सुभाषितरत्नभाण्डागार (पण्डित काशीनाथ शर्मा संग्रह)
Subhashita Ratna Bhandagara
पण्डित काशीनाथ शर्मा (सम्पादक: नारायण राम आचार्य) द्वारा
स्रोत: Subhashita Ratna Bhandagara (10,000+ Classic Sanskrit Epigrams & Maxims - Nirnaya Sagar Press) (उद्गम)
दूत्युपहासप्रश्नाः, नायिकां प्रति नायकावस्थाकथनम्, सूर्यास्तमनसमयवर्णनम् २९३
कस्स्नेग्दधः कथं नु कियच्चिर किमभिलिखित कि तेनोक्तं
कदा स इहैष्यति । इति बहुविधप्रेमालापप्रपञ्चितविस्तराः
प्रियतमकथाः स्वल्पेऽप्यर्थे प्रयान्ति न नष्टताम् ॥ ३ ॥
दूत्युपहासप्रश्नाः
पार्श्वीभ्या सप्रहाराभ्यामधरे व्रणखण्डिते । दूति सङ्ग्राम-
योग्यासि न योग्या दूतकर्मणि ॥ १ ॥ बहुनात्र किमुक्तेन
दूति मत्कार्यसिद्धये । स्वमासान्यपि दत्तानि वक्तव्येषु तु
का कथा ॥ २ ॥ किं त्वं निगूहसे दूति स्तनौ वक्र च
पाणिना । खण्डिता एव शोभन्ते शूराध्दरपयोधराः ॥ ३ ॥
त्व दूति निरगा. कुञ्जं न तु पापीयसो गृहम् । किशुका-
भरणं देहे दृश्यते कथमन्यथा ॥ ४ ॥ दूति त्वया कृत-
महो निखिल मदुक्तं न त्वादशी परहितप्रवणान्ति लोके ।
श्रान्तासि हन्त मृदुलाङ्गि गता मदर्थ सिध्यन्ति कुत्र सुकृ
तानि विना श्रमेण ॥ ५ ॥ रजन्यामप्यस्या सुरतपरिवृत्ताव-
नुचित मदीयं यद्वास. कथमपि हृतं तेन सुहृदा । त्वया
प्रत्यानीतं निजवसनदानात्पुनरिद कुतस्त्याहग्दूति स्खलित-
शमनोपायनिपुणा ॥ ६ ॥ निःशेषच्युतचन्दन स्तनतट
निर्मृष्टरागोऽधरो नेत्रे दूरमनञ्जने पुलकिता तन्वी तवेयं
तनुः । मिथ्यावादिनि दूति बान्धवजनस्याज्ञातपीडागमा
वापीं स्नातुमितो गतासि न पुनस्तस्याधमस्यान्तिकम् ॥ ७ ॥
दूतीदं नयनोत्पलद्वयमहो तान्तं नितान्तं तव खेदाम्भ.-
कणिका ललाटफलके मुक्ताश्रिय बिभ्रति । नि श्वासा.
