नैषधीयचरितम् (महाकवि श्रीहर्ष - बृहत्त्रयी महाकाव्य सटीक)
Naishadhiya Charitam of Sriharsha with Commentary
महाकवि श्रीहर्ष / पं. शिवदत्त शर्मा द्वारा
सर्गः १ ] जीवातु-मदयन्तिकासहितम् १७ Digitized by Sarayu Trust Foundation and eGangotri नः = अस्माकं, दृशोः = चक्षुषो द्वयं । तं नलम् आकर्णयतीति तदाकर्णि = तद्गुण- श्रावीत्यर्थः । तासां चक्षुःश्रवस्त्वादिति भावः । अत एव फलाढ्यजीवितं = सफल- जीवितम् । न वीक्षते इत्यवीक्षि । अत्रोभयोस्ताच्छील्ये णिनिः । [ तदवीक्षि ] तस्य नलस्य अवीक्षि तदवीक्षि, तद्दर्शत्यर्थः । अत एव अफलञ्च इति = हेतोः, तदा = तस्मिन् काले, आत्मनः = स्वान्, हृदा = मनसा, नले = नलविषये, स्तुव- न्ति = प्रशंसन्ति स्म, निन्दन्ति = कुत्सयन्ति च । अतिशयोक्तिरलङ्कारः ॥२८॥ चक्षुःश्रवा (नागों) की पत्नियां—'ये हमारी दोनों आँखें नल के गुणों को सुनती हैं, इस से उनका जीवन सफल है; किन्तु (आँख का प्रधान गुण देखना है तो पातालनिवासिनी होने के कारण) नल के दर्शन न होने से वे निष्फल हैं'— इस लिए वे उस समय नल के सम्बन्ध में अपने चित्त से (चक्षु की) क्रमशः स्तुति और निन्दा किया करती थीं ॥ २८ ॥ विलोकयन्तीभिरजस्रभावना-बलादमुं तत्र निमोडनेष्वपि । अलम्भि मर्त्याभिरमुष्य दर्शने न विघ्नलेशोऽपि निमेषनिर्मितः ॥२९॥ विलोकयन्तीभिरिति । अजस्रभावनाबलात् = निरन्तरध्यानप्रभावात् , अमुं = नलं, तत्र भावनायामिति भावः । नेत्रनिमीलनेष्वपि = निमेषावस्थास्वपि, विलोकयन्तीभिः = उन्मेषावस्थायामिव साक्षात्कुर्वतीभिः, मर्त्याभिः = मान- वीभिः, अमुष्य = नलस्य, दर्शने, निमेषनिर्मितः = नेत्रनिमीलनजनितः, विघ्न- लेशोऽपि = अन्तरायलबोऽपि, न अलम्भि = न प्राप्तः । 'विभाषा चिण्णमुलौ'इति मुमागमः । मानव्यः दृष्टिगोचरं दृष्ट्वा अदृष्टिगोचरञ्च तं मनसा सततं पश्यन्ति स्मेति भावः । अतिशयोक्तिरलङ्कारः ॥ २६ ॥ नरलोक की नारियों को निरन्तर चिन्तन के प्रभाव से, निमेषावस्था में भी उनका दर्शन करती रहने पर, नल के दर्शन के सम्बन्ध में नेत्रनिमीलनजन्य क्लेश ज़रासा भी नहीं होता था ॥ २६ ॥ न का निशि स्वप्नगतं ददर्श तं जगाद गोत्रस्खलिते च का न तम् । तदात्मताध्यातधवा रते च का चकार वा न स्वमनोभवोद्भवम् ॥३०॥ नेति । का = नारी, निशि = रात्रौ, तं=नलं, स्वप्नगतं न ददर्श ? = सर्वैवैव ददर्शत्यर्थः । का, च, गोत्रस्खलिते = नामस्खलने तं न जगाद = स्वभर्तृनाम्नि उच्चारितव्ये तन्नाम न उच्चरितवती । अपि तु सर्वैव तथा कृतवती इत्यर्थः । का च ३
१८ नैषधचरितम् । [ प्रथमः रते = सुरतव्यापारे, [ तदात्मताध्यातधवा ] तदात्मतया नलात्मतया, ध्यातः चिन्तितः, धवः भर्त्ता, यया तथाभूता । ‘धवः प्रियः पतिर्भर्ता’इत्यमरः । [ स्वम- नोभवोद्भवं ] स्वस्य आत्मनः, मनोभवः कामः, तस्य उद्भवः तं, वा न चकार ? = अपि तु सर्वैव तथा चकारेत्यर्थः । कामान्धाः किं न कुर्वन्तीति भावः । अत्रापि- दर्शनाद्यसम्बन्धेऽपि सम्बन्धोक्तेरतिशयोक्तिरलङ्कारः ॥ ३० ॥ किस नारी ने रात्रि को स्वप्न में उन का साक्षात्कार न किया हो ? किस स्त्री ने (अपने पति को पुकारने के स्थान पर) नल का नाम लेकर पति को पुकारा न हो ? किस महिला ने सम्भोग के समय नल के स्वरूप में अपने पति का चिन्तन कर, कामविकार को जाग्रत न किया हो ? ॥ ३० ॥ श्रियास्य योग्याहमिति स्वमीक्षितुं करे तमालोक्य सुरूपया धृतः । विहाय भैमीमपदर्पया कया न दर्पणः श्वासमलीमसः कृतः ॥३१॥ श्रियेति । तं = नलम्, आलोक्य = दृष्ट्वा, श्रिया = सौन्दर्येण, अहमस्य = नलस्य, योग्या =अनुरूपा, इति=धियेति शेषः । स्वम्=आत्मानं, स्वावयवमित्यर्थः । ईक्षितुं = परीक्षितुं करे, धृतः = गृहीतः, दर्पणः भैमीं = वैदर्भी, दमयन्ती- मित्यर्थः । विहाय = विनेत्यर्थः, कया सुरूपया = शोभनरूपवती, अहमित्यभिमान- वत्या नार्य्या, अपदर्पया = दर्पशून्यया सत्या [श्वासमलीमसः] श्वासेन दुःखनिश्वसि- तेन मलीमसः मलदूषितः । ‘मलीमसं तु मलिनं कच्चरं मलदूषितम्’ इत्यमरः । न कृतः ? = अपि तु सर्वयापि कृत एवेत्यर्थः । सौन्दर्यगर्विताः सर्वा एव भैमीव्यतिरिक्ताः कामिन्यस्तमवलोक्य अहमेवास्य सदृशीत्यभिमानात् करधृतदर्पणे आत्मानं निर्वर्ण्य नाहमस्य योग्येति निश्चयेन विपण्णाः कदुष्णनिश्वासेन तं दर्पणं मलिनयन्ति स्मेति निष्कर्षः । अतिशयोक्तिरलङ्कारः ॥ ३१ ॥ दमयन्ती को छोड़कर, किस दर्पहीन सुन्दरी ने, नल की प्रतिकृति को देखकर, 'क्या मैं सुन्दरता में नल के योग्य हूँ' इसे जानने के लिए अपने स्वरूप देखने को दर्पण हाथ में लाकर, उस (दर्पण) को अपनी आहों से मलिन न किया हो ? ॥ ३१ ॥ यथोद्यमानः खलु भोगभोजिना प्रसह्य वैरोचनिजस्य पत्तनम् । विदर्भजाया मदनस्तथा मनोऽनलावरुद्धं वयसैव वेशितः ॥३२॥ एवमस्यालौकिकसौन्दर्यद्योतनाय स्त्रीमात्रस्य तदनुरागमुक्त्वा सम्प्रति दमय- न्त्यास्तत्रानुरागं प्रस्तौति-यथेति । मदनः = कामः, प्रद्युम्न इति यावत् । भोग-
सर्गः १ ] जीवातु-मदयन्तिकासहितम् १९ Digitized by Sarayu Trust Foundation and eGangotri भोजिना = सर्पशरीराशिना, वयसा = पक्षिणा, गरुडेनेत्यर्थः। उह्यमानः = नीय- मानः। वहेः कर्मणि यकि सम्प्रसारणे पूर्वरूपम्। अनलावरुद्धम् = अग्निपरिवेष्टितं वैरोचनिजस्य विरोचनस्य अपत्यं पुमान् वैरोचनिः बलिः, तज्जस्य तत्पुत्रस्य, बाणासुरस्येत्यर्थः। पत्तनं = नगरं, शोणितपुरमिरि यावत्। प्रसह्य = सहसा, यथा वेशितः खलु = प्रवेशित एव। 'ततो गरुडमारुह्य स्मृतमात्रगतं हरिः। बलप्रद्युम्न- सहितो बाणस्य प्रययौ पुरीम्। इत्युदाहरणे विष्णुपुराणात्। तथा, नलावरुद्धं = नलासक्तं, विदर्भजायाः = दमयन्त्याः, मनः, भोगभोजिना = सुखभोगासक्ते- नेत्यर्थः। 'भोगः सुखे स्त्र्यादिभृतावहेश्च फण-काययोः' इत्यमरः। वयसा = यौव- नेन, 'खगबाल्यादिनोर्वयः' इत्यमरः। ऊह्यमानः = परैस्तर्क्यमाणः। ऊहेर्वितर्कार्थात् कर्मणि यक्। वेशितः = प्रवेशितः। • अत्र यथोह्यमानो नलावरुद्धमिति शब्दश्लेषः। तदनुप्राणिता उपमा च। सा च वयसेति वयसोरभेदाध्यवसायमूलातिशयोक्तिमूला चेत्येषां सङ्करः ॥ ३२ ॥ जिस प्रकार मदन (कामदेवावतार प्रद्युम्न) ने भोग (सर्प)-भक्षी वयस (पक्षी, गरुड) पर बैठकर, अनल से घिरी हुई बाणासुर नगरी (शोणितपुर) में सहसा प्रवेश किया था उसी प्रकार मदन (कामदेव) ने सुखोपभोग के योग्य वय (यौवन) पर आरूढ होकर, नल से आक्रान्त विदर्भराजकुमारी दमयन्ती के अन्तःकरण में हठात् प्रवेश किया ॥ ३२ ॥ नृपेऽनुरूपे निजरूपसम्पदां दिदेश तस्मिन् बहुशः श्रुतिं गते। विशिष्य सा भीमनरेन्द्रनन्दना मनोभवाज्ञैकवशंवदं मनः ॥३३॥ इह विरहिणां चक्षुःप्रीत्यादयो दशावस्थाः सन्ति, तत्र चक्षुःप्रीतिः श्रवणानुराग- स्याप्युपलक्षणमतस्तत्पूर्विकां मनःसङ्गाख्यां द्वितीयामवस्थामाह-नृप इत्यादि। सा= भीमनरेन्द्रनन्दना = दमयन्ती। नन्द्यादित्वाल्ल्युप्रत्ययः। निजरूपसम्पदां = स्वलावण्यसम्पत्तीनामनुरूपे, बहुशः = बहुभ्य इत्यर्थः। बह्वल्पाथच्छस्कात्कादन्य- तरस्यामित्यपादनाथें' शस्प्रत्ययः। श्रुतिं = श्रवणं, गते। एतेन श्रवणानुराग उक्तः। तस्मिन् नृपे = नले, [मनोभवाज्ञैकवशंवद] मनोभवाज्ञाया एकं वशंवदम्। एकस्यैव विधेये शिवभागवतवत् समासः। 'प्रियवशे वदः खच्' 'अरुर्द्विषत् इत्या- दिना तस्य मुम्। मनो, विशिष्य दिदेश = अतिशयेनेति निश्चत्यातिससर्जैत्यर्थः। वद्गुणश्रवणात् तदासक्तऽऽचित्तासीदित्यर्थः ॥३३॥
२० नैषधचरितम्। [ प्रथमः दमयन्ती ने अपनी लावण्य-श्री के योग्य तथा बहुत बार सुने हुए नल में, कामदेव के आज्ञाकारी मन को विशेषतया लगाया ॥ ३३ ॥ उपासनामेत्य पितुः स्म रज्यते दिने दिने साऽवसरेषु वन्दिनाम्। पठत्सु तेषु प्रति भूपतीनलं विनिद्ररोमाऽजनि शृण्वती नलम् ॥३४॥ अथास्याः श्रवणानुरागमेव चतुर्भिर्वर्णयति-उपासनामित्यादि । सा = भैमी, दिने दिने = प्रतिदिनं 'नित्यवीप्सयोः' इति वीप्सायां द्विर्भावः । वन्दिनां = स्तुतिपाठकानाम् अवसरेषु पितुः उपासनां=सेवाम् एत्य = प्राप्य, तेषु = वन्दिषु, भूपतीन् प्रति = भूपतीनुद्दिश्य, पठत्सु, सत्स्विति शेषः। नलं शृण्वती अलं रज्यते स्म = अनुरक्ताभूदित्यर्थः । दञ्दैवादिकाल्लट् । अत एव विनिद्ररोमा = रोमाञ्चिता, अजनि इति सात्त्विकोक्तिः । जनेः कर्त्तरि लुङ् । 'दीपजन' इत्यादिना च्लेश्चिणादेशः । नलगुणश्रवणजन्यो रागस्तस्या रोमाञ्चेन व्यक्तोऽभूदिति भावः ॥ राजकुमारी प्रतिदिन विरुदावली के समय पिता की शुश्रूषा के लिए आकर, वन्दियों द्वारा कथित राजाओं का विरद् बखान सुनते-सुनते, नल के सम्बन्ध में प्रशंसा सुनकर, इतना अनुरक्त हो जाती थी—उसके शरीर पर पुलकावली छा जाती थी ॥३४॥ कथानुषङ्गेषु मिथः सखीमुखात् तृणेऽपि तन्व्या नलनामनि श्रुते। द्रुतं विधूयान्यदभूयतानया मुदा तदाकर्णनसज्जकर्णया ॥३५॥ कथेति । मिथः = अन्योन्यं, रहसि वा। कथानुषङ्गेषु = विस्रम्भगोष्ठी- प्रसङ्गेषु, सखीमुखात्, नलनामनि = नलाख्ये, तृणे । "नलः पोटगले राज्ञि' इति विश्वः। श्रुते सति अनया, तन्व्या = दमयन्त्या, द्रुतमन्यत् = कार्यान्तरं, विधूय = निराकृत्य, मुदा = हर्षेण, [ तदाकर्णनसज्जया ] तदाकर्णने नलशब्दाकर्णने, सज्जकर्णया दत्तकर्णया, अभूयत = अभावि । भुवो भावे लङ् । अर्थान्तरे प्रयुक्तोऽपि नलशब्दो नृपस्मारकतया तदाकर्णकोऽभूदिति रागातिशयोक्तिः ॥ ३५ ॥ वह तन्वङ्गी एकान्त में सखियों के साथ बातचीत में सखी की मुँहजबानी नल नामक तृण के बारे में भी यदि सुन लेती थी, तो झट दूसरे कामों को छोड़ कर, हर्ष के साथ नल का हाल सुनने के लिए, अपना कान लगा देती थी ॥ ३५ ॥ स्मरात् परासौरानमेपलोचनाद्विषेमि तद्भिन्नमुदाहरेति सा। जनेन यूनः स्तुवती सदास्पदं निदर्शनं नैषधमभ्यषेचयत् ॥ ३६ ॥
सर्गः १ ] जीवातू-मदयन्तिकासहितम् २१ Digitized by Sarayu Trust Foundation and eGangotri म्मरादिति। परासोः = मृतात्, अत एव अनिमेषलोचनात् = निश्चलाक्षा- देवादेरिति च गम्यते उभयथापि भयहेतूक्तिः। स्मराद्बिभेमि। तद्भिन्नं = ततोऽन्य- मुदाहर तत्सदृशं निदर्शय, इत्येवं सा=दमयन्ती, यूनः स्तुवता जनेन=प्रयोगकर्त्रा तदास्पदे = स्मरस्थाने, निदर्शनं = दृष्टान्तं नैषधं = निषधानां राजानं नलं। 'जनपदशब्दात् क्षत्रियादञ्।' अभ्यषेचयत्। स्मरस्य स्थाने तत्सदृश एवाभिषेक्तुं युक्तः। स च नलादन्यो नास्तीति तस्मिन् नल उदाहृते सहर्षे शृणोतीति रागाति- रेकोक्तिः। 'उपसर्गात् सुनोति' इत्यादिना अङ्व्यवायेऽपि षत्वम् ॥ ३६ ॥ जब सखियाँ कामदेव की उपमा देकर युवकों की प्रशंसा करती थीं तो दमयन्ती कहती थी कि मैं विगत-प्राण तथा निश्चल नयनवाले मदन से डरती हूँ, इसलिए किसी अन्य का दृष्टान्त उपस्थित करो--ऐसा कहकर वह उस (कामदेव) के स्थान पर, मानो नलका वर्णन करने के लिए ध्यान आकर्षित करती थी॥३६॥ नलस्य पृष्टा निषधागता गुणान् मिषेण दूतद्विजवन्दिचारणाः। निपीय तत्कीर्तिकथामथानया चिराय तस्थे विमनायमानया ॥३७॥ नलस्येति । [ निषधगता ] निषधेभ्य आगताः, [ दूत-द्विज-बन्दि- चारणाः] दूताः सन्देशहराः, द्विजा ब्राह्मणाः, वन्दिनः स्तावकाः चारणा देशभ्रमण- जीविनः। ते सर्वे, मिषेण = केनचिद् व्याजेन, नलस्य, गुणान् पृष्टाः । पृच्छे- तेर्दुहादित्वात् प्रधाने कर्मणि क्तः। अथ = प्रक्षानन्तरम्, अनया = भैम्या, तत्कीर्तिकथां = नलस्य यशःकथामृतं, निपीय = नितरां श्रुत्वेत्यर्थः। चिराय, विमनायमानया = विमनीभवन्त्या । 'भृशादित्वात् क्यङि सलोपश्च । 'अकृत्सार्व- धातुकयोः' इतिदीर्घः । ततो लटः शानजादेशः। तदा तस्थे = स्थितम् । तिष्ठतेर्भावे लिट्। अयञ्च दूतादिव्यवधानेन गुणकीर्त्तनलक्षणः प्रलापाख्यो रत्यनुभवः ॥३७॥ निषध देश से आने वाले दूतों, ब्राह्मणों, भाटों और स्तुतिपाठकों से किसी बहाने से नल के गुणों के बारे में पूछती और उनकी कीर्तिकथा का पानकर, बहुत देर तक अन्यमनस्का बनी रहती ॥३७॥ प्रियं प्रियां च त्रिजगज्जयिश्रियौ लिखन्धिलीलागृहभित्ति कावपि । इति स्म सा कारुवरेण लेखित नलस्य च स्वस्य च सख्यमीक्षते ॥३८॥ प्रतिकृतिस्वमदर्शनाद्विधौ विरहिणी विनोदसमास्तीति अवस्थाकथनमुखेन दर्शना- नुरागं चास्या दर्शयन्, प्रतिकृतिदर्शनं तावदाह-प्रियमिति । सा = भैमौ,
