समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)
Samarangana Sutradhara of Raja Bhoja
धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा
५९० समराङ्गणसूत्रधारे स्थूला लेखा न कुर्वीत वटाङ्कुरनिभे$^१$( भा )दितः । न्यूनलेखा न कुर्वीत प्लक्षाङ्कुरसमेन च ॥ २० ॥ अश्वत्थाङ्कुररूपेण यैन्त्र ( विद्भूतसहीकरात् ? ) । उदुम्बराङ्कुराकारो लेप्यकर्मणि शस्यते । ज्येष्ठः स्यादायतो दण्डो वैणवो +++ ङ्गुलः ॥ २१ ॥ लेप्यकर्म $^३$+++ समासतः संस्कृतं( तेः )विधिरनन्तरं मृदः । अत्र सम्यगुदिता$^४$ विलेखनी कूर्चकस्य रचना ( च ) पञ्चधा ॥ २२ ॥ इति महाराजाधिराजपरमेश्वरश्रीभोजदेवविरचिते समराङ्गणसूत्रधारनाम्नि वास्तुशास्त्रे लेप्यकर्मविलेखाकूर्चकाध्यायो नाम द्वि( त्रि )सप्ततितमः ॥ अथाण्डकप्रमाणं नाम चतुःसप्ततितमोऽध्यायः । अथात्र प्रक्रमायाता कथ्यतेऽण्डकवर्तना । कायप्रमाणमपि च जातिभावादिसंश्रयम् ॥ १ ॥ अथ ( मैधोतिरालिख्य तोरका सन्निवेशयेत् । तारका ? )त्रयमालेख्य तन्नान( न )समायति ॥ २ ॥ ताव( त् )प्रमाणमायामं गोल( क )स्योत्तमं विदुः । तेन गोलकत्वेन( ? ) मानोन्माने तु कारयेत् ॥ ३ ॥ मुखाण्डकस्य विस्तारो ( $^५$लेप ? ) षट्केन सम्मितः । द्विदैर्घ्यं तु ( ? ) गोलकाः सप्त वापीसंस्थानमेव च ॥ ४ ॥ मुखाण्डकमिदं श्रेष्ठं कर्तव्यं चित्रकर्मणि । त्रिकोटि वृन्ति( त्त )मालेख्यं वृत्ताण्ड( क )मिति क्रमात् ॥ ५ ॥ ( भावाण्डकान्यथ ब्रूमः सोहस्याभिप्रस्तवेडकम् ? । गोलार्धाभ्यधिकं कार्यं ( पूर्वैस्तोत्तद्विचक्षणैः ? ) ॥ ६ ॥ १ द. ॰मे नत । २ द. प । ३ मुद्रित पुस्तके ‘गदितं’ इति स्यात् । ४ द. ॰दीती विलेखाना । ५ द. सद्यो च्वो । ६ द. लो । ७ द. स्यो ।
अथाऽण्डकप्रमाणं नाम चतुःसप्ततितमोऽध्यायः । ५९१ अर्धगोलकमायामादलसाण्डकमुच्यते । नवगोलकदैर्घ्यं तदंशाहासमुखं (?) भवेत् ॥ ७ ॥ पुंसां षडादात्तं(यतं) मानं विस्तारात् पञ्चगोलकम् । वनिताण्डकमालेख्यं नालिकेरफलोपमम् ॥ ८ ॥ चतुर्गोलकविस्तीर्णमायतं पञ्चगोलकान् । शिशूनामण्डकं तावत् कर्तव्यं चित्रकर्मणि ॥ ९ ॥ (हास्योभिः प्रस्रवेत् ?) तस्य गोलकार्धान् विशेषयेत् । आलस्याण्डकमप्येवं रोदनं तद्वदेव तु ॥ १० ॥ षड्गोलक(प्र)विस्तारमार्यतं सप्तगोलकम् । राक्षसस्याण्डकं कुर्याच्चन्द्रमण्डलसन्निभम् ॥ ११ ॥ (हास्यौभिप्रस्तवे ?) तस्य गोलकार्धान् विशेषयेतं । देवाण्डकं प्रमाणेन तदालस्येऽत्र कीर्तितः (?) ॥ १२ ॥ षड्गोलक(प्र)विस्तारं गोलकाष्टकमायतम् । (वृत्तांया ?) समालेख्यं दिव्याण्डकमिति स्मृतम् ॥ १३ ॥ अथाभिधीयते दिव्यमानुषाण्डव(क)(वि ?)लक्षणम् । गोलकार्धाधिकं भे(त)च्च कार्यं मानुषमानतः ॥ १४ ॥ पञ्चगोलकविस्तीर्णं षड्गोल(सेर्कमायुतम् ?) । मुखाण्डं मानुषं कृत्वा (केत्तरस्य ?) विधीयते ॥ १५ ॥ शिशुकाण्डकमानेन प्रमथानां मुखाण्डकम् । राक्षसाण्डकमानेन यातुधानाण्डकं भवेत् ॥ १६ ॥ दानवस्याण्डकं कुर्याद् देवानां वदनोपमम् । गन्धर्वनागयक्षाणां तद्वद्देवाण्डकं भवेत् ॥ १७ ॥ १ द. °दूहा° । २ द. स्य । ३ द. र्णा । ४ द. इतः परं “कंचु संनिभं । वक्रा भवज्रतुल्यं वा कर्तव्यं लक्ष्मैष्णवे । पुष्पक्षेत्रोद्भवमिदं द्विजादीनां सितार्यत् ॥” इत्ययं अधिकः पाठः । ५ द. ता । ६ द. या । ७ द. स्या । ८ द. °धं । ९ द. षतः । १० द. समायुतं । ११ द. °त्ता । मुद्रित पुस्तके ‘वृत्तायतं’ इति स्यात् । १२ द. र्या । १३ द. तां । १४ द. °लकसमायुतं । मुद्रित पुस्तके ‘ °कसमायतम्’ इति स्यात् ।
५९२ समराङ्गणसूत्रधारे विद्याधराणां विज्ञेयं दिव्यमानुषमण्डकम् । बुध्यन्ते केऽपि शास्त्रार्थं¹ केचित् कर्माणि कुर्वते ॥ १८ ॥ करामलकवं( त्यास्यं पर ? )²द्वयमप्यदः । न वेत्ति शास्त्रवित् कर्म न शास्त्रमपि कर्मवित् । यो वेत्ति द्वयमप्येनत् स हि चित्रकरो वरैः*³ ॥ १९ ॥ इति महाराजाधिराजश्रीभोजदेवविरचिते समराङ्गणसूत्रधारनाम्नि वास्तुशास्त्रे अण्डकप्रमाणं नाम त्रि( चतुः )सप्ततितमोऽध्यायः ॥
