भारतकोश
संग्रह पर लौटें

समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)

Samarangana Sutradhara of Raja Bhoja

धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा

DevanagariHindipublished726 पृष्ठ

प्रान्तचक्रद्वये कोणरथिकाचक्रयोजिता । दोलागर्भंगता यष्टिस्तिर्यक् कार्यापरापरा ॥ २१६ ॥ पूर्वे भद्रे द्वारं कुर्यात् सोपानराजितमधस्तात् । गर्भात् पश्चिमभागे निवेशयेद् देवतादोलाम् ॥ २१७ ॥ अन्योन्यं चक्रभ्रममिच्छामुक्तिं विधानतः सम्यक् । ज्ञात्वा प्रयोजनीयं शीघ्रवहं मन्दवहनं वा ॥ २१८ ॥ एष समासेन यथा भ्रममार्गः कीर्तितः स्फुटोऽस्माभिः । अन्येष्वपि कर्तव्यः सम्यग् भ्रमहेतवे तद्वत् ॥ २१९ ॥ स्तम्भादिद्रव्याणां विन्यासैः कल्पितं दृढैः श्लक्ष्णैः । सुश्लिष्टसन्धिबन्धं धृतं तथा दीर्घमुरुयधरैः ॥ २२० ॥ परिवारितमथ तिलकैः समन्ततः सिंहकर्णसंयुक्तम् । त्रिपुरं सम्यक् कुर्याद् विचित्ररूपं (ख)कैश्चित्रैः ॥ २२१ ॥ बुद्ध्या क्लृप्तैः पूर्वयन्त्रैश्च युक्तं यन्त्राध्यायं वेत्ति यः सम्यगेतम् । प्राप्नोत्यर्थान् वाञ्छितान् कीर्तियुक्तान् स क्ष्मापालैरन्वहं पूज्यते च ॥ एतद् द्वादशराजचक्रमखिलं क्ष्मापालचूडामणे- र्दोःस्तम्भप्रतिबद्धवृत्ति परितो यस्येच्छया भ्राम्यति । स श्रीमान् भुवनैकरामनृपतिर्देवो व्यधत्त द्रुतं यन्त्राध्यायमिमं स्वबुद्धिरचितैर्यन्त्रप्रपञ्चैः सह ॥ २२३ ॥ इति महाराजाधिराजश्रीभोजदेवविरचिते समराङ्गणसूत्रधारापरनाम्नि वास्तुशास्त्रे यन्त्राविधानं नामैकात्रिंशोऽध्यायः ॥

अथ गजशाला नाम द्वात्रिंशोऽध्यायः । लक्षणं गजशालानामिदानीमभिदध्महे । चतुरश्रीकृते क्षेत्रे भागैर्भक्ते ततोऽष्टभिः ॥ १ ॥


१ द. ख. ॰त्रं चित्ररूपकैश्चित्वैः । २ द. ख. ॰दिवा । ३ द. ख. ॰न्त्रै; क. न्त्रैः ।

१९६ समराङ्गणसूत्रधारे मध्ये द्विभागविस्तारं स्थानं कुर्वीत हस्तिनः । कल्प्याः प्रासादवद् भागा ज्येष्ठमध्याधमाः क्रमात् ॥ २ ॥ तद्बहिर्भागिकोऽलिन्दो बहिस्तस्यापि चापरः । भागेनैकेन भित्तिः स्याद् द्वितीयालिन्दकाद् बहिः ॥ ३ ॥ तस्या द्वारप्रदेशे तु¹ कर्तव्यौ कूर्परावुभौ । कर्णप्रासादिका कार्या द्वितीयालिन्दसंश्रिता ॥ ४ ॥ द्वे द्वे वातायने कुर्याद् भित्तौ दिक्षु तिसृष्वपि । †प्राग्ग्रीवोऽग्रे भवेच्छाला सुभद्रेयमुदाहृता ॥ ५ ॥ अस्या एव यदा पक्षे प्राग्ग्रीवौ भवतो² मुखे । नन्दिनी नामतः शाला तदा स्याद् गजवृद्धये ॥ ६ ॥ अस्या एव यदा स्यातां प्राग्ग्रीवौ पार्श्वयोर्द्वयोः तदा सुभोगदा नाम तृतीया परिकीर्तिता ॥ ७ ॥ अस्या एव यदा पृष्ठे प्राग्ग्रीवः क्रियतेऽपरः । भद्रिका नाम शाला स्यात् तदा द्विरदपुष्टिदा ॥ ८ ॥ पञ्चमी चतुरश्रा स्याद् वर्षणी नाम पूजिता । प्राग्ग्रीवालिन्दनिर्यूहहीना षष्ठी तथापरा ॥ ९ ॥ शाला प्रमारिका धान्यधनजीवितहारिणी । तदेतां वर्जयेत् कुर्यादन्याः सर्वार्थसिद्धये ॥ १० ॥ प्रमारिकेति प्रथिते³ह शाला सा प्राणसस्यद्रविणच्छिदे स्यात् । कुर्यादतस्तां न यथोदितास्तु कार्याः परा जीवितवित्तवृद्ध्यै ॥ ११ ॥ इति महाराजाधिराजश्रीभोजदेवविरचिते समराङ्गणसूत्रधारापरनाम्नि वास्तुशास्त्रे गजशाला नाम द्वात्रिंशोऽध्यायः । † इह सर्वत्र ‘प्रग्रीव’ इति पाठ्यं भाति । १ क. पु । २ क. क्षः । ३ द. ख. ॰ते ।

अश्वशाला नाम त्रयस्त्रिंशोऽध्यायः । १२७ अथाश्वशाला नाम त्रयस्त्रिंशोऽध्यायः । अथ लक्ष्माश्वशालायाः प्रोच्यते विस्तरादिह । स्ववेश्मवास्तोः कर्तव्यं पदे गन्धर्वसंज्ञके ॥ १ ॥ अथवा पुष्पदन्ताख्ये स्थानं वासाय वाजिनाम् । अरत्निशतमात्रं यज्ज्येष्ठं तत् परिकीर्तितम् ॥ २ ॥ अशीत्यरत्नकं मध्यं षष्ठ्यरत्न्यधमं भवेत् । स्थलप्रदेशे विपुले गुप्ते रम्ये शुचौ तथा ॥ ३ ॥ समे च चतुरश्रे च स्थिते(रे) मङ्गल्यमेव च । स्थानं हयानां कर्तव्यं प्रदेशे सुँपरिक्रमे ॥ ४ ॥ निम्नगुल्मद्रुमस्थाणुचैत्यायतनवेश्मभिः । वल्मीकशर्कराभिश्च वर्जिते तत् समाचरेत् ॥ ५ ॥ निःसङ्गे शल्यहीने च प्रागुदक्प्रवणे तथा । प्रदेशे तद् विधातव्यमालोक्य सुसमाहितैः ॥ ६ ॥ ब्राह्मणानुमते शस्ते दिने स्थपतिभिः सह । भूमेर्विभागमालोक्य सुँभगानानयेद् द्रुमान् ॥ ७ ॥ न जाता ये श्मशानेषु देवतायनेषु वा । अन्येष्वपि निषिद्धेषु जातान् वृक्षान् विवर्जयेत् ॥ ८ ॥ वृक्षान् प्रशस्तानानीय समीपे भर्तृवेश्मनः । ततो भूमिं परीक्षेत प्रशस्तामथ निन्दिताम् ॥ ९ ॥ चितायतनवल्मीकग्रामधान्यैखलेषु च । विहारेषु च कर्तव्यमश्वानां न निवेशनम् ॥ १० ॥ भवन्ति स्वामिनः पीडा ग्रामधान्यैखलेषु च । श्मशाने वेश्मकरणाँन्नराणां मृत्युमादिशेत् ॥ ११ ॥ १ द. ख. पठे । २ द. ख. ॰ज्ञि॰ । ३ द. षष्ठ्यारत्नाध॰ । ४ द. ख. स्व॰ । ५ द. ख. भिन्नकत्द्रु॰ । ६ क. स्त । ७ द. स्तुभागानामये दु॰; ख. स्तुभागानामयेन् द्रु॰; क. शुभानानीय सद्रु॰ । ८ द. स्तां चाथ; ख. स्तां वाथ । ९ द. ख. ॰नाख॰ । १० द. ख. ॰ने खले तथा; क. ॰नं॰ । ११ क. ॰णात् तुरगाणां ।

