भारतकोश
संग्रह पर लौटें

सात्वत संहिता (पाञ्चरात्र आगम - भगवान् सङ्कर्षण-नारद संवाद सान्वय सटीक)

Satvata Samhita of Pancharatra Agama with Commentary

भगवान् सङ्कर्षण / महर्षि नारद द्वारा

DevanagariHindipublished837 पृष्ठ

अष्टादशः परिच्छेदः ४२७ समस्त कर्म को अस्त्र से अभिमन्त्रित कर उससे यागगेह का मार्जन कर उपलेपन करे। उसे ब्रह्मावधि पर्यन्त पुनः तेज की वृद्धि के लिये सुवर्णपूर्वक रत्न तथा बीज सन्निविष्ट करे ॥ ६२-६४ ॥ गालितेनाम्भसाऽऽपूर्य ततः पात्रचतुष्टयम् ॥ ६४ ॥ एकस्मिन् चन्दनादीनि पूर्वं सिद्धार्थकानि च । साक्षतानि कुशाग्राणि तण्डुलानि तिलांस्तु वै ॥ ६५ ॥ सरत्नानुत्तमान् धातून् सफ़लान् विनिवेशयेत् । द्वितीये दधिमध्वाज्यक्षीरबिन्दुचतुष्टयम् ॥ ६६ ॥ कुशाग्रेण सबाहीकं सपुष्पं तिलतण्डुलम् । दूर्वा सविष्णुक्रान्तां च श्यामाकं शङ्खपुष्पिकाम् ॥ ६७ ॥ पद्मकं च तृतीये तु कुन्दरेणुसमन्वितम् । त्वगेलाद्यचयं सर्वं सकर्पूरं च चन्दनम् ॥ ६८ ॥ विनिक्षिप्य चतुर्थे तु द्रव्यं सर्वमिदं शुभम् । हृन्मन्त्रेण चतुर्णां तु कुर्याद् वै द्रव्ययोजनम् ॥ ६९ ॥ सास्त्रेण मूलमन्त्रेण सर्वं तच्चाभिमन्त्र्य तु । सषडङ्गेन तेनैव कुर्यात् पुष्पादिनाऽर्चनम् ॥ ७० ॥ यथाक्रमेण सर्वेषां ध्येयं सर्वं सुधोपमम् । अर्ध्यादिपरिकल्पनक्रममाह—गालितेनेत्यादिभिः । पात्रचतुष्टयम् अर्ध्याद्वितीया- र्घ्यपाद्याचमनपात्रचतुष्टयमित्यर्थः । एकस्मिन् प्रधानार्घ्ये । चन्दनादीनीत्यत्रादिपदेन कर्पूरकुङ्कुमे ग्राह्ये, "चन्दनं शशिबाहीकौ" (६।४२) इति पारमेश्वरे विवृतत्वात् । सिद्धार्थकं = श्वेतसर्षपः । साक्षतानि = शोभनाक्षतसहितानि । पारमेश्वरव्याख्याने तु क्षतरहितानीति कुशाग्रविशेषणं कृतम् । उत्तमान् धातून् सुवर्णरजतताम्रान् । तथा विवृतं पारमेश्वरे—"काञ्चनं रजतं ताम्रम्" (६।४३) इति । सफलान् कदल्यादि- फलान्वितानित्यर्थः । तथा च परमेश्वरे—"कदलीफलपूर्वाणि प्रधानार्घ्ये विनिक्षिपेत्" (६।४३) इति । सबाहीकं सकुङ्कुमम् । विष्णुक्रान्ता प्रसिद्धा । श्यामाकः = मुनिप्रियः । श्याम अरिशि, "श्यामाको नीलपुष्पः स्यात् स्मयाकश्च मुनिप्रियः" (३।८।५८) इति वैजयन्ती । शङ्खपुष्पं कर्णाटभाषायां विषप्रहरी । पद्मकं वैद्यग्रन्थे प्रसिद्धम् । कुन्दरेणुः कुन्देन सहिता रेणुः, कुन्दो नाम वालुक्याख्यस्तृणविशेषः । "वालुकं चाथ वालुक्यं मुकुन्दः कुन्दकुन्दरू" (अ० २।४।१२१) इति नैघण्टुकाः । कर्णाटभाषायां कर्णिकेय हल्लु । रेणुर्नाम रेणुका, तथैव प्रसिद्धो गन्धद्रव्यविशेषः । "हरेणु रेणुका कौन्ती" (२।४।१२०) इत्यमरः । अथवा "कुन्दरेण समन्वितः" इति पाठे कुन्दरः पूर्वोक्तः कुन्द एव । वस्तुतस्तु तथैव पाठः सरसः । पूर्वं सम्भा- रार्जनप्रकरणे "विष्णुक्रान्ता च कुन्दरम्" (१।८।२९) इति कुन्दमात्रस्योक्तत्वात्,

४२८ सात्वतसंहिता रेणुकाया अनुक्तत्वाच्च । त्वगेलाद्यचयं त्वग् लवङ्गः, ‘‘त्वक्पत्रमुत्कुटं भृङ्गम्’’ (२। ४।१३४) इत्यमरः । एला प्रसिद्धा । तदाद्यानां द्रव्याणां चयं समूहम् । अत्राद्यशब्देन तक्कोलजातिफले ग्राह्ये । तथोक्तं पारमेश्वरे—‘‘एलालवङ्गतक्कोलैः सह जाती- फलानि च’’ (६।६४) इति । एषामर्घ्यादीनां स्थाननियमादिकं षष्ठपरिच्छेदे (६।९- ९१) प्रदर्शितम् । दहनाप्यायनादिकं तु नृसिंहकल्पपरिच्छेदे (१७।१७-२७) प्रदर्शितम् । तत्सर्वं संग्रहेश्वरादिषु सुव्यक्तमुक्तं द्रष्टव्यम् ॥ ६४-७१ ॥ इसके बाद छाने हुए जल से चार घड़ा भर कर वहाँ प्रथम अर्घ्य पात्र, द्वितीय अर्घ्य पात्र, पाद्य पात्र और आचमन पात्र स्थापित करे । एक घट में चन्दनादि, सिद्धार्थकादि (श्वेत सर्षपादि), साक्षात् कुशाग्र, तण्डुल, तिल, सरल उत्तम धातु तथा कदली आदि फल डाल कर सन्निविष्ट करे । द्वितीय घट में दधि, मधु, घृत, दूध इन चार बिन्दुओं को कुशाग्र के साथ कुङ्कुम, पुष्प सहित तिल, तण्डुल, दूध विष्णुकान्ता, श्यामाक, शङ्खपुष्पी एवं पद्म डाल कर स्थापित करे । तृतीय घट में कुन्दरेणु समन्वित त्वक्, इलायची आदि, कपूर सहित चन्दन डालकर स्थापित करे । चतुर्थ घट में पहले कहे गये सभी द्रव्यों का समूह प्रक्षिप्त कर स्थापित करे । फिर अस्त्र सहित मूल मन्त्र से सभी का अभिमन्त्रण कर षडङ्ग सहित मन्त्र द्वारा पुष्पादि से उनका अर्चन करे । इस प्रकार क्रमशः सभी नैवेद्य वस्तुओं का अमृत के समान ध्यान करे ॥ ६३-७० ॥ आवाहने सन्निधाने सन्निरोधे तथार्चने ॥ ७१ ॥ विसर्जनेऽर्घ्यदानं तु प्राक्पात्रान्नित्यमाचरेत् । तदम्भसा चार्हणं तु तथैव परिषेचनम् ॥ ७२ ॥ कुर्यात् प्रणयनादानं प्रीणनं प्रीतिकर्म च । प्रधानार्घ्यस्य विनियोगमाह—आवाहन इति । प्रणयनादानं प्रणयनं पात्रान्तरे सेचनम्, तत्पूर्वकमादानं ग्रहणम् । तच्च ‘‘तर्पणं सम्प्रतिष्ठाप्य वासितं चार्घ्यवारिणा’’ (६।३७६) इति पारमेश्वराद्युक्तप्रकरणेषूपयुक्तं ज्ञेयम् ॥ ७१-७३ ॥ अब प्रथम कलश से प्रधान अर्घ्य का विनियोग कहते हैं—आवाहन, सन्निधान, सन्निरोध अर्चन एवं विसर्जन क्रिया में प्रथम पात्र से नित्य अर्घ्यदान देवे और उसी से पूजा करे तथा परिषेचन करे ॥ ७२ ॥ उसी पात्र से प्रणयन (पात्रान्तर का अभिषेचन) तथा आदान (जल ग्रहण) प्रीणन एवं प्रीतिकर्म करे ॥ ७३ ॥ द्वितीयार्घ्यपात्रविनियोगकथनम् प्रोक्षणं सर्ववस्तूनाम् अन्यस्मादुदकेन तु ॥ ७३ ॥ आरम्भे सर्वकार्याणां तत्समाप्तौ तथैव हि । न्यूनाधिकानां शान्त्यै तु ज्ञानव्यत्ययशान्तये ॥ ७४ ॥

