भारतकोश
संग्रह पर लौटें

पारस्कर गृह्यसूत्र (मार्गदर्शिनी टीका व हिन्दी व्याख्या सहित)

Paraskara Grihyasutra Hindi

महर्षि पारस्कर (टीकाकार: कुलमणि मिश्र शर्मा) द्वारा

स्रोत: Paraskara Grihyasutram with Margadarshini Hindi Commentary (उद्गम)

DevanagariHindipublished263 पृष्ठ

( १६१ )

वस्त्रदक्षिणामुखप्राचीनावीतित्वधर्मः प्रेतक्रियाकर्तुः निमज्जनभिन्नेष्वपि प्रेतकर्मसु वोद्धव्यः ।

प्रेतायोदक्तं सकृत् प्रसिञ्चन्त्यञ्जलिनाऽसावेतत्त उदकमिति । १६

प्रेताय— मृताय, उदकम्— अञ्जलिना— पाणिपुटेन, सकृत्— एकवारं **प्रसिञ्चन्ति—**शुद्धायां भूमौ प्रक्षिपन्ति, **असौ—**प्रेत “एतत्ते-उदक”मिति मन्त्रेण ।

उत्तीर्णाञ्छुचौ देशेशाद्वलवत्युपविष्टांस्तत्रेतानपवदेयुः । २०

उत्तीर्णान्— नद्यादिजलाधारात् ऊर्ध्वमागतान्, शुचौ— पूते, मूत्रपुरीषभस्मतूषाङ्गाराद्यशुचिद्रव्यरहिते, शाद्वलवति— शाद्वलं—हरिततृणं तद्वति, **देशे—**भूभागे,**उपविष्टान्—**आसीनान् प्रेतस्य पुत्रादीन् अपवदेयुः— इतिहासपुराणायुपन्यासेन संसारासारताख्यापनेन शोक-रहितान् कुर्युः अपरे सुहृद इति शेषः ।

अनवेक्षमाणा ग्राममायान्ति रीतिभूताः कनिष्ठपूर्वाः । २१

**उदकक्रियानन्तरं पुत्रादयः अनवेक्षमाणाः—**पश्चादनवलोकयन्तः **रीतिभूताः—**श्रेणीभूताः अग्रपश्चाद्भावेन वर्तमानाः इत्यर्थः, कनिष्ठपूर्वाः— कनिष्ठः लघिष्ठः बाल इति यावत् । सः पूर्वः अग्रिमः येषां ते, स्वस्वकनिष्ठानुसारिण इत्यर्थः । **इत्थं भूताः ज्ञातयः ग्रामं—**स्वनिवास-देशम्, आयान्ति—आगच्छन्ति ।

निवेशनद्वारे पिचुमन्दपत्राणि विदश्याचम्यो- दकमग्निं गोमयं गौरसर्षपांस्तैलमालभ्याऽ श्मानमाक्रम्य प्रविशन्ति । २२

निवेशनस्य— प्रेतस्वामिकस्य गृहस्य, द्वारे— मुख्यद्वारदेशे, **पिचुमन्दस्य—**निम्बवृक्षस्य,**पत्राणि—**पलाशान्, **विदश्य—**दन्तैरवखण्ड्य, **आचम्य—**स्मार्त्तमाचमनं विधाय, **उदकं—**जलम् **अग्निं—**वह्नि, **गोमयम्—**आर्द्रगोपुरीषं, **गौरसर्षपान्, तैलं—**तिलसम्भवं स्नेहं **च—**समुच्चये, एतानि प्रत्येकमलभ्य— स्पृष्ट्वा, अश्मानं— पाषाणम्, **आक्रम्य—**पादेन स्पृष्ट्वा, **प्रविशन्ति—**गृहाभ्यन्तरं गच्छन्ति । उत्कलेषु वह्निस्पर्शस्थाने दीपदर्शनसमाचारो विद्यते ! जलस्थाने हरिद्राजलस्य च ।

( १६२ )

त्रिरात्रं ब्रह्मचारिणोऽधःशायिनो न किञ्चन कर्म कुर्युः । २३

त्रिरात्रं — त्रीणि अहोरात्राणि यावत्, ब्रह्मचारिणः — अकृतस्त्रीप्रसङ्गाः, अधःशायिनः — खट्वादिब्यतिरेकेण शेरते इत्येवंशीलाः सन्तः, किञ्चन — गृहव्यापारादि, कर्म — लौकिकं स्मार्त्तं वा कर्म स्वयं न कुर्युः — नाचरेयुः ।

न प्रकुर्वीरन् । २४

न प्रकुर्वीरन् — अन्यैरपि पुरुषैः कर्म न कारयेयुः । अन्तर्भूतोऽत्र णिच् ज्ञेयः । अयं च कर्मनिषेधः विहितेतरकर्मपरः । अन्यथा प्रेतक्रियायामपि बाधापत्तेः ।

क्रीत्वा लब्ध्वा वा दिवैवान्नमश्नीयुरमांसम् । २५

अमांसं — मांसरहितम्, अन्नं — भक्तं भोज्यद्रव्यं वा, क्रीत्वा — मूल्यदानेन स्वीकृत्य, लब्ध्वा — अयाचितभावेन अन्यतः प्राप्य, दिवा — दिवसे, एव — अवधारणे, न रात्रौ इत्यर्थः । अश्नीयुः — भुञ्जीरन् ।

प्रेताय पिण्डं दत्त्वाऽवनेजनदानप्रत्यवनेजनेषु नामग्राहम् । २६

प्रेताय — मृताय, अवनेजनदानप्रत्यवनेजनेषु — अवनेजनञ्च दानञ्च प्रत्यवनेजनञ्च तेषु । अत्र अवनेजनं — पिण्डदानात् पूर्वं प्रेताय शौचार्थमुदकदानं, दानं — पिण्डदानं, प्रत्यवनेजनं — पिण्डदानात्परं शौचार्थमुदकदानम्, एतेषु व्यापारेषु, नामग्राहं — प्रेतस्य नामग्रहणपूर्वकम् 'अमुकप्रेत अमुकसगोत्र अवनेनिक्ष्व' इत्यादिरूपेण प्रत्यहं, पिण्डं — पूरकपिण्डं, दत्त्वा — प्रदाय तदनन्तरम् अश्नीयुरिति पूर्वेण सम्बन्धः ।

मृन्मये तां रात्रीं क्षीरोदके विहायसि
निदध्युः प्रेतात्र स्नाहीति । २७

तां — यस्मिन् दिने प्रेतोऽभूत् तत्सम्बन्धिनीं, रात्रीं — निशामभिव्याप्य, क्षीरोदके — क्षीरञ्च उदकञ्च ते दुग्धपानीये, विहायसि — आकाशे त्रिकाष्ठचवलम्बितशिक्यादौ, मृन्मये — मृन्मयपात्रे घटादौ शरावादौ वा "प्रेतात्र स्नाहि" इति वाक्यमुच्चार्य निदध्युः — स्थापयेयुः । अत्र मृन्मये

