सात्वत संहिता (पाञ्चरात्र आगम - भगवान् सङ्कर्षण-नारद संवाद सान्वय सटीक)
Satvata Samhita of Pancharatra Agama with Commentary
भगवान् सङ्कर्षण / महर्षि नारद द्वारा
१६४ सात्वतसंहिता ननु मकारस्य जीवबीजत्वं युक्तं प्रसिद्धं च, सकारस्य जीवबीजत्वं कथमिति चेदुच्यते— त्रिधा हकारं कृत्वादौ जीवबीजं तथैव च ॥ ककारं च क्षकारं च लिखेत् तद्वत् त्रिधा त्रिधा । (८।२२-२३) इति वक्ष्यमाणश्लोकस्थितजीवबीजशब्दस्य पारमेश्वरे— नवमं चाष्टमं नेमावराद्यं मातृकान्तिमम् ॥ त्रिधैकैकं क्रमात् कृत्वा बीजद्वादशकं यथा । (२४।७७-७८) इति सकारपरत्वं सुस्पष्टं व्याख्यातं पश्यतु भवान् । किञ्च, वासुदेवाख्यया होऽभूत् साख्यः सङ्कर्षणोदयः ॥ प्रद्युम्नः षाख्यया ज्ञेयो ह्यानिरुद्धस्तु शाख्यया । (१९।३१-३२) इति लक्ष्मीतन्त्रोक्तरीत्या सकारस्य सङ्कर्षणबीजत्वाद् जीवबीजत्वव्यवहारः । जीवाधिष्ठातृत्वात् सङ्कर्षणस्य जीवव्यवहारः "वासुदेवात् सङ्कर्षणो नाम जीवो जायते" (२।२।३९ श्रीभाष्ये) इत्यत्र प्रसिद्धः । तथा च श्रीमद्भाष्ये— "अत्र जीवमनोऽहङ्कारतत्त्वानामधिष्ठातारः सङ्कर्षणप्रद्युम्नानिरुद्धा इति तेषामेव जीवादिशब्दैरभिधानमविरुद्धम्" (२।२।४१) इति ॥ १०-१४ ॥ फिर उससे (चार मूर्तियाँ हैं । अतः उनको एक-एक बार प्रणाम करावे । इससे असकृत् प्रणाम की सिद्धि नहीं होती) श्रद्धाभक्ति पुरःसर साष्टाङ्ग प्रणाम तथा प्रदक्षिणा करावे । इसके बाद व्रत के लिये मन्त्रपूर्वक विधान का उपदेश करना चाहिये । अब वासुदेवादि बीज चतुष्टय कहते हैं—सान्त अर्थात् सकार के अन्त में स्थित हकार, जो षष्ठ स्वर ऊकार से आरूढ़ हो तथा अनुस्वार से विभूषित हो इस प्रकार 'हूँ' यह वासुदेव का बीज है ॥ ११ ॥ वही हकार वर्ण जब जीव (स) बीजस्थ सकारान्वित हो और षष्ठ स्वर (ऊ) रहित होकर द्वितीय स्वर (आ) संयुक्त हो तो इस प्रकार 'हसां' यह सङ्कर्षण बीज निष्पन्न होता है । फिर जब वासुदेव बीज के हकार और ऊकार के मध्य में रेफ् जोड़ देवे तब इस प्रकार 'ह्रूँ' यह प्रद्युम्न का बीज होता है । यह तृतीय बीज सर्व- कामप्रद है । जीवारूढ़ अर्थात् सकार पर आरूढ़ हकार, उसके बाद सान्त (वकार) लिखकर उसे विसर्ग सहित रखे । इस प्रकार 'हस्वँ' यह अनिरुद्ध का बीज होता है । इस प्रकार वासुदेव, सङ्कर्षण, प्रद्युम्न एवं अनिरुद्ध जो परमात्मा, जीव, मन एवं अहङ्कार के अधिष्ठाता हैं, उनका बीज कह दिया गया ॥ १२-१४ ॥ वासुदेवादिमूर्तिध्यानकथनम् तेजसा त्वत्र भेदोऽस्ति स्वरूपेण सितादिना । दक्षिणोत्तरपाणिभ्यां तर्जनीमध्यमान्तरे ॥ १५ ॥
अष्टमः परिच्छेदः १६५ आद्यस्य चक्रशङ्खौ द्वौ ध्येयावंसद्वयोपरि। स्कन्धसूत्रसमस्थेन दक्षिणेन तु पाणिना॥ १६ ॥ गृहीता मुष्टिबन्धेन विश्रान्ता पीठपृष्ठतः। ध्येया गदा द्वितीयस्य तथाभूते करे परे॥ १७ ॥ संस्मरेद्धेतिराड् दीप्तं लीलाक्षेपक़रोद्यतम्। एवं प्रद्युम्ननाथस्य व्यत्ययेन तु ते उभे॥ १८ ॥ दक्षिणोत्तरहस्ताभ्यां श्रोत्रमण्डलसम्मुखौ। शङ्खपद्मौ चतुर्थस्य तथाकृष्टौ तु संस्मरेत्॥ १९ ॥ किन्तु वै पङ्कजं नालमस्य वै पाणिपृष्ठगम्। वासुदेवादिमूर्तिध्यानप्रकारमाह— द्विभुजा इत्यारभ्य पाणिपृष्ठगमित्यन्तम्॥ १४-२०॥ अब वासुदेवादि मूर्तियों का ध्यान कहते हैं—ये सभी दो भुजा वाले हैं। सैकड़ों सूर्य के समान प्रकाशमान हैं। इनके तेज तथा सितादि स्वरूप से भेद है। भगवान् वासुदेव के दाहिने और बायें हाथ में तर्जनी और मध्यमा अङ्गुलियों में दोनों कन्धों के ऊपर स्थित चक्र और शङ्ख का ध्यान करे। स्कन्ध सूत्र के साथ स्थित दाहिने हाथ से गृहीत मुष्टिबन्ध में रहने वाली पीठ से पीछे सङ्कर्षण के गदा का ध्यान करे और इसी प्रकार अन्य हाथ में लीलापूर्वक हाथ से प्रक्षेपण के लिये उद्यत जाज्वल्यमान चक्र का भी स्मरण करे। इसी प्रकार भगवान् प्रद्युम्न के व्यत्यस्त हाथों में स्थित उन दोनों का (गदा और चक्र) का स्मरण करे। चतुर्थ अनिरुद्ध के दोनों हाथों में क्षोभमण्डल के सामने स्थित शङ्ख एवं पद्म का स्मरण करे। किन्तु पङ्कज का नाल इनके पीछे है ऐसा स्मरण करे॥ १४-२०॥ वासुदेवादीनां हृदयाद्यङ्गमन्त्र बीजकथनम् हकारं च सकारस्थं कृत्वा षोढा निवेश्य च॥ २० ॥ द्वितीयतुर्यषष्ठाष्टद्विष्ट्कदशकैः क्रमात्। स्वरैर्नियोजयेद् विद्धि हृदाद्यान्नेत्रपश्चिमान्॥ २१ ॥ चातुरात्मीयमन्त्राणां साधनत्वेन सर्वदा। अथ वासुदेवादीनां चतुर्णामपि साधारणानि हृदयाद्यङ्गमन्त्रबीजान्याह—हकार- मिति द्वाभ्याम्। हकारं सकारस्थं कृत्वा षोढा विलिख्य द्वितीयतुर्यषष्ठाष्टद्विष्ट्क- दशकैः स्वरैः, आकारेण ईकारेण ऊकारेण ॠकारेण ऐकारेण लृकारेण च क्रमेण योजयेत्। तथा च ह्सां ह्सीं ह्सूं ह्सॄं ह्सैं ह्सॢं इति बीजषट्कं भवति। एतद् हृदादिनेत्रमन्त्रषट्के क्रमाद् योजयेत्। एवं कवचमन्त्रादिबीजत्रयेऽष्टम- द्वादशदशमस्वराणां संयोजनं क्वाचित्कम्, न सार्वत्रिकम्। यतोऽत्रैव नृसिंहकल्पे—
१६६ सात्वतसंहिता द्वितीयतुर्यषष्ठैश्च द्वादशेनान्तिमेन च। चतुर्दशेनानाराद्गार्त्ति क्रमाद्वै विनियोजयेत् ॥ (१७।९) इति कवचादिबीजत्रयस्य स्वरान्तसंयोजनमपि वक्ष्यति ॥ २०-२२ ॥ अब वासुदेवादि चारों मूर्तियों के हृदयाद्यङ्ग के बीजमन्त्रों को कहते हैं— हकार को सकार में मिलाकर १६ बार लिखें, फिर द्वितीय (आ), तुर्य (ईकार), षष्ठ (ऊकार), अष्टम (ॠकार), द्विषट्क (ऐकार) एवं दशक (ॡकार) से क्रमशः संयुक्त करे। इस प्रकार हसां, हसीं, हसूं, हसॄं, हसैं, हसॢं इतने बीजमन्त्र निष्पन्न होते हैं। इनको हृदयादि नेत्रान्त मन्त्र षट्क में संयुक्त करे। ये चातुरात्मीय मन्त्रों के साधन हैं ॥ २०-२२ ॥ केशवादीनां द्वादशबीजकथनम् त्रिधा हकारं कृत्वादौ जीवबीजं तथैव च ॥ २२ ॥ ककारं च क्षकारं च लिखेत् तद्वत् त्रिधा त्रिधा। द्विषट्कमेव बीजानां क्रमादादौ निवेश्य च ॥ २३ ॥ ततो वायुधरावारिसंज्ञं यच्चाक्षरत्रयम्। पौनःपुन्येन सर्वेषामधोभागे नियोजयेत् ॥ २४ ॥ सर्वे षष्ठस्वरारूढा अनुस्वारविभूषिताः। बोद्धव्याः केशवादीनां बीजास्त्वेते पृथक् पृथक् ॥ २५ ॥ अथ केशवादीनां द्वादशबीजान्याह—त्रिधेति सार्धैस्त्रिभिः। आदौ त्रिधा त्रिवारं हकारं विलिख्य, तथैव जीवबीजं सकारं विलिख्य, ककारं क्षकारं तद्वत् त्रिधा विलिखेत्। एवं बीजानां द्विषट्कमादौ निवेश्य वायुधरावारिसंज्ञं यदक्षरत्रयं यकार- लकारवकारत्रयम्, सर्वेषां पूर्वं विलिखितद्वादशबीजानामधोभागे पौनःपुन्येन योजयेत्। सर्वे षष्ठस्वरारूढा ऊकारान्विताः, अनुस्वारविभूषिता बिन्दुयुक्ताः केशवादिबीजा ज्ञेयाः। तथा चैवं प्रयोगः—ह्यूं ह्लूं ह्वूं स्यूं स्लूं स्वूं क्यूं क्लूं क्वूं क्ष्यूं क्ष्लूं क्ष्ष्वूं इति। अयमेवार्थः पारमेश्वरेऽपि सुस्पष्टमुपबृंहितश्चतुर्विंशेऽध्याये— क्रमशः केशवादीनां मन्त्राणां लक्षणं शृणु। नवमं चाष्टमं नेमावराद्यं मातृकान्तिमम् ॥ त्रिधैकैकं क्रमात् कृत्वा बीजद्वादशकं यथा। पौनःपुन्येन सर्वेषां यलवान् योजयेदधः ॥ नाभिषष्ठासनोर्ध्वस्थानङ्गयेद् बिन्दूनोपरि। तारादिहृदयान्तानि संज्ञाभिस्तुर्यया सह ॥ केशवः प्रथमो वाच्यस्ततो नारायणः परः। माधवश्चैव गोविन्दो विष्णुश्च मधुसूदनः॥ त्रिविक्रमो वामनाख्यः श्रीधरः पद्मलोचनः। हृषीकेशः पद्मनाभो दामोदर इति श्रुतः॥
अष्टमः परिच्छेदः १६७ बीजैर्दीर्घस्वरोपेतैः प्राग्वदङ्गानि कल्पयेत् । इति । —(पा०सं० २४।७७-८२) अत्र नेमौ नवमं हकारमित्यर्थः । अष्टमं सकारम् । अराद्यं ककारम् । मातृका- न्तिमं क्षकारमित्यर्थः । नाभिपष्ठासनोध्वंस्थानि ऊकारान्वितानीत्यर्थः । हृदयान्तानि नमःपदान्तानीत्यर्थः । एवं च सात्वतोक्तं पारमेश्वरोक्तं चैककण्ठ्यम् । पारमेश्वरे व्याख्याने तु—सं हं कं क्षं सं हं कं क्षं सं हं कं क्षं इति केशवादिबीजानि लिखितानि । तान्यपहास्यानि, यतो हकारात् पूर्वं सकारलेखनं हकारादीनां प्रत्येकं त्रिधा त्रिधा लेखनं विना परस्परवर्णव्यवहितलेखनं बीजैकदेशमात्रमपि लेखनं चोन्मत्तकार्यम् ॥२२-२५॥ अब केशवादिकों के बीज मन्त्रों को कहते हैं—तीन बार हकार लिखे फिर तीन बार जीव बीज (सकार) लिखे इसी प्रकार तीन बार ककार और क्षकार लिखे। इसी प्रकार १२ बीजाक्षरों को लिखकर वायु, धारा एवं वारिसंज्ञक यकार, लकार तथा वकार इन तीनों को एक-एक कर द्वादश बीजों में संयुक्त करे । उसके बाद उन सभी पर षष्ठ स्वर (ऊकार) लगा देवे । तदनन्तर उसे अनुस्वार से विभूषित कर देवे । इस प्रकार केशवादि के मन्त्र निष्पन्न हो जाते हैं । बीज मन्त्रों का स्वरूप ह्यूं ह्लूं ह्वूं, स्यूं स्लूं स्वूं, क्युं क्लूं क्वूं, क्ष्यूं क्ष्लूं क्ष्वूं—ये केशवादि के द्वादश बीज मन्त्र हैं ॥ २२-२५ ॥ क्षसहत्रितयं ह्येतच्चतुर्धा विलिखेत् क्रमात् । ततो द्विषट्कं बीजानां तस्याधो विनिवेश्य च ॥ २६ ॥ क्रमेण सप्तमाद् वर्गाद् द्वितीयं च चतुर्थकम् । पुनस्तृतीयं तुर्यं च द्वितीयं च तृतीयकम् ॥ २७ ॥ द्वितीयं च चतुर्थं च चतुर्थं तदनन्तरम् । तृतीयमष्टमाच्चाथ तृतीयं सप्तमात् पुनः ॥ २८ ॥ नवमद्वादशाभ्यां तु विशेषमिममाचरेत् । अथो नियोजयेद् रेफं तत्त्रयाणां तु मूर्धनि ॥ २९ ॥ षट्सप्तमाष्टसंज्ञानामीकारमुपरि न्यसेत् । सानुस्वारं च सर्वेषामिति देवीगणस्य च ॥ ३० ॥ बीजद्वादशकं प्रोक्तं यथा चानुक्रमेण तु । श्रीश्च वागीश्वरी कान्तिः क्रियाशक्तिर्विभूतयः ॥ ३१ ॥ इच्छा प्रीती रतिश्चैव माया धीर्महिमेति च । ततः केशवादिदेवीनां बीजद्वादशकमाह—क्षसहत्रितयमित्यादिभिः । क्षसहत्रयं क्षकारसकारहकारत्रयमपि क्रमेण चतुर्धा चतुर्वारं विलिखेत् । एवं कृते बीजानां द्विषट्कं भवति । तेषां बीजानामधस्तात् क्रमेण सप्तमाद्वर्गाद् यरलवात्मकाद् द्वितीयं
१६८ सात्वतसंहिता रेफम्, चतुर्थकं वकारम्, तृतीयं लकारम्, तुर्यं वकारम्, द्वितीयं रेफम्, तृतीयकं लकारम्, द्वितीयं रेफम्, चतुर्थं वकारम्, पुनश्चतुर्थं वकारम् । अष्टमात् शकारादि- वर्णात्मकाद् वर्गात् तृतीयं सकारम् । सप्तमात् पूर्वोक्ताद् वर्गात् तृतीयं लकारं पुनरित्यनेन पुनश्च लकारमेव नियोजयेत् । नवमद्वादशाभ्यां बीजाभ्यामधो रेफं नियोजयेत् । षट्सप्ताष्टसंज्ञानां बीजानां तु मूर्ध्नि रेफं नियोजयेत् । अयमेव विशेषः— सर्वेषां द्वादशबीजानामप्युपरि सानुस्वारम् ईकारं न्यसेत् । एवं बीजद्वादशकमुक्तं भवति । एषां बीजानां क्रमेण वाच्याः श्रीवागीश्वर्यादयः । अयमेवार्थः सुव्यक्तमुप- बृंहितः पारमेश्वरेऽपि— तेषां श्रियादिकान्तानां शृणु मन्त्राननुक्रमात् ॥ मातृकान्त्यत्रयं क्षाद्यं चतुर्धा प्रस्तरेत् पुरा । द्विषट्सु योज्यान्यर्णानि त्वधोभागे यथाक्रमम् ॥ अग्न्यम्बुपृथिवीवारिवह्निभूज्वलनाः क्रमात् । वारिद्वयं च सोमं च पार्थिवद्वितयं ततः ॥ योजयेदनलं वर्गं षट्सप्ताष्टसु मूर्धनि । अथो नवद्वादशयोः सर्वेषां चोर्ध्वतः पुनः ॥ स्वरशक्त्या समेतेन नाभ्यन्ताद्येन भूषयेत् । स्वरजात्यादियुक्तानि बीजानि सुहृदादयः ॥ (२४।८२-८६) इति । तथा चात्रैवं प्रयोगः—क्ष्रीं स्वीं हलीं, क्ष्वीं स्त्रीं हर्ली, क्ष्रीं स्वीं ह्रीं, क्षसीं स्लीं हलीं इति ॥ २६-३२ ॥ अब केशवादि की देवियों का द्वादश बीज कहते हैं—क्ष स ह इन तीन अक्षरों को चार बार लिखे । ऐसा करने से बारह बीज हो जाते हैं । फिर बीजों के नीचे क्रमशः सप्तम वर्ग (= य वर्ग) के (य र ल व वर्णों के) द्वितीय वर्ण र, चतुर्थ वर्ण वकार, तृतीय वर्ण लकार और चतुर्थ वर्ण वकार एवं अष्टम शकारादि वर्ग से तृतीय सकार पूर्वोक्त सप्तम वर्ग से तृतीय लकार पुनश्च लकार से संयुक्त करे । फिर नवम एवं द्वादश बीज के नीचे रेफ संयुक्त करे और छ, सात एवं अष्ट संज्ञक बीजों के ऊपर रेफ लगावे यह विशेष है । सभी द्वादश बीजों के ऊपर सानुस्वार ईकार लगावे । इस प्रकार केशवादि की देवियों के बारह बीज निष्पन्न हो जाते हैं । इन बीजों के श्री एवं वागीश्वरी इत्यादि बारह देवियाँ वाच्य हैं । इन मन्त्रों का स्वरूप इस प्रकार है—क्ष्रीं स्वीं हलीं, क्ष्वीं स्त्रीं हर्ली, क्ष्रीं स्वीं ह्रीं, क्षसीं स्लीं ह्रीं इति ॥ २५-३१ ॥ अब इनसे वाच्यभूत बारह देवियों को कहते हैं—श्री, वागीश्वरी, कान्ति, क्रिया, शक्ति, विभूति, इच्छा, प्रीति, रति, माया, धी एवं महिमा ये बारह देवियाँ इन मन्त्रों से वाच्य है ॥ ३२ ॥ समुद्रमूर्तये स्वाहा पद्मस्य प्रणवादिकः ॥ ३२ ॥ सर्वान्तश्चारिणे कृत्वा ततो गगनमूर्तये ।
