पारस्कर गृह्यसूत्र (मार्गदर्शिनी टीका व हिन्दी व्याख्या सहित)
Paraskara Grihyasutra Hindi
महर्षि पारस्कर (टीकाकार: कुलमणि मिश्र शर्मा) द्वारा
स्रोत: Paraskara Grihyasutram with Margadarshini Hindi Commentary (उद्गम)
( १०५ )
परिधास्ये इत्यर्थः ।
अथोत्तरीयम्—
यशसा मा द्यावापृथिवी यशसेन्द्राबृहस्पती ।
यशो भगश्च माविदद् यशो मा प्रतिपद्यताम् इति । १६
अथ—वस्त्रपरिधानान्तरम्, उत्तरीयम्—उत्तरासङ्गम्, आच्छादयीत “यशसा मा” इत्यादिना मन्त्रेण ।
मन्त्रार्थः ( प्रजापतिः अनुष्टुप् बृहस्पतिः उत्तरीयाभिमन्त्रणे )—
मा—मां यजमानं, द्यावापृथिवी—द्यावापृथिव्यौ आकाशपृथिव्यौ यशसा—कीर्त्या, आच्छादयताम् । तथा इन्द्राबृहस्पती अपि यशसा आच्छादयताम् । यशः, भगः—भाग्यं च मा—माम्, अविदत्—प्राप्नोतु । यशः मा—मां प्रतिपद्यताम्—आगच्छतु ।
एकं चेत् पूर्वस्योत्तरवर्गेण प्रच्छादयीत । १७
एकं चेत्—द्वितीयं वस्त्रं नास्ति चेत् पूर्वस्य—परिधानीयस्य वस्त्रस्य, उत्तरवर्गेण—उत्तरभागेन प्रच्छादयीत—उत्तरीयकार्यं विदध्यात् ।
सुमनसः प्रतिगृह्णाति—
या आहरज्जमदग्निः श्रद्धायै मेधायै कामायेन्द्रियाय ।
ता अहं प्रतिगृह्णामि यशसा च भगेन च । १८
सुमनसः—पुष्पाणि प्रतिगृह्णाति—स्वीकरोति “या आहरत् इत्यादिना मन्त्रेण ।
मन्त्रार्थः (भरद्वाजः अनुष्टुप्, सुमनसो देवताः पुष्पादाने)—
जमदग्निः याः—सुमनसः, श्रद्धाद्यर्थम्, आहरत्—आददे, ताः—सुमनसः अहं, यशसा—कीर्त्या, भगेन—ऐश्वर्येण च सह, प्रतिगृह्णामि—स्वीकरोमि । श्रद्धा—धर्मादरः आस्तिक्यबुद्धिरित्यर्थः । मेधा—धारण-शक्तिः, कामः—अभिलाषपूर्तिः ।
अथावबध्नीते—
यद् यशोऽप्सरसामिन्द्रश्चकार विपुलं पृथु ।
तेन संग्रथिता सुमनस आबध्नामि यशो मयीति । १९
( १०६ )
अथ—प्रतिग्रहानन्तरं, ताः सुमनसः, स्वशिरसि अवबध्नीते—बध्नाति "यद्यशोऽप्सरसा"मित्यादि मन्त्रेण ।
मन्त्रार्थः ( भरद्वाजः अनुष्टुप् सुमनसः पुष्पबन्धने )—इन्द्रः अप्सरसाम्—उर्वशीप्रभृतीनां, यद् विपुलं—विशालं, पृथु—दीर्घं, यशः—सर्वप्रियत्वं, चकार — कृतवान्, तेन— यशसा, संग्रथिताः— सम्यक् ग्रथिताः, सुमनसः—पुष्पाणि, मयि—मम शिरोभागे, आवध्नामि-समन्ताद् बध्नामि । यशो मयि तिष्ठतु इत्यर्थः ।
उष्णीषेण शिरो वेष्ठयते—युवा सुवासा इति । २०
उष्णीषेण—शिरोवेष्टनेन तृतीयेन वाससा, शिरः—मूर्द्धानं वेष्टयते—वेष्टितं करोति “युवा सुवासा” इत्यादि मन्त्रेण । मन्त्रोऽयमुपनयने (२-२-१२) व्याख्यातः ।
अलंकरणमसि भूयोऽलंकरणं भूयादिति कर्णवेष्टकौ । २१
अलंकरणमसीति मन्त्रेण कर्णवेष्टकौ—कर्णभूषणे—प्रतिमुञ्चते—परिधत्ते । प्रतिमुञ्चते इति (२-६-२५) सूत्रात् आकर्षणीयम् ।
वृत्रस्येत्यङ्क्तेऽक्षिणी । २२
वृत्रस्येत्यादिना मन्त्रेण, अक्षिणी—चक्षुषी मन्त्रावृत्त्या, अङ्क्ते—अञ्जनेन संस्करोति । अत्र दक्षिणनेत्रस्याञ्जनं प्रथममिति हरिहरः । वामस्य प्रथममिति गदाधरः । मन्त्रः—
वृत्रस्य कनीनिकाऽसि चक्षुर्दा असि चक्षुर्मे देहि ।
रोचिष्णुरसीत्यात्मानमादर्शे प्रेक्षते । २३
रोचिष्णुरसीत्यादिमन्त्रेण, आत्मानम्—आत्मनः शरीरं मुखादि आदर्शे—दर्पणे, प्रेक्षते—पश्यति ।
मन्त्रार्थः (सूर्यो यजुः आदर्शः मुखनिरीक्षणे)—हे आदर्श ! त्वं रोचिष्णु—प्रकाशकः, असि—भवसि ।
छत्रं प्रतिगृह्णाति— बृहस्पतेश्छदिरसि पाप्मनो मामन्तर्धेहि तेजसो यशसो मान्तर्धैहीति । २४
( १०७ )
छत्रम्—आतपत्रं प्रतिगृह्णाति, स्वीकरोति, बृहस्पतेश्छदिरसी-त्यादिमन्त्रेण ।
मन्त्रार्थः ( गौतमः गायत्री छत्रं तद्ग्रहणे )—हे छत्र ! त्वं बृहस्पतेः—देवगुरोः, छर्दिः—घर्मादिद्वारकम् असि । अतएव पाप्मनः—पापात्, माम्, अन्तर्धेहि—अन्तर्हितं कुरु । तेजसः तथा यशसः मां, मा अन्तर्धेहि—न अन्तर्हितं कुरु ।
प्रतिष्ठे स्थो विश्वतो मा पातमित्युपानहौ प्रतिमुञ्चते । २५
“प्रतिष्ठे स्थ” इत्यादिना मन्त्रेण उपानहौ—पादत्राणे प्रतिमुञ्चते—धारयति ।