अष्टादशः परिच्छेदः ४२९ कार्यं तदर्घ्यदानं च नित्यं मन्त्रात्मना विभोः । कुम्भोपकुम्भकुण्डानां मन्त्रास्त्रकलशार्चने ॥ ७५ ॥ सम्पूजने च भूतानां गुर्वादीनां महामते । दक्षशिष्यात्मपूजार्थमुक्तानुक्तार्चनं प्रति ॥ ७६ ॥ द्वितीयार्घ्यविनियोगमाह—अन्यस्मादित्यारभ्योक्तानुक्तार्चनं प्रतीत्यन्तम् । न्यूना- धिकानां कार्याणामित्यनुषङ्गः । एवं च सर्वकार्येष्वपि समाहितस्यापि कर्मज्ञान- वैपरीत्याद् दोषः संभवत्येव । तच्छान्त्यर्थं सर्वकार्याणामारम्भेऽवसानं च भगवते सकृत् सकृत् समर्पणीयमिति भावः । कुम्भोपकुम्भकुण्डानां कुम्भस्य महाकुम्भस्य ये उपकुम्भास्तेषां कुण्डस्य चेत्यर्थः । यद्वा, कुम्भा महाकुम्भस्य प्रागादिषु स्थापिताः कलशाः, उपकुम्भाः, शान्तिकादिषूक्तप्रकारेण तदुपरि स्थापिताः कलशा इत्यर्थः । मन्त्रास्त्रकलशार्चने मन्त्राणामुपकुम्भेषु कुण्डमेखलास्थितकूर्चादिषु च संस्थितवासुदेवादिमन्त्राणामस्त्र- कलशस्य चार्चन इत्यर्थः । महाकुम्भस्थायार्घ्यदानं तु प्रधानार्घ्यजलेनैवैत ज्ञेयम् । भूतानां सम्पूजने कुमुदाद्यर्चन इत्यर्थः । "सम्पूजने च भोगानाम्" (६।१९५) इति पाठान्तरमुक्तं पारमेश्वरे, तथैव विवृतं तद्व्याख्याकारैरपि । गुर्वादीनामित्यत्र दक्षशिष्यात्मपूजार्थमित्यत्र च तत्तद्दिग्रहविन्यस्तमन्त्रार्चनविषयमिति बोध्यम् । उक्तानुक्तार्चनं प्रतीति संक्षेपेणोक्तम् । विशदीकृतमीश्वरपारमेश्वराभ्याम्— दक्षशिष्यात्मपूजार्थं द्वास्थानामर्चनं प्रति । प्रसादासनदेवानां गुरूणां सन्ततेस्तथा ॥ लाञ्छनाङ्गपरीवारशक्तिभूषणरूपिणाम् । मण्डलावरणस्थानां देवानां चाऽर्चने तथा ॥ मुद्राबन्धे कराभ्युक्षं तदर्चा क्षालनं तथा । जपकालेऽक्षसूत्रस्य कुर्यात् तत्क्षालनं तथा ॥ —(ई०सं० ३।९४-९६, पा०सं० ६।१९५-१९८) इति ॥ ७३-७६ ॥ अब द्वितीय अर्घ्यपात्र का विनियोग कहते हैं—सभी वस्तुओं का प्रोक्षण अन्य पात्र के जल से करे । सभी कार्यों के आरम्भ से उनकी समाप्ति पर्यन्त न्यूनाधिक दोषों की शान्ति के लिये तथा ज्ञान व्यत्यय की शान्ति के लिये साधक परमेश्वर को मन्त्र द्वारा दूसरे अर्घ्यपात्र से अर्घ्य देवे । कुम्भ, उपकुम्भ, कुण्ड तथा कलश के अर्चन में, सम्पूजन में, भूतों तथा गुरु आदि के पूजन में दक्ष शिष्य की आत्मपूजा में तथा उक्त-अनुक्त अर्चन में दूसरे अर्घ्य कलश के जल का उपयोग करना चाहिए ॥ ७३-७६ ॥ पाद्यदानं तृतीयात् तु नित्यं पात्रात् समाचरेत् ।

४३० सात्वतसंहिता चतुर्थात् तु यथाकालं दद्यादाचमनं ततः ॥ ७७ ॥ पाद्यविनियोगमाह—पाद्यदानमित्यर्थेन । आचमनविनियोगमाह—चतुर्थादित्यर्धेन ॥ ७७ ॥ तृतीय पात्र से नित्य पाद्यदान सम्पादन करे तथा चतुर्थ पात्र से समय आने पर आचमन देवे ॥ ७७ ॥ मुख्यार्घ्यवारिणा प्रोक्ष्य पृथग् भाण्डस्थितं पुरा । पञ्चगव्यं ततः प्राग्वत् कल्पनीयं हृदादिकैः ॥ ७८ ॥ कुशोदकं तदस्त्रेण दत्वाद्येनाभिमन्त्र्य च । मुख्यार्घ्यवारिणा पञ्चगव्यप्रोक्षणं तत्संयोजनं चाह—मुख्येति सार्धेन । आद्येन हृन्मन्त्रेणेत्यर्थः ॥ ७८-७९ ॥ तदनन्तर पृथक् भाण्ड में स्थित पञ्चगव्य को मुख्य (प्रथम) अर्घ्यपात्र के जल से पूर्ववत् आद्य हृन्मन्त्र से प्रोक्षण करे । फिर आद्य मन्त्र से अभिमन्त्रित कर अस्त्र मन्त्र से उस पञ्चगव्य पर कुशोदक छिड़के ॥ ७८ ॥ अथ पाणिद्वयेनैव अग्नीषोमात्मकेन च ॥ ७९ ॥ योग्यतापदवीं नीत्वा प्रोक्षयेद् यत् पुराहृतम् । साम्भसा तेन वै सर्वं विष्टराग्रगतैः कुशैः ॥ ८० ॥ सर्वोपकरणानां दहनाप्यायनमुद्राप्रदर्शनपूर्वकं पञ्चगव्यप्रोक्षणमाह—अथेति सार्धेन । तेन पञ्चगव्येनेत्यर्थः ॥ ७९-८० ॥ तदनन्तर उसी अर्घ्यपात्र के जल को अपने अग्नीषोमात्मक दोनों हाथ में लेकर जितनी वस्तुयें यज्ञ के लिये एकत्रित की गई हैं उन पर उसका छींटा देकर यज्ञ की योग्यता पदवी के योग्य बनावे । फिर पुनः उसी अर्घ्यपात्र के जल को विष्टराग्रगत कुशों से प्रोक्षित करे ॥ ७९-८० ॥ सर्वबीजानि धान्यानि सिद्धार्थकयुतान्यथ । कृत्वास्त्रपरिजप्तानि ध्यात्वा चास्त्रसमानि च ॥ ८१ ॥ विघ्नोपशान्तये वेगाद् दशदिक्षु विनिक्षिपेत् । संहृत्य बर्हिकूर्चेन प्राच्यां दिशि निधाय वै ॥ ८२ ॥ तद् गर्भीकृत्य संलिख्य हेतिराट् चन्दनादिना । विघ्नोपशमनार्थं दशदिक्ष्वस्त्राभिमन्त्रितबीजधान्यश्वेतसर्षपविक्षेपादिकमाह— सर्वबीजानीति सार्धद्वाभ्याम् । हेतिराड् = हेतिराजं चक्रमित्यर्थः । विभक्तिनियम- श्छान्दसः ॥ ८१-८३ ॥

