भारतकोश
संग्रह पर लौटें

सात्वत संहिता (पाञ्चरात्र आगम - भगवान् सङ्कर्षण-नारद संवाद सान्वय सटीक)

Satvata Samhita of Pancharatra Agama with Commentary

भगवान् सङ्कर्षण / महर्षि नारद द्वारा

DevanagariHindipublished837 पृष्ठ

३४६ सात्वतसंहिता दिनेष्वित्यर्थो वर्णनीयः, पुष्पादीनि विना तण्डुलादीनां भोगानां पूर्वदिनेष्वपि संग्राह्यत्वात् ॥ १५-१६ ॥ अब हे सङ्कर्षण! जिस विधि से मन्त्राराधन करना चाहिये उस विधि को सुनिये । न्यायोचित उपायों से समस्त भोगों का उपार्जन करे ॥ १५ ॥ यहाँ तक दीक्षा के नियमों को कहा, फिर भगवदाराधन कहा, फिर आराधन विधि कह कर आराधन सामग्री का निरूपण करते हैं—आराधन के लिये साधक शिष्य स्नान करे, शिखाबन्धन करे, मौन धारण करे, शुद्ध वस्त्र धारण करे और शिर पर पूजा की माला धारण करे, सर्वप्रथम द्वारस्थ देवता की अर्चना करे, तदनन्तर शुद्ध आसन पर बैठे ॥ १६ ॥ सायामां भूतसंशुद्धिं धारणाभ्यां समाचरेत् । केवलेन तु मन्त्रेण भावनासहितेन तु ॥ १७ ॥ अथ प्राणायामपूर्विकां भूतशुद्धिं कुर्यादित्याह—सायामामिति । धारणाभ्यां दहनाप्यायनात्मिकाभ्यामित्यर्थः । तथा चोक्तं पारमेश्वरे— धारणापञ्चकं चैव संक्षिप्तं विहितं द्वयम् ॥ दहनाप्यायनाच्चैव यदा देहात् स्वशुद्धये । —(३।२२३-२२४) इति ॥ १७ ॥ दहन एवं आप्यायन रूप धारणाओं से प्राणायामपूर्वक भूतशुद्धि करे । यह प्राणायाम भावना सहित केवल मन्त्र से करे ॥ १७ ॥ प्राणायामप्रकारकथनम् नाभिदेशस्थितं ध्यात्वा देवं संगृह्य कल्मषम् । निस्सृतं वायुमार्गेण द्वादशान्तावधौ क्षिपेत् ॥ १८ ॥ निरस्तपापमाकृष्य वातचक्रसमन्वितम् । नासाग्रेण तु मन्त्रेशं देहसम्पूर्णाय च ॥ १९ ॥ तं ध्यायेद् हृदयस्थं च गतिरुद्धेन वायुना । चित्तोपशमनार्थं तु नूनं वायुजयाय च ॥ २० ॥ शनैः शनैरथ बहिः केवलं मारुतं क्षिपेत् । विनाऽन्त्यरेचकेनैवमन्येषामुत्तरोत्तरम् ॥ २१ ॥ कालाद् ह्रासं यथाशक्ति नित्यमेव समाचरेत् । प्राणायामप्रकारमाह—नाभिकेशस्थि(त इ?तमि)ति सार्धैश्चतुर्भिः । वायुमार्गेण प्रथमप्राणायामान्त्यरेचकवायुमार्गेणेत्यर्थः । वातचक्रसमन्वितं द्वितीयप्राणायामपूरक- वायुसहितमित्यर्थः । गतिरुद्धेन वायुना तृतीयप्राणायामकुम्भकेनेत्यर्थः । एवमेवैत- द्व्याख्यातं नित्यव्याख्याने ॥ १८-२२ ॥

सप्तदशः परिच्छेदः ३४७ अब प्राणायाम का प्रकार कहते हैं—केवल भावना सहित अथवा मन्त्र सहित देव को नाभिदेश में स्थित ध्यान करे । फिर वहाँ से पाप को संग्रहीत कर वायु के द्वारा आदि प्राणायाम के साथ अन्त्यरेचक वायु द्वारा बाहर निकाल कर उसे द्वादशान्त विधि में प्रक्षिप्त कर देवे । इस प्रकार पाप के बाहर हो जाने पर वातचक्र समन्वित मन्त्र को द्वितीय पूरक प्राणायाम के द्वारा नासाग्र से भीतर ले जा कर उसी से देह को पूर्ण करे । फिर कुम्भक के द्वारा उसकी गति को हृदय में ही रोक कर मन्त्रेश का वहीं ध्यान करे । यह प्राणायाम चित्त की शान्ति के लिये तथा वायु पर विजय प्राप्त करने के लिये बारम्बार अभ्यास करते रहना चाहिये ॥ १८-२० ॥ फिर धीरे-धीरे वायु बाहर निकाले । इस प्रकार अन्त्य रेचक को छोड़कर उत्तरोत्तर यथाशक्ति काल का ह्रास करने का नित्य अभ्यास करे ॥ २१-२२ ॥ भूतशुद्धिप्रकारकथनम् द्वादशान्तेऽथ मन्त्रेशं तप्तहाटकसन्निभम् ॥ २२ ॥ सहस्ररविसंकाशं वृत्तमण्डलमध्यगम् । स्मृत्वाथ मुक्तं तन्मात्रैर्निर्दहेद् विग्रहं स्वकम् ॥ २३ ॥ दक्षिणाङ्घ्रेस्तथाङ्गुष्ठप्रान्तदेशे शिखाक्षरम् । ध्यात्वा युगान्तहुतभुग्रूपं ज्वालासमावृतम् ॥ २४ ॥ तेन स्वविग्रहं ध्यायेत् प्रज्वलन्तं समन्ततः । देहजां भावयेज्ज्वालां मन्त्रनाथे लयं गताम् ॥ २५ ॥ दिव्यं प्रशान्ताकारं तु तमधितिष्ठाय चेतसा । स्वमन्त्रादमृतौघेनासेचयेद् विग्रहं स्वकम् ॥ २६ ॥ ततः समन्त्रं तद्विम्बमाकृष्य हृदि विन्यसेत् । भूतशुद्धिप्रकारमाह—द्वादशान्त इति पञ्चभिः । द्वादशान्ते स्वमूर्ध्नो द्वादशा- ङ्गुलोपरीत्यर्थः । तथा च पारमेश्वरे— सौषुम्नाद् दक्षिणद्वारात्रिर्गमय्य हरिं बहिः ॥ सहस्ररविसंकाशं वृत्तमण्डलमध्यगम् । तप्तकाञ्चनवर्णाभमासीनं परमे पदे ॥ मन्त्रात्मानं तु तं ध्यात्वा ह्युपरि द्वादशाङ्गुलेः ॥ इति । —(३।१८४३-१८४५) तन्मात्रैर्मुक्तं तत्त्वसंहारक्रमेण गन्धतन्मात्रादिभिर्मुक्तमित्यर्थः । स्वमन्त्रात् तन्मन्त्र- प्रतिपाद्यद्वादशान्तस्थितभगवतः सकाशादित्यर्थः । तद्विम्बं स्वमन्त्रं द्वादशाङ्गुलोपरि वृत्तमण्डलमध्यस्थं देवमित्यर्थः ॥ २२-२७ ॥ तदनन्तर तपाये हुए सोने के समान सहस्ररश्मि सूर्य रूप मन्त्रेश का

