासः ।
शकारः--एव्वं, मम हत्थ एशा णाशेण चिट्ठदु । ( एवम्, मम हस्ते एषा न्यासेन तिष्ठतु । )
क्योंकि, कामः = कामभाव सम्भोग, विविक्तविश्रम्भरसः = एकान्त में और विश्वस्त में आनन्द देने वाला [ अस्ति = होता है । ] ॥ ३० ॥
अर्थ—विट — ( अपने में )
वसन्तसेना अपने घमण्डी स्वभाव के कारण, सम्भव है, हमारे सामने इस मूर्ख को स्वीकार न करे । इस लिये इसके लिये एकान्त कर दे रहा हूँ । क्योंकि काम-भाव एकान्त में और विश्वस्त [ स्थान ] में ही आनन्ददायक होता है ॥ ३० ॥
टीका -- धनादिलोभेन मातृराज्ञावशेन वा मनसा शकारमिच्छन्त्यपि अन्येषां समक्षं तं न स्वीकुर्यादतः किं करणीयमित्यत्र विटः चिन्तयति —अस्मदिति । वसन्तसेना = गणिकोत्तमा वसन्तसेना, शौण्डीर्यभावात् = उदारस्वभाववत्तया, दर्पयुक्त-प्रकृतिमत्तया वा, अस्माकम् = विटादीनाम्, समक्षम् = पुरतः, मूर्खम् = मूढं निर्गुणं शकारम्, न = नैव, भजेत = सुरतभोगप्रदानेन प्रीणीयात्, सम्भावनायां लिङ् । तस्मात् = अस्मत्समक्षं मूर्खस्याङ्गीकारासम्भवात्, एषः, अहम् = विटः, अस्याः = वसन्तसेनायाः, कृते, विविक्तम् = निर्जनत्वम्, करोमि = विदधामि, हि = यतः, कामः = सुरतसम्भोगः, विविक्ते = विजने शून्ये वा, विश्रम्भे = विश्वस्ते, यद्वा, विजने यः विश्रम्भः, तत्र रसः = आनन्दः, यस्य तादृशो भवति । एवञ्चास्माभिरिहैकान्ते वसन्तसेना त्याज्या येन निर्विघ्नं सम्भोगसुखं प्राप्नुयादिति भावः । अर्थान्तर-न्यासोऽलंकारः, उपजातिवृत्तम् ॥ ३० ॥
अर्थ—( प्रकट रूप में ) ऐसा ही हो, तो चलता हूँ ।
वसन्तसेना—( कपड़े का छोर पकड़ कर ) मैं कह रही हूँ कि मैं आपकी शरण में आयी हूँ ।
विट—वसन्तसेना, मत डरो, मत डरो । काणेली के पुत्र ! वसन्तसेना तुम्हारे हाथ में मेरी धरोहर है ।
शकार—अच्छा, यह मेरे पास में धरोहर रूप से रहे ।
अष्टमोऽङ्कः ४७३
विटः—सत्यम् ?
शकारः—सच्चं । ( सत्यम् । )
विटः—( किञ्चिद् गत्वा ) अथवा मयि गते नृशंसो हन्यादेनाम् । तद-
पवारितशरीरः पश्यामि तावदस्य चिकीर्षितम् । ( इत्येकान्ते स्थितः । )
शकारः—भोदु, मालइश्शं । अथवा कवडकावडिके एशे वम्हणे
वुड्ढखोडे कदावि ओवालिद-शलीले गदिअ, शिआले भविअ, हुलुमंलि
कलेदि ! ता एदश्श वञ्चणाणिमित्तं एव्वं दाव कलइश्शं ( कुसुमावचयं
कुर्वन्नात्मानं मण्डयति । ) वाशू ! वाशू ! वसन्तशेणिए ! एहि । ( भवतु, मार-
यिष्यामि । अथवा कपट-कापटिक एष ब्राह्मणो वृद्धशृगालः कदापि अपवारितं
शरीरो गत्वा शृगालो भूत्वा कपटं करोति । तदेतस्य वञ्चनानिमित्तम् एवं तावत्
करिष्यामि । ) ( बाले ! बाले ! वसन्तसेने एहि । )
विटः—अये ! कामी संवृत्तः । हन्त ! निर्वृत्तोऽस्मि । गच्छामि ।
( इति निष्क्रान्तः । )
शकारः—
शुवण्णं देमि पिअं वदेमि पडेमि शीशेण शवेष्टणेण ।
तधावि मं णेच्छशि शुद्धदन्ति ! किं शेवअं कष्टमआ मणुश्शा ॥ ३१ ॥
विट—सच ?