मन्त्रार्थः (प्रजापतिः यजुः धर्मः उपानह ग्रहणे)—हे उपानहौ ! युवां, प्रतिष्ठे—उपक्रान्तगतिक्रियाया अत्यागः प्रतिष्ठा, तन्निमित्तत्वात् युवामपि प्रतिष्ठे, स्थः—भवथः । अतः मा—मां, विश्वतः—सर्वतः, पातं—रक्षतम् ।
विश्वाभ्यो मा नाष्ट्राभ्यस्परिपाहि सर्वत
इति वैणवं दण्डमादत्ते । २६
विश्वाभ्य इत्यादि मन्त्रेण वैणवं—वंशमयं, दण्डं—यष्टिम्, आदत्ते—गृह्णाति ।
मन्त्रार्थः ( याज्ञवल्क्यः यजुः दण्डः तद्ग्रहणे )—हे दण्ड ! त्वं, विश्वाभ्यः—सर्वाभ्यः, नाष्ट्राभ्यः—नाशकारिणीभ्यः सर्पराक्षसीप्रभृतिभ्यः, सर्वतः—सर्वस्मिन् स्थाने सर्वतोभावेन वा परिपाहि—रक्ष ।
दन्तप्रक्षालनादीनि नित्यमपि वासश्छत्रोपानह-
श्चापूर्वाणि चेन्मन्त्रः । २७
दन्तप्रक्षालनादीनि—दन्तप्रक्षालनम् आदौ येषां पुष्पादीनां तानि दन्तप्रक्षालनोद्वर्त्तनानुलेपनानि इत्यर्थः, तानि नित्यं—प्रत्यहं मन्त्रपूर्वकाणि । वासश्छत्रोपानहः—वासः वस्त्रम्, छत्रम्, उपानहौ चकारात् दण्डोऽपि अपूर्वाणि—नूतनानि चेत् तद्ग्रहणे मन्त्रः भवति, न पुरातनेषु ।
इति पारस्करगृह्यसूत्रव्याख्यायां मार्गदर्शिन्यां
द्वितीयकाण्डे षष्ठी कण्डिका ॥
( १०८ )
स्नातस्य यमान् वक्ष्यामः । १
स्नातस्य—ब्रह्मचर्यात् समावृत्तस्य स्नातकस्य द्विजातेः यमान्—व्रतानि, वक्ष्यामः।
कामादितरः । २
इतरः—शूद्रः, कामात्—इच्छया, अस्नातकोऽपि यमेषु अधिकारी भवति।
नृत्यगीतवादित्राणि न कुर्यान्न च गच्छेत् । ३
नृत्यं च गीतं च वादित्रं च—नृत्यगीतवादित्राणि तानि, स्वयं न कुर्यात्, अन्येन कृतान्यपि दर्शनार्थं श्रवणार्थं वा न गच्छेत्। चकारः करोतिगच्छतिक्रिययोः समुच्चयार्थः।
कामं तु गीतं गायति—
दैव गीते वा रमते इति श्रुतेर्ह्यपरम् । ४
गाने प्रतिप्रसवमाह—तु—विरोधे। कामम्—इच्छया, स्वयं गीतं गानं करोति। वा—पक्षान्तरे, गीते—अन्यैः क्रियमाणे वा रमते, इति श्रुतेः—श्रुतिवचनात्। अपरं—न परम् अपरम्। परं—नृत्यादि न कुर्यात्, तेषु नृत्यादिषु न प्रतिप्रसवः केवलं गीते इत्यर्थः।
क्षेमे नक्तं ग्रामान्तरं न गच्छेत् । ५
क्षेमे—अनापदि। नक्तं—रात्रौ। अन्यत् स्पष्टम्।
न च धावेत् । ६
अत्रापि अनापदि इति द्रष्टव्यम्।
उदपानावेक्षण-वृक्षारोहण-फलप्रपतन सन्धिसर्पण-
विवृतस्नान-विषमलङ्घन-शुक्तवदन-सन्ध्यादित्यप्रेक्षण-
भैक्षणानि न कुर्यात् । ७
उदपानावेक्षणम्—उदपानं कूपः, तस्य अवेक्षणम्—अवलोकनम्, उपरि स्थित्वा अधोमुखीभूय कूपगर्भदर्शनमित्यर्थः। वृक्षारोहण—
( १०६ )
वृक्षे आरोहणम्—उपरिगमनम्, फलप्रपतनं—फलेन फलस्य पातन- मन्येन वा इष्टकादिना । तदाह वसिष्ठः—"नेष्टकाभिः फलं शातयीत, न फलेन फलम् (६-३६) इति । प्रपतनं त्रोटनमिति हरिहरगदाधरौ । सन्धिसर्पणं—सन्धौ—सन्ध्यायां सर्पणं—गमनम् सन्धिना—कुमार्गेण वा सर्पणम् । विवृतस्नानं—नग्नस्नानम् । विषमलङ्घनं—विषमस्य पर्वतगर्त्तादेः लङ्घनम्—अतिक्रामणम् । शुक्तवदनं—शुक्तम्—अश्लीलम्, तस्य वदनं—कथनम्, सन्ध्यादित्यप्रेक्षणं—सन्ध्ययोः आदित्यस्य प्रेक्षणं—दर्शनम् । भैक्षणं—भिक्षाचरणम् । एतानि उदपानावेक्षणादीनि न कुर्यात् ।
न ह वै स्नात्वा भिक्षेताप ह वै स्नात्वा भिक्षां जयतीति श्रुतेः । ८
भिक्षणप्रतिषेधे श्रुतिप्रमाणं दर्शयति—स्नात्वा—समावर्त्तन— कर्मानन्तरं समावृत्तः न भिक्षेत । ह वै इति निश्चयार्थे । स्नात्वा— समावर्त्तनानन्तरं भिक्षाम् अपजयति—अपाकरोति इति श्रुतेः— वेदवचनात् । अत्र व्यवहितस्यापि अप उपसर्गस्य जयतिक्रियया सम्बन्धः छान्दसः ।
वर्षत्यप्रावृतो व्रजेत्—अयं मे वज्रः पाप्मानमपहनदिति । ९
देवे वर्षति, अप्रावृतः—अनाच्छादितः, व्रजेत्—गच्छेत् "अयं मे वज्र" इत्यादि मन्त्रेण ।
मन्त्रार्थः—अयं—प्रसिद्धः वज्रः, मे—मम, पाप्मानं—पापम् अपहनत्—नाशयतु ।
अप्स्वात्मानं नावेक्षेत । १०
अप्सु—जले, आत्मानं—स्वशरीरं मुखादि, न अवेक्षेत—न पश्येत् ।