१९८ समराङ्गणसूत्रधारे स्थानं विह्वारवल्मीकविहितं स्यादनर्थकम् । तन्नित्यसन्तापकरं क्षयकृच्च तपस्विनाम् ॥ १२ ॥ देवोपघातजननं स्त्रीणां च क्षयकारकम् । विहितं पादपैश्चैत्यैर्गृहं स्याद् भूतभीतिदम् ॥ १३ ॥ भवेद् रोगकरं भर्तुर्विहितं कण्टकिद्रुमैः । दीर्णायामुन्नतायां³ च कृतं भूमौ क्षयावहम् ॥ १४ ॥ नतायां क्षुद्भयकरं कृतं भवति मँन्दिरम् । तस्मात् कार्यं प्रशस्तायां भूमौ तद् वाजिवृद्धये ॥ १५ ॥ मङ्गल्यरमणीये च चतुरश्रे मनोज्ञगे । शुभे च विहितं सद्म भवेत् कल्याणकारकम् ॥ १६ ॥ निर्गच्छतो यथा वामे पार्श्वे भर्तुस्तुरङ्गमाः । भवन्ति कुर्यात् स्थपनिस्तथा वाजिनिवेशनम् ॥ १७ ॥ अन्तःपुरप्रदेशस्य कार्यं दक्षिणतश्च तत् । प्रवेशे दक्षिणं तेषां हेषितं जायते यथा ॥ १८ ॥ तथा भर्तुर्हितार्थाय कर्तव्यं सद्म वाजिनाम् । प्रागुदग् वा मुखं तस्य विधातव्यं सतोरणम् ॥ १९ ॥ प्राग्ग्रीवकेण संयुक्तं चतुःशालमसङ्कटम् । दशारत्निसमुच्छ्रायमंष्टारत्निप्रविस्तृतम् ॥ २० ॥ नागदन्तकसंशोभि पुरः कुड्यार्धसंयुतम् । पृष्ठे समग्रकुड्यं वा तत्र स्थानानि कल्पयेत् ॥ २१ ॥ तानि तु प्राङ्मुखानि स्युस्तथैवोदङ्मुखानि चै । आयामे किष्कुमात्राणि त्रिकिष्कूणि च विस्तरात् ॥ २२ ॥ प्रांशुन्नतोर्ध्वभागानि चतुरश्राणि कारयेत् । अग्रोच्चां सुखसञ्चारां तेषु भूमिं प्रकल्पयेत् ॥ २३ ॥ १ द. ख. शत्रुविं । २ द. ख. क. ष्ट्रकं । ३ द. ख. ॰तानां । ४ द. ख. ॰ति विमं । ५ द. ख. ॰इमं । ६ द. ख. अतः । ७ क. ॰वै । ८ द. ख. ॰दे । ९ क. सुं । १० द. ख. ॰मष्टौदश च विं । ११ द. ख. प्राङ्मुखानि च ।

अश्वशाला नाम त्रयस्त्रिंशोऽध्यायः । १९९ स्थानं मूत्रस्य मध्ये तु हस्तमात्रं समन्ततः । आस्तीर्णं च समश्लक्ष्णनीरन्ध्रैः १ फलकैर्दृढैः ॥ २४ ॥ धातक्यर्जुनपुन्नागककुभादिविनिर्मितैः । अष्टाङ्गुलसमुच्छ्रायैरध्यर्धारत्निविस्तृतैः २ ॥ २५ ॥ अच्छिद्रैः ३ संहनैर्बद्धैरयसा पार्श्वयोर्द्वयोः । अजन्तुसङ्कुलैः काष्ठै रुचकाभि(?)र्भिषङ्मनैः ॥ २६ ॥ यवसस्य ४ भवेत् ५ स्थानं निर्यूहैः ६ स्वास्तृतं शुभैः ७ । किष्कुत्रयोच्छ्रितं तत् स्यादेकान्ते सुसमाहितम् ॥ २७ ॥ हस्तद्वयप्रमाणं च कुर्यात् खादनकोष्ठकम् । सूपलिप्तमदुर्गन्धि विस्तारोच्छ्राययोः समम् ॥ २८ ॥ स्थाने स्थाने त्रयः ८ कीलाः सुदृढाः कपिशीर्षकाः । पश्चाङ्गिनिग्रहार्थं तौ पुरतः ९ कल्पयेदुभौ ॥ २९ ॥ पश्चाद् बन्धार्थमेकं च सुगुप्तं परिकल्पयेत् । चतुर्हस्तायतं त्यक्त्वा शालाकोणचतुष्टयम् ॥ ३० ॥ स्थानेष्वेतेषु तुरगान् सर्वेष्वपि निवेशयेत् । तत्र कुर्याद् बलिं होमं स्वस्तिवाचनकं जपम् ॥ ३१ ॥ ग्रीष्मे कार्यं सुसंमृष्टं सिक्तं तत्र महीतलम् । वर्षास्वनम्बुपङ्कं च शिशिरे संवृतं शुभम् ॥ ३२ ॥ तिष्ठेयुस्तत्र तुरगा नानिसङ्कीर्णशङ्किनः । अस्पृशन्तो मिथः कार्याः सर्वबाधाविवर्जिताः ॥ ३३ ॥ स्थानं दक्षिणपूर्वस्यां दिशि वह्नेः प्रकल्पयेत् । निदध्यादुदकुम्भं च किंचिदैन्द्रीसमाश्रितम् ॥ ३४ ॥ १ द. ख. ॰रन्ध्रैः । २ द. ख. ॰विस्तरैः । ३ द. ख. सहितै॰ । ४ क. ॰जं॰ । ५ द. ख. ॰र्नि॰ । ६ द. ख. यवस्य । ७ द. ख. भर्तु । ८ द. ख. ॰हे । ९ द. ख. ॰चिः । १० द. ख. ॰र्यात् वा॰; क. ॰र्याच्छा॰ । ११ द. ख. थ्रं॰ । १२ द. ख. युवतः ।