३४८ सात्वतसंहिता द्वादशान्त में, वृत्तमण्डल मध्य में ध्यान कर, पञ्चतन्मात्राओं से निर्मुक्त उसी में अपने शरीर को जला देवे । फिर दाहिने पैर के अङ्गुष्ठ प्रान्त प्रदेश में युगान्त अग्निस्वरूप ज्वाला-शत स्वरूप शिखाक्षर का ध्यान कर चारों ओर उसी में जलते हुए अपने विग्रह का ध्यान करे ॥ २२-२५ ॥ फिर अपने देह की उस ज्वाला को मन्त्रनाथ में लीन होते हुए उसी का ध्यान करे । दिव्य प्रशान्ताकार उन मन्त्रनाथ को चित्त पर स्थापित कर, अपने मन्त्र से प्रतिपाद्य द्वादशान्त स्थित भगवान् से निकले हुए अमृत समूह रूप जल से अपने विग्रह का आसिञ्चन करे । तदनन्तर मन्त्र सहित उस बिम्ब को द्वादशाङ्गुल के ऊपर स्थित वृत्तमण्डल के मध्य में रहने वाले अपने हृदय में स्थापित करे ॥ २५-२६ ॥ करन्यासविधानम् अथ हस्तद्वये न्यसेद् दीप्तिमद् द्वादशाक्षरम् ॥ २७ ॥ मणिबन्धान्नखाग्रं तु मूलमन्त्रपुरस्सरम् । हृदादयोऽस्त्रपर्यन्ता अङ्गुष्ठाद्यङ्गुलीषु च ॥ २८ ॥ सर्वासु युग्मयोगेन नेत्रं नखमुखाश्रितम् । करन्यासमाह—अथेति द्वाभ्याम् । द्वादशाक्षरं पूर्वोक्तनृसिंहद्वादशाक्षरमि- त्यर्थः । मूलमन्त्रपुरस्सरं पूर्वोक्तनृसिंहबीजपुरस्सरमित्यर्थः । युग्मयोगेन हस्तद्वयेऽपि युगपदित्यर्थः ॥ २७-२९ ॥ इसके बाद दीप्तिमद् द्वादशाक्षर मूल मन्त्र से दोनों हाथों के मणिबन्ध से नखाग्र तक न्यास करे । इसी प्रकार हृदय से लेकर अस्त्र पर्यन्त तथा अङ्गुष्ठादि अङ्गुलियों में भी हृदयन्यास और करन्यास करे ॥ २७-२८ ॥ इसी प्रकार दोनों हाथों को एक में मिलाकर नख, मुख तथा शिर से ले कर चरण पर्यन्त सुधी साधक द्वादशाक्षर मन्त्र का देह में न्यास करे ॥ २९ ॥ अङ्गन्यासविधानम् आमूर्ध्नश्चरणान्तं तु द्वादशार्णं न्यसेत् तनौ ॥ २९ ॥ जीवभूतं तदन्तःस्थं मूलमन्त्रं तथा न्यसेत् । हृदाद्यं नेत्रपर्यन्तमङ्गषट्कं स्वगोचरे ॥ ३० ॥ स्वस्वाङ्गुलियुगेनैव तेजोरूपं विनाऽऽकृतेः । श्रीवत्सं वक्षसो वामे पूर्णेन्दुसदृशद्युतिम् ॥ ३१ ॥ अङ्गन्यासमाह—आमूर्ध्न इति द्वाभ्याम् । स्वगोचरे = हृदयादिस्थानेष्वि- त्यर्थः । स्वस्वाङ्गुलियुगेन = वक्ष्यमाणहृदादिमुद्रयेत्यर्थः । आकृतेर्विना = निराकार- मित्यर्थः ॥ २९-३१ ॥

सप्तदशः परिच्छेदः ३४९ अपने शरीर में रहने वाले हृदयादि-स्थानों में दो-दो अङ्गुलियों से आकृति के बिना (निराकार) वक्ष्यमाण मुद्रा से न्यास करे ॥ ३०-३१ ॥ भूषणायुधशक्तिन्यासकथनम् कौस्तुभं हृदये न्यस्य चण्डदीधितिलक्षणम् । नानाब्जवनपुष्पोत्थां वनमालां च कण्ठतः ॥ ३२ ॥ पद्मं दक्षिणपाणौ तु शङ्खं वामकरे न्यसेत् । गदां पद्मकरे भूयः शङ्खपाणौ तु चक्रराट् ॥ ३३ ॥ खड्गं दक्षिणहस्तेऽथ धनुर्वामकरे न्यसेत् । आचांसाद् दक्षिणे भागे न्यस्या श्रीरुत्तरे तथा ॥ ३४ ॥ पुष्टिर्गुल्फावसानं च वक्त्रमध्ये सरस्वती । पृष्ठतो विन्यसेन्निद्रां ततः पाणिद्वयेन तु ॥ ३५ ॥ भूषणायुधशक्तिन्यासमाह—श्रीवत्समित्यादिभिः । एवं भूषणादीनां न्यासो हस्तयोरपि कार्यः, सर्वमन्त्राणामपि करन्यासं विनाऽङ्गन्यासमात्रस्याविहितत्वात् । तथा च पारमेश्वरे— या विभोः परमा शक्तिर्हृत्पद्मकुहरान्तगा ॥ वायव्यं रूपमास्थाय दशधा संव्यवस्थिता । इच्छया सप्रवाहेण पाणिमार्गेण निर्गता ॥ नाडीदशकमाश्रित्य ता एवाङ्गुलयो मताः । अत एव द्विजश्रेष्ठ श(क्त्या)ख्ये प्रभुविग्रहे ॥ पूर्वं मन्त्रगणं न्यस्य ततो भूतमये न्यसेत् । (४।२०-२३) इति, व्यापारो मानसो ह्येष न्यासाख्यो यद्यपि स्मृतः । न बध्नाति स्थितिं सम्यक् तथापि क्रियया विना ॥ कराधिना पुनः साऽतः प्राङ्न्यासस्तु तयोः स्मृतः । (४।४-५) इति च । अत ऐवेश्वरपारमेश्वरादिषु (ई०सं० २।५७, पा०सं० ४।१७) हस्तयोरपि किरीटादिन्यास उक्तः । स तु मूलकारस्याप्यभिमतः । अन्यथाऽत्र हस्तयोर्हन्मन्त्रादि- न्यासोऽपि तेन नोच्येत ॥ ३१-३५ ॥ अब भूषणायुध शक्ति न्यास कहते हैं—पूर्णमासी के चन्द्रमा के समान प्रचण्ड प्रकाश करने वाले कौस्तुभ का हृदय में न्यास करे । अनेक प्रकार के वन में रहने वाले कमल के पुष्पों की वनमाला से कण्ठ पर्यन्त न्यास करे ॥ ३२ ॥ दाहिने हाथ में कमल से और बायें हाथ में शङ्ख का न्यास करे, फिर गदा से कमल वाले हाथ में तथा शङ्ख वाले हाथ में चक्रराज से न्यास करे ॥ ३३ ॥

३५० सात्वतसंहिता दाहिने हाथ में खड्ग का और बायें हाथ में धनुष का न्यास करे। फिर श्री का न्यास दक्षिण भाग में कन्धे तक तथा उसी (श्री) से उत्तर भाग में न्यास करे। गुल्फपर्यन्त पुष्टि का तथा मुखमध्य में सरस्वती का न्यास करे। पीठ में दोनों हाथों से निद्रा का न्यास करे॥ ३४-३५॥ स्वस्मिन् देवत्वभावनाकथनम् मुद्रां बद्ध्वा स्मरेद् ध्यानं देवोऽहमिति भावयेत्। अथ प्रणवपूर्वेण स्वनाम्ना नतिना सह॥ ३६॥ मूलादिमुद्राप्रदर्शनपूर्वकं स्वस्मिन् देवत्वभावनामाह—मुद्रामित्यर्धेन। एवमेव व्यक्तमुक्तं जयाख्येऽपि— अहं स भगवान् विष्णुरहं नारायणो हरिः। वासुदेवो ह्यहं व्यापी भूतावासो निरञ्जनः॥ एवं रूपमहङ्कारमासाद्य सुदृढं मुने। (१९।४१-४२) इति। नैतावता जीवात्मपरमात्मनोः स्वरूपैक्यं शङ्कनीयम्, यतः श्रीपञ्चरात्ररक्षायां तृतीयेऽधिकारे—‘‘एतेन लाञ्छनन्यासाद्यनन्तरम् ‘‘मुद्रां बद्ध्वा स्मरेद्देवं देवोऽहमिति भावयेत्’’ (सा०सं० १७।३६) इति समाराधनग्रन्थोऽपि निर्व्यूढः। ‘‘बद्ध्वा मूलादिकां मुद्रां देवोऽहमिति भावयेत्’’ इत्यादिसंहितान्तरग्रन्थाश्चात्र तुल्यन्यायाः। ‘‘अत्र मनो ब्रह्मेत्युपासीत’’ (छा०उ० ३।१८।१) इत्यादिविध्वेतिकारादिवशाद् दृष्टिविधित्वं सुस्पष्टम्। अत एव हि तथाविधभावनयाऽप्यनन्तरयोग्यतापादन- मात्रमुक्तम्— न्यासेन देवमन्त्राणां देवतादात्म्यभावनात्। अप्राकृताङ्ककरणात् पूजामर्हति साधकः॥ इति। अन्यथा— देवतारूपमात्मानमर्चयेदर्घ्यधूपकैः। धूपावसानिकैर्भोगैर्ध्यात्वा नारायणं हृदि॥ इति समनन्तरकर्तव्यं कथं संगच्छते। नहि स्वरूपैक्यभावनायां हृदि पुन- र्नारायणध्यानमिति किञ्चित् स्यात्। न च शेषवृत्तौ प्रवर्तमानस्य स्वरूपैक्यभावनं जा- घटीति। अतो दृष्टिविधिपक्षोऽत्र स्वीकार्यः। यद्वा, गत्यन्तरे संभवति दृष्टिविधिविवक्षा च न युक्ता। अतस्तच्छरीरतया तादधीन्यादिभिः सर्वानुवृत्तस्तद्व्यपदेशः। तदभिप्रायेण च ‘‘स्वनियाम्येत्यादिकं वक्ष्यति भाष्यकारः’’ (पृ० ८६-८७) इति सुस्पष्टमुप- पादितम्॥ ३६॥ मुट्ठी बाँधकर प्रणवपूर्वक अपने नाम के आगे चतुर्थ्यन्त लगाकर नमः के साथ 'हम देव हैं' इस प्रकार की भावना करते हुए ध्यान करे॥ ३६॥ शेषपूर्वं तु वह्नयन्तमासनं परिकल्पयेत्।