प्रचुरीभवन्ति नितरा हा हन्त चन्द्रातपे यातायातवशाद्धथा
मम कृते श्रान्तासि कान्ताकृते ॥ ८ ॥ दूति श्वासविशेष
एष किमहो चण्डि त्वराधावनाद्धि भ्रष्टालकवल्लरी कथमहो
त्वन्नाथपाडार्पणात् । निर्मृष्टाधररागपल्लवरुचिस्त्वत्कार्यसज-
ल्पनाद्द्वास्तस्त्य किमङ्गसङ्गतमहो विश्वासहेतोस्तव ॥ ९ ॥
श्वास. किं त्वरिता गता पुलकिता कस्मात्प्रसाद. कृतः सस्ता
वेण्यपि पादयोर्निपतनान्नीवी गमादागमात् । स्वेदार्द्रं मुख-
मातपेन गलितं क्षामा किमित्युक्तिभिर्दुति म्लानसरोरुहा-
कृतिधरसौष्ठस्य किं वक्ष्यसि ॥ १० ॥ स्विन्नं केन मुख
दिवाकरकरैस्ते रागिणी लोचने रोषात्तद्भ्रुवनोत्थिताद्विलुलिता
नीलालका वायुना । भ्रष्टं कुङ्कुममुत्तरीयक्रषणात्क्लान्तासि
गत्यागतैर्युक्त तत्सकलं किमत्र वद हे दूति श्रुतस्याधरे
॥ ११ ॥ सायं स्नानमुपासितं मलयजेनाङ्ग समालेपित
यातोऽस्ताचलमौलिमम्बरमणिविश्रब्धमन्दा गति । आश्चर्य
तव सौकुमार्यमभितः क्लान्तासि येनाधुना नेत्रद्वन्द्वममीलन-
व्यतिकर शक्नोमि तेनासितुम् ॥ १२ ॥
१ क्षालितो रागो रक्तिमा यस्य २ अतिशयम् ३ अञ्जनरहिते
नायिकां प्रति नायकावस्थाकथनम्
पढगव्दलीनहृदयो रूपाल्कारगाभवनानपुणः । कविविरव
सचिन्नमुद्रस्तरुणि तवार्थे परं स युवा ॥ १ ॥ परिहरति
रति मतिं लुनीते स्खलतितरा परिवर्तते च भूय । इति
तव विषमा दशास्य देहं परिभवति प्रसभ किमत्र कुर्म
॥ २ ॥ विकिरति मुहु श्वासानासा पुरो मुहुरीक्षते प्रवि-
शति मुहु कुञ्जात्कुञ्ज मुहुर्बहु ताम्यति । रचयति मुहु
शय्या पर्याकुञ्जं मुहुरीक्षते मदनकदनक्लान्त कान्ते प्रियस्तव
वर्तते ॥ ३ ॥ मा मा द्रक्ष्यति वक्ष्यति स्रग्कथा प्रयङ्ग-
मालिङ्गनै. प्रीति यान्यति रस्यते सखि समागत्येति चिन्ता-
कुल । मार्ग पश्यति वेपते पुलकयत्यानन्दति स्विद्यति
प्रत्युद्गच्छति मूर्छति स्थिरतम पुञ्जे निकुञ्जप्रिय ॥ ४ ॥
पूर्वं यत्र सम त्वया रतिपतेरासादिता सिद्धयस्तस्मिन्नेव
निकुञ्जमन्मथमहातीथे पुनर्मामव । ध्यायस्त्वामनिशं जप-
न्नपि तवैवालापमन्त्रावलीर्भूयस्त्वत्कुचकुम्भनिर्भरणरीग्म्मा-
मृतं वाञ्छति ॥ ५ ॥
सूर्यास्तमनसमयवर्णनम्
मग्रसस्कारसपन्नास्तन्वदौदन्वर्तारप । एतत्रयीमयं
ज्योतिरादित्याख्यं निमज्जति ॥ १ ॥ तापनैरिव तेजोभि-
र्दग्धनिर्वाणमेचका । दिशो जाता. प्रतीची तु समुदाचरति
क्रमात् ॥ २ ॥ पुराणरश्मिजालेषु सस्नेष्वस्तावलम्बनम् ।
बिम्बमम्बुरुहा नेतुरम्बरान्दवलम्बते ॥ ३ ॥ विलोक्य सगमे
राग पश्चिमाया विवस्वत. । कृत कृष्ण मुख प्राच्या नहि
नार्यो विनेर्ष्याया ॥ ४ ॥ करिष्यति कलानाथ. कुतुकी कर-
मम्बरे । इति निर्वापयामास रविदीपं निशाङ्गना ॥ ५ ॥
नलीयमानैर्विहगैर्र्निमीलद्भिश्च पङ्कजै । विकमन्त्या च
मालत्या गतोऽस्तं ज्ञायते रवि. ॥ ६ ॥ अस्तं गतवति सैवि-
तरि भर्तरि मेधुपं निवेश्य कोशान्ते । कमलिन्योऽपि रमन्ते
किमत्र चित्रं मृगाक्षीणाम् ॥ ७ ॥ कृतोपकार प्रियबन्धुमर्क
मा द्राक्षम हीनाशुमध. पतन्तम् । इतीव मत्वा नलिनीवधू-
भिर्निमीलितान्यम्बुरुहेक्षणानि ॥ ८ ॥ साध्यरागरुधिरारुण-
माराह्नि.पपात रविमण्डलमन्धौ । क्रूरकालकैरवालविर्लून
वासरस्य सहसैव शिरो नु ॥ ९ ॥ नो रविर्न च तमो न
तमीशो न युतिर्गहगणो न च सध्या । यादशी प्रथमत.
