सुभाषितरत्नभाण्डागार (पण्डित काशीनाथ शर्मा संग्रह)
Subhashita Ratna Bhandagara
पण्डित काशीनाथ शर्मा (सम्पादक: नारायण राम आचार्य) द्वारा
स्रोत: Subhashita Ratna Bhandagara (10,000+ Classic Sanskrit Epigrams & Maxims - Nirnaya Sagar Press) (उद्गम)
| वृक्षान्योक्तयः | २३७ |

| [स्तम्भ १] | [स्तम्भ २] |

| निर्मितं गृहं विघटितं धूमाकुलैः कोकिलैर्मायूरैश्छलितं
पुरैव रमसा कीरैरधीरैर्गतम् । एकेनापि सपल्लवेन तरुणा
दावानलोपप्लव सोढ को न विपत्सु मुञ्चति जनो मूर्खापि
यो लालित ॥ २७ ॥ एकस्त्वं गरुभून्महेन्द्र वितते
शाखाशतैराश्रित. पुष्यत्युष्पफलान्वितैरमृदितेजैव्या. सहस्रं
समा. । अश्रान्तं श्रमरुगणपान्थजनतासर्वार्यानिर्वाहणं कस्त्वा
सात्त्विकमन्तरण भुवन निर्मातु धर्मोशय ॥ २८ ॥ धत्से
मूर्धनि दु महा दिनमणेरुद्दामधामच्छटाश्छायाभि पथिका-
न्विदग्धमथितान्पुष्णासि पुष्पै फलै । धैर्यं मुञ्चसि नैव
येन भवता शाखा सुविस्तारितास्तेनाशासु वनस्यते तव
यशस्तोम समुज्जृम्भते ॥२९॥ तीव्रोज्य नितरा निदाघः ग्र
प्रोद्यत्प्रचण्डद्युतिर्मार्गो म्ाग्व एव तत्र पथिकाः सञ्चारिण
कोटिश । तेषा कश्चिदिहाश्रयस्तरुवरे देवेन संपादित
सोऽप्येक सुकृती करोतु कियता संतापनिवर्वापण म् ॥ ३० ॥

कल्पद्रुमः
कल्पद्रुमोऽपि कालेन भवेदद्यि फलप्रदः। को विशेषस्तदा
तस्य वन्यैरन्यैर्महीरूहैः ॥ ३१ ॥ न मया रचितं
तवालवालं पयसा वा विहितस्तवोभिषेक । अयि कल्पतरो
परोपकारे भवतो विश्वविलक्षणः प्रकारः ॥ ३२ ॥ किं न
द्रुमा जगति जाग्रति लक्षसंख्यास्तुल्योपनीतपिककाक-
फलोपभोगा । धन्यस्तु कल्पविटपी फलसप्रदान कुर्व-
न्सदैव विबुधानमृतैकवृत्तीन् ॥ ३३ ॥ स्वर्णे स्कन्धपरि-
ग्रहो मरकतैरुल्लासिताः पल्लवा मुक्ताभि स्तबकश्रियो मधु-
लिहा वृन्दानि नीलोत्पलैः । सकल्पानुविधायि यस्य फलित
कस्तस्य धत्ते तुला धिग्जातु द्रुमसकथासु यदयं कल्पद्रुमो-
ऽपि द्रुमः ॥ ३४ ॥ औदार्य भुवनत्रयेऽपि विदितं $^१$समूति-
रम्योनिधेर्वासो नन्दनकानने पैरिमलो गीर्वाणचेतोहरः। एवं
दातृगुणोत्करः सुरतरोः सर्वोऽपि लोकोत्तर स्यादर्थिप्रवरार्थि-
तार्पणविधावेको विवेको यदि ॥ ३५ ॥ न द्वारि द्विरदावली
न परितो वानायुजश्रेणयः किंवा शौक्तिकमौक्तिकैर्मृगदृशा
सारा न हारावलिः । हे कल्पद्रुम दूरतोऽस्तु भवतः सेवा-
भवं वैभव तृष्यामि त्वयि तावतापि यदि न खेरा भवन्ति
द्विषः ॥ ३६ ॥ जन्माभूदुदधौ विधौ सहजत। वृन्दारकै-
र्वन्यता तत्तत्कामफलाय शक्तिरतुला यस्यास्ति वश्यानिशम्।
विश्रामाय चिराय कल्पलतिका भूयोऽयमालम्बते कस्तवा
स्तोतुमपि क्षमोऽस्ति तदपि त्वं जल्प कल्पद्रुम ॥ ३७ ॥