सप्तदशः परिच्छेदः ३५१ तदाक्रम्याथ तस्यैव कार्या स्वहृदि कल्पना ॥ ३७ ॥ अथ मानसाराधनार्थं स्वहृदये प्रणवादिनमोऽन्तैश्चतुर्थ्यन्तैस्तत्तन्नामभिरनन्तादि- वह्न्यन्तपीठपरिकल्पनं कार्यमित्याह—अथेति सार्धेन । पारमेश्वरे तु जयाख्योक्तरीत्या “नाभिमेढ्रान्तरे ध्यायेत्” (ज०सं० १२।२, पा०सं० ५।५) इत्यादिभिर्हृदि जाग्रदासनकल्पनमुक्तम् । अत्र तु स्वप्नासनस्योक्तत्वात् तत्रोक्तस्थानविभागोऽत्रापि यथासंभवं बोध्यः । स्वप्नजाग्रदासनभेदस्तु परमेश्वर एवं दर्शितः— स्वप्नः शेषादिपूर्वं तु वह्निपर्यन्तमासनम् । क्षीरार्णवादितो भावासनान्तं जाग्रदासनम् ॥ —(३।५७) इति ॥ ३७ ॥ इस प्रकार मानसारोधन करे । फिर पूर्व में शेष उसके ऊपर अग्नि की कल्पना कर आसन निर्माण करे । उस पर बैठे हुए इस प्रकार के आसन की हृदय में कल्पना करे ॥ ३७ ॥ ब्रह्मस्वरूपममलं स्वचैतन्यं तदूर्ध्वतः । विकल्पोपरतं कृत्वा इच्छया तु विवर्तते ॥ ३८ ॥ परध्वनिस्वरूपेण तत्प्रकाशात्मना पुनः । व्यक्तिभावेन तच्चापि एवं प्रविलये सति ॥ ३९ ॥ विसर्जनं तु बोद्धव्यं सम्पन्ने तु क्रियाक्रमे । क्रम एष क्रमोक्तानां मन्त्राणामवतारणे ॥ ४० ॥ तदासनोर्ध्वे भगवदभिव्यक्तिक्रममाराधनानन्तरं विसर्जनक्रममाह—ब्रह्मस्वरूप- मिति सार्धद्वाभ्याम् । विकल्पोपरतं = विशेषणरहितमित्यर्थः । केवलज्ञानस्वरूपमिति यावत्, ज्ञानेन्द्रियगणे चैव विकल्पं तनुते मनः । विकल्पो विविधः कॢप्तस्तच्च प्रोक्तं विशेषणम् ॥ धर्मेण सह सम्बन्धो धर्मिणश्च स उच्यते । विकल्पः पञ्चधा ज्ञेयो द्रव्यकर्मगुणादिभिः ॥ (५।६८-६९) इति लक्ष्मीतन्त्रोक्तेः । विवर्तते पुनर्विशेषणसम्बन्धेन व्यक्तीभवतीत्यर्थः ॥ ३८-४० ॥ इस प्रकार के परिकल्पित आसन पर ज्ञान स्वरूप भगवान् की अभिव्यक्ति क्रमपूर्वक आराधना करते हुए उनका विसर्जन कर देवे । क्रिया क्रम सम्पन्न हो जाने पर विसर्जन करने की विधि के अनुसार विसर्जन करे । इस प्रकार क्रमपूर्वक कहे गये सभी मन्त्रों के आराधन का क्रम कहा गया ॥ ३८-४० ॥ लाञ्छनादिक्रियाध्यानमेषां चैव हि कल्पना ।

३५२ सात्वतसंहिता ज्ञातव्याऽऽराधकेनैव नित्यं कर्मणि कर्मणि ॥ ४१ ॥ सर्वमन्त्राराधनेष्वप्ययमेवावाहनादिक्रमो ज्ञेय इत्याह— क्रम इति सार्धेन ॥ ४०-४१ ॥ आराधक को इसी प्रकार इन देवताओं के भूषणादि लाञ्छनपूर्वक क्रियाओं का ध्यान एवं इनकी आवाहनादि क्रम की कल्पना नित्य प्रत्येक कर्म में जानना चाहिये ॥ ४१ ॥ मन्त्रन्यासमतः कुर्याद् हस्तन्यासं विना विभोः । ध्यात्वाऽथ भावनाजातैर्भोगैः परमपावनैः ॥ ४२ ॥ पूजयित्वा जपान्तं चाप्यवतार्य बहिर्यजेत् । अथ स्वहृदये भगवतोऽङ्गन्यासपूर्वकं जपयज्ञान्तं मानसैरुपचारैरभ्यर्च्य बहिर्यागं च कुर्यादित्याह—मन्त्रन्यासमिति सार्धेन ॥ ४२-४३ ॥ इसके बाद अपने हृदय में भगवान् का अङ्गन्यासपूर्वक जप, यज्ञान्त मानस उपचारों से पूजन एवं परमपान भोगों से नैवेद्य चढ़ाकर उसके बाद नीचे उतार कर बहिर्याग करे ॥ ४१-४२ ॥ दक्षिणोत्तरहस्ताभ्यां हृद्बीजेन विचिन्त्य च ॥ ४३ ॥ सूर्यसोमौ ततः कुर्याद् द्रव्यदाहसमुद्भवौ । तोयमादाय पात्रेऽथ तत्र हृन्मन्त्रितं क्षिपेत् ॥ ४४ ॥ बहिर्यागविधिं दर्शयन् प्रथममर्घ्यादीनां दहनाप्यायनमुद्रादर्शनमाह— दक्षिणेति ॥ ४३-४४ ॥ दायें बायें दोनों हाथों से हृद् बीज (नमः) से भगवान् का ध्यान कर प्रथम अर्घ्य मुद्रा प्रदर्शित करे । फिर दहन एवं आप्यायन मुद्रा प्रदर्शित करे । फिर सूर्य तथा सोम से द्रव्य का दाह तथा उसकी उत्पत्ति करे । अब पूजन सामग्री का प्रोक्षण कहते हैं—किसी पात्र में जल ले कर हृदय मन्त्र (नमः) से अभिमन्त्रित कर उससे सभी सामग्री का प्रोक्षण करना चाहिये ॥ ४३-४४ ॥ पुष्पगन्धसमोपेतं सुसितं शालितण्डुलम् । मन्त्रयेत् प्रणवाद्येन बहुशो हृदयेन तु ॥ ४५ ॥ तदुद्धृतेनाम्भसा वा अस्त्रमन्त्रं समुच्चरन् । प्रोक्षयेत् स्वासनस्थानं यागोपकरणं तथा ॥ ४६ ॥ पूजोपकरणानां प्रोक्षणमाह—तोयमिति सार्धद्वयाभ्याम् ॥ ४४-४६ ॥ इसके बाद पुष्पगन्ध से वासित सुन्दर एवं श्वेत शाली धान के चावल को प्रणवादि हृदय मन्त्र (ॐनमः) से अभिमन्त्रित करे ॥ ४५ ॥

अथवा उससे अभिमन्त्रित जल से, अस्त्र मन्त्र का उच्चारण करते हुए, उस जल से, आसन स्थान तथा याग सामग्री का सम्प्रोक्षण करे ॥ ४६ ॥ चित्रस्थाद् भगवद्बिम्बाद् भुक्तं पुष्पादिकं हि यत् । अपनीय तु तत्कुर्याद् वाससा रेणुमार्जनम् ॥ ४७ ॥ चित्रबिम्बशोधनमाह—चित्रस्थादिति ॥ ४७ ॥ चित्र स्वरूप भगवद्बिम्ब के ऊपर चढ़ाये गये पुष्पादिकों को दूर फेंक देवे और समस्त पूजा स्थान आर्द्रवस्त्र से परिमार्जित कर शुद्ध करे ॥ ४७ ॥ धातुद्रव्यमये कुर्यात् क्षालनं गन्धवारिणा । लोहमयस्य शोधनमाह—धात्विति ॥ ४८ ॥ यदि धातुमय (लोहादि) द्रव्य निर्मित हो तब सुगन्धित जल से उसका प्रक्षालन कर देवे । फिर जल सहित गोमय द्वारा समस्त पूजा स्थान का उपलेपन कर देवे ॥ ४८ ॥ मण्डलरचनाविधानम् उपलिप्याथ भूभागं साम्भसा गोमयेन तु ॥ ४८ ॥ तत्र मण्डलमालेख्यं सूत्रयित्वा पुरा समम् । चतुरश्रं चतुर्द्वारं मार्गपीठाब्जभूषितम् ॥ ४९ ॥ त्रिनाभिनेमिषडरं चक्रं तु कमलाद् बहिः । मेध्यैः सितादिकै रागैः पुष्पैर्वा तैश्च तैः शुभैः ॥ ५० ॥ चन्दनाद्यैः सुगन्धैस्तु सर्षपैस्तिलतण्डुलैः । सर्वौषधिमयेनैव चूर्णेन परिपूर्य वा ॥ ५१ ॥ मण्डलरचनाप्रकारमाह—उपलिप्येत्यादिभिः ॥ ४८-५१ ॥ अब मण्डल रचना का प्रकार कहते हैं—उपलेपन के बाद वहाँ चतुष्कोण चार द्वारों वाला मार्गपीठ तथा कमल से भूषित मण्डल बनाना चाहिये ॥ ४९ ॥ फिर कमल से बाहर जिसमें तीन नाभि हो, नेमि हो, छह अरायें हों ऐसा चक्र निर्माण करे । वह चक्र स्थान अत्यन्त पवित्र श्वेत रङ्ग से, अथवा श्वेत शुभ पुष्पों से, सुगन्धित चन्दनों से, सरसों से, तिल तण्डुल से तथा सर्वौषधिमय के चूर्णों से अच्छी तरह परिपूर्ण होना चाहिये ॥ ५०-५१ ॥ पीठपरिकल्पनप्रकारकथनम् पुष्पै स्थाद्यर्घ्यपात्रं तु मन्त्रैः सम्पूज्य निष्कलैः । पात्रेऽपरस्मिंस्तस्माद् वै स्तोकमुद्धृत्य चोदकम् ॥ ५२ ॥