किल सृष्टेस्तादृगेव भुवन श्रियमूहे ॥ १० ॥ मानुविम्बमिद-
मस्तगामि च प्रोद्यतं कुमुदबन्धुमण्डलम् । दृश्यते रतिपते.
प्रवासिना क्रोधरक्तमिव लोचनद्वयम् ॥ ११ ॥ स्थान-
माहिकमपास्य दन्तिन· सल्लकीविटपभङ्गवासितम् । आविभात-
१ सूर्ये २ भृङ्गम्, पक्षे,-मद्यपम् ३ खड्ग ४ छिन्नम्
२९४ सुभाषितरत्नभाण्डागारम् [ ६ प्रकरणम्
चर णाय गृह्णते वारि वारिरुहबद्धषट्पदम् ॥ १२ ॥ पश्य पश्चिमदिगन्तलम्बिना निर्मितं कथमिदं विवस्वता । दीर्घया प्रतिमया सरोम्भसा तापनीयमिव सेतुबन्धनम् ॥ १३ ॥ उत्तरन्ति विनेकीर्य पल्वलं गाढपङ्कमतिवाहितातपा । दंष्ट्रिणो वनवराहयूथपा दष्टभङ्गुरविसाङ्कुर इव ॥ १४ ॥ एष वृक्षशिखरे कृतास्पदो जातरूपरसगौरमण्डल.। हीयमानमहुरत्ययातप पीवरोरु पिबतीव बर्हिण ॥ १५ ॥ पूर्वभागतमिरप्रवृत्तिभिर्व्यक्तपङ्कमिव जातमेकत । खं हृतातपजल विवस्वता भाति किंचिदिव शेषवत्सर. ॥ १६ ॥ आविशद्भिरुटजाङ्गणं मृगैर्मूलसेकसरसैश्च वृक्षकै । आश्रमा प्रविशदध्यधेनवो बिभ्रति श्रियमृदीरितामथ. ॥ १७ ॥ बद्धकोशमपि तिष्ठति क्षणं सावशेषविवरं कुरेशयम् । षट्पदाय वसतिं ग्रहीष्यते प्रीतिपूर्वमिव दातुमन्तरम् ॥ १८ ॥ दूरलङ्घ्यपरिमेयरश्मिना वारुणी दिगरुणेन भानुना । भाति केसरवतेव मण्डिता बन्धुजीवतिलकेन कन्यका ॥ १९ ॥ साध्यमस्तमितशेषमातपं रक्तलेखमपरा बिभर्ति दिक् । सपरायवसुधा सशोणित मण्डलाग्रमिव तिर्यगुत्थितम् ॥ २०॥ कोऽत्र भूमिवलये जनान्मुधा तापयन्सुरुचिरमेति संपदम् । वेदयन्निति दिनेन भानुमानाससाद चरमाचल तत ॥ २१ ॥ मध्यमोलनभे लसदशावेकतश्रुतिमुपेयुषि भानौ । द्यौरुवाह परिवृत्तिविलोला हारयष्टिमिव वासरलक्ष्मीम् ॥ २२ ॥ अंशुपाणिभिरतीव पिपासु. पद्मजं मधु भृश रसयित्वा । क्षीबतामिव गत. क्षितिमेभ्यँल्लोहितं वपुरुवाह पतङ्ग ॥ २३ ॥ मुक्तमूललघुरुज्झितपूर्व पश्चिमे नभसि सभृतसान्द्र । सौमि मज्जति रवौ न विरेजे खिन्नजिह्व इव रश्मिसमूह ॥ २४ ॥ कान्तदृत्य इव कुङ्कुमभागा. साय मण्डनमभि त्वरयन्त्यः । सादरं ददृशिरे वनिताभि. सौधजालपतिता रविभासः ॥ २५ ॥ अग्रसानुषु नितान्तपिशङ्गैर्भू रुहान्मृदुक रैरवलम्ब्य । अस्तशैल गहनं नु विवस्वानाविवेश जलधि नु मही नु ॥ २६ ॥ आकुलश्वलपतत्त्रिकुलानामारवैरनुदितौषसराग. । आययावहरिदश्वविपाण्डुस्तुल्यता दिनमुखेन दिनान्त ॥ २७ ॥ आस्थित स्थगितवारिदपङ्क्त्या सध्यया गगनपश्चिमभाग. । सोर्मिविद्रुमवितानविभासा रञ्जितस्य जलधे. श्रियमूहे ॥२८॥ प्राञ्जलावपि जने नतमूर्ध्नि प्रेम तत्प्रवणचेतसि हित्वा । सध्यानुविदधे विरमन्त्या चापलेन सुजनेतरमैत्री ॥ २९ ॥ अभितापसपदमथोग्णरुचिर्निजतेजमामसहमान इव । पयसि प्रपित्सुरपराम्बुनिधेरविरोधमस्तगिरिमभ्यपतत् ॥ ३० ॥ गतया पुरः प्रतिगवाक्षमुख दधती रतेन भृशमुत्सुकताम् । सुहुरन्तरालमुवमस्तगिरे सवितुश्च योषिदिममीत् दृशा ॥ ३१ ॥ विरलातपच्छविरनुष्णवपु परितो विपाण्डु दधदभ्र-
शिर । अभवद्गतः परिणति शिथिलः परिमन्दसूर्यनयनो दिवसः ॥ ३२ ॥ अपराह्नशीतलतरेण शनैरनिलेन लोलितलताङ्गुलये । निलयाय शाखिन इवाह्वयते ददुराकुलाः खगकुलानि गिर ॥ ३३ ॥ उपसध्यमास्त तनु सानुमत. शिखरेषु तत्क्षणमशीतरुच । करजालमस्तसमयेऽपि सतामुचितं खलूत्तरमेत्य पदम् ॥ ३४ ॥ नवकुङ्कुमारुणपयोधरया स्वकरावसक्तरुचिराम्बरया । अतिसक्तिमेत्य वरुणस्य दिशा भृशमन्वरज्यततुषारकर ॥ ३५ ॥ गतवत्यराजत जपाकुसुम्तवकद्युतौ दिनकरेऽवनतिम् । बहलानुरागकुरुविन्ददलप्रतिबद्धमध्यमिव दिग्मवलयम् ॥ ३६ ॥ द्रुतशातकुम्भनिभमशुमतो वपुरर्धमग्नवपुष. पयसि । रुरुचे विरञ्चिनखभिन्नबृहज्जगदण्डकैकतरखण्डमिव ॥ ३७ ॥ अनुरागवन्तमपि लोचनयोर्दधतं वपु. सुखमतापकरम् । निरैकासयद्रविमपेतवसु वियदालँयाँदपरदिग्गणिका ॥ ३८ ॥ अमितिग्मरश्मि चिरमा विरमादवधानखिन्नमनिमेषतया । विगलन्मधुव्रतकुलाश्रुजल न्यमीमीलदब्जनयन नलिनी ॥ ३९ ॥ अविभाव्यतारकमदृष्टहिमद्युतिबिम्बमस्तमितभानु नभः । अवसन्नातापमतमिस्रमभादपदोपँतैव विगुणस्य गुण. ॥ ४० ॥ रुचिधाम्नि भर्तरि भृश विमला परलोकमभ्युपगते विविशुः । ज्वलनं विषः कथमिवेतरथा सुलभोऽन्यजन्मनि स एव पति. ॥ ४१ ॥ महद्भिरोधैस्तमसामभिद्रुतो भयेऽप्यसम्मूढमतिर्भमन्क्षितौ । प्रदीपवेषेण गृहे गृहे स्थितो विखण्ड्य देहं बहुधेव भास्करः ॥ ४२ ॥ अयमसौ गगनाङ्गणदीपकस्तरकिकालभुजंगशिखामणि. । क्षणविडम्बितवाडवविग्रह. पतति वारिनिधौ विधुरो रविः ॥ ४३ ॥ अभिभूय सतामवस्थिति जडजेषु प्रतिपाद्य च श्रियम् । जगतीपरितापकृत्कथ जलधौ नावपतेदसौ रवि. ॥ ४४ ॥ परिपतति पयोनिधौ पतङ्ग सरसिरुहासुदरेषु म॑त्तभृङ्गः । उपवनतरुकोटरे विहगस्तरुणिजनेषु शनै शनैरनङ्गः ॥ ४५ ॥ शुचिरिति परित. प्रसिद्धिभाजि प्रकटिततेजसि दुर्जये कृशानौ । निजैवसुनिकुरम्बमस्तवेलाव्यतिकरवाञ्छिर्दधे सँरोजबन्धु ॥ ४६ ॥ जगदिव बहुलातपामितसं जनयितुमद्य जलाभिषेकशीतम् । परिधृत रविशातकुम्भकुम्भा प्रञ्चलति पश्चिमवारिधि दिनश्री. ॥ ४७ ॥ पतति रविरपूर्ववारिराशौ हृदि पथिकस्य यथात्मभूहुताश । प्रसरति चरमा तम.प्ररोह प्रतिपदमद्य यथा मनोविमोह ॥ ४८ ॥ अस्तावलम्बि रविबिम्बम तयोद्याद्रिचूडोन्मिषत्सकलचन्द्रतया च सायम् । सध्याप्रवृत्त-
१ अपूर्णे
१ प्रीतीयुक्तम्, पक्षे,-रक्तिमान्वितम् २ बहिनिष्कामयामास
३ अपेत गत वसु द्रविण तेजश्च यस्मात् ४ अपरदिगेव गणिका
५ निजद्रव्यममूहम्, पक्षे,-किरणसमूहम् ६ स्नापयामास ७ मूर्य
सूर्यास्तमनसमयवर्णनम् २९५
हरहस्तगृहीतकांसतालद्वयमेव समलक्ष्यत नाकलक्ष्मी ॥४९॥
यातोऽस्मि पद्मनयने समयो ममैष सुप्ता मयैव भवती
प्रतिबोधनीया । प्रैत्यायनामयमितीव सरोरुहिण्या. सूर्यो-
ऽस्तमस्तकनिविष्टकर करोति ॥ ५० ॥ कृत्वा प्रबुद्धकमला-
मखिला त्रिलोकीमम्भौनिधेर्विशति गर्भमसाविदानीम् ।
अन्तःप्रसुप्तहरिनाभिसरोजबोधकौतूहलीव भगवानरविन्द-
बन्धु ॥ ५१ ॥ पूर्वा क्षणक्रमनिरस्तसमस्तरागा हित्वा
निजान्तिकमुपेत्य रवौ सरागे । आलोक्य पुनरमुष्य धृत-
प्रसादा जाता चिरेण चरमा परमाणुरक्ता ॥ ५२ ॥ स्पृष्टे-
ल्लसत्किरणकेसरसूर्यबिम्बविस्तीर्णकर्णिकमथो दिवसारवि-
न्दम् । क्लिष्टाष्टदिग्दलकलापमुषावतारबद्धान्धकारमधुपावलि
सञ्चकोच ॥ ५३ ॥ पृथु गगनर्कबन्धस्कन्धचक्र किमेत-
त्किमु रुधिरकपाल कालकापालिकस्य । कललभरितमन्त.