अजातलोम्नीं विपुंसीं स्त्री० षण्ढं च नोपहसेत् । ११
अजातलोम्नीं—समयेऽपि न जातानि लोमानि यस्याः सा अजात- लोम्नी ताम् । विपुंसीं—पुरुषाकारां कूर्चादिना पुरुषलक्षणोपेतामित्यर्थः । षण्ढं—नपुंसकं च नोपहसेत्—न उपगच्छेत् ।
गर्भिणीं विजव्येति ब्रूयात् । १२
( ११० )
गभिणीम्—अन्तर्वत्नीं, स्त्रियं, विजन्या इति पर्यायशब्देन ब्रूयात् ।
सकुलमिति नकुलम् । १३
नकुलं सकुलमिति शब्देन ब्रूयात् ।
भगालमिति कपालम् । १४
कपालं—कर्परं भगालमिति शब्देन ब्रूयात् ।
मणिधनुरितीन्द्रधनुः । १५
इन्द्रधनुः मणिधनुरिति शब्देन ब्रूयात् ।
गां धयन्तीं परस्मै नाचक्षीत । १६
गां—सुरभि, धयन्तीं—वत्सं पाययन्तीं, परस्मै—अन्यस्मै स्वामिने, नाचक्षीत—न कथयेत् ।
उर्वरायामनन्तर्हितायां भूमावुत्सर्पंस्तिष्ठन् मूत्रपुरीषे कुर्यात् । १७
उर्वरायां—शस्यवत्यां भूमौ, तथा अनन्तर्हितायां—तृणैरनाच्छादितायामनुर्वरायामपि भूमौ, मूत्रपुरीषे—मूत्रं च पुरीषं च ते द्वे न कुर्यात् । तथा उत्सर्पन्—उत्प्लवमानः, तिष्ठन्—ऊर्द्ध्वीभवन् सन्, मूत्रपुरीषे न कुर्यात् ।
स्वयं प्रशीर्णेन काष्ठेन गुदं प्रमृजीत । १८
स्वयम्—आत्मनः प्रयत्नं विना प्रशीर्णेन—छिन्नेन पतितेन काष्ठेन—दारुशकलेन अयाज्ञियेन, गुदं प्रमृजीत—प्रोञ्छेत् ।
विकृतं वासो नाच्छादयीत । १९
विकृतं—मञ्जिष्ठादिरागेण विकारमापादितं, वासः—वस्त्रं न आच्छादयीत—न परिदधीत, काषायरक्तं तु न निषिध्यते, अपितु प्रशस्यते इति भाष्यकाराः ।
दृढव्रतो वधत्रः स्यात्सर्वेषां मित्रमिव । २०
दृढं—स्थिरं, व्रतं—प्रारब्धं कर्म यस्य स दृढव्रतः, तथा वधत्रः—
द्वितीयकाण्डे सप्तमी कण्डिका ॥
( १११ )
वधात्—घातात् त्रायते इति वधत्रः, सर्वेषां—मनुष्यपश्वादीनां, मित्रमिव स्यात् ! "मैत्रो ब्राह्मण उच्यते इत्यपि मनुः २-८७ ।
इति पारस्करगृह्यसूत्रव्याख्यायां मार्गदर्शिन्यां द्वितीयकाण्डे सप्तमी कण्डिका ॥
तिस्रो रात्रीर्व्रतं चरेत् । १
स्नातकः समावर्त्तनकर्मप्रभृति तिस्रः—त्रिसंख्याः, रात्रीः—निशाः, त्रीणि अहोरात्राणि इति यावत्, व्रतं वक्ष्यमाणं मांसवर्जनादिरूपं चरेत्—अनुतिष्ठेत् ।
अमाꣳसाश्यमृण्मयपायी । २
मांसमश्नातीत्येवंशीलो मांसाशी, तद्विपरीतः अमांसाशी अमृण्मयपायी—मृण्मयेन मृत्पात्रेण पिवतीति मृण्मयपायी स्यात् ।
स्त्रीशूद्रशवकृष्णशकुनिशुनां चादर्शनमसम्भाषा च तैः । ३
स्त्री—नारी, शूद्रः—चतुर्थवर्णः, शवः—मृतशरीरं, कृष्णशकुनिः—काकः, श्वा—कुर्कुरः, एतेषाम् अदर्शनम्—अवलोकनाभावः, तैः स्त्र्यादिभिः सह असम्भाषा—न सम्भाषा, असम्भाषा कथोपकथनाभावः ।
शवशूद्रसूतिकान्नानि च नाद्यात् । ४
शवः—मृतशरीरम् । लक्षणया मृतकुलम् । तत्र अशौचमध्ये ज्ञातिभिर्यद् अद्यते तदन्नं, तथा शूद्रान्नं सूतिकान्नं—जनननिमित्ताशौचवतः कुलस्य अन्नं च नाद्यात् ।
मूत्रपुरीषे ष्ठीवनं चातपे न कुर्यात् । ५
मूत्रं च पुरीषं च ते द्वे, तथा ष्ठीवनं—थूत्कृत्य मुखात् लालानिःस्रावम् आतपे—घर्मे न कुर्यात् ।
सूर्याच्चात्मानं नान्तर्दधीत । ६
सूर्यात् आत्मानं—स्वशरीरं, नान्तर्दधीत—अन्तर्हितं न कुर्यात् ।
( ११२ )
तप्तेनोदकार्थान् कुर्वीत । ७
तप्तेन— तप्तजलेन, उदकार्थान्— शौचादिक्रियाः, कुर्वीत— विदध्यात् ।
अवज्योत्य रात्रौ भोजनम् । ८
रात्रौ—निशि, अवज्योत्य—दीपं प्रज्वाल्य भोजनं कुर्यात् ।
सत्यवदनमेव वा । ९
वैकल्पिकमाह—वा—अथवा, सत्यवदनं—सत्यकथनमेव कुर्यात्, उक्तानि अमांसाशनादीनि न कुर्यात् ।
दीक्षितोऽप्यातापादीनि कुर्यात् प्रवर्ग्यवाँश्चेत् । १०
दीक्षिते स्नातकधर्मान् अतिदिशति—दीक्षितः— सोमयागार्थं स्वीकृतदीक्षः, चेत्—यदि, प्रवर्ग्यवान्—प्रवर्ग्यो महावीरः अस्य अस्तीति प्रवर्ग्यवान्, तदा आतपादीनि—आतपे मूत्रपुरीषवर्जनादीनि अवज्योत्य रात्रिभोजनान्तानि कुर्यात् । किम्वा सत्यवदनमेव । अत्रापि सत्यवादेन सह नियमान्तराणां विकल्पः । सत्यवादस्य नित्यविधेयत्वेन अत्र परिहासादिनापि मिथ्यावादो न विधेय इति तात्पर्यम् ।