३५४ सात्वतसंहिता योगपीठार्चनं कुर्यादनुसन्धानपूर्वकम् । स्वनाम्ना प्रणवाद्येन नमोऽन्तेन यथाक्रमम् ॥ ५३ ॥ अनन्तेशं स्मरेन्मध्ये सर्वाधारमयं प्रभुम् । आग्नेयादौ तु धर्माद्यमैशान्यान्तं चतुष्टयम् ॥ ५४ ॥ प्रागादावप्यधर्माद्यमुत्तरान्तं न्यसेत् परम् । तदूर्ध्वं कमलं ध्यायेत् स्वनाम्नाऽथ तथोपरि ॥ ५५ ॥ स्मरेत् पत्राश्रितं सूर्य शशाङ्कं केसरावनौ । कर्णिकास्थं हुतभुजं ततो गन्धादिना यजेत् ॥ ५६ ॥ पीठपरिकल्पनप्रकारमाह—पुष्पैरित्यादिभिः ॥ ५२-५६ ॥ इसके बाद निष्कल मन्त्रों से पुष्प द्वारा अर्घ्यपात्र का पूजन करे। फिर उसमें से किसी दूसरे पात्र में जल निकाले ॥ ५२ ॥ तदनन्तर सावधानी से उस जल द्वारा प्रणवपूर्वक स्वनाम, तदनन्तर नमः शब्द से योगपीठ का यथाक्रम अर्चन करे ॥ ५३ ॥ मण्डल के मध्य में सर्वाधारमय प्रभु अनन्तेश का स्मरण करते हुए पूजन करे। आग्नेय से लेकर ईशानकोण पर्यन्त धर्मादि चार (धर्म, ज्ञान, वैराग्य, ऐश्वर्यादि) का न्यास करे ॥ ५४ ॥ पूर्व दिशा से लेकर उत्तर दिशा पर्यन्त अधर्म, अज्ञान, अवैराग्य तथा अनैश्वर्यादि का न्यास करे। इसके बाद उसके ऊपर अपने नाम से कमल का ध्यान करे ॥ ५५ ॥ कमलपत्र पर सूर्य का, केशर स्थान पर चन्द्रमा का, कर्णिका पर अग्निदेव का ध्यान कर फिर गन्धादि द्वारा कमल की पूजा करे ॥ ५६ ॥ महाकुम्भस्थापनकथनम् गणेशाद्यर्चनं कृत्वा प्रथमं गुरुसन्ततेः । प्राप्तानुज्ञोऽथ कलशमादाय शुभलक्षणम् ॥ ५७ ॥ तमम्भसाऽस्त्रजप्तेन सम्पूर्यादौ तु निक्षिपेत् । तद्गर्भे काञ्चनं रत्नं बीजान्योषधिसत्फलम् ॥ ५८ ॥ चूतादिविटपोद्भूतां सपत्रां पुष्पमञ्जरीम् । कौशेयवस्त्रकण्ठं कृत्वा चन्दनचर्चितम् ॥ ५९ ॥ तन्मध्ये पूजयेन्मन्त्रं साङ्गं सावरणं क्रमात् । प्राग्दिङ् मण्डलबाह्येऽथ दत्वा वै पुष्पचक्रिकाम् ॥ ६० ॥ पीठमन्त्रोपजप्तां च तदूर्ध्वे स्थापयेच्च तम् ।

अथ विष्वक्सेनादिगुरुपङ्क्त्यर्चनतदनुज्ञापूर्वकं महाकुम्भस्थापनप्रकारमाह— गणेशाद्यर्चनमित्यादिभिः। नन्वत्र गणेश इति सामान्यशब्दप्रयोगाज्जयाख्यलक्ष्मीतन्त्र- पारमेश्वरद्युक्तो विनायकस्तदर्थः स्यादिति चेन्न, अथ शिष्टैस्तु नैवेद्यैर्यजेद् गणपतिं प्रभुम्। विष्वक्सेनाभिधानं चाप्यादावेवार्चितो हि यः॥ (१७।१४२) इति विशेषशब्दस्य वक्ष्यमाणत्वात्। अत एवेश्वरतन्त्रे— विष्वक्सेनं गणाधीशं गुरूूंश्च तदनन्तरम्। गुरून् परमसंज्ञांश्च यजेत् सर्वगुरूंस्तदा॥ आदिसिद्धसमूहं तु भगवद्ध्यानतत्परम्। नित्याधिकारिणश्चाप्तान् भगवत्तत्त्ववेदिनः॥ चत्वारो मनवश्चान्ये ऋषयः सप्तपूर्वकाः। (४।३३-३५) इति गुरुपङ्क्तिरुक्ता। प्राग्दिक् पूर्वदिशीत्यर्थः। विभक्तिलोपश्चान्दसः। मण्डलबाह्ये पूर्वोक्तमण्डलाद् बहिरित्यर्थः। पीठमन्त्रोपजप्तामिति चक्रिकाया विशे- षणम्। पीठमन्त्रैः पूर्वोक्तरनन्तादिमन्त्रैः, उपजप्ताम् = अर्चितामित्यर्थः॥ ५७-६१॥ प्रथम गणेशादि का पूजन करे, फिर गुरु पङ्क्ति का पूजन करे। फिर गुरु की आज्ञा से शुभ लक्षण युक्त कलश हाथ में लेवे॥ ५७॥ उस कलश में अस्त्र मन्त्र का जप कर उसे जल से परिपूर्ण करे। फिर उसमें सोना, रत्न, बीज, औषधियाँ, फल, पत्र, मञ्जरी सहित आम्रादि पञ्चपल्लव, कण्ठ में कौशेयवस्त्र और माला से बाँध कर चन्दन चर्चित करे। फिर उसमें कलश के मध्य में साङ्ग एवं सावरण मन्त्रनाथ का पूजन करे। मण्डल के बाहर पूर्वादि दिशाओं में पीठ मन्त्रोपजप्ता पुष्प चक्रिका प्रदान करे॥ ५८-६१॥ अथाऽवतार्यो हृदयान्मन्त्रो विमलदीधितिः॥ ६१॥ कर्मणा मनसा वाचा सिद्धिमार्गेण साधकैः। अनुज्झितस्वरूपं च सूर्यबिम्बमिवाम्भसि॥ ६२॥ कर्मणा प्रेरयेच्चैव वाचा तं मन्त्रमुच्चरेत्। आगच्छपदसंयुक्तं संस्मरेन्मनसाकृतिम्॥ ६३॥ तत्र भगवदावाहनक्रममाह—अथेति सार्धद्वाभ्याम्। करणत्रयेणाप्यावाहनं कार्यमित्युक्त्याऽऽवाहनकाले करणत्रयस्यापि प्रेरणोच्चारणस्मरणाख्यकार्यत्रय- मपि प्रतिपादितम्। प्रेरणं चात्रार्घ्यपुष्पाञ्जलिसमर्पणमन्त्रन्याससन्निधिसन्निरोध- सांमुख्यमुद्रादर्शनादिकं ज्ञेयम्। उच्चारणं चतुर्वारं बोध्यम्। मन्त्रं पूर्वोक्तं नृसिंह- मन्त्रमित्यर्थः॥ ६१-६३॥ उस (पीठ मन्त्र = अनन्तादि मन्त्र) के ऊपर उसे स्थापित करे। साधक कर्मणा मनसा वाचा अपने हृदय स्थित विमल प्रकाश वाले मन्त्र को उतारे।