( १६३ )

इति पात्रैकवचनसामर्थ्यात् एकस्मिन् एव पात्रे क्षीरोदके एकीकृत्य स्थापयेयुरिति हरिहरः। जलं क्षीरञ्च पात्रद्वये पृथक् पृथक् आकाशे स्थापनीयं "प्रेतात्र स्नाहीत्युदकं स्थाप्य पिव चेदमिति क्षीरमिति विज्ञानेश्वरः। (३-१७)

त्रिरात्रं शावमाशौचम्। २८

प्रेतस्य—पुत्रादीनां, शावं—शवसम्बन्धि, आशौचम्—अशौचमेवाशौचम् अशुद्धिः, त्रिरात्रं—त्रीणि अहोरात्राणि। अत्र "कालाध्वनोरत्यन्तसंयोगे" (पा.सू. २-३-५) द्वितीया। तेन अशौचमिदम् अङ्गास्पृश्यतालक्षणं सन्ततमशुचित्वम्।

दशरात्रमित्येके। २९

एके—आचार्याः शावाशौचम् अङ्गाशौचं वा दशरात्रं—दश अहोरात्राणि मन्यन्ते। एके त्रिरात्रम्, एके दशरात्रम् एतच्च व्यवस्थितं वृत्तिस्वाध्यायापेक्षया इति कर्कादयः। अशौचमिदम् अङ्गास्पृश्यत्वलक्षणं मतभेदेन दर्शितम् अथवा समानोदकसपिण्डभेदेन अशौचभेदो दर्शित इति मन्मतम्।

न स्वाध्यायमधीयीरन्। ३०

येषां यावदशौचं तन्मध्ये ते स्वाध्यायं—वेदं न अधीयीरन्—न पठेयुः, न वा पाठयेयुः।

नित्यानि निवर्त्तेरन् वैतानवर्जम्। ३१

नियतनिमित्तोपाधौ चोदितं कर्म नित्यम्, तानि नित्यानि—आवश्यकानि सन्ध्यावन्दनादीनि, निवर्त्तेरन्—अधिकाराभावात् न प्रवर्त्तेरन्। वैतानवर्जं—वितानः—आहवनीयगार्हपत्यदक्षिणाग्नीनां विस्तारः, तत्र वह्नौ साध्यं कर्म अग्निहोत्रादि वैतानं, तद् वर्जयित्वा अन्यत् कर्म निवर्त्तते। मन्वर्थमुक्तावल्यान्तु—"नित्यानि विनिवर्त्तन्ते इति पाठः (५-८४)। श्राद्धदीपे तु नित्यानि विनिवर्त्तेरन्" इति पाठः।

( १६४ )

शालाग्नौ चैके । ३२

शालाग्निः—आवसथ्याग्निः। तत्र शालाग्नौ साध्यानि सायं प्रातर्होमस्थालीपाकादीनि कर्माणि, तानि वर्जयित्वा नित्यानि निवर्त्तेरन्। न भवेयुरित्येके आचार्याः मन्यन्ते।

अन्य एतानि कुर्युः । ३३

एतानि—शालाग्निसाध्यकर्माणि अशौचे स्वयं न कुर्यात् किन्तु अन्ये—असगोत्राः, कुर्युः—सम्पादयेयुः। तथाह कात्यायनः—

सूतके मृतके चैव स्मार्त्तं कर्म निवर्त्तते।
पिण्डयज्ञं चरुं होममसगोत्रेण कारयेत्।
वैतानिकं स्वयं कुर्यात्तत्त्यागो न प्राशस्यते॥ इति

प्रेतस्पर्शिनो ग्रामं न प्रविशेयुरानक्षत्रदर्शनात् । ३४

प्रेतस्पर्शिनः—प्रेतस्पर्शः विद्यते येषां ते, शवदाहकाः सपिण्डा असपिण्डा वा, आ नक्षत्रदर्शनात्—नक्षत्राणां दर्शनं नक्षत्रदर्शनं तस्मात् आ—अवधेः, नक्षत्रदर्शनपर्यन्तमित्यर्थः। ग्रामं न प्रविशेयुः—न गच्छेयुः।

रात्रौ चेदादित्यस्य । ३५

चेत्—यदि, रात्रौ—निशि प्रेतस्पर्शः, तदा आदित्यस्य—सूर्यस्य दर्शनात् प्राक् ग्रामं न प्रविशेयुः।

प्रवेशनादि समानमितरैः । ३६

तेषां प्रेतस्पर्शिनामसपिण्डानामपि प्रवेशनादि—प्रवेशनमादौ यस्य निम्बपत्रदशनादेः कर्मणस्तत् प्रवेशनादि कर्म, इतरैः सपिण्डैः सह समानं—तुल्यं भवति।

पक्षं द्वौ वा अशौचम् । ३७

"त्रिरात्रं शावमाशौचम्" त्यादिना ब्राह्मणाशौचमभिधाय सम्प्रति वर्णान्तराणामशौचं दर्शयति पक्षमित्यादिना। पक्षं—पञ्चदश अहोरात्राणि वैश्यस्य अशौचं भवति। द्वौ—द्वौ पक्षौ, त्रिशदहोरात्राणि

( १६५ )

शूद्रस्य । वा शब्दात् द्वादश अहोरात्राणि क्षत्रियस्याशौचं भवति । तथा च मनुः—

शुध्येद् विप्रो दशाहेन द्वादशाहेन भूमिपः ।
वैश्यः पञ्चदशाहेन शूद्रो मासेन शुध्यति । इति (५-८५)

उत्कलदेशे तु सर्वेषां वर्णानां दशभिरहोरात्रैः शुद्धिसमाचारः । तदुक्त- मङ्गिरसा मिताक्षरायां—(३-२२)

सर्वेषामेव वर्णानां सूतके मृतके तथा ।
दशाहाच्छुद्धिरेतेषामिति शातातपोऽब्रवीत् ॥ इति

आचार्ये चैवम् । ३८

आचार्ये—उपनयनपूर्वकं वेदाध्यापके, मृते सति इदमुदकदानादि सर्वम् कर्म एवम्—उक्तया रीत्या कर्त्तव्यम् ।

मातामहयोश्च । ३९

मातामही च मातामहश्च तौ मातामहौ, तयोः अपि प्रेतयोः उदकदानादि दौहित्रेण उक्तया रीत्या विधेयम् ।

स्त्रीणां चाप्रत्तानाम् । ४०

अप्रत्तानाम्—अपरिणीतानां, स्त्रीणां—कन्यानां च दाहोदकदानादि कर्म जनककुलजेन कर्त्तव्यम् । एतेन अदत्तानां रजस्वलानाम् उदकदानादिविधेयमिति गम्यते ।