शकार—सच ।
विट—( कुछ दूर जाकर ) अथवा मेरे चले जाने पर पापी यह वसन्तसेना
को मार सकता है। इस लिये अपने शरीर को छिपाकर इसकी इच्छा ( क्या
करना चाहता है ) को देखता हूँ । ( यह कह कर एकान्त में खड़ा हो गया । )
शकार—अच्छा, मार डालूँगा । अथवा यह धूर्त ब्राह्मण बूढ़ा सियार कहीं
अपना शरीर छिपाता हुआ सियार बन कर छल कर रहा हो । तो अब इसको
धोखा देने के लिये ऐसा करता हूँ । ( फूल तोड़ता हुआ अपने को सजाता है । )
बाले, बाले, वसन्तसेने, आओ ।
विट—अरे ! यह तो कामुक बन गया । हां, अब मैं निश्चिन्त हो गया ।
अब चलता हूँ । ( यह कह कर निकल गया । )
अन्वयः—( तुभ्यम् ), सुवर्णकम्, ददामि, प्रियम्, वदामि, सवेष्टनेन, शीर्षेण,
पतामि, तथापि, हे शुद्धदन्ति !, माम्, सेवकम्, न, इच्छसि, मनुष्याः, कष्टमयाः
( भवन्ति ) ॥ ३१ ॥
शब्दार्थ—( तुभ्यम्=तुम्हें, वसन्तसेना को ), सुवर्णकम्=सोना, ददामि=
देता हूँ, प्रियम्=प्रिय, वदामि=कह रहा हूँ, सवेष्टनेन=पगड़ी-सहित, शीर्षेण=
| ४७४ | मृच्छकटिकम् |
|---|
( सुवण्णं ददामि, प्रियं वदामि, पतामि शीर्षेण सवेष्टनेन ।
तथापि मां नेच्छसि शुद्धदन्ति ! किं सेवकं कष्टमया मनुष्याः ॥ ३१ ॥ )
वसन्तसेना—को एत्थ सन्देहो ? ( कोऽत्र सन्देहः ? ) ( अवनतमुखी 'खलचरित' इत्यादि श्लोक-द्वयं पठति । )
खलचरित निकृष्ट ! जातदोषः कथमिह मां परिलोभसे धनेन ।
सुचरितचरितं विशुद्धदेहं न हि कमलं मधुपाः परित्यजन्ति ॥ ३२ ॥
सिर से, पतामि=गिरता हूँ, तथापि=फिर भी, हे शुद्धदन्ति=उज्ज्वल दाँतो वाली !, माम्=मुझ शकार को, सेवकम्=सेवक को, न=नहीं, इच्छसि=चाहती हो, मनुष्याः=मनुष्य, बहुकष्टमयाः=बहुत कष्टों से युक्त, ( भवन्ति होते हैं । ) ॥ ३१ ॥
अर्थ—शकार—
( मैं तुम्हें ) सोना देता हूँ, प्यारी बातें बोलता हूँ, पगड़ीसहित सिर से ( तुम्हारे पैरों पर ) गिरता हूँ । फिर भी हे उज्ज्वल दाँतों वाली वसन्तसेना ! मुझ सेवक को नहीं पसन्द करती हो । हाय ! मनुष्य बहुत कष्टों से युक्त होते हैं ॥ ३१ ॥
टीका—साम्प्रतं विटं वञ्चयितुं शकारश्चाटुवचनैः वसन्तसेनां प्रलोभयन्नाह—सुवर्णकमिति । अहम्, तुभ्यम्, सुवर्णकम्=प्रचुरं हिरण्मयम्, ददामि=प्रयच्छामि, प्रियम् = मनोहरम्, वदामि = भणामि, सवेष्टनेन = सोष्णीषेण, = शीर्षेण=शिरसा, पतामि=नमामि, तव पादयोरिति शेषः, तथापि=एवं कृते सत्यपि, हे शुभ्रदन्ति != उज्ज्वलदशने !, माम्=शकारम्, सेवकम्=दासम्, न=नैव, इच्छसि=कामयसे, मनुष्याः=लोकाः, कष्टमयाः=विविधक्लेशयुताः, मनुष्याणां मनोरथाः महताऽप्रासेनेव पूर्यन्ते इति तद्भावः । अर्थान्तरन्यासोऽलंकारः उपजातिवृत्तम् ॥ ३१ ॥