३५६ सात्वतसंहिता उनके स्वरूप में कोई अन्तर न पड़े जिस प्रकार जल में सूर्य का बिम्ब उतारा जाता है ॥ ६१-६२ ॥ उन मन्त्रदेव (नृसिंहमन्त्र) को कर्म से प्रेरित करे, वाणी से चार बार उच्चारण करे और मन से 'भगवन् आगच्छ' ऐसा कहते हुए उनकी आकृति का स्मरण करे । (इस प्रकार तीन करण (इन्द्रियों) से नृसिंह मन्त्र का आवाहन करना चाहिये) ॥ ६३ ॥ एवमाहूय वै दद्यादर्घ्यपाद्ये च भक्तितः । आमूलात् सर्वमन्त्राणां व्यक्तिस्थानां समर्चनम् ॥ ६४ ॥ अर्घ्यपुष्पादिना कुर्यात् स्वेन स्वेन स्वके पदे । एवमाहूतस्य भगवतोऽर्घ्यपाद्याद्युपचारानुपूर्वीं कथयन् प्रथमं लययागमाह— एवमिति सार्धेन । व्यक्तिस्थानां = भगवद्दिव्यमङ्गलविग्रहविन्यस्तानामित्यर्थः । अनेनावाहनान्तरं स्वशरीरवद् भगवदवयवेष्वपि मूलमन्त्रादीनां न्यासः कार्य इत्युक्तं भवति । “अर्घ्यपुष्पादिना” इत्यत्रादिशब्देन गन्धधूपौ ग्राह्यौ । स्वेन स्वेन = स्वस्व- मन्त्रेणेत्यर्थः ॥ ६४-६५ ॥ इस प्रकार श्रीनृसिंह मन्त्र का आवाहन कर भक्तिपूर्वक यथाविधि अर्घ्यपात्र देवे तदनन्तर भगवद्दिव्यमङ्गल विग्रह में आहूत समस्त विन्यस्त मन्त्रों का अर्चन करे । फिर अर्घ्य पुष्पादि के तत्तन्मन्त्रों से अर्घ्य पुष्प प्रदान करे ॥ ६४-६५ ॥ भोगयागक्रमकथनम् तदोदितं विभोर्देहाद् हृदयाद्यं चतुष्टयम् ॥ ६५ ॥ न्यसेत् कमलपत्राणामा पूर्वाद्युत्तरान्तिकम् । अग्नीशरक्षोवायव्यदलेष्वस्त्रं यथाक्रमम् ॥ ६६ ॥ नेत्रं केसरजालस्थं चक्रं नाभित्रयोपरि । श्रीवत्सकौस्तुभौ चैव वनमालां तथैव च ॥ ६७ ॥ उदक्पश्चिमभागस्थे चाक्रीये त्वप्यरत्रये । कमलं निशिताग्रं च नन्दकं विन्यसेत् क्रमात् ॥ ६८ ॥ प्राग्भागदक्षिणस्थाभ्यां त्रितयं चाथ विन्यसेत् । कार्मुकं हेतिराट् शङ्खं ततो देवस्य दक्षिणे ॥ ६९ ॥ नेमिभागे श्रियं देवीं पुष्टिमूत्तरतो न्यसेत् । पृष्ठदेशे स्थितां निद्रामग्रभागे सरस्वतीम् ॥ ७० ॥ अथ भोगयागक्रममाह—तदोदितमित्यारभ्याग्रभागे सरस्वतीमित्यन्तम् । चाक्रीये चक्रसम्बन्धिनीत्यरत्रयस्य विशेषणम् । निशितान्यग्राणि यस्य तं तथोक्तं

सप्तदशः परिच्छेदः ३५७ गदामित्यर्थः । अनयोरर्चनोर्मन्त्राणां निराकारत्वसाकारत्वभेदं लयभोगसंज्ञाकत्वं च जयाख्ये प्रतिपादितम्— शक्तयश्चाङ्गषट्कं च लाञ्छनं कमलादिकम्॥ भूषणं कौस्तुभाद्यं च वदनानां तथा त्रयम्। सत्याद्या मूर्तयश्चैव देवे देहस्य भाविताः॥ व्यापकस्य तथात्वेन स्वे स्वे स्थाने प्रभात्मकाः। तद्देहसंस्थिताः सर्वे पूजनीयाः क्रमेण तु॥ परिवारं विना मन्त्रै स्वैः स्वैः पुष्पानुलपनैः। लययागो ह्ययं विप्र लक्ष्म्यादिष्वनुकीर्तितः॥ तस्माद् हृत्कर्णिकाधारे मूर्तौ वा यत्र कुत्रचित्। मूलमन्त्रशरीरस्थं परिवारं यजेत् सदा॥ याग एष लयाख्यस्तु संक्षिप्तः सर्वसिद्धिदः। मन्त्रराट् कर्णिकामध्ये लक्ष्म्याद्याः केसरादिषु॥ साकाराः केवलाः सर्वे यत्र भोगाभिधः स तु। केवलेन च यागेन पृथग्भूतेन नारद॥ पूजनं कमलादीनामधिकाराभिधः स तु॥(१२।७६-८३) इति। प्रभात्मकास्तेजोरूपाः, निराकारा इति यावत् । परिवारं विना तत्तत्परिवारं विनेत्यर्थः । परिवारस्यापि परिवारकल्पनेऽनवस्थाप्रसङ्गादिति भावः। एत एव श्लोका ईश्वरपारमेश्वरयोरपि स्वस्वोक्तमन्त्रन्यासानुसारेण प्रतिपादिताः । परमेश्वरव्याख्याने तु “अन्या मूर्तय इत्यनेनाष्टाद्यनेकभुजभूषितायुधमूर्तिविषया द्रष्टव्याः” इति व्याख्यातम् । तदसङ्गतम्, अत्रत्यमूर्तिशब्दस्य सत्यादिमूर्तिपरत्वात्, “सत्याद्या मूर्तयश्चैव” (जया० सं० १२।७७) इति मूलोक्तेश्च । परिवारं विनेत्यत्रापि परिवाराकारत्वकल्पनां विनेति व्याख्यातम् । तदप्यप्रकृतम्, प्रभात्मका इत्यनेनैव तदर्थसिद्धेः । “मूलमन्त्रशरीरस्थं परिवारं यजेत् सदा” (जया० १२।८०) इत्यनेन तदानीमपि परिवारत्वस्य दुर्निरोध- त्वाच्च । पारमेश्वरे लययागः स्वोक्तन्यासानुसारेण हृन्मन्त्रक्रमेणैवोक्तः । भोगयागस्तु केवलजयाख्यवचनेनैव प्रतिपादितः । तथापि पारमेश्वरसंहितानिष्ठैर्हन्मन्त्रादिक्रमेणैव भोगयागः कार्यः, तस्यापि पूर्वोक्तन्यासानुसारेणैव कर्तव्यत्वात्, तथैव बाह्ययागे वक्ष्यमाणत्वाच्च । पारमेश्वरव्याख्यानेऽप्येवमेवोक्तम्—लक्ष्म्याद्याः केसरादिषु । तत्र लक्ष्म्यादयः, अत्र हृदादय इति विशेष इति । उत्तरत्रापि पारमेश्वरे मानसयागानन्तरं “भोगस्थान- गतानां च लक्ष्म्यादीनां क्रमेण तु” (जया०सं० १२।११३, पा०सं० ५।१४८) इति जयाख्यवचनमेवोदाहृतम् । तत्रापि व्याख्याकारैर्लक्ष्मादीनामिति नारदश्रुतग्रन्थे लक्ष्म्यादित्वमन्त्रहृदयादिति विवेक इत्युक्तम् । एतदबुद्ध्वैव कैश्चित् पारमेश्वरप्रयोग- कारैर्यथेच्छं पाण्डित्यं प्रदर्शितम् । केषुचित् पारमेश्वरप्रयोगेष्वस्मिन्नवसरेऽधिकारयाग- स्यापि कर्तव्यत्वम्, तस्य स्वबुद्धिकल्पितस्थानान्तरं चोक्तम् । तैरधिकारयागशब्दार्थ एव न ज्ञात(व्य?)ः, व्याख्यानपङ्क्तिरपि न दृष्टा, पृथग्भूतेनेति विशेषणमपि न स्मृतम् । अलं प्रसक्तानुप्रसक्त्या ॥ ६५-७० ॥

३५८ सात्वतसंहिता फिर भगवान् नृसिंह के शरीर से उत्पन्न हृदयादि चतुष्टय में कमलपत्र के पूर्व दिशा से लेकर उत्तर दिशा पर्यन्त भगवान् हरि का न्यास करे । कमल के आग्नेय, ईशान, नैर्ऋत्य तथा वायव्य कोण में अस्त्र मन्त्र से क्रम पूर्वक न्यास करना चाहिए ॥ ६५-६६ ॥ केशर जाल पर नेत्र का, तीनों नाभियों पर चक्र का और श्रीवत्स, कौस्तुभ तथा वनमाला का चक्र के उत्तर और पश्चिम के तीनों अराओं पर न्यास करे । कमल अत्यन्त तीक्ष्ण नन्दक नामक खड्ग का न्यास करे ॥ ६७-६८ ॥ देवता के दक्षिण, पूर्वभाग और दक्षिण भाग में कार्मुक धनुष, चक्र और शङ्ख इन तीन का न्यास करे ॥ ६९ ॥ देवता के नेमि स्थान पर श्रीदेवी का और उत्तर भाग में पुष्टि देवी का न्यास करे । इसी प्रकार देवता के पृष्ठभाग में स्थित निद्रा का तथा अग्रभाग में सरस्वती का न्यास करे ॥ ७० ॥ वामदक्षिणभागाभ्यां वीथिस्थमिषुधिद्वयम् । द्वारेष्वस्त्रं न्यसेद् भूयो मुद्रां कोणचतुष्टये ॥ ७१ ॥ सायुधानथ दिक्पालान् स्वस्थाने मण्डलाद् बहिः । मण्डलवीथ्यादिष्वर्चनीयान् परीवारानाह—वामदक्षिणेति सार्धेन । इषुधिद्वयं तूणीरद्वयमित्यर्थः । द्वारेष्वस्त्रं = चक्रमित्यर्थः । पूर्व भोगयागे चक्रगदयोरुक्तत्वाद् भूय इत्युक्तम् ॥ ७१-७२ ॥ वाम एवं दक्षिण भाग में वीथी में रहने वाले दो तरकसों का न्यास करना चाहिए । इसी प्रकार द्वार पर अस्त्र (=चक्र) का न्यास करे तथा चारों कोणों पर पुनः मुद्रा न्यास करे । फिर मण्डल के बाहर दशों दिशाओं में पूर्वादि क्रम से आयुध सहित दिक्पालों का न्यास करे ॥ ७१-७२ ॥ मूलमन्त्रादीनां ध्यानकथनम् एवं न्यस्य ततो ध्यायेन्मन्त्रव्यूहं यथास्थितम् ॥ ७२ ॥ सर्वदेवमयं देवं सर्वेषां तेजसां निधिम् । सर्वलक्षणसम्पूर्णं सार्वज्ञादिगुणैर्युतम् ॥ ७३ ॥ निष्प्रप्तकनकाभं च सम्पूर्णाङ्गं महातनुम् । घोरशार्दूलवदनं चण्डमार्तण्डलोचनम् ॥ ७४ ॥ सौदामिनीचयप्रख्यैर्लोमभिः परिपूरितम् । अरुणाम्भोजपत्राभं वज्राधिककरोरुहम् ॥ ७५ ॥ चलत्फणीश्वरसटं चन्द्रकोटिशतद्युतिम् ।