प्रत्तानामितरे कुर्वीरन् । ४१

प्रत्तानां—प्रदत्तानां कृतविवाहानां स्त्रीणां उदकपुत्राणाञ्च अशौचदाहोदकदानादि कर्म इतरे प्रतिग्रहीतृपक्षाः, कुर्वीरन्—कुर्युः । इतरे कुर्वीरन्नित्युक्त्या जनककुले अशौचाद्यभावः प्रतिपादितः ।

ताश्च तेषाम् । ४२

ताः—प्रदत्ताः स्त्रियः चकारात् प्रदत्ताः पुरुषाश्च तेषां—प्रतिग्रहीतृकुलजानामुदकदानादि कुर्युः न तु जनककुलजातानाम् ।

( १६६ )

प्रोषितश्चेत् प्रेयाच्छ्रवणप्रभृति कृतोदकाः कालशेषमासीरन् । ४३

प्रोषितः—प्रवासं गतः, चेत्—यदि, प्रेयात्—म्रियते तदा पुत्रादयः श्रवणप्रभृति— तन्मरणश्रवणकालमारभ्य, कृतोदकाः—कृतं दत्तमुक्तविधिना उदकं यैस्ते कृतोदकाः, तथाभूताः सन्तः कालशेषम्—अशौचसमयसमाप्तिं यावत् आसीरन्—अशौचधर्मेण वर्त्तेरन्।

अतीतश्चेदेकरात्रं त्रिरात्रं वा । ४४

चेत्—यदि अशौचकालः अतीत:—अतिक्रान्तः भवति तदनन्तरं प्रोषितस्य मृतिवार्त्ता लब्धा तर्हि एकरात्रमशौचं त्रिरात्रं वा। अयं विकल्पः अवस्थाविशेषेण अधिकारविशेषेण वा वोद्धव्यः।

अथ कामोदकान्यृत्विक्श्वशुरसखि- सम्बन्धिमातुलभागिनेयानाम् । ४५

नैयमिकोदकदानाद्युक्त्वा सम्प्रति काम्यमुदकदानाद्युच्यते, अथेत्यादिना । अथ शब्दः समुच्चये । ऋत्विजः—याजकाः श्वशुरौ—भार्यायाः पितरौ, सखायः — मित्राणि, सम्बन्धिनः — वैवाह्याः प्रोक्तसम्बन्धबाह्याः मातृष्वसृपितृष्वसृपुत्रप्रभृतयः । मातुलाः—मातृभ्रातरः, भागिनेयाः—भगिनीपुत्राः, तेषां कामोदकानि— कामेन इच्छया उदकानि उदकदानादीनि प्रवेशनान्तानि कर्माणि एव भवन्ति नाशौचम् ।

प्रत्तानाञ्च । ४६

प्रत्तानां— प्रदत्तानामपि भगिनीपितृष्वसृमातृष्वस्रादीनां इच्छया उदकदानादि कर्त्तव्यम् । चकारात् ऊढाभिरपि भगिन्यादिभिः भ्रात्रादीनामुदकदानादि इच्छया कर्त्तव्यं नाशौचमिति ।

एकादश्यामयुग्मान् ब्राह्मणान् भोजयित्वा मांसवत् । ४७

एकादश्याम्— एकादशे अहनि पुत्रादिः कर्त्ता, अयुग्मान्—त्रिप्रभृतीन् ब्राह्मणान् मांसवत्— मांसेन सहितं यथा स्यात् तथा, भोजयित्वा—भोजनं कारयित्वा श्राद्धं कुर्यादिति सूत्रशेषः ।

( १६७ )

प्रेतायोद्दिश्य गामप्येके घ्नन्ति । ४८

एके—एके आचार्याः, प्रेताय—प्रेतोपकाराय, उद्दिश्य—फलोद्देश्येन गां—गोपशुमपि घ्नन्ति—व्यापादयन्ति । तन्मांसेन श्राद्धं कुर्वन्तीत्यर्थः । अपिशब्देन नायं पक्षः आचार्य्यस्य सम्मतः । कलौ च गवालम्भः निषिद्ध इत्युक्तं प्रागेव ।

पिण्डकरणे प्रथमः पितॄणां प्रेतः स्यात् पुत्रवांश्चेत् । ४६

चेत्—यदि प्रेतः—समनन्तरमृतः, पुत्रवान्—सपुत्रः स्यात्, तर्हि पिण्डकरणे—सपिण्डने, स प्रेतः—मृतः, सपिण्डनक्रियाकर्तुः पिता इत्यर्थः। पितॄणां—श्राद्धदेवानां, प्रेतस्य पितृपितामहप्रपितामहानां प्रथमः स्यात् । प्रथममर्घ्यादिकं प्रेताय दत्त्वा तत्परं तत्पितृभ्यो देयमित्यर्थः । तदुक्तं योगीश्वरेण—

गन्धोदकतिलैर्मिश्रं कुर्यात् पात्रचतुष्टयम् ।
अर्घ्यार्थं पितृपात्रेषु प्रेतपात्रं प्रसेचयेत् ॥ ३-२५३
ये समाना इति द्वाभ्यां शेषं पूर्ववदाचरेत् ।
एतत् सपिण्डीकरणमेकोद्दिष्टं स्त्रिया अपि ॥ ३-२५४ इति

तच्च सपिण्डनं पुत्रवत एव आचार्यस्याभिप्रेतम् । तथैवोक्तं मिताक्षरायां (१-२५४) स्मृत्यन्तरे—

ये नराः सन्ततिच्छिन्ना नास्ति तेषा सपिण्डते”ति ।

अथवा व्याख्यान्तरम्—पिण्डकरणे—सपिण्डीकरणे कृते प्रेतः—समनन्तरमृतः पितॄणां—श्राद्धदेवानां प्रथमः—आदिभूतः स्यात्—भवेत् इति विधिः । सपिण्डनेन प्रेतस्य पितृत्वमुत्पद्यते इत्यर्थः ।

हरिहरस्तु पिण्डानां करणं पिण्डकरणमिति विगृह्य पिण्डकरणममावास्याश्राद्धमित्याह । पुत्रश्चात्र साग्निः पिण्डपितृयज्ञाधिकारी इत्याहुः कर्कादयो भाष्यकाराः ।

मन्मते निरग्नेरपि अमावास्यादौ पार्वणाधिकारदर्शनात् पुत्रश्चात्र सामान्यः । पिण्डकरणं च सपिण्डीकरणमेव ! तत्रैव पितॄणां प्रथममुपस्थितत्वात् । प्रथमोपस्थितस्य त्यागे मानाभावाच्च ।

चतुर्थः सम्प्रदातैषां पञ्चमो नोपपद्यते । इति मनुस्मृतेश्च (६-१८६)

( १६८ )