इति पारस्करगृह्यसूत्रव्याख्यायां मार्गदर्शिन्यां
द्वितीयकाण्डे अष्टमी कण्डिका ॥
—४०४—
अथातः पञ्च महायज्ञाः । १
अथ—समावर्त्तनानन्तरं कृतविवाहस्य पञ्चमहायज्ञेष्वधिकारः। अतः—अस्मात् कारणात् पञ्च—पञ्चसंख्यका महायज्ञाः—देवभूतपितृमनुष्यब्रह्मयज्ञाः अहरहः कर्त्तव्याः ।
( देवयज्ञः )
वैश्वदेवादान्नात् पर्युक्ष्य स्वाहाकारैर्जुहुयात् ।
ब्रह्मणे, प्रजापतये, गुह्याभ्यः, कश्यपायानुमतय इति । २
( ११३ )
वैश्वदेवात्—विश्वे—सर्वे देवा देवता अस्येति वैश्वदेवम् अन्नं, तस्मात्—अन्नात् किंचिदुद्धृत्य पात्रान्तरे कृत्वा, पर्युक्ष्य—आवसथ्यस्य पर्युक्षणं कृत्वा, स्वाहाकारैः—स्वाहाकारसहितैः चतुर्थ्यन्तनामभिर्मन्त्रैः जुहुयात् । अत्र स्वाहाकारोपदेशः संस्रवव्युदासार्थः । यथा—ब्रह्मणे स्वाहा, प्रजापतये स्वाहा, गृह्याभ्यः स्वाहा, कश्यपाय स्वाहा, अनुमतये स्वाहा, इति देवयज्ञः ।
( भूतयज्ञः )
भूतगृह्येभ्यो मणिके त्रीन् पर्जन्यायाद्भ्यः पृथिव्यै । ३
देवयज्ञानन्तरं भूतगृह्येभ्यः—भूतानि च गृह्याणि च तानि भूतगृह्याणि तेभ्यः, मणिके—मणिकसमीपे, त्रीन्—त्रीन् वलीन् दद्यात् । पर्जन्याय नमः, अद्भ्यो नमः, पृथिव्यै नमः इति । वलिदाने नमस्कारो विहितः पितृभ्यः स्वधानम इत्युक्तत्वात् ।
धात्रे विधात्रे च द्वार्ययोः । ४
द्वार्ययोः—द्वारशाखयोः दक्षिणोत्तरयोः यथाक्रमं धात्रे नमः विधात्रे नम इति वलिद्वयं दद्यात् ।
प्रतिदिशं वायवे दिशां च । ५
प्रतिदिशं—दिशं दिशं प्रति सर्वासु दिक्षु इत्यर्थः । वायवे नम इति एकैकमिति वलिचतुष्टयं दद्यात् । दिशां—प्राच्यादीनां च प्रतिदिशं "प्राच्यै दिशे नमः, दक्षिणायै दिशे नमः, प्रतीच्यै दिशे नमः, उदीच्यै दिशे नम इति वलिचतुष्टयं दद्यात् । इति अष्टौ ।
मध्ये त्रीन् ब्रह्मणेऽन्तरिक्षाय सूर्याय । ६
मध्ये त्रीन्—त्रीन् वलीन् दद्यात् । यथा—ब्रह्मणे नमः, अन्तरिक्षाय नमः सूर्याय नम इति त्रयम् ।
विश्वेभ्यो देवेभ्यो विश्वेभ्यश्च भूतेभ्यस्तेषामुत्तरतः । ७
तेषां—ब्रह्मादिवलीनाम्, उत्तरतः—उत्तरप्रदेशे विश्वेभ्यो देवेभ्यो नमः, विश्वेभ्यो भूतेभ्यो नम इति वलिद्वयं दद्यात् ।
उषसे भूतानां च पतये परम् । ८
( ११४ )
परं—तयोरपि वल्योरुत्तरतः उषसे नमः भूतानां च पतये नम इति बलिद्वयं दद्यात् ।
पितृभ्यः स्वधा नम इति दक्षिणतः । ९
दक्षिणतः— ब्रह्मादिवलीनां दक्षिणत इति हरिहरगदाधरौ । आचारस्तु सर्ववलीनां दक्षिणभागे, पितृकर्मत्वात् प्राचीनावती दक्षिणामुखः पितृभ्यः स्वधा नम इति एकं बलिं दद्यात् । इति पितृयज्ञः ।
पात्रं निर्णिज्योत्तरापरस्यां दिशि निनयेद् यक्ष्मैतत इति । १०
पात्रम्—उद्धरणपात्रं, निर्णिज्य—प्रक्षाल्य, निर्णेजनजलम्, उत्तरापरस्यां—वायव्यां दिशि निनयेत्—उत्सृजेत् “यक्ष्मैतत्ते निर्णेजनम्” इति मन्त्रेण ।
उद्धृत्याग्रं ब्राह्मणायवनेज्य दद्याद्धन्त त इति । ११
उद्धृत्य—वैश्वदेवादन्नात् अवदाय, अग्रं—षोडशग्रासपरिमितं ग्रासचतुष्टयपरिमितं वा अन्नं ब्राह्मणाय—विप्राय, अवनेज्य—अवनेजनं दत्त्वा “हन्त ते” इति मन्त्रेण दद्यात् । इति मनुष्ययज्ञः ।
मनुष्ययज्ञात्पूर्वं स्वाध्यायरूपस्य ब्रह्मयज्ञस्य काल इति हरिहरः। मनुष्ययज्ञानन्तरं षाट्पौरुषिकं नित्यश्राद्धम् ।
यथार्हं भिक्षुकानतिथींश्च सम्भजेरन् । १२
यथार्हं—यः यथा अर्हति तदनतिक्रम्य, भिक्षुकान्— परिव्राजक—ब्रह्मचारिप्रभृतीन्, अतिथीन्—अध्वनीनान् श्रोत्रियादीन् , सम्भजेरन्—भिक्षाभोजनदानादिना तोषयेरन् गृहेमेधिनः ।
बालज्येष्ठा गृह्या यथार्हमश्नीयुः । १३
वाल्योज्येष्ठः प्रथमः येषां ते बालज्येष्ठाः, गृह्या—गृहे भवाः पुत्रादयः, यथार्हं—यथायोग्यम्, अश्नीयुः—भुञ्जीरन् ।
पश्चात् गृहपतिः पत्नी च । १४