अष्टादशः परिच्छेदः ४३१

सभी बीज सिद्धार्थक युक्त सभी धान्यों को अस्त्र मन्त्र का ध्यान कर अस्त्र मन्त्र से जप कर उन्हें अस्त्र के समान बनावे ॥ ७९-८१ ॥ फिर विघ्न की शान्ति के लिये उन सिद्धार्थक युक्त धान्यों को दशों दिशाओं में वेग से प्रक्षिप्त करे । फिर उन धान्यों को कुशा के कूँचे से एकत्रित कर पूर्व दिशा में स्थापित करे और किसी वस्तु के भीतर रख देवे । तदनन्तर चन्दनादि द्वारा हेतिराट् चक्र लिखे ॥ ८१-८३ ॥ कुम्भमण्डलाग्निषु भगवदर्चनक्रमकथनम् करकं कुम्भसंयुक्तमलङ्कृत्य यथा पुरा ॥ ८३ ॥ भोगैः प्रावरणान्तैश्च मूर्तीभूतौ विचिन्त्य च । तद्देवताशरीरं तु पश्येदम्बरवच्छुभम् ॥ ८४ ॥ अथ कुम्भमण्डलाग्निषु भगवदर्चनक्रममाह—करकं कुम्भसंयुक्तमित्यारभ्य प्राग्वत् कुम्भेऽथ पूजित इत्यन्तम् । यथापुरमलङ्कृत्य, "प्राप्तानुज्ञोऽथ कलशमादाय शुभलक्षणम्" (१७।५७) इत्यादिसप्तदशपरिच्छेदोक्तप्रकारेणालङ्कृत्येत्यर्थः एव- मेवोक्तं जयाख्येऽपि दीक्षापटले— अथादाय दृढं शुभमेकरूपं च निर्व्रणम् ॥ कलशं मृण्मयं रम्यं सौवर्णं वाऽथ राजतम् । रत्नहाटकसद्गन्धपुष्पसर्वौषधीयुतम् ॥ शुभपादपशाखाढ्यं पट्टसूत्रकण्ठभूषणम् । गालितोदकसम्पूर्णं वारिधारान्वितं शुभम् ॥ चन्दनाद्युपलिप्तं च परितश्चार्घ्यचर्चितम् । (१६।९५-९८) इति । प्रावरणान्तैर्भोगैर्वस्त्रान्तैरुपचारैरित्यर्थः । मूर्तीभूतौ विचिन्त्य कुम्भकरकौ मन्त्रनाथसुदर्शनयोः शरीरत्वेन ध्यात्वेत्यर्थः, "तद्देवताशरीरं तु पश्येदमलवर्चसम्" (ई०सं ११।१९५, पा०सं० १२।२२४) इतीश्वरपारमेश्वरोक्तेः । विचिन्त्य चेत्यत्र चकारेण पूर्वं महाकुम्भमध्ये भगवदर्चनमपि सूचितं भवति । अन्यथा— "इदमभ्यर्थयेद् देवं सास्त्रं बद्धाञ्जलिस्थितः" (१८।८७) इत्युक्तिविरोधात् । तथा चेश्वरपारमेश्वरयोः— कुम्भमध्ये विभोः प्राग्वदासनं परिकल्प्य च ॥ तन्मध्ये पुण्डरीकाक्षं समावाह्य विधानतः । सन्निधिं सन्निरोधादि भोगयागावसानकम् ॥ पूर्ववत् सकलं कृत्वा तस्य दक्षिणदिग्गतम् । अस्त्रविग्रहरूपं च ध्यात्वाऽभ्यर्च्य यथाविधि ॥ ध्वंसयन्तं च विघ्नानां जालं कर्मावसानकम् । इति । —(ई०सं० ११।१९८-१२१, पा०सं० १२।२२७-२२९) जयाख्ये (१६।१०२) ईशानदिशि महाकुम्भस्थापनमुक्तम् । अतस्त्वेतत्पक्ष-

४३२ सात्वतसंहिता द्वयमपीश्वरपारमेश्वरयोर्महोत्सवप्रकरणे पवित्रोत्सवप्रकरणे च प्रदर्शितम्— प्रादक्षिण्येन प्राग्भागात् तत्पादान्तं च तत् स्मरेत्॥ अथवेशानदिग्भागात् तत्पादान्तं द्विजोत्तमाः। इति। (ई०सं० ११।१२४-१२५, पा०सं० १२।२३२) अत्र तन्निधायाथ कुम्भेन सह कुर्यात् प्रदक्षिणमिति पूर्वं प्रादक्षिण्येन कनक- धारया भित्तिसेचनानन्तरं महाकुम्भस्य प्रादक्षिण्येन भ्रामणमुक्तम्, जयाख्ये तु करक- कुम्भयोर्युगपदपि प्रदक्षिणमुक्तम्— "पृष्ठतः कलशो भ्राम्यस्तुल्यकालं तु वा पृथक्" (१६।१०१) इति। अत्र महाकुम्भार्चनानन्तरं तोरणध्वजाद्यर्चनोक्तावपि पूर्वोत्तर- संगत्यनुसारादीश्वराद्युपबृंहणानुसारान्च महाकुम्भार्चनात् पूर्वमेव तत्कार्यम्। किञ्च, महाकुम्भार्चनं मण्डलार्चनस्यप्युपलक्षणं बोध्यम्। यतः— "पुराहृतैर्यथाशक्ति मण्डलं च समाचरेत्" (१८।५६) इति मण्डललेखनमुक्तम्। उत्तरत्रापि— "स्थण्डिले कल- शाग्नौ च विनियुज्य यथाविधि" (१८।११०) इति कुम्भमण्डलाग्नीनां हविर्विभागं च वक्ष्यति॥ ८३-९५॥ फिर कुम्भ युक्त करवा को पहले की भाँति अलङ्कृत करे। फिर उसमें प्रावरणान्त सभी भोगों के मूर्तीभूत (प्रत्यक्ष साक्षात्) की कल्पना करे। उसमें आकाश के समान निर्विकार देवता शरीर का दर्शन करे ॥ ८३-८४ ॥ विशाखयूपं तन्मध्ये समावाह्य यजेत् ततः। क्रमान्मुद्रावसानं तु तस्य दक्षिणदिग्गतम्॥ ८५ ॥ तदनन्तर उसके मध्य में विशाखयूप का आवाहन कर मुद्रा दर्शन पर्यन्त उनकी पूजा करे, प्रदक्षिणा करे ॥ ८५ ॥ अस्त्रविग्रहरूपं च स्मृत्वा कुरबकं तु तत्। अस्त्रमन्त्रं तु तन्मध्ये ध्यात्वाऽभ्यर्च्य यथाविधि ॥ ८६ ॥ ध्वंसयन्तं च विघ्नानां कालं कर्मविसानकम्। इदमभ्यर्थयेद् विद्वान् सास्त्रो बद्धाञ्जलिस्थितः ॥ ८७ ॥ यागालयं हि विश्वेश गृहाण रचितं मया। आ समाप्तेर्भज विभो क्रियाङ्गानां च सन्निधिम् ॥ ८८ ॥ फिर उसे कुम्भ युक्त करके अस्त्र को विग्रह के रूप में ध्यान करे और यथाविधि अर्चन करे। जो कर्म के अन्त काल तक विघ्न समूहों का ध्वंस करने वाले हैं, उन भगवान् विशाखयूप से अस्त्र मन्त्र पढ़ते हुए यह प्रार्थना करे— हे विश्वेश्वर! मैंने इस यागालय का निर्माण किया है, आप इसे ग्रहण कीजिये और हे प्रभो ! जब तक यह यज्ञ समाप्त नहीं होता, तब तक आप इस यज्ञ के क्रिया कलाप के सन्निधान में निवास करें ॥ ८६-८८ ॥ ततोऽस्त्रोदकधरां चाप्यच्छिन्नां भित्तिकां नयेत्।

अष्टादशः परिच्छेदः ४३३ प्रादक्षिण्येन प्राग्भागात् तत्पदान्तं च संस्मरेत् ॥ ८९ ॥ तन्निधायाऽथ कुम्भेन सह कुर्यात् प्रदक्षिणम् । अर्घ्यदानं तयोः कृत्वा प्राग्भागे चाधरोर्ध्वगम् ॥ ९० ॥ पूजितं वाससाच्छन्नं चक्रमन्त्राभिमन्त्रितम् । निदध्याद् भद्रपीठं तु तत्राधारगतं न्यसेत् ॥ ९१ ॥ फिर यज्ञ मण्डप की भित्तिका (= दीवार) पर अविच्छिन्न अस्त्रोदक की धारा पूर्व दिशा से आरम्भ कर प्रदक्षिणा क्रम से भित्ति के अन्त तक उसका सेचन करे । फिर करक को वहीं रख देवे और कुम्भ के साथ उस करक की प्रदक्षिणा करे । फिर उन दोनों के पूर्व अधः और ऊर्ध्वभाग में अर्घ्य दान कर चक्र मन्त्र से अभिमन्त्रित वस्त्र द्वारा उनकी पूजा करे । फिर वहाँ आधारगत भद्रपीठ स्थापित कर उसका न्यास करे ॥ ८९-९१ ॥ सास्त्रं हि मन्त्रकलशमर्चयित्वा प्रणम्य च । दिगीश्वरगणं दिक्षु पूर्वोक्तं विन्यसेत् ततः ॥ ९२ ॥ तदनन्तर अस्त्र मन्त्र सहित उस कलश का अर्चन कर प्रणाम करे । उसके आठो दिशाओं में पूर्वोक्त दिगीश्वर गणों का न्यास करे ॥ ९२ ॥ ततः समर्चनं तेषां कृत्वाऽस्त्रेण हृदा सह । प्रणवेन स्वनाम्ना च नमस्कारानुगेन वै ॥ ९३ ॥ तोरणध्वजपूर्वाणां कार्यमर्घ्यादिनार्चनम् । ततो हवनभूमध्ये ध्यात्वा पीठं पुरोदितम् ॥ ९४ ॥ तत्रार्चनं विभोः कुर्यात् पूर्वोक्तेन क्रमेण तु । पूर्णान्तं तर्पणं कुर्यात् प्राग्वत् कुण्डेऽथ पूजिते ॥ ९५ ॥ फिर 'नमः' शब्द के साथ अस्त्रमन्त्र से तथा प्रणवपूर्वक अपने नाम को नमस्कार से युक्त कर उससे भी अर्चन करे । मण्डल स्थित तोरण एवं ध्वज का भी अर्घ्यादि द्वारा पूजन करे । हवन की भूमि में पधराये गये पीठ पर पूर्वोक्त क्रम से विभु भगवान् का पूजन करे । तदनन्तर कुण्ड के पूजनोपरान्त पूर्णाहुति के अन्त में तर्पण करे ॥ ९२-९५ ॥ भगवद्भूतबलिदानकथनम् ततस्तु भगवद्भूतान् क्षेत्रनाथसमन्वितान् । अर्घ्यपुष्पादिनाऽभ्यर्च्य बलिमादाय पात्रगम् ॥ ९६ ॥ इदमुक्त्वा च तदनु क्षिपेद् यागगृहाद् बहिः । ये विष्णुभाविनो भूता ये च तेष्वनुयायिनः ॥ ९७ ॥