निवर्त्तेत चतुर्थः । ५०

कृते सपिण्डीकरणे चतुर्थः—प्रेतस्य प्रपितामहः, निवर्त्तेत—पिण्डादिभ्यः निवृत्तो भवेत् । 'पिण्डास्त्रिषु' इति श्रुतेः। तथा—
त्रयाणामुदकं कार्यं त्रिषु पिण्डः प्रवर्त्तते ।
चतुर्थः सम्प्रदातैषां पञ्चमो नोपपद्यते । इति मनुस्मृतेश्च (६-१८६)

संवत्सरं पृथगेके । ५१

एके—आचार्याः मन्यन्ते संवत्सरं—संवत्सरं यावत्, पृथक्—पितॄणां प्रेतस्य च पृथक् पृथक् भावेन पिण्डदानादि विधेयमिति । एतच्च संवत्सरान्ते सपिण्डीकरणपक्षमाश्रित्योक्तम् ।

तथाहि प्रेतपुत्रः जीवति पितरि येभ्य एव पितामहादिभ्यः त्रिभ्यः पिण्डपितृयज्ञे प्रयच्छति प्रेतस्य पितुः प्रथमसंवत्सरेऽपि तेभ्यः पितृत्वेन दद्यात् । प्रेताय पित्रे च तत्रैव स्वतन्त्रतया पिण्डं दद्यात् इत्यर्थः । अथवा पिण्डपितृयज्ञादौ पितामहादिभ्यस्त्रिभ्यः पार्वणविधिना दद्यात्, षोडश-प्रेतैकोद्दिष्टेषु प्रताय एकोद्दिष्टं कुर्यात् इति एतेन प्रकारद्वयेनापि एकीयमते पृथग्विधानं सिद्ध्यति । नैतत् पारस्कराचार्यस्य मतम् । एतन्मते पिण्डपितृयज्ञात् पूर्वमेव सपिण्डनं विधेयम् । ततः परं चतुर्थस्य विनिर्वृत्तिरिति पृथक्श्राद्धशङ्का नास्त्येव ।

न्यायस्तु न चतुर्थः पिण्डो भवतीति श्रुतेः । ५२

"चतुर्थः पिण्डः न भवति" इति श्रुतेः—श्रुतिनिर्देशात्, न्यायः—विरोधाधिकरणन्यायः श्रुतिस्मृत्योर्विरोधे श्रुतेर्बलीयस्त्वप्रतिपादक आचार्यपक्षं समर्थयते, नैव पक्षान्तरमिति सर्वथा पिण्डचतुष्टयशङ्का नैव कार्या । तेन संवत्सरपर्यन्तं प्रेतस्य पितॄणां चोभयोः पिण्डदान-व्यवस्था नास्त्येव । ततः यस्य साग्नेः संवत्सरमध्ये पिण्डदानमावश्यकं तेन अशौचानन्तरं दर्शपातात् पूर्वमेव सपिण्डनं कार्यमिति सारः ।

अहरहमन्नमस्मै ब्राह्मणायोदकुम्भं च दद्यात् । ५३

सपिण्डीकरणे अकृते कृतेऽपि प्रथमसंवत्सरसमाप्तिं यावत् अहरहः—प्रतिदिनम् अस्मै—प्रेताय उद्दिश्य ब्राह्मणाय—सम्प्रदानभूताय अन्नं—

( १६६ )

भोज्यद्रव्यं भोजनपर्याप्तम्, उदकुम्भं — जलपूर्णघटञ्च दद्यात् — प्रयच्छेत् ।

पिण्डमप्येके निपुणन्ति । ५४

एके आचार्याः अहरहः न केवलं सोदकमन्नदानम्, अपितु अहरहः पिण्डदानमपीच्छन्ति । अत्र पिण्डशब्दे एकवचनदर्शनात् प्रत्यहमेकोद्दिष्टमिच्छन्ति इति गम्यते । साग्नेः पार्वणविधाननियमात् तत्पक्षे एकोद्दिष्टाचारणम् आचार्यस्य नैव सम्मतमिति भावः ।

इति पारस्करगृह्यसूत्रव्याख्यायां मार्गदर्शिन्यां तृतीयकाण्डे दशमी कण्डिका ॥

— ४०४ —

( अर्घ्यपशुनिरूपणम् )

पशुश्चेदाप्लाव्याऽगामग्रेणाग्नीन् परीत्य पलाशशाखां निहन्ति । १

चेत् — यदि, पशुः — स्मार्त्तः अर्घ्यपशुः क्रियते तदा तम् — अगां — गोपशुवर्जं छागादिम्, आप्लाव्य — स्नापयित्वा, अग्रेण — पुरस्तात्, अग्नीन् — गार्हपत्यादीन् वा, आवसथ्याग्निमेकं वा, परीत्य — प्रादक्षिण्येन परिक्रम्य, पलाशशाखां — पलाशस्य — ब्रह्मवृक्षस्य शाखां निहन्ति — निखनति । अगामित्युक्त्या गोपशोराप्लावनं नास्ति । चेत् पदात् आचार्यस्य पशौ नात्यन्तमाग्रहः ।

परिव्ययणोपाकरणनियोजन-प्रोक्षणान्यावृता कुर्याद् यच्चान्यत् । २

परिव्ययणं — त्रिगुणरशनया निखातपलाशशाखाया वेष्टनम्, उपाकरणं — तृणेन पशोः स्पर्शनम्, नियोजनं — द्विगुणरशनया शृङ्गयोर्बद्धस्य पशोः पलाशशाखायां बन्धनम्, प्रोक्षणं — प्रोक्षणीभिरद्भिः पशोरासेचनम्, एतानि परिव्ययणोपाकरणनियोजनप्रोक्षणानि कर्माणि, यच्च अन्यत् — पशुसंस्कारकं पशुसम्मञ्जनपर्यग्निकरणादिकं तदपि आवृता — पशुप्रकरणविहितया मन्त्रवर्जितया इतिकर्त्तव्यतया कुर्यात् —

( २०० )

विदधीत । परिपशव्ये हुत्वा तूष्णीमपराः पञ्च । ३

परिपशव्ये—पशुसंज्ञपनं परि—उभयतः, 'स्वाहा देवेभ्यः देवेभ्यः स्वाहा' इति ये द्वे आज्याहुती ते हुत्वा पशोः मारणात् पूर्वं 'स्वाहा देवेभ्यः' मृते पशौ "देवेभ्यः स्वाहा" इति होमं कृत्वा इत्यर्थः । तदनन्तरं तूष्णीं विना मन्त्रोच्चारणम् अपराः—एतदाहुतिभिन्नाः अन्याः, पञ्च आज्याहुतीः प्रजापतिध्यानपूर्वकं जुहुयात् । इदं प्रजापतये इति पञ्चानां त्यागा इति विश्वनाथः ।

वपोद्धरणं चाभिघारयेत् । ४

पशोः वपायाः—नाभिस्थचर्मविशेषस्य उद्धरणं—ग्रहणं यथोक्तरीत्या कृत्वा तां वपाम् अभिघारयेत्—घृतसिक्तां कुर्यात् ।