पश्चात्—गृह्याणां भोजनानन्तरं गृहपतिः—गृहस्वामी पत्नी—तद्भार्या च अश्नीयाताम् ।
( ११५ )
पूर्वी वा गृहपतिः, तस्मादु स्वादिष्ठं गृहपतिः पूर्वोतिथिभ्योऽश्नीयादिति श्रुतेः । १५
वा—पक्षान्तरे, गृहपतिः, पूर्वः पत्न्याः पूर्वम् अश्नीयात् । अत्र श्रुतिप्रमाणमुपन्यस्यति "तस्मात्—स्वात् अन्नात् गृहपतिः स्वादिष्टं—यत् स्वादु इष्टं च तदन्नम् अतिथिभ्यः भोजितेभ्यः अर्थात् अतिथिभोजनानन्तरं पूर्वं पत्न्याः "पूर्वः अश्नीयात्" इति श्रुतेः ।
अहरहः स्वाहा कुर्यादन्नाभावे केनचिदाकाष्ठाद्देवेभ्यः पितृभ्यो मनुष्येभ्यश्चोदपात्रात् । १६
अहरहः—प्रतिदिनं, स्वाहा कुर्यात्—देवेभ्यः अन्नं जुहुयात् । अन्नाभावे केनचित् द्रव्येण आकाष्ठात्—काष्ठपर्यन्तेन अपि होमं कुर्यादिति भावः । तथा पितृभ्यः स्वधा कुर्यात् अन्नेन, तदभावे, ओदपात्रात्—उदकपात्रपर्यन्तेन, एवं मनुष्येभ्यः हन्तकारम् अन्नाभावे उदकपात्रपर्यन्तेन दद्यात् ।
इति पारस्करगृह्यसूत्रव्याख्यायां मार्गदर्शिन्यां द्वितीयकाण्डे नवमी कण्डिका ॥
—४०४—
( उपाकर्म )
अथातोऽध्यायोपाकर्म । १
अथ पञ्चमहायज्ञकथनानन्तरम्, अध्यायस्य—अध्ययनस्य अधीयत इति अध्याय इति व्युत्पत्त्या वेदस्य इति यावत्, तस्य उपाकर्म—उपाकरणम् उपक्रमः प्रारम्भः व्याख्यास्यते इति शेषः । अत्र साग्निकस्य अध्यापनप्रवृत्तस्य एव अधिकार इति हरिहरः ।
ओषधीनां प्रादुर्भावे श्रवणेन श्रावण्यां पौर्णमास्यां श्रावणस्य पञ्चमीं हस्तेन वा । २
उपाकर्मकालमाह— ओषधीनाम्— अपामार्गादीनां, प्रादुर्भावे—
( ११६ )
उत्पत्तौ, सत्यां, श्रवणेन युक्तायां, श्रावण्यां पौर्णमास्यां—श्रावणमासस्य शुक्लपञ्चदश्यां तिथौ, अस्मिन् समये ओषधीप्रादुर्भावः नितरां सम्भवति। श्रवणानक्षत्रयोगश्च पूर्णिमायां प्रायेण भवति। अतएव विशेषणद्वयासम्भवेऽपि केवलायां श्रावणपूर्णिमायामुपाकरणं कर्त्तव्यम्। वा इति पक्षान्तरे। श्रावणस्य—श्रावणमासस्य हस्तेन—हस्तानक्षत्रेण युक्तो. पञ्चमीं—शुक्लपञ्चमीं प्राप्य “प्रायेणात्र हस्तायोगस्य सम्भवः। अतएव श्रावणपूर्णिमा श्रवणानक्षत्रेण युक्ता अयुक्ता वा इति एकः कालः। श्रावणशुक्लपञ्चमी हस्तानक्षत्रेण युक्ता अयुक्ता वेति अपरः कालः इति उपाकरणस्य कालद्वयमिति हरिहरः। केचित् श्रावणपूर्णिमायां वा श्रवणानक्षत्रे वा श्रावणशुक्लपञ्चम्यां वा हस्तानक्षत्रे वा इति पक्षचतुष्टयं मन्यन्ते।
आज्यभागाविष्ट्वाज्याहुतीर्जुहोति। ३
आज्यभागाविष्ट्वा—आधारपूर्वकाज्यभागयागानन्तरम्, आज्याहुतीः-आज्येन घृतेन वक्ष्यमाणा आहुतीः जुहोति।
पृथिव्या अग्नय इत्यृग्वेदे। ४
अन्तरिक्षाय वायव इति यजुर्वेदे। ५
दिवे सूर्याय इति सामवेदे। ६
दिग्भ्यः चन्द्रमस इत्यथर्ववेदे। ७
ब्रह्मणे छन्दोभ्यश्चेति सर्वत्र। ८
प्रजापतये देवेभ्य ऋषिभ्यः श्रद्धायै मेधायै
सदसस्पतयेऽनुमतय इति च। ६
सूत्राणामर्थः स्फुट एव। यदि ऋग्वेदमुपाकरोति, तदा पृथिव्यै स्वाहा, अग्नये स्वाहा इति आहुतिद्वयं हुत्वा ब्रह्मणे स्वाहा छन्दोभ्यः स्वाहा इति आहुतिद्वयं च हुत्वा प्रजापत्याद्यनुमत्यन्ताः सप्ताहुतीः जुहुयात्।
( ११७ )
यदि यजुर्वेदमुपाकरोति तदा, अन्तरिक्षाय स्वाहा वायवे स्वाहेति आहुतिद्वयं हुत्वा ऋग्वेदवत् ब्रह्मणे छन्दोभ्य इति आहुतिद्वयं तथा प्रजापत्याद्यनुमत्यन्ताः सप्ताहुतीर्जुहुयात् ।
सामवेदोपाकरणे दिवे स्वाहा सूर्याय स्वाहेति आहुतिद्वयं हुत्वा तथा ब्रह्मणे छन्दोभ्य इत्याहुतिद्वयं तथा प्रजापत्यादिसप्ताहुतीर्जुहुयात् ।
अथर्ववेदोपाकरणे—दिग्भ्यः स्वाहा, चन्द्रमसे स्वाहा इति आहुतिद्वयं हुत्वा ब्रह्मणे छन्दोभ्य इति आहुतिद्वयं तथा प्रजापत्यादिसप्ताहुतीश्च जुहुयात् ।
एकदा सर्ववेदोपाकरणे प्रतिवेदं स्वस्ववेदाहुतिद्वयं ब्रह्मणे-छन्दोभ्य इति आहुतिद्वयं चेति संकलनया आहुतिचतुष्टयं हुत्वा ततः प्रजापत्याद्यनुमत्यन्ताः सप्ताहुतीः तन्त्रेण जुहुयात् । एतेन एकदा सर्ववेदोपाकरणे त्रयोविंशतिः (२३) आहुतयो भवन्ति । एकस्य वेदस्य उपाकरणे एकादश आहुतयः इति ।