४३४ सात्वतसंहिता आहरन्तु बलिं तुष्टाः प्रयच्छन्तु शुभं मम। प्रक्षालिताङ्घ्रिस्त्वाचान्तः संविशेद् यागमन्दिरम्॥९८॥ अथ भगवद्भूतबलिदानमाह—तत इति त्रिभिः ॥ ९६-९८ ॥ इसके बाद क्षेत्रपाल सहित भगवद् भूतों की अर्घ्य पुष्पादि द्वारा अर्चन कर पात्र में बलि लेकर 'ये विष्णु' आदि श्लोक मन्त्र कहकर (द्र. ९७) उस बलि को यागगृह से बाहर फेंक देवे। जो भविष्य में विष्णु के भावी भूत हैं और जो इस समय उनके अनुयायी हैं। वे सभी प्रसन्न होकर इस बलि को ग्रहण करें और हमारा कल्याण करें। इस प्रकार बलि देने के उपरान्त साधक हाथ-पैर धोकर आचमन कर यागमन्दिर में प्रवेश करे ॥ ९६-९८ ॥ हविःपाकविधानम् अग्निगेहेऽथ संस्कृत्य चुल्लीं प्राग्दिश्यवस्थिताम्। पचनालयमुत्सृज्य स्वदेशात् कुण्डमध्यगाम् ॥ ९९ ॥ स्थालीं चास्त्रेण संक्षाल्य बाह्यतो गोमयेन तु। विलिप्यान्तः सुगन्धैस्तु प्रताप्य ज्वलितैः कुशैः ॥ १०० ॥ हविःपाकविधानं तद्विभागनिवेदनादिक्रमं चाह—अग्निगेहेऽथ संस्कृत्येत्यारभ्य पूर्णया पुनरेव हीत्यन्तम्। ईशाब्जनाभरुद्धेन ईशः पूर्वोक्तो विशाखयूपः, अब्जनाभः = पद्मनाभः, ताभ्यां रुद्धेन तद्बीजाभ्यां सम्पुटितेनेत्यर्थः। हंसार्णेन = हकारेणेत्यर्थः। तद्वद् ईशाब्जनाभबीजवत् स्थिताभ्यां वौषड्वषट्काराभ्यां प्रणवाभ्यां च संरुद्धे- नेत्यनुषङ्गः। सात्वतामृते तु व्यापकमन्त्रदीक्षाप्रकरणादेतन्मन्त्रस्थाने मूलमन्त्र एव प्रतिपादितः ॥ ९९-१११ ॥ अब हविःपात्र का विधान तथा तद् विभाग निवेदनादि क्रम कहते हैं— अग्निगेह में पूर्व दिशा में रहने वाली चुल्ली का संस्कार करे। अपने स्थान भूत पचनालय (रसोई घर) को छोड़कर कुण्ड के मध्य में रहने वाली स्थाली (बटुई) को भीतर से अस्त्र मन्त्र से प्रक्षालन करे। उसके बाहर वाले भाग को गोमय से विलेपन करे। फिर उसके भीतरी भाग को जलते हुए कुशा से तथा सुगन्धित द्रव्यों से प्रतप्त करे ॥ ९९-१०० ॥ सन्ताड्य कुसुमास्त्रेण सितसूत्रेण कण्ठतः। चतुर्धा वर्मजप्तेन संवेष्ट्यार्घ्यादिणार्च्य च॥१०१॥ चुल्ल्यां कृत्वा समारोप्य तस्यां मधु घृतं पयः। परिशुद्धे शृते क्षीरे त्वस्त्रेणारोप्य तण्डुलान्॥१०२॥ चालयेन्मूलमन्त्रेण दृष्ट्वा नेत्रेण संस्कृतम्। हृदावतार्याभिघार्य शिखामन्त्रेण घट्टयेत् ॥ १०३ ॥

अष्टादशः परिच्छेदः ४३५ फिर उसे कुसुमास्त्र से सन्ताडित करे। तदनन्तर कवच मन्त्र का जप कर उसके कण्ठ में चार बार सफेद सूत्र लपेटे। फिर अर्घ्यादि से उसकी पूजा करे। फिर चुल्ली पर उस बटुई को चढ़ावे। उसमें मधु, घृत और दूध डाले। जब दूध अच्छी तरह पक जावे तब अस्त्रमन्त्र से उसमें चावल छोड़े। मूल मन्त्र पढ़कर उसे चलावे। तब उसे अपनी आँखों से सुसंस्कृत (पका हुआ) देखकर हृन्मन्त्र से नीचे उतारे, फिर अभिघार्थ शिखामन्त्र से अच्छी तरह घोंटे ॥ १०१-१०३ ॥ शिरसालिप्य संक्षाल्य सुप्रसन्नेन वारिणा। भूतिना चन्दनाद्येन भूषयेदूर्ध्वपुण्ड्रकैः ॥ १०४ ॥ फिर शुद्ध जल शिरोभाग पर छिड़क कर उसका प्रक्षालन करे। भूति, चन्दनादि से तथा ऊर्ध्वपुण्ड्र से उसे भूषित करे ॥ १०४ ॥ विष्टरोपरि चान्यत्र निदध्यान्मण्डलान्तरे। होमं तत्सिद्धये कृत्वा पूर्णान्तमथ वै चरोः ॥ १०५ ॥ आधारदानमाज्येन कुर्यात् तेजोमृतात्मकम्। ईशाब्जनाभरुद्धेन हंसार्णेन सबिन्दुना ॥ १०६ ॥ तद्वद् वौषड्वषट्कारप्रणवद्वितयेन च। यतोऽविनाभाविनोऽत्र स्थितिर्द्वाभ्यां च साम्प्रतम् ॥ १०७ ॥ तदनन्तर अन्यत्र दूसरे मण्डल के विष्टर पर उसे स्थापित करे। फिर उस चरु की सिद्धि के लिये उसके आदि और अन्त का भाग होम कर परीक्षित करे। तदनन्तर घी के आधार का दान कर उसे अमृतात्मक तेज से संवर्धित करे। यह कार्य विशाखयूप के बीज तथा पद्मनाभ के बीज से सम्पुटित हंसमन्त्र (सोऽहं) से करना चाहिए। इसी प्रकार वौषट् वषट् मन्त्र से सम्पुटित प्रणव मन्त्र से भी करना चाहिए। दोनों की अविनाभाव से संस्थिति रहती है क्योंकि वे एक दूसरे के बिना रह नहीं सकते ॥ १०४-१०७ ॥ अतः पुरोदितेनैव तदन्नं सम्पुटेन च। अ(थ?ध) ऊर्ध्वे च संच्छन्नं स्मरेदादाय वै हृदि ॥ १०८ ॥ अतः पूर्व में कही गई विधि के अनुसार सम्पुटित उस अन्न को नीचे से ऊपर तक ढक कर उसे हाथ में लेकर साधक हृदय से लगावे तथा भगवत् स्मरण करे ॥ १०८ ॥ द्रव्यसम्पातहोमेऽथ पूर्णान्ते तु कृते सति। उद्धृत्याहुतियोगेन पात्रत्रयगतं तु तत् ॥ १०९ ॥