२२ नैषधचरितम् । [ प्रथमः [ त्रिजगज्जयिश्रियो ] त्रीणि जगन्ति समाहृतानि त्रिजगत् । समाहारो द्विगोरेक- वचनम् । तस्य जयिनी लोकत्रयजित्त्वरी, श्रीः शोभा, ययोस्तादृशौ । क्वापि 'पुमान् स्त्रिया' इत्येकशेषः । प्रियं प्रियाञ्च तौ, कामिनावित्यर्थः । अधिलीला- गृहभित्ति = विलासवेश्मकुड्ये । विभक्त्यर्थेऽव्ययीभावः । लिख इत्युक्तौ कारु- वरेण = शिल्पिविशेषेण प्रयोज्येन लेखितं नलस्य च स्वस्य च सख्यं = रूप- साम्यम् । ईक्षते स्म लिखितादिव्यवधानेन गुणकीर्तनलक्षणः प्रलापाख्यो रत्यनुभावः । हे चित्रकार ! जिस प्रेमी और प्रेमिका ने तीनों लोकों के सौन्दर्य को जीत लिया हो उसका चित्र क्रीडाभवन की दीवाल पर बनाओ—ऐसा कहकर, वह चित्रकार से लिखे गये चित्र में अपने और नल के स्वरूप की समता देखती थी ॥ मनोरथेन स्वपतीकृतं नलं निशि क्व सा न स्वपती स्म पश्यति । अदृष्टमप्यर्थमदृष्टवैभवात् करोति सुप्तिर्जनदर्शनातिथिम् ॥३९॥ द्विविधं दर्शनम्, साक्षाच्चित्रादौ च । तत्र साक्षादलाभाच्चित्रदर्शनमुक्तम् । अथ द्वाभ्यां स्वप्नदर्शनमाह—मनोरथेनेति । मनोरथेन = सङ्कल्पेन, स्वपतीकृतं = स्वभर्त्तृकृतं । 'अभूततद्भावे च्विः,' 'च्वौ' इति दीर्घः । नलम् . स्वपती = निद्रावती सती सा = दमयन्ती, क्व निशि = कुत्र रात्रौ, न पश्यति स्म = सर्वस्यामपि रात्रौ दृष्टवती । तथा हि—सुप्तिः = स्वप्नः, अदृष्टम् = अत्यन्ताननुभूतम्, अप्यर्थं । किमुत दृष्टमिति भावः । अदृष्टवैभवात् = प्राक्तनभाग्यबलात् । जनदर्शनातिथिं = लोकदृष्टिगोचरं, करोति । तद्वदत्रापि निमित्ताददृष्टात् तादृक् स्वप्नज्ञानमुत्पन्नमित्यर्थः । सामान्येन विशेषसमर्थनरूपोऽर्थान्तरन्यासः ॥३६॥ ऐसी कोई रात नहीं जाती थी जिसमें दमयन्ती अपने मनमें वरण किए हुए पति—नल—को स्वप्न में न देखती रही हो । भाग्यवशात् अदृष्टवस्तु को भी स्वप्न, दृष्टिगोचर कर देता है ॥३६॥ निमीलितादक्षियुगाच्च निद्रया हृदोऽपि बाह्येन्द्रियमौनमुद्रितात् । अदर्शि संगोप्य कदाप्यवीक्षितो रहस्यमस्याः स महन्महीपतिः ॥४०॥ निमीलितादिति । निद्रया प्रयोजिकया, निमीलितात् = मुकुलिताद्, उपरतव्यापारादित्यर्थः । अक्षियुगाच्च । तथा [ बाह्येन्द्रियमौनमुद्रितात् ] बाह्ये- न्द्रियाणां चक्षुरादीनां मौनेन व्यापारराहित्येन, मुद्रितात् प्रतिष्टब्धात्, मनसो बहिरस्वातन्त्र्यादिति भावः । अस्याः दमयन्त्याः अपि संगोप्य = गोपयित्वेत्यर्थः ।
“अन्तर्द्धौ येनादर्शनमिच्छति” इत्याक्ष्ययुगमनसारपादानत्वम् । अदर्शन चात्र मनसो बाह्येन्द्रियमौनमुद्रितादिति विशेषणसामर्थ्यादिन्द्रियार्थसंप्रयोगजन्यज्ञानविरह एवेति ज्ञायते; स्वप्नज्ञानं तु मनोजन्यमेव । तदजन्यज्ञानमत्रेत्याह—कदाप्यवीक्षित इति । अत्यन्तादृष्टचर इत्यर्थः । महद्रहस्यम् = अतिगोप्यं वस्तु, स महीपतिः = नलः, अस्याः = भैम्याः, अदर्शि = दर्शयाञ्चक्रे । दृशेर्ण्यन्तात् कर्मणि लुङ् । यथा काचिच्चेटी कस्यैचित् कामिन्यै कञ्चन कान्तं संगोप्य दर्शयति, तद्वदिति ध्वनिः ॥४०॥ निद्रा (रूपी सखी) ने—उसके बन्द हुए दोनों नयनों के द्वारा, और बाह्येन्द्रिय विषय ग्रहण न करने के कारण शून्य हुए मन से भी छिपाकर, कभी न देखे हुए महाराज नल को, अति गोपनीय वस्तु की तरह (गुप्तरीति से) दमयन्ती को दिखा दिया ॥४०॥ अहो अहोभिर्महिमा हिमांगमेऽप्यति प्रपेदे प्रति तां स्मरार्दिताम्। तपर्तुपूतावपि मेदसां भरा विभावरीभिर्बिभराम्बभूविरे ॥४१॥ अथास्याश्चिन्ताजागरावाह—अहो इति । हिमांगमे = हेमन्तेऽपि, स्मरार्दितां = कामपीडितां, तां = दमयन्तीं प्रति, अहोभिः = दिवसैः, अतिमहिमा = अति- वृद्धिः, प्रपेदे । तदा तपर्तुपूत्तावपि = ग्रीष्मान्तेऽपि, विभावरीभिः = निशाभिः, मेदसां भरा = मांसलताऽतिशयः, स्थूलत्वमिति यावत् । बिभराम्बभूविरे = बभ्रिरे । भृञः कर्मणि लिट् । आम्प्रत्ययः । अहो = आश्चर्यं, शास्त्रविरोधादनुभव- विरोधाच्चेति भावः । विरहिणां तथा प्रतीयत इत्यविरोधः । एतेनास्या निरन्तरचिन्ता जागरश्च गम्यते । अहोशब्दस्य 'ओत्' इति प्रगृह्यत्वात् प्रकृतिभावः ॥४१॥ बड़े आश्चर्य की बात है कि कामविह्वला दमयन्ती के लिए हेमन्त ऋतु के छोटे दिन बहुत बड़े हो गये और ग्रीष्मऋतु की छोटी रात बहुत बड़ी हो गयी॥४१॥ स्वकान्तिकीतित्रजमौक्तिकस्रजः श्रयन्तमन्तर्घटनागुणश्रियम् । कदाचिदस्या युवधैर्यलोपिनं नलोऽपि लोकादशृणोद्गुणोत्करम् ॥४२॥ अथ नलस्यापि, श्रवणानुरागमाह—स्वेत्यादि । नलोऽपि । कदाचित् [स्वकान्तिकीतित्रजमौक्तिकस्रजः] स्वस्य कान्त्या सौन्दर्येण, याः कीर्त्तयः तासां व्रजः पुञ्ज एव, मौक्तिकस्रक् मुक्ताहारः, तस्याः । अन्तः = अभ्यन्तरे, घटनागुणश्रियं = गुम्फनसूत्रलक्ष्मीं, श्रयन्तं = भजन्तं, युवधैर्यलोपिनं = तरुणचित्तस्थैर्यपरिहारिणम्, अस्याः = दमयन्त्याः, गुणोत्करं = सौन्दर्यसन्दोहं, लोकाद् = आगन्तुकजनात्,