एतदेव व्रतादेशनविसर्गेषु । १०
व्रतादेशनं—वेदारम्भः विसर्गः—समावर्त्तनम् ! व्रतादेशनानि च विसर्गश्च व्रतादेशनविसर्गाः, तेषु—व्रतादेशनविसर्गेषु, एतत्—उपाकरण-विहितहोमकर्म भवति एव ।
सदसस्पतिमित्यक्षतधानास्त्रिः । ११
"सदसस्पति"मितिमन्त्रेण आचार्यः, अक्षतधानाः—अक्षताः यवाः, धानाः—भृष्टयवाः, ताः अक्षतधानाः, त्रिः—त्रिवारम् अर्थात् अक्षतैः वारत्रयं तथा धानाभिश्च वारत्रयं जुहुयात् ।
सर्वेऽनुपठेयुः । १२
सर्वे—सर्वे शिष्याः, अनुपठेयुः—आचार्येण सह पठेयुः सदसस्पति-मिति मन्त्रम् अक्षतधानाहोमकाले । सदसस्पतिमिति मन्त्रो यथा—
"सदसस्पतिमद्भुतं प्रियमिन्द्रस्य काम्यम् ।
सनिं मेधामयासिषॐ स्वाहा । यजुः ३२-१३
( ११८ )
हुत्वा हुत्वौदुम्बर्यस्तिस्रस्तिस्रः समिध आदध्युरार्द्राः
सपलाशा घृताक्ताः सावित्र्या । १३
हुत्वा हुत्वा—अक्षतधानानां प्रत्येकहोमानन्तरं सर्वे आचार्य-सहिताः शिष्याः, तिस्रः तिस्रः—प्रतिव्यक्ति तिस्रः, सपलाशाः—पत्रसहिताः आर्द्राः-अशुष्काः, घृताक्ताः- घृतलिप्ताः, औदुम्बर्यः—उदुम्बरवृक्षोद्भूवाः समिधः, सावित्र्या— सवितृदेवताकया तत्सवितुरितिऋचा वह्नौ आदध्युः—प्रक्षिपेयुः । अत्र समिधां त्रयस्य वारत्रयेण होमः न तु युगपत् ।
ब्रह्मचारिणश्च पूर्वकल्पेन । १४
ततः ब्रह्मचारिणः—शिष्याः, पूर्वकल्पेन—उपनयनकर्मोक्तविधिना समिदाधानं कुर्युः ।
शन्नो भवन्त्वित्यक्षतधाना अखादन्तः प्राश्नीयुः । १५
“शन्नो भवन्तु वाजिन” इति अनया ऋचा सर्वे आचार्यसहिताः शिष्याः, अक्षतधानाः—अक्षताश्च धानाश्च ताः, अखादन्तः—दन्तैरचर्वयन्तः, प्राश्नीयुः—प्रत्येकं त्रिसंख्याकाः प्राश्नीयुरिति हरिहरः ।
मन्त्रः – शं नो भवन्तु वाजिनो हवेषु देवताता मितद्रवः स्वर्काः ।
जम्भयन्तोऽहिं वृकँ रक्षाँसि सनेम्यस्मद्युयवन्नमीवाः ।। यजुः ६-१६
दधिक्राव्ण इति दधि भक्षयेयुः । १६
सर्वे पूर्वोक्ताः दधिक्राव्ण इति मन्त्रेण दधि भक्षयेयुः ।
मन्त्रो यथा—“दधिक्राव्णो अकारिषं जिष्णोरश्वस्य वाजिनः । सुरभि नो मुखा करत् प्रण आयूँषि तारिषत् । शु. य. २३-३२
स यावन्तं गणमिच्छेत् तावतस्तिलानाकर्षफलकेन
जुहुयात् सावित्र्या, शुक्रज्योतिरित्युवाकेन वा । १७
सः—आचार्यः, यावन्तं —यावत्संख्याकं, गणं—शिष्याणां समूहम् इच्छेत्—कामयेत, तावतः—तावत्संख्याकान् तिलान्, आकर्षफलकेन—उदुम्बरकाष्ठनिर्मितेन सर्पाकृतिना बाहुप्रमाणेण जुहुयात् तत्सवितुरिति
( ११६ )
सावित्रीमन्त्रेण, शुक्रज्योतिरित्त्यनुवाकेन ( यजुः १७-८० ) वा । अतः धानाभ्यः स्विष्टकृते हुत्वा महाव्याहृत्यादि नवाहुतीर्जुहुयात् ।
प्राशनान्ते प्रत्यङ्मुखेभ्य उपविष्टेभ्य ओँकारमुक्त्वा त्रिंश्च सावित्रीमध्यायादीन् प्रब्रूयात् । १८
प्राशनान्ते—संस्स्रवप्राशनान्ते, प्रत्यङ्मुखेभ्यः—पश्चिमाभिमुखेभ्यः, उपविष्टेभ्यः— आसीनेभ्यः शिष्येभ्यः, प्राङ्मुखउपविष्ट आचार्यः ओङ्कारं—प्रणवम्, उक्त्वा—उच्चार्य, सावित्रीं—तत्सवितुरित्यादिमन्त्रं त्रिः—त्रिवारम् उक्त्वा, अध्यायादीन्—मन्त्रब्राह्मणयोरध्यायानामादीन् प्रब्रूयात्—अध्यापयेत् । इति यजुर्वेदोपाकरणे ।
ऋषिमुखानि बह्वृचानाम् । १९
बह्वृचानाम्—ऋग्वेदिनाम्, ऋषिमुखानि—मण्डलादीन् प्रब्रूयात् ।
पर्वाणि छन्दोगानाम् । २०
छन्दोगानां—सामवेदिनाम्, पर्वाणि—पर्वणामादीन् प्रब्रूयात् ।
सूक्तान्यथर्वणानाम् । २१
अथर्वणानां सूक्तानि—सूक्तादीन् प्रब्रूयात् ।
सर्वे जपन्ति— सह नोऽस्तु सह नोऽवतु सह न इदं वीर्यवदस्तु ब्रह्म । इन्द्रस्तद्वेद येन यथा न विद्विषामह इति । २२
ततः सर्वे— आचार्यसहिताः शिष्याः सहनोऽस्त्वत्यादि मन्त्रं जपन्ति—पठन्ति ।