४३६ सात्वतसंहिता तदनन्तर द्रव्य-सम्पात होम तथा पूर्णाहुति करने के बाद आहुति के अनुसार उस चरु को तीन पात्र में स्थापित करे ॥ १०९ ॥ स्थण्डिले कलशेऽग्नौ च विनियुज्य यथाविधि । तदाद्यभावितं शेषं कुशाक्रान्तं विघट्य च ॥ ११० ॥ प्रथम भाग स्थण्डिल, दूसरा कलश और तीसरा भाग अग्नि के लिये यथाविधि स्थापित करे । शेष आद्यभावित उस चरु को कुशा डाल कर उससे अच्छी तरह चरु का विलोडन करे ॥ १०९-११० ॥ क्रमान्मूलास्त्रनेत्रेण जुहुयाच्च शतत्रयम् । नीत्वा सम्पूर्णभावं च पूर्णया पुनरेव हि ॥ १११ ॥ फिर क्रमशः मूल सहित अस्त्र मन्त्र से तीन सौ आहुति देवे । इस प्रकार सम्पूर्ण चरु का हवन कर पूर्णाहुति करे ॥ १११ ॥ ततश्चोत्तरदिक् कुर्यान्मण्डलं गोमयादिना । प्राक्प्रान्तं विष्टरं तत्र दद्याद् दर्भं हृदन्तरे ॥ ११२ ॥ तन्मध्ये विन्यसेच्छिष्यं समाङ्घ्रिं स्तब्धविग्रहम् । प्राङ्मुखं यतवाक्चित्तवृत्तिरूपं धृताञ्जलिम् ॥ ११३ ॥ अथ शिष्यस्य विष्टरोपरि स्थापनं प्रोक्षणं सिद्धार्थतिलैस्ताडनं कुशाग्रेण तद्वि- ग्रहोल्लेखनं मन्त्रव्याप्ति नेत्रबन्धं पुष्पाञ्जलिप्रक्षेपणामच्युतकरेणालभनं मण्डलार्चनं तत्पुरतः पृथिव्यादिभूतसप्तकस्य तदधीशमन्त्रसंघस्य च पूजनमग्निसन्निधौ शिष्येण सहोपवेशनं शिष्यस्य कर्मवासनाविश्लेषसिद्ध्यर्थं होमं सम्पातस्पर्शं विज्ञापनं प्रायश्चित्त- होमं शिष्यस्य सूत्रात्मकशरीरकल्पनं गुल्फादिषु पृथिव्यादिव्याप्तिक्रमं पृथिव्यादिषु भुवनाध्वादीनां संस्थितिं पातालशयनादीनामवस्थानं तत्र विभवव्यूहपरमन्त्रदीक्षाभेदेन पृथिव्यादिभूतसप्तकविन्यासभेदं पुनः कुम्भार्चनं शिष्यस्य पञ्चगव्यप्राशनं चरुभोजनं दन्तधावनं तत्काष्ठपतन परीक्षां तच्छान्तिं मण्डलस्थस्य देवस्य कुम्भादौ विसर्जनं स्वप्नलाभाय शिष्यस्य शयनं तत्परितो रक्षाकरणम् आचार्यस्यापि दन्तधावनादिकं भगवत्प्रार्थनापूर्वकं प्रस्वापं चाह—ततश्चोत्तरदिक् कुर्यान्मण्डलं गोमयादिनेत्यारभ्य यावत्परिच्छेदपरिसमाप्ति । विश्वरूपाद्यं क्ष्माधरान्तं षट्कं विश्वरूपवागीशखगानन- नृसिंहसरश्शायिवराहाख्यदेवताषट्कमित्यर्थः । मधुसूदनपर्यन्तं पातालशयनादथ ॥ सप्तकं सप्तकं षटकं सम्पश्येत्क्ष्मादिपञ्चके । मनस्यवस्थितं ह्येवं शक्तीशात् त्रितयं हि यत् ॥ बुद्धौ कमलनाभात्मा देवः सर्वेश्वरः प्रभुः । (१८।१९६-१९८) इत्यस्यार्थः—पातालशयनमारभ्य पद्मनाभान्तमष्टत्रिंशद्विभवदेवेषु पाताल- शयनादिसप्तकं क्ष्मातत्त्वे, नारायणादिसप्तकमप्तत्त्वे, लोकनाथादिसप्तकं तेजस्तत्त्वे,

अष्टादशः परिच्छेदः ४३७ नारसिंहादिसप्तकं वायुतत्त्वे, क्रोडात्मादिषट्कमाकाशतत्त्वे, शक्त्यात्मादित्रयं मन- स्तत्त्वे, पद्मनाभं बुद्धितत्त्वे च सम्पश्येदित्यर्थः । सात्वतामृते तु व्यापकमन्त्रदीक्षा उक्तत्वात् येन येन हि मन्त्रेण दीक्षा कार्याऽथ कस्यचित् । तस्य तस्य तदीयानां पूर्वोद्दिष्टेन वर्त्मना ॥ कार्योऽत्रावयवानां तु विनियोगो यथोदितः । समूहवद् हृदादीनां मूलान्तानां समाचरेत् ॥ सह तत्त्वगणेनैव सर्वदाऽध्यात्मरूपताम् । सम्यग्गृह्य ततः कुर्यात् प्राग्वदभ्यर्चनं तु वै ॥ —(१९।१७२-१७४) इति वक्ष्यमाणानुसारेण क्षमातत्त्वादिषु हृन्मन्त्रादयः प्रतिपादिता इति बोध्यम् ॥ ११२-२३३ ॥ ॥ इति श्रीमौज्यायनकुलतिलकस्य यदुगिरीश्वरचरणकमलार्चकस्य योगानन्दभट्टाचार्यस्य तनयेन अलशिङ्गभट्टेन विरचिते सात्वततन्त्रभाष्ये अष्टादशः परिच्छेदः ॥ १८ ॥ — ❦ ❖ ❦ — इसके बाद उस हवन कुण्ड की उत्तर दिशा में गोमयादि से मण्डल निर्माण करे । उसके पूर्वभाग में विष्टर के लिये कुशा स्थापित करे । उस विष्टर के मध्य में पाद समतल कराकर शरीर को स्थिर कराकर शिष्य को पूर्वाभिमुख चुपचाप स्थिर चित्त अञ्जलि बाँधे हुए बिठावें ॥ १११-११३ ॥ अस्त्रेण पूर्ववत् कुर्यात् प्रोक्षणं तस्य चाम्भसा । तेनैव ताडयेन्मूर्ध्नि दीप्तैः सिद्धार्थकैस्तिलैः ॥ ११४ ॥ अस्त्रमन्त्र से जल द्वारा उसका प्रोक्षण करे । उसी मन्त्र से दीप्त सिद्धार्थक और तिलों से शिष्य के मस्तक पर ताड़न करे ॥ ११४ ॥ अनादिवासानोत्थानां बन्धानां चालनाय च । फडन्तेनाथ चास्त्रेण कुशाग्रेणाङ्घ्रिगोचरात् ॥ ११५ ॥ समुल्लिख्य शिखान्तं च ऋज्वर्ध्वं मार्गसन्ततेः । जालवन्मन्त्रजालेन व्याप्तं स्मृत्वा च संवृतम् ॥ ११६ ॥ बध्नीयान्नेत्रमन्त्रेण तस्य नेत्रे च वाससा । वस्त्र्वर्घ्यकुसुमैर्गन्धैः कृत्वा पूर्णाञ्जलिं पुरा ॥ ११७ ॥

४३८ सात्वतसंहिता यह ताड़न अनादि काल से उठी हुई वासना के बन्धन को दूर करने के लिये किया जाता है । फिर फडन्त अस्त्रमन्त्र कुशा के अग्रभाग से शिष्य के पैर से लेकर शिखान्त तक उसके कर्म मार्ग को सीधा करने के लिये लिखे । जब उसका सारा शरीर मन्त्र जाल से व्याप्त तथा आच्छन्न हो गया है ऐसा देखे, तब नेत्रमन्त्र से वस्त्र द्वारा उसके दोनों नेत्र बाँध देवे । फिर वसु, अर्घ्य, पुष्प तथा गन्ध से उसकी अञ्जलि पूर्ण करे ॥ ११५-११७ ॥ पाणिनादाय चाम्रे वा निधायाग्रस्थितं बटुम् । प्रक्षेपयेद् देवधाम्नि नतमूर्ध्नाऽञ्जलिं च तम् ॥ ११८ ॥ फिर अपने आगे बैठे हुए उस वटु को शिर नीचा कर, अञ्जलि बँधवा कर, अपने हाथ से उठाकर, अथवा आम्रपल्लव पर बिठाकर देवलोक की ओर प्रक्षिप्त करे ॥ ११८ ॥ तस्योद्घाटितनेत्रस्य त्वदृष्टस्येतरैर्जनैः । कुशलाध्वनिविष्टस्य दृष्ट्वा वै भक्तिलक्षणम् ॥ ११९ ॥ फिर कल्याणकारी मार्ग में निविष्ट इतर जनों को दिखाई न पड़ने वाले और खुले नेत्रों वाले उस शिष्य में भक्ति का लक्षण देखे ॥ ११९ ॥ रोमाञ्चौत्सुक्यहर्षाढ्यमानन्दाश्रुसमन्वितम् । सप्रणामजपालापदिक्प्रदक्षिणसंयुक्तम् ॥ १२० ॥ उस शिष्य में रोमाञ्च, औत्सुक्य, हर्ष, आनन्दाश्रु, प्रणाम, जप, आलाप तथा दिशाओं की प्रदक्षिणा आदि लक्षण देखे ॥ १२० ॥ शुद्धान्तःकरणं बुद्ध्वा योग्योऽयमिति भावयेत् । यदा तदाऽच्युतात्मानमात्मानं भावयंस्ततः ॥ १२१ ॥ तब उसका अन्तःकरण शुद्ध जानकर यह दीक्षा योग्य है, ऐसा विचार करे । फिर गुरु अपने में अच्युतात्मवत्ता की भावना करे ॥ १२१ ॥ स्मरेद् दक्षिणपाणौ तु चक्राम्बुरुहमध्यगम् । प्रधानदेवतावृन्दं स्वे स्वे धाम्नि परे स्थितम् ॥ १२२ ॥ स्वमरीचिगणेनैव द्योतयन्तं तु चाखिलम् । तेनाच्युतकरेणैव सोदकेनालभेत तम् ॥ १२३ ॥ पुष्पपूर्णाञ्जलौ पृष्ठे तस्य तत्रितयाश्रितम् । कृत्वा मन्त्रगणान्तं वै मोक्षविघ्नोपशान्तये ॥ १२४ ॥ अपने दाहिने हाथ में, चक्रकमल के मध्य में, प्रधान देव वृन्दों को अपने-