देवतां चादिशेदुपाकरणनियोजनप्रोक्षणेषु । ५

पूर्वोक्तेषु उपाकरणनियोजनप्रोक्षणेषु कर्मसु—देवतां यद्देवताऽर्थः पशुर्भवति, तां देवतां च आदिशेत्—निर्दिशेत् "अमुष्मै त्वा उपाकरोमि, अमुष्मै त्वा नियुनज्मि, अमुष्मै त्वा जुष्टं प्रोक्षामि" इति ।

स्थालीपाके चैवम् । ६

स्थालीपाके—चरौ अपि एवं देवतामादिशेत् "अमुष्मै त्वा जुष्टं प्रोक्षामि" इति ।

वपाँ हुत्वाऽवदानान्यवद्यति सर्वाणि त्रीणि पञ्च वा । ७

वपाम्—उद्धृतां वपां यथोक्तेन विधिना हुत्वा अवदानानि—पशोः हृदयादीनि, सर्वाणि—हृदयजिह्वाक्रोडसव्यबाहुपार्श्वद्वययकृद्-वृक्कद्वय गुदमध्य दक्षिणश्रोणिरूपाणि एकादश प्रधानार्थानि स्विष्टकृद्-यागार्थञ्च दक्षिणबाहुगुदतृतीयानिष्ठसव्यश्रोणिरूपाणि च त्रीणि, वा—अथवा, त्रीणि हृदयजिह्वाक्रोदानि, अथवा पञ्च—हृदयजिह्वाक्रोड-सव्यबाहुदक्षिणपार्श्वानि, अवद्यति—छिनत्ति । अत्र पञ्चावदानपक्षे त्र्यवदानपक्षे वा तत एव स्विष्टकृद्धोमः । पशुपुरोडाशो नास्ति ।

( २०१ )

स्थालीपाकमिश्राण्यवदानानि जुहोति । ८
स्थालीपाकमिश्राणि—स्थालीपाकेन—चरुणा, मिश्राणि—संयुक्तानि अवदानानि—पशोः हृदयादीनि, चरुणासह पक्वानि जुहोति ।

पश्वङ्गं दक्षिणा । ६
पश्वङ्गं—पशोः अङ्गम् अस्य पशुबन्धनस्य दक्षिणा । तेन पूर्णपात्रं चरो वेति निवर्त्तते ।

यद्देवते तद्दैवतं यजेत्तस्मै च भागं कुर्यात्तं
च ब्रूयादिममनुप्रापयेति । १०
यद्देवते—यस्य आचार्यादेः अर्घ्यस्य या देवता बृहस्पत्यादिः तद्देवतः स पशुयागः, तस्मिन् तद्देवते यागे, तद्दैवतम्—अर्घ्यदैवतम् । यथा आचार्यविषये बृहस्पतिं यजेत्, तस्मै—अर्घ्याय आचार्यादये च पशोः किञ्चिदङ्गं भागं—प्राप्यं कुर्यात्, तञ्च अर्घ्यम् आचार्यादिकम् 'इममनुप्रापय' इति ब्रूयात् ।

अर्घ्यदेवता यथा—आचार्यस्य बृहस्पतिः, ब्रह्मणश्चन्द्रमाः, उद्गातुः—पर्जन्यः, होतुरग्निः, अध्वर्योः अश्विनौ, विवाह्यस्य वरस्य प्रजापतिः, राज्ञ इन्द्रः, प्रियस्य मित्रः, स्नातकस्य विश्वेदेवाः, इन्द्राग्नी वा इति ।

नद्यन्तरे नावं कारयेन्न वा । ११
नद्यन्तरे—नदीमध्यस्थितद्वीपे, नावम्—एकादशाहविहितनवश्राद्धार्थं गोपशुं प्रेतदैवतम् अर्घ्यपशुविधानेन कृत्वा तदवशिष्टेन मांसेन श्राद्धं कुर्यादित्यर्थः । न वेति वैकल्पिको निषेधः । तेन पशुः आचार्यस्य न सम्मतः । प्रेतायोद्दिश्य गामप्येके घ्नन्ती—(३-१०-४६)ति परमतत्वेन प्रदर्शनात् ।

अत्र नवश्राद्धशब्देन प्रथमैकादशाहिकं श्राद्धमुच्यते इति कर्काचार्याः । किन्तु एकादशाहश्राद्धप्रक्रमे “गामप्येके घ्नन्तीति दर्शनात् एकादशाहश्राद्धमेवात्र नवपदेन उद्दिष्टम् ।

इति पारस्करगृह्यसूत्रव्याख्यायां मार्गदर्शिन्यां
तृतीयकाण्डे एकादशी कण्डिका ॥

( २०२ )

( अवकीर्णिप्रायश्चित्तम् )
अथातोऽवकीर्णिप्रायश्चित्तम् । १

पशुप्रसङ्गेन नैमित्तिकं पश्वन्तरमाह अथेति—
अथ— इदानीम्, अतः— यतः पशुप्रसङ्गोऽभिहितस्तस्मात्, अवकीर्णिप्रायश्चित्तम्— अवकीर्णिनः स्त्रीप्रसङ्गेन स्खलितब्रह्मचर्यस्य ब्रह्मचारिणः, प्रायश्चित्तं—शुद्धिसम्पादकं कर्म, उच्यते ।

अमावास्यायां चतुष्पथे गर्दभं पशुमालभते । ३-१२-२

अमावास्यायां—यस्यां कस्याञ्चित् कृष्णपञ्चदश्यां तिथौ—चतुष्पथे—चत्वारः पन्थानः यत्र भूभागे स चतुष्पथः तस्मिन् देशे, गर्दभं—रासभं पशुम्, आलभते—संज्ञपयति ।

निर्ऋतिं पाकयज्ञेन यजेत् । ३

निर्ऋतिं—निर्ऋतिनाम्नीं देवतां, पाकयज्ञेन—पाकयज्ञविधानेन पशुना यजेत् । अवकीर्णिनः हविर्यज्ञरूपोऽप्योपि पशुरस्ति अतः पाकयज्ञेन इत्युक्तम् । मनुरपि—
अवकीर्णी तु काणेन गर्दभेन चतुष्पथे ।
पाकयज्ञविधानेन यजेत निर्ऋतिं निशि ॥ ८-५

अप्स्ववदानहोमः । ४

अप्सु—जले, अवदानानां—हृदयादीनां, होमः—देवतोद्देशेन प्रक्षेपः, न तु अग्नौ। अवदानहोमस्य अप्सु विधानात् आघारादीनां लौकिकाग्नौ इति सूच्यते ।

भूमौ पशुपुरोडाशश्रपणम् । ५

भूमौ—भूमावेव न कपालेषु पशुपुरोडाशश्रपणं—पशुपुरोडाशस्य श्रपणं—पाकः । शाखापशौ पुरोडाशाभावात् इह विधीयते ।