विमर्श—कुछ लोग 'किं शे बज्रं कष्टमआ मणुश्शा, इस प्राकृत में पदच्छेद मानकर 'किमस्याः वयं काष्ठमयाः मनुष्याः' यह संस्कृतच्छाया मानते हैं। इसके अनुसार 'अस्याः समक्षं मादृशाः जनाः काष्ठमयाः, काष्ठनिर्मित-पुत्तलिकासदृशाः व्यर्था इति' ऐसा भाव निकलता है । 'कष्टमयाः' यह पाठ मानकर कुछ व्याख्याकार 'निर्दयाः' यह अर्थ करते हैं, वह सामान्यतया असंगत प्रतीत होता है । यदि यह मान लिया जाय कि शकार 'मानवसामान्य के लिये जिसमें वसन्तसेना भी है' को निर्दय='परव्यथानभिज्ञ' मानता है—यह भाव है तब कथञ्चित् संगति हो सकती है । परन्तु आगे वाले वसन्तसेना के कथन 'कोऽत्र सन्देहः' का औचित्य कम सटीक बैठता है । ३१ ॥
अन्वयः—खलचरित !, निकृष्ट ! जातदोषः, ( त्वम् ), इह, माम्, धनेन, किम्, परिलोभसे ? सुचरितचरितम्, विशुद्धदेहम्, कमलम्, मधुपाः, न, हि, परित्यजन्ति ॥ ३२ ॥
अष्टमोऽङ्कः ४७५
शब्दार्थ—खलचरित !=दुर्जन के समान आचरण करने वाले, निकृष्ट !=नीच, ( त्वम्=तुम ), जातदोषः=जन्म से ही दूषित, अर्थात् जारज, इह=यहाँ, माम्=मुझ वसन्तसेना को, धनेन=धनसे, किम्=क्यों, परिलोभसे=लुभा रहे हो, सुचरित-चरितम्=सुन्दर आचरण करने वाले, विशुद्धदेहम्=पवित्र शरीरवाले, कमलम्=कमल को, मधुपाः=भौरे और भोरियां, नहि=नहीं, परित्यजन्ति=छोड़ती हैं ॥ ३२ ॥
अर्थ—वसन्तसेना—इसमें क्या सन्देह ? ( सिर नीचे झुका कर 'खलचरितम्' आदि दो श्लोकों को पढ़ती है—)
दुष्ट के समान आचरण करने वाले ! नीच ! जन्म से ही दोषयुक्त ! तुम मुझे धन से क्यों लुभा रहे हो ? सुन्दर आचरण करने वाले पवित्र शरीर वाले कमल को भौरे और भोरियां नहीं छोड़ते हैं ॥ ३२ ॥
टीका—
गुणिषु गुणज्ञो रमते नागुणिषु हि तस्य परितोषः ।
अलिरेति वनात् कमलं न हि भेकस्त्वेकवासोऽपि ॥
इति न्यायात् सतां सत्स्वेव अनुरागः साहजिकः, न तु निर्गुणेषु इति असति त्वयि मेऽनुरागः सुतरामस्वाभाविक इति मामधिगन्तुं तवेदं धनलोभप्रदर्शनं निष्फलमिति भङ्ग्या आह-खलेति । खलस्य=दुर्जनस्य चरितमिव चरितं यस्य तादृश, निकृष्ट=नीच, यद्वा खल=नीच, चरितनिकृष्ट=आचरेण दुष्ट इत्यपि व्याख्या । जातदोषः=जाते=जनने दोषः यस्य सः जारज इति भावः, यद्वा जातश्चासौ दोषः=समुत्पन्नपापः, निरपराधायाः मम जिघांसयेति भावः । इह=अस्मिन् प्रणय-प्रसङ्गे इति भावः, माम्=गुणैकपक्षपातिनीं वसन्तसेनाम्, धनेन=अर्थेन, द्रव्यादिना, किम्=कथम्=परिलोभसे=प्रलोभयसि, स्वार्थिकोऽत्र णिच् । प्रकृतार्थं दृढयितुमाह-मधुपाः=भ्रमराः, भ्रमर्यश्च, 'पुमान् स्त्रिया' पा. सू. १।२।६७ इति सूत्रेण एकशेषे सति उभयोर्बोधः, सुचरितम्=सुष्ठु कृतम्, चरितम्=जनमनोहरणरूपं कार्यं येन तादृशम्, पुरुष—पक्षे, सुचरितम्=सयत्नं रक्षितं चरितम्=स्वभावः येन तादृशन्, विशुद्धः=जन्मादौ सर्वथा निर्दोषः, देहः=शरीरं यस्य तं तादृशम्, कमलम्=पद्मम्, नहि=नैव, परित्यजन्ति = परिहरन्ति । यथा खलु गुणैकपक्षपातिन्यो भ्रमर्यो न कदापि कमलं परिहरन्ति तथैव गुणैकपक्षपातिन्यहमपि न कथमपि तं चारुदत्तं परिहरामीति तद्भावः ।