पारिजातः
पारिजाततरुं यावन्न लभेत मधुव्रतः । अमणं तावदेवास्य
कुञ्जे कुञ्जे तरौ तरौ ॥ ३८ ॥ परिमळसुरभितनमसो
बहव. कनकाद्रिपरिसरे तरवः । तदपि सुराणा चेतसि
निवसितमिव पारिजातेन ॥ ३९ ॥ | चन्दनः
मन्येव लिग्विताकाशा महीयासो महीरुह. । तथापि
र्जनताचित्तानन्दनश्चन्दनद्रुमः ॥ ४० ॥ यद्यपि चन्दनविटपी
विधिना फलकुसुमविवर्जितो विहित । निजवपुषैव परेषा
तथापि संतापमपहरति ॥ ४१ ॥ अयि मलयज महिमायं
कस्य गिरामस्तु विषयस्ते । उद्विरतो यद्गरलं फणिन
पुष्णासि परिमलोद्गारं ॥ ४२ ॥ पटीर तव पेटीयान्क.
र्परिपाटीमिमामुरीकर्तुम् । यत्पिर्षतामपि नृणा पिष्टोऽपि
तनोषि परिमले. पुष्टिम् ॥ ४३ ॥ यैस्त्वं गुणगणवानपि
सता ं द्विजिल्हेरसेव्यता नीतः । तानपि वहसि पटीरज कि
कथयामस्त्वदीयमौन्त्यम् ॥ ४४ ॥ जनक. सानुविशेषो
जाति काष्ठं भुजगमै सङ्ग । स्वगुणैरेव पटीरज यातोऽसि
तथापि महिमानम् ॥ ४५ ॥ मूलं भुजंगैः शिखरं प्लवङ्गैः
शाखा विहङ्गै कुसुमानि भृङ्गैः । नास्त्येव तच्चन्दनपादपस्य
यन्नाश्रितं सत्त्वभरै समन्तात् ॥ ४६ ॥ कति न सन्ति
महीषु महीरुहः सुरभिपुष्परसालफलालया. । सुरभयन्ति न
केऽपि च भूरूहानिति यशोऽस्ति पर तव चन्दन ॥ ४७ ॥
विक्षिष्ठितानि परशो परिशोचनीयबालप्रवालमलयाद्रि-
रुहदुहस्ते । निर्भिद्यमानहृदयोऽपि महानुभावः स त्वन्मुखं
पुनरमी. सुरभीकरोति ॥ ४८ ॥ कालागुरौ सुरभिताति-
शयेऽपि सङ्गादारभ्यते सुरभिताऽपरपादपेऽपि । पाटीर
पाटवमिद तव सङ्गिवातेस्तादात्म्यमेति कतरो न तगे
समूहः ॥ ४९ ॥ उपानीतं दूरात्परिमलमुपाघ्राय मरुता
समायासीदखिन्नमधुरमधुलोभाःमधुकर । परो दूरे लाभः
कुपितफणिनश्चन्दनतरो पुनर्जीवन् यायाद्यदि तदिह लाभोऽय-
मतुल. ॥ ५० ॥ कान्ताकेलि कल्यतु तरु. कोऽपि
कश्चित्कभूणामत्यानन्दं जनयतु फलैः कोऽपि लोकान्धिणोतु।
धन्यं मन्ये मलयजमहो यः प्रभूतोपताप $^{१०}$संसारस्य
द्रुतमपनयत्यात्मदेहव्ययेन ॥ ५१ ॥ आमोदैस्ते दिशि
दिशि गतैर्द्दूग्माकृष्यमाणा साक्षालक्ष्मीं तव मलयज
द्रष्टुमभ्यागता. स्म. । किं पश्यामः सुभग भवत. क्रीडति
क्रोड एव व्यालस्तुम्यं भवतु कुशलं मुञ्च नः साधु यामः
॥ ५२ ॥ केचिच्छोचनहारिण. कतिपये सौरम्यसंभारिणः
केऽप्यन्ये फलधारिण. प्रतिदिन ते सन्तु हन्त द्रुमा. ।
धन्योऽयं हरिचन्दनः परिसरे यस्य स्थितैः शाखिभिः
शाखोटादिभिरप्यहो मृगमशामङ्गेषु लीলায়ितम् ॥ ५३ ॥
आतश्चन्दन कि ब्रवीमि विटपस्फूर्जत्फणाभीषणा गन्धस्यापि
महाविषाः फणभृतो गुप्त्यै यदेते कृता. । दैवात्पुष्पफला- |
पादटिप्पण्यः (Footnotes)
[स्तम्भ १]
- १ सभव
- २ वसति
- ३ इन्द्रवने
- ४ आमोद
[स्तम्भ २]
- १ जनसमूह
- २ चन्दन
- ३ अतिशयेन पटु समर्थ
- ४ रीतिम्
- ५ अङ्गीकर्तुम्
- ६ पेषण कुर्वताम्
- ७ सर्पै
- ८ वानरै
- ९ प्रीणयतु
- १० ससारे स्थितस्य जनस्य
२३८ सुभाषितरत्नभाण्डागारम् [ ५ प्रकरणम्
न्वितो यदि भवानत्राभविष्यत्तदा नो जाने किमकल्पयिष्यदधिकं रक्षार्थमस्यात्मनः ॥ ५४ ॥ एतैर्दक्षिणगन्धवाहचलनैः श्रीखण्ड किं सौरभं ब्रूमस्ते परितो मधुव्रतयुवा येनायमानीयते । माकन्दादपहत्य पङ्कजवनादुद्धूय कुन्दोदरादुद्धाम्य द्विपगण्डमण्डलादाकृष्य हृष्यन्मना ॥ ५५ ॥ वासः शैलशिलान्तरेषु सहजं सङ्गो भुजंगैः सह प्रक्षुब्धागपयोधिचीचिभिर्भुदुद्गतसेकक्रिया । जानीमो न वयं प्रसीदतु भवाञ्श्रीखण्ड तत्कथ्यतां कस्मात्ते परतापखण्डनमहो पाण्डिल्यमप्यागतम् ॥ ५६ ॥ लोकानन्दन चन्दनद्रुम सखे नास्मिन्वने स्थीयतां दुर्वंशैः परुषैरसारहृदयैरग्रेन्तान्येतदराग्ने । ते ह्यन्योन्यनिघर्षणजातदहनज्वालावलीसंकुला न स्वाम्येव कुलानि केवलमिदं सर्वं दहेयुर्वनम् ॥ ५७ ॥ सौरभ्यं भुवनत्रयेऽपि विदितं मलय नु लोगान्तरं कीर्तिः किं च दिगङ्गनाङ्कनगता किं चेतदर्कं शृणु । सर्वानैव गुणानियं निगिरति श्रीखण्ड ते सुन्दगण्डुञ्जन्ता खलु कोटरेषु गरलज्वाला द्विजिह्वावली ॥ ५८ ॥ श्रीमच्चन्दनवृक्ष सन्ति बहवस्ते शाखिनः कानने येषां सौरमात्रकं निवमति प्रायेण पुष्पश्रिया । प्रत्यङ्गं सुकृतेन तेन शुचिना ख्यातः प्रसिद्धात्मना योऽसौ गन्धगुणस्त्वया प्रकटितः कासाविह प्रेक्ष्यते ॥ ५९ ॥ जातं केलिकलावनीकुचतटीसौभाग्यमासादितुं त्रैलोक्याधिपतेर्यशः कथयितुं माले विपश्चामितुम् । किं वाच्यं गुणगौरवस्य महिमा ख्यातोऽखिले भूतले धिग्दैवं कलये यदत्र मलये भग्नः पटीरद्रुमः ॥ ६० ॥ एकस्मिन्मलयाचले बहुविधैः किं तैरकिंचित्करैः काकोलूककपोतकोकिलकुलैरेकोऽपि पार्श्वस्थितः । केकी कूजति चेत्तदा विघटितव्यालावलीबन्धनः सेव्यः स्यादिह सर्वलोकमनसामानन्ददश्चन्दनः ॥ ६१ ॥
अगुरुः
अँगुरुरिति वदतु लोको गौरवमत्रैव पुनरहं मन्ये । दर्शितगुणैव वृत्तिर्यस्य जने जनितदाहेऽपि ॥ ६२ ॥ एणाद्याः पशवः किरातपरिषच्चैषा गुणग्राहिणी संचारोऽस्ति न नागरस्य विषयोच्छिन्नं सुनीनां मनः । धूमेनातिसुगन्धिनात्र विपिने दिक्चक्रमामोदयन्नामूलं परिदह्यतेऽगुरुरुत कस्मै किमाचक्ष्महे ॥ ६३ ॥
चम्पकः
साधारणतरबुद्ध्या न मया बद्धस्तवालवालोऽपि । लज्जयसि मामिदानीं चम्पक सुवनाधिवासिभिः कुसुमैः ॥ ६४ ॥ यद्यपि खदिरारण्ये गुप्तो वसते हि चम्पको वृक्षः । तदपि च परिमलमतुलं दिशि दिशि कथयेत्समीरदस्तस्य ॥ ६५ ॥ रूपसौरभसमृद्धिसमेतं चम्पक प्रति ययुर्न मिलिन्दाः । कामिनस्तु जगृहुस्तदशेषा ग्राहका हि गुणिनां कति न स्युः ॥ ६६ ॥ केनात्र चम्पकतरौ बत रोपितोऽसि कुग्रामपामरजनान्तिकवाटिकायाम् । यत्र प्रवृद्धवनशाकविवृद्धिलोभाद्गो भन्नवाटघटनोचितपल्लवोऽसि ॥ ६७ ॥ उद्यानपालकलशाम्बुनिषेचनानामेतस्य चम्पकतरोरयमेव कालः । अस्मिन्निदाघनिहते घनवारिणा वा संवर्धिते तव पृथोभयथोपयोगः ॥ ६८ ॥ यन्नादत्तस्वमलिना मलिनाशयेन किं तेन चम्पक विषादमुरीकरोषि । विश्वाभिराममनवनीरदनीलवेधाः केशाः कुशेशयदृशः कुशलीभवन्तु ॥ ६९ ॥ कोपं चम्पक मुञ्च याचकजनैर्गायामितस्त्वं सखे मा ग्लासीः परितो विलोक्य तरु कम्मेऽधिरूढस्तुलाम् । कोपश्धन्नियतस्तवास्ति हृदये चात्रे तथा कुप्यता येन त्वं हि सुवर्णवर्णकुसुमामोदोद्वितीयः कृतः ॥ ७० ॥ मन्येकेऽपि महीरुहाः प्रतिदिनं समेतमङ्गाल्यमन्ताद्दृशंगणिनो लवङ्गलवलीमाकन्दकुन्दादयः । नाशास्य जनुरस्य चम्पकतगोर्यत्कोरकान्तर्दल खैरङ्गेरुषधीय राजरमणी साम्यमलोकेते ॥ ७१ ॥
बकुल
शिशिरादागमे तरुकुसुमभारेणसुकुनी कृती मालाकारो बहुःक्षमपि कुत्रापि निदधे । इ० को जानीते यदयमिह कोणात्संगता जगजाले कनी कुसुमभरसौरभ्यमरितम् ॥ ७२ ॥ दधान प्रेमाणं तरुषु समभावेन विपुलं न मालाकारोऽसावकृत करुणां बालवकुले । अय तु द्रागुद्यत्कुसुमनिकराणां परिमलैर्दिशन्तानातेने मधुपकुलझङ्कारभरितान् ॥ ७३ ॥
अशोकः
गर्यायसे विकचकोकमञ्जुगुञ्जद्भृङ्गषट्पदघटाविभवेन किं नु । वामभ्रुवा चरणताडनदोहदानि किं नाम न स्मरसि तावदशोक तानि ॥ ७४ ॥ उन्मीलयन्ति कुसुमानि मनोरमाणि के नाम नात्र तरवः समयोचितानि । कस्येदृशं कथय दोहदमस्ति तस्य यादृग्विनिर्मितमशोकमहीरुहस्य ॥ ७५ ॥ मूर्ध्ना खाद्यूना लघुरपि फलानां न विभवस्तवाशोक स्तोक स्तबकमहिमा सोऽप्युँसुरभिः । यदेतन्नो तन्वीकरचरणलावण्यसुभगं प्रवालं बाल स्यात्तरुषु स कलङ्कः किमपरः ॥ ७६ ॥ किं ते नम्रतया किमुन्नततया किं वा घनच्छायया किं वा पल्लवलीलया किमनया वाऽशोक पुष्पश्रिया । यत्तन्मूलनिषण्णखिन्नपथिकस्तौर्मैः स्तुवन्नन्वहं न स्वादूनि मृदूनि खादति फलान्याकण्ठमुत्कण्ठितः ॥ ७७ ॥
यूथी
यूथि यथोचितविधिना विधेयमातिथ्यमेतँस्मिन् । मालतिकान्राणेशे प्राँधुणिकस्ते गुणाक्षरन्यायात् ॥ ७८ ॥
मालती
कुसुमस्तवकानम्राः सन्त्येव परितो लताः । तथापि भ्रमरश्रान्ति हरत्येकैव मालती ॥ ७९ ॥ मालतीकुसुमे भाति गुञ्जन्मत्तमधुव्रत । प्रयाणे पँञ्चबाणस्य शङ्ख-
१ दुष्टवेणुभि, पक्षे,-दुष्टकुले
२ यूथानि
३ नाम्ना, पक्षे,-लघु
१ कुशल
२ अल्प
३ सुगन्धरहित
४ समूह
५ अर्धोद्धमरे
६ अतिथि
७ मदनस्य
वृक्षान्योक्तयः
२३९
[वामस्तम्भः]
मापूरयन्निब ॥ ८० ॥
गुजति मञ्जु मिलिन्दे मालति मा मौनमुपयासीः ।
शिरसा वदान्यगुरवः सादरमेनं वहन्ति सुरतरवः ॥ ८१ ॥
अयि कि गुणवति मालति जीवति भवतीं विना मधुपः ।
अथ यदि जीवति जीवतु जीवितमपि तस्य जीवनाभासः ॥ ८२ ॥
मा मालति म्लायसि यद्यविद्यश्चुचुम्ब तुम्ब्रीकुसुमं षँडङ्घ्रिः ।
पदैश्चतुर्भिर्हि युतः पशुश्चेत्स षड्भिरध्यर्धपशुः कथं नो ॥ ८३ ॥
कति सन्ति लब्धुलता ललिता नवकोरकिता धरणीसुतले ।
कति बन्धुरगन्धभृतस्तरवो गुरवो निवसन्ति गिरौ मलये ॥ ८४ ॥
अयि मालति सौरभसारविनिर्जितसविकसत्कमलानिलये ।
मधुपानविधौ मधुपस्य पुनर्भवने भवतीमहमाकलये ॥ ८५ ॥
किं मालतीकुसुम ताम्यसि निष्ठुरेण केनापि यत्किल विलूनमितो लताग्रात् ।
लोकोत्तरेण विलसद्गुणगौरवेण को नामुना शिरसि नाम करिष्यति त्वाम् ॥ ८६ ॥
मँर्दीयस्त्वाधिक्यान्न भवति विमर्दक्षममिदं न चान्येभ्यो रूपं भवति कुसुमेभ्योऽधिकतरम् ।
प्रसूनं माल्यास्तादपि हृदयाह्लादकरण प्रवीणेरामोदैर्भवति जगतो मौलिनिलयम् ॥ ८७ ॥
अस्मिन्र्केलिउने सुगन्धपवने क्रीडत्तुरङ्गीजने गुजद्भृङ्गकुले विशालबकुले कूजत्पिकीसकुले ।
उन्मीलन्नवपाटलापरिमले मल्लीप्रसूनाकुले यद्येकापि न मालती विकसिता तत्कि न रम्यो मधुः ॥ ८८ ॥
मल्लिका
न च गँन्धवहेन चुम्बिता न च पीता मधुपेन मल्लिका ।
^१पिहितैव कठोरशाखया ^२परिणामस्य जगाम गोचरम् ॥ ८९ ॥
दमनकः
वद प्रादुर्भावावधि परिमलावस्थितदृशा जगत्या विख्याता दमनक प्रतीपास्तव गुणाः ।
तथाप्यस्मिन्भृङ्गे मधुप्लवपिपासापरवशे दृढप्रेमाबद्धे कथय कथमौदास्यमकरोः ॥ ९० ॥
केतकी
कालक्रमकमनीयक्रोडेयं केतकीति का शङ्का ।
वृद्धिर्यथा यथा स्वास्तथा तथा कण्टकोत्कर्षः ॥ ९१ ॥
पत्राणि कण्टकशतैः परिवेष्टितानि वार्त्तापि नास्ति मधुनो रजसान्धकारः ।
आमोदमात्ररसिकेन मधुव्रतेन नालोकितानि तव केतकि दूषणानि ॥ ९२ ॥
एतासु केतकिलतासु विकासिनीषु सौभाग्यमद्भुततर भवती बिभर्ति ।
यत्कण्ठकैर्र्यथितमात्मवपुर्न जानंस्वामेव सेवितुमुपक्रमते द्विरेफः ॥ ९३ ॥
एकेन चेत्परिहृतोऽसि महेश्वरेण कि तेन केतक विषादमुरीकरोषि ।
अन्ये न कि जगति सन्ति
[दक्षिणस्तम्भः]
महागुणा ये त्वा वहन्ति शिरसा नरदेवदेवाः ॥ ९४ ॥
हे हेमकेतकि कथं बहु गर्वितासि ससेव्यसे मधुक़रैरखिलैरितीव ।
नैषा रसातिशयता नलिनीवियोगात्तैर्दीयते विकटकण्टकशूलझम्पः ॥ ९५ ॥
रोलम्बस्य चिराय केतकपरिष्वङ्गेष्वभङ्गो रसः सुज्ञात बत केतकस्य च मनो भृङ्गप्रसङ्गोत्सुकम् ।
जानात्येव मिथोऽनुरागमनयोः सर्वोऽपि नैसर्गिकः प्रत्यूह्याय दलेषु धिक्समभवन्नर्मामिवः कण्टकाः ॥ ९६ ॥
पाटला
पाटलया वनमध्ये कुसुमितया मोहितस्तथा भ्रमरः ।
सैवेयमिति यथाभूत्प्रीतिरस्यान्सुपुष्पेऽपि ॥ ९७ ॥
सहकारः
अरविन्देषु कुन्देषु रमितं कालयोगतः ।
अये माकन्द जानीहि तवैवायं मधुव्रतः ॥ ९८ ॥
यद्यपि दिशि दिशि तरवः परिमलबहुलाश्च पारिजाताद्या ।
तदपि रसालोऽप्येकः कोकिलहृदये सदा वसति ॥ ९९ ॥
वेत्ता कोकिल एव ज्ञाता च रसाल एव नियतमिदम् ।
यः पञ्चममुद्रायति यस्यास्थिषु पुलकमुकुलानि ॥ १०० ॥
लोढितमखिलं गहनं परितो दृष्टाश्च विटपिनः सर्वे ।
सहकार न प्रपेदे मधुपेन तवोपमा जगति ॥ १०१ ॥
कुन्दे कदम्बे कुसुमेऽरविन्दे यथाकथंचित्समयं नयन्ति ।
प्राप्ते वसन्ते पुनरुत्तरङ्गा रसाल जानीहि तवैव भृङ्गाः ॥ १०२ ॥
भूरिशोऽपि च वसन्ति कानने शाखिन फलविशेषशालिनः ।
कोकिलस्य तदपीह मानसं नो रसालमपहाय तुष्यति ॥ १०३ ॥
आम्र यद्यपि गता दिवसास्ते पुष्पसौरभफलप्रचुरा ये ।
हन्त संप्रति तथापि जनाना छाययैव दलयसतितापम् ॥ १०४ ॥
फलितस्य रसालशाखिन फलदानव्यसनैकशालिनः ।
विनिपत्य ददातु कः फलं श्रमसुसाध्यगपाणिपल्लवे ॥ १०५ ॥
कति पल्लविता न पुष्पिता वा तरवः सन्ति समन्ततो वसन्ते ।
जगतीविजये तु पुष्पकेतोः सहकारी सहकार एक एव ॥ १०६ ॥
वहसि बलिभुजा कुलानि मौलौ यदि सहकार तदत्र कि निषिद्धा ।
परमुदयति पल्लवाश्लेषु स्फुरदलिभिस्तव सौरभप्रसिद्धिः ॥ १०७ ॥
दिङ्मण्डलं परिमलैः सुरभीकरोषि सौन्दर्यमावहसि लोचनलोमनीयम् ।
हंहो रसाल फलवर्य तथापि दूये यद्ग्रन्थिल च कठिनं हृदयं बिभर्षि ॥ १०८ ॥
उच्चैःकौतुक़रसेन विलासिनीभिर्लूनानि यस्य न नखैरपि पल्लवानि ।
उद्यानमण्डनतरो सहकार स त्वमङ्गारकारकरगोचरता गतोऽसि ॥ १०९ ॥
यावत्फलोदकमुखः सहकार जातः प्रागेव कण्टकचयेन वृतोऽसि तावत् ।
छायापि ते न सुलभा फलमस्तु दूरे तन्निष्फलोऽपि हि वर सुखसेवनीयः ॥ ११० ॥
उत्फुल्लरम्य सहकार रसाल-
[पादटिप्पण्यः]
वामपादटिप्पणी:
१ खिद्यसि २ मूढ ३ इक्ष्वाकुकुसुमम् ४ षट्पद ५ सताप कुरुषे. ६ छिन्नम् ७ मार्दवाधिक्यात् ८ वायुना ९ छादिता १० परिणति प्राप्तेत्यर्थे
दक्षिणपादटिप्पणी:
१ कर्णभूषणम्
२४० सुभाषितरत्नभाण्डागारम् [ ५ प्रकरणम्
बन्धो कूजत्पिकावलिनिदान तथा विधेहि । गुञ्जद्भ्रमद्भ्रमरकस्त्वयि बद्धतृष्णो नान्यत्प्रयाति विबुधेन्द्रकरीन्द्रवृक्षान् ॥ १११ ॥ शश्वन्निसर्गमलिना महदन्धकारं कामं लुण्ठन्ति तान्यपि मधूनि तव द्विरेफाः । युक्तं न तत्तव कषायरसप्रगोहैरेतान्वतारयसि कि कलकण्ठयूनः ॥ ११२ ॥ र रे रसाल तरुसार वचो विवेहि वासन्तिकी स्वफलपल्लवपुष्पलक्ष्मीम् । तावद्विकस्वरपिकद्विजमात्कुरु द्राङ् न व्यग्रितोऽसि कलभैः शलभैश्च यावत् ॥ ११३ ॥ यद्यञ्जनीनचिरमध्वनि घर्मखिन्नः कासारतीररुहमाश्रय नम्रमात्रम् । छाया न केवलमित श्रमिता लभन्ते कामं पचेलिमफलं विमलं जलं च ॥ ११४ ॥ सौरभ्यगर्भमरन्दकरम्बितानि पङ्केरुहाण्यपि विहाय समागतस्त्वाम् । ससारसार सहकार तथा विधेहि येनोपहासविषयो न भवेद्धिरेफः ॥ ११५ ॥ कति कति न वसन्ते वल्ल्यः शाखिनो वा किसलयसुमनोभिः शोभमाना बभूवुः । तदपि युवजनानां प्रीतये केवलोऽभूदभिनवकलिकालीभारशाली रसालः ॥ ११६ ॥ यदेकस्मिन्वर्षे न फलति रसालस्तुरुरयं पिकः कि काकेषु फलितमपि निम्बं व्रजति किम् । व्रजन्ग्लानिं ग्लानिं न वदति च कस्यापि पुरतः खरन्वारंवारं पुनरपि रसालं मृगयते ॥ ११७ ॥ अधिश्रीरुद्याने त्वमसि भवत पल्लवचयो धुरीणः कल्याणे तव जगति शाखा श्रमहरा । मुदे पुष्पोल्लेखः फलमपि च तुष्ट्यै तनुभृता रसाल त्वा तस्माच्छ्रयति शतशः कोकिलकुलम् ॥ ११८ ॥ न तादृक्पूरे न च मलयजे¹ नो मृगमदे² फले वा पुष्पे वा तव मिलति यादक्परिमलः । पर स्त्वेको दोषस्त्वयि खलु रसाले यदधिकं पिके वा काके वा लघुगुरुविशेषं न मनुषे ॥ ११९ ॥ चिरश्रान्तो दूरादहमुपगतो हन्त मल्याच्चदेकं त्वद्रेहे तरुणि परिणेष्यामि दिवसम् । समीरेणोक्तैवं नवकुसुमिता चूतलतिका धुनावा मूर्धानं नहि नहि नहीत्येव वदति ॥ १२० ॥ वियुक्ता वासन्ती बकुलमुकुले नापि मिलितं व्यलोकि व्याकोशः क्षणमपि न कोऽपि क्षितिरुहः । यमालोव्योत्कण्ठातरलमिह भृङ्गेन चलितं विदूरान्माकन्दः स खलु दलितो यूथपतिना ॥ १२१ ॥ येऽभिज्ञाः कुसुमोद्भवादनुदिनं त्वामाश्रिता षट्पदास्ते भ्राम्यन्ति फलाद्वहिर्बहिरहो दृष्ट्वा न सभाषसे । ये कीटास्तव दृक्पथं न च गतास्ते त्वत्फलाभ्यन्तरे धिक्त्वा चूततरो परावरपरिज्ञानानभिज्ञो भवान् ॥ १२२ ॥ आकर्ण्याग्रफलस्तुतिं जलमभूत्तन्नारिकेलान्तरं प्रायः कण्टकितं तथैव पनस जातं द्वियोर्वारुकम् । आस्तेऽधोमुखमेव कादलफलं द्राक्षाफलं क्षुद्रता श्यामत्वं बत जाम्बवं गतमहो मात्सर्यदोषादिह ॥ १२३ ॥
यो दृष्टः स्फुरदस्थिपुटवशात्तिर्यक्प्रवालाङ्कुरो दैवात्म दृढलादिकक्रमवशादारूढशाखाशतः । स्निग्धं पल्लवितो घनं मुकुलितः स्फारच्छदं पुष्पितः सोत्कर्ष फलितो भृशं च विनतः कोऽप्येष चूतद्रुमः ॥ १२४ ॥ एतस्मिन्वनमार्गभूपरिसरे सौन्दर्यमुद्राङ्कितं प्रोद्यद्भिः फलपुष्पपत्रनिचयैश्चूत स एकः परम् । यं वीक्ष्य क्षितवक्रमूद्रितमहामंतोसमुल्लासितस्फारोत्कण्ठमकुण्ठतक्रमममी धावन्ति पान्थव्रजाः ॥ १२५ ॥ कूष्माण्डीफलवत्फल न यदपि न्यग्रोधवच्चोच्चता रम्भापत्रनिभं दल न कुसुमं नो केतकीपुष्पवन् । सौरभ्यं कुसुमे फले तदपि तत्किंचित्समुज्जृम्भते लोको येन रसाल शालनिकरास्त्यक्त्वा गुणान्स्तौति ते ॥ १२६ ॥ गर्वं मा कुरु शर्करे तव गुणाञ्जानन्ति राज्ञां गृहे ये दीना धनवर्जिताश्च कृपणाः खमेऽपि पश्यन्ति नो । आम्रोऽहं मधुकूपकर्मम फलैस्तृप्ता हि सर्वे जना हे रण्डे तव किं गुणा मम फलैस्तुल्यं न किंचित्फलम् ॥ १२७ ॥ उन्मीलद्रसबिन्दुगन्धकुसुमावह्यो वसन्तोदये कान्ताः कोमलपल्लवाः कति कति क्रीडावने सन्ति न । सौभाग्यैकनिधे रसाल तदपि श्रीमञ्जरीशालिनस्त्वत्तोऽन्यत्र च कुत्रचिन्मधुकरश्रेणी न विश्राम्यति ॥ १२८ ॥ स्निग्धाश्राः फलिनो वृताः परिमलैः पौष्पैर्मधुस्यन्दिनो नानन्दाय भवन्ति किं वनभुवां भूमीरूहो भूरिशः । माधुर्यं मधुनस्त्वैव परमं माकन्द मन्यामहे माध्वीमर्मविदो दृढं मधुलिहः स्यूता यतो मर्मणि ॥ १२९ ॥ आस्तां गाढतराश्रुशीलनविधिः संस्पर्शनं दूरतः संभाषाविषयीकृतोऽसि न मनागक्ष्णोः पदं प्रापितः । किं ब्रूमः सहकार तावकगुणान्यादृशैर्दुर्लभैन्सौरभ्येण यदध्वगानपि मुहुः प्रीणासि दूरादपि ॥ १३० ॥ त्वं सामान्यतरुभ्रमेण सकलक्षोणीरुहक्षापतौ माकन्देऽपि किरात पातय सुधा मास्मिन्कुठारं हठात् । एष श्लाघ्यजनस्य जीवितमलिव्यूहस्य बन्धुर्मधोः सर्वस्वं कुसुमायुधस्य विजयामात्यः पिकानां गुरुः ॥ १३१ ॥ शान्ता घर्मकणाः श्रमः शिथिलितस्तीर्णस्तृषामुद्गमो वारंवारमुदारकोकिलरवैरानन्दितं मानसम् । सर्वं प्राप्तमभीप्सितं तव तले चूत प्रसन्ना द्विजश्रेणीकूजितरञ्जिताखिलमनो यामो वयं स्वस्ति ते ॥ १३२ ॥
पनसः
गरीयः सौरभ्यं रसपरिचये नार्हति सुधा सिता मुद्गीकापि प्रथिमनि¹ निमग्नः फलभरः । परार्थे कोशश्रीरिति पुलकितं कण्टकमिषादहो ते चारित्रं पनस मनसः कस्य न मुदे ॥ १३३ ॥
¹ चन्दने
² कस्तूरिकायाम्
¹ स्थूलत्वे
वृक्षान्योक्तयः २४१
तमालः
पास्यन्ति कस्य कुसुमे मधुपा मधूनि स्थास्यन्ति कस्य
शिखरेषु विहंगमालाः । इत्येव शोचति परं परितो
विसारिदावाग्निभग्नवपुरेष तरुस्तमालः ॥ १३४ ॥
कदली
तालीतरोरुपकारि फलं फलित्वा लज्जावशादुचिन
एव विनाशयोगः । एत चित्रमुपकृत्य फलै परेभ्यः
प्राणान्निजान्झटिति यत्कदली जहाति ॥ १३५ ॥
द्राक्षा
दौसेरकस्य दासीयं बदरी यदि रोचते । एतावत्तैव
किं द्राक्षा न साक्षादमृतप्रदा ॥ १३६ ॥ यद्यपि न
भवति हानिः परकीया चरति रासभे द्राक्षाम् । असम-
ञ्जसमिति मत्वा तथापि खलु खिद्यते चेतः ॥ १३७ ॥
दाडिमः
मयि जीवति बीजाढ्ये किमन्ये बीजपूरकाः । इति सञ्चिन्त्य
मनसा विदे दाडिमीफलम् ॥ १३८॥ आ पुष्पप्रसवान्मनो-
हरतया विश्वास विश्वं जनं हृष्टो दाडिम तावदेव सहसे वृद्धिं
स्वकीयामिह । यावच्चेति परोपभोगसहतामेषा ततस्तां तथा
ज्ञात्वा ते हृदयं द्विधा दलति यत्तन्नातिवन्द्यो भवान् ॥१३९॥
नालिकेरः
उच्चैरेष तरुः फलं च विपुलं दृष्ट्वैव हृष्टः शुकः पक्वं
शालिवनं विहाय जडधीस्तं नालिकेरं गतः । तत्रारुह्य
बुभुक्षितेन मनसा यत्नं कृतो भेदने वाञ्छा तस्य न केवलं
विगलिता चञ्चूगीता चूर्णिताम् ॥ १४० ॥
तालः
अये ताल व्रीडां व्रज गुरुतया भाति न भवान् फले
न च्छाया नो कठिनपरिवारो हि भवतः । इयं धन्या
धन्या सरलकदली सुन्दरदला परात्मानं मन्ये सुखयति
फलेनामृतवता ॥ १४१ ॥ अध्वन्यध्वनि भूरुहः फलभृतो
नम्रानुपेक्ष्यादराद्दूरादुन्नतिसंश्रयव्यसनिन पान्थस्य मूढात्मनः ।
यन्मूलं समुपागतस्य मधुरच्छायाफलैः का कथा शीर्णेनापि
हि नोपयोगमगमत्पर्णेन तालद्रुमः ॥ १४२ ॥
भूर्जः
दौर्जन्यैमात्मनि परं प्रथितं विधात्रा भूर्जद्रुमस्य विफलत्व-
समर्पणेन । किं चर्मभिर्निशितशस्त्रशतावकृत्तैराशा न पूरयति
सोऽर्थिपरम्पराणाम् ॥ १४३ ॥ कुर्वन्तु नाम जनतोपकृतिं
प्रसूनच्छायाफलैर्विकलैः सुलभोर्दुमास्ते । सोढाम्तु कर्तनरुजं
पररक्षणार्थमेकेन भूर्जतकरणा करुणापरेण ॥ १४४ ॥
अश्वत्थः
वर्धितैः सेवितैः किं तैः सत्यश्वत्थेऽन्यपादपैः । वर्धितो
नरकाद्रक्षेतस्पृष्टोऽरिष्टानि हन्ति यः ॥ १४५ ॥
न्यग्रोधः
महातरुर्वा भवति समूलो वा विनश्यति । नाङ्कुरप्रक्रिया-
मेति न्यग्रोधकणिकाङ्कुरः ॥ १४६ ॥ न्यग्रोधे फलशालिनि
स्फुटतरं किंचित्फलं पच्यते बीजानामुङ्गरगोचरानि कतिचि-
त्सिध्यन्ति तस्मिन्नपि । एकस्तेष्वपि कश्चिदङ्कुरवरः प्राप्नोति
तामुन्नतिं यामासाद्य निदाघपीडिततनुर्लान्निच्छिदे धावति
॥ १४७ ॥ विस्तीर्णो दीर्घशाखाश्रितशकुनिगणतः शाखिनामे-
ग्रणीस्त्वं न्यग्रोध क्रोधमन्तः प्रकटयसि न चेद्बद्धिम किंचिन्त-
दल्यम् । जल्पोऽप्येष त्रपाकृल्लघुपरिकर कापि कूष्माण्डवल्ली
पल्लीपृष्ठप्रतिष्ठा हसति हि फलने त्वत्फलाना किमन्वत् ॥ १४८ ॥
मधूकः
तत्तेजस्तरणेर्निदाघसमये तद्वारि मेघागमे तज्जाड्यं शिशिरे
यदेकगरणैः सोढं पुरा यैर्दलैः । आयातोऽप्यधुना फलस्य
समय कोऽयं विना तैरिति स्मृत्वा तानि शुचैव रोदिति
गलत्पुष्पैर्मधूकद्रुम ॥ १४९ ॥ मूलादेव यदस्य विस्तृतितर-
श्छायाप्यनन्य्यादृशी ते यस्य प्रमवाः सुमञ्जुलरमैरानन्दयन्त
प्रजाः । स्नेहं च प्रकटीकरोति परमं भूय फलाना गुणैर्हित्वै-
कैकगुणास्तरूनभज सखे तस्मान्मवूकद्रुमम् ॥ १५० ॥
शाल्मलिः
विशाल शाल्मत्या नयनसुभगं वीक्ष्य कुसुमं शुकस्यासी-
द्बुद्धि फलमपि भवेत्तादृशमिति । चिरं तत्र स्थित्वा
फलमपि च काले परिणतं विपाके तूलोऽन्त सपदि
मरुता सोऽप्यपहृत ॥ १५१ ॥ दूरं मार्गाग्निव्रमसि पुन-
कण्टकैरावृतोऽसि छायाशून्यः फलमपि च ते वानरैरप्यभक्ष्यम् ।
निर्गन्धस्त्वं मधुपसहित शाल्मले साम्प्रत्यू सेवासाकं
भवति विफला तिष्ठ निःश्वस्य याम ॥ १५२ ॥ हसा.
पद्मवनाशया बलिभुजो गृध्राश्च मांसाशया पान्था स्वादु-
फलाशया मधुलिह सौगन्ध्यनाधाशया । दुग्च्छिष्फलरक्तपुष्प-
निचयैर्न सार रस्थोन्नते रं रं शाल्मलिपादप प्रतिदिनं के
न त्वया वञ्चिता ॥ १५३ ॥ काय कण्टकभूषितो न
च घनच्छायायीकृता पल्लवाः पुष्पाणि च्युतसंगाणि न
दलश्रेणी मनोहारिणी । किं ब्रूम् फलपाकमस्य यदुपन्था-
सेऽपि लज्जामहे तद्वो केन गुणेन शाल्मलितरो जातोऽसि
सीमद्रुमः ॥०१५४ ॥
निम्बः
निम्ब किं बहुनोक्तेन निष्फलानि फलानि ते । यानि
सजातपाकानि काका नि शेष्यन्त्यमी ॥ १५५ ॥ यश्च
निम्ब परशुना यश्चैनं मधुसर्पिषा । यश्चैन गन्धमाल्याद्यै
सर्वस्य कटुरेव म ॥ १५६ ॥ पश्यानुरूपमिन्दिन्दिरेण
माकन्दशेखरो मुखरः । अपि च पिचूमन्दमुकुले मोकुलि-
कुलमाकुलं मिलति ॥ १५७ ॥ चित्र चित्र बत बत
महच्चित्रमेतद्विचित्र जातो दैवादुन्नितघटनासविधाता
विधाता । यन्निम्बाना परिणतफलस्फीतिरास्वादनीया
यच्चैतस्याः केवलनकलाकोविदः काकलोकः ॥ १५८ ॥
यस्मादर्थिजनो मनोभिलषितं लब्ध्वा मुदा मेदुर सार्थं
पादटिप्पण्यः :
१ उद्धस्य २ पुष्पोदयादारभ्य ३ न केवलम् ४ दुर्जनत्वम्
३१ सु. र. भा.
१ श्रेष्ठ २ लज्जाकृत् ३ शोकेन ४ काका ५ व्यर्थानि ६ अत्र वृक्षति सिञ्चति अर्चति इत्यध्याहारेण वाक्यानि पूरणीयानि ७ भ्रमरेण ८ काककुलम् ९ समृद्दि १० भक्षणचातुर्यम्
| २४२ | सुभाषितरत्नभाण्डागारम् | [ ५ प्रकरणम् |

| बन्धुजनैश्चकार विविधान्भोगान्विलासोद्धुरः । तं दैवेन विवेकशून्यमनसा निर्मूल्य चूतद्रुमं स्थाने तस्य तु काकलोकवसतिर्निम्बः समारोपितः ॥ १५९ ॥