मन्त्रार्थः (प्रजापतिः यजुः, ब्रह्म जपे)—इदं—प्रसिद्धं ब्रह्म—वेदः सह—सहितानां, नः—अस्माकं हृदये, अस्तु—तिष्ठतु । पुनश्च इदं नः—अस्मान्, सह—सहितान् अवतु—रक्षतु । पुनश्च इदं ब्रह्म सह—सहितानां नः—अस्माकं, वीर्यवत्—वलवत् अयातयामम् अस्तु । येन—येन हेतुना, यथा—येन प्रकारेण न विद्विषामहे— परस्परं विवादं न
( १२० )
कुर्महे, इन्द्रः तद्, वेद—बोधयतु । इन्द्र तथा बुद्धि प्रयच्छतु इति भावः।
त्रिरात्रं नाधीयीरन् । २३
उपाकर्मानन्तरं, त्रिरात्रं—अहोरात्रत्रयं नाधीयीरन्—अध्ययनं न कुर्युः।
लोमनखानामनिकृन्तनम् । २४
लोमनखानां—लोम्नां नखानां च अनिकृन्तनम्—अच्छेदनं, त्रिरात्रमेव।
एके प्रागुत्सर्गात् । २५
एके आचार्याः, प्रागुत्सर्गात्—अर्द्धषष्ठान् मासान् वेदमधीत्य यदा तेषामुत्सर्गं कुर्युः तद्दिवसात् प्राक् लोमनखानामनिकृन्तनम् इच्छन्ति। उत्सर्गानन्तरं लोमनखवपनमिच्छन्ति इति भावः।
इति पारस्करगृह्यसूत्रव्याख्यायां मार्गदर्शिन्यां
द्वितीयकाण्डे दशमी कण्डिका ॥
—४०४—
वातेऽमावास्यायां सर्वानध्यायः । १
"त्रिरात्रं नाधीयीरन्" इति अनध्ययनप्रसङ्गेन अनध्यायानाह—
वाते—वायौ प्रचण्डे वाति सति, •अमावास्यायां—दर्शे, सर्वानध्यायः सर्वेषु—वेदेषु वेदाङ्गेषु च अनध्यायः। मतान्तरे यद् गुरुमुखात् शिक्ष्यते शिल्पश्रमादि तत्राप्यनध्यायः। अतः यत् किंचित् उपाध्यायात् अधीयते श्रूयते शिक्ष्यते वा तत्र सर्वत्र अनध्यायः। अयमनध्यायः गुरोः सकाशात् अनधीताध्ययने न गुणने। केचित् सर्वशब्देन गुणनेऽपि अनध्यायं मन्यन्ते।
श्राद्धाशने चोल्कावस्फूर्जद्भूमिचलनाग्न्युत्पाते-
ष्वृतुसन्धिषु चाकालम् । २
श्राद्धाशने—श्राद्धान्नभोजने, उल्का—ज्वालाकृतिः पतन्ती तारका।
( १२१ )
अवस्फूर्जन्ती—विद्योतमाना विद्युत्, भूमिचलनं—भूमिकम्पः, अग्निः, तेषाम् उत्पातेषु, आकालं—यस्मिन् काले उल्कादेः आपतनं परदिने तावत्कालपर्यन्तम् अनध्यायः । ऋतुसन्धिषु ऋतूनां सन्धिषु पूर्वस्य ऋतोः अन्त्या रात्रिः उत्तरस्य आद्यम् अहश्च अनध्यायकाल इत्यर्थः ।
उत्सृष्टेष्वभ्रदर्शने सर्वरूपे च त्रिरात्रं त्रिसन्ध्यं वा । ३
उत्सृष्टेषु—वक्ष्यमाणविधिना छन्दःसु उत्सृष्टेषु, अर्थात् उत्सर्गा- नन्तरं त्रिरात्रमनध्यायः । तथा अभ्रदर्शने—अतिशयितस्य मेघस्य दर्शने, सर्वरूपे— विद्युदभ्रवायुवृष्टिगर्जितानां युगपत् प्रवृत्तौ, त्रिरात्रम्— अहोरात्रत्रयं वा—पक्षान्तरे, त्रिसन्ध्यं—सन्ध्यात्रयम् अर्थात् तृतीय- सन्ध्यापर्यन्तम् अनध्यायः ।
भुक्त्वाऽऽर्द्रपाणिरुदके निशाया ॐ सन्धिवेलयो- रन्तःशवे ग्रामेऽन्तर्दिवाकीर्त्ये । ४
भुक्त्वा—भोजनानन्तरम्, आर्द्रपाणिः—अशुष्कहस्तः यावत् स्यात् तावत् अनध्यायः । उदके यावत् वर्त्तते तावत् अनध्यायः । निशायां— महानिशायाम् । "महानिशा च विज्ञेया मध्यमं प्रहरद्वयम् । सन्धिवेलयोः—सूर्यस्य उदयास्तमनयोः, अन्तःशवे—अन्तः—मध्ये शवः— मृतशरीरं यस्य सः अन्तःशवः, तस्मिन् ग्रामे, अन्तर्दिवाकीर्त्ये, दिवाकीर्तिः—चाण्डालः, स अन्तः—मध्ये यस्य सः अन्तर्दिवाकीर्त्यः देशः तत्र अनध्यायः ।
धावतोऽभिशस्तपतितदर्शनाश्चर्याभ्युदयेषु च तत्कालम् । ५
धावतः—शीघ्रं गच्छतः जनस्य अनध्यायः । तथा—अभिशस्तः— ब्रह्महत्यादिपापेनाभियुक्तः, पतितः—ब्रह्महत्यादिरतनीयपापेन युक्तः, तौ—अभिशस्तपतितौ, तयोः दर्शनम्, आश्चर्यम्—अद्भुतम्, अभ्युदयः— पुत्रजन्मादिः । एतेषु धावनादिनिमित्तेषु चकारात् पूर्वसूत्रोक्तेषु च निमित्तेषु यावत्कालं निमित्तं तावदनध्यायः ।
( १२२ )
नीहारे वादित्रशब्द आर्त्तस्वने ग्रामान्ते श्मशाने
श्वगर्दभोलूकशृगालसामशब्देषु शिष्टाचरिते च तत्कालम्।
नीहारे—कुज्झटिकायां, वादित्रशब्दे—वादित्राणां मृदङ्गादीनां शब्दे, आर्त्तस्वने—आर्त्तस्य दुःखितस्य स्वने—क्रन्दने । ग्रामान्ते—ग्रामसीम्नि, श्मशाने—प्रेतभूमौ, श्वा—कुक्कुरः, गर्दभः—रासभः, उलूकः—पेचकः, शृगालः प्रसिद्धः, साम—सामवेदः, तेषां च शब्दे श्रूयमाणे शिष्टाचरिते—शिष्टस्य श्रोत्रियस्य आचरिते—आगमने च तत्कालं—यावन्निमित्तं तावन्तं कालमनध्यायः ।