२४ नैषधचरितम् । [ प्रथमः अशृणोत् Digitized by Sarayu Trust Foundation and eGangotri .गुम्फनसूत्रत्वरूपणाद्रूप- कालंकारः ॥४२॥ एक समय आया जब अपने सौन्दर्य-यश रूपी मोती-माला को अपने गुणरूपी डोरे से पोहने वाली और युवकों के चित्त को चञ्चल बनाने वाली दमयन्ती के सुषमा-सन्दोह के बारे में लोगों की मुँहजबानी नल ने भी सुना ॥४२॥ तमेव लब्ध्वावसरं ततः स्मरः शरीरशोभाजयजातमत्सरः । अमोघशक्त्या निजयेव मूर्त्या तया विनिर्जेतुमियेप नैषधम् ॥४३॥ अथास्य तस्यां रागोदयं वर्णयति--तमेवेति । ततः = गुणश्रवणानन्तरं, [शरीरशोभाजयजातमत्सरः] शरीरशोभाया देहसौन्दर्यस्य, जयेन जातमत्सरः उत्पन्नवैरः, स्मरस्तमेव, अवसरम् = अवकाशं, लब्ध्वा = प्राप्य, मूर्त्या = मूर्ति- मत्या, निजया अमोघशक्त्येव = अकुण्ठितसामर्थ्येनेवेत्युत्प्रेक्षा । तया = दमयन्त्या, नैषधं = नलं विनिर्जेतुम्, इयेष = इच्छति स्म । रन्ध्रान्वेषिणो हि विद्वेषिण इति भावः । एतेन रागोद्गम उक्तः ॥४३॥ तब अपने शरीर के सौन्दर्य जीत लिये जाने से, ईर्ष्या के कारण कामदेव ने अच्छा अवसर पाकर, अपनी मूर्तिमती अमोघ शक्ति के समान उस दमयन्ती के द्वारा ही, नल पर विजय पाने की अभिलाषा की ॥४३॥ अकारि तेन श्रवणातिथिर्गुणः क्षमाभुजा भीमनृपात्मजाश्रियः । तदुच्चधैर्यव्ययसंहितेषुणा स्मरेण च स्वात्मशरासनाश्रयः ॥४४॥ अकारीति । तेन क्षमाभुजा = नलेन, [भीमनृपात्मजाश्रियः] भीमनृपा- त्मजायाः दमयन्त्याः, श्रियः गुणः = तदीयः सौन्दर्यादिः, श्रवणातिथिः = श्रोत्र- विषयः, अकारि = कृतः; श्रुत इत्यर्थः । करोतेः कर्मणि लुङ् । स [तदुच्चधैर्यव्यय- संहितेषुणा] तस्य नलस्य उच्चधैर्यव्ययाय उन्नतधैर्यनाशाय, संहितेषुणा स्मरेण च [स्वात्मशरासनाश्रयः] स्वात्मनः शरासनाश्रयः चापनिष्ठो गुणः = मौर्वी, श्रवण- तिथिरकारि = आकर्णं कृष्ट इत्यर्थः । दमयन्तीगुणश्रवणान्नलनमसि महान् मदन- विकारः प्रादुर्भूत इत्यर्थः । अत्रोक्तवाक्यार्थस्य पूर्ववाक्यार्थहेतुकं काव्यलिङ्गमलङ्कारः ॥ इधर उन महाराज नल ने भी भीमराजकुमारी दमयन्ती के (सौन्दर्यादि) गुणों को अपने कानों का अतिथि बनाया; उधर कामदेव ने भी नल के अलौकिक धैर्य
१. हंस दूत प्रसंग व दमयन्ती का अनुराग (सर्ग ३-५)
सर्गः १ ] जीवातु-मदयन्तिकासहितम् २५ को नष्ट करने के लिए, धनुष पर बाण चढ़ाकर, धनुष की डोरी को अपने कानों का अतिथि बनाया ॥४४॥ अमुष्य धीरस्य जयाय साहसी शरासनज्यां विशिखैः सनाथयन्। निमज्जयामास यशांसि संशये स्मरस्त्रिलोकीविजयोर्जितान्यपि ॥४५॥ अमुष्येति। स स्मरः साहसी = साहसकरः। 'न साहगमनारुह्य नरो भद्राणि पश्यति' इति, न्यायावलम्बी सन्नित्यर्थः। अमुष्य धीरस्य = अविचलितस्य नलस्य, जयाय, शरासनज्यां = निजधनुर्मोर्वीं, विशिखैः = शरैः, सनाथयन् = सनाथं कुर्वन्; संयोजयन्नित्यर्थः। [त्रिलोकीविजयोर्जितान्यपि] त्रयाणां लोकानां समा- हारस्त्रिलोकी। 'तद्धितार्थ' इत्यादिना समासः। 'अकारान्तोत्तरपदो द्विगुः स्त्रिया- मिष्यते' इति स्त्रीलिङ्गत्वाद्द्विगोरिति ङीप्। तस्य विजयेनार्जितानि सम्पादितान्यपि। यशांसि, संशये, निमज्जयामास। किं पुनः सम्प्रति सम्पाद्यमित्यपिशब्दार्थः। वृद्ध्यपेक्षया अनुचितकर्मारम्भे मूलमपि नश्येदिति संशयितवानित्यर्थः। अत्र स्मर- स्योक्तसंशयाऽसम्बन्धेऽपि तत्सम्बन्धोक्तेरतिशयोक्तिः ॥४५॥ साहसी कामदेव ने उन धैर्यशाली नल पर विजय पाने के लिए, अपने धनुष की प्रत्यञ्चा पर बाण रख कर, तीनों लोकों की विजय से प्राप्त हुई समूची कीर्ति को सन्देह में डाल दिया अर्थात् अपनी कीर्ति की बाजी लगा दी ॥४५॥ अनेन भैमीं घटयिष्यतस्तथा विधेरबन्ध्येच्छतया व्यलासि तत्। अभेदि तत्तद् दृगनङ्गमागंणैर्यदस्य पौष्पैरपि धैर्यकञ्चुकम् ॥४६॥ दैवसाहायात् पुष्पेपोरपि पुरुषकारः फलित इत्याह--अनेनेति। अनेन = नलेन सह, भैमीं, घटयिष्यतः = योजयिष्यतः, विधेः = विधातुः, अबन्ध्येच्छतया = अमोघसङ्कल्पत्वेन तत् = तस्मात्, तथा = तेन प्रकारेण; योऽग्रे वक्ष्यत इति भावः! व्यलासि = विलसितं; लसतेर्भावे लुङ्। यत् = यस्मात्, तत्=प्रसिद्धं, तादृक्= तथा, अभेद्यमित्यर्थः। अस्य = नलस्य [धैर्यकञ्चुकम्] धैर्यमेव कञ्चुकं, पौष्पैः= पुष्पमयैरपि, न तु कठिनैः, अनङ्गस्य=अशरीरस्य, न तु देहवतः, मार्गणैः= बाणैः, अभेदि=भिन्नम्। भिदेः कर्मणि लुङ्। दमयन्ती-नलयोर्दाम्पत्यघटनाय अनङ्ग- बाणैर्नलधैर्यकञ्चुकभेदनाद्विधेरबन्ध्येच्छुत्वं विज्ञायत इत्यर्थः; दैवानुकूल्ये किं दुष्करमिति भावः। तत्रानङ्गपौष्पयोः कञ्चुकं भिन्नमिति विरोधः; तस्य विलासेनाभासीकरणाद्वि- रोधाभासः। स च धैर्यकञ्चुकमिति रूपकोत्थापित इति तयोरङ्गाङ्गिभावेन सङ्करः ॥४६॥
२६ नैषधचरितम् । [ प्रथमः 'इन नल के साथ दमयन्ती का सङ्गम होगा'-यह विधाता के (दृढ़ सङ्कल्प का विलास था कि नल के धैर्यरूपी ( दुर्भेद्य ) कवच को,-फूलों के बने हुए बाणों से- अशरीरधारी कामदेव ने-छलनी कर दिया ॥४६॥ किमन्यदद्यापि यदस्त्रतापितः पितामहो वारिजमाश्रयत्यहो । स्मरं तनुच्छायतया तमात्मनः शशाक शङ्के स न लङ्घितुं नलः ॥४७॥ अथ विधिमपि जितवतः किं विध्यपेक्ष्येत्याशयेनाह-किमिति । किमन्यत् = अन्यत् किमुच्यते ? पितामहः = विधिः अपि [ यदस्त्रतापितः ] यस्य स्मर- स्यास्त्रैस्तापितः सन्तापितः, अद्यापि वारिजमाश्रयति, तस्य पद्मासनत्वादिति भावः । शिशिरोपचारश्च गम्यते । अहो ! = विधेरपि स्मरविधेयत्वमाश्चर्यम् । तं = पितामहतापिनं स्मरं = कामं स नलः आत्मनः, [ तनुच्छायतया ] तनोः छायेव छाया कान्तिर्यस्य तस्य भावस्तत्ता, तया तनुच्छायतया । तनोश्छाया अनातपस्तनुच्छायम् । तत्तयेति च गम्यते । 'छाया त्वनातपे कान्तौ' इति वैज- यन्ती । लङ्घितुं न शशाक इत्यहं शङ्के, न हि स्वच्छाया लङ्घितुं शक्या इति भावः। अत्र स्मरलङ्घने पितामहोऽप्यशक्तः किमुत नल इत्यर्थापत्तिस्तावदेकोऽलङ्कारः । “एकस्य वस्तुनो भावाद्यत्र वस्त्वन्यथा भवेत् । कैमुत्यन्यायतः सा स्यादर्थापत्तिर- लङ्क्रिया”इति लक्षणात् । तनोश्छायेव च्छायेत्युपमा, छाययोरभेदाध्यवसायादतिश- योक्तिः । एतत्त्रितयोपजीवनेनालङ्घ्यत्वे तनुच्छायतया हेतुत्वोत्प्रेक्षणादुत्प्रेक्षा सङ्कीर्णा; सा च शङ्क इति व्यञ्जकप्रयोगाद्वाच्येति ॥ ४७ ॥ इससे बढ़ कर और क्या होगा कि स्वयं ब्रह्मा जी कामदेव के बाणों से घायल होकर, अपना संताप मिटाने के लिए, आज तक कमल पर पड़े हुए हैं । ऐसे कामदेव का लंघन करने में नल समर्थ न हो सके-यह बड़े आश्चर्य की बात हुई । मेरा अनुमान है कि ( सौन्दर्य का अवतार ) कामदेव नल के शरीर की परछाहीं भर था और कोई भी व्यक्ति अपनी परछाहीं का लंघन नहीं कर सकता ॥ ४७ ॥ उरोभुवा कुम्भयुगेन जृम्भितं नवोपहारेण वयःकृतेन किम् । त्रपासरीद्दुर्गमपि प्रतीर्य सा नलस्य तन्वी हृदयं विवेश यत् ॥४८॥ उरोभुवेति । सा तन्वी = भैमी, [ त्रपासरीद्दुर्गं ] त्रपैव सरित्, सैव दुर्गं नलसम्बन्धि, तदपि प्रतीर्य नलस्य हृदयं विवेश इति यत् । तत्प्रवेशनं, यत्तदोर्नित्यसम्बन्धात् तत् वयःकृतेन नवोपहारेण = नूतननिर्माणेन, उरोभुवा