तां छविं परिदधीत । ६

ताम् छविम्—आलब्धस्य गर्दभस्य त्वचम् एव परिदधीत—परिहितां कुर्यात् ।

( २०३ )

ऊर्ध्वबालामित्येके । ७

एके— आचार्याः, तां— च्छविम्, ऊर्ध्ववालाम्— उपरिपुच्छां, परिदधीत इति वदन्ति ।

संवत्सरं भिक्षाचर्यं चरेत् स्वकर्म परिकीर्त्तयन् । ८

तां छविं परिदधानः, संवत्सरं— संवत्सरपर्यन्तं, स्वकर्म— अवकीर्णित्वं परिकीर्त्तयन्—परितः सर्वत्र कीर्त्तयन्—ख्यापयन् अवकीर्णिने मह्यं भिक्षां देहीति प्रकारेण, भिक्षाचर्यं चरेत्—भिक्षेत । "निरुक्तं वा एनः कनोयो भवति इति श्रुतेः कर्मपरिकीर्त्तनम् ।

अथापरमाज्याहुती जुहोति—

कामावकीर्णोऽस्म्यवकीर्णोऽस्मि कामकामाय स्वाहा । कामाभिद्रुग्धोऽस्म्यभिद्रुग्धोऽस्मि कामकामाय स्वाहेति ॥ ९

अथ—अनन्तरम्, अपरं— प्रायश्चित्तान्तरम् उच्यते, यथा— आज्याहुती— आज्याहुतिद्वयं जुहोति । कामावकीर्णोस्मीत्यादिना एकाम् । "कामाभिद्रुग्धोऽस्मीत्यादिना द्वितीयामिति । उभयत्र इदं कामायेति त्यागः । एते च द्वे आहुती आगन्तुकत्वात् चतुर्दशाहुत्यन्ते ।

मन्त्रार्थः— (प्रजापतिः, अनुष्टुप्, कामः, आज्यहोमे) हे काम ! अहं कामावकीर्णः, कामेन—क्षोभकारिणा त्वया, अवकीर्णः—अधः कृत अभिभूतो वा अस्मि । तेन अवकीर्णः—क्षतव्रतः अस्मि । कामाय तुभ्यं स्वाहा—सुहुतमस्तु ।

अथोपतिष्ठते—

सम्मा सिञ्चन्तु मरुतः समिन्द्रः संबृहस्पतिः । सम्मायमग्निः सिञ्चतु प्रजया च धनेन चेति ॥ १०

अथ—होमानन्तरम्, उपतिष्ठते—ऊर्ध्वीभूय प्रार्थयते, समासिञ्चन्त्वित्यादिना मन्त्रेण ।

( २०४ )

मन्त्रार्थः— (प्रजापतिः, अनुष्टुप्, लिङ्गोक्ता देवता, उपस्थाने) हे मरुतः—देवाः, मा—मां, संसिञ्चन्तु—सम्यक् सिञ्चन्तु, अभीष्ट-दानेन सम्वर्द्धयन्तु । इन्द्रः वृहस्पतिश्च तथैव सम्यक् सिञ्चतु । अयम् अग्निश्च सम्यक सिञ्चतु प्रजया धनेन च मा योजयतु । एतदेव प्रायश्चित्तं संवत्सरपर्यन्तं कुर्यात् ।

एतदेव प्रायश्चित्तम् । १२

एतदेव प्रायश्चित्तं गर्दभपश्वालम्भरूपम् आज्याहुतिहोमात्मकं च अवकीर्णिनः प्रायश्चित्तद्वयं वोद्धव्यम् ।

इति पारस्करगृह्यसूत्रव्याख्यायां मार्गदर्शिन्यां तृतीयकाण्डे द्वादशी कण्डिका ॥ — ४०४ —

( सभाप्रवेशनम् )

अथातः सभाप्रवेशनम् । १

अथ—आवसथ्याग्निसाध्यकर्मविधानानन्तरं यतः साधारणानि, कर्माणि विधेयानि, अतः सभाप्रवेशनं कर्म उच्यते ।

सभामभ्येति— सभाङ्गिरसि नार्दिर्नामासि त्विषिर्नामासि तस्यै ते नम इति । २

यदा द्विजः सभाम् अभ्येति—आभिमुख्येन गच्छति तदा 'सभाङ्गिरसी'त्यादि मन्त्रेण गच्छेत् ।

मन्त्रार्थ — (अङ्गिरा, गायत्री, सभा, सभाप्रवेशने) हे अङ्गिरसि—अङ्गिरोदेवते ! नार्दिः—नदनशीला त्वं सभा—सहधर्मेण सद्धिः वा भातीति सभा, तन्नामा असि । त्विषिः—दीप्तिः इति नामा असि । तस्यै—तादृश्यै, ते—तुभ्यं सभायै नमः अस्त्विति शेषः ।

अथ प्रविशति— सभा च मा समितिश्चोभे प्रजापतेर्दुहितरौ सचेतसौ...

( २०५ )

यो मा न विद्यादुप मा स तिष्ठेत् सचेतनो भवतु शठ्ं सथे जन इति । ३

अथ—अभिमुखमेत्य, सभां प्रविशति 'सभा च मे'त्यादिना मन्त्रेण । मन्त्रार्थः— ( प्रजापतिः, अनुष्टुप्, सभा समितिश्च, तत्प्रवेशने ) सभा—ससत् च, समितिः—युद्धञ्च ते उभे सचेतसौ—शोभनज्ञानदात्र्यौ, प्रजापतेः—ब्रह्मणः, दुहितरौ—पुत्र्यौ, ते मा—माम् अवतामिति शेषः । सभावचनं यथा—यः—जनः, मा—मां सभां न विद्यात्—न जानीयात्, सः—जनः, मा—मां सभाम्, उपतिष्ठेत्—उपासीत । ततः शंसथे— सम्भाषणाय, सचेतनः—सुबुद्धिः, भवतु—अस्तु ।

पर्षदमेत्य जपेत्— अभिभूरहमागमविराडप्रतिवाश्याः । अस्याः पर्षद ईशानः सहसा सुदुष्टरो जनः इति । ४

पर्षदं—सभाम्, एत्य—आगत्य, जपेत् 'अभिभू'रिति । मन्त्रार्थः—(प्रजापतिः, अनुष्टुप्, पर्षत्, सभोपस्थाने) आः—सम्बोधने, अभिभू —परेषाम् अभिभवनशीलः, अविराट्—विरुद्धतया राजते इति विराट्—रुद्धवीर्य्यः, न विराद् आवराट् अरुद्धवीर्य इत्यर्थः । अप्रतिवाशी— प्रातवादिशून्यः, अहम् आगम्— आगतोस्मि । अस्याः— पर्षदः— सभायाः, ईशानः—प्रभुः, दुस्तरः—उग्रः अपि मयि सहसा—त्वरितं, सुजनः — शोभनजनः अस्तु । सभापतिः मम अनुकूलो भवत्वित्यर्थः ।