२०० समराङ्गणसूत्रधारे ब्राह्म्यां दिशि प्रकर्तव्यं¹ स्थानकं यवसस्य च । वायव्यां तु प्रकर्तव्यं² स्थानमौदूखलं दिशि ॥ ३५ ॥ निःश्रेणयः कुशाः कूपाः कार्याश्च फलकावृताः । कुद्दालोद्दालगुडकाः शुक्तयोगाः³ खुरैस्तथा⁴ ॥ ३६ ॥ कचग्रहण्यः शृङ्गं च तथा परशवोऽपि च । नार्याः( ? )⁵ प्रदीपांश्च भवन्त्यश्वागारोपयोगिनः ॥ ३७ ॥ सङ्ग्रहः सुखसञ्चारवस्तूनां नैर्ऋते भवेत् । अग्न्युपद्रवरक्षार्थं⁶ बन्धच्छेदोपयोगिनः ॥ ३८ ॥ पदार्थांन् सन्निधौ कुर्याज्ज्वलद्दीपादिकान् बुधः । भाण्डानि कुर्याच्च पृथग् जन्द्रा(लो)पनयनेच्छया ॥ ३९ ॥ हस्तवासीं शिलां दीपं दवीं फालमुपानहौ । पिटंकानि¹⁰ विचित्राणि वस्तीन् नानाविधानपि ॥ ४० ॥ एवंविधानि चान्यानि संनिदध्यात् प्रयत्नतः । पुरःस्तम्भाश्रितं¹¹ भाण्डं सन्नाहादेर्विधीयते ॥ ४१ ॥ प्राङ्मुखे तुरगं गेहे वारुण्यां स्थापयेद् दिशि । पूर्वामुखे पदे वापि मित्रस्य वरुणस्य च ॥ ४२ ॥ भवन्ति तेन बहवः पुष्टिं च प्राप्नुवन्ति ते । सा हि दिक् पूजनीया च स्तोतव्या¹³ च प्रकीर्तिता¹² ॥ ४३ ॥ होमशान्तिकदानेषु धर्म्या याश्च पराः क्रियाः । तासु प्रशस्यते पूर्वा शक्रेणाधिष्ठिता स्वयम् ॥ ४४ ॥ तस्यामुदेति दिनकृदनुलोमं ततः पुनः । अश्वानां पृष्ठतो याति स प्रतीचीमनुक्रमात् ॥ ४५ ॥ स्नानाधिवासने पूजा माङ्गल्यानि¹⁵ पराणि च । प्राङ्मुखानां तुरङ्गाणां कर्तव्यानि शुभार्थिभिः ॥ ४६ ॥ १ द. ख. विज्ञातव्य । २ द. ख. न कर्तं । ३ क. खं । ४ द. ख. ०सतो० । ५ क. ०द्याप्र० । ६ क. ०व० । ७ द. ख. ०क्षार्था रंध० । ८ द. ख. क. ०ज्ज्व० । ९ द. ख. ०ग्लेन्द्रा- यन० । १० क. वि० । ११ द. ख. व्यास्तत्प्र० । १२ द. ख. क. ०ताः । १३ क. षु । १४ द. ख. ०नं० । १५ द. ख. ०न्य० ।

अश्वशाला नाम त्रयस्त्रिंशोऽध्यायः । २०१ एवं कृते भूमिबलमित्राणां यशसोऽपि च । वृद्धिर्भवति भूपस्य तस्मात्¹ प्राची प्रशस्यते ॥ ४७ ॥ भर्तृवृद्धिप्रदं स्थानमग्र्यग्रासस्य तद् भवेत् । दक्षिणाभिमुखायां तु शालायां वाञ्छितार्थदम् ॥ ४८ ॥ स्थानं भवति वाहनां पदे² कॢप्तं विभावसोः । वह्निनाध्यासिता सा दिग्³ आत्मा वह्निश्च वाजिनाम् ॥ ४९ ॥ अजरो बहुभोक्ता च तत्र बद्धो भवेद्धयः । उदङ्मुखेऽपि भवने प्राप्नुवन्ति शुभं हयाः ॥ ५० ॥ तथास्थितानामश्वानां दक्षिणेन दिवाकरः । उदेत्यनन्तरं याति तान् ⁴विधाय प्रदक्षिणम् ॥ ५१ ॥ प्रयाति वामँतोऽश्वं च (श्वानां) स्थाप्यास्तेनोत्तरामुखाः । चन्द्रार्कौ प्रतिहर्ष (हेष)न्ते तथा बध्नीत⁶ वाजिनः ॥ ५२ ॥ नृपतिश्च जयं सिद्धिं पुत्रानायुश्च विन्दति । ⁷अरोगाश्च भवन्त्यश्वा वर्धयन्ति च सन्ततिम् ॥ ५३ ॥ दक्षिणाभिमुखान् कुर्यान्न सन्नाह्यान् न चाग्रगान् । पितृकार्यादृतेऽन्यत्र दक्षिणा वर्जितैव दिक् ॥ ५४ ॥ अस्यामेव दिशि प्रेता यतः सर्वे प्रतिष्ठिताः । उदेति वामतो याति चास्तं दक्षिणतो रविः ॥ ५५ ॥ सोमश्च पृष्ठे भवति तेनाश्वा दैवपीडिताः । ग्रहैर्विकारैर्विविधैः पीड्यन्तेऽरातिविह्वलाः ॥ ५६ ॥ भयेन व्याधिभिश्चार्ता ग्रासं नेच्छन्ति खादितुम् । पराजयमपुष्टिं च स्वामिनोऽनर्थसङ्गतिम् ॥ ५७ ॥ कुर्वन्त्यतो न बध्नीयात् कथञ्चिद् दक्षिणामुखान् । पश्चिमाभिमुखानां चं⁹ बद्धानां वाजिनां सदा ॥ ५८ ॥ १ द. ख. तस्य । २ क. म्ययोगस्य । ३ द. ख. दिगात्मवह्निस्तु ; क. गर्दीप्तो वह्निस्तु वा । ४ द. ख. निं । ५ द. ख. ॰तोवस्थां । ६ द. ख. बद्धामन । ७ द. आरोगाश्रा ; क. आरोग्याश्च । ८ द. ख. ॰खं । ९ क. ॰प्यं । १० द. ख. तु । वा. २६