अष्टादशः परिच्छेदः ४३९ अपने धाम में स्थित देखे । जो अपने तेजों से सारे विश्व को प्रकाशित करते हैं, ऐसे अच्युत युक्त अपने सजल हाथ से शिष्य का स्पर्श करे और अर्घ्यपुष्प गन्ध से परिपूर्ण उसकी अञ्जलि को दीक्षा में मन्त्रगणान्त विघ्न शान्ति के लिये पीछे की ओर प्रक्षिप्त करा देवे ॥ १२२-१२४ ॥ पुनरभ्यर्चयेन्नीत्वा मन्त्रेण परमेश्वरम् । आधाराधेयभावेन बुद्ध्वाऽन्तःसंस्थितिं पुरा ॥ १२५ ॥ क्षमादीनां बुद्धिनिष्ठानां वासनानां तथात्मनः । ततः कुर्याच्च विश्लेषणं तेषां ध्यानार्चनादिना ॥ १२६ ॥ आत्मतत्त्वं समाश्रित्य कर्मचक्रं हि वर्तते । तच्चक्रमवलम्ब्यास्ते बुद्धिनिष्ठं हि सप्तकम् ॥ १२७ ॥ अज्ञानं व्यापकत्वं च सुखदुःखादि वेदनम् । सर्वज्ञस्यात्मतत्त्वस्य कर्मचक्रावलम्बनात् ॥ १२८ ॥ चपलं कर्मचक्रं तद् वर्धमानं सदैव हि । क्षमाद्यमाधारमाश्रित्य तावदेवावतिष्ठते ॥ १२९ ॥ यावत् सर्वज्ञशक्त्या वै कर्मात्मा न प्रबोधितः । प्रबुद्धस्तस्य संरोधं कर्तुं शक्नोति सर्वदा ॥ १३० ॥ फिर मण्डल के पास शिष्य को ले जाकर मन्त्र द्वारा परमेश्वर का अर्चन करावे । तदनन्तर अन्तःकरण की स्थिति आधार-आधेय भाव से ही है ऐसा समझ कर क्षमादिकों को तथा बुद्धिनिष्ठ वासनाओं को आत्मा से ध्यान अर्चन के द्वारा अलग करावे । यतः समूचा कर्मतत्त्व, आत्मतत्त्व का आश्रय लेकर स्थित है और उसी कर्मचक्र का अवलम्बन कर बुद्धि में रहने वाले पृथ्व्यादि सप्तक तथा अज्ञान व्यापकत्त्व सुख-दुःखादि ज्ञान भी स्थित है । यह समस्त कर्मचक्र सर्वज्ञ आत्मतत्त्व का आलम्बन किये हुए है । उस आलम्बन से यह कर्मचक्र नित्य बढ़ता है और वही क्षमा आदि का आधार लेकर तभी तक स्थित रहता है । जब तक सर्वज्ञ शक्ति कर्मात्मा का प्रबोध नहीं करती । जब वह सर्वज्ञ शक्ति प्रबुद्ध हो जाती है तब वह कर्मचक्र का संरोध करने में सर्वदा सशक्त हो जाती है ॥ १२५-१३० ॥ मन्त्राराधनपूर्वेण ज्ञाननिष्ठेन कर्मणा । अतो य आश्रयः क्ष्माद्यः सत्त्वसारो हि पौरुषः ॥ १३१ ॥ नीरसं चेरिणीभूतं कुर्यात् संस्थाप्य साम्प्रतम् । निर्मुक्तचित्फलो येन कर्मवृक्षो विनश्यति ॥ १३२ ॥ इसलिये कर्मचक्र के आश्रयभूत क्षमादि जो सत्त्वसार पौरुष है उन्हें मन्त्रा-

राधन पूर्वक ज्ञाननिष्ठ कर्म से नीरस एवं ऊसर बना देवे । ऐसा करने से चित्फल निर्मुक्त हो जायेगा फिर तो कर्मवृक्ष अपने आप नष्ट हो जायेगा ॥ १३१-१३२ ॥ शुद्ध्यर्थमात्मनस्तस्मात् सर्वज्ञस्याग्रतः स्थले। भूताधिदेवमन्त्राणां कुर्याद् वै पूजनं क्रमात् ॥ १३३ ॥ साधक अपनी शुद्धि के लिये सर्वज्ञ परमात्मा के आगे वाले स्थल पर भूतों के अधिदेव मन्त्रों का क्रमशः पूजन करे ॥ १३३ ॥ चिन्तानुविद्धं सामान्यं मन्त्रनाथैरधिष्ठितम् । क्ष्माद्यध्वानं च बुद्ध्यन्तं ध्यात्वा षट्पत्रवत् पुरा ॥ १३४ ॥ चिन्तानुविद्ध सामान्य मन्त्र के अर्थ से अधिष्ठित क्ष्मादि से लेकर बुद्ध्यन्त का ध्यान कर पहले कहे गये षट्पत्र की तरह पूजा करे ॥ १३४ ॥ तत्र मध्येऽब्जनाभं तु प्राग्भागे केसरोध्वंगम् । षट्कं च विश्वरूपाद्यं क्ष्माधरान्तं तु विन्यसेत् ॥ १३५ ॥ नीत्वा स्वनाम्न आद्यवर्णं क्ष्मान्तानां बीजतां पुरा । तेन तेषां बलान्तस्थं प्राग्वन्यासं स्मरेत् क्रमात् ॥ १३६ ॥ क्ष्माबीजं च दलाग्रेषु मूलनिष्ठेषु षट्सु च। इष्ट्वा सर्वेन्द्रियाधारमित्यभिन्नं पुरा ततः॥ १३७ ॥ उस कमल के मध्य में अब्जनाभ और पूर्व भाग में केसर के ऊपर विश्वरूप से लेकर क्ष्माधर पर्यन्त (विश्वरूप, वागीश, खगानन, नृसिंह, सरःशायी वाराह) का विन्यास करे । पहले अपने नाम का आदि अक्षर, फिर क्ष्मादि का बीज छः दलाग्रों के मूल में सभी इन्द्रियों के आधार भूत अभिन्न क्ष्मा बीज से न्यास करना चाहिए ॥ १३५-१३७ ॥ चिद्वातस्कन्धवृन्देन खस्थितेनान्तरीकृतम् । उपर्युपरि योगेन बुद्ध्यन्तं समुपस्थितम् ॥ १३८ ॥ भेददृष्ट्या यजेत् सम्यग् भूयः संहारवर्त्मना । सवज्रं स्वेन बीजेन पीतं तुर्याभिलक्षणम् ॥ १३९ ॥ पुनः आकाश स्थित चिद्वातस्कन्ध वृन्द से अन्तरीकृत ऊपर के योग से बुद्ध्यन्त उपस्थित का भेददृष्टि से संहार·क्रम द्वारा वज्र सहित अपने बीज से पीतवर्ण वाले तुर्याभिलक्षण का यजन करे ॥ १३८-१३९ ॥ हेमाब्जभूतं तद्ध्यात्वा क्ष्मातत्त्वं तत्र मध्यतः। वाराहं संयजेन्मन्त्रं साङ्गं सावरणं क्रमात् ॥ १४० ॥

अष्टादशः परिच्छेदः ४४१ तत्कारणाश्रितं कृत्वा परिधानसमन्वितम्। उसके बीज में सुवर्ण कमल के सामन क्षमातत्त्व का ध्यान करे। फिर उनमें तत्कारणाश्रित वाराहदेव को संयुक्त कर साङ्ग सावरण परिधान समन्वित उनका यजन करे ॥ १४०-१४१ ॥ अथ क्षमामण्डलोर्ध्वस्थमर्धेन्दुसदृशं स्थितम् ॥ १४१ ॥ पुरं पद्माङ्कितं स्मृत्वा सितपद्मोदरं महत्। सरश्मयं तदन्तःस्थमभिसन्धाय संयजेत् ॥ १४२ ॥ फिर उस क्षमामण्डल के ऊपरी भाग में अर्धेन्दु के सदृश स्थित पद्म के चिन्ह से संयुक्त महान् श्वेत कमल का स्मरण कर उसके भीतर सरःशायी का ध्यान कर उनका यजन करे ॥ १४१-१४२ ॥ तेजोमयं तदूर्ध्वे तु त्रिकोणं भावयेत् पुरा। रत्नज्वालाकणाकीर्णं स्वस्तिकैरुपलाच्छितम् ॥ १४३ ॥ नृसिंहं पूजयेत् तत्र मध्ये रत्नारविन्दगम्। तस्योपरि सितं वृत्तं पुरं तारागणाङ्कितम् ॥ १४४ ॥ स्मृत्वा नीलाम्बुजाक्रान्तं स्मरेत् तत्र खगासनम्। नीरूपं खं तदूर्ध्वे तु स्मरेच्छब्दैकलक्षणम् ॥ १४५ ॥ उसके ऊपर साधक तेजोमय त्रिकोण की भावना करे जो रत्नज्वाला से व्याप्त है और स्वस्तिक चिह्न से परिलक्षित होता है। वहाँ मध्य में रत्नमय अरविन्द पर स्थित श्रीनृसिंह की पूजा करे। उसके ऊपर सफेद वृत्त वाला पुर, जिसमें अनेक तारागण विद्यमान हैं, वहाँ नीले कमल के समान गरुड़ के आसन का स्मरण करे। उसके ऊपर एक मात्र शब्द लक्षण वाला रूप रहित आकाश का स्मरण करे ॥ १४३-१४५ ॥ ध्यायेत् तदन्तः सूर्याभं प्राग्वर्णं तु सपङ्कजम्। तत्र वागीश्वरं देवमभ्यर्च्य विधिवत् ततः ॥ १४६ ॥ उसके भीतर सूर्य के समान चमकीला नीलवर्ण के पङ्कज के समान वागीश्वर का ध्यान करे। पुनः उनका विधिवत् पूजन करे ॥ १४६ ॥ तत्कर्णिकोदराकाशे नानारत्नरुचिं ततः। संस्मरेत् कमलाकारं चित्तवृत्तिमयं तु यत् ॥ १४७ ॥ यजेत् तन्मध्यगं विश्वरूपं तु मनसस्पतिम्। तदूर्ध्वेऽमृतगर्भं तु शीतांशुकरकोटिवत् ॥ १४८ ॥ पद्मं स्वेनात्मनात्मानं धारयन्तं विभाव्य च। सा० सं० - 32