अष्टमः परिच्छेदः १६९ स्वाहान्तः प्रणवाद्यश्च मन्त्रः शङ्खस्य कीर्तितः ॥ ३३ ॥ ॐकारो वेदमात्रेऽथ विद्ये स्वाहा पदं तु वै । गदामन्त्रस्त्वयं प्रोक्तश्चक्रस्याथ निगद्यते ॥ ३४ ॥ ॐकारान्ते पदं दद्यात् पञ्चार्णं प्रभविष्णवे । तदन्ते कालशब्दं तु मूर्त्तये हुँ ततस्तु फट् ॥ ३५ ॥ पद्मादीनां चतुर्णां तु एतन्मन्त्रचतुष्टयम् । अथ पद्मशङ्खगदाचक्राणां मन्त्रचतुष्टयमाह—समुद्रमूर्तय इत्यादिभिः । तथा चात्रैवं प्रयोगः—ॐ समुद्रमूर्तये स्वाहा, ॐ सर्वान्तश्चारिणे गगनमूर्तये स्वाहा, ॐ वेदमात्रे विद्यायै स्वाहा, ॐ प्रभविष्णवे कालमूर्तये हुँ फट् इति । अत्र समुद्रस्य पद्माधिष्ठातृत्वात्, गगनस्य शङ्खाधिष्ठातृत्वात्, सरस्वत्या गदाधिष्ठातृत्वात्, कालस्य चक्राधिष्ठातृत्वाच्च समुद्रमूर्तादिशब्दैः पद्मादीन्युक्तानीति बोध्यम् । समुद्रादीनां पद्माद्यधिष्ठातृत्वं त्रयोदशपरिच्छेदे वक्ष्यमाणं द्रष्टव्यम् । इदं पद्मादिमन्त्रचतुष्टयं वासुदेवादिव्यूहार्चने केशवादिव्यूहान्तरार्चने च कार्यम् । विभवार्चने तु प्रकारान्तरेण वक्ष्यमाणायुधमन्त्रा ग्राह्याः । अत एवास्मत्तातपादैः सात्वतामृते नारायणमूर्त्यर्चनप्रकरणादिदमेव पद्मादिमन्त्रचतुष्टयं प्रतिपादितम् ॥ ३२-३६ ॥ अब पद्म, शङ्ख, गदा तथा चक्र के चार मन्त्रों को कहते हैं—'ॐ समुद्र मूर्त्तये स्वाहा' यह पद्म का मन्त्र है । 'ॐ सर्वान्तश्चारिणे गगनमूर्त्तये स्वाहा' यह शङ्ख का मन्त्र है । 'ॐ वेदमात्रे विद्यायै स्वाहा' यह गदा का मन्त्र है तथा 'ॐ प्रभविष्णवे कालमूर्त्तये हुं फट्' यह चक्र का मन्त्र है । इस प्रकार इन चारों आयुधों के चार आयुध-मन्त्र कहे गये ॥ ३२-३६ ॥ सर्वमन्त्रसाधारणाञ्जलिमुद्राकथनम् सामान्या सर्वमन्त्राणामेका मुद्राञ्जलिः कृता ॥ ३६ ॥ स्वेन स्वेन तु मन्त्रेण संयुक्तानां प्रयोजयेत् । श्लिष्टौ विकसितौ हस्तौ योज्यौ चामणिबन्धनात् ॥ ३७ ॥ अथ सर्वमन्त्रसाधारणाञ्जलिमुद्रामाह—सामान्येति । यद्यप्येवमञ्जलिमुद्राया एव सर्वसाधारणत्वोक्त्या सर्वत्रेयमेव प्रयोक्तव्या, तथाप्यत्रैव कतिपयमुद्राविशेषाणां नृसिंहकल्पादिषु वक्ष्यमाणत्वात् तदनुरोधे (च ? न) सात्वतोपबृंहणे ऐश्वरतन्त्रे च केषाञ्चिन्मुद्राविशेषाणां प्रदर्शितत्वाच्च तद्व्यतिरिक्तानां केवलमञ्जलिमुद्रैव प्रदर्शनीयेति बोध्यम् ॥ ३६-३७ ॥ तद्बाहुकूर्परौ द्वौ च नाभौ संरोध्य दण्डवत् । ईषद् वै डोलयेत् पश्चादथ ऊर्ध्वे च तौ करौ ॥ ३८ ॥ गुप्तिं कृत्वा तु योज्यैषा मुद्राऽऽराधनकर्मणि । सा० सं० - 15
१७० सात्वतसंहिता आराधनकाले प्रयोज्यां मुद्रामाह—श्लिष्टाविति द्वाभ्याम् । स्वहस्तौ परस्पर- संश्लिष्टौ विकसितौ च कृत्वा तद्बाहुकूर्परौ द्वौ मणिबन्धपर्यन्तं निरन्तरं संयोज्य दण्डवत् स्वनाभौ संरोध्य हस्तौ अध ऊर्ध्वं च किञ्चिच्चालयेत् । एषा मुद्रा गुप्तिं कृत्वा योज्या, गोप्येत्यर्थः ॥ ३७-३९ ॥ अब इसके बाद सर्वमन्त्र साधारण अञ्जलि मुद्रा कहते हैं, इन्हें अपने-अपने मन्त्र के साथ संयुक्त कर प्रयोग करना चाहिए । अब मुद्रा निर्माण का प्रकार कहते हैं—दोनों हाथों को फैला कर परस्पर मिला देवे । दोनों बाहुओं के कूर्पर को मणिबन्ध पर्यन्त नाभि में रोक कर दण्ड के समान स्थापित करे फिर ऊपर कुछ- कुछ चलाते रहे, यह अञ्जलि मुद्रा है । इस मुद्रा को आराधन कर्म में छिपाकर करना चाहिये ॥ ३६-३९ ॥ आसाद्य प्राक्स्थितामर्चां स्वयं वासमपृष्ठताम् ॥ ३९ ॥ सर्वलक्षणसम्पन्नां यस्यां चेतः प्रसीदति । व्रताराधनार्थं स्वयंव्यक्तान्यतमबिम्बं सलक्षणं सुप्रतिष्ठितं बिम्बं वा स्वेच्छानुसा- रेण प्राप्यमित्याह—आसाद्येति ॥ ३९-४०॥ अब व्रत की आराधन के लिये बिम्ब का प्रकार कहते हैं—साधक आराधना के लिये स्वयं व्यक्त बिम्ब अथवा अन्य स्थापित बिम्ब जो सुलक्षण हो एवं प्रतिष्ठित हो अथवा जिसे देख कर अपना मन प्रसन्न हो जाता हो, ऐसे बिम्ब को प्राप्त करे ॥ ३९-४० ॥ हेमादिनिर्मितं कुर्यात् पीठं वा लक्षणान्वितम् ॥ ४० ॥ शमं त्रिभागन्यूनं वा द्वादशाङ्गुलविस्तृतम् । चतुरश्रं चतुष्पादं विस्तरार्धेन चोन्नतम् ॥ ४१ ॥ तृतीयं भागमादाय विस्तराच्च स्वकं स्वकम् । तेन तन्मध्यगं कुर्यात् कमलं लक्षणान्वितम् ॥ ४२ ॥ द्विषट्कारं तु तद्बाह्ये चक्रं सर्वाङ्गचिह्नितम् । सिद्धामरनरादीनां हृदयस्थाऽक्षयाऽच्युती ॥ ४३ ॥ मृदूच्चचरणाक्रान्तिनिर्मुक्ताऽऽकृतिलक्षणा । पादाम्बुरुहमुद्राऽथ कार्या वै कर्णिकोदरे ॥ ४४ ॥ बिम्बं विनाऽर्चनार्थं केवलपीठं वा कुर्यादिति तल्लक्षणमाह—हेमादिनिर्मित- मित्यादिभिः । शमं चतुरङ्गुलविस्तृतमित्यर्थः । ‘‘शमः स्याच्चतुरङ्गुलः’’ (३।१। ५२) इति वैजयन्ती । सममिति पाठे समं निम्नोन्नतत्वरहितमित्यर्थः । यद्वा आयाम- विस्तराभ्यां सममित्यर्थः । त्रिभागन्यूनं वा अष्टाङ्गुलं वेत्यर्थः । द्वादशाङ्गुलस्य त्रिष्वेकभागराहित्येऽष्टाङ्गुलं भवति । एवमुक्तं द्वितीयपरिच्छेदेऽपि—‘‘मृत्काष्ठोपल-