२०२ समराङ्गणसूत्रधारे उदेति पृष्ठतो भानुः पुरतोऽस्तं प्रयाति च । न भवेद् विजयस्तेन भर्तुस्तत्पृष्ठवर्तिनः ॥ ५९ ॥ शक्रस्य पृष्ठवर्तित्वात् प्रातिलोम्याच्च भास्वतः । कुप्यन्ति व्याधयस्तेषां तूर्णं देहविनाशनाः ॥ ६० ॥ तैस्ते ध्यायन्ति वेपन्ते जले त्रासं प्रयान्ति च । यवसं नाभिनन्दन्ति क्षमां मुञ्चन्ति सर्वथा ॥ ६१ ॥ दिशांऽभिमुखमाग्रेय्या बध्यन्ते यदि वाजिनः । व्यथन्ते¹ रक्तपित्तोत्थैस्तदा रोगैरनेकधा ॥ ६२ ॥ जायन्ते स्वामिनो बन्धवधहृच्छोषदायिनः । वाजिनां च भवेत् तत्र वह्निदाहकृतं भयम् ॥ ६३ ॥ भर्तुः पराजयो विघ्नैः स्याच्च देहस्य संशयः । नैरृत्याः ककुभो वाहा बध्यन्ते संमुखं यदि ॥ ६४ ॥ तदा न तेऽभिनन्दन्ति खादनं पानभोजने । यथा यथा क्षितिं पादैर्दारयन्ति पुनः पुनः ॥ ६५ ॥ हेषन्ते वीक्ष्य बहुशो मनुष्यान् पक्षिणः पशून् । भ्रमयन्ति च गात्राणि नैरृतीं चाभितः स्थिताः ॥ ६६ ॥ तथा तथैषां कुपिता नाशं कुर्वन्ति राक्षसाः । बध्यन्ते यदि वाज्ञानाद् वायव्याभिमुखं हयाः ॥ ६७ ॥ तदा ते वांतिकै रोगैः पीड्यन्ते प्रतिवासरम् । चलः कायो भवेद् भर्तुः क्लेशश्चाश्वोपजीविनाम् ॥ ६८ ॥ नराणां च भवेन्मृत्युर्दुर्भिक्षप्रभवं भयम् । ऐशान्यभिमुखं बद्धाः प्रणश्यन्ति तुरङ्गमाः ॥ ६९ ॥ सूर्योदयस्याभिमुखं बद्धानां चेदमादिशेत् । निबध्यन्ते यदा वाहा ब्राह्मीं दिशमुपाश्रिताः ॥ ७० ॥ १ द. ख. ताप्यन्ते । २ द. य. °र्क° । ३ द. ख. °घ्नै । ४ द. ख. °नि° । ५ द. ख. °न्तः । ६ द. ख. °तीमभितः ° । ७ द. ख. °चि° ।

अश्वशाला नाम त्रयस्त्रिंशोऽध्यायः । २०१ बध्यन्ते ते ग्रहैर्दिव्यैर्व्याधिभिश्च विचिन्तनाः । कव्यहव्यक्रियास्तत्र भर्तुर्न विजयावहाः ॥ ७१ ॥ द्विजानामुपतापाया जायन्ते तत्र वाजिनः । अनुवंशं च शालायां स्थानमश्वस्य नेष्यते ॥ ७२ ॥ स्वामिनस्तदजीर्णाय स्यान्नाशाय च वाजिनाम् । स्थाने प्रशस्ते तुरगान् सर्वथा वासयेदतः ॥ ७३ ॥ न च धार्याः क्षणमपि रोगिणः कल्यैस्सन्निधौ । कल्यानामपि रोगाः स्युर्यतो रोगिसमाश्रयात् ॥ ७४ ॥ ह्यागारस्य पूर्वेण कार्यं भेषजंमन्दिरम् । तस्यैव वामतः सर्वसंभारान् परिकल्पयेत् ॥ ७५ ॥ वाजिनां भेषजार्थाय भाण्डानि च विनिक्षिपेत् । अगदानोषधीः स्नेहान् वर्तीश्च लवणानि च ॥ ७६ ॥ भेषजागारसविधे कुर्याच्चारिष्टमन्दिरम् । भवनं व्याधितानां च कार्यं वासाय वाजिनाम् ॥ ७७ ॥ सुगुप्तं तच्च कर्तव्यं पूर्वनिर्दिष्टवेश्मवत् । संबद्धं च विधातव्यमेतद् वेश्मचतुष्टयम् ॥ ७८ ॥ सुधाबन्धदृढैः कुड्यैः सप्रांग्रीवोक्ततोरणम् । चत्वार्यपि विशालानि सुगमानि च कारयेत् वेश्मस्वेवंविधेष्वश्वान् स्थापितान् परिपालयेत् ॥ ७९ ॥ इति महाराजाधिराजश्रीभोजदेवविरचिते समराङ्गणसूत्रधारापरनाम्नि वास्तुशास्त्रे अश्वशाला नाम त्रयस्त्रिंशोऽध्यायः ॥ १ क. ॰नां । २ द. ख. ॰ल्यं । ३ द. ख. ॰ल्यां । ४ द. ख. ग. ॰गे॰ । ५ द. ख. तेयज । ६ द. ख. ॰ग्यान । ७ द. ख. ग. ॰नि । ८ द. ख. ॰ह्रौँ । ९ द. ख. ॰त्तां ।

२०४ समराङ्गणसूत्रधारे अथाप्रयोज्यप्रयोज्यं नाम चतुस्त्रिंशोऽध्यायः । राज्ञां सेनापतीनां च वर्णिनामपि वेश्मसु । यदि वा वास्तुकक्षासु सभादेवकुलेषु च ॥ १ ॥ शयनासनयानेषु भाजनाभरणेषु च । छत्रध्वजपताकासु सर्वोपकरणेषु च ॥ २ ॥ अप्रयोज्यानि यानि स्युः प्रयोक्तव्यानि यानि च । विस्तरात् तानि कथ्यन्ते हितार्थमथ देहिनाम् ॥ ३ ॥ पूर्वोक्तानां नृपादीनां यानि वेश्मसु केवलम् । अप्रयोज्यानि तान्येव पूर्वमत्रामिदध्महे ॥ ४ ॥ तेषु नैवं प्रयोक्तव्याः समस्ता अपि देवताः । दैत्या ग्रहास्तथा तारा यक्षगन्धर्वराक्षसाः ॥ ५ ॥ पिशाचाः पितरः प्रेताः सिद्धविद्याधरोरगाः । चारणा भूतसङ्घाश्च तेषां योषाः सुतास्तथा ॥ ६ ॥ प्रतीहाराः प्रतीहार्यस्तेषामधिकृताश्च ये । आयुधानि तदीयानि सर्वे चाप्सरसां गणाँः ॥ ७ ॥ दीक्षितव्रतिंपाषण्डिनास्तिकाः क्षुत्प्रपीडिताः । व्याधिबन्धनशस्त्राग्नितैलासृक्पङ्कपांसुभिः ॥ ८ ॥ शूलज्वरादिभिश्चार्ता येऽन्येऽप्येवंविधा नराः । मत्तोन्मत्तजडक्लीबनग्नान्धबधिरादयः ॥ ९ ॥ दोलाक्रीडाश्च नेष्यन्ते ग्रहणानि च दन्तिनाम् । देवासुराद्याः सङ्ग्रामा विग्रहाश्च महीक्षिताम् ॥ १० ॥ प्राणियुद्धविमर्दाश्च मृगया च न शस्यते । रौद्रैदीनाद्भुतत्रासबीभत्सकरुणा रसाः ॥ ११ ॥ १ द. ख. ग. बाह्यक° । २ द. ख. तेनैव प्र° । ३ द. ख. गतः । ४ द. ख. क. °व्रतपा° । ५ द. ख. लोद्रा° ।