सर्गः १ ] जीवातु-मदयन्तिकासहितम् २७ तजन्येन कुम्भयुगेन = कुचयुगलाख्येनेति भावः । अत एव विषयनिगरणेन अभे- दाध्यवसायादतिशयोक्तिः। 'न लोका' इत्यादिना कृद्योगे, षष्ठीप्रतिषेधात् कर्त्तरि तृतीया । 'नपुंसके भावेऽप्युपसंख्यानम्' इतिषष्ठी तु शेषविवक्षायाम् । जृम्भितं = जृम्भणं किम् उत्प्रेक्षा ; सा चोक्तातिशयोक्तिमूलेति सङ्करः । दमयन्तीकुचकुम्भविभ्रमश्रवणान्न- त्रपां विहाय तस्यामासक्तचित्तोऽभूदित्यर्थः । तेन मनःसङ्गः उक्तः ॥ ४८ ॥ उस तन्वङ्गी ने यौवन द्वारा दो कुच-कलशों का नवीन उपहार पाकर, उन्हीं (तुम्बीरूपी ) उरोजों की सहायता से लज्जारूपी दुर्गम नदी को पार कर, नल के हृदय में प्रवेश किया ॥ ४८ ॥ अपह्नुवानस्य जनाय यन्निजामधीरतामस्य कृतं मनोभुवा । अबोधि तज्जागरदुःखसाक्षिणी निशा च शय्या शशाङ्ककोमला ॥४९॥ अथास्य जागरावस्थामप्याह-अपह्नुवानस्येति । निजामधीरतां = चपलत्वं, जनायापह्नुवानस्य = अपलपतः । 'श्लाघह्नुङ्स्था' इत्यादिना सम्प्रदानत्वाच्चतुर्थी । अस्य = नलस्य मनोभुवा = कामेन यत् = जागरप्रलापादिकं कृतं, तत् सर्वं [जागरदुःखसाक्षिणी ] जागरदुःखस्य साक्षिणी साक्षाद्द्रष्ट्री । 'साक्षाद्द्रष्टरि संज्ञायाम्' इति साक्षाच्छब्दादिनिप्रत्यये ङीप् । [ शशाङ्ककोमला ] शशाङ्केन कोमला रम्या, निशा = यामिनी, चाबोधि = बुद्धम् । 'दीपजन'इत्यादिना कर्त्तरि च्लेश्चिणादेशः । तथा शशाङ्कवत् कोमला मृदुला शय्या = चाबोधि । निशायां शय्यायां जागरणात्तयोस्तत्साक्षित्वमिति भाव ॥ ४६ ॥ लोगों से अपनी विकलता छिपानेवाले नल के साथ कामदेव ने जो कुछ किया उसे--चन्द्र के कारण रमणीक रात्रि तथा चन्द्रमा के समान कोमलशय्या ने ही- जाना ; क्योंकि ये दो उनकी जागरण-व्यथा की साक्षिणी थीं ॥४६॥ स्मरोपतप्तोऽपि भृशं न स प्रभुर्विदर्भराजं तनयामयाचत । त्यजन्त्यसूञ्शर्म च मानिनो वरं त्यजन्ति न त्वेकमयाचितव्रतम् ॥५०॥ ननु किमनेन निबन्धनेन, याच्यतां भीमभूपतिर्दमयन्तीम्, नेत्याह--स्मरे- त्यादि । भृशं = गाढं, स्मरोपतप्तः = कामसन्तप्तोऽपि प्रभुः = समर्थः स = नलः, विदर्भराजं = भीमनृपतिं, तनयां = दमयन्तीं, न अयाचत = न याचितवान् । 'दुहियाच्'इत्यादिना याचेर्द्विकर्मकता। मानिनः = मनस्विनोऽप्युच्चमनस्काः, असून् = प्राणान्, शर्म च = सुखञ्च त्यजन्ति । एतत्त्यागोऽपि वरं = मनाक् प्रियम्
२८ नैषधचरितम् । [ प्रथमः तु=किन्तु, एकम्=अद्वितीयम्, अयाचितव्रतम्=अयाञ्चानियमं तु न त्यजन्ति । मानिनां प्राणत्यागदुःखद्दुःसहं याच्ञाया ःखमिति भावः । सामान्येन विशेष- समर्थनरूपोऽर्थान्तरन्यासः ॥ ५० ॥ अत्यन्त काम-सन्तप्त होने पर भी सहनशील नल ने विदर्भ-नरेश से उनकी पुत्री दमयन्ती को नहीं माँगा ; क्योंकि मनस्वी पुरुष प्राण तथा सुख—इन दो को भले छोड़ दें, पर एक 'याच्ञा न करने' का व्रत नहीं छोड़ते ॥ ५० ॥ मृषाविषादाभिनयादयं क्वचिज्जुगोप निःश्वासततिं वियोगजाम् । विलेपनस्याधिकचन्द्रभागताविभावनाचापललाप पाण्डुताम् ॥५१॥ मृषेति । अयं = नलो वियोगजां = दमयन्तीवियोगजन्यां, निःश्वासततिं = निःश्वासपरम्परां, क्वचित् = कुत्रचिद्वस्त्वन्तरे विषये [ मृषाविषादाभिनयात् ] मिथ्याभूतदुःखस्याभिनयात् छलेन जुगोप = संववार । प्रियाविरहसन्तापसम्भूतं दीर्घनिःश्वासम्, आरोपितमनःपीडाव्यक्तीकरणादाच्छादयामासेत्यर्थः । तथा पाण्डुतां = विशदतां शरीरपाण्डिमानं च, सन्ततकान्ताचिन्तासमुत्पन्नं वर्ष्मशौक्ल्यं विलेपनस्य [ अधिकचन्द्रभागताविभावनाच्च ] चन्दनाधिकः चन्द्रभागः कर्पूरांशो यस्मिन् विलेपने । 'घनसारश्चन्द्रसंज्ञः सिताभ्रो हिमवालुका' इत्यमरः । तस्य भावस्तत्ता यस्या विभावनादारोपणात् अपललाप = निह्नुते स्म ; शरीरवैवर्ण्यदृष्टृ- नपि चन्दने घनसाराधिक्यव्याजेन प्रतारयामासेत्यर्थः । अत्रापह्नवप्रभेदः ॥५१॥ किसी वस्तु के बारे में खेद का बहाना कर के, नल ने दमयन्ती विरहजन्य आहों की परम्परा छिपायी; और शरीर पीला होने का कारण यह कह कर छिपाया कि लेप किए जानेवाले चन्दन में कपूर की मात्रा अधिक हो गयी थी ॥५१॥ शशाक निह्नोतुमनैन तत्प्रियामयं बभाषे यदळीकवीक्षताम् । समाज एबालपितासु वैणिकैर्मुमुच्छ यत्पञ्चममूर्च्छनास्वपि ॥५२॥ शशाकेति । अयं = नलोऽलीकवीक्षितां = भ्रान्तिदृष्टां प्रियां = दमयन्तीं समाजे = सभायाम् एव यत् बभाषे = बभाण । [ वैणिकैः ] वीणा शिल्पमेषां तैर्वैणिकैः = वीणावादैः । 'शिल्पम्' इति ठञ् । आलपितासु = सूच्चरितासु, व्यक्तिं गतास्वित्यर्थः । 'रागव्यञ्जक आलाप' इति लक्षणात् [ पञ्चममूर्च्छनासु ] पञ्चमस्य पञ्चमाख्यस्य स्वरस्य, मूर्च्छनासु आरोहावरोहणेषु । 'क्रमात् स्वराणां सप्तानाम् आरोहिश्चावरोहिणं मूर्च्छनेत्युच्यते' इति लक्षणात् । पञ्चमग्रहणं तस्य
सर्गः १ ] जीवातु-मदयन्तिकासहितम् २९
- Digitized by Sarayu Trust Foundation and eGangotri - कोकिलालापकोमलत्वेन उद्दीपकत्वातिशयाविवक्षयेत्यनुसन्धेयम् । मुमूर्च्छेत्यापि यत्तदु- भयम् । अनेन प्रकारेण निह्नोतुम् = आच्छादयितुं शशाक । 'अये' इति पाठे, विषादे इत्यर्थः । “अये क्रोधे विषादे च'इति विश्वः । एतेन ह्रीत्यागोन्मादमूर्च्छा- वस्थाः सूचिताः ॥५२॥ नल ने भ्रान्ति के कारण देखी गयी प्रियतमा दमयन्ती से राजदरबार में जो कहा उसे इस प्रकार छिपाने में समर्थ हुआ:--वीणा बजानेवालों द्वारा पञ्चम स्वर राग-रागिनी के साथ गाये गये आलाप से मुग्ध दरबारी न सुन सके ॥५२॥ अवाप सापत्रपतां सम्भूपतिर्जितेन्द्रियाणां धुरि कीर्तितस्थितिः । असंवरै शम्बरवैरिविक्रमे क्रमेण तत्र स्फुटतामुपेयुषि ॥५३॥ अवापेति । जितेन्द्रियाणां धुरि = अग्रे कीर्तितस्थितिः = ख्यातप्रतिष्ठः स भूपतिः = नलः तत्र = समाजे । न विद्यते संवरो यस्य तस्मिन् । असंवरै = संवर- णरहिते, संवरितुमशक्ये । 