अष्टमः परिच्छेदः १७१ धातूत्थमेकद्वित्रिशमं तु वा'' (२।४७) इति । द्विषट्कारं द्वादशारमित्यर्थः । सिद्धा- मरनरादीनां हृदयस्था, तेषां ध्यानविषयीभूतेत्यर्थः । अक्षया अन्तरहिता, आच्युती भगवदीया, चरणाक्रान्तिनिर्मुक्ताकृतिलक्षणा चरणयोर्राक्रान्तिराक्रमणं पदन्यास इति यावत्, तेन निर्मुक्ता या आकृतिस्तल्लक्षणा, तथेत्यर्थः । भगवत्पादपद्मस्यातिकोम- लत्वेऽपि तत्सुखस्पर्शपीठपद्मस्य ततोऽप्यतिशयितमृदुत्वात् तदुपरि पादलाञ्छनं स्फुटी- भवतीति ज्ञेयम् । पादाम्बुरुहमुद्रा पद्मसदृशश्रीपादद्वन्द्वलाञ्छनमित्यर्थः ॥ ४०-४५ ॥ यदि बिम्ब प्राप्त न हो तब बिम्ब के बिना केवल पीठ पर ही अर्चना करे जो हेमादि निर्मित हो, सुलक्षण हो, चार अङ्गुल, अथवा आठ अङ्गुल, अथवा बारह अङ्गुल विस्तार वाला हो, चौकोर हो, चतुष्पद हो, उसकी विस्तार की अपेक्षा ऊँचाई आधी हो ॥ ४०-४१ ॥ अपने-अपने विस्तार के अनुसार अपना-अपना तृतीय भाग लेकर उसके मध्य में सुलक्षण कमल निर्माण करे ॥ ४२ ॥ उसके बाहर सर्वाङ्ग चिह्नित बारह अरे के चक्र का निर्माण करे । सिद्ध, देवता तथा मनुष्यों के चित्त को मोहित करने वाली अक्षया (अन्तरहिता) कोमलचरण के पदन्यास से अत्यन्त मनोहर आकृति वाली भगवदीया चरणकमल की मुद्रा उसके कर्णिका के भीतर निर्माण करे ॥ ४२-४४ ॥ सम्पाद्य चैवमाधारं पीठं वाऽर्च्रान्वितं स्मरेत् । पादाब्जमुद्रारहितं कुण्डं तदनु कल्पयेत् ॥ ४५ ॥ फुल्लपद्मसमाकारमोष्ठयोनिसमन्वितम् । चलमेकदिशिस्थं वा ततो नियममाचरेत् ॥ ४६ ॥ संवत्सरस्य पूजार्थं विभोर्वै द्वादशात्मनः । मार्गशीर्षात् समारभ्य मासाद्वै कौमुदान्तिमम् ॥ ४७ ॥ कुण्डलक्षणमाह—पादाब्जेति सपादेन । कुण्डस्य पादाब्जमुद्रारहितत्वोक्त्या केवलसचक्रपद्मलाञ्छनं कुण्डमध्येऽपि कार्यमित्युक्तं भवति । पादाब्जमुद्रारहित- मित्यस्य पूर्वेणैवान्वये पीठलक्षणस्यैव पक्षान्तरमुक्तं भवति । ओष्ठयोनिसमन्वित- मित्यत्र तल्लक्षणं कुण्डलक्षणप्रकरणे वक्ष्यमाणं ज्ञेयम् । चलं जङ्गमरूपमित्यर्थः । एकदिशिस्थं स्थावरमित्यर्थः । तथा च पारमेश्वरे—''तस्मात् कुण्डं सदा कार्यं सौत्रं वा जङ्गमं स्थिरम् (७।३) इति । व्रताचरणमाह—तत इति सपादेन । द्वादशात्मनः केशवादिरूपस्येत्यर्थः ॥ ४५-४७ ॥ इस प्रकार आधार पीठ का सम्पादन कर उस पर अर्चा से संयुक्त भगवान् का स्मरण करे । इसके पश्चात् पादाब्जमुद्रा से रहित कुण्ड का निर्माण करे जो विकसित कमल के सदृश हो, ओष्ठ योनि से समन्वित हो और जङ्गम स्वरूप वाला हो तथा एक दिशा में स्थित हो ॥ ४५-४६ ॥
१७२ सात्वतसंहिता इसके बाद साधक व्रताचरण करे। केशवादि रूप वाले द्वादशात्मा विभु की पूजा के लिये मार्गशीर्ष मास से आरम्भ कर कौमुद मास पर्यन्त व्रताचरण आदि नियमों का पालन करे ॥ ४७ ॥ मासेशमन्त्रसंजप्तं युक्तं हेमकुशाम्बुना। दशम्यां पञ्चगव्यं च पिबेत् सम्पूज्य केशवम् ॥ ४८ ॥ तन्निवेदितमन्नं च प्राग्भुक्त्वा तु घृतादिकम्। नातीव तृप्तिजनकं दन्तकाष्ठमथाचरेत् ॥ ४९ ॥ शयनं मन्त्रतोयेन प्रोक्षयेत् सकुशं ततः। शयनस्थो जपेन्मन्त्रं शतमष्टाधिकं तु वै ॥ ५० ॥ मार्गशीर्षशुक्लदशम्यां रात्रौ कर्तव्यक्रममाह—मासेति सार्धत्रिभिः। मासेश- मन्त्रसंजप्तम्, प्रकृतमासेशः केशवः, तन्मन्त्राभिमन्त्रितमित्यर्थः ॥ ४८-५०॥ अब मार्गशीर्ष शुक्ल दशमी की रात्रि का कर्तव्य कर्म कहते हैं—मासेश मन्त्र (केशव मन्त्र) का कुशा के जल से अभिमन्त्रित कर जप करे। केशव का जप कर पञ्चगव्य पान करे। भगवान् को निवेदित अन्न तथा घृतादि का भोजन करे जो बहुत अधिक न हो। इसके बाद दतुअन करे। अपने शयन को सकुश मन्त्र जल से प्रोक्षित करे। फिर शयन पर स्थित हो कर १०८ की संख्या में मन्त्र का जप करे ॥ ४८-५० ॥ एकादश्यां प्रभातेऽथ मध्याह्ने वा दिनक्षये। केशवाय नमस्कुर्याद् बहुशः प्रणवादिकम् ॥ ५१ ॥ एकादश्यां केशवस्य कालत्रयस्यार्चनमाह—एकादश्यामिति सार्धेन। केशवाय नमस्कुर्याद् बहुशः प्रणवादिकमित्यन्तेन ॐ केशवाय नम इति मन्त्रमसकृज्जपेदित्युक्तं भवति ॥ ५१ ॥ फिर एकादशी के दिन प्रातःकाल, अथवा मध्याह्न, अथवा सायङ्काल के समय केशव को नमस्कार करे और अनेक बार प्रणवादि का जप करे ॥ ५१ ॥ तस्य वै पूजनं भक्त्या कुर्यात् कालत्रयं तु वै। सर्वगं परमं ज्योतिरमूर्तममलं हि यत् ॥ ५२ ॥ स एव वासुदेवेति मत्वा सम्यग् यजेत् ततः। चेतसामृतसंकाशैः पुष्पाद्यैरखिलैः प्रभुम् ॥ ५३ ॥ पश्चात् तममलं धाम ध्यायेन्मुक्तमनश्वरम्। श्रोणीतटार्पितकरं सानुकम्प्यमनूपमम् ॥ ५४ ॥ दक्षिणेन तु हस्तेन भक्तानामभयप्रदम्।
अष्टमः परिच्छेदः १७३ पुष्पाभरणवस्त्राढ्यं शङ्खचक्रद्वयान्वितम् ॥ ५५ ॥ ततस्तस्मात्तु वै धाम्नो युगपन्निस्सृतं स्मरेत् । महत्स्फुलिङ्गसंकाशं महस्तु सततोदितम् ॥ ५६ ॥ तेन चाक्रमरावृन्दं समाक्रान्तं च भावयेत् । अथ प्रत्येकतेजोंऽशादुद्भूतं भावयेत् क्रमात् ॥ ५७ ॥ त्रयं त्रयं सिताद्यं च केशवाद्यं चतुर्भुजम् । अथ परात्परवासुदेवस्य मानसार्चनपूर्वकं मूर्तिध्यानम्, तस्माद्वासुदेवाद्दिव्यूहो- त्पत्तिकथनम्, तेभ्यः केशवादीनामुत्पत्तिभावनां चाह—सर्वगं परमं ज्योतिरित्यादिभिः। अत्र 'त्रयं त्रयं सिताद्यम्' इत्यनेन केशवादित्रिकस्य वासुदेववत् सितवर्णत्वं गोविन्दादि- त्रिकस्य सङ्कर्षणवद्रक्तवर्णत्वं चोक्तं भवति । तथा च पौष्करे पञ्चत्रिंशेऽध्याये— मूर्तित्रयमिदं दिव्यं कुन्देन्दुस्फटिकप्रभम् । भगवद्वासुदेवेन सहास्य चतुरात्मता ॥ त्रयमेवं हि देवानां सह वै ज्ञानमूर्तिना । चातुरात्म्यद्वितीयं तु पद्मरागोज्ज्वलद्युति ॥ मूर्तित्रितयमेतद् वै सहजस्वामिना द्विज । हेमधामप्रभं ज्ञेयं चातुरात्म्यतया स्थितम् । अतसीपुष्पसंकाशमिदं मूर्तिगणं स्मृतम् । सहानिरुद्धदेवेन अस्यापि चतुरात्मता ॥ इति । —(३६।१५०, १५६, १६२, १६८) पारमेश्वरे तु सुदर्शननारसिंहयन्त्रप्रकरणे (२३।७२-७८) पौष्करोक्तक्रमं विहायाहिर्बुध्न्यसंहि(तायामु?तो)क्तरीत्या केशवादीनां वर्णभेदा उक्ताः । तत्रापि तथा ध्यानं यन्त्रमात्रविषयम् । अन्यत्र पौष्करोक्तध्यानमेव सार्वत्रिकं ग्राह्यम्, पौष्करोप- बृंहणत्वात् ॥ ५२-५८ ॥ भगवान् केशव का तीनों कालों में भक्तिपूर्वक पूजन करे । जो सर्वग परम ज्योति-अमूर्त एवं अमल हैं, वही वासुदेव हैं ऐसा मान कर उनका यजन ठीक तरह से करे । इसके पश्चात् मुक्त एवं अनश्वर उन अमल धाम विष्णु का ध्यान करे जिनका एक बायाँ हाथ नितम्ब प्रदेश पर तथा दूसरा दाहिना हाथ अनुकम्पापूर्वक भक्तों को अभय प्रदान करने वाला है ॥ ५२-५५ ॥ भगवान् केशव पुष्प के आभरणों से शोभित हो रहे हैं और शङ्ख एवं चक्र से युक्त हैं । इस प्रकार भगवान् के उस धाम से निकलते हुए बहुत बड़े स्फुलिङ्ग के समान सतत उदीयमान तेज का स्मरण करे ॥ ५५-५६ ॥ चक्र के ऊपर स्थित समस्त देवताओं को उस तेज से आक्रान्त होते हुए ध्यान करे । फिर उस तेज से प्रत्येक अंश से निकलते हुए वासुदेव के समान सितवर्ण वाले चतुर्भुज केशवादि तीन-तीन का ध्यान करे ॥ ५६-५८ ॥