सप्तदशः परिच्छेदः ३५९ वमन्तमान्तरं वह्निं खरन्श्चैर्मारुतानुगैः ॥ ७६ ॥ प्रलयाम्बुदनिर्घोषमुद्गिरन्तं स्ववाचकम् । युगान्तहुतभुग्ज्वालामण्डलान्तर्व्यवस्थितम् ॥ ७७ ॥ षडस्रं चाप्यष्टबाहुं व्याप्य लोकान् स्थितं प्रभुम् । दिव्यगन्धानुलिप्ताङ्गं दिव्याम्बरधरं तथा ॥ ७८ ॥ दिव्यस्रग्वेष्टनोपेतं दिव्यालङ्कारमण्डितम् । कौस्तुभेनोरसिस्थेन श्रीवत्सेनाप्यलङ्कृतम् ॥ ७९ ॥ रत्नकाञ्चनसन्मुक्तायुक्तया वनमालया । सब्रह्मसूत्रया चैव शोभितं परमेश्वरम् ॥ ८० ॥ भुजान्यस्त्रवरैर्दीप्तैः कमलाद्यैर्युतानि च । क्षीरसागरवच्छुभ्रं ततः पद्मं तु दक्षिणे ॥ ८१ ॥ प्रणवध्वनिगर्भं तु हिमाद्रिशतशोऽधिकम् । वामे शङ्खवरं ध्यायेद् गदाखड्गौ ज्वलत्प्रभौ ॥ ८२ ॥ दक्षिणे पाणियुग्मेऽथ चक्रं कालानलद्युतिम् । सधनुर्वमहस्ताभ्यां ततः पाणिद्वयेन तु ॥ ८३ ॥ अविद्यादलिनीं मुद्रां कर्माख्यां संस्मरेत् प्रभोः । एवमेव हि हृन्मन्त्रं ध्यायेत् कुमुदपाण्डरम् ॥ ८४ ॥ पद्मरागाचलाकारमारक्तं च शिरः स्मरेत् । अञ्जनाश्मप्रतीकाशं शिखामन्त्रं तथाकृतिम् ॥ ८५ ॥ परितः सूर्यसन्तप्तं यथा कनकपर्वतम् । तथा कवचमन्त्रं च ध्यानकाले विचिन्त्य च ॥ ८६ ॥ वृतो ज्वालासहस्रैस्तु अयस्कान्तसमद्युतिः । सर्वास्त्रशक्तिसम्पूर्णश्चास्त्रमन्त्रः प्रकीर्तितः ॥ ८७ ॥ निर्धूमाङ्गारशिखरसदृशो नेत्रमन्त्रराट् । ध्येयाः स्वरुचिसंयुक्ता द्विभुजाः पुरुषोत्तमाः ॥ ८८ ॥ सास्त्राः कौस्तुभपूर्वा ये गदामालेङ्गनाकृतीः । फुल्लपद्मोदराभा श्रीर्नलिनीनालसंयुता ॥ ८९ ॥ चन्द्ररश्मिप्रतीकाशा श्वेतचामरधारिणी । पूर्णेन्दुसदृशी पुष्टिर्द्वहन्ती च पाणिना ॥ ९० ॥ सम्पूर्णममृतेनैव कलशं काञ्चनोत्थितम् । विज्ञानपुस्तककरा स्फटिकाभा सरस्वती ॥ ९१ ॥

३६० सात्वतसंहिता फुल्लेन्दीवरसंकाशा त्वक्षसूत्रकराङ्किता । ध्येया भगवती निद्रा सर्वाश्चामरलाञ्छिताः ॥ ९२ ॥ सम्मुखा देवदेवस्य वस्त्रालङ्कारमण्डिताः । मूलमन्त्रादीनां ध्यानान्याह—एवं न्यस्त्वा ततो ध्यायेदित्यारभ्य वस्त्रालङ्कारमण्डिता इत्यन्तम् । अविद्यादलिनी मुद्रा वक्ष्यमाणा (१७।१०५-१०६) ज्ञेया ॥ ७२-९३ ॥ अब मूल मन्त्रों का ध्यान कहते हैं—इस प्रकार न्यास कर लेने के अनन्तर यथास्थित मन्त्रव्यूह का ध्यान करे । यह मन्त्रव्यूह सर्व देवमय हैं । समस्त तेजों के निधान हैं । सभी लक्षणों से संयुक्त और सभी ज्ञानादि गुणों से समन्वित हैं ॥ ७२-७३ ॥ ये उत्तप्त कनक के समान देदीप्यमान हैं, अङ्गों से सम्पूर्ण हैं, विशाल शरीर से संयुक्त हैं, सिंह के समान महाभयानक मुख वाले हैं, इनके नेत्र प्रचण्ड सूर्य के समान देदीप्यमान हैं ॥ ७४ ॥ बिजली समूहों के समान चमकीले रोमों में भरा हुआ इनका शरीर है । नख मण्डल कमल पत्र के समान लाल वर्ण का है तथा वज्र से भी अधिक कठोर और तीक्ष्ण है ॥ ७५ ॥ सटा (= रोम) चञ्चल साँप के समान चमकीली है जिसका प्रकाश करोड़ों चन्द्रमा की किरणों के समान है । वे अपने अन्दर में रहने वाली अग्नि को वायु वेग के समान शरीर के रोमछिद्रों से बाहर उगल रहे हैं ॥ ७६ ॥ अपने वाचक शब्द (ॐ) को प्रलयकालीन अम्बुद के समान गर्जन करते हुए उगल रहे हैं । कल्पान्तकालीन प्रलयाग्नि की ज्वाला अपने अन्तःकरण में धारण किये हुए हैं ॥ ७७ ॥ जो अपने छः अस्त्रों तथा आठ बाहुओं से व्याप्त होकर संसार में स्थित हैं, जिनका अङ्ग दिव्यगन्ध से अनुलिप्त है, जो दिव्य अम्बर धारण किये हुए हैं । जो दिव्य माला से वेष्टित हैं, दिव्यालङ्कारों से मण्डित हैं और जो वक्षःस्थल पर धारण किये हुए कौस्तुभ तथा श्रीवत्स से भी अलङ्कृत हैं, रत्न काञ्चन तथा उत्तमोत्तम मोतियों की माला तथा वनमाला से विभूषित हैं इतना ही नहीं, वे परमेश्वर ब्रह्मसूत्र से भी शोभित हैं ॥ ७८-८० ॥ जिनकी भुजायें श्रेष्ठ अस्त्रों के धारण करने से देदीप्यमान हो रही हैं और कमलों से भी संयुक्त हैं, जिनके दक्षिण हाथ में क्षीरसागर के समान श्वेत प्रणव ध्वनि निर्मित है और सैकड़ों हिमालय के समान शुभ्र कमल है और बायें हाथ में श्रेष्ठ शङ्ख तथा देदीप्यमान प्रभा वाली गदा और खड्ग शोभा दे रहा है, इस प्रकार भगवान् का ध्यान करे ॥ ८१-८२ ॥