न प्राणिषु प्रयोक्तव्या हास्यशृङ्गारवर्जिताः । हस्त्यश्वरथयानानि विमानायतनानि च ॥ १२ ॥ चण्डानलप्रदीप्तानि भवनानि वनानि च । वृक्षाः पुष्पफलैर्हीना विहङ्गावासदूषिताः ॥ १३ ॥ एकद्विशाखा रूक्षाश्च भग्नाः शुष्काः सकोटराः । कदम्बशाल्मलीशेलुतारैक्षारलुकादयः(?) ॥ १४ ॥ भूतालयात्वान्नेष्यन्ते² कटुकण्टकिनश्च ये । गृध्रोलूका विहङ्गेषु कपोतश्येनवायसाः ॥ १५ ॥ कङ्क³श्चेति न शस्यन्ते खगा रात्रिचराश्च ये । गजाश्वमहिषाश्चोष्ट्रा मार्जारखरवानराः ॥ १६ ॥ सिंहो व्याघ्रस्तरक्षुश्च वराहमृगजम्बुकाः । तथा वनचरा ये च क्रव्यादा मृगपक्षिणः ॥ १७ ॥ गृहेष्वेते न कर्तव्याः शैलाटव्याश्रिताश्च ये । अमीषां करणाद्धैर्याचार्यो विप्रमुच्यते ॥ १८ ॥ व्याधिं घोरमवाप्नोति व्यसनं बन्धमेव च । यत्र तत्र गृहस्वामी धनहानिं पराजयम् ॥ १९ ॥ प्रवासं बन्धनं नाशं मृत्युं वा क्षिप्रमाप्नुयात् । इत्युक्तान्यप्रशस्तानि गृहेषु गृहमेधिनाम् ॥ २० ॥ तत्र यानि प्रयोज्यानि कथ्यन्ते तान्यतः परम् । यस्य यत्र भवेद् भक्तिर्या चास्य कुलदेवता ॥ २१ ॥ हस्तक्लृप्तप्रमाणेन तान् कुर्वन् स्यान्न दोषभाक् । तद्द्वारपार्श्वयोः कार्यौ प्रतीहारौ स्वलङ्कृतौ ॥ २२ ॥ वेत्रदण्डव्यग्रकरौ खड्गकोशपरिच्छदौ । रूपयौवनसम्पन्नौ विचित्राम्बरभूषणौ ॥ २३ ॥


१ क. ˚रा˚ । २ द. ख. ˚नेध्यंति । ३ क. ˚श्येना न˚ । ४ द. ख. ˚न्थि˚ । ५ द. ख. ग. ˚भवम् । ६ द. ख. ˚मवाप्नु˚ । ७ द. ख. ˚क्तानां˚ ।

२०१ समराङ्गणसूत्रधारे धात्री वामनिका कुब्जा सखीभिः परिवारिता । विदूषकैः कञ्चुकिभिस्तुल्यैरनुगतास्तथा ॥ २४ ॥ द्वारस्योभयतः कार्याः प्रतीहार्यो मनोरमाः । निधयश्चानुरूपाश्च शङ्खाब्जोज्ज्वललक्षणाः ॥ २५ ॥ रत्नदीनारराशींश्च वहन्तो वदनोद्गतान् । पद्मस्था(ः) पूर्णकुम्भा वा रत्नवस्त्रविभूषिता(ः) ॥ २६ ॥ वक्त्रै१रूर्ध्वस्थितैः पुष्पफलपल्लवसम्भृतैः । पूर्णकुम्भाङ्कुशच्छत्रश्रीवृक्षादर्शचामरैः ॥ २७ ॥ कार्याष्टमङ्गला द्वारे२ दोर्भिश्च शङ्खमत्स्ययोः । द्वारमण्डलमध्यस्था स्नाप्यमाना गजोत्तमैः ॥ २८ ॥ पद्मासना पद्महस्तौ श्रीश्च कार्या स्वलङ्कृता । वृषः सवत्सा धेनुर्वा सचछत्रस्रग्विभूषणा ॥ २९ ॥ फलभक्तैर्बहुविधैराहारार्थं निवेदितैः६ । नानापुष्पफलैर्नम्रैः शालैस्तिर्यगवस्थितैः ॥ ३० ॥ चित्रा पत्रलता लेख्या बाह्याभ्यन्तरभित्तिषु । हंसकारण्डचक्राद्वैर्बिसिनीपत्रवर्तिभिः ॥ ३१ ॥ कुमारकैश्च क्रीडद्भियुक्ता ललितबाहुभिः । वासधाम्नि निवेश्यन्ते विचित्राभरणाम्बराः ॥ ३२ ॥ रतिक्रीडापरा नार्यो नायकस्तु यदृच्छया । आपाण्डुदेहच्छवयः स्वल्पचारुविभूषणाः ॥ ३३ ॥ किञ्चित्प्रतनुभिर्गात्रैः कार्याः सुरतलालसाः । प्रवृद्धशाखाविटपैः प्रचलारुणपल्लवैः ॥ ३४ ॥ चम्पकाशोकपुन्नागनाना१०ग्रैस्तिलकादिभिः । छायापुष्पफलोपेतैः वृक्षैरन्यैश्च भूषिताः ॥ ३५ ॥

१ द. ख. वक्त्रैं । २ द. ख. ग. ०द्वारेर्दो० । ३ क. वसुभिः । ४ क. ०स्था० । ५ द. ख. ०सनस्था पद्मस्था० । ६ द. ख. ०तं । ७ द. ख. ०लेतिर्यगवस्थिता । ८ द. ख. पल्लवता । ९ द. ख. ०सकादम्बच० । १० द. ख. ०नागाग्रं ।

अप्रयोज्यप्रयोज्यं नाम चतुस्त्रिंशोऽध्यायः । २०७ उद्यानभूमयः कार्याः कूजत्पिकमधुव्रताः । ऋतवः फलपुष्पाद्यैः स्वैः स्वैश्चिह्नैरलङ्कृताः ॥ ३६ ॥ मनोरमैर्विशेषैश्च खगैश्च समयोचितैः । कादम्बकुररक्रौञ्चहंससारसमेखलाः ॥ ३७ ॥ १तीरान्तोद्गतवानीरकेतकीषण्डमण्डिताः । जलान्तलीनमत्स्यैश्च सञ्छन्ना नलिनीवनैः ॥ ३८ ॥ लेख्याश्च गृहभित्तीनामधोभागेषु दीर्घिकाः । २फलैः समं ३संभक्षेक्षुमणिकाञ्चनभाजनाः ॥ ३९ ॥ विन्यस्तपद्मिनीपत्राः सोत्पलाः पानभूमयः । विचित्रानोद्यहस्ताश्च नृत्यगीतविचक्षणाः ॥ ४० ॥ मुदिता ललना लेख्याः प्रेक्षासङ्गीतभूमिषु । प्रकल्प्याः पञ्जरस्थाश्च चकोरशुकसारिकाः ॥ ४१ ॥ प्रहृष्टाः परपुष्टाश्च मयूराश्च सकुकूँटाः । इति यानि प्रदिष्टानि प्रयोक्तव्यानि वेश्मनि ॥ ४२ ॥ तानि सर्वाणि शस्तानि सर्वोपकरणेष्वपि । देवयोनिगणास्तद्वत् पुरुषाश्च विनिन्दिताः ॥ ४३ ॥ साक्रन्दाश्च न शस्यन्ते पीठशय्यासनादिषु । पुरस्तात् कीर्तितान्यत्र प्रयोक्तव्यानि यानि च ॥ ४४ ॥ तानि शस्तानि कक्षासु सभादेवकुलेषु च । दिव्यमानुषसम्बद्धान्याख्यानाख्यायिकादिषु ॥ ४५ ॥ प्रोक्तानि तानि तावन्ति शुभान्यालेख्यकादिषु । इति कथितमयोज्यं योजनीयं च बुद्ध्या भवनशयनकक्षादेवधिष्ण्यादिकेषु । विरचयति यथोक्तं निन्दितं वर्जयेद् यः १ क. नीं । २ क. तं । ३ ख. ग. सुं । ४ क. ०पुं० । ५ ख. ग. ०र्कु० । ६ द. ख. ग. ०न्धानाख्या० । ७ द. ख. न्धुध्वा ।