१७४ सात्वतसंहिता दक्षिणोत्तरपाणिभ्यां पृष्ठतः केशवादिषु ॥ ५८ ॥ युग्मं युग्मं परिज्ञेयं क्रमेणोर्ध्वगतं त्विदम् । शङ्खचक्रकजं विद्या साथ शङ्खोऽथ हेतिराट् ॥ ५९ ॥ तच्छङ्खं सकजं विद्याऽशङ्खं चक्रं गदा त्वरि । गदा चक्रं कजं पद्मं चक्रं शङ्खं ततो गदा ॥ ६० ॥ केशवादीनां पश्चात्करद्वयस्थितलाञ्छनक्रममाह—दक्षिणोत्तरेति सार्धद्वाभ्याम् । कजं = पद्ममित्यर्थः । विद्या = गदेत्यर्थः । तद् अम्बुजं = सशङ्खमित्यर्थः । विद्याशङ्खमिति पदच्छेदः । अशङ्खं = चक्रमित्यर्थः । यतोऽन्यथा त्रिविक्रमस्य शङ्खद्वयसाधारणं भवति । ननु किं तावता प्रत्यवाय इति चेन्न, प्रत्येकमायुध- चतुष्टयधारणनियमात् । विद्या चक्रमिति पाठश्रेदेवं क्लिष्टकल्पनश्रम एव नास्ति । अरि चक्रमित्यर्थः ॥ ५८-६० ॥ अब केशवादि के पश्चात् दो-दो हाथों में स्थित लाञ्छन कहते हैं—ऊर्ध्व के दक्षिण एवं उत्तर पाणि में क्रमशः दो-दो लाञ्छन इस प्रकार है—शङ्ख, चक्र, कज (पद्म), विद्या (गदा), शङ्ख, हेतिराट् (चक्र), शङ्ख, पद्म, विद्या, चक्र, चक्र, गदा, अरि (चक्र), गदा, चक्र, कज (पद्म), पद्म, चक्र, शङ्ख, गदा ॥ ५८-६० ॥ तद्वद् भूयोऽग्रसंस्थाभ्यामधरस्थं द्वयं द्वयम् । ज्ञेयं दामोदरान्तानां द्वादशानामिदं शृणु ॥ ६१ ॥ पद्मं गदा ध्वनिश्चक्रं तत्पद्मं हेतिराड् ध्वनिः । विद्या चक्रं च तद्विद्यात् पद्मं शङ्खं च साऽम्बुजम् ॥ ६२ ॥ पद्मध्वनिगदाशङ्खाः सविद्याम्बुरुहं त्वरि । अथ मुख्यहस्तद्वयस्थितायुधक्रममाह—तद्वदिति सार्धद्वाभ्याम् । ध्वनिः शङ्ख- मित्यर्थः । तत् चक्रमित्यर्थः पुनः तच्चक्रमित्यर्थः । स शङ्ख इत्यर्थः । पुनः स शङ्ख इत्यर्थः । एवं च पद्मगदाशङ्खचक्राख्यायुधचतुष्टयधारणं केशवादिद्वादशमूर्तीनामपि समानम्, किन्तु हस्तभेदैस्तद्धारणमेव तत्तन्मूर्तेर्विशेषः । स च तन्त्रभेदेन नैकरूपः । वस्तुतस्तु पाद्मोक्त एव प्रायेणैतदेककण्ठो भवति तथाहि— केशवस्याम्बुजं शङ्खं चक्रं दण्डस्थायुधम् । प्रादक्षिण्येने बाहूनामन्येषामुच्यते क्रमात् ॥ नारायणः शङ्खपद्मगदाचक्रधरः स्मृतः । माधवो गदया सार्धं शङ्खचक्राम्बुजायुधः ॥ गोविन्दश्चक्रदण्डाब्जशङ्खायुधधरो भवेत् । विष्णुर्गदाब्जशङ्खारिधरः स्यान्मधुसूदनः ॥ चक्रशङ्खाब्जदण्डास्त्रधरः कार्यस्त्रिविक्रमः । पद्मशङ्खारिदण्डास्त्रो वामनः शङ्खचक्रधृक् ॥ गदाब्जपाणिश्च तथा श्रीधरो धृतवारिजः ।
अष्टमः परिच्छेदः १७५ सार्धं चक्रगदाशङ्खो हृषीकेशमतः शृणु ॥ गदाचक्राब्जशङ्खास्त्रधरो दामोदरः स्मृतः । अब्जशङ्खगदाचक्रधरा द्वादश मूर्तयः ॥ इति । अत्र त्रिविक्रमपद्मनाभोक्तलक्षणं विनाऽन्यत् सर्वमेकरूपं ज्ञेयम् । नन्वेतदुक्तं नारायणमूर्तिलक्षणं यादवाचलस्थनारायणमूर्ती न लक्ष्यत इति चेत्, सत्यम् । न तावता प्रत्यवायोऽस्ति, स्वयं व्यक्तस्य निरङ्कुशत्वात् । ननु स च नारायण- मूर्तिरेवेत्यत्र किं विनिगमकमिति चेत्, अस्ति पौराणिकी प्रसिद्धिः । न च पौराणिक- नारायणशब्दस्य व्यापकत्वान्न मूर्तिनिर्णायकत्वमिति वाच्यम्, केशवः केशिहा लोके कुरुक्षेत्रादिषु स्थितः । नारायणो मुनिश्रेष्ठाः स्थितो नारायणाचले ॥ —(पौ० सं० ३६।३०६, ई०सं० २०१२१-२२) इति पौष्करेश्वरयोर्मूर्तिविशेषनियतशब्देनैव व्यक्तोक्तेः । किञ्च, पौष्करोक्तं नारायणमूर्तिलक्षणं यादवाचलस्थनारायणे लक्ष्यत एव । तथाहि— सव्यापसव्यहस्ताभ्यां मुखाभ्यां तु गदाम्बुजे ॥ वामादौ शङ्खचक्रौ तु संधत्ते पश्चिमद्वये । नारायणाख्यो भगवान् (पौ०सं० ३६।१४७-१४८) इति । ननु तत्र मुख्यदक्षिणहस्तेऽम्बुजमपि न लक्ष्यत इति चेत्, अस्ति सूक्ष्मरेखारूपं कमलं तत्रेति सन्तोष्टव्यमायुष्मता । वक्ष्यति हि द्वादशे परिच्छेदे— यस्मात् कार्यवशेनैव मूर्तीनामपि पाणिगाः । चतुःपद्मादयो मूर्ता मूर्ताः शान्तास्तथोद्यताः ॥ (१२।१४५) इति। नास्त्रैर्वस्त्रैर्ध्वजैर्येषां व्यक्तिर्व्यक्ता जगत्त्रये ॥ तेऽपि लाञ्छनवृन्दं तु धारयन्त्यङ्घ्रिगोचरे । ललाटे चांसपट्टे तु पृष्ठपाणितलद्वये ॥ तनूरुहद्वये मूर्ध्नि कर्मिणां प्रतिपत्तये । —(१२।१६८-१७०) इति । अत एवेश्वरनारायणार्चनप्रकरणे षडङ्गन्यासादिकमप्युक्तम् । अलं प्रसङ्गेन ॥ ६१-६३ ॥ अब दामोदरान्त के मुख्य दोनों हाथों में धारण किये हुए दो-दो आयुधों को कहते हैं—पद्म, गदा, ध्वनि (शङ्ख), चक्र, पद्म, चक्र, शङ्ख, विद्या, चक्र, पद्म, शङ्ख, कमल, पद्म, शङ्ख, गदा, शङ्ख, गदा, कमल, चक्र । ये मुख्य दो-दो हाथों के लाञ्छन हैं । विमर्श—१. वासुदेव—केशव, नारायण, माधव—श्री, वागेश्वरी, कान्ति । २. सङ्कर्षण—गोविन्द, विष्णु, मधुसूदन—क्रिया, शक्ति, विभूति । ३. प्रद्युम्न— त्रिविक्रम, वामन, श्रीधर—इच्छा, प्रीति, रति । ४. अनिरुद्ध—हषीकेश,
१७६ सात्वतसंहिता