अथ मानोत्पत्तिर्नाम पञ्चसप्ततितमोऽध्यायः । ब्रूमोऽथ( माँतमङ्गाणां ? )⁴ परमाण्वादि तद् भवेत् ॥ १ ॥ परमाणु रजो रोम लिक्षा⁵ (६प्ररिका ? ) यवोऽङ्गुलम् । क्रमशोऽष्टगुणा वृद्धिरैव( वं ) मानाङ्गुलं भवेत् ॥ २ ॥ द्वयङ्गुलो गोलको ज्ञेयः कलां वा तां प्रचक्षते । द्वे ⁷कले गोलकौ (८बाहौ ? ) भागो मानेन तेन तु ॥ ३ ॥ आयामाद् विस्तृतेश्चित्रमन्यूनाधिकमाचरेत् । देवादीनां शरीरं स्याद् विस्तारेणाष्टभागिकम् ॥ ४ ॥ ( त्रिंशद् ? )१०भा( गा )यतं चैतद् विदध्याच्चित्रशास्त्रवित् । असुराणां ( सैरं ? )¹¹ स्याद् भागान् समा(प्ता )र्धसंयुतान् ॥ ५ ॥ विस्तारेण तदायामादेकान्नत्रिंशदिष्यते । सप्तभागं राक्षसानां विस्तारेणायतं पुनः ॥ ६ ॥
पादटिप्पण्यः (Footnotes): १ द. र्था । २ द. लस्यंत्यपरे । ३ द. रैः । ४ द. मानमंगाणां । मुद्रित पुस्तके ' मानगणनम् ' इति स्यात् । ५ द. क्ष्या । ६ मुद्रित पुस्तके ' यूका ' इति स्यात् । ७ द. वा । ८ द. कलो गलको । ९ मुद्रित पुस्तके ' वा द्वौ ' इति स्यात् । १० मुद्रित पुस्तके ' त्रिंशद् ' इति स्यात् । ११ मुद्रित पुस्तके ' शरीरं ' इति स्यात् । * अध्यायावसाने नियमेन दृश्यमानां तत्तदध्यायविषयक्रोडीकरणकारिकां विनैवेहाध्यायपरिसमाप्तिर्मातृकायामुपलभ्यते, एतदध्यायारम्भे ' कायमानमपि च ' इति यद् विषयान्तरं प्रतिज्ञातं, तत् समनन्तराध्याये सप्रपञ्चं निरूप्य मध्ये ' अण्डकवर्तना ' ' कायमानमि 'त्येतयोरेतदध्यायगतयोर्द्वयोर्विषययोः क्रोडीकारः कारिकारूपेणाध्यायावसान इव निबद्धः ।
मानोत्पत्तिर्नाम पञ्चसप्ततितमोऽध्यायः । ५९३ सप्तविंशतिभागं स्याद् यत् पुनर्दिव्यमानुषम् । (सार्धा तु षडंशास्त कुर्यात्त्यादृशत्यायतम् ? ) ॥ ७ ॥ षड्भागविस्तृतं कार्यं शरीरं मर्त्यजन्मनि । चतुर्विंशतिभागान् + सार्धान् कुर्वीत दैर्घ्यतः ॥ ८ ॥ पुरुषस्योत्तमस्यैतन्मानमस्या (स्मा) भिरीरितम् । मध्यमस्य तु सार्धं स्याद् विस्ताराद् भागपञ्चम(क)म् ॥ ९ ॥ आयामस्तस्य तु प्रोक्तो (विंशतिंस्थिति ? ) रन्विता । (कनीयसानां कुब्जानां विस्तारान् पञ्चभागिकौ ॥ १० ॥ दैर्घ्यमस्य विधातव्यस्तथा शरीरस्य विस्तरा पञ्चभागिका ? ) । दैर्घ्यं (र्घ्य ) द्वाविंशतिर्भागौ वपुषोऽस्य प्रशस्यते ॥ ११ ॥ (कार्या शरीरस्य ?) कुब्जानां विस्तारात् पञ्चभागिकम् । दैर्घ्यमस्य विधातव्यं तथा भा(गं शुभदश ? ) ॥ १२ ॥ भागपञ्चकविस्तारं (वामनानां वपुर्भवेत् ) । कुर्वीत सार्ध(र्धान्) सप्तैव भागा(न्) दैर्घ्येण तद्द्बूतै (त् पुनः) ॥१३॥ (किंवौंराणि ?) प्रोक्तं प्रमाणमिद(मेदं ?)मेव हि । (प्रथमानं ?) तु विस्तारो वपुषोऽशचतुष्टयम् ॥ १४॥ (दैर्येदो पुनर्मूस्ये ?) भागषट्कप्रमाणतः । उक्तं देहप्रमाणस्य भागसूत्रमिदं पृथक् ॥ १५ ॥ १ द. षडंशांस्तत् कुर्यात्यदृिशं०। २ मुद्रित पुस्तके 'विंशतिस्त्रिभि' इति स्यात् । ३ द. °तिस्थिति° । ४ मुद्रित पुस्तके कुब्जानामित्यादितथेत्यन्तं पश्चात्परिवक्ष्यमाणकुब्जशरीरप्रमाणादिह लेखकेन प्रमादात् प्रक्षिप्तमिव भाति । ततश्च प्रकृतानुगुण्येन 'कनीयसः शरीरस्य विस्तारः पञ्चभागिकः' इतीह पाठो योजनीयः स्यात् । ५ द. कं । ६ द. स्ता । ७ द. ग । ८ मुद्रित पुस्तके 'कार्य शरीरं' इति स्यात् ; द. कार्यं । ९ द. स्त । १० मुद्रित पुस्तके 'गांश्चतुर्दश' इति स्यात् । द. शुद्धमेश । ११ द. °पंचकविस्तरं । १२ द. प्रतौ नास्ति । १३ द.° ततः । १४ मुद्रित पुस्तके 'किन्नराणामपि' इति स्यात् । द. वा । १५ द. नास्ति । १६ मुद्रित पुस्तके 'प्रमथानां' इति स्यात् । १७ मु. पु. 'दैर्ध्यं भवेत् पुनस्तस्य' इति स्यात् । १८ द. दौ । १९ द. स्त । वा. ७५
५९४ समराङ्गणसूत्रधारे देवानामसुरणां च राक्षसानां तथैव च । दिव्यमानुषमर्त्यानां कुब्जवामनयोरपि । किन्नराणां सभूतानां क्रमेणास्मिन्नुदाहृतम् ॥ १६ ॥ इत्थम्मण्डक(१वेले च वनं क्रमं ? ) (का)यमानमपि जातिभेदतः । भावतश्च कथितं विभो(जन्मना ? )वयंन् (३यलिखाख्या स्त ? )खलु चित्रवित्तमः ॥ १७ ॥ अथ मानसमुत्पत्तिर्यथावदभिधीयते ॥ १८ ॥ देवानां त्रीणि रूपाणि सुरजो +४+ कुम्भकौ । स्याद् दिव्यमानुषस्यैकं शरीरं दिव्यमानुषम् ॥ १९ ॥ असुराणां त्रिधा रूपं चक्रमृत्तीर्णकं तथा । दुर्दरः शकटः कूर्मत्रिदिवौ(इति द्वे) रक्षसाँ पुनः ॥ २० ॥ पुंसां रूपाणि पञ्च स्युस्तान्युच्यन्ते यथाक्रमम् । (हंसः सासाप्ररूचको भक्तामार्लाव्द्य एव च ॥ २१ ॥ ७कुयस्वविद्विधौ ज्ञेयो मेषो वृत्तकरस्तथा ? ) । वामनास्त्रिविधा ज्ञेयाः सपिण्डास्थानपद्मकाः ॥ २२ ॥ (कूश्माण्डकर्वर्टैस्तिर्यक् ++++ प्रथमतः ? ) । मयूरः कुर्वटैः काशः किन्नरस्त्रिविधो भवेत् ॥ २३ ॥ (वालंकीं पौरुषी वृत्ता +++ दण्डकौ तथा । त्रयः( ? ) पञ्चधा प्रोक्ताः समस्ताश्चित्रवेदिभिः ॥ २४ ॥ भद्रो मन्दो मृगो मिश्र इति हस्ती चतुर्विधः । जन्मतस्त्रिविधं१३ प्राहु (१४गिर्रिर्न १५गिरिनद्युरूखांश्रयम् ? ) ॥२५॥ १ मुद्रित पुस्तके ‘विलेखनक्रमः’ इति स्यात् । २ द. विभजेन्मनां च यान्यलिन्याख्या स खलु । ३ मुद्रित पुस्तके ‘यो लिखेत् स’ इति स्यात् । ४ द. वज्र । ५ द राक्षसं । ६ द. ल । ७ द. कुयस्त्व- द्विविधौ । ८-९ द. र्क । १०-११ द. की । १२ द. स्त । १३ द. धा । १४ मुद्रित पुस्तके ‘गिरिन- द्यूशराश्रयम्’ इति स्यात् । १५ द. गिंरिन इत्ययं पाठः पुस्तके नास्ति ।