२०८ समराङ्गणसूत्रधारे । स भवति नृपतीनां शिल्पिनां चार्चनीयैः ॥ ४६ ॥ इति महाराजाधिराजश्रीभोजदेवविरचिते समराङ्गणसूत्रधारापरनाम्नि वास्तुशास्त्रे अप्रयोज्यप्रयोज्यं नाम चतुस्त्रिंशोऽध्यायः ॥ अथ शिलान्यासविधिर्नाम पञ्चत्रिंशोऽध्यायः । अथ ब्रूमः शिलान्यासविधिमत्र यथागमम् । तत्रोदगयने पुण्ये शुक्लपक्षे शुभेऽहनि ॥ १ ॥ स्थिरग्रहस्य दिवसे करणे च गुणान्विते । तिष्येऽश्विनीषु रोहिण्यामुत्तरेष्वपि च त्रिषु ॥ २ ॥ रेवत्यां श्रवणे हस्ते शिलाविन्यासमाचरेत् । स्थिरस्य राशेरुदये सौम्यमित्रावलोकिते ॥ ३ ॥ सम्यङ्निमित्तशकुनस्वस्तिपुण्याहवाचिते । हर्षोदये च मनसः कुर्याद् वास्तोर्निवेशनम् ॥ ४ ॥ भद्रः प्रकृत्या शास्त्रज्ञः शुचिः स्नातः समाहितः । कर्मारभेत स्थपतिः कृतदेवार्चनक्रियः ॥ ५ ॥ पूर्णां समामविकलां चतुरश्रामनिन्दिताम् । शिलामाद्यां चये साध्वीं परीक्षेत विचक्षणः ॥ ६ ॥ कुम्भाङ्कुशध्वजच्छत्रमत्स्यचामरतोरणैः । दूर्वानागफलोष्णीषपुष्पस्वस्तिकवेदिभिः ॥ ७ ॥ नन्द्यावर्तैः सचमरैः कूर्मपद्मनिशाकरैः । वज्रैः प्रशस्तैः प्राकारैर्भूषिताः कर्मणो हिताः ॥ ८ ॥ दीर्घा ह्रस्वाल्पविषमाङ्गाऽभाध्मातापरीक्षिता । दिङ्मूढा चाङ्गहीना च सास्थ्यङ्गारा सशर्करा ॥ ९ ॥ १ द. ख. चार्चनीयाः । २ द. ख. ॰स्रामलंकृताम् । ३ द. ख. ॰क्ष्ये॰ । ४ द. ख. पूर्वभाग॰ । ५ द. ख. ॰द्भि॰ । ६ क. ॰स्थापनाध्मा॰ ; ग. ॰छालाध्मा॰ । ७ द. ख. ग. ॰ताः । ८ क. ॰राः ।

शिलान्यासविधिर्नाम पञ्चत्रिंशोऽध्यायः । २०९ खण्डा दुःपंकनिर्भिन्ना कृष्णा दोषभयावहा॑ । नृणां पशुतुरङ्गाणां पदाङ्काः स्वस्तिवृद्धये ॥ १० ॥ क्रव्यान्मृगविहङ्गानां पादैः स्पृष्टास्तु वर्जयेत् । नन्दाभद्राजयापूर्णाश्चतस्रः स्युरिमाः शिलाः ॥ ११ ॥ वासिष्ठी काश्यपी तद्वद् भार्गव्याङ्गिरसीति ताः । तन्न प्रागुत्तरे देशे संनिवेशस्य वास्तुनः ॥ १२ ॥ नैर्ऋत्यां वा सकुसुमां समां गोचर्मसम्मितम् । वेदीं सगन्धकलशां चतुरश्रां प्रकल्पयेत् ॥ १३ ॥ आग्नेयामादितो नन्दां स्थापयेत् क्रमशः शिलाम् । अकालमूलैर्व्यङ्गैः सपद्मोत्पलपल्लवैः ॥ १४ ॥ सर्वोषधिहिरण्याद्यैर्हैमराजतमृन्मयैः । कुम्भैस्ताम्रमयैश्चापि मन्त्रैस्तामभिषेचयेत् ॥ १५ ॥ तीर्थप्रस्रवणाम्भोभिः सरत्नाक्षतपङ्कजैः । सुगन्धिभिः सैपुण्याहमभिषेकं प्रयोजयेत् ॥ १६ ॥ जाह्नवीयमुनारेवासरस्वत्यादिसम्भवैः(वम्) । महानदीजलं शस्तं शुभतीर्थभवं तथा ॥ १७ ॥ तथाद्रिवनवेशन्तदेवायतनजानि च । अभिषेकार्थमम्भांसि यथालाभमुपाहरेत् ॥ १८ ॥ मन्त्रेणानेन चैतासामभिषेकं समाचरेत् । हिरण्यवर्णाः पावैन्यः शुचयो दुरितच्छिदः ॥ १९ ॥ पुनन्तु शान्ताःश्रीमत्य आपो युष्मान्मधुश्च्युतः । मन्त्रपूतेन पयसा स्नापयित्वा ततः शिलाम् ॥ २० ॥ स्थपतिर्गन्धकल्केन मङ्गल्येनानुलेपयेत् । हिमचन्दनपूर्णेन व्यवकीर्य सुगन्धिना ॥ २१ ॥

१ क. ॰क्षपनि॑॰; ग. ॰पक्षनि॑॰ । २ द. ख. ॰हाः । ३ ग. सु॑॰ । ४ क. ॰वमान्यः॑॰ । ५ ख. ग. ॰चन्द्रेण पू॑॰ । वा. २७