सप्तदशः परिच्छेदः ३६१ दाहिने दोनों हाथों में कालानल के समान प्रकाशित चक्र, बायें दोनों हाथों में धनुष के सहित (बाण) विद्यमान है। पुनः दोनों हाथों में अविद्यादलिनी मुद्रा धारण किये हुए हैं ऐसे प्रभु का ध्यान करे ॥ ८३-८४ ॥ इसी प्रकार कुमुद के समान स्वच्छ हृन्मन्त्र का ध्यान करना चाहिये। पद्म- राग पर्वत के आकार के समान आरक्त हृन्मन्त्र (नमः) के शिर का स्मरण करे। अञ्जन पर्वत के समान उसी आकृति वाले शिखा मन्त्र का स्मरण करे ॥ ८५ ॥ जिस प्रकार सूर्य की किरणों से चारों ओर सुवर्ण पर्वत चमचमाता रहता है उसी प्रकार देदीप्यमान कवचमन्त्र का ध्यान काल में चिन्तन करे ॥ ८६ ॥ सहस्रों अग्नि ज्वाला से युक्त अयस्कान्तमणि के समान देदीप्यमान सम्पूर्ण शक्तिसम्पन्न अस्त्रमन्त्र कहा गया है उसका स्मरण करे ॥ ८७ ॥ धूम रहित अङ्गार पर्वत के समान नेत्र-मन्त्रराज का ध्यान करे। अपनी रुचि के अनुसार पुरुषोत्तम की दो भुजाओं का स्मरण करे ॥ ८८। अस्त्र सहित कौस्तुभ तथा गदा एवं वनमाला इत्यादि स्त्री वेश वाले विकसित कमल के समान मनोहर स्वरूप वाली महाश्री एवं नाल संयुक्ता नलिनी का ध्यान करे ॥ ८९ ॥ चन्द्रमा की चन्द्रिका के समान प्रकाश वाली, श्वेत चामरधारिणी पूर्णचन्द्र के समान हाथ में चामर लिये हुए पुष्टि का स्मरण करे ॥ ९० ॥ अमृत से सम्पूर्ण कनक, कलश तथा विज्ञान-पुस्तक हाथ में लिये हुए स्फटिक के समान शुभ्र वर्ण वाली सरस्वती का स्मरण करे ॥ ९१ ॥ विकसित कमल के समान शोभा वाली हाथ में अक्षसूत्र धारण किये हुए सभी देव लक्षणों से युक्त भगवती निद्रा का ध्यान करे, जो वस्त्रालङ्कार से मण्डित देवाधिदेव के सम्मुख स्थित हैं, इस प्रकार ध्यान करे ॥ ९२-९३ ॥ एवं ध्यात्वा ततः कुर्यात् पूजनं कुसुमादिकैः ॥ ९३ ॥ स्नानैर्विलेपनैर्वस्त्रैर्माल्यैर्धूपैश्च दीपकैः । दध्ना च मधुमिश्रेण क्षीरेणाज्यान्वितेन च ॥ ९४ ॥ हृद्यैर्मृष्टैः स्थिरैर्मेध्यैर्नैवेद्यैर्विविधैः शुभैः । यथाकालोद्भवैः सर्वैः फलमूलैस्तु षड्रसैः ॥ ९४ ॥ पूजितैर्मुक्तदोषैस्तु मुद्रामन्त्रोपलक्षितैः । मूर्त्तैर्ध्यानैस्तथा स्विन्नैर्बीजैर्होमादिनाऽथवा ॥ ९६ ॥ षष्ठपरिच्छेदे विस्तरेणोक्तत्वादिहोपचारानुपूर्वी संक्षेपेणाह—एवं ध्यात्वेत्या- दिभिः ॥ ९३-९६ ॥ सा० सं० - 27

३६२ सात्वतसंहिता इस प्रकार मन्त्र देवों का ध्यान कर पुष्पादि से उनका पूजन करे । स्नान विलेपन, वस्त्र, माला, धूप, दीप, दही, मधु मिश्रित क्षीर एवं घृत से हृदय को बल देने वाले, मीठे, स्थिर एवं बुद्धिवर्धक विविध कल्याणकारी नैवेद्य और यथाकाल उत्पन्न होने वाले षड्रस संयुक्त फल, मूल आदि से पूजित देव का ध्यान करे । मुद्रा मन्त्र द्वारा दोषों से मुक्त हो जावे और प्रकट मूर्ति के समान ध्यान करे । भीगे हुए बीजों से अथवा होमादि द्रव्यों से होम करे ॥ ९३-९६ ॥ ततः स्वहस्तौ संस्कृत्य अम्भसाऽऽलम्भनादिना । बद्ध्वा प्रदर्शयेन्मुद्रां त्रिशिखां सम्मुखे विभोः ॥ ९७ ॥ ध्यात्वा त्रेताग्निरूपं तु दक्षिणाङ्गुलित्रयम् । स्पृष्टमूर्ध्वशिखं सैव ज्येष्ठाक्रान्ता कनीयसी ॥ ९८ ॥ अथोऽखिलस्वरूपश्च ध्वान्तातीतोऽग्निरूपधृक् । देवो गुणत्रयातीतस्तथा मार्गत्रयातिगः ॥ ९९ ॥ धर्मैः स्थूलतरैर्मुक्तो योऽयं व्यक्तो धियार्चितः । मूलमुद्रादर्शनमाह—तत इति सार्द्धैस्त्रिभिः । अम्भसा = अर्घ्यजलेनेत्यर्थः । "मुद्राबन्धे कराभ्युक्षाम्" इत्यर्घ्यविनियोगस्य वक्ष्यमाणत्वात् । आलम्भनादिना चन्दनादिनेत्यर्थः । आदिशब्देन कर्पूरकुङ्कुमादिकं गृह्यते । दक्षिणहस्तेऽङ्गुष्ठेन कनिष्ठिकामाक्रम्य तर्जन्याद्यङ्गुलित्रयमृज्वीकृत्य भगवदभिमुखं दर्शयेदिति फलितोऽर्थः ॥ ९७-१०० ॥ अब मूल मुद्रा प्रदर्शन की विधि कहते हैं—फिर जल स्पर्शादि से हाथ प्रक्षालन कर, हाथ शुद्ध कर, दोनों हाथ जोड़कर भगवान् के सामने त्रिशिखा मुद्रा प्रदर्शित करे ॥ ९७ ॥ अब त्रिशिख मुद्रा का स्वरूप कहते हैं—त्रेताग्नि के स्वरूप का ध्यान करे फिर दाहिने हाथ के अंगूठे से कनिष्ठा को दबा देवे । तदनन्तर शेष तर्जनी आदि तीन अङ्गुलियों को सीधी खड़ी कर देवे । फिर इस मुद्रा को भगवान् के सामने प्रदर्शित करे तो वही मुद्रा त्रेताग्नि स्वरूप कही जाती है यही फलितार्थ है ॥९८॥ यही देव सर्वस्वरूप हैं, अज्ञान रूप अन्धकार से सर्वथा परे हैं, अग्नि स्वरूप हैं, किं बहुना, यही देव तीनों गुणों से परे हैं तथा मार्गत्रयातीत भी हैं । यही स्थूलतर धर्मों से तो मुक्त हैं, किन्तु मानसिक पूजा से अर्चित होने पर अभिव्यक्त होते हैं ॥ ९९-१०० ॥ हृन्मुद्राकथनम् सम्पुटं हृदयोद्देशे बद्ध्वा हस्तद्वयेन तु ॥ १०० ॥ निरन्तराभ्यां शाखाभ्यां मुद्रैषा हार्दिकी स्मृता ।

सप्तदशः परिच्छेदः ३६३ हृन्मन्त्रमुद्रामाह—सम्पुटमिति। हार्दिकी हृदयसम्बन्धिनीत्यर्थः॥ १००-१०१॥ अब हृन्मुद्रा कहते हैं—दोनों हाथों से सम्पुट बाँधकर हृदय प्रदेश पर स्थापित करे, दोनों हाथो की अङ्गुलियों में अन्तर न रहे तब यह हृदय सम्बन्धिनी मुद्रा कही जाती है ॥ १००-१०१ ॥ शिरोमन्त्रादिमुद्रापञ्चककथनम् अङ्गुष्ठादिकनिष्ठान्तं शाखायुग्मं पृथक् पृथक् ॥ १०१ ॥ सान्तरं सम्पुटादस्मात् कनिष्ठादौ तथा भवेत् । शिरश्शिखातनुत्रास्त्रनेत्रमुद्रा यथाक्रमम् ॥ १०२ ॥ शिरोमन्त्रादिमुद्रापञ्चकमाह—अङ्गुष्ठादीति सार्धेन । पूर्ववत् करद्वयेन सम्पुटं कृत्वाऽङ्गुष्ठयुग्मं तर्जनीयुग्मं मध्यमायुग्ममनामिकायुग्मं कनिष्ठिकायुग्मं च सान्तरालं यथा तथा पृथक् पृथक् विभज्य कनिष्ठाद्यङ्गुष्ठान्तमङ्गुलियुग्मपञ्चके क्रमेण शिरः- शिखाकवचास्त्रनेत्रमुद्रा इति विज्ञेयाः ॥ १०१-१०२ ॥ अब शिरोमन्त्रादिमुद्रा पञ्चक कहते हैं—दोनों हाथों से सम्पुट बनाकर दोनों अंगूठो, दोनों तर्जनी, दोनों मध्यमा, दोनों अनामिका, दोनों कनिष्ठा के बीच-बीच में थोड़ा अन्तर रख कर अलग-अलग प्रविभक्त करे । इस प्रकार कनिष्ठा युग्म से अङ्गुष्ठ युग्म पर्यन्त पाँचों अङ्गुलियों को क्रमशः शिरोमुद्रा, शिखामुद्रा, कवचमुद्रा, अस्त्रमुद्रा तथा नेत्रमुद्रा कहा जाता है ॥ १०१-१०२ ॥ श्रियादिशक्तिमुद्राचतुष्टय कथनम् अस्यामङ्गुष्ठयुग्मं तु मुद्रायां करमध्यगम् । प्रदेशिन्यां ततो विद्धि कनिष्ठान्तं श्रियादिषु ॥ १०३ ॥ श्रियादिशक्तिमुद्रा चतुष्टयमाह—अस्यामिति । अस्यां मुद्रायां पूर्वोक्तरीत्या पृथग्विभक्ताङ्गुलिद्विकपञ्चकविशिष्टायां मुद्रायामङ्गुष्ठयुग्मं करमध्ये कर्णिका- रूपेण संस्थाप्य तर्जन्यादिद्विकचतुष्टये क्रमेण लक्ष्मीपुष्टिसरस्वतीनिद्रामुद्राचतुष्टयं बोध्यम् ॥ १०३ ॥ अब श्रियादि शक्ति मुद्रा चतुष्टय का प्रकार कहते हैं—इस पूर्वोक्त मुद्रा में पृथग्विभक्त पाँचों युग्म अङ्गुलि विशिष्ट मुद्रा में, अङ्गुष्ठ युग्म को हाथ के मध्य में कर्णिका रूप से स्थापित कर देवे तो शेष तर्जनादि द्विक चतुष्टय को क्रमशः लक्ष्मीमुद्रा, पुष्टिमुद्रा, सरस्वतीमुद्रा और निद्रामुद्रा नामक चार मुद्रायें हो जाती हैं, ऐसा समझना चाहिये ॥ १०३ ॥ स्वमन्त्रयुक्ता चान्येषामर्चितानां यथाक्रमम् । पुनः पुनः प्रयोक्तव्या हार्दयं शिरसा सह ॥ १०४ ॥ अन्येषां हृन्मुद्रैव शिरोमुद्रया सह तत्तन्मन्त्रेण प्रयोक्तव्येत्याह—स्वमन्त्रयुक्तेति ।