४४२ सात्वतसंहिता समभ्यर्च्यस्तदन्तःस्थोऽप्यब्जनाभो धियांपतिः ॥ १४९ ॥ उसके कर्णिका के भीतर आकाश में अनेक रत्नों से प्रकाशित होने वाले कमल की आकृति के सदृश चित्तवृत्तिमय मन के प्रतिरूप विश्वरूप भगवान् का यजन करे। उनके भी ऊपर अमृतगर्भ करोड़ों चन्द्रमा के समान प्रकाश करने वाले स्वयं अपनी आत्मा में पद्म धारण किये हुए का ध्यान कर उसके भीतर बुद्धि के पति अब्जानाभ का ध्यान कर उनका पूजन करे ॥ १४७-१४९ ॥ एवं गन्धरसरूपस्पर्शशब्दमनोधियाम् । क्रमेणाधीशसङ्घं तु अवतार्य पराद् यजेत् ॥ १५० ॥ इसी प्रकार गन्ध, रस, रूप, स्पर्श, शब्द, मन तथा बुद्धि के भी अधीश समूहों का भी पर आत्मा से नीचे उतार कर उनका पूजन करे ॥ १५० ॥ अर्चयित्वाऽर्चयित्वा न न्यसेत् तत्रैव तं पुनः । ये वर्णा भूतयोनीनां रश्मयः कमलोपमाः ॥ १५१ ॥ संस्थितिं संस्मरेत् तेषामस्मिताशक्तौ तथागतिम् । अनादिवासनारूपां त्वभेदेनात्मनि स्थिताम् ॥ १५२ ॥ बारम्बार उनकी अर्चना करे और वहीं उनका पुनः न्यास करे। भूत योनियों के जो वर्ण हैं, जिनका प्रकाश कमल के समान है, उन वर्णों की अस्मिता शक्ति की तथा गति का स्मरण करे। उससे अभिन्न आत्मा में रहने वाली अनादि वासना रूप की संस्थिति समझे ॥ १५१-१५२ ॥ निःशेषबीजैरभ्युत्थां पद्मनाभविधारणीम् । निर्गतां वैशयात् सर्व्वाद् वियुक्तां स्वामिना कृताम् ॥ १५३ ॥ स्फुरद्रूपां परिभ्रष्टां निराधारां च संस्मरेत् । प्रणवेन समभ्यर्च्य दीक्षाकालेऽभ्युपस्थिते ॥ १५४ ॥ साधिभूताधिदैवं च इष्ट्वैवं भूतसप्तकम् । स्वयमभ्यर्चयेत् पश्चात् शिष्यमञ्जलिना च तम् ॥ १५५ ॥ उस वासना को विषय से निकली हुई वासना के स्वामी के द्वारा अलग की गई संस्फुरण करती हुई परिभ्रष्ट निराधर हुई देखे। तदनन्तर दीक्षाकाल उपस्थित देख प्रणव द्वारा उसका अभ्यर्चन करे। इसी अधिभौतिक तथा अधिदैविक सहित भूत सप्तक की भी पूजा करे। पहले स्वयं इनका अर्चन करे। फिर शिष्य की अञ्जलि से अर्चन करावे ॥ १५३-१५५ ॥ ततोऽग्नेः सन्निधिं गत्वा ध्यात्वा यामन्त्रयोपरि । दक्षिणेनात्मनो दार्भे विष्टरे चक्रमन्दिरे ॥ १५६ ॥

अष्टादशः परिच्छेदः ४४३ सकुशेन स्वहस्तेन दक्षिणं चरणं गुरोः । अवलम्ब्य समास्ते वै स्पर्शनाद्येकतात्मना ॥ १५७ ॥ बीजेनाङ्घ्रेः शिखान्तं च स्मरेत् तेजोमयं विभुम् । विश्लेषयन्तं सहसा ह्यनाद्युत्थमविग्रहम् ॥ १५८ ॥ संस्कारचक्रं विविधं प्रेरकं दुःखवर्त्मनि । नाड्यैक्यमभिसन्धानमभिसन्धानचेतसा ॥ १५९ ॥ विश्लेषं कर्मणां तद्वद् वर्मणास्त्रेण होमयेत् । क्रमेण सघृतानां च तिलानां द्वादशाहुतीः ॥ १६० ॥ तदनन्तर शिष्य के साथ अग्नि के सन्निधान में जावे । तीन-तीन याग से ऊपर अग्नि देव का ध्यान करे । फिर चक्रमन्दिर में अपने दक्षिण स्थापित दर्भ विष्टर पर, अपने हाथ में कुशा लेकर, गुरु के दक्षिण चरण का अवलम्बन लेकर, उसका स्पर्श करते हुए एकतापन्न (सावधान) होकर बैठे । बीज मन्त्र से पैर से लेकर शिखान्त न्यास करे, तेजोमय उस विभु का स्मरण करे । जो अनादि काल से उत्पन्न शरीर वाले दुख मार्ग में विविध रूप से प्रेरक संसार चक्र को साधक से अलग कर रहे हैं, जिसका एक ही नाड़ी में अभिसंधान है और मन्त्र चित्त में भी अभिसंधान है, ऐसे सभी कर्म चक्र का विश्लेष करते हुए और उन विभु का दर्शन करते हुए देखे । फिर कवच के अस्त्र मन्त्र से घृत मिश्रित तिलों द्वारा क्रमशः बारह आहुती अग्नि में देवे ॥ १५६-१६० ॥ अनुसन्धाय सम्पाद्यो मयाऽयं वै परात्मनि । दद्यादष्टावाहुतीश्च मूलेन सघृताः पुरा ॥ १६१ ॥ तदनन्तर मै यह आहुति परमात्मा में दे रहा हूँ, ऐसा विचार कर मूल मन्त्र से घृत युक्त आठ आहुति प्रदान करे ॥ १६१ ॥ तदुत्तमाङ्गं संस्पृष्ट्वा स्रुवेणाज्यान्वितेन च । हुत्वा ज्ञानपदेनैव भूयः सर्वगुणात्मना ॥ १६२ ॥ प्राक्संख्यमाचरेद् होममन्तरान्तरयोगतः । आ चेश्वरपदात् सम्यङ्नेत्रान्तं होममेव हि ॥ १६३ ॥ इति सम्पातहोमो वै सम्पन्ने सति जायते । कर्तव्यो मन्त्रमाहात्म्यात् संस्कारैर्निखिलैर्युतः ॥ १६४ ॥ फिर गुरु स्रुवा में आज्य आहुति लेकर शिष्य का उत्तमाङ्ग (शिर) का स्मरण कर सर्वगुणात्मक ज्ञानपर से होम करे । बीच-बीच में पूर्व में कही गयी संख्या (८) के अनुसार होम करता जावे । ईश्वर पद से लेकर नेत्र मन्त्र पर्यन्त इस प्रकार