बब्बुलः
पत्रफलपुष्पलक्ष्म्या कदाप्यदृष्टं वृतं च खलु शुकैः । उपसर्पेम भवन्तं बब्बुल वद कस्य लोभेन ॥ १६० ॥
गात्रं कण्टकसंकटं प्रविरलच्छाया न चायासहृन्निर्गन्धः कुसुमोत्करस्तव फलं न क्षुद्विनाशक्षमम् । बब्बूलद्रुम मूलमेति न जनस्तत्तावदास्तामहो ह्यन्येषामपि शाखिनां फलवतां गुह्ये $^{२}$वृत्तिर्जायसे ॥ १६१ ॥
आमूलाग्रनिबद्धकण्टकतनुर्निर्गन्धपुष्पोद्गमश्छाया न श्रमहारिणी न च फलं क्षुत्क्षामसंतोपकम् । रे रे बब्बुल साधुसङ्गरहितस्तत्तावदास्तामहो ह्यन्येषामपि शाखिनां फलवतां गुह्ये वृत्तिर्जायसे ॥ १६२ ॥
शाखा कण्टककोटिभिः परिवृता वज्रं फलं कुत्सितं पत्रं क्षुद्रतरं न चास्ति गहना छायापि पान्थप्रिया । अन्येषामपि शाखिनां फलभृतां रक्षार्थमानीयसे बब्बूलद्रुम कैर्गुणैर्गुरुतरैर्वृक्षेषु संभाव्यसे ॥ १६३ ॥

खदिरः
विना खदिरसारेण हारेण हरिणीदृशाम् । नाधरे जायते रागो नानुरागः पयोधरे ॥ १६४ ॥
चन्दने विषधरान्सहामहे वस्तु सुन्दरमगुप्तिसत्कृतम् । रक्षितुं वद किमात्मसौष्ठवं सञ्चिताः खदिर कण्टकास्त्वया ॥ १६५ ॥
परं तदिह नास्ति यन्न खदिरैः खैराग्रैरावृतं न तेऽपि खदिरा न ये कुटिलकण्टकैरावृताः । न ते कुटिलकण्टकाः किमपि ये न मर्मच्छिदस्समुज्झत वृथास्थितिं बत सहध्वमध्वश्रमम् ॥ १६६ ॥

किंशुकः
किंशुक किं शुकमुखवत्कुसुमानि विकासयस्यनिशम् । यस्या जनोऽनुरागी सा गीरेतैः कदापि नोच्चार्या ॥ १६७ ॥
त्यज किंशुक पुष्पिताभिमानं निजशिरसि भ्रमरोपसेवनेन । विकसन्नवमालिकावियोगात्कुरुते वह्नधिया त्वयि प्रवेशम् ॥ १६८ ॥
उपनदिपुलिने महापलाशः पवनसमुच्छलदेकपत्रपाणिः । दवदहनविनष्टजीवितानां सलिलमिवैष ददाति पादपानाम् ॥ १६९ ॥

शाखोटः
शाखोट शाल्मलिपलाशकरीरकाद्याः शृण्वन्तु पुण्यनिलयो यदसौ वसन्तः । युष्मभ्यमर्पयति पल्लवपुष्पलक्ष्मीं सौरभ्यसम्भवविधिस्तु विधेरधीनः ॥ १७० ॥
कस्त्वं भो कथयामि दैवहतकं मा विद्धि शाखोटकं वैराग्यादिव वक्षि साधु विदितं कस्मादिदं कथ्यते । वामेनात्र वटस्तमध्वगजनः सर्वात्मना सेवते न छायापि परोपकारकृतये मार्गस्थितस्यापि मे ॥ १७१ ॥

पीलुः
धन्याः सूक्ष्मफला अपि प्रियतमास्ते पीलुवृक्षाः क्षितौ | क्षुत्क्षीणेन जनेन हि प्रतिदिनं येषां फलं $^{१}$भुज्यते । किं तैस्तत्र महाफलैरपि पुनः कल्पद्रुमाद्यैर्द्रुमैर्येषां नाम मनागपि श्रमनुदे छायापि न प्राप्यते ॥ १७२ ॥

करीरः
फलं दूरतरेऽप्यास्तां पुष्णासि कुसुमैर्जनान् । इतरे तरवो मन्ये करीर तव किंकराः ॥ १७३ ॥
किं पुष्पैः किं फलैस्तस्य करीरस्य दुरात्मनः । येन वृद्धिं समासाद्य न कृतः पत्रसंग्रहः ॥ १७४ ॥

बिल्वः
आमोदीनि सुमेदुराणि च मृदुस्वादूनि च क्ष्मासहासूद्यानेषु वनेषु लब्धजनुषां सन्तीतरेषामपि । किं तु श्रीफलता तवैव जयिनी मालूग्य दिक्पाण्डले यस्यैतानि फलानि यौवनवतीवक्षोजलक्ष्मीगृहाः ॥ १७५ ॥

शालिः
शाखासन्ततिसंनिरुद्धनभसो भूयांस एवावनौ विद्यन्ते तरवः फलैर्विकलैरार्तिच्छिदः प्राणिनाम् । किंतु द्वित्रदलैरलंकृततनोः शालेः स्तुमस्तुङ्गतां दत्त्वा येन निजं शिरः सुकृतिना को नाम न प्रीणितः ॥ १७६ ॥

कुटजः
समुपागतवति दैवादवलेहात्कुटज मधुकरे मा गाः । मकरन्दतुन्दिलानामग्विन्दानामयं यतो मान्यः ॥ १७७ ॥

इक्षुः
कान्तोऽसि नित्यमधुरोऽसि रसाकुलोऽसि किं चासि पञ्चशरकार्मुकमद्वितीयम् । इक्षो तवास्ति सकलं परमेकमूनं यत्सेवितो भजसि नीरसतां क्रमेण ॥ १७८ ॥
परार्थे यः पीडामनुभवति भङ्गेऽपि मधुरो यदीयः सर्वेषामिह खलु $^{२}$विकारोऽप्यभिमतः । न संप्राप्तो वृद्धिं यदि स भृशमक्षेत्रपतितः किमैक्षोर्दोषोऽसौ न पुनरगुणाया मरुभुवः ॥ १७९ ॥
मुखे $^{३}$ यद्वैरस्यं वपुरपि पुनग्र्रन्थिनिचितं न $^{४}$सूतसः कोऽपि क्षणमपि भजेन्मूलमभितः । फलं चैवाप्राप्य $^{५}$वितथग्सलिप्सोर्हि भवतस्तदिक्शोर्नायुक्तं विहितमितरैर्यत्तु दलनम् ॥ १८० ॥