३६४ सात्वतसंहिता अन्येषामित्यनेन श्रीवत्सादिभूषणानां चक्रादिलाञ्छनानामन्तादिपीठदेवानां विष्वक्से- नादिगुरूणां द्वारावरणस्थपरिवाराणां च ग्रहणं बोध्यम् । ननु जयाख्ये एतेषामपि मुद्राः प्रतिपादिताः । तत्राप्यनुक्तमुद्राणामेव हृ(न्मन्त्रा- न्मुद्रा)प्रदर्शनं सरसमिति चेन्न, तत्तत्संहितानिष्ठैस्तत्तदुक्तप्रकारेणैवानुष्ठेयत्वात् । ननु तर्हि सात्वतोपबृंहणे जयाख्योक्ताः श्रीवत्सादिमुद्राः संगृहीता इति चेत् सत्यम् । तत्र— सामान्या सर्वमन्त्राणामेका मुद्राञ्जलिः स्मृता ॥ स्वेन स्वेन तु मन्त्रेण संयुक्तां तां प्रयोजयेत् । —(ई०सं० २३।४१-४२) इति सात्वतोक्तपक्षस्यापि प्रतिपादित्वान्न भेतव्यमायुष्मता ॥ १०४ ॥ श्रीवत्सादि अन्य देवता के अर्चन में हृन्मुद्रा को ही शिरोमुद्रा के साथ तत्तन्मन्त्रों के साथ प्रयोग करे ॥ १०४ ॥ परस्परमुखौ श्लिष्टौ शाखाक्रान्तौ परस्परम् । किन्तु वै दक्षिणं हस्तमूर्ध्वं चाप्यधरेऽपरम् ॥ १०५ ॥ अविद्यादलिनी ह्येषा मुद्रा पूर्वमुदाहृता । अथ भगवतो हस्तस्थिताया अविद्यादलिन्या मुद्राया लक्षणमाह—परस्परेति सार्धेन । हस्तौ परस्पराभिमुखौ संश्लिष्टौ परस्पराङ्गुलिभिराक्रान्तौ च कृत्वा । दक्षिण- मुत्तरं अपरमधरं कुर्यादित्यर्थः ॥ १०५-१०६ ॥ अब भगवान् के हाथ में स्थित अविद्यादलिनी मुद्रा का लक्षण कहते हैं— अपने दोनों हाथों को परस्पर सामने रख कर एक में मिला देवे । फिर परस्पर अङ्गुलियों से दोनों हाथों को आक्रान्त कर दाहिने हाथ को ऊपर तथा बायें हाथ को नीचे करे । त्रिशिखा मुद्रा पहले कही गई है और अब अविद्यादलिनीमुद्रा कही गई ॥ १०५-१०६ ॥ एवं मुद्रात्रयं कृत्वा पूजां कृत्वा पुनः प्रभोः ॥ १०६ ॥ यथाशक्ति जपं कुर्याच्छतमष्टाधिकं तु वै । पूर्वोक्तां त्रिशिखामुद्रामिमामविद्यादलिनीमुद्रां च भगवते प्रदर्श्य पुनरर्घ्यादिभि- रभ्यर्च्राष्टोत्तरशतवारं यथाशक्ति वा मूलमन्त्रं जपेदित्याह—एवमिति । हृन्मन्त्रा- दीनामेकैकवारं जपः कार्यः । तेषां मूलमन्त्राराधनाङ्गभूतत्वात् सकृज्जपेऽपि न प्रत्यवायः ॥ १०६-१०७ ॥ इस प्रकार इन मुद्राओं को भगवान् के सामने प्रदर्शित करना चाहिए फिर अर्घ्यादि द्वारा अर्चना कर मूलमन्त्र का एक सौ आठ बार अथवा यथाशक्ति जप करना चाहिए ॥ १०६-१०७ ॥

सप्तदशः परिच्छेदः ३६५ एकैकं हृदयादीनां सर्वेषां विहितं त्वथ ॥ १०७ ॥ क्रियाङ्गत्वान्न दोषोऽस्ति अन्यथा तज्जपं विना । सकृज्जपस्याप्यकरणे प्रत्यवाय इत्याह—एकैकमिति ॥ १०७-१०८ ॥ हृन्मन्त्रादि का एक-एक बार जप करे । ये मन्त्र मूलमन्त्र के आराधन के अङ्ग हैं । अतः एक बार भी जप करने में कोई दोष नहीं । यदि इन मन्त्रों को एक बार भी जप न करे तब प्रत्यवाय होता है ॥ १०७-१०८ ॥ तमर्चयित्वाऽष्टाङ्गेन प्रणम्य परमेश्वरम् ॥ १०८ ॥ स्मृत्वाऽनुज्ञां समादाय यजेद् वह्निगतं ततः । एवं जपयज्ञानन्तरं साष्टाङ्गप्रणामजितन्तादिस्तोत्रपठनपूर्वकं भगवदनुज्ञया वह्नि- सन्तर्पणं कुर्यादित्याह—तमिति ॥ १०८-१०९ ॥ फिर साधक भगवान् का अर्चन कर अष्टाङ्ग प्रणिपात द्वारा उनको प्रणाम करे । तत्पश्चात् भगवान् का स्मरण कर वह्नि सन्तर्पण द्वारा उनके यजन की आज्ञा लेवे ॥ १०८-१०९ ॥ कुण्डं सुलक्षणं कृत्वा संस्कारैः संस्कृतं पुरा ॥ १०९ ॥ पूजयित्वार्घ्यपुष्पाद्यैस्तत्राग्निमवतार्य च । सुसमिद्धं च निर्धूमं संशुद्धं ताडनादिना ॥ ११० ॥ अर्घैर्निरम्बुकुसुमैः पूजयित्वा च भावयेत् । व्यस्तो गुणगणः षष्ठस्तेजो नाम गुणो हि यः ॥ १११ ॥ परस्य ब्रह्मणः सोऽयं सामान्यं सर्वतेजसाम् । ध्यात्वैवं नेत्रमन्त्रेण निक्षिपेत् कुण्डमध्यतः ॥ ११२ ॥ पावनैरिन्धनैः शुष्कैः कृत्वा निर्धूममेव तम् । समिद्भिरर्चयित्वाऽथ तन्मध्ये मन्त्रमण्डलम् ॥ ११३ ॥ ध्यात्वाऽभ्यर्च्य यथापूर्वं सन्तर्प्य सघृतैस्तिलैः । परिवारयुतं देवं सहस्रशतसंख्यया ॥ ११४ ॥ दद्यात् पूर्णाहुतिं सम्यग् होमसंख्यां निवेद्य च । वह्निसन्तर्पणक्रममाह—कुण्डमित्यारभ्य होमसंख्यां निवेद्य चेत्यन्तम् । सुलक्षणम् = एकादशपरिच्छेदोक्तलक्षणान्वितमित्यर्थः । संस्कारैः = षष्ठपरिच्छेदोक्तैः, उप- लेपनादिभिरित्यर्थः । पूजयित्वाऽर्घ्यपुष्पाद्यैरित्यत्रापि—"तदभ्यर्च्यर्घ्यपुष्पाद्यैर्ध्यायेत् तद्ब्रह्मपीठवत्" (६।८३) इत्याद्युक्तप्रकारो ज्ञेयः । संशुद्धं ताडनादिनेत्यत्र— सन्ताड्य चास्त्रमन्त्रेण प्रोक्षयेच्छिखया च तम् ॥ अर्चयेत् कवचेनैव कवचेनावकुण्ठ्य च ।