स यदि मन्येत क्रुद्धोयमिति तमभिमन्त्रयते— या त एषा ररात्या तनूर्मन्योः क्रोधस्य नाशनी, तां देवा ब्रह्मचारिणो विनयन्तु सुमेधसः ॥ द्यौरहं पृथिवी चाहं तौ ते क्रोधं नयामसि । गर्भमश्वतर्य्यसहासाविति ॥ ५

( २०६ )

सः—सभां प्रविष्टो जनः यदि अयम्—सभापतिः क्रुद्ध इति जानीयात् तं—क्रुद्धम्, अभिमन्त्रयते—अभिलक्ष्य मन्त्रयते क्रोधापनयाय 'या त' इत्यादिना।

मन्त्रार्थः—(प्रजापतिः, अनुष्टुप्, लिङ्गोक्ता देवता, क्रोधापनयने) हे—अमुकनामन् सभापते! ते सभापतेः, या एषा सम्प्रति—वर्त्तमाना, रराट्या—ललाटे भवा, नाशनी—चतुर्वर्गनाशकारिणी ममसंहारकारिणी वा, मन्योः—दीप्तस्य क्रोधस्य तनूः—शरीरम् अस्ति ताम्, सुमेधसः—सुबुद्धयः, देवाः—इन्द्रादयः, ब्रह्मचारिणः—सनकाद्याः मुनयश्च, विनयन्तु—अपनयन्तु। अहं—स्तोता, द्यौः—आकाशरूपः सर्वविरक्तत्वेनातिप्रशस्त इत्यर्थः। पुनश्च अहं पृथिवी—पृथिवीरूपः सर्वसहिष्णुरित्यर्थः। आघाते कृते आकाशः पीडां न लभते पृथिवी पीडां लब्ध्वापि सहते इत्यनयोर्भेदः। तौ—द्यावापृथिव्यौ, अर्थात् तद्रूपोऽहं ते—तव, क्रोधं—कोपं नयामसि—अपनयामि, यथा गर्भम् असह्या—असहमाना, अश्वतरी अमार्गेण गर्भं मुञ्चति। तथाहं ते कोपमचिरादपनयामीति भावः।

अथ यदि मन्येत द्रुग्धोऽयमिति तमभिमन्त्रयते—

तां ते वाचमास्य आदत्ते हृदय आदधे यत्र यत्र निहिता।
वाक् तां ततस्तत आददे यदहं ब्रवीमि तत् सत्यमधरो मत्त्वं ह्यस्वेति। ६

अथ—सभाप्रवेशानन्तरं यदि सभाप्रविष्टः अयम्—सभापतिः, द्रुग्धः—द्रोहकर्त्ता इति मन्येत—जानीयात् तर्हि तं—सभापतिमभिमन्त्रयते—अभिलक्षीकृत्य मन्त्रयते 'तां ते वाच'मित्यादिना मन्त्रेण।

मन्त्रार्थः—(प्रजापतिः, अनुष्टुप्, ईशः, वशीकरणे) हे सभेश! भवान् तां—मद्द्रोहकारिणीं, वाचं—गिरम्, आस्ये—मुखे, आदत्ते—धारयति। तां वाचं ते—तव हृदये, आदधे—अप्ररूढत्वेन स्थापयामि। ते यत्र यत्र—येषु येषु स्थानेषु वाक् निहिता तां वाचं ततः ततः—तस्मात् तस्मात् स्थानात्, आददे—गृह्णामि, मम वशीभूतां करोमीत्यर्थः। अहं

( २०७ )

यद् ब्रवीमि—वदामि, तत्सत्यं—यथार्थमस्तु । त्वं—सभेशः, द्य—अद्य, मत्—मत्तः, अधरः—नीचः, स्व—भव अर्थात् मदधीनो भव । अथवा त्वं मत्तः अधरः सन् तां द्रोहकारिणीं वाचं स्वयमेव द्यस्व—अवखण्डय ।

एतदेव वशीकरणम् । ७

एतत्—“तां ते वाच”मित्यादिना अभिमन्त्रणम् एव वशीकरणम्— अत्रशस्तं वशीकरणसाधनम् ।

इति पारस्करगृह्यसूत्रव्याख्यायां मार्गदर्शिन्यां तृतीयकाण्डे त्रयोदशी कण्डिका ॥

—808—

( रथारोहणम् ) अथातो रथारोहणम् । १

अथ—इदानीं कार्यार्थं जिगमिषोः—द्विजस्य यतः यानारोहणम- पेक्षितमतो रथारोहणमुच्यते ।

युंक्तेति रथं सम्प्रेष्य युक्त इत्युक्ते “सा विराडित्येत्य चक्रे अभिमृशति । २

स्वामी सारथि, रथं—यानं युक्त इति सम्प्रेष्य—आदिश्य, रथः युक्तः इति सारथिना उक्ते—कथिते सति “सा विराट्” इत्यनेन मन्त्रेण रथसमीपम्, एत्य—आगत्य, चक्रे—रथाङ्गे, अभिमृशति—स्पृशति । “सा विराडि”ति रथसमीपमागमनमन्त्रः ।

रथन्तरमसीति दक्षिणम् । ३

“रथन्तरमसी”ति मन्त्रेण दक्षिणं चक्रमभिमृशति ।

बृहदसीत्युत्तरम् । ४

“बृहदसि” इति मन्त्रेण उत्तरं चक्रमभिमृशति ।

वामदेव्यमसीति कूबरीम् । ५

‘वामदेव्यमसि’ इति मन्त्रेण कूबरीम् ईषादण्डम् अभिमृशति ।

( २०८ )

हस्तेनोपस्थमभिमृशति—

अङ्कौ न्यङ्कावभितो रथं यौ ध्वान्तं वाताग्रमनु सञ्चरन्तौ । दूरेहेतिरिन्द्रियवान् पतत्रि तेनोऽग्नयः पप्रयः पारयन्त्विति ॥ ६

हस्तेन—दक्षिणहस्तेन, उपस्थं—रथमध्यस्थम् उपवेशनस्थानम्, अभिमृशति—स्पृशति "अङ्कौ न्यङ्का"विति मन्त्रेण ।

मन्त्रार्थः—(प्रजापतिः, त्रिष्टुप्, अङ्गम, अभिमर्शने) यौ—प्रसिद्धौ, अङ्कौ—अङ्काख्यगणपौ अग्निविशेषौ, तथा न्यङ्कौ—न्यङ्काख्यगणपौ अग्निविशेषौ, रथम् अभितः—रथस्य सर्वतः रक्षकत्वेन ध्वान्तं—दुर्गमं, वाताग्रं—वायुमुखम्, अनु—अनुसृत्य, सञ्चरन्तौ—भ्रमन्तौ वर्त्तेते, पुनश्च दूरेहेतिः—बृहज्जवालः अग्निः इन्द्रियवान्—इन्द्रियानुग्राहकः अग्निः, पतत्रि— पतनशीलमग्निवृन्दम्, ते एते प्रसिद्धाः, पप्रयः—मनोरथपूरणकारिणः अग्नयः, नः—अस्मान्, पारयन्तु—अभीष्टदेशं प्रापयन्तु इत्यर्थः ।