कि नु तार्क्यण्डखण्ड प्रजनयति वितर्क साध्यमर्कस्य विम्बम्
॥ ५४ ॥ अयमपि खरयोबिक्कर्णकाषायमीपद्विसृमरतिमि-
रोर्णाजर्जरोपान्तमर्चि. । मदकलकलविङ्गीकाकुनान्दीकरेम्य
क्षितिरुहशिखरेभ्यो भानुमानुच्चिनोति ॥ ५५ ॥ गतवति
दिननाथे पश्चिमक्ष्माधरान्त विशिरकरमयूखैर्निर्भर दह्यमाना ।
परिहृतमिलितालि. पान्थकान्तेव दीना सपदि कमलिनी सा
हास्यहीना बभूव ॥ ५६ ॥ उदयगिरितटस्थ पद्मिनीर्बोध-
यित्वा मृदुतरकिरणाग्रैस्ता. स्वयं चोपभुज्य । मलिनमधुपस-
ङ्गात्तासु सजातकोप कृतकधिरविरोचिर्भानुरस्तं प्रयात
॥ ५७ ॥ अयमपि पुरुहूतप्रेयसीसूर्ध्नि पूर्ण. कलश इव
सुधांशु साधुनुल्लालसीति । मदनविजययात्राकालविज्ञापनाय
स्फुरति जलधिमध्ये ताम्रपात्रीव भानु ॥ ५८ ॥ रवेरस्त
तेजः प्रमुदयति खद्योतपटली मरालाली मूका कलकल-
परोलूकपटली । इदं कष्टं दृष्ट्वा चिरमसहमाना कमलिनी
भ्रमद्भृङ्गव्याजात्कवलयति हालाहलमिव ॥ ५९ ॥ सैरन्ध्री-
कुरकुष्ठकङ्कणसरद्वीरध्वनि. सचस्दूतूसूत्रितसंधिविग्रहविधि
सोल्लासलीलाधर. । वारस्त्रीजनसज्जमानशयन. संनद्धपुष्पा-
युधः श्रीखण्डद्रवधौतसौधशिखरो रम्य क्षणो वर्तते ॥६०॥
विश्लेषांकुलचक्रवाकमिथुनैरूत्पक्षमाक्रन्दित कारुण्यादिव
मीलितासु नलिनीष्वस्त च मित्रे गते । शोकेनेव दिगङ्ग-
नाभिरभित श्यामायमानैर्मुखैर्नि.श्वासानिलधूमवर्तय इवो-
द्गीर्णास्तमोराजय ॥ ६१ ॥ निर्यद्वासूरजीवपिण्डकरणं
बिभ्रत्कवोष्णे. करैर्माञ्जिष्ठ रविविम्बमम्बरतलादस्ताचल
चुम्बति । कि च स्तोकतभःकलापकलनास्यामायमान मना-
---
१ विश्वामोत्पादनम् २ कमलिन्या ३ वराट ४ दिवसरूपमर
विन्दम् ५ प्रकाशाभावेन परस्पर मिलिता ६ अङ्गिरस्ककलेवरम्
७ काल एव कापालिको भिक्षु ८ गरुड ९ वियोगाकुले
---
ग्धूम्श्यामापुराणचित्ररचनारूप जगज्जायते ॥ ६२ ॥
संध्याताण्डवचण्डदण्डपरशुप्रारब्धभीमभ्रमीवेगस्रस्तकपर्दवा-
सुकिफणामणिक्यगङ्गावहेम् । मग्न पाथसि पश्चिमस्य जलवे-
र्मार्तण्डविम्ब ततो ध्वान्तैर्भूतगणेरगाहि भुवन मन्ये तदन्वे-