'गृधिवृषिनिश्रिगमश्च' इत्यप्रत्ययः । 'संवरणं संवरः शम- श्वेत्यपि ।' शम्बरवैरिविक्रमे = मनसिजविकारे क्रमेण स्फुटतामुपेयुषि = प्रकाशतां गते सति, सापत्रपतां = सलज्जताम् अवाप । धैर्यशालिनां तद्भङ्गस्त्रपाकर इति भावः ॥५३॥ जितेन्द्रिय-प्रवर लब्धप्रतिष्ठ नरपति नल राजसमाज में अपने कामविकार की बात को धीरे-धीरे प्रकट हुई जानकर, लज्जा के मारे गड़ गये ॥५३॥ अलं नलं रोद्धममी किलाभवन् गुणा विवेकप्रभवा न चापलम् । स्मरः स रत्यामनिरुद्धमेव यत्सृजत्ययं सर्गनिंसर्ग ईदृशः ॥५४॥ ननु विवेकिनः कुत इदं चापलम् इत्यत आह-अलमिति । [ विवेक- प्रभवाः ] युक्तायुक्तविचारो विवेकः, तत्प्रभवा अमी गुणा धैर्यादयः, नलमिदं स्त्रीलाभरूपं चापलं रोद्धम् । 'दुह-याच्'इत्यादिना रुधेर्द्विकर्मकत्वम् । अलं= समर्था नाभवन् किल=खलु । तथाहि-स स्मर =कामः, जनमिति शेषः । रत्यां= रागे, अनिरुद्धं सृजति=अनीश्वरमवशं करोति । रत्यां=रतिदेव्यां अनिरुद्धाख्यं= कुमारं सृजति इति ध्वनिः । इति यत् अयं सर्गनिंसगः=सृष्टिस्वभावः, ईदृशः । 'रतिः स्मरप्रियायां च रागेऽपि च', 'अनिरुद्धः कामपुत्रे चारे चानीश्वरेऽपि च'इति विश्वः । अत्र स्मररागतुर्वारतायाः सर्वसृष्टिसाधारण्येन चापलदुर्व्वारतासमर्थनात् सामान्येन विशेषसमर्थनरूपोऽर्थान्तरन्यासः ॥५४॥
३० नैषधचरितम् । [ प्रथमः नल के विवेक-जन्य (धैर्य आदि) गुण भी उनकी कामचपलता को रोकने में समर्थ नहीं हुए; क्योंकि कामदेव (प्रद्युम्न) रति (अनुराग) होने पर, अ-निरुद्ध बना ही देता है। यही सृष्टि का धर्म (नियम) है ॥५४॥ अनङ्गचिह्नं स विना शशाक नो यदासितुं संसदि यत्नवानपि । क्षणं तदारामविहारकैतवान्निषेवितुं देशमियेष निर्जनम् ॥५५॥ अथास्य मनोरथसिद्धयौपयिकं दिव्यहंससंवादनिदानभूतं वनविहारं प्रस्तौति— अनङ्गेति । स=नैषधो नलो यत्नवानपि, अनङ्गचिह्नं=मूर्च्छाप्रलापादिस्मरविकारं विना, संसदि क्षणमप्यासितुं यदा नो शशाक, तदा आरामविहारकैतवाद्= उपवनविहरणव्याजात्, निर्जनं देशं निषेवितुम् इयेष=देशान्तरं गन्तुमैच्छदिति- त्यर्थः । एतेन चापलाख्ये सञ्चारिणि भ्रमणलक्षणोऽनुभाव उक्तः ॥५५॥ जब नल यत्न करने पर भी कामविकार के चिह्न प्रकट किए बिना संसद-भवन में क्षणभर बैठने में समर्थ न हुए तो उपवन-विहार के बहाने निर्जन स्थल में जाने के लिए तत्पर हुए ॥५५॥ अथ श्रिया भत्सितमत्स्यकेतनः समं वयस्यैः स्वरहस्यवेदिभिः । पुरोपकण्ठोपवनं किलेक्षिता दिदेश यानाय निदेशकारिणः ॥५६॥ अथेति । अथ=अनन्तरं, श्रिया=सौन्दर्येण भत्सितमत्स्यकेतनः=तिरस्कृत- स्मरः स नलः, स्वरहस्यवेदिभिः=निजभैमीरागमर्मज्ञैः । वयसा तुल्या वयस्याः स्निग्धाः । 'स्निग्धो वयस्यः सवयाः' इत्यमरः । तैः [वयस्यैः] समं=सह पुरोपकण्ठो- पवनं=नगरसमीपारामम् ईक्षिता = द्रष्टा । तृन्नन्तमेवैतत् । अत एव 'न लोके' इत्यादिना षष्ठीप्रतिषेधः । किल इत्यलीके । निदेशकारिणः=आज्ञाकरान्, यानाय= यानमानेतुमित्यर्थः । 'क्रियार्थ' इत्यादिना चतुर्थी । दिदेश=आज्ञापयामास ॥५६॥ इसके बाद अपने सौन्दर्य से कामदेव को अंगूठा दिखाने वाले नल ने—अपना रहस्य जाननेवाले हमजोली मित्रों के साथ—नगर के पास उपवन देखने की इच्छा से, नौकरों को सवारी लाने की आज्ञा दी ॥५६॥ अमी ततस्तस्य विभूषितं सितं जवेऽपि मानेऽपि च पौरुषाधिकम् । उपाहरन्नश्वमजस्रचञ्चलैः खुराञ्चलैः क्षोदितमन्दुरोदरम् ॥५७॥ अमी इति । ततः=आज्ञापनान्तरं, अमी=निदेशकारिणः तस्य विभूषितम्= अलङ्कृतं, जवेऽपि=वेगेऽपि, मानेऽपि=प्रमाणेष्वपि [पौरुषाधिकं] पौरुषात् पुरुषगति-
सर्गः १ ] जीवातू-मदयन्तिकासहितम् ३१ Digitized by Sarayu Trust Foundation and eGangotri वेगात् पुरुषप्रमाणात् चाधिकं । ‘ऊर्द्ध्वविस्तृतदोःपाणिन्माने पौरुषं त्रिषु'इत्यमरः । 'पुरुषहस्तिभ्यामण् च'इत्यण्प्रत्यय । अजस्रचञ्चलैः = अजस्रं चञ्चलैः चटुलस्वभावैः खुराञ्चलैः=शफाग्रैः क्षोदितं मन्दुरोदरं=चूर्णीकृताश्वशालाभ्यन्तरं । ‘वाजिशाला तु मन्दुरा'इत्यमरः । एतेनोत्तमाश्वलक्षणयुक्तं; सितं=श्वेतम् अश्वम् उपाहरन्= निन्युरित्यर्थः ॥५७॥ तब नौकर लोग उनका—सफेद, आभूषणों से अलङ्कृत, क़द में और वेग में पुरुष-प्रमाण से अधिक बली—घोड़ा ले आये। वह घोड़ा निरन्तर अपनी चञ्चल टापों से अस्तबल का फर्श खोदता रहता था ॥५७॥ अथान्तरेणावटुगामिनाध्वना निशीथिनीनाथमहःसहोदरैः । निगालगाद् देवमणेरिवोत्थितैर्विराजितं केसरकेशरश्मिभिः ॥५८॥ अथ सप्तभिः कुलकमाह—अथेत्यादि । अथ=आनयनानन्तरं, स नलः हयमारुरोहेत्युत्तरेणान्वयः । कथंभूतम् ? आन्तरेण = आभ्यन्तरेण अवटुगामिना =कृकाटिकाख्यमस्तकपृष्ठभाजा । 'अवटुर्घार्टा कृकाटिका'इत्यमरः । अध्वना=मार्गेण निगालगात् = गलोदेशात् । 'निगालस्तु गलोदेशः'इत्यमर । [देवमणेः] देवमणिः आवर्त्तविशेषः । 'निगालजो देवमणि'इति लक्षणात् । दिव्यमाणिक्यं च गम्यते । तस्माद् उत्थितैरिव = स्थितैरिव इत्युत्प्रेक्षा । निशीथिनीनाथमहःसहोदरैः = चन्द्रांशुसहशैरित्युपमा । [केसरकेशरश्मिभिः] केसरकेशा एव रश्मय इति रूपकं, तैर्विराजितम् ॥ ५८ ॥ उस घोड़े की गर्दन पर के बाल—चन्द्रमा की किरणों के समान चमकीले और देवमणि के समान घुंघराले बाहर की ओर निकले हुए मालूम पड़ते थे ॥५८॥ अजस्रभूमी तटकुट्टनोद्गतैरूपास्यमानं चरणेषु रेणुभिः । रयप्रकर्षाध्ययनार्थमागतैर्जनस्य चेतोभिरिवाणिमाङ्कितैः ॥५९॥ अजस्रेति । [अजस्रभूमी तटकुट्टनोद्गतैः] अजस्रेण भूमितटकुट्टनेन, उद्गतै- रुत्थितैः, रेणुभिः । [रयप्रकर्षाध्ययनार्थं] रयप्रकर्षस्य वेगातिशयस्य, अध्यय- नार्थम् अभ्यासाय, आगतैः, अणिमाङ्कितैः = अणुलत्वपरिमाणविशिष्टैः, जनस्य = लोकस्य चेतोभिरिव, इत्युत्प्रेक्षा । चरणेषु = पादेषु उपास्यमानं=सेव्यमानम् । अणुपरिमाणं मन इति तार्किकाः ॥ ५९ ॥ CC-0. Prof. Satya Vrat Shastri Collection. निरन्तर फर्श खोदने से उठी हुई धूल के कण—उसके चरणों की सेवा