नमो माणिचरायेति दक्षिणं धुर्यं प्राजति । ७

दक्षिणं—दक्षिणहस्तदिशायां रथेयुक्तं धुर्य्यम्—अश्वं वृषभं वा धुरियुक्तं वाहं प्राजति—प्रतोदेन गमनाय प्रेरयति, हस्तेन "नमो माणिचराय" इति मन्त्रेण "माणिचरः रथाधिष्ठात्री देवता" तूष्णीं वामवाहप्राजनम् ।

अप्राप्य देवताः प्रत्यवरोहेत् सम्प्रति ब्राह्मणान् मध्ये गा अभिक्रम्य पितॄन् । ८

रथेन गमनकाले मार्गे यत्र हरिहरप्रभृतयः देवताः भवन्ति तत्र ताः देवताः—देवप्रतिमाः देवमन्दिराणि वा, अप्राप्य—प्राप्तिपूर्वत एव, प्रति अवरोहेत्—ताः देवताः प्रति अवरोहणं कुर्यात्, रथादवतीर्य पदातिर्भूत्वा गच्छेत् इत्यर्थः । तथा ब्राह्मणान्—प्राप्य संप्रति— निकटे अवरोहेत् । गाः—सुरभीः प्राप्य मध्ये—तासां मध्ये अवरोहेत्, पितॄन्—पित्रादीन् मान्यान् प्राप्य, अभिक्रम्य—अभिमुखमेत्य अवरोहेत् ।

( २०६ )

न स्त्रीब्रह्मचारिणौ सारथी स्याताम् । ६

स्त्री—नारी, ब्रह्मचारी—नैष्ठिकः, उपकुर्वाणकश्च तौ—स्त्री-ब्रह्मचारिणौ सारथी न स्याताम्—न भवेताम् ।

मुहूर्त्तमतीयाय जपेदिहरतिरिहरमध्वम् । १०

देवतादिसमीपे मुहूर्त्तं—क्षणम्, अतीताय—अतिवाह्य 'इहरति'-रित्यादिमन्त्रं जपेत् ।

एके मास्त्विजहरतिरिति च । ११

एके आचार्याः 'मास्त्विवह रति'रितिमन्त्रं जपेदिति मन्यन्ते ।

स यदि दुर्बलरथः स्यात्तमास्थाय जपेत्—
अयं वामश्विना रथो मा दुर्गे मा स्तरोरिषदिति । १२

सः—रथारोही, यदि—चेत्, दुर्बलरथः—दुर्बलः—अदृढः रथः यस्य स दुर्बलरथः स्यात्—भवेत् तर्हि तं रथम्, आस्थाय—आरुह्य "अयं वामश्विना" इत्यादि मन्त्रं जपेत् ।

मन्त्रार्थः— (प्रजापतिः, अनुष्टुप्, अश्विनौ. जपे) हे अश्विना—हे अश्विनौ, वां—युवयोः, अयं रथः दुर्गे—विषमस्थाने, स्तरः—हिंसकात्, मा—मां, मारिषत्—मा हिंसिष्ट । मार्गे रथभङ्गो न भवतु इति सारः ।

स यदि भ्रम्यात् स्तम्भमुपस्पृश्य भूमिं वा जपेत्—
एष वामश्विना रथो मा दुर्गे मा स्तरो रिषदिति । १३

सः—रथः, यदि—चेत्, भ्रम्यात्—वक्रगमनं कुर्यात्, तदा स्तम्भं—रथध्वजदण्डं भूमिं वा उपस्पृश्य "एष वा"मित्यादि जपेत् ।

तस्य न काचनार्त्तिर्न रिष्टिर्भवति । १४

तस्य—एवं जपतः न काचित् आर्त्तिः—पीडा, न च काचित् रिष्टिः—यात्राविघ्नः भवति ।

यात्वा ध्वानं विमुच्य रथं यवसोदके दापयेदेष उ ह वाहनस्यापह्नव इति श्रुतेः । १५

( २१० )

यात्वा—गत्वा उद्दिष्टदेशप्राप्त्यनन्तरमित्यर्थः । अध्वानं—मार्गं, विमुच्य—मुक्त्वा, मार्गात् वहिः रथं संस्थाप्य इत्यर्थः । रथं—रथयुक्तं वाहं, यवसोदके—यवसं च उदकं च यवसोदके घासपानीये, दापयेत्—भृत्यैः दापयेत्, भृत्याभावे स्वयं दद्यात् । अत्र श्रुतिं दर्शयति एष इति—उ—निश्चये सम्बोधने वा एष घासोदकदानादिः, वाहनस्य—अश्वादेः, अपह्रवः—क्षमापनं, इति श्रुतेः—श्रुतिवचनात् । ह एवार्थे ।

इति पारस्करगृह्यसूत्रव्याख्यायां मार्गदर्शिन्यां तृतीयकाण्डे चतुर्दशी कण्डिका ॥


( हस्त्याद्यारोहणम् )

अथातो हस्त्यारोहणम् । १

अथ—सम्प्रति, रथारोहणानन्तरं यतः हस्त्यारोहणमपि कदाचित् अपेक्षितं भवति, अतः—अस्मात् कारणात् हस्त्यारोहणमुच्यते ।

एत्य हस्तिनमभिमृशति—
हस्तियशसमसि हस्तिवर्चसमसीति । २

एत्य—हस्तिसमीपमागत्य, हस्तिनं—गजम् आरोहणार्थं सज्जीकृतम्, अभिमृशति—आलभते 'हस्तियशसमसीति' मन्त्रेण ।

मन्त्रार्थः—(ब्रह्मा, यजुः, हस्ती, स्पर्शने) हे हस्तिन् ! हस्तिनाम्—गजानाम् ऐरावतत्त्वादिकं यत् यशः त्वं तद्रूपोऽसि, हस्तिनां यद् वर्चः—दीप्तिः तद्रूपोऽसि ।

अथारोहति—
इन्द्रस्य त्वा वज्रेणाभितिष्ठामि स्वस्ति मा संपारयेति । ३

अथ—अभिमर्शनानन्तरम्, आरोहति हस्तिनम् 'इन्द्रस्य त्वे'ति मन्त्रेण ।

मन्त्रार्थः—(ब्रह्मा, यजुः, इन्द्रः, आरोहणे) हे हस्तिन् ! त्वा—त्वां गजम्, इन्द्रस्य—देवराजस्य, वज्रेण—आयुधेन सह, अभितिष्ठामि—