लवङ्गी
अयि दुष्कृतकेन केन वत्से हलिकद्वारे लवङ्गि पुष्पितासि । स्तबकास्तव पांसुभिः परीताः परितः प्राङ्गणसीम्नि यल्लुठन्ति ॥ १८१ ॥
लूनं मत्तमतङ्गजैः कियदपि च्छिन्नं तुषारार्दितं शिष्टं ग्रीष्मजतीक्ष्णभानुकिरणैर्भस्मीकृतं काननम् । एषा कोणगता मुहुः परिमलैरामोदयन्ती दिशो हा कष्टं ललिता लवङ्गलतिका दावाग्निना दह्यते ॥ १८२ ॥
सौरभ्येण समावृणोषि ककुभः पुष्णासि पुष्पन्ध्यौल्हुतातन्तुं वृथा तथापि कियतीरूर्ध्वं यापयेर्यामिनीः । अस्मिन्दासपुरे परस्तत इतो विन्यस्तविस्रामिषे मालाकारमृते लवङ्गि ललितान्कस्ते गुणान् ज्ञास्यति ॥ १८३ ॥ |
| $^{१}$ निवास $^{२}$ पुष्पप्रकर $^{३}$ प्राचीरम् $^{४}$ सर्पान् $^{५}$ रक्षारहितम् $^{६}$ पलाशवृक्ष $^{७}$ समित्पत्रच्छायादिभिः | $^{१}$ फलानीति शेषः $^{२}$ गुटशर्करादि $^{३}$ अग्रे $^{४}$ पर्वण्यासम् $^{५}$ वितथा दलनाविरिक्ततावनाभावेन विफला रसस्य लिप्सा लब्धुमिच्छा यसिस्तस्य |
वृक्षान्योक्तयः २४३
कार्पासः
नीरसान्यपि रोचन्ते कार्पासस्य फलानि मे । येषां गुणमयं जन्म परेषां गुह्यगुप्तये ॥ १८४ ॥
श्लाघ्यं कार्पासफलं यस्य गुणै रन्ध्रवन्ति पिहितानि । मुक्ताफलानि तरुणीकुचकलश-तटेषु विलसन्ति ॥ १८५ ॥
निष्पेषोऽस्थिचयस्य दु महतर प्राप्तस्तुला रोहणं ग्राम्यस्त्रीनखचुम्बनव्यतिकरस्तत्तीव्रप्रहारव्यथा।
मौतङ्गोक्षितमण्डवारिकणिकापानं च कूर्चाहतिः कार्पासेन परार्थसाधनविधौ किं किं न चाङ्गीकृतम् ॥ १८६ ॥
शणः
भूर्जः परोपकृतये निजकवचविकर्तनं सहते । परबन्धनाय तु शण प्रेक्षध्वमिहान्तरं कीदृक् ॥ १८७ ॥
कण्टकारिका
उचितं नाम नारङ्ग्या केतक्यामपि कण्टकाः । रसगन्धो-ज्झिते किं ते कण्टका कण्टकारिके ॥ १८८ ॥
धत्तूरः
माँधुर्यमाराधयितामृतस्य तत्कण्टकित्वं पनसस्य सह्यम् । उन्मादिनो मातुलपुत्रकस्य कथं सहामो बत कण्टकित्वम् ॥ १८९ ॥
धत्तूर धूर्त तरुणेन्दुनिवासयोग्ये स्थाने पिशाचपतिना विनिवेशितोऽसि । किं कैरवाणि विकसन्ति तमः प्रयाति चन्द्रोपले द्रवि वार्वपुषेति वृद्धिम् ॥ १९० ॥
धत्तूरकण्टक फलप्रतिरोधबुद्ध्या वैरं वृथैव कुरुषे पनसेन सार्धम् । सन्तो हरन्ति न भजन्ति च चेतसा त्वा भान्ता भवन्ति पुरुषास्तव सेवनेन ॥ १९१ ॥
महेशस्त्वया धत्ते शिरसि रसगजस्य जयिनी विशुद्धिस्त्वत्सङ्गात्कनक-मयमेतत्रिभुवनम् । तनोति त्वन्मेवा ननु कनकवृक्ष त्वदपरः परः को नु स्यात्त्वयि न सुलभीभावमभजः ॥ १९२ ॥
पलाण्डुः
कर्पूरधूलीरचितालवालः कस्तूरिकाकुङ्कुमलिप्तदेहः । सुवर्ण-कुम्भैः परिषिच्यमानो निजं गुणं मुञ्चति किं पैलाण्डुः ॥ १९३ ॥
तृणानि
रूढस्य सिन्धुतटमनु तस्य तृणस्यापि जन्म कल्याणम् । यत्सलिलमज्जदाकुलजनस्य हस्तावलम्बनं भवति ॥ १९४ ॥
उत्तुङ्गैस्तरुरभि किमेभिरखिलैराकाशस्पर्शामिर्धन्योऽसौ नित-समूलपविटपी नद्यास्तटेऽवस्थितः ।
एवं यः कृतबुद्धिरुज्झित-जलव्यालोलवीचीवशान्मज्जन्तं जनमुद्धरामि सहसा तेनैव मज्जामि वा ॥ १९५ ॥
कलमाः
कलमाः पाकविनम्रा मूलतलाद्भ्रातसुरभिकल्हाराः । पवना-कम्पितशिरसः प्रायः कुर्वन्ति परिमलश्लाघाम् ॥ १९६ ॥
अस्मान्वहि कैलेमानलमौहतानां येषां प्रचण्डमुसलै-रेवदाततैव । १स्नेहं विमुच्य सहसा खेलता प्रयान्ति ये खल्पपीडनवशान्न त्रयं तिलान्ते ॥ १९७ ॥
ताम्बूलम्
किं वीरुधो भुवि न सन्ति सहस्रशोऽन्या यासां दलानि न परोपकृतिं भजन्ते । एकैव वह्निषु विराजति नागवल्ली या नागरीवदनचन्द्रमलङ्करोति ॥ १९८ ॥
वल्लीनां कति न स्फुरन्ति परितः पत्राणि किं तैरहि स्निग्धैरप्यति-कोमलैरपि निजामेवाश्रयद्भिः श्रियम् ।
तानेव स्तुमहे महाजनमुखश्रीकारिजन्मव्रतान्यान्यम्ले नवनागरीप्रियतमा-ताम्बूलवल्लीदलान् ॥ १९९ ॥
तुम्बी
सर्वाम्तुम्न्यः समकटुग्सास्तुम्बिवल्लीप्रसूतास्ता सबद्धा अपि कतिपया दुस्तरं तारयन्ति ।
शब्दयन्ते सरसमपरा शुष्ककाष्ठे निषण्णाम्स्तन्मध्येऽन्या ज्वलितहृदयाः शोणितं सपिबन्ति ॥ २०० ॥
एके तुम्बा व्रतिकरगताः पात्रता-मानयन्ति गायन्त्यन्ये सरसमधुरं शुद्धवंशे विलीनाः ।
एके तावद्वथितमगुणा दुस्तरं तारयन्ति तेषां मध्ये ज्वलित-हृदया रक्तमेके पिवन्ति ॥ २०१ ॥
वंशः
छिन्नः मनिशितैः शस्त्रैर्विद्धश्च नवसप्तधा । तथापि हि सुवंशेन विरसं नापजल्पितम् ॥ २०२ ॥
कुन्दः
एष षट्पदयुवा मदायतं कुन्द यापयति यामिनीस्चयि । दुर्बहा तदपि नापचीयते पद्मिनीविरहवेदना हृदि ॥ २०३ ॥
सदर्थ्यस्य मधुवैभवमस्ति यत्ते रे कुन्द किं दुरभिमानमुरीकरोषि ।
एतन्न चेतसि करोषि सरोजबन्धुः पुष्पद्ययोऽपि मम सौरभमातनोति ॥ २०४ ॥
कमलानि
वरमश्रीकतैवास्तु नेतरश्रीसमानता । इति कैरवको-द्भेदे कमलं मुकुलायते ॥ २०५ ॥
प्रसारितकरे मित्रे जगदुद्द्योतकारिणि । किं न कैरव लज्जा ते कुर्वतः कोशंसवृतिम् ॥ २०६ ॥
लक्ष्मीसपर्करूपोऽयं दोषः पद्मस्य निश्चितम् । यदयं गुणसदोहधामनीन्दौ पराङ्मुखः ॥ २०७ ॥
अन्तश्छिद्राणि भूयांसि कॅण्टका बहवो बहिः । कथं कमलनलस्य नाभूबन्मधुग गुणाः ॥ २०८ ॥
मालतीमुकुला याताः कुन्दा मन्दायितास्तथा । पङ्कज त्वामिदं ब्रूमः कुत्र यातु मधुव्रतः ॥ २०९ ॥
पङ्कज १३जैलेषु वासः प्रीतिर्मधुपेषु कॅण्टकैः सङ्गः । यद्यपि तदपि तवैत-च्चित्रं मित्रोदये हर्षः ॥ २१० ॥
कुसुमं कोशातक्या
पादटिप्पण्यः (Footnotes)
[वामभागः] १ शुष्काणि २ सूत्रमयम् ३ मातङ्गेनान्यजेनोक्षितं सिक्तं यन्मण्डवारि सिक्थद्रवोदकं तत्कणिकायाः पानम् अतीवाशुचीति भावः ४ माधुर्यमारेण तुच्छीकृतममृतं येन ५ धत्तूरफलस्य ६ शंकरेण ७ चन्द्रकान्तः ८ जयिनी उत्कृष्टवती रसराजस्य पारदस्य विशुद्धिः एतत्रिभुवनं कनकंमयं सुवर्णमयं तनोतीत्यन्वयः ९ जातेति शेषः १० कंदर्पः ११ शालिविशेषान् १२ खण्डितानाम्
[दक्षिणभागः] १ शुभ्रत्वम् २ तैलम्, पक्षे,-प्रीतिम् ३ दुर्जनत्वम्, पक्षे,-खलरूपत्वम् ४ लताः ५ तुम्बीफलानि ६ शब्दं कुर्वन्ति ७ रक्तम् ८ कोशसंवरणम् ९ रन्ध्राणि, पक्षे,-दोषस्थानानि १० शूलाः, पक्षे,-खलाः ११ सौभाग्यदाय, पक्षे,-तन्तवः १२ उदकेषु, पक्षे,-डलयोः सावर्ण्यज् जडेषु मूर्खेषु १३ भ्रमरेषु, पक्षे,-मद्यपेषु १४ स्वाङ्गरुहैः, पक्षे,-दुष्टैः १५ सूर्योदये, पक्षे,-सुहृदभ्युदये
२४४ सुभाषितरत्नभाण्डागारम् [ ५ प्रकरणम्
विकसति रात्रौ दिवा च कूष्माण्ड्याः । अलिकुलनिचये रुचिर किं तु यशः कुमुदकमलयोरेव ॥ २११ ॥ उदित- वति द्विजराजे कस्य न हृदये मुदं पदं धत्ते । सकुचसि कमल यदयं हर हर वामो विधिर्भवत ॥ २१२ ॥ एते हि गुणा पङ्कज मन्तोऽपि न ते प्रकाशमायान्ति । यल्लक्ष्मी- वमतेस्तव मधुपैरुपजीव्यते कोशः ॥ २१३ ॥ पद्मिनि किमिति क्रीडसि मधुपैर्जालञ्बोऽपि न हि किं ते । हर हर विस्मृत्योक्तं क्व नु लज्जा सेवितुरक्तायाः ॥ २१४ ॥ किं कुप्यसि कमलेचन सौरभसाराय कुप्य निजमधुने । यस्य कृते शतपत्र प्रतिपत्रं तेऽद्य मृग्यते भ्रमरैः ॥ २१५ ॥ अयि मकरन्दस्यन्दिनि पद्मिनि मन्ये तवैव सुभगत्त्वम् । पुष्पवतीमपि भवतीं त्यजति न वृद्ध शुचिहंसः ॥ २१६ ॥ मधुप इव मारुतेऽस्मिन्मा सौरभलोभमम्बुजिनि मास्थाः । लोकानामेव मुदे महितोऽप्यात्मानुमार्थिता नीत ॥ २१७ ॥ न कुले वापि न शीले न वास्ति रूपेऽपि कश्चिदुत्कर्षः । यत्पुष्णाति मिलिन्दानरविन्द महत्त्वमेतत्ते ॥ २१८ ॥ रे पद्मिनीपत्र भवच्चरित्रं चित्रं प्रतीमो वयमत्र किंचित् । त्वं पङ्कजन्मापि यदच्छभावादपि स्पृशस्यम्बु न पङ्कसङ्गि ॥ २१९ ॥ जनिः सरोङ्गादतिपद्मिनो यद्यलोलुपैर्या मधुपै- र्विहारः । कलङ्क एवैष कुमुद्वतीना कैलङ्किनः किं तु कलावतीनाम् ॥ २२० ॥ अपि त्वया कैरविणि व्यधायि सुधा सुधाबन्धुनि बन्धुभावः । जनापवादः परितः प्रयात- समागमो हन्त न जातु जात ॥ २२१ ॥ कमलिनि मलिनीकरोषि चेत किमिति बकैर्वहेलितार्नभिज्ञैः । परि- णतमकरन्दमार्मिकास्ते जगति भवन्तु चिरायुषो मिलिन्दा ॥ २२२ ॥ रुचिरतिरुचिरा शुचित्वमुच्चैः शिरसि धृत स्वय- मेव शंकरेण । कमलिनि मलिनीकरोषि कस्मान्मुखमिदमिन्दु- मुदीक्ष्य लोककान्तम् ॥ २२३ ॥ नलिनी निपुणता वदामि किं ते भ्रमरविलासिनि लास्यलालसायाः । त्रिभुवननयनो- त्सवं यदिन्दुं नयसि न हन्त दृगन्तवर्त्मसीमाम् ॥ २२४ ॥ स्वच्छन्दं दलदरविन्द ते मरन्द विन्दन्तो विदधतु गुञ्जितं मिलिन्दाः । आमोदानथ हेरिरन्तराणि नेतुं नैवान्यो जगति समीरणात्प्रवीणः ॥ २२५॥ यावत्त्वा न खलु हसन्ति कैरविण्यो यावत्त्वा तरणिकरैः परामृशन्ति । यावत्ते मधुविभवो नवोऽस्ति तावन्माध्वीकं वितर सरोज षट्- पदेभ्यः ॥२२६॥ रे पद्मिनीदल तवात्र मया चरित्रं दृष्ट विचित्र- मिव यदिदितं ध्रुवं तत् । यैरेव शुद्धमलिलैः परिपालितस्त्वं तेभ्यः पृथग्भवसि पङ्कभवोऽसि यस्मात् ॥२२७॥ कामं भवन्तु मधुलम्पटषट्पदोघसद्धट्टघर्घरघनध्वनयोऽब्जखण्डाः । गाय- न्नपि श्रुतिसुखं विधिरेष यन्त्र भृङ्गः स कोऽपि धरणी- धरनामधेय ॥ २२८ ॥ विभ्रम्य काननममौ दिवसावसाने त्वय्येव षट्पदयुवा हृदयं बबन्ध । राजीव चेन्मलिनिमान- मुररीकरोषि कः स्यादहो मधुलिहामथुनावलम्बः ॥ २२९ ॥ स्वामोदवासितसमग्रदिगन्तराला रक्ता मनोहरशिखा सुकुमारमूर्तिः । सेव्या सरोजकलिक्रा तु यदैव जाता नीत- स्तदैव विधिना मधुपोऽन्यदेशम् ॥ २३० ॥ किं बान्धवेन रविणा हरिणाथ किं वा लक्ष्म्या च किं च जलजोदरजेन किं वा । एतस्य शुद्धचरितस्य सरोरुहस्य नैषा तुषारजनिता शमिता विपत्तिः ॥ २३१ ॥ लक्ष्मीनिवास इति वारिरुहा प्रसिद्धिरन्वेषिताः कतिपया वैरतास्तु सन्ति । राज्ञि प्रसा- रितकरे किमहुं ददामि संकोचित वदनमम्बुरुहैरितीव ॥ २३२ ॥ लक्ष्मीः स्वयं निवसति त्वयि लोकधात्रि मित्रेण चापि विहितोऽस्ति दृढोऽनुरागः । बन्दीव गायति गुणास्तव चञ्चरीकः कः पुण्डरीक तव साम्यमुरीकरोति ॥ २३३ ॥ अयि दलदरविन्द सन्दमानं मरन्दं तव किमपि लिहन्तो मञ्जु गुञ्जन्तु भृङ्गाः । दिशि दिशि निर- पेक्षस्तावकीनं विवृण्वन्परिमलमयमन्त्यो बान्धवो गन्धवाहः ॥ २३४ ॥ समुत्पत्तिः स्वच्छे सरसि हरिहस्ते निवसनं निवासः पद्माया सुरहृदयहारी परिमलः । गुणैरैतैरन्यै- रपि च ललितस्याम्बुज तव द्विजोत्तंसे हंसे यदि रति- रतीवोन्नतिरियमू ॥ २३५ ॥ नालस्य प्रसरो जलेष्वपि कृतावासस्य कोशे रुचिर्दण्डे कर्कशता मुखेऽतिमृदुता मित्रे महान्संश्रयः । आमूलं गुणसङ्ग्रहव्यसनिता द्वेषश्च दोषाकरे यस्यैषा स्थितिरम्बुजस्य वसतिर्युक्तैव तत्र श्रियः ॥ २३६ ॥ नीरान्निर्मलतो जनिर्मधुरता वामामुखस्पर्धिनी वासो यस्य हरेः करे परिमलो गीर्वाणचेतोहरः । सर्वस्वं तदहो महाकविगिरा कामस्य चाम्भोरुह त्वं चेत्प्रीति- मुरीकरोषि मधुपै किं त्वां प्रति ब्रूमहे ॥ २३७ ॥ एकस्मि- न्ननिरावयो समजनि स्वच्छे सरोवारिणि भ्रातः काचिदि- हैव कानिचिदहान्यत्र व्यतीतानि नौ । लब्ध तामरस त्वया मृगदृशा लीलावत्तंसास्पदं शैवाल विलुठामि पामर- वधुपादाहते पाथसि ॥ २३८ ॥ वैमुख्यं मृगलाञ्छनस्य
१ सूर्यानुरक्ताया, पक्षे,-सविता पिता तस्मिन्सक्ताया पितृगामिन्या इत्यभिप्राय २ पुष्पयुक्ताम्, पक्षे,-रजस्वलाम् ३ श्वेत, पक्षे,-पवित्र ४ राजहंस, पक्षे,-परमहंस ५ चन्द्रस्य ६ कलुषीकरोषि ७ अवहेला नीता, तिरस्कृतेति यावत् ८ अपण्डितै ९ मग्नशा १० अमरा ११ दिगन्तराणि १२ वायो १३ सूर्यकिरणा
१ कर्दमोत्पन्न २ ब्रह्मणा ३ हंस, पक्षे,-कपर्दका ४ लक्ष्म्या ५ पक्षिश्रेष्ठे ६ दोषाणामाकरे, पक्षे,-चन्द्रे ७ देवमनोहारी ८ अङ्गीकरोषि
वृक्षान्योक्तयः, संकीर्णान्योक्तयः २४५
मनसो निर्माति मे न व्यथा नो दूये चिरलालिता मधु-
लिहः सर्पन्ति यन्नान्तिकम् । जल्पन्तीव दुरक्षराणि मधुप-
श्रेणीरवच्छद्मना यत्कादम्ब कुमुद्वती हसति मा तन्मे
मनस्ताम्यति ॥ २३९ ॥ सम्भूतिस्तव मानसे सरसिज त्वत्सौ-
रभैर्वासिता. सर्वास्ता१ ककुभस्तवास्ति परमो बन्धुर्विवस्वा-
निति । त्वं चेदद्य गुणानवद्य शिशिरे शीतानिलैः शीर्यसि
प्रायः प्राप्तमिदं तदत्र परमं दिष्टेऽब्ददृष्टं बलम् ॥ २४० ॥
खद्योतास्तरला भवन्ति भगवानस्तंगतो भानुमान् कोकः
शोकमुपैति मत्तमनसः केङ्कुर्वते कौशिकाः । इत्थं चेतसदस-
द्विवेविधुरो धाता तदेतादृशं न द्रष्टव्यमितीव मुद्रितवती
पद्मेक्षणं पद्मिनी ॥ २४१ ॥ पौलोमीपतिकानने विलसता
गीर्वाणभूमीरुहा येन घ्रातसमुज्झितानि कुसुमान्याजह्निरे
निर्जरैः । तस्मिन्नद्य मधुव्रते विधिवशान्माध्वीकमाकाङ्क्षति त्वं
चेद्वभ्रसि लोभमम्बुज तदा किं त्वा प्रति ब्रूमहे ॥ २४२ ॥
लताः
लतानामेतासामुदितकुसुमाना मरुदयं मत लास्य दत्त्वा
श्रयति भृशमामोदमसमम् । लतास्तध्वन्यानामपह दृशमादाय
सहसा ददत्याधिव्याधिभ्रमिरुदितमोहव्यतिकरम् ॥२४३॥
संकीर्णान्योक्तयः
शिवः
भस्मनि खररिपोरनुरागो हीयते न घनसारपरागः । भूषणं
यदि फणी न मणीना काचिदप्यपचितिर्न च हेम्नः ॥ १ ॥
उरसि फणिपतिः शिखी ललाटे शिरसि विधुः सुरवाहिनी
जटायाम् । प्रियसखि कथयामि किं रहस्यं पुरमथनस्य
रहोऽपि संसदेव ॥ २ ॥ इयं तावल्लीला यदधिरुरुहे
वृद्धवृषभो यदुङ्गेहे रुण्डं यदिह चितिभस्मापि लिलिपे ।
अयं को व्यापारो यदतिलकि भाले हुतवहो यदग्रेवि व्यालो
यदकवलि हालाहलमपि ॥ ३ ॥ बिभ्राणे त्वयि भस्म कः
समभवन्मन्दारदश्चन्दने कः क्षौमं कल्याचकार न कृती
कृत्तिं वसाने त्वयि । धत्तूरस्पृहयालुता त्वयि गते तत्याज
क. केतकी स्वातन्त्र्याज्जहिहि त्वमीश्वर गुणोल्लोकोऽस्ति
तद्ग्राहकाः ॥ ४ ॥ त्वं चेत्सचरसे वृषेण लघुता का नाम
दिग्दन्तिना व्यालै. काञ्चनकुण्डलानि कुरुषे हानिर्न हेम्न.
पुनः । मूर्ध्ना चेद्वहसे ३जैलाशुमयशः किं नाम लोकत्रयी-
दीपस्याम्बुजबान्धवस्य जगतामीशोऽसि किं ब्रूमहे ॥ ५ ॥
छेत्सि ब्रह्मशिरो यदि प्रथयसि प्रेतेषु सख्यं यदि क्षीबं
क्रीडसि मातृभिर्यदि रतिं धत्से श्मशाने यदि । सुद्धा
संहरसि प्रजा यदि तथाप्याधाय भक्त्या मन. कं सेवे
करवाणि किं त्रिजगती शून्या त्वमेवेश्वर ॥ ६ ॥
परशुरामः
त्व जामदग्न्य जननीवधपातकेन सद्दूषितः क्रतुविदां धुरि
नामभविष्यः । गीर्वाणवन्द्यचरणस्तव चन्द्रमौलिराचार्यकं स
भगवान् यदि नाकरिष्यत् ॥ ७ ॥
रामचन्द्रः
सङ्ग्रामाङ्गणमागते दशमुखे सौमित्रिणा विस्मितं सुग्रीवेण
विवर्तितं हनुमता व्यालोलमालोकितम् । श्रीरामेण परंतु
पीनपुलकस्फूर्जत्कपोलश्रिया सान्द्रानन्दरसालसा निदधिरे
बाणासने दृष्टय ॥ ८ ॥
सीता
वनान्ते खेलन्ती शशक शिशुमालोक्य चकिता भुजप्रान्तं
भर्तुर्भजति भयहतुः सपदि या । अहो सेयं सीता दशवदननीता
हलरदै. परीता रक्षोभिः श्रयति विवशा कामपि दशाम् ॥ ९॥
इन्द्रः
१जैम्भारिरेव जानाति रम्भासयोगविभ्रमम् । २घंटीचेटीविटः
किग्विजानात्यैर्रकामिनीम् ॥ १० ॥
स्मरः
पुरो गीर्वाणाना निजमुजबलाहोपुरुविकामहो कार कारं
पुरम्विदि शर संयुखयतः । खरस्य स्वर्बालानयनशुभमाला-
र्चनपदं वपुः सद्यो मालानलमसितजालास्पदमभूत् ॥ ११ ॥
आकाशम्
यः पीयूषसहोदरैः ५क्षपयति ज्योत्स्नाजैलैः सर्वतो यश्च
त्वामधिकार्थिकं ज्वलयति प्रोद्दामतापैः करैः । भ्रातव्योम
तयोरपि स्थितिमिह व्यातन्वतो विकियानिर्मुक्तस्य
महत्त्वमेतदसमं दूरेऽधिरूढं तव ॥ १२ ॥
पृथ्वि
विश्वास्य मधुरवचनैः साधून् ये वञ्चयन्ति नम्रतमाः। तानपि
दधासि मात: ४कौश्यपि याँतस्तवापि च विवेकः ॥ १३ ॥
जलम्
शैत्यं नाम गुणस्तवैव सहजः स्वाभाविक स्वच्छता किं
ब्रूम. शुचिता भवन्ति शुचयः स्पर्धेन यस्यापरे । कि वाऽतः
परमुच्यते स्तुतिपदं यज्जीवन देहिना त्वं चेन्नीचपथेन गच्छसि
पयः कस्त्वा निरोद्धं क्षमः ॥ १४ ॥ अब्जं त्वजमथाब्जभूस्तत
इदं ब्रह्माण्डमण्डात्पुनर्विश्वं स्थावरजंगम तदितरत्वन्मूलमित्थं
पय । धिक्त्वा चोर इव प्रयासि निभृतं निर्गत्य जालान्तरै-
र्बध्यन्ते विवशास्त्वदेकशरणास्त्वामाश्रिता जन्तव ॥ १५ ॥
मारुतः
५संन्ना नाविकधोरणी निपतिता ७मध्येजलं क्षेपणी पन्थाः
पर्वतदुर्गमो ८घनघनच्छन्नश्च ९तारापथ. । हहो मारुत दुस्तरो
जलनिधिः १०शीर्णा च नौः साप्रतं मध्ये मज्जय वा तटं
गमय वा हस्ते तवास्ते द्वयम् ॥ १६ ॥
मृगतृष्णिका
जलभ्रमोत्पत्तिकृतो गुणौघान्प्रकाश्यन्त्या मृगतृष्णिकायाम् ।
जलाश्रयान्तिरहन्ममैषा प्रभूतसतापकरी पिपासा ॥ १७ ॥
पादटिप्पण्यः:
| वामभागस्य | दक्षिणभागस्य |