षिभि ॥ ६३ ॥ पाश्चात्याम्बुघिट्टष्टपूर्ववडवासदर्शनात्कण्ठया
धावद्ध्वान्ततुरंगनिषुरखुरक्षुण्णोऽस्तशैलस्थले । तस्मादुच्छलि-
तेन धातुरजसा लिप्तान्युक्ताङ्गको मन्दांशु प्रियदर्शन खलु
सहप्ताशुर्दिदृशयते ॥ ६४ ॥ तद्रोडेऽन्तरसततान्धतमस
निर्मिद्य तिग्मांशुभि सल्लेत्तु बलिमद्भाग कृतमतिर्भानुर्जगाहे-
ऽम्बुविम् । अन्यत्सप्रति सनिपत्य वृणुते लोके तमोमण्डलं
कि चेतस नयत्यहो परिभव पाथोजिनी वल्लभाम् ॥ ६५ ॥
द्रागेन्द्रीमनुचुम्य सस्मितमुखीमामोदिनी पद्मिनी कृत्वासौ
परिरम्भसभ्रमपरिश्रान्ता च वारुखियम् । सरक्तो हिमभानु-
रद्य चरमा श्लिष्यत्यहो रागिणीं काश्मीरोपसत्ययोधर-
भरा कान्ता दिश वारुणीम् ॥ ६६ ॥ ध्माता भालतला-
नले. कवलिता कण्ठोत्थहालाहलैरालीढाथ जटाटवीवलयितै-
राशीविषाणा गणै. । कीर्णा भस्मभिगहतास्थिपटलैर्विद्धा
जटाग्रैरपि स्वीयामुज्झति माधुरी हरशिरोरत्न किमिन्दो.
कला ॥ ६७ ॥ आवासोत्सुकपक्षिण कलरूत कामन्ति
वृक्षालयान्कान्ता भाविवियोगभीरुरधिक क्रन्दत्ययं कातर ।
चक्राङ्गो मधुपा सरोजगहन धावन्त्युलूको मुद धत्ते चारुणता
गतो रविरसावस्ताचल चुम्बति ॥ ६८ ॥ अध्वान नैकचक्र.
प्रभवति भुवनभ्रान्तिदीर्घे विलङ्घ्य प्रात प्राप्सु रथो मे पुन-
रिति मनसि न्यस्तचिन्तातिभार । 'सध्याकृष्टावशिष्टस्वकर-
परिकरै स्पष्टहेमारपङ्कि व्याकृष्यावस्थितोऽस्तक्षितिभृति
नयतीवैष दिर्वक्रकर्मकः ॥ ६९ ॥ प्राचीमालम्बमाने घन-
तिमिरचये बान्धवे बन्धकीना सप्राप्ते च प्रतीची शशिकर-
निकरे वैरिणि स्वैरिणीनाम् । अर्धश्यामोपलार्धस्फटिकमिव
दिशामन्तराल विधत्ते कालिन्दीजहुकन्यामिलदमलजलस-
न्दसदोहमैत्रीम् ॥ ७० ॥ सध्यावध्यस्रगोण तनुदहनचिता-
ङ्गारमन्दार्कबिम्ब तारानारास्थिकीर्णे विशदनरकरङ्कायमाणे-
ज्वलेन्दू । हृष्यन्नक्तचरौघ घनतिमिरमहाधूमधूम्रानुकार
जात लीलाश्मशान जगदखिलमहो कालकापालिकस्य ॥७१॥
गाढ प्रौढाङ्गनाभि सुरतरतमन.समदोत्सारिताक्ष सुग्धाभि
स्रस्तनेत्रं रतिसमरभय चिन्तयन्तीभिरेवम् । पान्थानामङ्ग-