मानोत्पत्तिर्नाम पञ्चसप्ततितमोऽध्यायः । ५९५ ( ¹विविधा वाजिनो रथ्य ? ) पारसादुत्तरान्ततः । सिंहाश्चतुर्धा शिखरबिल( द्रै²मतृणारव्ययौँ³ ? ) ॥ २६ ॥ व्यालाः षोडश निर्दिष्टा हरिणो⁴ गृध्रकः शुकः । कु⁵क्कुटः सिंहशार्दूलवृकाजागण्डकीगजाः ॥ २७ ॥ क्री( क्रो )डाश्वमहिषश्वाना( नो ) मर्कटोत( टः ख )र इत्यमी । [ ऐ⁶सामिन्दमासं यं याम्यनैर्ऋतवारुणै⁷ ॥ २८ ॥ वायव्यां सौम्यमित्युक्तं जङ्गिपातमिव्हव्यधारु⁸ । नतस्तमिहेर्भीमः शिषण्यौँ⁹⁻¹⁰ सूकरोऽपि च ॥ २९ ॥ पशुर्गोः सुसुमारश्च गजमेषश्चतुर्मुख ? ] । तुरङ्गसिंहशार्दूलमेषाँ¹¹श्चेत्यत्र षोडश ॥ ३० ॥ जातसंस्तुतिः¹² ? ॥ शुक्ल¹³वासाः शुचिर्दक्षः स्त्रीशूद्रानभिलाषुकः¹⁴ । स्थाने कर्मारभेनेतद् विभक्ते संवृतेऽपि च ॥ ३१ ॥ आरम्भो देवतार्चानां रोहिण्यामुत्तरेषु च । साधकं वा भवेद् ( यैस्तु¹⁵ भैवा ? ) रम्भो विधीयते ॥ ३२ ॥ *मुखं भागेन कुर्वीत¹⁶ ग्रीवा वक्त्रात्¹⁷ त्रिभागिका । ( ऒ¹⁸यमतन्मुखं ? ) ज्ञेयं केशान्तं¹⁹ द्वादशाङ्गुलम् ॥ ३३ ॥ द्वादशैवाङ्गुलान्येतद् विस्तारेण पुनर्भव्ते । ( प्रै²⁰विमानं ? ) त्रिभागेन नासिका च त्रिभागतः ॥ ३४ ॥ त्रिभागेन ललाटं स्यादुत्सेधात् त्रिसमं मुखम् । अक्षिणी द्व्यङ्गुलायामे तदधार्ध्य( द )पि विस्तृते ॥ ३५ ॥
१ मुद्रित पुस्तके ‘द्विविधा वाजिनो रथ्याः' इति स्यात् । २ मुद्रित पुस्तके 'गुल्मतृणाश्रयाः' इति स्यात् । ३ द. याः । ४ द. णा । ५ द कुँ । ६ द. ऐसामि( नि )न्दमास्तं । ७ द. णे । ८ द. हाथा । ९-१० द. नास्ति । ११ द. पा । १२ द. ते । १३ द. क्ता । १४ द. ष । १५ मुद्रित पुस्तके 'यत्तु तदा' इति स्यात् । १६ द. त । १७ द. वक्रा त्रि° । १८ द. आयमेतं° । मुद्रित पुस्तके 'आयामतो मुखाद्' इति स्यात् । १९ द. को । २० द. ति । मुद्रित पुस्तके 'भुवोर्मानं' इति स्यात् ।
- इत आरभ्य श्लोकपञ्चकगता विषयाः समनन्तराध्यायादिक प्रक्षिप्ता इति भाति ।
५९६ समराङ्गणसूत्रधारे तारकाक्षित्रिभागेन कर्तव्या सुप्रतिष्ठिता । तारकायास्ततो मध्ये ज्योतिरुभ्यंशेन कल्पयेत् ॥ ३६ ॥ ( १भ्रुवौ व्यक्षिरामे कुर्यादक्षिमांसयो । मंकाराणा स्युरुच्चाता सम्यगालिखेत् ? ) । एवं विधानतो योज्यं रूपजातमशेषतः ॥ ३७ ॥ जातीनां वशत इति प्रमाणमुक्तं (दिवाँ^३दिष्वखिलमुक्तं देवा ? )मिदं स्फुटं विदित्वा । यश्चित्रं लिखति बहुप्रकारमस्मै^४ प्राधान्यं वितरति चित्रकृत्समूहः ॥ ३८ ॥ इति महाराजाधिराजश्रीभोजदेवविरचिते^५ समराङ्गणसूत्रधारनाम्नि वास्तुशास्त्रे मानोत्पत्तिर्नाम चतुः(पञ्च)सप्ततितमोऽध्यायः ! अथ प्रतिमालक्षणं नाम षट्सप्ततितमोऽध्यायः । प्रतिमानामथ ब्रूमो लक्षणं द्रव्यमेव च । सुवर्णरूप्यता(म्राः^६ स्युर्दारुलेखानि ?) शक्तितः ॥ १ ॥ चित्रं चेति विनिर्दिष्टं द्रव्यमर्चासु सप्तधा । सुवर्णं पुष्टिकृद् विद्याद् रजतं कीर्तिवर्धनम् ॥ २ ॥ प्रजाविवृद्धिदं^७(दं) ताम्रं शैलेयं भूजयावहम् । आयुष्यं दावरच(रवं^८) द्रव्यं लेख्यचित्रे धनावहे ॥ ३ ॥ प्रारभेद् विधिना प्राज्ञो ब्रह्मचारी जितेन्द्रियः । हविष्यनियताहारो^१० जपहोमपरायणः ॥ ४ ॥ शयानो धरणीपृष्ठे (कुशास्तरणे^११ तदन्तरम् ?)* । अप्राप्तौया(?)^१२ द्वयोर्मध्यं भवेत् पञ्चाक्षिसम्मितम् ॥ ५ ॥ १ द. भु । २ द. जानीतां । ३ मुद्रित पुस्तके ‘दिव्यादिष्वखिल’ इति स्यात् । ४ द. स्यै । ५ द. इतः पूर्वं परमेश्वर इत्यधिकः पाठः । ६ मुद्रित पुस्तके ‘म्राम्रशारुलेख्यानि’ इति स्यात् । ७ द. °द्वये तोम्रशै° । ८ द. त्र । ९ द. प्रारेमे वि° । १० द. °रा जयं होमं प° । ११ द. ण । १२ द. °प्रयोः ।
- इत उत्तरं वाक्यपरिसमाप्त्यदर्शनात् प्रक्रमान्तरसङ्क्रमणाच्च कियांश्चिद् ग्रन्थपातः संभाव्यते ।