| १ नन्दिना | १ इन्द्र |
| २ दिग्गज्यानाम् | २ घटवाहिका दासी, तस्या जार |
| ३ जलाश्रु चन्द्रम्, पक्षे,-जडाशुभ् | ३ देवाङ्गनाम् |
| ४ सूर्यस्य | ४ भूमे |
| ५ ख्यापयसि | ५ गत |
| ६ मत्त | ६ गलिता |
| ७ ब्राह्मादिभि | ७ जलमध्ये |
| ८ निबिडधनाच्छादित | |
| ९ अन्तरिक्षम् | |
| १० भिन्ना |
२४६ सुभाषितरत्नभाण्डागारम् [ ५ प्रकरणम्
सुवर्णम्
अग्निदाहे न मे दुःखं छेदे न निकषे न वा । यत्तदेव
महद्दुःखं गुञ्जया सह तोलनम् ॥ १८ ॥
नैवै ताडनात्तापनाद्वह्निमध्ये न वै विक्रयात्क्लिश्यमानोऽहमस्मि । सुवर्णस्य मे
मुख्यदुःखं तदेकं यतो मा जना गुञ्जया तोलयन्ति ॥ १९ ॥
मौक्तिकम्
अत्यच्छेनाविशुद्धेन सुवृत्तेनातिचारुणा । अन्तर्भिन्नेन
सप्तारं मौक्तिकेनेव निवन्धनम् ॥ २० ॥
हृदये कुरु सञ्चयं गुणानां यदि रे वाञ्छसि नासिके निवासम् । इति मौक्तिक ते वदामि
नूनं गुणहीनो नहि नासिके विभाति ॥ २१ ॥
रत्नाकर परित्यक्ता वसति किमन्यदङ्गीकृतं कठिनवेध्नदुःखम् । वक्षोजकुम्भ-
परिरम्भणलोलुपैन किं किं न तेन विहितं बत मौक्तिकेने ॥ २२ ॥
सुवर्णकारः
हे हेमकार परदुःखविचारमूढ किं मां मुहुः क्षिपसि
वाग्शतानि वह्नौ । मद्दीष्यते मयि सुवर्णगुणातिरेको लाभः
परं तव मुखे खलु भस्मपातः ॥ २३ ॥
हारः
मुक्ताङ्गारं गुणीभूय नोपसर्प समेखला । निर्भवे यस्य
काठिन्यं व्यर्थं तदुपमर्पणम् ॥ २४ ॥
गुणवतस्तव हार न युज्यते परकलत्रकुचेषु विलुष्ठनम् । स्पृशति शीतकरो
जघनस्थलीमुचितमस्ति तदैव कलङ्किनः ॥ २५ ॥
सद्वृत्तसद्गुणविचित्तमहार्हकान्ते कान्ताघनस्तनतटाञ्चितचारुमूर्ते ।
आ पामरीकठिनकण्ठविलम्नभङ्गो हा हार हारितमहो भवता
गुणित्वम् ॥ २६ ॥
दीर्णोऽसि चेत्कनकसूत्रनिवेशन्याय मुक्ताकलाप किमतो भवतो विषादः । यत्पद्मवाणजयमङ्गलहेमकुम्भ-
कुम्भस्तनीस्तनतटे भवितानुरूपः ॥ २७ ॥
अन्येऽपि सन्ति कति नो गुणिनो जगत्त्या हार त्वमेव गुणिनामुपरि स्थितोऽसि ।
एणीदृशामुरसि नित्यमवस्थितस्य मद्वृत्तता च शुचिता च न
खण्डिता यत् ॥ २८ ॥
येनाकारि महीभृतामविरलं कण्ठेषु लीलायितं येन प्रापि सरोजसुन्दरदृशां तुङ्गस्तनालिङ्गनम् ।
जात येन गजेन्द्रगण्डपुलिने माथारण गुञ्जया मुक्तादाम
तदेव पामरपुरे नावाप का वा दशाम् ॥ २९ ॥
कञ्चुकः
श्रीमत्ता कथय कञ्चुक पूर्वं कानि कानि सुकृतानि
कृतानि । जन्म यापयसि येन समस्तं हारगुह्यहृदये
हरिणाक्ष्या ॥ ३० ॥
कुण्डलम्
यत्पूर्व पवनाग्निशुष्कमलिश्रेणी तपो दुष्करं तस्यैतत्फल-
मीदृशं परिणतं यज्जातरूपं वपुः । मुग्धापाण्डुकपोलचुम्बनसुखं
सङ्गश्च रत्नोत्तमैः प्राप्तः कुण्डल वाञ्छसे किमपरं यन्मूढ
दोलायसे ॥ ३१ ॥
नासाभूषणम्
हारस्यातिदुर्गपमस्ति भुवने हे नासिकाभूषण त्व-
त्तो भाग्यमिति प्रतीहि वनितावक्रेन्दु कान्तिप्रद । यत्कान्तातनु-
सङ्गमाय सहते मोऽन्तर्विभेदव्यथा सा नासा पुटभेदनादपि
भवन्मज्ञं यतो वाञ्छति ॥ ३२ ॥
वलयः
गुणानामज्ञानादनुभवतु तावत्प्रतिपदं मुहुर्बाहुच्छेद-
व्यतिकरमसो स्वर्णवलयः । अपि ज्ञाते तत्त्वे तव गुणसमुद्रस्य
पुरतः समं गुञ्जापुञ्जैस्तुलनमभिलज्जाकरमिदम् ॥ ३३ ॥
रङ्गः
हे रङ्ग हेमतुलया तुलितोऽसि नित्यं मानं जहीहि किमु
पश्यसि नो विशेषम् । स्वर्णे सरत्नघटितं नृपशेखरेषु त्वं
पापं पामरवधूचरणेषु लीनः ॥ ३४ ॥
वीणादण्डः
यदेतत्कामिन्या सुरतविरतौ पल्लवरुचा करेणानीतस्त्वं
वमसि मह हारेण गुणिना । मुहुः कुर्वन्गीतं कुचकलश-
पीठोपरि लुठन्नये वीणादण्ड प्रकटय फलं कस्य तपसः ॥ ३५ ॥
मुरली
माववस्य सुरली सुखलया रागमावहत्तु किंतु वयसे ।
वशजाहमिति मास्तु सगर्वा या बिभर्षि बहुशो विवराणि ॥ ३६ ॥
परिपीड्य करद्वयेन गाढं परपुंसा परिचुम्बिताननापि । मुरली
महनीयवंशजाता मुहुराक्रन्दममन्दमातनोति ॥ ३७ ॥
कुविन्दः
भ्रात्राम्म्यकुविन्द कन्दलयता वस्त्रान्यमूनि त्वया गोणी-
विभ्रमभाजनानि सुबहुन्यात्मा किमायास्यते । किं त्वेकं
रुचिरं चिरादभिनवं वासस्तदासून्यता यन्नोज्झन्ति
कुचस्थत्राक्षणमपि क्षोणीभुजा वल्लभाः ॥ ३८ ॥
लाङ्गलिकः
रे लाङ्गलिक निष्द्याक्रोडे लोहं पुरा यदद्राक्षीः ।
स्वर्गस्पर्शविशेषात्तदखिलमजनिष्ट हेम नृपयोग्यम् ॥ ३९ ॥
कर्णधारः
दुर्गा नदी शिथिलबन्धविडम्बिनी नौरभ्युन्नता जलमुचो
विषमः समीरः । आरूढवान्निजकुटुम्बयुतोऽध्वनीनस्तत्कर्ण-
धार कुरु यत्सदृशं कुलस्य ॥ ४० ॥
जीर्णा तरिः सरिदेषा च गभीरनीरा नक्राकुला वहति वायुरतिप्रचण्डः । तार्याः स्त्रियश्च
शिशवश्च तथैव वृद्धास्तत्कर्णधारभुजयोर्बलमाश्रयामः ॥ ४१ ॥
तैलिकः
अमी तिलास्तैलिक नूनमेता स्नेहादवस्थां भवतो-
पनीताः । द्वेष्योऽभविष्यद्यदमीषु नूनं तदा न जाने
किमिवाकरिष्यः ॥ ४२ ॥
पञ्जरलावकः
भ्रातः पञ्जरलावक मा कुरु संतोपमन्यनिधनेन ।
प्रातस्तवेव धातुः स्वामित्वं किं न जानासि ॥ ४३ ॥
व्याधः
एको विश्वसता हैराम्यपघृणः प्राणानह प्राणिनामित्येवं
परिचिन्त्य मा स्वमनसि व्याधानुतापं कृथाः ।
पादटिप्पण्यः :
१ सूत्रवन्, पक्षे,-गुणयुक्तस्य
२ चन्द्र
३ कलङ्कयुक्तस्य
४ सोवर्णं च
१ गुणयुक्तेन
२ स्पर्शो मणिविशेष
३ निष्करुण
संकीर्णान्योक्तयः २४७
भूपाना भवनेषु किंच विमलक्षेत्रेषु गूढागया साधूनामभयो
वसन्ति कति नो त्वत्तुल्यकक्षा खलाः ॥ ४४ ॥
सर्वोद्वेगकर मृगादनममु सत्यज्य हा धिक्त्वया लोकस्या-
नपकारिणं गिरिनदीतीराटवीनिर्घृतम् । अश्रान्तं तृणमेण-
शावमदयं व्याध श्तामुं वृथा देवो दुर्बलघातकोऽयमिति
सा गाथा यथार्थीकृता ॥ ४५ ॥
विषमन्त्री
भेकेने॑ कणता सरोपपरुषं यत्कृष्णसर्पानने दातु
कर्णचपेटमुज्झितभिया हस्त समुल्लासित । यच्चाधोमुख-
मक्षिणी विदधता नागेन तूष्णी स्थित तत्मर्व विषमन्त्रिणो
भगवत कस्यापि लीलायितम् ॥ ४६ ॥
मालाकार.
तोयैरल्पैरपि करुणया भीमभानौ निदाघे मालाकार
व्यरचि भवता या तरोरस्य पुष्टि । सा कि शक्या
जनयितुमिह प्रावृषेण्येन वाग धारासारानपि विकिरता
विश्वतो वारिदेन ॥ ४७ ॥
कायस्थः
विप्रेभ्य. साधुदानं रिपुजनसुहृदा चोपकारानुकुरु त्व
मौजज्यं बन्धुवर्गे निजहितमुचितं स्वामिकार्यं यथार्थम् ।
श्रोत्रे ते तथ्यमेतत्कथयति मततं लेखनी भाग्यशालिन्रो
चेन्नष्टेऽधिकारे मम मुखसदृश तावकास्य भवेद्धि ॥ ४८ ॥
कवि.
कस्त्वं भो. कविरस्मि तत्किमु सखे क्षीणोऽस्यनाहागतो
धिग्देश गुणिनोऽपि दुर्मतिरिय देश न मामेव विक् ।
पाकार्थी क्षुधितो यदैव विदधे पाकाय बुद्धि तदा विन्ध्ये
नेन्धनमम्बुधौ न सलिलं नान्त्र धरित्रीतले ॥ ४९ ॥
वालाः
ये शिरसा निहिता अपि न भवन्ति सखे समान-
सुखदु.खाः । चिकुरा इव ते बाला एव जरापाण्डु-
भावेऽपि ॥ ५० ॥
शैलूष
वंश प्राशुरसौ घुणव्रणमयो जीर्णा वर्ग्त्रा इमा कीला
कुण्ठतया विशन्ति न महीमाहन्यमाना अपि । आगेह-
व्यवसायसाहसमिद शैलूष सत्यज्यता दूरं श्रीनिकटे
कृतान्तमहिषग्रैवेयघण्टारव ॥ ५१ ॥
कुशीलवाः
मौलि स्वर्णकिरीटकान्तिरुचिर केयूरमव्यौ भुजा
त्वद्गत्याः किल कञ्चकिप्रभृतयो देवेति विज्ञाप्यसे । इत्थ
कल्पनया कुशीलव नृपाहकारदार्था वृथा नृत्यान्ते भवतो
भविष्यति मसीमात्रावशेषं वपु ॥ ५२ ॥
वाला
स्रग्दाम मूर्धनि निवेहि गवेधुकाना गुञ्जामयीमुग्सि
धारय हारयष्टिम् । बाले कलावति चिर पतितासि पल्लो
तल्लौहमन्यदपि भूषणमेषणीयम् ॥ ५३ ॥
पल्लीपतिपुत्री
एतन्मन्दविपक्वतिन्दुकफलश्यामोदरापाण्डुरप्रान्तं हन्त
पुलिन्दसुन्दरकरस्पर्शक्षमं लक्ष्यते । नात्पल्लीपतिपुत्रि कुञ्जर-
कुरु कुम्भाभयाभ्यर्थनादीनं त्वामनुनाथते कुचयुग पत्रावृत
मा कृथा ॥ ५४ ॥
पान्थ
न यत्र गुणवत्पात्रमेकमप्यास्ति मन्त्रिणो । कस्तत्र भवतः
पान्थ कृपाम्बुग्रहणाग्रह ॥ ५५ ॥ वापी कापि कदापि न
श्रुतचरी को वेद कीदृक्सरो व्योमाम्भोजवनीत्र चात्र तटिनी
केर्नाम विज्ञायते । अहो पान्थ दुगन्तमाहमभग्नेऽत्रागत चेन्मन्गे
मण्डूकाकुलपङ्कसङ्करजलाद्वैन्वो. केवन्व पित्र ॥ ५६ ॥
कस्तूरिका
अयि त्यक्तामि कस्तूरि पामगै पङ्कगङ्कया । अल
खेदेन भूपाला कि न मन्ति महींतले ॥ ५७ ॥ यद्यपि
देवालब्ध्वा कस्तूरीभूमिग्य भूरितग्म् । नेया किममौं तदपि
हि शौचौथ जानता पुमा ॥ ५८ ॥ दुर्ललपल्लीपतिपुत्रहस्ते
कस्तूरि कस्त वढ दुर्विपाक । आग्म्य सोरम्यकथामु
मौन मालिन्यमात्र वचमोऽवकाश ॥ ५९ ॥ अयि चत
गुरुगर्व मा स्म कस्तूरि यासीरभिलपरिमलाना मालिना
मौरभेण । गिरिगहनगुहाया लीनमत्यन्तदीनं म्वजनक-
ममुनैव प्राणहीनं करोषि ॥ ६० ॥ जन्मस्थान न खलु
विमल वर्णनीयो न वर्णो दूरे पुमा वपुषि रचना पङ्कशङ्का
करोति । यद्यप्येव सकलगुम्रिद्रव्यगर्वापहारी को जानीते
परिमलगुण कोऽपि कस्तूरिकायाः ॥ ६१ ॥
दीप
रक्ष पात्रगतं स्नेहं प्रदीप प्रविर्वधनम् । प्रयास्यन्ति
विना तेन भमान्त यद्भवदृणा ॥ ६२ ॥ बहिरतिनिर्मलरूप
वहन्तन् दीप ढवना जगति । अवगतमचिगदान्तरमाज्ज्वल्य
कज्जलोद्गार ॥ ६३ ॥ न मणेरिनोऽधिक्या भा ना मृदुता
न प्रकाशममता वा । अचिरम्विनिर्गिति दीपो न हि
बहुमूल्योऽभवत्वाय ॥ ६४ ॥ या कान्ति वहसि पग
प्रदीप मद्र स्वीयायाविति हृदि मा स्म मन्यथास्त्वम्। सस्नेहे
त्वयि निशि भानुनाहितामौ नेव चेदहनि सति क्व वा
गता सा ॥ ६५ ॥ प्रदीप किमु कुप्यसि प्रलयमारुतप्रज्वल-
त्प्रभापटलपाटलप्रकटपावकव्यक्तये । त्वमङ्ग किमु कामिनी-
पादटिप्पण्यः (Footnotes):
(वामभागः)
१ मण्डूकेन २ निर्भयेन ३ काष्ठकीट ४ हस्तिकक्षस्य रज्जु, गजमध्यंवा वा
(दक्षिणभागः)
१ कूपात् २ जलम् ३ हस्तपादादिक्षालनाधम् ४ श्री शोभा
२४८ सुभाषितरत्नभाण्डागारम् [ ५ प्रकरणम्
कुचतटीपटीपल्लवप्रकम्पनपरिस्फुरत्स्वेदनलेशपारं गतः ॥ ६६ ॥
रे रे दीप तिरस्कृताखिलतमःस्तोमारिवर्गस्य ते रात्रौ
गूढनिजाङ्गपातिशलभाघातेन किं पौरुषम् । तत्कर्माचर येन
तावदयशो भूयात्प्रभाते पुनर्न स्नेहो न च सा दशा नहि परं
ज्योतिः परं स्वास्यति ॥ ६७ ॥
तुला
गुरुषु मिलितेषु शिरसा प्रणमसि लघुषून्नता समेषु समा ।
उचितज्ञासि तुले किं तुलयसि गुञ्जाफलैः कनकम् ॥ ६८ ॥
प्राप्य प्रमाणपदवीं को नामास्ते तुलेऽवलेपस्ते । नयसि
गरिष्ठमधस्तात्तदितरमुच्चैस्तरां कुरुषे ॥ ६९ ॥
कुम्भः
दृढतरगलकनिबन्धः कूपनिपातोऽपि कलश ते धन्यः ।
यज्जीवनदानैस्त्वं तृषामर्षं नृणां हरसि ॥ ७० ॥
श्लाघ्यं नीरसंकाष्ठताडनशतं श्लाघ्यं प्रचण्डातपक्लेशं श्लाघ्यतरं
सुपक्वनिचये श्लाघ्योऽतिदाहानलः । यत्कान्ताकुचपार्श्व-
बाहुलतिकाहिन्दोलीलीलासुखं लब्धं कुम्भवर्य त्वया नहि
सुखं दुःखैर्विना लभ्यते ॥ ७१ ॥
कलशः
भ्रातः काञ्चनलेपगोपितबहिस्ताम्राकृते सर्वतो मा भैषीः कलश. स्थिरो भव चिरं देवालयस्योपरि । ताम्रत्वं गतमेव काञ्चनमयी कीर्तिः स्थिरा तेऽधुना नान्तस्तत्त्वविचारण-प्रणयिनो लोका बहिर्बुद्धयः ॥ ७२ ॥
दुग्धम्
को हि तुलामधिरोहति शुचिना दुग्धेन सहजमधुरेण ।
तप्तं विकृतं मथितं तथापि यत्स्नेहमुद्धिरति ॥ ७३ ॥
बडिशदण्डः
यत्सङ्गुणोऽपि सरलोऽपि तटस्थितोऽपि वंशोद्भवोऽपि
विदधासि नृशंसकर्म । वक्रात्मनो बडिशदण्ड तदेव तस्य
जानामि संगतिफलं तव कण्टकस्य ॥ ७४ ॥
शरः
कोटिद्वयस्य लाभेऽपि नतं सदृशजं धनुः । असदृश्यः शर
स्तब्धो लक्षलाभाभिकाङ्क्षया ॥ ७५ ॥
लम्पाकः
प्रागल्भ्यं प्रथयन् यशो विशदयन्घाटीं मुखे योजयन्भूपानां
कलयन्कथा विरचयन्हस्ताङ्गुलीः स्फोटयन् । दानं
पल्लवयन्गुणं द्विगुणयन्नेत्राञ्चलं घूर्णयंर्लम्पाकः सविधं समेत्य
सुदृशा किं नाम नो भाषते ॥ ७६ ॥
खलः
किमहं वदामि खल दिव्यमतं गुणपक्षपातमभितो भवतः ।
गुणशालिनो निखिलसाधुजनान्यदहर्निशं न खलु विस्म-
रसि ॥ ७७ ॥
कण्टकः
सुमुखोऽपि सुवृत्तोऽपि सन्मार्गपतितोऽपि सन् । सतां
वै पादलग्नोऽपि व्यथयत्येव कण्टकः ॥ ७८ ॥
कालकूटम्
नन्वाश्रयस्थितिरियं तव कालकूट केनोत्तरोत्तरविशिष्टै-
र्पदोपदिष्टा । प्रागर्णवस्य हृदये वृषलक्ष्मणोऽथ कण्ठेऽधुना
वससि वाचि पुनः खलानाम् ॥ ७९ ॥
जिह्वा
द्वात्रिंशद्दशनश्रेणिमध्ये भ्रमसि नित्यशः । तदिदं शिक्षितं
केन जिह्वे संचारकौशलम् ॥ ८० ॥
नन्दनवनम्
स्वर्लोकस्य शिखामणिः सुरतरोर्धामस्य धामाद्भुतं पौलोमी-
पुरुहूतयोः परिणतिः पुण्यावलीनामसि । सत्यं नन्दन किन्त्विदं