तरसा छादयेदेनां सलजैः पुष्पदामभिः । धूपमाल्योपहारैश्च दधिमांसाक्षतादिभिः ॥ २२ ॥ पूजयेदिष्टकां देवीं वस्त्रयुग्मैश्च पुष्कलैः । निवेशनान्ते नैर्ऋत्यां तदा विप्रानवस्थितान् ॥ २३ ॥ समसङ्ख्याञ् शुचीन् प्राज्ञानर्चयेद् दक्षिणाफलैः । ओङ्कारस्वस्तिपुण्याहगीतवादित्रनिस्वनैः ॥ २४ ॥ कर्ता जनितरोमाञ्चस्तेभ्यः कुर्यान्नमस्क्रियाम् । निवेद्य वास्तोष्पतये भूतेभ्यश्च ततो बलिम् ॥ २५ ॥ तासां चतसृणामन्याः कुर्यादुपशिलाः पृथक् । प्राकारैः¹ स्वस्तिकाङ्के द्वे तथा² श्रीवत्सलक्षणा³ ॥ २६ ॥ नन्द्यावर्तस्तु पूर्णायां भवेदेको (दङ्को) यथाक्रमम् । कर्णे प्राग्दक्षिणे नन्दां वास्तुनः स्थापयेदधः⁴ ॥ २७ ॥ अन्याः क्रमेण भद्राद्याः कोणेष्वन्येषु च त्रिषु । प्रतिष्ठापनमन्त्राश्च तासां चतसृणामपि ॥ २८ ॥ चत्वार ऋषिभिर्गीतः शाश्वतारम्भदर्शनाः । वीर्येणादिवराहस्य वेदायैस्त्वभिमन्त्रिताः (ताम्) ॥ २९ ॥ वसिष्ठनन्दिनीं नन्दां प्राक् प्रतिष्ठापयाम्यहम् । सुमुहूर्ते सुदिवसे सा त्वं नन्दे ! निवेशिता ॥ ३० ॥ आयुः कारयितुर्दीर्घं श्रियं चाव्यामिहावह । भद्रासि सर्वतोभद्रा भद्रे ! भद्रं विधीयताम्⁵ ॥ ३१ ॥ कश्यपस्य⁶ प्रियस्रुते⁷ ! श्रीरस्तु गृहमेधिनः । जये ! विजयतां स्वामी गृहस्यास्य महात्मनः ॥ ३२ ॥ आचन्द्रार्कं यशश्चास्य भूम्यामिह विरोहतु । त्वयि सम्पूर्णचन्द्राभे ! न्यस्तायां⁸ वास्तुनस्तले ॥ ३३ ॥


१ क. 'रं'। २ ग. 'रं च स्वं' । ३ ग. ज्ञेया श्री° । ४ ग. 'थ । ५ द. ख. °ते । ६ द. ख. कां । ७ द. ख. °ते । ८ क. °स्यां ।

शिलान्यासविधिर्नाम पञ्चत्रिंशोऽध्यायः । २११ भवत्येष गृहस्वामी पूर्णे ! पूर्णमनोरथः । इति¹ मूलर्चयो²(यं) मन्त्रैः कुर्यात् स्वस्तिकवाचनैः ॥ ३४ ॥ ताभिर्हिरण्यवर्णाभिः³ शिलाभिः सममद्भुतम् । प्रागुदक्प्लवना धन्या न प्रत्यग्दक्षिणाप्लवा ॥ ३५ ॥ इष्टकाश्चैत्यभवनप्राकारपुरकर्मसु । विताने⁴ चितिविन्यासे चतुर्मुखनिकेतने⁵ ॥ ३६ ॥ पुरोर्धाः⁶ शान्तिवेदीषु प्रतिमास्थापनेषु च । याज्ञिकेन विधानेन क्रमशः स्थापयेच्छिलाः ॥ ३७ ॥ † त्रैशौकौर्णार्स⁷भासै(र्ग्यै) स्ताः सामभिः सं⁸ महाव्रतैः । गायत्र्युष्णिगनुष्टुब्भिर्बृहत्या च यथाक्रमम् ॥ ३८ ॥ चयान् समस्तांश्चिनुयाच्चतुरो विरमेत ततः । ज्ञात्वा भित्तिप्रमाणं च चितेश्चयचतुष्टयम् ॥ ३९ ॥ समाप्यमादिकर्मैवं कनिष्ठं च यथोत्तरम् । प्रतिष्ठितास्ताः प्रथमं भूतले सुस्थिताः समाः ॥ ४० ॥ नं⁹ चालयेच्चालने स्याद्¹⁰ गृहभर्तुर्महद् भयम् । कम्पने च ¹¹भयं विद्यादेतासां स्थिरतां पुनः ॥ ४१ ॥ स्थपतेर्गृहभर्तुश्च मङ्गलं परमं विदुः । प्राग्दक्षिणायां¹² चलने गृह¹³भर्तुर्महद् भयम् ॥ ४२ ॥ भार्याविनाशो नैरृत्यां सूर्ये¹⁴यं¹⁵(?) भीतिर्मरुद्दिशि । गुरोश्च भयमैशान्य/मपच¹⁶रेऽपि तद् भवेत् ॥ ४३ ॥ प्रथमं स्थापितेनै(ताने)वं स्तम्भानपि न चालयेत् । नोद्धरेत प्रणद्याच्च विधिश्चुल्यो यतोऽनयोः¹⁷ ॥ ४४ ॥ † 'त्रैश्वो इति मातृकासु दृश्यते । १ क. ˚मं । २ द. ख. ग. ˚भ˚। ३ क. ˚भिः सशिलाभिः समं वृतम् । ४ द विभागे । ५ क. ˚के । ६ द. ˚ध शा˚। ७ द. ख. ˚लो˚। ८ द. ख. ग. ˚सु˚। ९ क. स्स । १० द. ख. भवालये चालमे स्या˚। ११ द. ख. सहां । १२ द. ख. णायाश्चालने; क. णयोश्चालने । १३ द. ख. गृहिन्स्यान˚। १४ क. ˚न्यां । १५ द. ख. ˚रो˚। १६ द. ख. ˚तु˚। १७ द. ख. थोतयोः ।