अत्र ‘परिलोभसे’ इत्यत्र परस्मैपदिना भाव्यम् । अतः केचिदत्र ‘परिलोभयसि’ इति अनुवदन्ति, तन्न सम्यक्, वृत्तलक्षणविरोधात् । एवञ्चात्र व्याकरणलक्षण-च्युतिरिति बोध्यम् । यदि तौदादिकं रूपमुच्यते तदा गुणानुपपत्त्या ‘परिलुभसि’ इत्यापत्तिः । तस्मादत्र च्युतसंस्कृतिदोषः स्थिर एव । अत्रा प्रस्तुत-प्रशंसा परिकराञ्चालंकारो, पुष्पिताग्रा वृत्तम् ॥ ३२ ॥
४७६ मृच्छकटिकम्
यत्नेन सेवितव्यः पुरुषः कुलशीलवान् दरिद्रोऽपि ।
शोभा हि पणस्त्रीणां सदृशजनसमाश्रयः कामः ॥ ३३ ॥
अवि अ । सहआरपादवं सेविअ ण पलास-पादवं अङ्गीकरिस्सं ।
विमर्श—'परिलोभसे' यह प्रयोग व्याकरण की दृष्टि से अशुद्ध है । क्योंकि तुदादिगणीय 'लुभ विमोहने' और दिवादिगणीय 'लुभ गार्ध्ये' ये दोनों ही परस्मैपदी धातुयें हैं । अतः आत्मनेपद असंगत है । साथ ही तुदादि में गुण भी सम्भव नहीं है ।
कुछ विद्वान् 'परिलोभयसे' ऐसा मानते हैं । यह भी ठीक नहीं है क्योंकि एक अक्षर बढ़ जाने से छन्दोभंग है ।
इसकी उपपत्ति के दो मार्ग है ( १ ) अन्तर्भूत णिजर्थ मानकर परस्मैपद अथवा भ्वादिगण में किसी अवान्तरगण में समावेश ।
एक बात और ध्यान देने की है कि वसन्तसेना को प्राकृत बोलनी चाहिये थी । शकार जैसे पात्र के साथ संस्कृत का प्रयोग भी ठीक नहीं लगता है । इसीलिये कहीं कहीं "अवनतमुखी संस्कृतमाश्रित्य 'खलचरित' इत्यादि" पाठ मिलता है । लगता है कि किसी प्रकार प्राकृत अंश छूट गया । और उसकी संस्कृतच्छाया ही चलने लगी । इसीलिये 'परिलोभसे' यह अशुद्ध प्रयोग भी रह गया ॥ ३२ ॥
**अन्वयः—**दरिद्रः, अपि, कुलशीलवान्, यत्नेन, सेवितव्यः, हि, सदृशजन-समाश्रयः, कामः, पणस्त्रीणाम्, शोभा, [ भवति ] ॥ ३३ ॥
**शब्दार्थ—**दरिद्रः=निर्धन, अपि=भी, कुलशीलवान् = उच्चकुल और सत्स्वभाव से युक्त (व्यक्ति), यत्नेन=यत्न से, सेवितव्यः=सेवा करने योग्य होता है, हि=क्योंकि, सदृशजनसमाश्रयः=अपने योग्य व्यक्ति के साथ किया गया, कामः = सुरत-व्यवहार, पणस्त्रीणाम् = वेश्या स्त्रियों की, शोभा = प्रशंसनीय कार्य, [ भवति=होता है ] ॥ ३३ ॥
**अर्थ--**निर्धन भी कुल-सदाचारयुक्त पुरुष यत्नपूर्वक सेवा करने योग्य होता है, यत्नपूर्वक ऐसे व्यक्ति की सेवा करनी चाहिये क्योंकि अपने योग्य व्यक्ति के साथ किया गया सुरतव्यवहार ही वेश्याओं के लिये शोभा की बात होती है ॥ ३३ ॥
**टीका—**शकारस्य सेवायामनौचित्यं प्रकटयति— यत्नेनेति । दरिद्रः=निर्धनः, अपि, कुलशीलवान्=उच्चकुलोत्पन्नः सत्स्वभावयुक्तः पुरुषः, यत्नेन = प्रयासपूर्वकम्, सेवितव्यः = सेवनीयः, हि=यतः, सदृशजनः = स्वानुरूपजनः, समाश्रयः = अवलम्बनं यस्य तादृशः, कामः=मदनः, पणेन=धनादिना लभ्याः स्त्रियः=वेश्याः, तासां शोभा=आभूषणम्, प्रशंसनीयं कार्यं भवतीति भावः । अर्थान्तरन्यासोऽलंकारः, आर्या वृत्तम् ॥ ३३ ॥