सहृदयैर्नित्यं विधिः प्रार्थ्यते त्वत्तश्च खाण्डवरङ्गतण्डवनटो
दूरऽस्तु वैश्वानरः ॥ ८१ ॥
वसन्तः
धूमायिता दश दिशो दलितारविन्दा देहं दहन्ति दहना
इव गन्धवाहाः । त्वामन्तरेण मृदुताम्रदलाग्रमञ्जुगुञ्जन्मधुव्रत
मधो किल कोकिलस्य ॥ ८२ ॥
मुसलः
जगति विदितमेतत्काष्ठमेवासि नूनं तदपि च किल सत्यं
कानने वर्धितोऽसि । नवकुवलयनेत्रापाणिसङ्गोत्सवेऽस्मिन्मुसल
किसलयं ते तत्क्षणाद्यन्न जातम् ॥ ८३ ॥
संकीर्णाः
गतास्ते दिवसा यत्र ह्यवज्ञा कल्पशाखिनाम् ।
औदुम्बरफलेभ्योऽपि स्पृहयामोऽद्य जीवितुम् ॥ ८४ ॥
नौका वै भजते तावद्यावत्पारं न गच्छति । उत्तीर्णे तु
नदीपारे नौकायाः किं प्रयोजनम् ॥ ८५ ॥ एका
भूरुभयोरेक्यमुभयोर्दलकाण्डयोः । शालिश्यामाकयोर्भेदं
फलेन परिचीयते ॥ ८६ ॥ कौस्तुभमुरसि मुरारेः शिरसि
शशी द्योतते पुरजयिनः । ननु जन्मना नु जलधे-
र्जन्मतुरियतीं गतिं पश्य ॥ ८७ ॥ साधो कुण्डलघटना-
परिश्रमादलमतिद्विकर्णा पू । वसति दिगम्बरनगरे रजक-
श्चतुराऽपि किं कुरुते ॥ ८८ ॥ शतपदी सति पादशते
क्षमा यदि न गोष्पदमप्यतिवर्तितुम् । किमियता द्विपदस्य
हनुमतो जलनिधेः क्रमणे विवदामहे ॥ ८९ ॥ हे मल्लि
हे मालति हे लवङ्गि न तादृशी कापि भवादृशीनाम् ।
क्षणं समाधाय मधुव्रतं या विस्मारयेदम्बुजिनीवियोगम्
पादटिप्पण्यः :
१ काञ्चनलेपेन गोपिता बाह्या ताम्राकृतिर्यस्य २ लम्पटो धूर्तो वा
१ आश्रयो निवासस्तत्र स्थिति २ उत्कृष्टम् ३ स्थानम् ४ अभ्यन्तरे ५ सदाशिवस्य ६ दन्ता ७ अवमान ८ कल्पवृक्षाणाम्
संकीर्णान्योक्तयः २४९
॥ ९० ॥ यः कुन्तपानिरिह भूप इति प्रसिद्धो भूखण्ड-
मात्रविभवः परसेवकश्च । तस्यात्मज. सततमिच्छति राजशब्दं
क्रीडे जगज्जननि हन्त निराश्रयासि ॥ ९१ ॥ इन्द्रो
यमोऽसि वरुणोऽसि हुताशनोऽसि ब्रह्मा हरो हरिरसीत्य-
सकृद्यदुक्तिः । भूपालमौलिमणिरञ्जितपादपीठ तस्यानृतस्य
फलमिन्धनमुद्वहामि ॥ ९२ ॥ आः सर्वत. स्फुरतु कैरवमा-
पिबन्तु ज्योत्स्नाकरम्भमुदरंभरयश्चकोरा. । यातो यदेष
चरमाचलमूलचुम्बी पङ्केरुहप्रकरजागरणप्रदीप. ॥ ९३ ॥
खरनखरविमुक्ता रक्तरक्ताश्च मुक्ता परिणतबदराणा
विश्रमेणोपगृह्य । सपदि सरसि धौता. प्रत्यभिज्ञाय मुक्ता
इति किरति किराती हन्त कान्तार एव ॥ ९४ ॥ अब्धे-
रम्भ स्थगितभुवनाभोगपातालकुक्षे पोतोपाया इह हि
बहवो लङ्घनेऽपि क्षमन्ते । आहो रिक्त कथमपि भवेदेष
दैवात्तदानी को नाम स्याद्वटकुहरालोकनेऽप्यस्य कल्प.
॥ ९५ ॥ इयत्येतस्मिन्वा निरवधिचमत्कृत्यतिशये वराहो
वा राहुः प्रभवति चमत्कारविषयः । महीमेको मग्ना यद-
यमवहद्दन्तमुसलै. शिर.शेष शत्रुं निगिलति पर सत्यजति
च ॥ ९६ ॥ श्रुत्वा कुम्भसमुद्भवेन मुनिना किचित्तदा-
त्याहितं सिन्धावन्धुकुटुम्बदर्दुरकुल हर्षादिद ध्यायति ।
गाम्भीर्याद्यदि ते न बिभ्यति न वा त्रस्यन्ति भेकी-
शिशोरत्रागत्य सुखं वसन्तु तिमयो जातानुकम्पा वयम्
॥ ९७ ॥ वक्रा नैष तनूविवर्तनगति गृह्णाति साचिस्मित-
^१ कूपनिवासिभेकसमूह
स्मेरैर्गण्डवलैनैरैमुष्य न मनाक्चेतः परावर्तते । हस्ते त्व
मुनिदारकस्य पतिता कल्याणि तन्नीयता वेदीमार्जनबर्हिरर्पण-
वषट्कर्तव्यपाकैर्वय ॥ ९८ ॥ सन्त्यन्येऽपि बृहस्पति-
प्रभृतय. सभाविताः पञ्चषास्तान्प्रत्येष विशेषविक्रमरुची
राहुर्न वैरायते । द्वावेव ग्रसते दिनेश्वरनिशाप्राणेश्वरौ
भासुरौ भ्रात. पर्वनि पश्य दानवपति. शीर्षावशेषीकृत.
॥ ९९ ॥ वीणाप्येकगुणेन राजरमणीनीरन्ध्रपीनस्तनद्वन्द्वे
खेलति शुष्कदारुनिचया नि.सारतुम्बीफला । चञ्चत्या-
र्विंकशर्वरीपरिवृढप्रौढप्रथाभासुर मुक्ताजातमपीह निर्गुण-
तया योग्य न सभाव्यते ॥ १०० ॥ तृष्णालोलविलोचने
कलयति प्राची चकोरीगणे मोनं मुञ्चति कि च कैरवकुले
कामे धनुर्धुन्वति । माने मानवतीजनस्य सपदि प्रस्थातु-
कामेऽधुना धातः कि नु विधौ विधातुमुचितो धाराधरा-
डम्बर. ॥ १०१ ॥ कस्मै हन्त फलाय सज्जनगुणग्रामार्जने
सज्जसि स्वात्मोपस्करणाय चेन्मम वचः पथ्यं समाकर्णय । ये
भावा हृदयं हरन्ति नितग शोभाभरैः सम्भृतास्तैरेवास्य कलेः
कलेवरपुषो दैनदिनं वर्धनम् ॥ १०२ ॥ मर्यादानिलयो
महोदधिरयं रत्नाकरो निश्चितः सर्वाशापरिपूरकोऽनुगमितः
सपत्तिहेतोर्मया । शम्बूकोऽपि न लभ्यते किमपर रत्न महार्घ
पर दोषोऽयं न महोदधेः फलमिद जन्मान्तरीय मम ॥१०३॥
एक. कर्णमहीपति. प्रतिदिनं लक्षाधिका याचकाः कस्मै कि
वितरिष्यतीति मनसा चिन्ता वृथा मा कृथा. । आस्ते किं
प्रतियाचकं सुरतरुः प्रत्यम्बुजं कि रविश्चन्द्र कि प्रतिकैरवं
प्रतिलतागुल्म किमम्भोधरः ॥ १०४ ॥
इति श्रीसुभाषितरत्नभाण्डागारे पञ्चममन्योक्तिप्रकरणं समाप्तम् ।
३२ सु. र. भां
षष्ठं नवरसप्रकरणम्
शृङ्गाररसनिर्देशः
मनसिजप्रशंसा
अनङ्गेनावलासङ्गाज्जिता येन जगत्त्रयी । स चित्रचरित कामः सर्वकामप्रदोऽस्तु व ॥ १ ॥ एक वस्तु द्विधा कर्तु बहवः सन्ति धन्विन । धन्वी स मार एवैको द्वयोरैक्य करोति यः ॥ २ ॥ न कठोर न वा तीक्ष्णमायुधं पुष्प-धन्वनः । तथापि जितमेवासीदमुना भुवनत्रयम् ॥ ३ ॥ स एकस्त्रीणि जयति जगन्ति कुसुमायुधः । हरतापि तनुं यस्य शभुना न हृतं बलम् ॥ ४ ॥ कर्पूर इव दग्धोऽपि शक्तिमान्यो जने जने । नमोऽस्त्ववार्यवीर्याय तस्मै मकर-केतवे ॥ ५ ॥ बाणेष्वारोप्य गुणान्विधाय चापं वियोगि-नीनयने । स्वयमतनुर्जगदेतज्जयति सुमास्त्रो विचित्र-धामुष्कः ॥ ६ ॥ सपदमतरललम्भामनन्यसामान्यवहलदर्प-निधेः । पुष्णातु चित्तयोनेरघटितघटनापटीयसी विमुता ॥ ७ ॥ याभिरनङ्ग साङ्गीकृत. स्त्रियोऽस्त्रीकृताश्च ता येन । वामाचरणप्रवणौ प्रणमत तौ कामिनीकामौ ॥ ८ ॥ जयति मनसिज सुखैकहेतुर्मिथुनकुलस्य वियोगिना कठोरः । वपुषि यदिषुपतवारणार्थं वहति वधू शशिखण्डमण्डनोऽपि ॥ ९ ॥ चेतोभुवश्चापवति प्रसङ्गे का वा कथा मानुष-लोकभाजाम् । हर्तु. पुरामप्यलिकेक्षणस्य तथाविध पौरुष-मर्धमासीत् ॥ १० ॥ शिव शिव हि शिवेन पुष्पधन्वा ²प्रलयनटेन किमित्यै³कारि भस्म । स हि पुनरु⁴दितश्छ⁵लाय लोके स तु मणिमन्त्रमहौषधैरै⁶साध्य. ॥ ११ ॥ शभुस्वर्य-सुहरयो हॅ⁷रिणेक्षणानां येनाक्रियन्त सततं गृहकर्मदासाः । वाचामगोचरचरित्रविचित्रिताय तस्मै नमो भगवते कुसु-मायुधाय ॥ १२ ॥ वक्षःस्थलीवदनवामशरीरभागैः पुष्यन्ति यस्य विमुता पुरुषास्त्रयोऽपि । सोऽयं जगत्रितयजित्वर-चापधारी मारः परान्नप्रहरतीति न विस्मयाय ॥ १३॥ ⁹स्तो-कास्त्रमाधनवता भवता ¹¹मैनोज ¹²स्वैर जगज्जितमनङ्ग-तयापि सर्वम् । स्वाच्छेद्दान्वबहुशरः प्रतिलब्धगात्र. कुर्या-
१ 'शृङ्गारवीरकरुणाद्भुतहास्यभयानका । वीभत्सरौद्रशान्ताश्च नवधा कीर्तिता रसा ।।' २ प्रलयकालिको नर्तक शिव इति यावत् ३ कृत ४ उत्पन्न ५ छल कर्तुम् ६ अचिकित्स्य ७ स्त्रीणाम् ८ गृह-कर्मकरा दासा ९ मदनाय १० अल्पानि ११ मदन १२ स्वेच्छया
स्ततो यदपि कर्म कियन्न जाने ॥ १४ ॥ हारो जलाद्रं वसनं नलिनीदलानि प्रालेयशीकरमुचस्तुहिनांशुभासः । यस्येन्धनानि सरसानि च चन्दनानि निर्वाणमेष्यति कथं स मनोभवाग्नि. ॥ १५ ॥ कुलगुरुर्बलाना केलिदीक्षाप्रदाने परमसुहृदनङ्गो रोहिणीवल्लभस्य । अपि ¹कॅसुमपृष्टकैर्देव-देवस्य जेता जयति सुरतलीलानाटकौसूत्रधार ॥ १६ ॥ ²हृदयतृणकुटीरे दीप्यमाने खराग्नावुचितमनुचित वा वेत्ति कः पण्डितोऽपि । किमु कुवलयनेत्रा. सन्ति नो नाकनार्य-स्त्रि³दँशपतिरहल्या तापसी यन्निषेवे ॥ १७ ॥ न गम्यो मन्त्राणा न च भवति भेषज्यविषयो न चापि ⁵प्रैध्वस व्रजति विविधैः शान्तिकशतै. । भ्रमावेशादङ्गे किमपि विदधद्द्रङ्ग-मसमं ⁶खॅरापस्कारोऽय भ्रमयति दृश घूर्णयति च ॥ १८ ॥ कान्तेत्युत्पललोचनेति विपुलश्रोणीभरेत्यूल्लसत्पीनोत्तुङ्गपयो-धरेति सुमुखावम्भोजेति सुभ्रूरिति । दृष्ट्वा माद्यति मोदते-ऽभिरमते प्रस्तौति विद्वानपि प्रत्यक्षाशुचिपूत्रिका स्त्रियमहो कामस्य दुश्चेष्टितम् ॥ १९ ॥ चन्द्रे शीतलयत्यलीकनयन शभो. सुधाशीकरैर्विश्वञ्चाप्यकुलयत्सु सयमधनान्कान्ता-दृगन्तेषु च । लीलायै परमेश्ववं धनुरिपून्बिभ्रत्प्रसूनात्मन. स्वच्छन्दं रतिवल्लभो विजयते त्रैलोक्यवीर. स्मर. ॥ २० ॥ इक्षुर्धन्व शराः प्रसूनविततिर्भृङ्गावली सिञ्जिनी यस्याज्ञा-वशवर्तिनः प्रमनसो निर्विष्टराष्टादय. । यद्वाणाभिहता विरञ्चिमुरजिन्मृत्युंजयेन्द्रादयो व्यासाशेषमखा इव त्रिभुवन पायादजेयः स्मर. ॥ २१ ॥ प्रासादीयति वैष्णवादिगहनं, दीपीयति द्वाक्तमः पर्यङ्कीयति भूतल दृषदपि श्लक्ष्णोपधा-नीयति । कस्तूरीयति कर्दम. किमपर यूनो रसाविष्टयोर्येना-लोकितयो. स वन्द्यमहिमा देवो नमस्य. स्मर. ॥ २२ ॥
स्त्रीप्रशंसा
दशा दग्धं ⁷मॅन्सिजं ⁸जीवयन्ति दृशैव या. । विरूपाक्षस्य जयिनीस्ताः स्तुवे वामलोचना. ॥ १ ॥ न हर्यैनै च मातङ्गेन रथेन च पत्तिभिः । स्त्रीणामपाङ्गदृष्ट्यैव जीयते जगता त्रयम् ॥ २ ॥ सोम. शौचं ददौ तासा गन्धर्वाश्च शुभा गिरम् ।
१ पुष्पबाण २ हृदयमेव तृणगृहम् ३ इन्द्र ४ औषधोपायमाध्य ५ नाशम् ६ रोगविशेष ७ कामम् ८ जीवन्त कुर्वन्ति ९ शिवस्य
स्त्रीप्रशंसा २५१
अग्निः सर्वाङ्गकान्तिस्त्वं तस्मान्निष्कसमाः स्त्रियः ॥ ३ ॥ स्त्रियः
पवित्रमतुलं नैता दुष्यन्ति कर्हिचित् । मासि मासि रजो
यासा दुष्कृतान्यपकर्षति ॥ ४ ॥ अमृतस्येव कुण्डानि
रत्नानामिव राशयः । रतेरिव निधानानि निर्मिताः केन
योषितः ॥ ५ ॥ प्राणाना च प्रियायाश्च मूढाः सादृश्य-
कारिणः । प्रिया कण्ठगता रत्यै प्राणा मरणहेतवः ॥ ६ ॥
अकृत्रिमप्रेमरसा विलासालसगामिनी । असारे दग्धसंसारे
सार सारङ्गलोचना ॥ ७ ॥ हरिणप्रेक्षणा यत्र गृहिणी न
विलोक्यते । सेवितं सर्वसंपद्भिरपि तद्भवन वनम् ॥ ८ ॥
यासामञ्चलवातेन दीपो निर्वाणता गतः । तासामालिङ्गने
पुसा नरके पतनं कुत ॥ ९ ॥ नामृत न विषं किचि-
देका मुक्त्वा नितम्बिनीम् । यस्या सङ्गेन जीव्येत म्रियेत
च वियोगत. ॥ १० ॥ यासा नाक्षापि कामः स्यात्सगम
दर्शनं विना । तासा दृक्सगमं प्राप्य यन्न द्रवति कौतुकम्
॥ ११ ॥ यावद्दृष्टिर्मृगाक्षीणा नो नरीनर्ति भङ्गुरा ।
तावज्ज्ञानवता चित्ते विवेक. कुरुते पदम् ॥ १२ ॥ समा-
श्लिष्टाः समाश्लेषैश्चुम्बिताश्चुम्बनैरपि । दष्टाश्च दशनैः कान्तं
दासीकुर्वन्ति योषित. ॥ १३ ॥ ज्योत्स्नेव नयनानन्द-
सैरेव मदकारणम् । प्रभुतेव समाकृष्टसर्वलोका नितम्बिनी
॥ १४ ॥ कार्पासकृतकूर्पासशतैरपि न शाम्यति । शीतं
शातोदरीपीनवक्षोजालिङ्गनं विना ॥ १५ ॥ सपन्न रमणी
शीलसपन्नरमणी विना । इत्युढवान्नरमणी रमणीं रुक्मिणी
हरिः ॥ १६ ॥ पादसंवाहने वै³ज्री केशसमार्जने फ⁴णी ।
अहो भाग्यं पुरन्ध्रीणा दधिसन्मन्थने र⁵वि ॥ १७ ॥ प्रम-
वति मनसि विवेको विदुषामपि शास्त्रसभवस्तावत् ।
निपतन्ति दृष्टिविशिखा यावन्नेन्दीवराक्षीणाम् ॥ १८ ॥ सन्तु
विलोकनभाषणविलासपरिहासकेलिपरिरम्भाः । स्मरणमपि
कामिनीनामलमहि मनसो विकाराय ॥ १९ ॥ ह्लादनता-
पनशक्ती सहजे स्तः सुभ्रुवा कटाक्षेषु । तत्राद्या प्रबला
स्यान्नेदीयस्त्वे परा दवीयस्त्वे ॥ २० ॥ अवलोकनमपि
सुखयति कुवलयदलचारुचपलनयनायाः । कि पुनरमृत-
समान सरभसमालिङ्गन तस्याः ॥ २१ ॥ व्रीडावेलारुद्ध
सागरसलिलमिव योषिता हृदयम् । रागेन्दुरुदयमानो भूयो
भूयस्तरङ्गयति ॥ २२ ॥ आदानपानलेपैः काश्चिद्रोगोप-
तापहारिण्य. । पुरत. स्थितेव सिद्धौषधिवल्ली कापि
जीवयति ॥ २३ ॥ उपनिषद. प६रं७पीता गीतापि च हन्त
मतिपथ नीता । तदपि न हा विधुवदना मानससदनाद्व-
हिर्याति ॥ २४ ॥ यस्य न सविधे दयिता दवदहनस्तुहिन-
दीधितिस्तस्य । यस्य च सविधे दयिता दवदहनस्तुहिनदीधि-
तिस्तस्य ॥ २५ ॥ यत्र पतत्यबलाना दृष्टिनिशिता पतन्ति
तत्र शराः । तच्चापरोपितशरो धावत्यासा पुर. स्मरो मन्ये
॥ २६ ॥ स्वपरप्रतारकोऽसौ निन्दति योऽलीकपण्डितो
युवतीः । यक्षात्तपसोऽपि फलं स्वर्ग स्वर्गेऽपि योषितोऽप्स-
रस ॥ २७ ॥ अ¹ङ्कुश कुचयो कृश व²लभे वितत
चक्षुषि विस्तृत नितम्बे । अरुणाधरमाविरस्तु चित्ते करुणा-
शालिक³पालिभागवेयम् ॥ २८ ॥ अधरे नववीटिका-
त्तुगगो नयने कजलम⁴ञ्ध्वलं दुकूलम् । इदमभरण नित-
म्बिनीनामितरद्भूषणमङ्गदूषणाय ॥ २९ ॥ रत्नानि विभूष-
यन्ति योषा भूष्यन्ते वनिता न रत्नकान्त्या । चेतो वनिता