प्रतिमालक्षणं नाम षट्सप्ततितमोऽध्यायः । ५२७ नेत्रश्रवणयोर्मध्यं भवेदङ्गुलपञ्चकम् । कर्णौ चाक्षिसमौ ज्ञेयावुत्सेधाद् द्विगुणायतौ ॥ ६ ॥ (सा कर्णपाली स्यान्मध्यं पतिष्यल्यकृकूटयोः । द्विभागोलकायता पिष्पल्याश्रिताङ्गुलविस्तृता ?) ॥ ७ ॥ अरोमप्रभवा ज्ञेया व्याकृष्टधनुराकृतिः । एवम्प्रमाणं स्यादेषां कर्णपृष्ठाश्रयोऽपि च ॥ ८ ॥ ऊर्ध्वबन्धादधोबग्धः कर्णमूलसमाश्रितौ(नः) । अध्यर्धं गोलकं ज्ञेयः पृष्ठतश्चैवमेव सः ॥ ९ ॥ निष्पावसद्दशाकारा कर्तव्या कर्णपिप्पली । आयामेनाङ्गुलं सा स्याद् विस्तारेण चतुर्यवा(वा) ॥ १० ॥ पिप्पल्याधातयोर्मध्ये(?) लकार इति संज्ञितः । स्याद(ध्य)र्धाङ्गुलायामो विस्तारेण च सोऽङ्गुलम् ॥ ११ ॥ मध्ये लकारो निम्नः स्यान्मानाद् यवचतुष्टयम् । मूले पिप्पलिकयाः स्याच्छ्रोत्रच्छिद्रं चतुर्यवम् ॥ १२ ॥ या(गोलकारपीगूंष्मो स्तूनीकेति ?) प्रकीर्तिता । अर्धाङ्गुलायता सा स्याद् यवद्वितयविस्तृता ॥ १३ ॥ लकारावर्तयोर्मध्ये पीयुषी सा प्रकीर्तिता । अङ्गुलंद्वितयायामा विस्तृता सार्थमङ्गुलम् ॥ १४ ॥ कर्णस्य बाह्या रेखा या तामावर्तं प्रचक्षते । षडङ्गुलप्रमाणः स्याद् वक्रो वृत्तायतश्च सः ॥ १५ ॥ मूलांशोऽर्धाङ्गुलः कार्यः क्रमान्मध्ये यवद्वयम् । अग्रे यवप्रमाणश्च विस्तारेण विधीयते ॥ १६ ॥ लकारावर्तयोर्मध्यैमुद्गात इति कीर्तितम् । अधोभागे + पीयूष्या विस्तारेण यवत्रयम् ॥ १७ ॥ १ द. ण। २ द. पा। ३ द. तां। ४ द. स्त। ५ द. लां। ६ द. थव। ७ द. यू। ८ द. ताः। ९ द. लं। १० द. तमा। ११ द. ध्ये।
५९८ समराङ्गणसूत्रधारे ऊर्ध्वतः कर्णविस्तारो गोलकाद् द्वियवान्वितः । मध्ये च द्विगुणं नालं मूले मात्रा सपद्म(षड्ब)वा ॥ १८ ॥ समुदायप्रमाणेन (णेर्लेक?)द्वितयायतः । कर्णप्रसप्तः(?) कर्तव्यो निम्न्रो(३च्चूमत?)विभागवान् ॥ १९ ॥ अङ्गुलं पश्चिमं नालं पूर्वमर्धाङ्गुलं भवेत् । कुर्वीत कोमले नाले कल(ला)द्वितयमायते ॥ २० ॥ श्रवणस्य विभागोऽयं पूर्वा(यथा)वत् परिकीर्तितः । अन्यूनाधिकमानः स्यात् प्रशस्तो दूषितोऽन्यथा ॥ २१ ॥ चिबुकं द्व्यङ्गुलायामं तस्यार्धमधरं विदुः । तदर्धमुत्तरोष्ठः स्याद् भाजी चार्धाङ्गुलोष्ठधा(च्छ्रूया) ॥ २२ ॥ नासापुटौ तु विज्ञेयौ चतुर्थं भागमष्ट(मोष्ठ)योः । तयोः प्रान्तौ तु कर्तव्यौ करवीरसमौ शुभौ ॥ २३ ॥ तारकान्तःसमे चैव सृक्वणी परिचक्षते । नासिका स्याँ(त्) प्रमाणेन चतुरङ्गुलमायते(ता) ॥ २४ ॥ पुटभा(प्रा)न्ते च विस्तारो नासाग्रस्याङ्गुलद्वयम् । विस्तारेणाङ्गुलान्यष्टौ तदर्थमपि चायताम् ॥ २५ ॥ प्रमाणगुणसंयुक्तं ललाटं परिकीर्तितम् । आरभ्य चिबुकां(काद्) यावत् कु(के)शान्तं पश्चिमात् तथा ॥ २६ ॥ ५र्गणिक(ण्डा)न्तं शिरसो मानं भवेद् द्वात्रिंशदङ्गुलम् । +++ कर्णयोर्मध्ये (मष्टको?)ऽष्टादशाङ्गुलः ॥ २७ ॥
- ग्रीवयोः परीणाहो विंशतिश्चतुरन्विता । श्री(ग्री)वातः स्यादुरोभागा(ग) उरसो नाभिरेव च ॥ २८ ॥ १ द. लं । २ मुद्रित पुस्तके 'गोलक' इति स्यात् । ३ द. ब्रूत । ४ द. त्स्या । ५ द. ल । ६ द. गणितं । ७ द. रनयो मध्ये । ८ द. मस्तको ।
प्रतिमालक्षणं नाम षट्सप्ततितमोऽध्यायः । ५९९ नाभे(१मेन्द्रं ?) भवेद् भोगौ (२द्वावुरुभयमेव च ?) ऊर्वोः समे मते जङ्घे जानुनी चतुरङ्गुले ॥ २९ ॥ चतुर्दशाङ्गुलो पादौ स्मृतावायाममानतः । षडङ्गुलो तु विस्तारादुत्सेधाच्चतुरङ्गुलो ॥ ३० ॥ (३पञ्चाङ्गुलपरीणाह ४अङ्गुलो त्र्यङ्गुलायतः ?) । अङ्गुष्ठकसमा चैव स्यादायामा(त्) प्रदेशिनी ॥ ३१ ॥ तस्याः षोडशभागेन हीना स्यान्मध्यमाङ्गुलिः । अष्टभागेन मध्ये(ध्या)या हीनां विद्यादनामिकाम् ॥ ३२ ॥ तस्याश्चैवाष्टभागेन हीना ज्ञेया कनिष्ठिका । पादोनमङ्गुलं कुर्यादङ्गुष्ठस्य नखं बुधः ॥ ३३ ॥ अङ्गुलीनां नखान् कुर्यात् (५खं ?) पञ्चत्र्यंशसंमितान् । (६कुर्वीताङ्गुलंकोत्सेधं त्रिभ्यन्वित्तमङ्गुलाम् ?) ॥ ३४ ॥ प्रदेशिन्यङ्गुलोत्सेधा हीना(ः) शेषा यथाक्रमम् । जङ्घामध्ये परीणाहो भवेदष्टादशाङ्गुलः ॥ ३५ ॥ जानुमध्ये परीणाह(इ ?)स्त(स्त्व)ङ्गुलान्येकविंशतिः । तस्यैव सप्तमं भागं ११विद्याज्जानुकपालकम् ॥ ३६ ॥ कु(ऊ)रुमध्ये परीणाहो१२ भवेद् द्वात्रिंशदङ्गुलैः१३ । (भागार्धमाशौ ?) वृषणौ मेढ्रं वृषणसंस्थितम् ॥ ३७ ॥ १ द. मुद्रित प्रतौ 'मेद्रं' इति । २ द. 'भागो भागों' इति पाठः । ३ मुद्रित प्रतौ द्वावूरूद्वयमेव इत्ययं च' इति स्यात् । ४ मुद्रित प्रतौ 'पञ्चाङ्गुलपरीणाहावङ्गुष्ठौ त्र्यङ्गुलायतौ' इति च स्यात् । ५ द. श्वां । ६ द. सि । ७ द. प्रतौ इतः पूर्वं "अनामिकाष्टभागेन हीनां विद्यान् कनीयसीम् । सर्वाङ्घ्रिसन्वा- याङ्गुल्यः प्रथमाङ्गुलविस्तृताः ॥ त्र्यङ्गुल्य च परीणाहाद्विज्ञेया सा विचक्षणैः । ततोष्टभागहीना स्यात् परीणाहेन मध्यमा । अष्टभागेन मध्या या हीनां विद्याननामिकाम्" ॥ इत्ययं अधिकः पाठः । ८ द. ख । ९ द. ष्ठ । मुद्रित पुस्तके 'कुर्वीताङ्गुष्ठकोत्येधं त्रियवान्वितमङ्गुलम् इति स्यात् । १० द. भान्वित । ११ द. विं । १२ द. ही । १३ द. लै ।