२१२ समराङ्गणसूत्रधारे विन्यासं प्रथमं तस्मात् कुर्यात् सम्यक् समाहितः । शिलानां स्थपतिस्तद्वत् स्तम्भानामपि सर्वथा ॥ ४५ ॥ द्वारप्राकारशालानां नगराणां च वेश्मनाम् । १तत्प्रमाणो ३विधिर्यस्मात् २तस्मात् तन्नाहतो भवेत् ॥ ४६ ॥ एवं शिलान्यासविधानमेतद् यथावदस्माभिरिहोपदिष्टम् । अस्मिन् कृते वेश्मसुरालयो५दि निष्पत्तिमभ्येति विनैव विघ्नम् ॥ इति महाराजाधिराजश्रीभोजदेवविरचिते समराङ्गणसूत्रधारापरनाम्नि वास्तुशास्त्रे शिलान्यासविधिर्नाम पञ्चत्रिंशोऽध्यायः ॥ अथ बलिदानविधिर्नाम षट्त्रिंशोऽध्यायः । इदानीमभिधास्यामो बलिरूपविधेः क्रमम् । येन ६येनार्चिता देवास्तुष्यन्ति समहेश्वराः ॥ १ ॥ मण्डलं वास्तुनो मध्ये गोमयेन प्रकल्पयेत् । कलशं तत्र विन्यस्येत् सप्रसूनं सकाञ्चनम् ॥ २ ॥ वास्तुदेवास्ततः कल्प्या यथास्थाननियोगतः । सधूपैर्विविधैर्माल्यैरर्घ्यं पश्चान्निवेदयेत् ॥ ३ ॥ अर्चयेद् विश्वकर्माणं माल्यैर्धूपैर्विलेपनैः । भक्ष्यैः फलैर्बहुविधैः पूजयेत् सुसमाहितः ॥ ४ ॥ आज्येन ७पयसा ८दध्ना पूजयेच्छिखिनं ९पुनः । शालिगोधूममुद्गाद्यैर्धान्यैः पर्ज्जन्यमर्चयेत् ॥ ५ ॥ जयन्तं पूजयेदाम्रद्राक्षाखर्जूरि१०कादिभिः । मालतीमल्लिकाभिश्च पूजयेत् त्रिदशाधिपम् ॥ ६ ॥ पुष्पै रक्तैस्तथा धूपै रक्तचन्दनलेपनैः । ततः सूर्यं जगन्नाथं पूजयेल्लोकचक्षुषम् ॥ ७ ॥ १ द. ख. वेश्यते । २ द. ख. तां तं । ३ द. ख. त्रिधे । ४ क. तत्राश्मात्तत्रा । ५ द. ख. ॰यावि त्रिशेतिमनेोति विनैव विघ्नैः । ६ द. येभार्पिता; ख. ग. यैर्भाविता । ७ द. ख. सपयो । ८ द. दध्ना । ९ द. ख. च्छिषितं दुमः । १० द. ख. ॰र् ।

बलिदानविधिर्नाम षट्त्रिंशोऽध्यायः । २१३ जम्बीरैर्बीजपूरैश्च नारङ्गैः पीनकैः फलैः । पूजयेत् सत्यनामानं ¹देवं तेन स तुष्यति ॥ ८ ॥ मत्स्यमांसैश्च तुष्यन्ति सर्वे रक्षःपुरोगमाः । सितैः फलैर्नारिकेलैर्भृशश्च परितुष्यति ॥ ९ ॥ गन्धधूपप्रयोगैश्च नभोनामानमर्चयेत् । पुष्पैः सुगन्धिभिः शुक्लैर्मारुतः परितुष्यति ॥ १० ॥ कृसरं मधुसंयुक्तं ⁴पूष्णे भक्त्या निवेदयेत् । वितथं तु शुभैरन्यैर्मद्यमांसविवर्जितैः ॥ ११ ॥ पूजितस्तुष्टिमायाति विवस्वांश्च महामुनिः । पुष्पैः सपुष्पकैस्तुष्टिमवाप्नोति गृहक्षतः ॥ १२ ॥ मत्स्यमांसयुतैर्मद्यैर्यमस्तुष्टिः सदा भवेत् । पुन्नागांगरुधूपेन गन्धर्वानर्चयेद् बुधः ॥ १३ ॥ मृगमांसयुतैर्भक्ष्यैर्भृङ्गराजं च तर्पयेत् । राजजम्बूफलैर्बिल्वैर्देवमभ्यर्चयेन्मृगम् ॥ १४ ॥ पायसैर्मधुसंयुक्तैर्मांसैर्भक्तैश्च शोभनैः । कर्पूरसुरभिद्रव्यगन्धैः संपूजयेत् पितॄन् ॥ १५ ॥ सपुष्पैर्मोदकैर्लाजैः पल्लवैश्च विमिश्रितैः । दौवारिकं प्रयत्नेन पूजयेद् विघ्नकारकम् ॥ १६ ॥ अपूपैः शोभनैर्गन्धैर्धूपैर्माल्यैरनुत्तमैः । पुष्पैः कण्टकजातीनां सुग्रीवं पूजयेत् सदा ॥ १७ ॥ ⁸सपुष्पैर्लापं(ज)कैर्भक्ष्यैर्दधियुक्तान्नपायसैः । ¹⁰अर्चयेत् पुष्पदन्तं तु यशोवीर्यान्वितं सुरम् ॥ १८ ॥ मांसैश्च सूकरादीनां वैनतेयं सदार्चयेत् । वरुणं ¹¹च महासत्त्वं पूजयेद् धूपचन्दनैः ॥ १९ ॥


पादटिप्पणी (Footnotes):

१ द. ख. नदेवं वेहि समुष्यति । २ द. ख. ग. सर्व । ३ द. ख. ॰रेःभृ॰ । ४ द. ख. पृष्टे; क. घष्णे । ५ द. ख. विवष्टायांश्च । ६ द. ख. ॰गम्रुनुधू॰ । ७ द. ख. ॰क्षैः॰ । ८ द. ख. ग. ॰पुष्पैर्लाप॰ । ९ क. ॰घ॰ । १० द. ख. अवये । ११ द. वर्तुणं तु; ख. चर्तुणं तु ।

२१४ समराङ्गणसूत्रधारे राहुं च मांससंयुक्तैस्तर्पयेद् भक्ष्यभोजनैः । रुधिरेण प्रदत्तेन तुष्टिमेति शनैश्वरः ॥ २० ॥ मांसेन तु क्षयस्तुष्टिं रोगाणामधिपो व्रजेत् । मेदसा पूजयेद् रोगं सर्वलोकभयङ्करम् ॥ २१ ॥ वासुकिं क्षीरदानेन पूजयेत् सततं नरः । पूर्ववत् पूजयेद् देवं विश्वकर्माणमीश्वरम् ॥ २२ ॥ सितप्रसूनविन्यासैर्भल्लाटं पूजयेद् बुधः । दधियुक्तेन चान्नेन सोमं सर्वत्र पूजयेत् ॥ २३ ॥ कुबेरं धूपदानेन पूजयेत् सततं नरः । अदितिं च सुवर्णेन पद्मैरपि च पूजयेत् ॥ २४ ॥ अर्कमन्दारमालाभिर्वृषभं च समर्archayett समर्चयेत् । अन्येषामपि देवानामर्र्चनं^१ धूपसाम्प्रतैः(?) ॥ २५ ॥ सर्वपुष्पफलैश्चैषां कार्यं बुद्धिमता सदा । इत्येते बलयः सर्वे शान्त्यर्थं परिकल्पिताः ॥ २६ ॥ शोधने कर्षणे भूमेः साधने रूपकल्पने । गृहे प्रवेशने रम्ये तिथिमभ्युदयेषु च(?) ॥ २७ ॥ स्कन्धावारनिवेशेषु पुरग्रामनिवेशने । देवालयक्षितिपवेश्मनिवेशनेषु प्रोक्तान् बलीन् प्रवितरेत् प्रयततः सुरेभ्यः । प्रारम्भमन्यमपि वास्तुगतं चिकीर्षुः कुर्वन्निमं विधिमभीप्सितभाजनं स्यात् ॥ २८ ॥ इति महाराजाधिराजश्रीभोजदेवविरचिते समराङ्गणसूत्रधारापरनाम्नि वास्तुशास्त्रे बलिदानविधिर्नाम षट्त्रिंशोऽध्यायः ॥ १ द. ॰स्तु॰ । २ द. ख. ॰ने ।