हरन्त्यरत्ना नो रत्नानि विनाङ्गनाङ्गसङ्गात् ॥ ३० ॥ ताव-
देव विदुषा विवेकिनी बुद्धिरस्ति भवबन्धभेदिनी । यावदि-
न्दुवदना न कामिनी वीक्षिता रहसि हसगामिनी ॥ ३१ ॥
तरुणिमनि कृतावलोकना ललितविलासविहब्धविग्रहा ।
स्मरशरविसराचित्तान्तरा मृगनयना हरते मुनेर्मन. ॥ ३२ ॥
तावदेव कृतिना हृदि स्फुरत्येष निर्मलविवेकदीपक. ।
यावदेव न कुरङ्गचक्षुषा ताड्यते चपललोचनाञ्चलै. ॥३३॥
मेये धरित्र्या पुरजव सार पुरे गृहं सद्मनि चैकदेश. ।
तत्रापि शय्या शयने वरा स्त्री रत्नोज्ज्वला राज्यसुखस्य
सार.॥ ३४ ॥ आस्यं स⁵हास नयनं स⁶लासं सिन्दूरबिन्दूद्य-
शोभि भालम् । नवा च वेणी हरिणीदृशश्चेदन्यैरगण्यैरपि
भूषणैः किम् ॥ ३५ ॥ मात्सर्यमुत्सार्य विचार्य कार्यमार्या.
समर्यादमिदं वदन्तु । सेव्या नितम्बा. किमु भूधराणामुत
स्मरस्मेरविलासिनीनाम् ॥ ३६ ॥ स्मितेन भावेन च लज्जया
भिया पराङ्मुखैरर्धेकटाक्षवीक्षणै । वचोभिरीर्ष्याकलहेन
लीलया समस्तभावैः खलु बन्धनं स्त्रियः ॥ ३७ ॥ अवि-
श्वसन्धूर्तधुरंधरोऽपि नरः पुरन्ध्रीपुरतोऽन्ध एव । अशेष-
शिक्षाकुशलोऽपि काकः प्रतार्यते कि न पिका¹⁰ङ्गनाभिः
॥ ३८ ॥ उडुराजमुखी मृगराजकटिर्गजराजविराजितमन्द-
गतिः । यदि सा वनिता हृदये निहिता क जप. क तप.
क समाधिरतिः ॥ ३९ ॥ तदाखण्डलशा महीमण्डलाशा
तथा भोगिभोगानुरागं त्यजामः । मनःक्षोभदक्षात्कृपातः
कटाक्षान्कुरगेक्षणाश्चेत्क्षणं पातयन्ति ॥ ४० ॥ भ्रूचातुर्या-
त्कुञ्चिताक्षाः कटाक्षाः स्निग्धा वाचो लज्जिताश्चैव हासा. ।
लीलामन्दं प्रस्थितं च स्थितं च स्त्रीणामेतद्भूषणं चायुधं
पादटिप्पण्यः
१ सुवर्णमुद्गा २ मधमिव ३ पादस्थमलनिर्हरणार्थं कृतो भर्जितैष्टकाखण्डो वज्रीति लोके कथ्यते, पक्षे,-इन्द्र ४ दन्तपत्रिका, पक्षे,-शेष ५ मन्था, पक्षे,-सूर्य ६ ब्रह्मप्रतिपादकाश्रुतिशिरोभागा ७ अभ्यस्ता
१ स्थूलम् २ मध्ये ३ ह्रस्व ४ स्वच्छम् ५ मुखम् ६ हासयुक्तम् ७ भयेन ८ प्रणयकोपेन ९ वञ्च्यते १० कोकिलाभि
२५२ सुभाषितरत्नभाण्डागारम् [ ६ प्रकरणम्
च ॥ ४१ ॥ नूनं हि ते कविवरा विपरीतबोधा ये नित्य- माहुरबला इति कामिनीस्ताः । याभिर्विलोलतरतारकदृष्टि- पातैः शक्रादयोऽपि विजितास्त्वबला कथं ताः ॥ ४२ ॥ नान्दीपदानि रतिनाटकविभ्रमाणामाद्याक्षराणि परमाण्य- थवा स्मरस्य । दृष्टेऽधरे प्रणयिना विधुताग्रपाणेः सीत्कार- शुष्करुदितानि जयन्ति नार्याः ॥ ४३ ॥ अलमतिचपल- त्वात्स्वप्नमायोपमत्वात्परिणतिविरसत्वात्सङ्गमेनाङ्गनायाः । इति यदि शतकृत्वस्तत्त्वमालोचयामस्तदपि न हरिणाक्षीं विस्मरत्यन्तरात्मा ॥ ४४ ॥ द्रुतं यस्यालोकाद्विरहिजन- शोकापनयनं यदङ्के सानन्दं नयनमरविन्दं विह्रति । न यस्यापैति श्रीः कचनचयराहोरपि पुरः समे खेदं रामा- वदनहिमधामा शमयतु ॥ ४५ ॥ श्रुतं दृष्टं स्पृष्टं स्मृत- मपि नृणां ह्लादननं न रत्नं स्त्रीभ्योऽन्यत्क्वचिदपि कृतं लोकपतिना । तदर्थं धर्मार्थौ विभववरसौख्यानि च ततो गृहे लक्ष्म्यो मान्याः सततमबला मानविभवैः ॥ ४६ ॥ ललाटे कस्तूरीतिलकमबला. कजलरुचि दृशोः कर्णद्वन्द्वे विमलमणिताटङ्कयुगलम् । गले मुक्तामाला शुचि वसनमङ्गे च सततं वशीकर्तुं विश्वं दधति खलु बाह्योपकरणम् ॥ ४७ ॥ भवन्तो वेदान्तप्रणिहितधियामत्र गुरवो विद- ग्ध्वालापाना वयमपि कवीनामनुचराः । तथायेतद्रूमो न हि परहितात्पुण्यमधिकं न चास्मिन्संसारे कुवलयदृशो रम्यमपरम् ॥ ४८ ॥ विमुञ्चति बुधो जनः सुकृतचिन्तनं दूरतो जहाति च मुनिस्तपस्यजति धीरता शकरः । विधिर्भवति चञ्चलस्त्रिजगतीपतिः क्षुभ्यति क्षणं कुटिलदृष्टयो यदि पतन्ति वामभ्रुवः ॥ ४९ ॥ अमृतममृतं कः संदेहो मधुन्यपि नान्यथा मधुरमधिकं चूतस्यापि प्रसन्नरस फलम् । सकृदपि पुनर्मध्यस्थः सन्त्सान्तरविज्नो वदतु यदिहान्य- त्स्वादु स्यात्प्रियारदनच्छदात् ॥ ५० ॥ वचसि भवति सङ्गत्यागमुद्दिश्य वार्ता श्रुतिमुखरमुखाना केवल पण्डि- तानाम् । जघनमरुणारत्नग्रन्थिकाञ्चीकलापं कुवलयनयनाना को विहातुं समर्थः ॥ ५१ ॥ किमिह बहुभिरुक्तैर्युक्ति- शून्यैः प्रलापैर्द्वयमिह पुरुषाणा सर्वदा सेवनीयम् । अभि- नवमदलीलालालस सुन्दरीणा स्तनभरपरिखिन्न यौवनं वा वनं वा ॥ ५२ ॥ यासा सत्यपि सद्गुणानुसरणे दोषानुरागो भृशं याः प्राणान्यरमर्पयन्ति न पुनः सम्पूर्णदृष्टि प्रिये । अत्यन्ताभिमतेऽपि वस्तुनि विधिर्यासा निषेधात्मकस्तत्त- त्केलिषु दक्षिणा अपि सदा वामा जयन्त्येव ताः ॥ ५३ ॥ स्त्रीमुद्रा कुसुमायुधस्य परमा सर्वार्थसंपत्करीं ये मूढाः प्रवि- हाय यान्ति कुधियो मिथ्याफलान्वेषिणः । ते तेनैव
निहत्य निर्दयतर नग्नीकृता मुण्डिताः केचिद्रक्तपटीकृताश्च जटिलाः कापालिकाश्चापरे ॥ ५४ ॥ द्रष्टव्येषु किमुत्तमं मृगदृशः प्रेमप्रसन्नं सुखं घ्रातव्येष्वपि किं तदास्यपवनः श्राव्येषु कि तद्वचः । कि स्वाद्येषु तदोष्ठपल्लवरसः स्पृश्येषु किं तद्वपुर्ध्येयं कि नवयौवने सहृदयैः सर्वत्र तद्विभ्रमः ॥ ५५ ॥ यत्रैता लहरीचलाचलदृशो व्यापारयन्ति ध्रुव यत्त- त्रैव पतन्ति सततसमी मर्मस्पृशो मार्गणाः । तच्चक्रीकृत- चापमञ्चितशरप्रेङ्खत्करः क्रोधनो धावत्यग्रत एव शासनधरः सत्यं सदासा स्मर ॥ ५६ ॥ विश्वामित्रपराशरप्रभृतयो वाताम्बुपर्णाशनास्तेऽपि स्त्रीमुखपङ्कजं सुललितं दृष्ट्वैव मोहं गताः । शाल्यन्न सघृतं पयोदधियुत ये भुञ्जते मानवास्ते- षामिन्द्रियनिग्रहो यदि भवेद्विन्ध्यस्तरेत्सागरे ॥ ५७ ॥ आलोलैरुपगम्यते मधुकरी केशेषु माल्यग्रहः कान्ति कापि कपोलयो प्रथयते ताम्बूलमन्तर्गतम् । अङ्गानामनुलेपनं परि- मलैरालेपनप्रक्रिया वेष कोऽपि सरोजसुन्दरदृशः सूते सुख चक्षुषो ॥ ५८ ॥ सद्ग्रलस्फारहारा भयवरदकरा स्रस्तध- म्मिद्धभारा मूलाधाराधिकारा निगमनिधिधरा काव्यकोटि- प्रचारा । ससारानल्पकारा सदनमयहरा चिद्दनैकावतारा तारा शृङ्गारधारा मनसि वसतु ते सर्वदा सर्वसारा ॥ ५९ ॥ ससारेऽस्मिन्सारे परिणतितरले द्वे गती पण्डिताना तत्त्वज्ञानामृताम्भःपुलकितमनसा यातु कालः कदाचित् । नो चेन्मुग्धाङ्गनाना स्तनजघनभराभोगसमोगिनीना स्थूलो- पस्थस्थलीषु स्थगितकरतलस्पर्शलोभोद्यतानाम् ॥ ६० ॥ ससारेऽस्मिन्सारे कुनृपतिभवनद्वारसेवाकलङ्कव्यासङ्गव्यस्त- वैर्यं कथममलधियो मानस सविदध्युः । यद्येताः प्रोद्यदि- न्दुद्युतिनिचयमृत्तो न स्युरम्भोजनेत्राः प्रेङ्खत्काञ्चीकलापा- स्तनभरविनमन्मध्यभागास्तरुणयः ॥ ६१ ॥
युववर्णनम्
अधारि पद्मेषु तदङ्घ्रिणा घृणा क्व तल्लक्ष्यच्छायालयवोऽपि पल्लवे । तदास्यदासेऽपि गतोऽधिकारिता न शारद पार्विकशर्वरीश्वरः ॥ १ ॥ किमस्य रोम्णा कपटेन कोटिभि- र्विधिर्न लेखाभिग्जीगणद्गुणान् । न रोमकूपौघमिषाज्जग- त्कृता कृताश्च कि दूषणशून्यबिन्दवः ॥ २ ॥ अमुष्य दोर्भ्यामरिदुर्गलुण्ठने ध्रुवं गृहीतार्गलदीर्घपीनता । उरःश्रिया तत्र च गोपुरस्फुरत्कपाटदुर्धर्षतिर प्रसारिता ॥ ३ ॥ स्वकेलिलेशक्षितनिन्दितेन्दुन्नो निजाशदृक्तर्जितपद्मसपदः । अतद्द्वयीजित्वरसुन्दरान्तरे न तन्मुखस्य प्रतिमा चराचरे ॥ ४ ॥ सरोरुहं तस्य दृशैव तर्जितं जिताः क्षितेनैव विधोरपि श्रियः । कुत पर भव्यमहो महीयसी तदाननस्यो-
१ मुखचन्द्र
युववर्णनम्, बालावर्णनम् २५३
पमितौ दरिद्रता ॥ ५ ॥ खबालभारस्य तदुत्तमाङ्गजैः समं चमयैंव तुलाभिलाषतः । अनागसे शंसति बालचापलं पुनः पुनः पुच्छविलोलोनच्छलात् ॥ ६ ॥ निमीलनअ्रश- जुषा दृशा भृशं निपीय तं यन्निदशीभिरर्जितम् । अमृतम- भ्यासमर विवृण्वते निमेषैर्निःस्वैरधुनापि लोचनैः ॥ ७ ॥ विलोकयन्तीभिरजस्रभावमाबलादमु तत्र निमीलनेष्वपि । अलम्भि मर्त्याभिरमुष्य दर्शने न विग्नलेशोऽपि निमेष- निर्मितः ॥ ८ ॥ न का निशि खमगतं ददर्श तं जगाद गोत्रस्खलिते च का न तम् । तदात्मताध्यातथवा रते च का चकार वा न खमनोभवोद्भवम् ॥ ९ ॥
बालावर्णनम्
अभ्यासः कर्मणा सम्यगुत्पादयति कौशलम् । विधिना तावदभ्यस्त यावत्सृष्टा मृगेक्षणा ॥ १ ॥ न देवकन्यका नापि गन्धर्वकुलसम्भवा । तथाप्येषा तपोभङ्गं विधातुं वेधसोऽप्यलम् ॥ २ ॥ इयं व्याधायते बाला भ्रूरस्याः कार्मु- कायते । कटाक्षाश्च शरायन्ते मनो मे हरिणायते ॥ ३ ॥ मनोऽपि शङ्कमानाभिर्बालाभिरुपजीव्यते । अपडक्षीणषाड्गुण्य- मन्त्री मकरकेतनः ॥ ४ ॥ अतन्द्रचन्द्राभरणा समुद्दी- पितमन्मथा । तारकातरला श्यामा सानन्दं न करोति कम् ॥ ५ ॥ निर्माणकौशल धातुश्चन्द्रिका लोकचक्षुषाम् । क्रीडागृहमनङ्गस्य सेयमिन्दीवरेक्षणा ॥ ६ ॥ प्रेङ्खणप्रेक्ष- णालापान्कुर्वत्यः सस्मितत्रपम् । न वीणायाः प्रवीणायाः क्वङ्कनं स्वररञ्जनम् ॥ ७ ॥ दग्धो विधिर्विधत्ते न सर्व- गुणसुन्दरं जन कमपि । इत्यपवादभयादिव मुग्धाक्षी निर्मिता विधिना ॥ ८ ॥ मीनवती नयनाभ्यां चरणाभ्यामपि सुफुल्लकमलवत्ती । शैवालिनी च केशैः सुरसेयं सुन्दरी सरसी ॥ ९ ॥ अलिकुलमञ्जुलकेशी परिमलबहुला रसा- वहा तन्वी । किसलयपशेलपाणिः कोकिलकलभाषिणी प्रियतमा मे ॥ १० ॥ अमृत तदधरबिम्बे वचनेष्वमृतं विलोकनेऽप्यमृतम् । अमृतभृतौ कुचकुम्भौ सत्यं सा सृष्टि- रपरैव ॥ ११ ॥ स्तनकलशस्खलदम्बरसवरणव्यग्रपाणि- कमलायाः । निपतन्ति भाग्यभाजामुपरि कटाक्षाः सरो- जाक्ष्याः ॥ १२ ॥ कुङ्कुमपङ्केनाङ्कितदेहा गौरपयोधर- कम्पितहारा । नूपुरहंसरुतपदपद्मा कं न वशीकुरुते भुवि रामा ॥ १३ ॥ मन्दमन्दगमना करिणी कि वा विशाल- नयना हरिणी किम् । पूर्णचन्द्रवदना रजनी कि पश्य गच्छति सखे तरुणी किम् ॥ १४ ॥ उत्तुङ्गस्तनभरतान्त- तान्तमध्यं विश्लिष्यद्घनकचवान्तवान्तसूनम् । त्रान्ताजभ्रम- दलिभीतभीतनेत्रं मुग्धाक्षी मम धुरि मन्दमन्दमेति ॥ १५ ॥ उदयदुदयदीक्षणाय पत्युश्चपलदृशश्चपयानिरुध्यमानम् । मन इव कृपणस्य दानकाले कति न ततान गतागतानि चक्षुः ॥ १६ ॥ अदम्भा हि रम्भा विलक्षा च लक्ष्मी- घृताची हिया चीरसञ्छादिताक्षा । अहो जायते मन्द- वर्णाप्यपर्णा समाकर्ण्य तस्या गुणस्यैकदेशम् ॥ १७ ॥ एकान्तसुन्दरविधानजडः क वेधोः सर्वाङ्गकान्तिचतुरं क च रूपमस्याः । मन्ये महेश्वरभियान्मकरध्वजेन प्राणार्थिना युवतिरूपमिदं गृहीतम् ॥ १८ ॥ कि कौमुदीः शशिकलाः सकला विचूर्ण्य संयोज्य चामृतरसेन पुनः प्रयत्नात् । कामस्य घोरहरहुंकृतिदग्धमूर्तेः सजीवनौषधिरियं विहिता विधात्रा ॥ १९ ॥ नेदं मुखं मृगवियुक्तशशाङ्कबिम्ब नेमौ स्तनावमृतपूरितहेमकुम्भौ । नैवालकावलिरिय मदनास्त्र- शाला नैवेदमक्षियुगलं निगँडं हि यूनाम् ॥ २० ॥ चित्ते निवेश्य परिकल्पितसत्वयोगान रूपोच्चयेन विधिना विहिता कृशाङ्गी । स्त्रीरत्नसृष्टिरपरा प्रतिभाति सा मे धातुर्विभुत्व- मनुचिन्त्य वपुश्च तस्याः ॥ २१ ॥ चन्द्रो जडः कदलि- काण्डमकाण्डशीतमन्दीवराणि च विमुद्रितविभ्रमाणि । येनाक्रियन्त सुतनोः स कथं विधाता किं चन्द्रिका क्वचि- दशारतुरुचिः प्रसूते ॥ २२ ॥ निर्मुक्तशैशवदशाशिशिरा नवीनसम्प्राप्तयौवनवसन्तमनोरमश्रीः । उन्मीलितस्तननवस्त- बका निकाममेणीदृशस्तनुलता तनुते मुदं नः ॥ २३ ॥ नीलोत्पलोल्लसितखञ्जनमञ्जुनेत्रा संपूर्णशारदसुधाकरकान्त- वक्त्रा । बाला जगत्त्रितयमोहनदिव्यमूर्तिर्मन्ये विभाति जगति सरवीरकीर्तिः ॥ २४ ॥ एता स्खलद्वलयसङ्कति- मेखलोत्थझङ्कारनूपुररवाहृतराजहंसाः । कुर्वन्ति कस्य न मनो विवशं तरुण्यो विश्वस्तमुग्धहरिणीसदृशः कटाक्षैः ॥ २५ ॥ एषा भविष्यति विनिद्रसरोरुहाक्षी कामस्य कापि दयिता तनुजाऽनुजा वा । यः पश्यति क्षणमिमां कथमन्यथासौ कामस्तमस्तकरुणस्तरुण हिनस्ति ॥ २६ ॥ अँपाङ्गतारले दृशौ तरलवक्रवर्णा गिरो विलोँसभरमन्थरा गतिरतीव कान्तं मुखम् । इति स्फुरितमङ्गके मृगदृशा खतो लीलया तदत्र न महोदयः कूँतपदोऽपि सलक्ष्यते ॥ २७ ॥ दृशः पृथुतरीकृता जितनिजाब्जपत्रत्विषश्चतुर्भिरपि साधु साध्विति मुखैः सम व्याहृतम् । शिरसि चलितानि विस्मयवशाद्ध्रुव वेधसो विधाय ललना जगत्त्रय ललामभूता- मिमाम् ॥ २८ ॥ क्वचित्सभ्रूभङ्गैः क्वचिदपि च लज्जापरि- णतैः क्वचिद्गीतित्रस्तैः क्वचिदपि च लीलाविलसितैः ।
१ निर्निमेषै १ ब्रह्मा २ स्त्रीरूपम् ३ शृङ्खला ४ नेत्रप्रान्तचञ्चले. ५ विलासभरेण मन्थरा मन्दा गति ६ कृतस्थिति,
| २५४ | सुभाषितरत्नभाण्डागारम् | [ ६ प्रकरणम् |