गुरौ प्रेतेऽपोऽभ्यवेयाद्दशरात्रं चोपरमेत् । ७
गुरौ—आचार्ये, प्रेते—मृते, अपः—जलम्, अभ्यवेयात्—प्रविशेत्, स्नानपूर्वकमुदकदानायेति भावः । दशरात्रं—दश अहोरात्राणि उपरमेत्—अध्ययनात् विरमेत् । चकारः उदकदानानध्ययनयोः समुच्चयार्थः ।
सतानूनप्त्रिणि सब्रह्मचारिणि च त्रिरात्रम् । ८
तानूनप्त्रं नाम सोमयागे ऋत्विजां दीक्षितस्य च आज्याभिमर्शन-लक्षणं कर्म। समानं तानूनप्त्रं येन सह अस्ति स सतानूनप्त्री, तस्मिन् सतानूनप्त्रिणि, सब्रह्मचारिणि—समाने ब्रह्मणि—वेदे चरतीति सब्रह्मचारी सहाध्यायी, तस्मिन् च प्रेते, त्रिरात्रम्—अहोरात्रत्रयम् अनध्यायः।
एकरात्रमस्रह्मचारिणि । ९
अस्रह्मचारिणि—भिन्नाचार्ये सहाध्यायिनि प्रेते एकरात्रमनध्यायः।
अर्द्धषष्ठान् मासानधीत्योत्सृजेयुः । १०
अर्द्धषष्ठान् मासान्—अर्द्धः षष्ठोमासः येषां मासानां तान्, अधीत्य—पठित्वा उत्सृजेयुः—त्यजेयुः । किमुत्सृजेयुरिति प्रश्ने, पूर्वं श्रावण्यादौ उपाकृतानि छन्दांसि इति यावत् ।
अर्द्धसप्तमासान् वा । ११
( १२३ )
वा—पक्षान्तरे, अर्द्धसप्तमासान्—अर्द्धः सप्तमः येषां मासानां तान् अर्द्धसप्तमासान्, अधीत्य उत्सृजेयुः । अत्र छन्दसामुत्सर्गोपदेशात् अङ्गाध्ययनमनुज्ञायते ।
अथेमासृचं जपन्ति—
उभा कवी युवा यो नो धर्मः परापतत् । परिसख्यस्य धर्मिणो विसख्यानि सृजामह इति । १२
अथ—उत्सर्गानन्तरम्, आचार्यसहिताः शिष्याः इमाम् उभाकवी इत्यादिकाम ऋचं जपन्ति ।
मन्त्रार्थः—हे अश्विनौ ! युवाम् उभा—उभौ, कवी—क्रान्तदर्शिनौ, युवा—युवानौ, धर्मिणः—परस्परमनुकूलस्य परिसख्यस्य—मित्रभावस्य यः धर्मः सः नः—अस्मान्, परापतत्—प्राप्तः । तेन धर्मेण विसख्यानि—विद्वेषादीनि विषमाध्ययनादीनि वा सृजामहे—विसृजामहे—त्यजाम इत्यर्थः "सृज विसर्गे" । सख्यानि सृजामहे इति भावः । विसख्यानि विसृजामहे इति गुजरातिमुद्रणालयपाठः ।
त्रिरात्रं सहोष्य विप्रतिष्ठेरन् । १३
त्रिरात्रम्—अहोरात्रत्रयं, सह—एकत्र आचार्यसहिता शिष्याः उष्य—उषित्वा निवासं कृत्वा, विप्रतिष्ठेरन्—विविधस्थानं प्रति गच्छेयुः ।
इति पारस्करगृह्यसूत्रव्याख्यायां मार्गदर्शिन्यां द्वितीयकाण्डे एकादशी कण्डिका ॥
( उत्सर्गः )
पौषस्य रोहिण्यां मध्यमायां वाष्टकायामध्यायानूत्सृजेरन् । १
पौषस्य—पुष्यनक्षत्रेण युक्ता पौर्णमासी यस्य मासस्य स पौषो मासः । तस्य मासस्य रोहिण्यां—रोहिणीनक्षत्रे, वा—पक्षान्तरे,
( १२४ )
मध्यमायामष्टकायां—पौषपूर्णिमापरवर्त्तिन्यामष्टम्यामित्यर्थः । अध्यायान्— वेदान् पूर्वमुपाकृतान्, उत्सृजेरन्— पुनरुपाकरणं यावत् नाधीयीरन्।
उदकान्तं गत्वाद्भिर्देवाँ ᳪ श्छन्दाँ ᳪ सि वेदानृषीन् पुराणाचार्यान् गन्धर्वानितराचार्यान्त्संवत्सरं च सावयवं पितॄ नाचार्यान्त्स्वाँ ᳪ श्च तर्पयेयुः । २
उत्सर्गविधिमाह—उदकान्तं—नद्यादिजलसमीपं गत्वा, यथाविधि स्नात्वा, अद्भिः "देवास्तृप्यन्ताम्, छन्दांसि तृप्यन्ताम्, वेदास्तृप्यन्ताम्, ऋषयस्तृप्यन्ताम्, पुराणाचार्यास्तृप्यन्ताम्, गन्धर्वाचार्यास्तृप्यन्ताम्, इतराचार्यास्तृप्यन्ताम्, संवत्सरः सावयवस्तृप्यन्ताम् इति तर्पणं कृत्वा ततः अपसव्यदक्षिणामुखः स्वान् पितॄन्—स्वपितृपितामहप्रपितामहान् आचार्यांश्च नामगोत्रोच्चारणपूर्वकं तर्पयेयुः।
सावित्रीं चतुरनुद्रुत्य विरता स्म इति प्रब्रूयुः । ३
ततः सावित्रीं— तत्सवितुरित्यादिकामृचं, चतुः— चतुःकृत्वः अनुद्रुत्य—पठित्वा, विरताः स्म इति आचार्यप्रमुखाः शिष्याः प्रब्रूयुः— वदेयुः ।
क्षपणं च प्रवचनं च पूर्ववत् । ४
क्षपणम्—अनध्ययनं, चकारात् लोमनखानामनिकृन्तनं, प्रवचनम्— अध्यायादीनां पठनं, पूर्ववत्—उपाकरणवत् कुर्युः—विदध्युः ।
ततस्त्रिरात्रानन्तरं शुक्लपक्षेषु छन्दांसि कृष्णपक्षेषु अङ्गानि पठेयुः ।
इति पारस्करगृह्यसूत्रव्याख्यायां मार्गदर्शिन्यां द्वितीयकाण्डे द्वादशी कण्डिका ॥