३२ नैषधचरितम्। [ प्रथम करते थे जो ऐसा मालूम पड़ता था कि मानों उससे द्रुतगति सीखने के लिए आए हुए अणुपरिमाण रूप में लोगों के चित्त हों ॥ ५६ ॥ चलाचलप्रोथतया महाभृते स्ववेगदर्पानिव वक्तुमुत्सुकम् । अलं गिरा वेद किलायमाशयं स्वयं हयस्येति च मौनमास्थितम् ॥६०॥ चलाचलेति । पुनः, चलाचलप्रोथतया = स्वभावतः स्फुरमाणघोणतया 'चरिचलिपतिवदीनामुपसंख्यानम्' इत्यनेन चलेर्द्विर्वचनं दीर्घश्च । 'घोणा तु प्रोथम- स्त्रियाम्' इत्यमरः । महाभृते=नलाय, स्ववेगदर्पान् = वेगातिरेकान् वक्तुमुत्सुकम् = उद्युक्तम्, इव इत्युत्प्रेक्षा ! अथावचने हेतुमुत्प्रेक्षते-अलमिति । गिरा=उक्त्या, अलं कुतः ? अयं = नलः, स्वयं हयस्य = अश्वस्य आशयम् = अभिप्रायं वेद = वेत्ति, किल । 'विदो लटो वा' इतिणलादेशः । इति हेतोरित्येतदनुषङ्गः । मौनं = तूष्णीम्भावं च, आस्थितं = प्राप्तम् । 'अश्वहृदयवेदी नल' इति प्रसिद्धिः ॥६०॥ चलने के समय अपने नथुनों को फुलाता हुआ वह घोड़ा ऐसा मालूम होता था मानों अपने वेग के बारे में दर्पभरी बात कहने को उत्सुक हो; पर वाणी से क्या कहें ? क्योंकि नल स्वयं घोड़े के अभिप्राय को जानते हैं—इस लिए मौन धारण कर लिया ॥ ६० ॥ महारथस्याध्वनि चक्रवर्तिनः परानपेक्षोद्वहनाद्यशःसितम् । रदावदातांशुमिषादनीदृशां हसन्तमन्तर्बलमवतां रवेः ॥६१॥ महारथस्येति । महान् रथो यस्य तस्य महारथस्य । 'आत्मानं सारथिञ्चाश्वं रक्षन् युद्ध्येत यो नरः । स महारथसंज्ञः स्यादित्याहुर्नीतिकोविदाः ।' इत्युक्तलक्षणस्य रथिकविशेषस्येत्यर्थः । अन्यत्र, महारथो नलस्तस्य महारथस्य । [चक्रवर्तिनः] चक्रं राष्ट्रं वर्त्तयतीति चक्रवर्त्ती सार्वभौमः, तस्य नलस्य । 'हरिश्चन्द्रो नलो राजा पुरुः कुत्सः पुरूरवाः । सगरः कार्त्तवीर्य्यश्च षडेते चक्रवर्त्तिनः' इत्यागमात् । अन्यत्र, चक्रेणैकेन वर्त्तनशीलस्येत्यर्थः । अध्वनि=मार्गे, [परानपेक्षोद्वहनाद् यशःसितम् ] नापेक्षित इत्यनपेक्षं । 'पचाद्यच्' । परेषामनपेक्षं, तस्मादुद्वहनादसहायोद्वहनाद्धेतोः, यशःसितं कीर्त्तिविशदं, अत एव अनीदृशाम् = ईदृग्यशोरहितानाम् । 'सप्त युञ्जन्ति रथमेकचक्रम्' इति समानां सम्भूयोद्वहनश्रवणादिति भावः । रवेः=सूर्यस्य, अवताम् = अश्वानाम्, अन्तर्बलम् = अन्तःसारं, [रदावदातांशुमिषात्] रदानां दन्तानां, ये अवदाताः सिताह०तांशुभिषेण, हसन्तं = हसन्तमिव स्थितमित्यर्थः ।
सर्गः १ ] ३३ अत्र मिषशब्देनांशूनामसत्यत्वमापाद्य हासत्वोत्प्रेक्षणात् सापह्नवोत्प्रेक्षेयं गम्या च व्यञ्जकाप्रयोगात् । 'रदना दशना दन्ता रदाः' इत्यमरः ॥ ६१॥ वह घोड़ा-महारथी, चक्रवर्ती नल को-मार्ग में, बिना किसी दूसरे घोड़े की सहायता के--ले जाने के यश से सफेद था; और अपने दाँतों की निर्मल चमक के बहाने, मानों सूर्य के घोड़ों के आन्तरिक बल का उपहास करता था ॥६१॥ सितत्विषश्चञ्चलतामुपेयुषो मिषेण पुच्छस्य च केसरस्य च । स्फुटं चलच्चामरयुग्मचिह्नकैरनिह्नुवानं निजवाजिराजताम् ॥ ६२॥ सितत्विष इति । पुनः कथम्भूतं ? सितत्विषः = विशदप्रभस्य, चञ्चलता- मुपेयुषः = चञ्चलस्येत्यर्थः । पुच्छस्य = लाङ्गूलस्य, केसरस्य = सटासमूहस्य च मिषेण = च्छलेन [चलच्चामरयुग्मचिह्नकः] चलत्श्चामरयुग्मस्य, चिह्नकैः लक्षणैः । स्फुटां = प्रसिद्धां, [ निजवाजिराजताम् ] निजां, वाजिराजताम् = अश्वेश्वरत्वम्, अनिह्नुवानं = प्रकाशयन्तमिव । अराजः कथं चामरयुग्ममिति भावः । पूर्ववद- लङ्कारः ॥ ६२ ॥ सफेद चमकवाली चञ्चल पूँछ और गर्दन पर के सफेद चञ्चल बाल के बहाने- राजचिह्नरूपी दो चँवरों से मानों वह अपने को 'अश्वराज' प्रकट कर रहा था ॥६२॥ अपि द्विजिह्वाभ्यवहारपौरुषे मुखानुषक्तायतवल्गुवल्गया । उपेयिवांसं प्रतिमल्लतां रयस्मये जितस्य प्रसभं गरुत्मतः ॥६३॥ अपीति । पुनः कथम्भूतं स्थितं ? रयस्मये = वेगप्रयुक्ताहङ्कारे, प्रसभं = प्रसह्य, जितस्य = प्रागेव निर्जितस्य, गरुत्मतः, [मुखानुषक्तायतवल्गुवल्गया] मुखानुषक्ता वक्त्रलग्ना, आयता दीर्घा, वल्गू रम्या च या वल्गा मुखरज्जुः तया, तन्मिषेणेत्यर्थः । [ द्विजिह्वाभ्यवहारपौरुषे ] द्विजिह्वानाम् अहीनाम्, अभ्यवहारे आहारे यत् पौरुषे सर्पभक्षणपुरुषकारेऽपि, प्रतिमल्लतां = प्रतिद्वन्द्विताम्, उपेयि- वांसं = प्राप्तम् इवेत्यर्थः । तथा च गम्योत्प्रेक्षेयं 'उपेयिवाननाश्वाननूचानश्च' इति क्वसुप्रत्ययान्तो निपातः ॥६३॥ अपनी चाल की गर्व में, बलात् जीते गये गरुड के सर्पों के खाने के पौरुष में, वह घोड़ा-मुँह में लगी हुई सुन्दर और लम्बी लगाम (रूपी सर्प) से-गरुड की प्रतिद्वन्द्विता करता था ॥६३॥
An accurate, line-by-line transcription of the Sanskrit/Hindi text from the image:
३४ नैषधचरितम् । [ प्रथमः स सिन्धुजं शीतमहःसहोदरं हरन्तमुच्चैःश्रवसः श्रियं हयम् । जिताखिलक्ष्माभृदनल्पलोचनस्तमारुरोह क्षितिपाकशासनः ॥६४॥ स इति । [ जिताखिलक्ष्माभृत् ] जिता अखिलाः क्ष्माभृतो भूपा भूधराश्च येन सः । अनल्पलोचनः=विशालाक्षः, अन्यत्र बहुनेत्रः, सहस्राक्ष इति यावत् । स क्षितिपाकशासनः=क्षितीन्द्रो नलः, देवेन्द्रश्च । सिन्धुजं=सिन्धुदेशोद्भवं, समुद्रोद्भवञ्च । 'देशे नदविशेषेऽब्धौ सिन्धुर्ना सरिति स्त्रियाम्' इत्यमरः । शीतमहः- सहोदरं=चन्द्रसवर्णमित्यर्थः, अन्यत्र चन्द्रभ्रातरम्, एकयोनित्वादिति भावः । उच्चैःश्रवसः=इन्द्राश्वस्य, श्रियं हरन्तं, तत्स्वरूपमित्यर्थः । तं हयम् । आरुरोह । अत्रोच्चैःश्रवसः श्रियं हरन्तमिवेत्युपमा । सा च श्लिष्टविशेषणात् श्लेषसङ्कीर्णा । क्षितिपाकशासन इत्यतिशयोक्तिः ॥ ६४ ॥ सिन्धु ( सिन्धुदेश, सागर ) में उत्पन्न हुए, चन्द्रमा के वर्ण ( सफेद, चन्द्र- भ्राता ) तुल्य और उच्चैःश्रवा की शोभा को मात करनेवाले घोड़े पर—अखिल राजोच्छेत्ता, विशाल नेत्रवाले, पृथ्वीतल के इन्द्र—नल सवार हुए ॥६४॥ निजा मयूखा इव तिग्मदीधितिं स्फुटारविन्दाङ्कितपाणिपङ्कजम् । तमश्ववारा जवनाश्वयायिनं प्रकाशरूपा मनुजेशमन्वयुः ॥६५॥ निजा इति । निजाः = आत्मीयाः, ॰प्रकाशरूपाः उज्ज्वलाकाराः, भास्वर- रूपाश्च । अश्वान् वारयन्तीत्यश्ववाराः=अश्वारोहाः । स्फुटारविन्दाङ्कितपाणिपङ्कजं = पद्मरखाङ्कितहस्तम् ; अन्यत्र पद्महस्तं । [ जवनाश्वयायिनं ] जवनो जव- शीलः । 'जुचङ्क्रम्य'इत्यादिना युच् । तेनाश्वेन, अन्यत्र तैरश्वैर्यातीति तथोक्तम् । [ मनुजेशं ] मनुजा मनोजार्ता मनुजा नरास्तेपामीशं राजानञ्ज, तं = नलं तिग्म- दीधितिं = सूर्यं मयूखा इव, अन्वयुः = अन्वगच्छन् । यातेर्लिट् झेर्जुसादेशः ॥ कमलरखाङ्कित कर-कमलवाले और वेगवान् घोड़े पर जानेवाले महाराज नल के पीछे, दीप्तिशाली घुड़सवार इस प्रकार चले—जैसे सूर्य के पीछे सूर्य की किरणें जाती हैं ॥ ६५ ॥ चलन्नलंकृत्य महारयं हयं स वाहवाहूचितवेषपेशलः । प्रमोद्दनिप्पन्दतराक्षिपक्ष्मभिर्व्यलोकि लोकैर्नगरालयैर्नलः ॥६६॥ चलन्निति । वाहवाह्योचितवेषपेशलः = अश्वावरोहोचितनेपथ्यचारुः । 'चारौ दक्षे च पेशलः' इत्यमरः । स नलो महारयम् = अतिजवं हयम् = अश्वम्,
सर्गः १ ] नैषधमहाकाव्यम् ३५ भलङ्कृत्य चलन्=स्वयं हयस्य भूषणीभूय गच्छन्नित्यर्थः । [ प्रमोदनिष्पन्दत- राक्षिपक्ष्मभिः ] प्रमोदेन निष्पन्दतराणि अत्यन्तनिश्चलानि, अक्षिपक्ष्माणि येषां तैः= अनिमेषदृष्टिभिरित्यर्थः । नगरालयैः = नगरनिवासिभिरित्यर्थः । लोकैः = जनैः व्यलोकि = विस्मयहर्षाभ्यां विलोकित इत्यर्थः । वृत्यनुप्रासोऽलङ्कारः ॥ ६६॥ घुड़सवारी के वेश से मनोहर और हवा से बात करनेवाले घोड़े पर जाते हुए नल को—नागरिक जनता हर्ष के कारण निर्निमेष दृष्टि से देख रही थी ॥६६॥ क्षणादथैष क्षणदापतिप्रभः प्रभञ्जनाध्येयजवेन वाजिना । सहैव ताभिर्जनदृष्टिवृष्टिभिर्बहिः पुरोऽभूत् पुरुहूतपौरुषः ॥६७॥ क्षणादिति । अथ = अनन्तरं क्षणदापतिप्रभः = चन्द्रद्युतितुल्यस्तथा पुरु- हूतपौरुषः = इन्द्रस्येव पौरुषं कर्म तेजो वा यस्य तादृश एष = नलः । [ प्रभञ्ज- नाध्येयजवेन ] प्रभञ्जनेन वायुना, अध्येयः शिक्षणीयः, जवो वेगो यस्य तथाविधेन, ततोऽप्यधिकवेगेनेत्यर्थः । वाजिना = अश्वेन, क्षणात् ताभिः = पूर्वोक्ताभिः, [जन- दृष्टिवृष्टिभिः ] जनानां दृष्टिवृष्टिभिः दृक्पातैः सह, जनैर्दृश्यमान एव इत्यर्थः । बहिःपुरः = पुराद्वहिः, बहिःस्थित अभूत् । बहिर्योगे पञ्चमी । पूर्वे पुरे दृष्टः, क्षणादेव पुराद्बहिर्दृष्ट इति वेगातिशयोक्तिः ॥ ६७ ॥ फिर निशानायक चन्द्र के समान कान्तिवाले और इन्द्र के समान पराक्रम- शाली नल—पवन भी जिस की तीव्रगति से शिक्षा ले सकता था ऐसी तेज चाल- वाले—घोड़े पर सवार होकर, मिनटों में लोगों की नज़र पड़ते-पड़ते, नगर के बाहर निकल गये ॥ ६७ ॥ ततः प्रतीक्ष प्रहरेति भाषिणी परस्परोल्लासितशल्यपल्लवे । मृषामृधं सादिबले कुतूहलान्नलस्य नासीरगते वितेनतुः ॥६८॥ तत इति । ततः = पुराद्बहिर्गमनानन्तरं, प्रतीच्छ = गृहाण, प्रहर = जहि इति भाषिणी = भाषमाण इत्यर्थः । [ परस्परोल्लासितशल्यपल्लवे ] परस्पर- मन्योन्योपरि, उल्लसितानि प्रसारितानि, शल्यपल्लवानि तोमराग्राणि याभ्यां ते तथोक्ते । 'शल्यं तोमरम्' इति अमरः । नलस्य नासीरगते = नासिकाग्रवर्तिनि । 'सेना- मुखं तु नासीरम्'इत्यमरः । सादिबले=तुरङ्गसैन्ये, कुतूहलात् ,मृषामृध=मिथ्या- युद्धं, युद्धनाटकमित्यर्थः वितेनतुः = चक्रतुः । 'मृधमाहवं समानीकं' इत्यमरः ॥६८॥ वहाँ पहुँच कर 'लो मारो, मेरी भी मार सहो'—ऐसा कह कर उस सेना ने
३६ नैषधचरितम् । [ प्रथमः Digitized by Sarayu Trust Foundation and eGangotri एक दूसरे पर भाले की नोक चलायी ; इस प्रकार नल की सेना के अगले मोर्चे पर स्थित घुड़सवारों की दो टुकड़ियों ने-कुतूहल से नकली लड़ाई का अभ्यास किया ॥ प्रयातुमस्माकमियं कियत्पदं धरा तदम्भोधिरपि स्थलायताम् । इतीव बाहैर्निजवेगदर्पितैः पयोधिरोधक्षममुत्थितं रजः ॥६९॥ प्रयातुमिति । इयं धरा = भूः, समुद्रातिरिक्तेति भावः । अस्माकं प्रयातुं = प्रस्थातुं कियत्पदं = गन्तव्यं स्थानं न किञ्चित् पर्याप्तमित्यर्थः । [ तदम्भोधि- रपि ] तस्माद् समुद्रोऽपि स्थलायतां = स्थलवदाचरतु, भूरेव भवत्वित्यर्थः । 'कर्तुः क्यङ् सलोपश्च' इति क्यङ् प्रत्ययः । इतीव = इति मत्वेत्यर्थः । इतिनैव गम्यमानार्थ- त्वादप्रयोगः, अन्यथा पौनरुक्त्यात् । क्रियानिमित्तोत्प्रेक्षा । [ निजवेगदर्पितैः ] निजवेगेन दर्पितैः सञ्जातदर्पः, बाहैः = नलाश्वैः पयोधिरोधक्षमं = समुद्रच्छादन- पर्याप्तं, रज उत्थितम् = उत्थापितं, तथा सान्द्रमिति भावः ॥ ६६ ॥ 'हमारे चलने पर, यह पृथ्वी रह ही कितनी कदम जायगी--इस लिए समुद्र भी स्थल हो जाय।' ऐसा विचारकर, अपने वेग पर गर्व करनेवाले घोड़ों ने, मानों समुद्र को पाटने के लिए पर्याप्त, धूलि उड़ायी ॥ ६६ ॥ हरेर्यदक्रामि पदैककेन खं पदैश्चतुर्भिः क्रमणेऽपि तस्य नः । त्रपा हरीणामिति नम्रिताननैर्न्यवर्ति तैरर्धनभःकृतक्रमैः ॥७०॥ हरेरिति । यत् खम् = आकाशं हरेः = विष्णोः, एककेन = एकाकिना 'एकादाकिनिच्चासहाये' इति चकारात् कन्प्रत्ययः । पदा = पादेन । 'पदङ्घ्रि- श्चरणोऽस्त्रियाम्' इत्यमरः । 'पद्दन्' इत्यादिना पदादेशः । अक्रामि = अलङ्घि, तस्य = खस्य चतुर्भिः पदैः क्रमणे = लङ्घने, कृते सत्यपीति शेषः । हरीणां = वाजिनां, विष्णूनां चेति गम्यते । 'यमानिलेन्द्रचन्द्रार्कविष्णुसिंहांशुवाजिषु । शुका- हिकपिभेकेषु हरिर्ना कपिले त्रिषु' इत्यमरः । उभयत्रापि नः = अस्माकं त्रपा इति वा इत्यर्थः । गम्यार्थत्वादिवशब्दस्याप्रयोगः । अत एव गम्योत्प्रेक्षा । [नम्रिताननैः] नम्रीकृतानिः, निम्रीकृतानि आननानि यै स्तैः=हरिभिः । [अर्धनभःकृतक्रमैः] अर्धे नभसि कृतक्रमैः कृतलङ्घनैः सद्भिः न्यवर्त्ति = निवर्त्तितम्, भावे लुङ् । यदन्येन पुंसा लघूपायेन साधितं तस्य गुरूपायेन करणं समानस्य लाघवाय भवेदिति भावः । एतेन प्लुतगतिरुक्ता, तत्र गगनलङ्घनस्य सम्भवादिति भावः ॥७०॥ CC-0. Prof. Satya Vrat Shastri Collection जिस आकाश को विष्णु ने (वामनावतार में) एक पग से आक्रान्त किया