नवोढानामेभिर्वदनकमलैर्नेत्रचलितैः स्फुरल्लीलालीनाः प्रचुरपरिपूर्णा इव दृशः ॥ २९ ॥ अमुष्या लावण्यं मृदुलमृदुलानप्यवयवान्मनोलौल्यं धातुः करकठिनतां मे विमृशति । पदं चित्ते धत्ते मतिरिव पुरा पङ्कजभुवा ध्रुवं कल्याणीयैः कलितसुकृतैरेव रचिता ॥ ३० ॥ समीचीना चीनांशुकपरिवृताङ्गी प्रविलसत्कुचापीना हीना जघनघनभागेऽब्जवदना । न दीना दीनान्तःकलितमदना सेयमधुना नवीना मीनाक्षी व्यथयति मुनीनामपि मनः ॥ ३१ ॥ स्फुरन्नानारत्नारुणितवसना वृत्तमसृणस्तनापीना मत्ता तरलजघना हंसगमना । स्मराधीनासीना कविहृदि जिताशेषललना नवीना मीनाक्षी व्यथयति मुनीनामपि मनः ॥ ३२ ॥ उदासीनालीनामपि वचसि लीना तनुत्वमत्रपाधीना दीनालपनपदवीनायकमधुता । कवीनामासीना हृदि कुमुदिनीनाथवदना नवीना मीनाक्षी व्यथयति मुनीनामपि मनः ॥ ३३ ॥ निलीना वेश्मान्तः कथमपि सखीनामभिहितैः कृताधीना हीनाकृतिरपि मतीनामविषया । कवीनामञ्चत्वं झषयति विपीना तनुतया नवीना मीनाक्षी व्यथयति मुनीनामपि मनः ॥ ३४ ॥ कुचाभ्यां माद्यन्ती विजितलकुचाभ्यां युवमनो हरन्ती बिब्बोकैः सरसि विहरन्ती मधुरगीः । तरुण्या लावण्यं किमपि विदधानाङ्गविधौ नवीना मीनाक्षी व्यथयति मुनीनामपि मनः ॥ ३५ ॥ अमलमृणालकाण्डकमनीयकपोलरुचेस्तरसलीनलिनलिनप्रतिफुल्लदृशः । विकसदशोकशोणकरकान्तिभृतः सुतनोर्मृदुललितानि हन्त ललितानि हरन्ति मनः ॥ ३६ ॥ किमिन्दुः किं पद्मं किमु मुकुरबिम्बं किमु मुखं किमब्जे किं मीनौ किमु मदनबाणौ किमु दृशौ । खगौ वा गुच्छौ वा कनककलशौ वा किमु कुचौ तडिद्वा तारा वा कनकलतिका वा किमबला ॥ ३७ ॥ तनुस्पर्शादस्या दरमुकुलिते हन्त नयने मुहुः पक्ष्मोत्तानं व्रजति जडतामङ्गमखिलम् । कपोलौ घर्माद्रौ ध्रुवमुपरताशेषविषयं मनः सान्द्रानन्दं स्पृशति झटिति ब्रह्म परमम् ॥ ३८ ॥ मधुरवचनैः सभ्रूभङ्गैः कृताङ्गुलितर्जनैरनलसविलितैरङ्गन्यासैर्महोत्सवबन्धुभिः । असकृदसकृत्स्फारस्फारैरपाङ्गविलोकितेस्त्रिभुवनजये सा पञ्चेषोः करोति सहायताम् ॥ ३९ ॥ कर्पूरेण स्थलविरचना कुङ्कुमेनालवालं माध्वीकानि प्रतिदिनपयः पञ्चबाणः कृपाणः^(२) । तत्रोत्पन्ना यदि किल भवेत्काञ्चनी कापि वल्ली सा चेदस्याः किमपि लभते सुभ्रुवः सौकुमार्यम् ॥ ४० ॥ लावण्यामृतदीर्घिका कुलगृहं सौन्दर्यसौभाग्ययोस्त्रैलोक्याभरत्नकन्दलिरियं जीव्यात्सहस्रं समाः । रूपालोकनकौतुकेन बहुना शिल्पश्रमेणादरान्मन्वे या विधिना विहाय विहितं सृष्टेरूर्ध्वजारोपणम् ॥ ४१ ॥
अस्याः सर्गविधौ प्रजापतिरभूच्चन्द्रो नु कान्तिप्रदः शृङ्गारैकरसः स्वयं नु मदनो मासो नु पुष्पाकरः । वेदाभ्यासजडः कथं नु विषयव्यावृत्तकौतूहलो निर्मातुं प्रभवेन्मनोहरमिदं रूपं पुराणो मुनिः ॥ ४२ ॥ वक्त्रं चन्द्रविकासि पङ्कजपरीहासक्षमं लोचने वर्णः स्वर्णमपाकरिष्णुरलिनीजिष्णुः कचानां चयः । वक्षोजाविभकुम्भविभ्रमहरौ गुर्वी नितम्बस्थली वाचां हारि च मार्दवं युवतियु स्वा स्वाभाविकं मण्डनम् ॥ ४३ ॥ अस्याश्चेद्धृतिसौकुमार्यमधुना ह्रस्वस्य गर्वः गलत्सं^(६)लापो यदि धार्यतां परभृतैर्वाचंयमत्व^(७)व्रतम् । अङ्गानामकठोरता यदि दृषत्प्रायैव^(८) सा मालती कान्तिश्चेत्कमला^(९) किमत्र बहुना कौषाय^(१०)मालम्बताम् ॥ ४४ ॥ निर्मातुं^(११) सुदतीं मखजो^(१२) विरचिते वक्त्रे शशिभ्रान्तितः क्रोडीभूतनिजाम्बुजासन^(१३)मधिष्ठातुं न शक्तो विधिः । मध्यं विस्मृतवान्कुचौ च कठिनौ पीनौ नितम्बौ काञ्चनकान्तिमंतित्वान्मतिः स्फुरति हि स्वस्थे नृणां चेतसि ॥ ४५ ॥ सौन्दर्यस्य तरङ्गिणी तरुणिमोत्कर्षस्य हर्षोद्गमः कान्तेः कार्मुणकर्म नर्मरहसामुल्लासनावासभूः । विद्या वक्रगिरां विधेरनविप्रावीण्य^(१४)साक्षान्क्रिया बाणाः पञ्चशिलीमुखस्य ललनाचूडामणिः सा प्रिया ॥ ४६ ॥ दृष्टिः सालसतां बिभर्ति न शिशुक्रीडासु बद्धादरा श्रोत्रे प्रेषयति प्रवर्तितसखीसम्भोगवार्तास्वपि । पुंसामङ्गमपेतसङ्गमधुना नारोहति प्राग्यथा बाला नूतनयौवनव्यतिकरावष्टभ्यमाना शनैः ॥ ४७ ॥ आयाति श्रियमञ्जसा नयनयोरम्भोरुहप्रेयसी सनाहः स्तनयोरयं कलयते संभोगयोग्यां दशाम् । वैदग्ध्येन सहासिका वितनुते वाचामियं प्रक्रिया मुग्धायाः पुनरिन्दवी न सहते मुख्यामभिख्यां मुखम् ॥ ४८ ॥
वयःसंधिवर्णनम्
यथा यथा विगलत्यस्या हृदये हृदह्येश्वरः । तथा तथा बहिर्यातौ मन्ये संकोचतः कुचौ ॥ १ ॥
अन्तरङ्गमनङ्गस्य शृङ्गारकुलदैवतम् । अङ्गीकरोति तन्वङ्गी सा विलासमय वयः ॥ २ ॥
अन्येयं रूपसंपत्तिरन्या वैदग्ध्य^(१५)धोरणी । नैषा नलिनपत्राक्षी सृष्टिः साधारणी विधेः ॥ ३ ॥
अनायासकृशं मध्यमशङ्कतरले दृशौ । अभूषणमनोहारि वपुर्वयसि सुश्रुवः ॥ ४ ॥
दृश्यं दशा सहस्रैर्मनसामयुतैर्विभावनीयं^(१६) च । सुकृतशतकोटिभोग्यं किमपि वयः सुभ्रुवो जयति ॥ ५ ॥
१ उत्पत्तिविधाने २ जीर्णे ३ तुष्टं कुर्वन् ४ जयशील ५ मनोहरम् ६ मिथो भाषणम् ७ मौनव्रतम् ८ पाषाणरूपा ९ लक्ष्मी १० काषायवस्त्रम् ११ निर्मातुमिच्छु १२ ब्रह्मा १३ मुकुलीभूतस्वकीयकमलासनम् १४ चातुर्यम् १५ परिपाटी १६ ध्येयम्
अथ वयःसंधिवर्णनम्
२५५
न्यञ्चति वयसि प्रथमे समुद्भवति तरुणिमनि सुदृशः । दधति स्म मधुरिमाणं वाचो गतयश्च विभ्रमाश्च भृशम् ॥ ६ ॥
यदवधि विलासभवनं यौवनमुदियाय चन्द्रवदनायाः । दहनं विनैव तदवधि यूनां हृदयानि दह्यन्ते ॥ ७ ॥
अधर किसलयरागः कोमलविटपानुकारिणौ बाहू । कुसुममिव लोभनीयं यौवनमङ्गेषु संनद्धम् ॥ ८ ॥
मृदुलवलिललितमध्यं पृथुलकुचं चारु विपुलभूरुहधनम् । पुंनागस्पृहणीयं स्फुरति वनं यौवनं च नारीणाम् ॥ ९ ॥
सन्निभयोरमुष्या वयसोः पयसोरिवाङ्गेषु । अनयो रसद्विभेदं मानसजन्मा परं वेद ॥ १० ॥
स्तनतटमिदमुत्तुङ्गं निम्नो मध्यः समुन्नतं जघनम् । विषमे मृगशावाक्ष्या वपुषि नवे क इव न स्खलति ॥ ११ ॥
उद्यति तरुणिमतरणौ शैशवशशिनि प्रशान्तिमायाते । कुचचक्रवाकयुगलं तरुणीतन्व्या मिथो मिलति ॥ १२ ॥
अचलं चलदिव चक्षु प्रकृतमपीदं समुद्यदिव वक्षः । अतदिव तदपि शरीरं संप्रति वामभ्रुवो जयति ॥ १३ ॥
अयमङ्कुरभाव एव तावत्कुचयोः कर्षति लोकलोचनानि । इतरेतरपीडनीमवस्थां गतयोः श्रीरनयोः कथं भवित्री ॥ १४ ॥
परिहरति यथा यथा वयोऽस्याः स्फुरदुरु कन्दलशालिबालभावम् । द्रढयति धनुषस्तथा तथा ज्या स्पृशति शरानपि सज्जयन्यनोभू ॥ १५ ॥
निशितशरधियाऽर्पयत्यनङ्गो दृशि सुदृशः स्वबलं वयःसंराले । दिशि निपतति यत्र सा च तत्र व्यतिकरमेत्य समुन्मिषन्त्यवस्थाः ॥ १६ ॥
यथा यथाऽस्याः कुचयोः समुन्नतिस्तथा तथा लोचनमेति वक्रताम् । अहो सहन्ते बत नो परोदय निसर्गतोऽन्तर्मलिना ह्यसाधव ॥ १७ ॥
सम विलासोऽङ्कुरितः स्तनाभ्यां त्रपा विलासेन महावतीर्णा । अवर्ततान्यस्त्रपयैव साक कान्त प्रकारो वचसा कृशाङ्ग्या ॥ १८ ॥
उन्मीलितं तूलिकयेव चित्रं सूर्योशुभिर्भिन्नमिवारविन्दम् । बभूव तस्याश्चतुरस्रशोभि वपुर्विभक्तं नवयौवनेन ॥ १९ ॥
असम्भृत मण्डनमङ्गयष्टेरनासवाख्य करण मदस्य । कामस्य पुष्पव्यतिरिक्तमस्त्रं बाल्यात्पर मांधु वयः प्रपेदे ॥ २० ॥
आवृणोति यदि सा मृगीदृशी स्वेऽञ्चलेन कुचकाञ्चनाचलम् । भूय एव बहिरेति गौरवादुन्नतो न सहते तिरस्क्रियाम् ॥ २१ ॥
अत्युन्नतस्तनमुरो नयने सुदीर्घे वक्रे भ्रुवावतितरा वचनं ततोऽपि । मध्योऽधिकं तनुरनूनगुरुनितम्बौ मन्दा गतिः किमपि चाङ्गुतलोचनाया ॥ २२ ॥
भ्रूपल्लवो धनुरपाङ्गतराङ्गतानि बाणा गुणाः श्रवणपालिरिति स्मरेण । तस्यामनङ्गजयजगमदेवतायामस्त्राणि निर्जितजगन्ति किमर्पितानि ॥ २३ ॥
दृशोः सीमावादः श्रवणयुगलेन प्रतिकल स्तनाभ्यां संरुद्धे हृदि मनसिजस्तिष्ठति बलात् । नितम्ब साक्रन्दं क्षिपति रशनादाम परतः प्रवेशस्तन्वङ्ग्या वपुषि तरुणिम्नो विजयते ॥ २४ ॥
अनाघ्रातं पुष्पं किमलयमैलूनं कररुहैरैनाविद्ध रत्नं मधु नवमनास्वादितरसम् । अखण्डं पुण्याना फलमिव च तद्रूपमनघं न जाने भोक्तार कमिह समुपस्थास्यति विधिः ॥ २५ ॥
भ्रुवो काचिल्लीला परिणतिरपूर्वा नयनयोः स्तनाभोगो व्यक्तस्तरुणिमसमारम्भसमये । इदानी बालाया किममृतमय कि विषमयं. किमानन्द साक्षाद्धनितमधुर पञ्चमरवः ॥ २६ ॥
अनाकूतैरेव प्रियसहचरीणा शिशुतया वचोभिः पाञ्चालीमिथुनमधुना संगमयितुम् । उपादत्ते नो वा विरमति न वा केवलमिय कपोलौ कल्याणी पुलकमुकुलैर्हन्तुरयति ॥ २७ ॥
प्रगल्भानामन्तःप्रविशति शृणोति प्रिय कथा स्वयं तत्तच्चेष्टाशतमभिनयैर्व्यञ्जयति च । स्पृहामन्त कान्ते वहति न समभ्येति निकट यथैवेयं बाला हरति हि तथा चित्तमधिकम् ॥ २८ ॥
स्मित किञ्चिद्वक्रे सरलतरलो दृष्टिविभव परिस्पन्दो वाचामभिनवविलासोक्तिसरसः । गतीनामारम्भ किसलयितलीलापरिकर स्पृशन्त्यास्तारुण्य किमिह न हि रम्य मृगदृशः ॥ २९ ॥
इमे तारुण्यश्रीनवपरिमला प्रौढसुरतप्रतापप्राग्भ्भाः स्मरविजयदानप्रतिभुवः । चिर चेतश्चौरा अभिनवविकारैकरुचयो विलासंव्यापाग किमपि विजयन्ते मृगदृश ॥ ३० ॥
अपक्रान्ते बाल्ये तरुणिमनि चागन्तुमनसि प्रयाते मुग्धत्वे चतुरिमणि चाश्लेषरसिके । न केनापि स्पृष्ट यद्दिह वयमा मर्म परम यदेतत्तच्छ्वोजयति वपुरिन्दीवरदृशः ॥ ३१ ॥
तदात्वप्रोन्मीलन्मदिमरमणीया कठिनता विचित्य प्रत्यङ्गादिव तरुणभावेन घटिता । स्तनौ सबिभ्राणा क्षणविनयवैयत्यमसृणस्मरोन्मेषा केषामुपरि न रसाना युवतय ॥ ३२ ॥
न शील दृग्भङ्गी कलयति कुरङ्गीनयनयो कुचश्रा कर्कन्धूफलमपि न बन्धूकृतवती । सुधौया मत्रीचा न च वचनवीर्या परिचिता तथापि श्रीरस्या युवजननमम्या विजयत ॥ ३३ ॥
उद्वद्धवक्षोजद्वयनटमग्क्षोमितकटे मुग्धादृग्भ्या मन्दीकृतविलमदिन्दीवरयुगम् ।
पाद-टिप्पणी (Footnotes)
१ गच्छति मति
२ उदय प्राप
३ स्पृहणीयम्
४ सुदृढा या लव लित्र्यशं, प्रकृता ललितो मध्यभागो यस्य तत्, पक्षे,-मृदुला या वलयो वलित्रितय तेन ललितो मध्यो यस्मिन्
५ पृथन स्थूला लकुचा यस्मिन्, पक्षे,-पृथुला कुचौ यस्मिन्
६ सुन्दरम्
७ पुंनागा ये भूजा वृक्षास्तैर्धनं निविडम्, पक्षे,-विपुल भूउपा ते पुंषु लभुव एतादृशा जघना यस्मिंस्तत् तद्रूपदगव्यापकप्रदनामन्व
८ पुंनाग केसरवृक्ष स्पृहणीयम्, पक्षे,-पुरुषश्रेष्ठ स्पृहणीयम्
९ कुटिल अर्थाद्यावनरूपे
१० स्वस्वरूप
१ मन्द्रवम्
२ देवरूपतन्
३ स्वस्वरूप
२५६ सुभाषितरत्नभाण्डागारम् [ ६ प्रकरणम्
समुद्भ्रूभङ्गं प्रविहितधनुर्भङ्गमनिशं वयस्तत्पद्माक्ष्याः कथ- मिव मनो न व्यथयतु ॥ ३४ ॥ मुखं विकसितस्मितं वेशितवक्रिमप्रेक्षितं समुच्छलितविभ्रमा गतिरपास्तसंस्था मतिः । उरो मुकुलितस्तनं जघनमसबन्धोर्द्धुरं बतेन्दु- वदनातनौ तरुणिमोद्गमो मोदते ॥ ३५ ॥ न दन्तुरमुरःस्थलं वचसि नाश्रिता चातुरी विकारि न विलोकितं भ्रुवि न वक्रिमोपक्रमः । तथापि हरिणीदृशो वपुषि कापि कान्ति- च्छटा पट्टावृतमहामणिद्युतिरिवात्र सलक्ष्यते ॥ ३६ ॥ इदं परमसुन्दरं तनूपुरं कुरङ्गीदृशा निवार्य खलु शैशवं स्वय- मनेन नीतं बलात् । तदागमनशङ्कया मकरकेतुना किं कृतं पयोधरधराधरो त्रिवलिवाहिनीदुस्तरो ॥ ३७ ॥ स्थिर- त्वमचिरद्युतौ तमसि कोऽपि बन्धग्रहो विधौ किमपि सौरभं मधुनि कापि वर्णालता । शिरीषनवदामनि स्फुरति कोऽपि शैलोदयो वयोऽभिनववेधसस्तदिह मन्महे कौशलम् ॥ ३८ ॥ क्षणं सरलवीक्षणं क्षणमपाङ्गसवीक्षणं क्षणं रजसि खेलनं क्षणमतीव भूषादरः । क्षणं द्रुततरा गतिः क्षणमतीव मन्दा गतिः क्षणक्षणविलक्षणं जयति चेष्टितं सुभ्रुवः ॥ ३९ ॥ क्षोभं धत्ते यदतिबहलं स्निग्धलावण्यपूरः प्रत्यङ्गं यत्तटम- नुसरन्मूर्च्छयो विश्रमाणाम् । उन्मग्नं यत्स्फुरति च मना- क्कुम्भयोर्द्वन्द्वमेतत्तन्मन्येऽस्याः स्मरगजयुवा गाहते हृत्तडा- गम् ॥ ४० ॥ मन्दं मन्दं श्रवणपुतकोपान्तगन्ता दृगन्तः किंचित्किंचिद्विरमति मनो धूलिकेलीरसेभ्यः । आविर्भावः स्तनमुकुलयोः कापि कान्तिः समन्तादद्य श्वो वा कुसुम- धनुषो यौवराज्याभिषेकः ॥ ४१ ॥ सन्नद्धोऽद्य नवतरु- णिमा काममास्कन्दुकामो नैवा मुञ्चत्यहह सहसा कौतुकी बालभावः । तद्वैराज्यं वरतरतनुस्वर्णभूमौ प्रवृत्तं प्रायस्त्व- क्षादनुदिनमयं क्षीयते मध्यदेशः ॥ ४२ ॥ श्रोणीबन्धस्त्य- जति तनुतां सेव्यते मध्यभागः पद्ध्या मुक्तास्तरलग तयः सश्रिता लोचनाभ्याम् । धत्ते वक्षः कुचसचिवतामद्वितीयं तु वक्त्रं तद्गात्राणां गुणविनिमयः कल्पितो यौवनेन ॥ ४३ ॥ सभ्रूभङ्गं करकिसलयावर्तनैरालपन्ती सा पश्यन्ती ललित- ललितं लोचनस्याञ्चलेन । विन्यस्यन्ती चरणकमले लीलया स्वैरयातैर्नि सङ्गीतं प्रथमवयसा नर्तिता पङ्कजाक्षी ॥ ४४ ॥ दोलायां जघनस्थलेन चलता लोलेक्षणा लज्जते साशङ्कं तनुकण्टकक्षतभिया क्रीडावने क्रीडति । धत्ते दिक्षु निरी- क्षणं स्मितमुखी पारावतानां रुतैः सज्जं मौग्ध्यविसर्जनाय सुतनोः शृङ्गारमित्रं वयः ॥ ४५ ॥ वक्षस्यावरणोदरस्तन- युगोद्भेदं विनाप्यङ्गुलीमुद्रासूचितहास्यमास्यमधिकं नो पुत्रिकादौ रसः । तिर्यग्लोचनवीक्षितानि वचसा छेकोक्ति- सक्रान्तयस्तस्याः सीदति शैशवे संभवत्कोऽप्येष नव्यः क्रमः ॥ ४६ ॥ लावण्य्यामृतनिर्झरेण सुदृशः सिक्ताखिलाङ्गस्थली जातस्तत्र नवीनयौवनकलालीलालतामण्डपः । तस्मिन्वेष- विशेषशीतलतरच्छायासु सुसोत्थितः कदर्पखिजगजज्योद्यम- परोऽप्यद्यापि निद्रालसः ॥ ४७ ॥ बाल्ये गेहपतौ निमी- लति वयःसंधिं विधाय स्मरश्चौरश्चारुतरं विवेश निभृतं बालाशरीरालयम् । चाञ्चल्यं चरणे पृथुलमुदरे निर्लज्जता चेतसि क्षामत्वं हृदये दृशोः सरलता सर्वस्वमस्या हरन् ॥ ४८ ॥ एतस्या रतिवल्लभक्षितिपतेः क्रीडासरस्याः शनैः सशोषं नयतीव शैशवजलं तारुण्यतिग्मद्युतिः । अन्तःस्था च यथा यथा विकसति प्रायः कुचोच्चस्थली स्थौल्यं हन्त तथा तथा वितनुते दृक्पीनमौनावती ॥ ४९ ॥ रेखा काचन कज्जलस्य नयनाम्भोजे मिथः कौशलादालीभिः सर- लीकृतापि कुटिलीभावं समालम्बते । लक्ष्या वक्षसि पाणि- पद्मविषमस्पर्शादयादुन्नतिर्जानीमो वयमेणशावनयने बाल्यं न पाल्यं तव ॥ ५० ॥ मध्यस्य प्रथमानमेति जघनं वक्षो- जयोर्मन्दता दूरं यात्युदरं च रोमलतिका नेत्राजवं धावति । कंदर्पं परिवीक्ष्य नूतनमनोराज्याभिषिक्तं क्षणादङ्गानीव परस्परं विदधते निर्लुण्ठनं सुभ्रुवः ॥ ५१ ॥ दृष्टिः शैशव- मण्डना प्रतिकलं लावण्यमभ्यस्यते पूर्वांकारमुरस्तथापि कुचयोः शोभा नवामीहते । सप्रासा गुरुता तथाप्युपचिता- भोगा नितम्बस्थली तन्व्याः स्वीकृतमन्मथं विजयते तन्नेत्र- पेयं वयः ॥ ५२ ॥ तत्तस्याः कमनीयकान्ति विजित- त्रैलोक्यनारीवपुः शृङ्गारस्य निकेतनं समभवत्संसारसार- चयः । यस्मिन्विस्तृतपक्ष्मपालिचलनाः कामास दृष्यो नो यूनां पुनरुत्पतन्ति पतिताः पाशे शकुन्ता इव ॥ ५३ ॥ केलीकौतुकमादराच्छ्रवणयोरालीभिराश्राव्यते बालाभिस्तु पुरः पुरेव रजसि क्रीडार्थमाहूयते । चेतो याति न वा तत- स्तदुभयोरेणीदृशः साप्रतं मध्ये चुम्बकयोरयःशकलवन्निः- पक्षपातं मनः ॥ ५४ ॥ उत्तालालकमञ्जनानि कबरीपाशेषु शिक्षारसो दन्तानां परिकर्म नीविर्नहनं भ्रूखास्तयोग्याग्रहः । तिर्यग्लोचनचेष्टितानि वचसा छेकोक्तिसक्रान्तयः स्त्रीणां म्लायति शैशवे प्रतिकलं कोऽप्येष केलिक्रमः ॥ ५५ ॥ मौत्रा नर्तनपण्डितञ्जु वदनं किंचित्प्रगल्भे दृशौ स्लोकोद्भेद- निवेशिनस्तनमुरो मध्यं दरिद्राति च । अस्या यज्जघनं घनं च कलया प्रत्यङ्गमेणीदृशः सत्यंकारमिव स्मरैकसुहृदा तद्यौवनेनार्पितम् ॥ ५६ ॥ लावण्यामृतमाहितं वरतनोरङ्गे
१ स्वायत्तीकृतम् २ गमृद्धतं ३ नियतैकविषयता ४ उन्नतम् ५ उत्कर्षभागभवति ६ जघनबन्धं ७ सूक्ष्मताम् ८ चञ्चलगमनानि ९ विपर्ययं
१ बन्धनम् २ परिमाणे