षडङ्गुलपरीणाहं कोशस्तु चतुरङ्गुलः । अष्टादशाङ्गुलमिता विस्तारेण कटिर्भवेत् ॥ ३८ ॥ अङ्गुलार्धं (भवेन्नारीरोधोध्वश्वाङ्गुलं ?) भवेत् । नाभिमध्ये परीणाहः षट्चत्वारिंशदङ्गुलः ॥ ३९ ॥ द्वादशाङ्गुलमात्रं तु स्तनयोरन्तरं विदुः । स्तनयोरुपरिष्टात्तु कक्षप्रान्तौ षडङ्गुलौ ॥ ४० ॥ उत्सेधात् पृष्ठविस्तारो विंशतिश्चतुरन्विता । उरसः सह पृष्ठेन परीणाहः प्रकीर्तितः ॥ ४१ ॥ षडङ्गात् परीमाणादङ्गुलानीति निश्चयः (?) । परीणाहाच्चतुर्विंशत्यङ्गुलाष्टौ च विस्तृता ॥ ४२ ॥ ग्रीवा(वा ?) कार्या भुजायामः षट्चत्वारिंशदङ्गुलः । पर्वोपरितनं बाहोः कार्यमष्टादशाङ्गुलम् ॥ ४३ ॥ षोडशाङ्गुलमात्रं तु द्वितीयं पर्व कथ्यते । बाहुमध्ये परीणाहो भवेदष्टादशाङ्गुलः ॥ ४४ ॥ प्रबाहोस्तु परीणाहो भवति द्वादशाङ्गुलः । आयामेन (तैलत्वापि ?) कीर्तिते(तो) द्वादशाङ्गुलः ॥ ४५ ॥ अङ्गुलीरहितः प्राज्ञो(ज्ञैः) सप्ताङ्गुल उदाहृतः । पञ्चाङ्गुलानि विस्तीर्णा(र्णो) लेखालक्षणलक्षितः ॥ ४६ ॥ पञ्चाङ्गुलानि मानेन कर्तव्या मध्यमाङ्गुलिः । पर्वणोऽर्धं(तु)मध्याया हीनां विद्यात् प्रदेशिनीम् ॥ ४७ ॥ प्रदेशिनीसमा चैव स्यादायामादनामिका । पर्वाधंमानहीना च प्रमाणेन कनिष्ठिका ॥ ४८ ॥ अङ्गुलीनां नखाः कार्याः सर्वे पर्वाधंसंमिताः । आयाममात्रमेतासां परीणाहं प्रचक्षते ॥ ४९ ॥ १ द. श्वा । २ द. र्या । ३ द. मो । ४ मुद्रित पुस्तके 'तलश्वापि' इति स्यात् । ५ द. प्रदेशिनी ।
प्रतिमालक्षणं नाम षट्सप्ततितमोऽध्यायः । ६०१ अङ्गुष्ठकस्य दैर्घ्यं स्यादाङ्गुलानां चतुष्टयम् । पञ्चाङ्गुल(लं) परीणाहं¹(हः) स्पष्टचारुयवाङ्कितं(तः) ॥ ५० ॥ तुङ्गास्थ(त्त)मानपर्यन्तात् किञ्चिद्धीना नखा मताः । अङ्गुष्ठकप्रदेशिन्योरन्तरं द्वयङ्गुलं भवेत् ॥ ५१ ॥ स्त्रीणामप्येवमेतत् स्यात् स्तनोरुजघनाधिकम् । त्रीणि चत्वारि चत्वारि त्रीणि चत्वार्यथोपि च ॥ ५२ ॥ एकादशैकादश वा दशधौ(वा) विंशतित्र(स्त्र)यम् । विंशतित्रीणि च स्त्रीणां मानमेतत् प्रकीर्तितम् ॥ ५३ ॥ कनिष्ठं मानमेतत् स्यान्मध्यं सत्र्यंशमष्टकम् । प(क)लानाष्टमंकं सार्धमुत्तमं परिकीर्तितम् ॥ ५४ ॥ उरसश्च भवेत् तासां विस्तारोऽष्टादशा लः । कर्तव्यः कटिविस्तारो विंश(ति चतुरुँताः?) । एतत् प्रमाणमुद्दिष्टं प्रतिमानां समासतः ॥ ५५ ॥ प्रमाणमेतत् सक(लांशराणा- मर्धास्तु ?) निर्दिष्टमनुक्रमेण । कार्यं सदा शिल्पिभि(रंशुमत्तै ?)- र्यथोचितद्रव्यसमुद्भवासु ॥ ५६ ॥ इति महाराजाधिराजश्रीभोजदेवविरचिते समराङ्गणसूत्रधारनाम्नि वास्तुशास्त्रे प्रतिमालक्षणं नाम पञ्च(षट्)सप्ततितमोऽध्यायः ॥ १ द. म। २ द. थोपि वा। ३ द. धो। ४ द. मष्टकं । ५ द. द्वा । ६ मुद्रित प्रतौ 'तिश्व- तुरन्विता' इति स्यात् । ७ द. रन्विताः । ८ मुद्रित प्रतौ 'लामराणामर्धासु' इति स्यात् । ९ मुद्रित प्रतौ 'रप्रमत्तै' इति स्यात् । वा. ७६
६०२ समराङ्गणसूत्रधारे अथ देवादिरूपप्रहरणसंयोगलक्षणं नाम सप्तसप्ततितमोऽध्यायः । त्रिदशानामथाकारान् ब्रूमः प्रहरणानि च । दैत्यानामथ यक्षाणां गन्धर्वोरगरक्षसाम् ॥ १ ॥ विद्याधरपिशाचानां १+ + + + यथाय॑थम् । ब्रह्मानलार्चिःप्रतिमँः कर्तव्यः सुमहाद्युतिः ॥ २ ॥ स्थूलाङ्गः श्वेतपुष्पश्च श्वेतवेष्टनवेष्टितः । कृष्णाजिनोत्तरीयश्च श्वेतवासाँश्चतुर्मुखः ॥ ३ ॥ दण्डः कमण्डलुश्चास्य कर्तव्यो वामहस्तयोः । अक्षसूत्रधरस्तद्वा( द्वदू ) मौञ्ज्या मेखलया वृतः ॥ ४ ॥ कार्या( र्यो ) र्वर्धयमानस्तु जगद् दक्षिणपाणिना । एवं कृते तु लोके( शे ) क्षेमं भवति सर्वतः ॥ ५ ॥ ब्राह्मणा( र्थं )वर्धन्ते सर्वकामैर्न संशयः । यदा विरूपा (दीनां वा क्रूरसोदरी ॥ ६ ॥ ब्राह्मणाैर्वा ? ) भवेद् वर्णा( ? ) सा नेष्टा भयदायिनी । निहन्ति कारकं रौद्रा दीनरूपा च शिल्पिनम् ॥ ७ ॥ कृशा व्याधि(धिं ) विनाशं च कुर्यात् कारयितुः सदा । कृशोदरी तु दुर्भिक्षं विरूपा चानपत्यताम् ॥ ८ ॥ एतान् दोषान् परित्यज्यै कर्तव्या सा सुशोभना । ब्रह्मणोवा( ऽर्चा ) विधानज्ञैः प्रथमो( मे ) यौवने स्थिताँ ॥ ९ ॥ चन्द्राङ्कितजटः श्रीमान् नीलकण्ठः सुसंयते( तः ) । विचित्रमुकुटः शम्भुर्निशाकरसमप्रभः ॥ १० ॥ दोर्भ्यां द्वाभ्यां चतुर्भिवा ( वधा ? ) युक्तो वा दोर्भिरष्टभिः । पटि( ट्टि )शव्यग्रहस्तश्चै पन्नगाजिनसंयुतः ॥ ११ ॥ १ द. भूतानां । २ द. त । ३ द. सि । ४ द. स । ५ द. मौज्यान् । ६ द. द । ७ द. थ । ८ द. ना; मुद्रित प्रतौ 'दीना वा कृशा रौद्रा कृशोदरी । ब्रह्मणोऽ' इति स्यात् । ९ द. त्व । १० द. ब्रह्मणोर्वा भं । ११ द. नः । १२ द. 'कर्तव्या यत् सा' इति पाठः । १३ द. वधात । १४ द. ताः । १५ द. स्य ।
देवादिरूपप्रहरणसंयोगलक्षणं नाम सप्तसप्ततितमोऽध्यायः । ६०३ सर्वलक्षणसम्पूर्णो^१ नेत्रत्रितयभूषणः । एवंविधगुणैर्युक्तो यत्र लोकेश्वरो हरः ॥ १२ ॥ परा तत्र भवेद् वृद्धिर्देशस्य च नृपस्य च । यदारण्ये (संमाने ?)^२ वा विधीयेत महेश्वरः ॥ १३ ॥ एवं रूपस्तदा कार्यः कारकस्य शुभावहः । अष्टादशभुजो (जो) दोषणां^३ विंशत्या वा समन्वितः ॥ १४ ॥ शतबाहुः कदाचिद्वा सहस्रभुज एव च । रौद्ररूपो गणवृतैः^४ सिंहचर्मोत्तरीयकः ॥ १५ ॥ तीक्ष्णदंष्ट्राग्रदशनः शिरोमालाविभूषितः^५ । चन्द्राङ्कितशिराः श्रीमान् पीनोरस्कोऽग्रदर्शनः ॥ १६ ॥ (भद्रम् ?)^६ कर्तव्यः श्मशानस्थो महेश्वरः । द्विभुजो राजधान्यां तु पत्तने स्याच्चतुर्भुजः ॥ १७ ॥ कर्तव्यो विंशतिभुजः श्मशानारण्यमध्यगः । एकोऽपि भगवान् भद्र(:) स्थानभेदविकल्पितैः^७ ॥ १८ ॥ रौद्रसौम्यस्वभावश्च क्रियमाणो भवेद् बुधैः । (उद्याद्यथा भौवद्भागभगवान्)^८ सौम्यदर्शनः ॥ १९ ॥ स एव तीक्ष्णतामेति मध्यन्दिनगतः पुनः । तथारण्यस्थितो नित्यं रौद्रो भवति शङ्करः ॥ २० ॥ (सं येद सौम्यावति स्थाने सौम्यो व्यवस्थितः ?)^९ । स्थानान्येतानि सर्वाणि ज्ञात्वा किम्पुरुषादिभिः ॥ २१ ॥ प्रैमथैः^११ सहितः कार्यः शङ्करो लोकशङ्करः । एतद् यथावत् कथितं संस्थानं त्रिपुरद्रुहः^१२ ॥ २२ ॥ १ द. र्णे । २ मुद्रित प्रतौ 'श्मशाने' इति स्यात् । ३ द. ष्णा । ४ द. त्तः । ५ द. ल । ६ द. भद्रस्तू स्तु कं । मुद्रित प्रतौ 'भद्रमूर्तिस्तु' इति स्यात् । ७ द. ताः । ८ द. ०द्यं; मुद्रित प्रतौ 'उद्यन् यथा भवेद् भानुर्भगवान्' इति स्यात् । ९ द. भा(भ)वे । १० द. स एदा सौभ्या भवति; मुद्रित प्रतौ 'स एव सौम्यो भवति स्थाने सौम्ये व्यवस्थितः' इति स्यात् । ११ द. प्रथमैः । १२ द. रुहा ।
६०४ समराङ्गणसूत्रधारे कार्त्तिकेयस्य संस्थानमिदानीमभिधीयते । तरुणार्कनिभो रक्तवासाः पावकसप्रभः ॥ २३ ॥ ईषद्भालाकृतिः कान्तो मङ्गल्यः प्रियदर्शनः । प्रसन्नवदनः श्रीमानोजस्तेजोन्वितः शुभः ॥ २४ ॥ (विशेषान्मुडुकैश्चित्रि ? ) मुक्तामणि(वि)भूषितः । षण्मुखो वैकवक्त्रो वा शक्तिं रोचिष्मतीं दधत् ॥ २५ ॥ नगरे द्वादशभुजः खेटके षड्भुजो भवेत् । ग्रामे भुजद्वयोपेतः कर्तव्यः शुभमिच्छता ॥ २६ ॥ शक्तिः शरस्तथा खङ्गो मुसृण्डी$^३$ मुद्गरोऽपि च । हस्तेषु दक्षिणेष्वेतान्यायुधान्यस्य दर्शयेत् ॥ २७ ॥ एकः प्रसारितश्चान्यः षष्ठो हस्तः प्रकीर्तितः । (चैतुः ? ) पताका घण्टा च खेटः कुक्कुट(क)स्तथा ॥ २८ ॥ वामहस्तेषु षष्ठस्तु तत्र (शौसर्जन ?) करः । एवमायुधसम्पन्नः संग्रामस्थो विधीयते ॥ २९ ॥ (अन्यया) तु विधातव्यः क्रीडालीलान्वितश्च सः । छागकुक्कुटसंयुक्तः शिखियुक्तो मनोरमः ॥ ३० ॥ नगरेषु सदा कार्यः स्कन्दः परजयैषिभिः । खेटके तु विधातव्यः षण्मुखो$^{१०}$ ज्वलनप्रभः ॥ ३१ ॥ तथा तीक्ष्णायुधोपेतः स्रग्दामभिरलङ्कृतः । ग्रामेऽपि द्विभुजः कार्यः कान्तियुतिसमन्वितः ॥ ३२ ॥ (दक्षिणा च भवेद् भक्तिर्नाम हस्ते तु कुक्कुटः ?) । विचित्रपक्षः स(सु) महान् कर्तव्योऽतिमनोहरः ॥ ३३ ॥ १ मुद्रित प्रतौ 'विशेषान्मुकुटैश्चित्रैः' इति स्यात् । २ द. ढु । ३ द. मुखंडी । ४ द. णा । ५ मुद्रित प्रतौ 'धनुः' इति स्यात् । ६ मु. प्र. 'संवर्धनः' इति; द. शंजर्जनकरः । ७ मुद्रित पुस्तके 'अन्यदा' इति स्यात् । ८ द. ड । ९ द. थः । १० द. खे । ११ मुद्रित पुस्तके 'दक्षिणे च भवे- च्छक्तिर्वामे हस्ते तु कुक्कुटः' इति । १२ द. कुंटः ।