४४४ सात्वतसंहिता होम द्वारा सम्पात होम सम्पन्न होता है। यह सम्पात-होम मन्त्र माहात्म्य से अखिल संस्कार युक्त होकर करे ॥ १६२-१६४ ॥ साम्प्रतं चाणिमादीनां गुणानामुत्तरत्र तु। विभोराराधनात् सम्यग् योगाभ्यासाच्च भाजनम् ॥ १६५ ॥ कृते सम्पातभवने आज्येनाथ सकृत् सकृत् । मन्त्राणां तर्पणं कृत्वा सार्चनं श्रावयेद् विभुम् ॥ १६६ ॥ अस्य कर्मात्मतत्त्वस्य कर्मपिण्डं सवासनम् । यदनेकप्रकारं तु त्वच्छक्त्या स्तम्भितं मया ॥ १६७ ॥ प्रायश्चित्तनिमित्तं तु जुहुयात् तदनन्तरम् । बीजेनान्तर्निरुद्धेन स्वाङ्गेनाकृतिकाष्ठकम् ॥ १६८ ॥ तत्काल अणिमादिकों के, उसके बाद गुणों के, उसके बाद विभु के योगाभ्यास से शिष्य मन्त्र के योग्य पात्र बनता है। घृत द्वारा सकृत् सकृत् सम्पात होम कर लेने पर तर्पण करे। फिर अर्चन कर विभु परमात्मा को सुनावे। हे प्रभो! इस शिष्य के अनेक प्रकार के कर्म तत्त्वों के जो वासना सहित कर्म पिण्ड थे, उसको मैंने आपकी शक्ति से रोक दिया है। इसके बाद प्रायश्चित्त के लिये स्वाङ्ग अन्तर्निरुद्ध बीज से काष्ठ का होम करे ॥ १६५-१६८ ॥ एतावता महाबुद्धेर्जन्तर्जन्माश्रितस्य च। याति व्यामिश्ररूपस्य हेयरूपस्य संक्षयः ॥ १६९ ॥ हे महाबुद्ध! केवल इतने मात्र से जीव के जन्म-जन्म से आश्रित उसमें मिला हुआ समस्त हेयरूप दोष नष्ट हो जाता है ॥ १६९ ॥ मोक्षैकफलदो धर्म उपादेयस्त्वनन्तरम् । योऽसौ साम्मुख्यमायाति विविधस्तस्य वाच्युतः ॥ १७० ॥ येनान्तर्लीनमभ्येति ह्यज्ञानं सहसा क्षयम् । अथादायारुणं सूत्रं कृत्वा नैकगुणं पुरा ॥ १७१ ॥ निरीक्षितं दृशा चास्त्रवारिणा परिशोधितम् । तदङ्गुष्ठावधिं यावत् शिखान्तात् सम्प्रधार्य च ॥ १७२ ॥ संस्मरेत् सर्वदुःखानां सम्बन्धानां तदास्पदम् । संविश्य देवयानेन शिशुचैतन्यसन्निधिम् ॥ १७३ ॥ हुंफडन्तं च शिरसि नाम च प्रणवादिकम् । हन्मन्त्रसम्पुटस्थं च कृत्वा वै पितृवर्त्मना ॥ १७४ ॥

अष्टादशः परिच्छेदः ४४५ उसके बाद मोक्ष रूप एक फल देने वाला धर्म ग्रहण करे । जिससे विविध रूप वाले अच्युत का साक्षात् दर्शन होता है और जिससे भीतर छिपा हुआ समस्त अज्ञान विनष्ट हो जाता है । इसके अनन्तर लाल वर्ण का सूत्र लेकर उसको अनेक गुणित करे और नेत्र मन्त्र से उसका निरीक्षण करे, अस्त्रमन्त्र से अभिमन्त्रित जल से उसका परिशोधन करे । फिर उस परिगुणित सूत्र से अंगूठे से लेकर शिखा के अन्त तक पहनावे । उसी को सभी दुःखों तथा सभी प्रकार के सम्बन्धों का आस्पद समझे । फिर देवयान से शिशु के चेतना के सम्बन्ध तक पहुँचे । फिर पितृवर्त्म से ‘हुँ फट्’ इस मन्त्र से शिर में न्यास करे तथा प्रणवादि नाम को पितृवर्त्म से एवं हन्मन्त्र से सम्पुटित करे ॥ १७०-१७४ ॥ आनीय सह सूत्रेण नयेन्नेत्रेण साम्यताम् । अभ्यर्च्यर्घ्यादिनावेष्ट्य कवचेन महात्मना ॥ १७५ ॥ फिर सूत्र लाकर नेत्र के बराबर उसे नापे उसका अर्चन कर अर्घ्यादि से तथा कवच से आवेष्टित करे ॥ १७५ ॥ ॐ हं अदन्यै हं स्वाहेत्यनेनाकृतिसप्तकम् । हुत्वास्त्रमन्त्रजप्तेन सितेन रजसा ततः ॥ १७६ ॥ सन्ताड्य शैशवं कायं विशेत् तदवधिं तथा । विश्लेषयाऽमुकं ब्रूयात् पदं वीर्यपदानुगम् ॥ १७७ ॥ फिर ‘ॐ हं अदन्यै हं स्वाहा’ इस मन्त्र से सातों आकृतियों का हवन करे, तदनन्तर अस्त्र मन्त्र के जप से अभिमन्त्रित सफेद रज से शिशु के शरीर का सन्ताडन करे और उसकी अवधि तक प्रवेश करे । फिर ‘वीर्य’ पद कहकर ‘अमुकं विश्लेषय’ ऐसा कहे ॥ १७६-१७७ ॥ तं ज्ञानवाचकेनाथ त्वाद्यन्तेन विकृष्य च । स्वबुद्ध्याऽनुगतं कृत्वा ध्यात्वा नक्षत्रगोलवत् ॥ १७८ ॥ फिर उसे ज्ञानवाचक शब्द से आदि तथा अन्त में विकर्षण कर अपने बुद्धि के अनुगत कर नक्षत्रगोलक के समान ध्यान करे ॥ १७८ ॥ सन्धायाभ्यन्तरे सूत्रे हंसार्णेन सबिन्दुना । नतिप्रणवगर्भेण रूढशक्तिं च विग्रहे ॥ १७९ ॥ वासनामयमित्येवमातिवाहिकसंज्ञकम् । सूत्रात्मकं वपुः कृत्वा आत्मशक्त्या विभावितम् ॥ १८० ॥ फिर बिन्दु सहित हंस मन्त्र (हं) से भीतर के सूत्र में उसे स्थापित करे । विग्रह में ‘नमः’ और ‘प्रणव’ के बीच उसे रूढ़ शक्ति बनावे । यही अतिवाहिक

४४६ सात्वतसंहिता संज्ञक, वासनामय, इस प्रकार आत्मशक्ति से विभाजित, सूत्रात्मक शरीर का निर्माण करे ॥ १७९-१८० ॥ बलमन्त्रेण संरुद्धं तदर्थं जुहुयात् ततः । उक्त्वा ओमात्मने स्वाहा द्विषट्कपरिसंख्यया ॥ १८१ ॥ बल मन्त्र से उसे संरुद्ध करे और उसके लिये होम करे । 'ओमात्मने स्वाहा' कहकर बारह बार होम करना चाहिये ॥ १८१ ॥ आदाय भाविनो बन्धान् व्यापकान् शुद्धभोगदान् । ज्ञानादयः समाश्रित्य येऽत्र तिष्ठन्ति सर्वदा ॥ १८२ ॥ स्वस्थानेषु स्वमन्त्रैभ्यस्तांस्तत्रैव च योजयेत् । यथाक्रमेणार्चितानां कृत्वा तेषां च तर्पणम् ॥ १८३ ॥ फिर शुद्ध भोग देने वाले व्यापक एवं भावी बन्धों को लेकर ज्ञानादि का आश्रय लेकर जो यहाँ सर्वदा रहते हैं, उन्हें स्व स्व मन्त्रों से स्व स्व स्थानों पर सन्निविष्ट करे । फिर यथाक्रम अर्चित देवताओं का तर्पण करे ॥ १८२-१८३ ॥ अथ संस्कारचक्रस्य तत्त्ववृन्दाश्रितस्य च । सर्वगस्यापि वै विद्धि स्थितिं नियतलक्षणाम् ॥ १८४ ॥ तदनन्तर तत्त्ववृन्द के आश्रित रहने वाले, सर्वत्र गमन करने वाले तथा संसार चक्र की नियत लक्षण वाली स्थिति का ज्ञान करे ॥ १८४ ॥ तत्त्वव्याप्तिच्छलेनैव शरीरे पाञ्चभौतिके । गुल्फजानुकटीवक्षःकर्णभ्रूकटावधि ॥ १८५ ॥ बुद्धयन्तानां धरादीनां क्रमादवनिसप्तकम् । अहङ्कारस्तदुत्थास्तु ये भेदा विविधा अपि ॥ १८६ ॥ चित्तजा अपि ये चान्ये तिष्ठन्ति मनसा सह । सकालोत्थास्तथा बौद्धास्तत्पूर्वास्त्वपरे च ये ॥ १८७ ॥ अनेकभेदभिन्नास्तु श्रिता आश्रित्य ते धियम् । द्विसप्तभुवनं विश्वमनेकरचनान्वितम् ॥ १८८ ॥ इस पाञ्चभौतिक शरीर में तत्त्व-व्याप्ति के बहाने गुल्फ, जानु, कटी, वक्ष, कान तथा भ्रुकुटि तक पृथ्वी से लेकर बुद्धयन्त क्रमशः अवनि सप्तक व्याप्त है इसी में अहङ्कार से उत्पन्न विविध भेद है, चित्त से लेकर मन तक उत्पन्न भी इसी के अन्तर्गत हैं, काल से उत्पन्न बुद्धि के आश्रित है । किं बहुना अनेक रचनाओं से युक्त यह सारा विश्व चौदह भुवनों सहित यह सारा विश्व पृथ्व्यादिक के अन्तर्गत है ॥ १८५-१८८ ॥