पद्मनाभ, दामोदर—माया, धी, महिमा । इस प्रकार द्वादश व्यूह देवता के त्रिक हैं ॥ ६१-६३ ॥ भूयो धामगणात् तस्मात् संस्मरेन्निस्सृतं महः ॥ ६३ ॥ केशवादिविभागेन श्रियाद्यं च त्रयं त्रयम् । अथ केशवादिपत्नीवर्गस्योत्पत्तिमाह—भूय इति। तस्माद्धामगणाद् वासुदेवादि- मूर्तिचतुष्टयादित्यर्थः । एवमेवोक्तं पाद्मेऽपि— सुदर्शनाद्यायुधानि किरीटादिविभूषणम् । मूर्त्याविर्भावसमये सहैवैतानि जज्ञिरे ॥ देव्यः श्रियादयस्तत्तन्मूर्तिभेदसमाश्रिताः । श्रीवत्सादेव सकला जज्ञिरे दिव्यलाञ्छनात् ॥ इति ॥ ६३-६४ ॥ अब केशवादि पत्नी वर्ग की उत्पत्ति कहते हैं—पुनः उस महान् धाम वाले वासुदेवादि से उत्पन्न केशवादि वर्ग के विभाग वाले तीन-तीन तेज उत्पन्न हुए । श्रियादि तीन एवं कमलादि तीन इत्यादि (द्र. ८.३१+३२) हैं ॥ ६३-६४ ॥ कमलादित्रयेणैव त्वन्योन्यत्वेन लाञ्छितम् ॥ ६४ ॥ बद्धपद्मासनस्थं च दिवि दिक्षु च सम्मुखम् । संवीजयेत् तु विनयाच्चामरेण सितेन च ॥ ६५ ॥ देवीद्वादशकं विशिनष्टि—कमला(दि?दी)ति सार्धेन ॥ ६४-६५ ॥ ये कमलादि तीन तीन देवियाँ आकाश में एवं दिशाओं में पद्मासन बाँध कर सबके सामने खड़ी हैं । साधक विनयपूर्वक इन्हें चामर के पङ्ख से पङ्खा झले ॥ ६५ ॥ देवीद्वादशकं चैव तासां रूपमथोच्यते । पूर्णचन्द्राननाः सर्वाः सर्वर्तुकुसुमान्विताः ॥ ६६ ॥ सर्वलक्षणसम्पन्नाः सर्वाभरणभूषिताः । विद्रुमाभं त्रयं त्वाद्यमपरं चम्पकप्रभम् ॥ ६७ ॥ प्रियङ्गुमञ्जरीश्यामं तृतीयं देवतात्रयम् । चतुर्थं त्रितयं ध्यायेज्जातीपुष्पसमप्रभम् ॥ ६८ ॥ आद्यायाः कमलं पाणावन्यस्या हेतिराट् करे । शङ्खं ध्यायेत्तृतीयस्या एवं ध्यायेत् त्रिषु त्रिषु ॥ ६९ ॥ चतुस्त्रिर्देवतान्तानामेवमाद्यं त्रयं क्रमात् । स्मृत्वा सम्पूजनं कुर्याज्जागरेण समन्वितम् ॥ ७० ॥ तद्रूपलाञ्छनादिक्रममाह—तासामित्यादिभिः । आद्यायाः श्रियः, अन्यस्यां वागीश्वर्याम्, तृतीयस्यां कान्त्याम्, त्रिषु त्रिषु क्रियादिकेच्छादित्रिके मायादित्रिके
चेत्यर्थः । चतुस्त्रिर्देवतान्तानां महिमान्तानामित्यर्थः । एवमाद्यं कमलादित्रयमेव पौनः- पुन्येन ध्यायेदित्यर्थः ॥ ६६-७०॥ अब इन द्वादश देवियों के रूप एवं लाञ्छन चिह्नों को कहता हूँ—ये सभी द्वादश देवियाँ पूर्णिमा के चन्द्रमा के समान मुख वाली हैं और सभी सर्वर्तु पुष्पों से शोभित हैं ॥ ६६ ॥ ये सभी सर्व लक्षण सम्पन्ना हैं और सर्वाभरणों से भूषित हैं । इनमें से आदि की तीन विद्रुम के समान आभा वाली हैं । इसके बाद दूसरी त्रिक वाली देवियाँ चम्पा के समान आभा वाली हैं । तृतीय देवी त्रय प्रियङ्गु की मञ्जरी के समान श्याम वर्ण वाली हैं । चौथी त्रितय देवियाँ जाती पुष्प के समान प्रभा वाली हैं । इस प्रकार इन बारह देवियों का ध्यान करे ॥ ६७-६८ ॥ आदि त्रिक वाली देवियों के हाथ में कमल है । अन्य दूसरी त्रिक वाली देवियों के हाथ में चक्र है, तीसरी त्रिक वाली देवयों के हाथ में शङ्ख है । इस प्रकार तीन त्रिक वाली देवियों के हाथ में तीन त्रिक का ध्यान करे । चौथे त्रिक वाली देवियों के हाथ में आद्य त्रिक के समान कमल है । एकादशी के दिन साधक इन देवियों का ध्यान कर जागरण समन्वित पूजन करे ॥ ६९-७० ॥ स्तोत्रैः कथानकैर्वाद्यैर्गीतकैः क्षपयेन्निशाम् । रात्रिक्षये ततः स्नायात् सिताम्बरधरः शुचिः ॥ ७१ ॥ एवं ध्यानपूर्वकमेकादश्यां कालत्रयार्चनं कृत्वा जागरणं कुर्यादित्याह— स्मृत्वेति ॥ ७०-७१ ॥ मासेशमन्त्रसन्नद्धं कृत्वा देवं स्मरेत् तथा । पूजापनयनं कृत्वा स्नानकर्म समाचरेत् ॥ ७२ ॥ द्वादश्यां प्रातः स्वनित्यकर्मानुष्ठानपूर्वकं तन्मासेशकेशवध्यानं रात्रौ तदर्पित- पूजाद्रव्यापनयनादिकं कृत्वाऽर्चनकाले वक्ष्यमाणं स्नपनं कुर्यादित्याह—रात्रिक्षय इति सार्धेन ॥ ७१-७२ ॥ स्तोत्र पाठ, कथानक, वाद्य और गीतों से साधक रात बितावें । रात्रि बीतने पर स्नान करे और श्वेत वस्त्र पहनकर शुद्ध होए । साधक द्वादशी के दिन स्वकर्मानुष्ठानपूर्वक तन्मासेश का ध्यान कर रात्रि में तदर्पित पूजा द्रव्यों का अपनयन करे और अर्चन काल होने पर स्नान कर्म करे ॥ ७१-७२ ॥ मध्यतः केशवस्यादौ केवलस्य महात्मनः । वासुदेवस्वरूपस्य चक्रस्थस्य त्वनन्तरम् ॥ ७३ ॥ प्रागरेऽभिनिविष्टस्य सकलस्याव्ययस्य च । तदादिद्वादशानां च दद्यात् स्नानादिकं क्रमात् ॥ ७४ ॥
१७८ सात्वतसंहिता केशवादीनामर्चनस्थानान्याह—मध्यत इति द्वाभ्याम्। मध्यतः = पीठमध्यस्थ- कर्णिकामध्ये इत्यर्थः। केवलस्य = इत्यनेनारस्थाने देव्या सहार्चनम्। अत्र तु केशव- स्येति ज्ञायते। वासुदेवस्वरूपस्य = इत्यनेन चक्राधिष्ठातुः कालस्यापि प्रागरे केशवेन सहार्चनं ज्ञायते। तदादिद्वादशानां = केशवादिद्वादशमूर्तीनामित्यर्थः॥ ७३-७४॥ पीठ के मध्य में स्थित कर्णिका के मध्य में स्थित केवल महात्मा केशव को स्नान कराए। इसके बाद चक्रस्थ वासुदेव स्वरूप को, फिर अरा पर सन्निविष्ट चक्राधिष्ठान महाकाल को, तत्पश्चात् तदादि केशवादि द्वादश मूर्तियों को स्नान करावे॥ ७३-७४॥ स्नपनद्रव्यकथनम् अम्बुना पञ्चगव्येन क्षीरेण तदनन्तरम्। दध्ना घृतेन मधुना सर्वौषधिजलेन च॥ ७५॥ बीजाम्बुफलतोयेन गन्धपुष्पाम्बुना ततः। हेमरत्नोदकेनाथ कुम्भस्थेन पृथक् पृथक्॥ ७६॥ स्नपनद्रव्याण्याह—अम्बुनेति द्वाभ्याम्। अत्राम्बुना मध्यस्थकेशवस्य, पञ्च- गव्येनारस्थकेशवस्य, क्षीराद्येकादशकलशैर्नारायणादिदामोदरान्तानां च स्नपनमिति ज्ञायते। नन्वीश्वरपारमेश्वरयोः— अम्बुना पञ्चगव्येन क्षीरेण तदनन्तरम्। दध्ना घृतेन मधुना सर्वौषधिजलेन तु॥ बीजाम्बुफलतोयेन गन्धपुष्पाम्बुना ततः। हेमरत्नोदकेनाथ पूरितं तु यथाक्रमम्॥ कलशानां द्विषट्कं यत् परमेतदुदाहृतम्। —(ई० सं० १५।७८-८०, पा० सं० १४।७८, ८१) इतीदमेव स्नपनं द्वादशकलशात्मकत्वेन प्रतिपादितम्, इह भवता त्रयोदश- कलशात्मकत्वेन व्याख्यातं कथमेतदविरुद्धं भवतीति चेत्, सत्यम्। अविरोधं ब्रूमः—किमीश्वरपारमेश्वरयोरम्बुनेत्युक्तमात्रेण विरोधः? तत्र यथा मूलमम्बुनेत्यादिप्रतिपादनेऽपि तत्र विवक्षितम्, कलशानां द्विषट्कमित्युक्तत्वात्; पञ्च- गव्यादिन्येव विवक्षितानि। यथा पारमेश्वरे भोगयागप्रकरणे (५।१३०) "लक्ष्माद्याः केसरादिषु" (१२।८१) इति जयाख्यवचने प्रतिपादितेऽपि तत्र लक्ष्मीर्न विवक्षिता, हृन्मन्त्र एव विवक्षितः, तद्वदिहापि विवक्षाधीनं बोध्यम्। अत एवास्मत्तातपादैः सात्वतामृते पञ्चगव्यादीन्येव प्रतिपादितानि। ननु च किमेतावता प्रयासेन, मध्यस्थकेशवस्याप्यभिषेकसिद्ध्यर्थं खलु भवता त्रयोदशकलशात्मकत्वमङ्गीक्रियते, तथा त्रयोदशकलशात्मकत्वं ममापीष्टमेव। अपि तु