देवादिहूपप्रहरणसंगोगलक्षणं नाम सप्तसप्ततितमोऽध्यायः । ६०५ एवं पुरे खेटके च ग्रामे (वाभिलं ?) शुभम् । कार्त्तिकेयं ++ कुर्यादाचार्यः शास्त्रकोविदः ॥ ३४ ॥ अविरुद्धेषु कार्येषु खेटे या(ग्रा)मे पुरोत्तमे । कार्त्तिकेयस्य संस्थानमेतद् यत्नेन कारयेत् ॥ ३५ ॥ (१बालस्तु सुभुजः श्रीमान् स्थैले केतु महाद्युतिः ? ) । वनमालाकुलोरोस्को निशाकरसमप्रभः ॥ ३६ ॥ गृहीतसौरौ(सीर)मुसलः कार्यो दिव्यमदोत्कटः । चतुर्भुजः सौम्यवक्रो नीलाम्बरसमावृतः ॥ ३७ ॥ कु(मु)कुटालङ्कृतशिरोरुहो रागविभूषितः । रेवतीसहितः कार्यो वन(बर्ल)देवः प्रतापवान् ॥ ३८ ॥ विष्णुर्वैदूर्यसङ्काशः पीतवासाः श्रियाकृ(वृ)तः । वराहो वामनश्च स्योन्नरसिंहो भयानकः ॥ ३९ ॥ कार्यो (वां ?) दाशरथी रामो जामदग्न्यश्च वीर्यवान् । द्विभुजोऽष्टभुजो वापि चतुर्बाहुररिन्दमः ॥ ४० ॥११ शङ्खचक्रगदापाणिरोजस्वी कान्तिसंयुतः । नानारूपैस्तु कर्तव्यो ज्ञात्वा कार्यान्तरं विभुः ॥ ४१ ॥ इत्येष विष्णुः कथितः (सुरास्वरनमस्वरनमस्त्वतः ? ) । त्रिदशेशः सहस्राक्षौ(क्षो) वैज्रभृत् सुभुजो बली ॥ ४२ ॥ किरीटी सगदः श्रीमाञ् श्वेताम्बरधरस्तथा । श्रोणिसूत्रेण महा(हता) दिव्याभरणभूषितः ॥ ४३ ॥ कार्यो राजश्रिया युक्तः पुरोहितसहायवान् । वैवस्वतस्तु विज्ञेयः (कौलेःकेसं ?)परायणः ॥ ४४ ॥ १ द. व । मुद्रित पुस्तके 'बलस्तु सुभुजः श्रीमांस्तालकेतुर्महाद्युतिः' इति च स्यात् । २ द. स्ताल । ३ द. गृहीतशीलं रमुं । ४ द. हों । ५ द. रारा । ६ द. नव । ७ द. डू । ८ द. वाता श्रयान्वितः । ९ द. स्यात् शंखचक्रगदानकः । १० द. प्रतौ नास्ति । ११ द. इतः परं 'वाराहवा- मनश्च स्यात्' । इत्यधिकः पाठः । १२ द. पासु । १३ द. सुरासुरनमस्कृतः । मुद्रित पुस्तकेऽपि 'सुरासुर नमस्कृतः' इति स्यात् । १४ द. वज्रभृत्सुभुजोबली । १५ द. मु । १६ द. याः । १७ द. कालोक ।
६०६ समराङ्गणसूत्रधारे तेजसा सूर्यसङ्काशो जाम्बूनदविभूषितः । सम्पूर्णचन्द्रवदनः पीतवासास्तु( : शु )१भेक्षणः ॥ ४५ ॥ विचित्रमुकुटः कार्यो वराङ्गदविभूषितः । तेजसा सूर्यसङ्काशः कर्तव्यो बेलवाञ्छु२भः ॥ ४६ ॥ धन्वन्तरिर्भरद्वाजः ( प्रजानीतैतयस्तथा । दॅ४क्षार्थाः सदृशाः कार्या कार्यो रूपाणि + रपि ? ) ॥ ४७ ॥ अर्चिष्मान् क्ष( ज्व )लनः कार्यः( यत्कण्ठाश्व ? )समीरणः । सौम्यः कार्यस्तथा( र्विंस्या ? ) + + रुद्र७शरीरिणः ॥ ४८ ॥ रक्तवस्त्रधराः कृष्णा नानाभरणभूषिताः । कर्तव्या राक्षसाः सर्वे बहुप्रहरणान्विताः ॥ ४९ ॥ पूर्णचन्द्रमुखा९ शुभ्रा विम्बोष्ठी चारुहासिनी । श्वेतवस्त्रधरा कान्ता दिव्यलङ्कारभूषिता१० ॥ ५० ॥ कटिदेशनिविष्टेन वामहस्तेन शोभना । सपद्मेन ( वौन्तेन ? )११ दक्षिणेन शुचिस्मिता१२ ॥ ५१ ॥ कर्तव्या श्रीः प्रसन्नास्या प्रथमे यौवने स्थिता । गृहीतशूलपरिघ( पाहिंको ? )१३पट्टिसध्वजा ॥ ५२ ॥ बिभ्राणा खेटकोपेतलघुखङ्गं च पाणिना । घण्टामेकां च सौवर्णी दधती घोररूपिणी ॥ ५३ ॥ कौशिकी पीतकौशेयवसना सिंहँवा१५( ह )ना । ( सेचोष्ठौ ? ) + विधातव्याः शुक्लाम्बरधराः१६ + + ॥ ५४ ॥ शोभमानाश्च मुकुटैर्नानारत्नविभूषितैः । सदृशावश्विनौ कार्यौ लोकस्य शुभदायकौ ॥ ५५ ॥ शुक्लमाल्याम्बरधरौ जाम्बूनदविभूषितौ । ( त्रिपञ्चदशपूर्तिरस्येदं भृङ्गवन्मेचकप्रभाम्१८ ॥ ५६ ॥
१ द. ते । २ द. द । ३ द. ˚नां । ४ द. दक्ष्याथाः । ५ द. र्याः । ६ द. दि । ७ द. रुद्र रौद्र । ८ द. सां । ९ द. ˚स्वी श्वभ्रा बिम्बौष्ठी । १० द. ताः । ११ द. च कांतेन । १२ द. स्मृताः । १३ द. मू । १४ द. त । १५ द. वानव । स चोष्ठौ । १६ द. शुभाः । १७ द. ध । १८ द. भाः ।
देवादिरूपप्रहरणसंयोगलक्षणं नाम सप्तसप्ततितमोऽध्यायः । ६०७ वैदूर्यशकसङ्काशा ?) हरितश्मश्रवोऽपि च । रोहिता विकृता रक्तलोचना बहुरूपिणः ॥ ५७ ॥ नागैः१ शिरोरुहालीनैर्विरागाभरणाम्बराः । कार्याः पिशाचाँ भूताश्च परुषासत्यवादिनः ॥ ५८ ॥ (बहुप्रकारमन्दहा ?) विरूपा विकृताननाः । घोररूपा विधातव्या ह्रस्वा नानासु(यु)धाश्च ते ॥ ५९ ॥ सुभीमविक्रमा भीमा (:) सङ्घा यज्ञोपवीतिनः । वैर्मभिः शाटिकाचित्रैर्भूताः कार्याः सदा बुधैः ॥ ६० ॥ येऽपि नोक्ता विधातव्यास्तेऽपि कार्यानुरूपतः । यस्य यस्य च यल्लिङ्गमसुरस्य सुरस्य च ॥ ६१ ॥ यक्षराक्षसयोर्वापि नाना(ग)गन्धर्वयोरपि । तेन लिङ्गेन कार्यः स यथा साधु(धु) विजानजा(ता) ॥ ६२ ॥ प्रायेण (वा ?) वीर्यवन्तो हि दानवाः क्रूरकर्मिणः । किरीटिनश्च कर्तव्या विविधाsubपाणयः ॥ ६३ ॥ तेभ्योऽपीषत् कनीयांसो दैत्याः कार्या गुणैरपि । दैत्येभ्यः परिहीणांस्तु यक्षाः कार्या मदोत्कटाः ॥ ६४ ॥ हीनास्तेभ्योऽपि गन्धर्वा गन्धर्वेभ्योऽपि पन्नगाः । नागेभ्यो राक्षसा हीनाः क्रूर(विक्रिममतसूपिणः ?) ॥ ६५ ॥ विद्याधराश्च यक्षेभ्यो हीनदेहत(ध)राः स्मृताः । चित्रमाल्याम्बरधराश्चित्रचर्मासिपाणयः ॥ ६६ ॥ नानावेशधरा घोरा भूतसङ्घा भयानकः । पिशाचेभ्योऽधिकाः स्थूलास्तेजसा परुषास्तथा ॥ ६७ ॥ अन्यूनाधिकरूपांश्च कुर्वीत प्रायशः शुभान् । १ द. वैदूर्यससिकं संकासा । २ द. भैः । ३ द. च । ४ द. चर्मेचिः । ५ द. र्दा । ६ द. दित्याः कार्यै । ७ द. ना । ८ द. विक्रुत रूपिणः ।
६०८ समराङ्गणसूत्रधारे *( दिव्यैरासणाभरणैश्च युक्ताः कृतीथविदधीत यथोदितांस्तान् ?) ॥ ६८ ॥ इति महाराजाधिराजश्रीभोजदेवविरचिते समराङ्गणसूत्रधारनाम्नि वास्तुशास्त्रे देवादिरूपप्रहरणसंयोगलक्षणाध्यायो नाम (षट् ?सप्त)सप्ततितमः ॥ अथ दोषगुणनिरूपणं नामाष्टसप्ततितमोऽध्यायः । अथ वर्ज्यानि रूपाणि ब्रूमहेऽर्चादिकर्मसु । यथोक्तं शास्त्रतत्त्वज्ञैर्गोब्राह्मणहितार्थिभिः ॥ १ ॥ अशास्त्रज्ञेन घटिता(तं) शिल्पिना दोषसंयुतम् । अपि माधुर्यसम्पन्नं(न) ग्राह्यं शास्त्रवेदिभिः ॥ २ ॥ अश्लिष्टसन्धे(न्धि) विभ्रान्तां वक्रां चावनतां तथा । अस्थितामुन्नतां चैव काकजङ्घां तथैव च ॥ ३ ॥ प्रत्यङ्गहीनां विकटां मध्ये ग्रन्थिनतां तथा । ईदृशीं देवतां प्राज्ञैर्हि(ज्ञो हि)तार्थं नैव कारयेत् ॥ ४ ॥ अश्लिष्टसन्ध्या मरणं भ्रान्तया स्थानविभ्रमम् । वक्रया कलहं विद्यान्नतया (४मिवसः ?) क्षयम् ॥ ५ ॥ नित्यमस्थितया पुंसामर्थस्य क्षयमादिशेत् । भयमुन्नतया विद्याद्धृद्रोगं च न संशयः ॥ ६ ॥ देशान्तरेषु गमनं सततं कारु(क)जङ्घया । प्रत्यङ्गहीनया नित्यं भर्तुः स्यादा(स्यादन)पत्यता ॥ ७ ॥ विकटाकारया ज्ञेयं भयं दारुणमर्ध(र्च)या । अधोमुख्या शिरोरोगं ५(तथानयापि च ?) ॥ ८ ॥ एतैरुपैता दोषैर्या वर्जयेत् तां प्रयत्नतः । अन्यैरपि युतां दोषैरर्चां ब्रूमोऽर्थं सम्प्रति ॥ ९ ॥ १ द. दिव्याराभरणा भं° । २ द. सम । ३ द. ज्ञेयेन । ४ मुद्रित पुस्तके 'वयसः' इति स्यात् ; द. मिव सं । ५ द. में । ६ द. त्र ।
- इदमशुद्धं वसन्ततिलकश्लोकस्यार्धम्, अर्धान्तरं तु भ्रष्टम् ।
दोषगुणनिरूपणं नामाष्टसप्ततितमोऽध्यायः । ६०९ ( ऊर्ध्वपिण्डका सासिसासि ? ) स्वामिनो दुःखमावहेत् । ( कुक्षिष्टिप्राय ? ) दुर्भिक्षं रोगा( न् ) कुब्जार्चिता नृणाम् ॥ १० ॥ पार्श्वहीना तु भवति राज्यैस्याशुभदर्शनी । ४ ( शालायासनया स्थानं स्त्रीश्व ? ) प्रतिमया भवेत् ॥ ११ ॥ आसनालयहीनायां बन्धनं स्थानविच्युते( तिः ) । नानाकाष्ठसमायुक्ता या चैवायसपिण्डिता ॥ १२ ॥ सन्धिभिः ( प्रविसहिर्या ? ) सानर्थभयदा भवेत् । ( सम्बन्धार्कृष्ट ? ) लोहेन त्रपुणा वा कदाचन ॥ १३ ॥ दारुणा च तथैवोक्ता प्रतिमायाँस्तु( शास्त्र )वेदिभिः । सन्धयश्चापि कर्तव्याः सुश्लिष्टाः पुष्टिमिच्छता ॥ १४ ॥ अर्चानाम धराधेन(?) शास्त्रदृष्टविधानतः । बध्नीयात् ताम्रलोहेन सुवर्णरजतेन वा ॥ १५ ॥ ( कृतेन केणुना चान्यथा स्तुसामबद्धावरुजावहा ? ) । तस्मात् सर्वप्रयत्नेन स्थपतिः शास्त्रकोविदः ॥ १६ ॥ कुर्यादर्चां यथान्यायं सुविभक्तां प्रमाणतः । ( न क्षतां नोपदिगां च न च १२विवर्जिता ॥ १७ ॥ न प्रत्यङ्गैः प्रहीनं च घ्राणपा१३दैर्नखादिभिः ? ) । सुविभक्तां१४ यथोत्सेधां प्रसन्नवदनां शुभाम् ॥ १८ ॥ निगूढसन्धे( न्धि )करणां समायतिम्ऋजुस्थिताम् । ( १५ईदृशां राणायेदर्घा ? ) प्रमाणगुणसंयुताम् ॥ १९ ॥ समोपचितमां१६साङ्गाः पुरुषाः स्युः समासतः । प्रमाणलक्षणयुता वस्त्ररत्नविभूषितैः १७ (?) ॥ २० ॥ १ द. सासि इति पाठः प्रतौ नास्ति । २ द. ष्ट्र् । ३ द. र्शि । ४ द. इतः परं 'अधोमुखी तु विज्ञेया वच्चलंकारहारिणी ॥ प्रतीक्षार्थमुखी या स्यात्सा मृत्युर्भयदायिनी' । इत्यधिकः पाठः । ५ द. प । ६ द्वा । ७ द. यास्तु इति पाठः प्रतौ नास्ति । ८ द. य । ९ द. प्रत्नेन । १० द. र्था । ११ द. र्तां । १२ द. च मान वि° । १३ द. देन । १४ द. क्तं । १५ द. ईदृशी कारयेदर्चा; मुद्रित प्रतौ 'ईदृशी कारयेदर्चा' इति स्यात् । १६ द. मा । १७ द. ताः । वा. ७७