अष्टमः परिच्छेदः १७९ मध्यस्थितकेशवस्यारस्थितकेशवस्य चैकदेवत्वात्दम्बुनैव पृथक् कलशाभिषेकः, नारायणादीनां तु पञ्चगव्यादिभिरिति ज्ञेयम् । एवं चात्र त्रयोदशकलशात्मकमेव स्नपनम् । तत्र तु अम्बुना कलशद्वयपूरणस्याप्रकृतत्वाद् द्वादशकलशात्मकत्वेनैव प्रतिपादितत्वाच्चाम्बुनैक एव कलशः पूर्यः । तथा चाम्बुनेति पदस्यापि सार्थक्यं भवतीति चेन्न, अम्बुनैव कलशद्वयपूरणे पञ्चगव्यादिद्वादशद्रव्येष्वेकतमस्य गत्य- भावात् । न च गन्धपुष्पाम्बुनेत्यत्रैकवचनाद् गन्धसहितपुष्पोदकमेवार्थः, न तु द्रव्य- द्वयम् । अतः पञ्चगव्यादीन्येकादशैवेति वाच्यम्, हेमरत्नोकेनेत्यत्राप्येकवचनेन विनि- गमनाविरहात् पञ्चविंशतिकलशस्नपनप्रकरणे गन्धपुष्पोदकयोर्हेमरत्नोदकयोश्च पार्थ- क्येनोक्तत्वाच्च । नन्वम्बुना पञ्चगव्येनेत्याद्युक्तद्रव्येकं परित्यज्य पञ्चगव्यादीनामेव ग्रहणमनुचित- मिति चेन्न, श्रीसात्वतषष्ठपरिच्छेदोक्तपञ्चविंशतिकलशस्नपने क्षीरादीनि परित्यज्य धात्रीफलोदकादिभिरेव द्वादशकलशस्नपनमीश्वरपारमेश्वर्योः प्रतिपादितं यथा समुचितं भवति, तद्वदिदमपि बोध्यम् । ननु च तत्र निर्विवादं द्वादशैव द्रव्याणि प्रतिपादितानि, अत्र तु त्रयोदश- द्रव्याणामप्युक्तत्वात् तन्मध्ये किं त्याज्यम्, कानि ग्राह्याणि, तत्र किं विनिगमकमिति चेदुच्यते, मध्यस्थितस्य केशवस्याभिषेकार्थं यदुक्तं तत् त्याज्यम्, अरस्थकेशवादि- क्रमेण यान्युक्तानि, तानि द्वादशद्रव्याण्यपि ग्राह्याणि । केशवादिक्रमेणोक्तानां द्रव्याणां मध्ये कस्यचित् परित्यागानौचित्यमेव तत्र विनिगमकमिति सूक्ष्मदृष्ट्या द्रष्टव्य- मायूष्मता ॥ ७५-७६ ॥ अब स्नपन का द्रव्य कहते हैं—जल से एवं पञ्चगव्य के दूध से इसके बाद दही, घृत, मधु तथा सर्वौषधि के जल से स्नान करावे । इसके बाद बीजाम्बु फल, तोय, गन्ध, जल, पुष्प जल, फिर हेमरत्नोदक फिर कुम्भस्थ जल से पृथक्-पृथक् स्नान करावे ॥ ७५-७६ ॥ सितं विलेपनं पुष्पं धूपं मधु घृतं दधि । नैवेद्यं विविधं पूतं व्रीहयो यवसंयुताः ॥ ७७ ॥ निवेद्य राजते पात्रे यथाशक्ति विनिर्मिते । पात्राभावाच्च रजतं स्वल्पमात्रं न लोपयेत् ॥ ७८ ॥ अथ केशवादित्रिकस्य सितवर्णत्वात् श्वेतवर्णचन्दनकुसुमादिभिरेव तदर्चनम्, रजतपात्रे यवव्रीहिमात्रानिवेदनम्, पात्रालाभे मात्रादानेन सह किञ्चिद्रजतं वा देयमिति चाह—सितमिति द्वाभ्याम् ॥ ७७-७८ ॥ इसके बाद सित, विलेपन, पुष्प, धूप, मधु, घृत, दधि, विविधपुत, नैवेद्य, यव संयुक्त व्रीहि इत्यादि पदार्थ यथाशक्ति विनिर्मित करे और रजत पात्र में स्थापित कर नैवेद्य अर्पित करे । यदि पात्र न प्राप्त हो तो स्वल्प रजत निवेदन करे । किन्तु क्रिया का लोप न करे ॥ ७७-७८ ॥
१८० सात्वतसंहिता पश्चात् तद्भगवत्पूतं मधुपर्कादिकं तु वै। प्रतिपाद्य गुरोर्भक्त्या प्रसन्नेनान्तरात्मना ॥ ७९ ॥ अनन्तरं गुर्वर्चनमाह—पश्चादिति ॥ ७९ ॥ अब गुरुपूजन कहते हैं—इसके बाद भगवान् को निवेदित मधुपर्कादि पदार्थ प्रसन्नचित्त से भक्तिपूर्वक गुरु को प्रदान करे ॥ ७९ ॥ यवान्नं व्रीहिजं त्वादौ समश्नीयाद् घृतान्वितम्। व्रतिनो भोज्यद्रव्यमाह—यवान्नमित्यर्थेन ॥ ८०॥ ततः प्रभृतिकालाच्च प्रत्यहं केशवस्य तु ॥ ८० ॥ स्थानद्वयं निविष्टस्य पूजनं च समाचरेत्। प्राग्वन्मध्ये केशवस्य देवीयुक्तस्य बाह्यतः ॥ ८१ ॥ ततो नारायणादीनां सदेवीनां च वै क्रमात्। सर्वेषां पूजनं कुर्यात् प्रादक्षिण्येन यत्नतः ॥ ८२ ॥ यथासम्भवतो भक्त्या पुष्पधूपादिकेन तु। यावदभ्येति दशमी सिता पौषस्य वै तिथिः ॥ ८३ ॥ एवं पुष्यशुद्धदशमीपर्यन्तं प्रत्यहं केशवस्य कर्णिकामध्येऽरप्रदेशे च स्थान- द्वयेऽर्चनम्, तत्र मध्ये केवलस्य, अरस्थाने देव्या सहार्चनम्, तथैवारस्थितानां नारायणादीनामपि तत्तद्देवीभिः सह प्रादक्षिण्येनार्चनं च कार्यमित्याह—तत इति सार्द्धैस्त्रिभिः ॥ ८०-८३ ॥ इसके बाद सर्वप्रथम घृतान्वित यवान्न और व्रीहिज अन्न से स्वयं भोजन करे। उस काल से लेकर पुष्य नक्षत्र युक्त शुक्ल दशमी पर्यन्त केशव का कर्णिका मध्य में पूजन करे तथा अर स्थान में देवी के साथ दोनों स्थानों में अर्चन करे। इसी प्रकार अर में स्थित देवी सहित नारायणादि का क्रमशः सभी का प्रदक्षिण क्रम से यथा संभव प्राप्त पुष्प, धूपादि के साथ भक्तिपूर्वक पूजन करे ॥ ८०-८३ ॥ ततः प्रभृतिकालाच्च प्रागुक्तविधिनाऽखिलम्। नारायणाख्यमन्त्रेण व्रतकर्म समापयेत् ॥ ८४ ॥ तमर्चयेत् तु प्रथमं मध्ये कारणमूर्तिगम्। बहिर्देवीसमेतं च प्राग्वत् स्नानादिना प्रभुम् ॥ ८५ ॥ द्वादश्यन्तं विधानेन केशवेन समन्वितम्। किन्त्वत्र विहितं पश्चात् पूजनं केशवस्य च ॥ ८६ ॥ दिनावसाने द्वादश्यां धूपं दत्त्वा क्षमापयेत्।
अष्टमः परिच्छेदः १८१ कान्तासमन्वितं देवं केशवं क्लेशनाशनम् ॥ ८७ ॥ अथ तद्दशमीमारभ्य नारायणमन्त्रेण व्रतानुष्ठानम्, तदर्थं पूर्वोक्तकर्णिका- मध्ये केवलस्य स्वकारणभूतवासुदेवाकारनारायणस्यार्चनम्, बहिररस्थाने नारायणस्य तद्देव्या सहार्चनम्, दशम्याद्दिद्वादश्यन्तं दिनत्रये नारायणस्यार्चनानन्तरं केशव- स्यापि स्थानद्वयेऽर्चनम्, द्वादश्यां रात्रौ केशवस्योत्तरपूजां चाह—ततः प्रभृतीति चतुर्भिः ॥ ८४-८७ ॥ उसी काल से पहले कही गई विधि के अनुसार नारायणाख्य मन्त्र द्वारा समस्त व्रत कर्म समाप्त करे ॥ ८४ ॥ सर्वप्रथम कर्णिका के मध्य में सबके कारणभूत वासुदेवाकार श्री नारायण का अर्चन करे । फिर बाहर अर के स्थान में पूर्व की भाँति स्नानादि से देवी समेत नारायण की पूजा करे ॥ ८५ ॥ द्वादशी के दिन विधानपूर्वक केशव के साथ नारायण की पूजा करे । किन्तु यहाँ नारायण के बाद केशव की पूजा का विधान है । इसके बाद दिन बीत जाने पर क्लेशनाशक कान्ता सहित भगवान् केशव से क्षमा माँगे ॥ ८६-८७ ॥ विमर्श—दशमी से लेकर द्वादशी पर्यन्त तीन दिन तक नारायण की पूजा के बाद दो स्थानों में केशव का भी अर्चन करना चाहिए । अर्थात् पौष शुक्ल दशमी से आरम्भ कर नारायण का व्रतानुष्ठान करे । पहले पूर्वोक्त कर्णिका के मध्य में स्वकारणभूत वासुदेवाकार केवल नारायण का अर्चन करे । फिर बाहर अर स्थान में नारायण का देवी के साथ अर्चन करे । दशमी से लेकर द्वादशी पर्यन्त तीन दिन नारायण की अर्चना के बाद केशव का भी दोनों स्थानों में अर्चन करे । फिर द्वादशी के दिन रात्रि में केवल केशव की पूजा करे । अथ दामोदरान्ताभिर्मूर्त्तिभिश्च समन्वितम् । देवं नारायणं भक्त्या परेऽहनि समर्चयेत् ॥ ८८ ॥ मध्ये केशववत् पश्चाच्चक्रस्थं केशवारके । केशवं च तदीयेऽरे यजेत् कान्तासमन्वितम् ॥ ८९ ॥ एवं प्रतिदिनं तावद् यावन्मासस्य सा तिथिः । ततो माधवमूर्तेर्वै प्राग्वदाराधनं भवेत् ॥ ९० ॥ तदपरदिनमारभ्य माघशुक्लदशम्यन्तं नारायणस्यैव केशववत् स्थानद्वयेऽर्चनम्, तदनन्तरं केशवमाधवादीनां द्वितीयाद्यरेषु क्रमेण पूजनं च कार्यमित्याह—अथेति सार्ध- द्वाभ्याम् । केशवारके पूर्वकल्पे केशवो यस्मिन्नरे पूजितस्तस्मिन्नित्यर्थः । तदीयेऽरे नारायणः पूर्वं यस्मिन्नर्चितस्तस्मिन्नर इत्यर्थः । माघमासे माधवमन्त्रेण व्रतानुष्ठानं पूर्ववदेव कार्यमित्याह—तत इत्यर्धेन । अत्र प्राग्वदित्यनेन माघशुक्लदशम्यादि- द्वादश्यन्तं दिनत्रयेऽपि माधवस्य स्थानद्वयार्चनानन्तरं नारायणस्यापि स्थानद्वयेऽर्चनम्,
१८२ सात्वतसंहिता द्वादश्यां रात्रौ नारायणस्योत्तरपूजनम्, तदपरदिनमारभ्य फाल्गुनशुक्लद्वादश्यन्तं माधव- स्यैव स्थानद्वयेऽर्चनम्, द्वितीयाद्यरेषु केशवनारायणगोविन्दादीनामर्चनम्, तद्द्वादश्यां रात्रौ माधवस्योत्तरपूजनं चोक्तं भवति । तद्दशम्यादिद्वादश्यन्तं दिनत्रयेऽपि माधवा- र्चनात् पूर्वमेव गोविन्दादित्रिककारणभूतस्य सङ्कर्षणस्य कर्णिकामध्ये वासुदेववत् परत्वेन ध्यानम्, तत्र तदाकारस्य गोविन्दस्यार्चनम्, तस्यारस्थानेऽपि देव्या सहार्चनम्, सङ्कर्षणसमुत्पन्नगोविन्दादित्रिकस्य रक्तवर्णत्वेन चन्दनकुसुमवस्त्रभूषणनैवेद्यादीनामपि रक्तवर्णत्वम्, केषाञ्चित् कुसुमादीनामपि रक्तवर्णाभावेऽपि केनचिद्रक्तधातुना तद्रक्तीकरणम्, ताम्रपात्रे सक्तुमात्रनिवेदनं च ॥ ८८-९०॥ अब पौष शुक्ल दशमी के दूसरे दिन से आरम्भ कर माघ शुक्ल दशमी पर्यन्त नारायण की भी केशव की तरह दोनों स्थानों पर पूजा कहते हैं—इसके बाद दूसरे दिन दामोदरान्त मूर्तियों के साथ नारायण देव की भक्तिपूर्वक अर्चना करे । पीठ मध्यस्थ कर्णिका के मध्य में केशव की ही भाँति केवल तथा चक्र के अरे में चक्र पर स्थित सपत्नीक नारायण का पूजन करे । इस प्रकार प्रतिदिन तब तक पूजन करे जब तक अगले मास की अगली तिथि न आ जावे । इसी प्रकार माधव की मूर्ति की भी आराधना करे ॥ ८८-९० ॥ तदर्चने समाप्ते तु द्वादश्यां फाल्गुनस्य च । सङ्कर्षणं परत्वेन भावयेद् वासुदेववत् ॥ ९१ ॥ तदाश्रितं तु गोविन्दं मध्ये मूर्तं समाह्वयेत् । चक्रस्थं सह देव्या वै ततस्तं पूज्य पूर्ववत् ॥ ९२ ॥ रक्तचन्दनयुक्तेन कुङ्कुमेन तथैव च । पुष्पस्रग्वाससा तद्वद् रक्तशाल्योदनेन च ॥ ९३ ॥ सुगन्धेन फलै रक्तैर्लिप्तैर्वा रक्तधातुभिः । आरक्तरत्नसंसिद्धैर्विद्रुमैः पुरुभूषितैः ॥ ९४ ॥ सक्तूंस्तु ताम्रपात्रे तु कृत्वाऽथ विनिवेद्य तु । विशेषमाह—तदर्चने समाप्त इत्यादिभिः । अत्र द्वादश्यामित्यनेन दशम्यादिद्वाद- श्यन्तदिनत्रयमप्युपलक्ष्यते ॥ ९१-९५ ॥ माधव की अर्चना की समाप्ति के बाद फाल्गुन शुक्ल दशमी को वासुदेव की तरह ही परस्वरूप सङ्कर्षण की भावना करे ॥ ९१ ॥ फिर उनसे निष्पन्न उन्हीं के आश्रित गोविन्द का कर्णिका मध्य में आवाहन करे तथा चक्र के अरे में देवी के साथ पूजन करे । (यहाँ तदाकार होने से गोविन्द का पूजन कहा गया है) यतः गोविन्द रक्त वर्ण के हैं इसलिये इनका पूजन भी रक्त चन्दन, रक्त कुङ्कुम, रक्त पुष्प, रक्त वस्त्र, रक्त शालि का ओदन, रक्त सुगन्ध, रक्त फल, रक्तानुलेपन, रक्त धातु एवं रक्त वर्ण के रत्नों के
अष्टमः परिच्छेदः १८३ आभूषणों से करे । फिर ताम्रपात्र में सक्तु स्थापित कर निवेदन करे । अर्चन के समाप्त होने पर होम करे ॥ ९२-९५ ॥ तदर्चने च होमान्ते सम्पन्ने सति वै व्रती ॥ ९५ ॥ याते मासत्रये चैव प्रसन्नेऽन्तःस्थितेऽच्युते । गुरुमूर्तिगतो देवः पूजनीयश्च भक्तितः ॥ ९६ ॥ वस्त्रैर्विलेपनैर्माल्यैः कटकैरङ्गुलीयकैः । यथाशक्ति विना शाठ्यं पारणे पारणे ततः ॥ ९७ ॥ प्रीणयेद् वासुदेवं च मूर्तित्रयसमन्वितम् । ऐहिकान् धर्मकामार्थान् मम यच्छन्तु शक्तयः ॥ ९८ ॥ मोक्षविघ्नोपशमनं नित्यं कुर्वन्तु मूर्तयः । सर्वदा नित्यशुद्धो यः परमात्मा परः प्रभुः ॥ ९९ ॥ पतितस्य भवाम्बोधौ वासुदेवोऽस्तु मे गतिः । कृत्वैवं प्रीणनं सम्यग् वासुदेवस्य भक्तितः ॥ १०० ॥ तन्मूर्तित्रितयस्यापि शक्तित्रययुतस्य च । एवं होमान्ते गोविन्दार्चनप्रारम्भानन्तरं मार्गशीर्षादिमासत्रयकृतप्रसादगुणार्थं विशेषेण गुर्वर्चनम्, पारणानन्तरं प्रणवनमःपूर्वकश्लोकद्वयात्मकमन्त्रेण दक्षिणपाणि- स्थसपुष्पार्घ्योदकेन वासुदेवप्रीणनं चाह—तदर्चन इति षड्भिः । शक्तयः श्रिया- दयस्तिस्र इत्यर्थः । मूर्तयः केशवादयस्त्रय इत्यर्थः ॥ ९५-१०१ ॥ इस प्रकार गोविन्दार्चन आरम्भ के बाद तीन महीने के बीत जाने पर व्रती साधक अपने गुरु का अर्चन करे । यतः गुरु साक्षात् मूर्त्तिगत देवं हैं अतः भक्तिपूर्वक उनका पूजन करना ही चाहिये । वस्त्र, विलेपन, माला, कटक तथा अंगूठी अपनी शक्ति के अनुसार पारण पर उन्हें प्रदान करे, शठता न करे । फिर मूर्त्तिमय समन्वित वासुदेव को भी पूजा से प्रसन्न करे और उनकी शक्तियों से इस प्रकार प्रार्थना करे ॥ ९६-९८ ॥ हे शक्तियों ! मुझे ऐहिक (इस लोक में) धर्म, काम और अर्थ प्रदान कीजिए । मेरे मोक्ष में आने वाले सभी विघ्नों को ये मूर्त्तियाँ शान्त करें, जो परमात्मा नित्य शुद्ध पर प्रभु हैं वह भगवान् वासुदेव संसार समुद्र में गिरे हुए मुझ अशरण की रक्षा करें । इस प्रकार भगवान् वासुदेव को भली-भाँति भक्तिपूर्वक प्रसन्न करे ॥ ९९-१०० ॥ इसी प्रकार श्रियादि तीन शक्तियों को तथा केशवादि तीन मूर्त्तियों को भी प्रसन्न करे ॥ १०१ ॥ अथ त्रितययुक्तस्य द्वितीयस्य महात्मनः ॥ १०१ ॥