नाभि ससलिलनयनं शून्यचित्ताभिरुच्चै कष्ट दृष्टोऽस्तशैल
भृशमभजदय मण्डलश्चण्डरश्मे. ॥ ७२ ॥ व्योम्नस्तापिच्छ-
---
१ सध्याया कृष्टा उपसहृतास्तेभ्योऽवशिष्टो य स्वकरगणा परि
कर मयूहस्तद्रूपा स्पष्टा हेमनिर्मितानामराणा पङ्किर्यस्मिस्तत्
२ दिशा चक्र मण्डलम्, रथाङ्ग च
२९६ सुभाषितरत्नभाण्डागारम् [ ६ प्रकरणम्
गुच्छावलिभिरिव तमोवल्लरीभिर्वियन्ते पर्यन्ता प्रान्तवृत्त्या पयसि वसुमती नूतने मज्जतीव । वात्यासंवेगविष्वग्वित- तवलयितस्फीतधूम्याप्रकाशं प्रारम्भेऽपि त्रियामा तरुणयति निजं नीलिमानं वनेषु ॥ ७३ ॥
चक्रवाकावस्थानारख्यानम्
रतिकेलिकल कश्चिद्देश मन्मथमन्थरः । पश्य सुश्रु समाश्वस्ता कादम्बश्चम्बति प्रियाम् ॥ १ ॥ दृष्टामरस- केमरत्यजो क्रन्दतोर्विपरिवृत्तकण्ठयो । निम्नयो सरसि चक्रवाकयोरल्पमन्तरमनल्पता गतम् ॥ २ ॥ आतपे धृतिमतो सह वध्वा यामिनीविरहिणा विहगेन । सेहिरे न किरणा हिमरश्मेर्दु खिते मनसि सर्वमसद्यम् ॥ ३ ॥ गम्यतामुपगते नयनाना लोहितायति सहस्रमरीचौ । आससाद विरहव्य धरित्रीं चक्रवाकहृदयान्यमितान् ॥ ४ ॥ इच्छता सह वधू- भिरभेद् यामिनीविरहिणा विहगानाम् । आपुरेव मिथुनानि वियोग लङ्घ्यते न खलु कौलनियोगः ॥ ५ ॥ यच्छति प्रतिमुखं दयितायै वाचमन्तिकगतेऽपि शकुन्तौ । नीयते स्म नतिमुज्झितहर्ष पङ्कज मुखमिवाम्बुरुहिण्या ॥ ६ ॥ आयाति याति पुनरेव जलं प्रयाति पद्माङ्कुर च विचिनोति धुनोति पक्षम् । उन्मत्तवद्भमति कूजति मुक्तकण्ठः कान्ता- वियोगविधुरो निशि चक्रवाकः ॥ ७ ॥ एकेनाक्ष्णा प्रवित- तरुषा वीक्षते लम्बमानं भानोर्बिम्बं जलविलुलितेनापरेण स्वकान्तम् । अहश्छेदे दयितविरहाशङ्किनी चक्रवाकी द्वौ सकीर्णौ रचयति रसौ नर्तकीव प्रगल्भा ॥ ८ ॥ वापीतोय तटरुहुवनं पद्मिनीपत्रशय्या चन्द्रालोको विकचकुसुमामोद- हृद्य समीर । यत्रैतेऽपि प्रियविरहिणो दाहिनश्चक्रनाम्न- स्तत्रोपायः क इव भवतु प्राणसवारणो यः ॥ ९ ॥ चक्राह्वो विरही हतोऽपि हृदये बाणेन न त्यक्तवान्प्राणानप्राणसमास- मागमसुखध्यानैकतानश्रिरम् । स्वा छायामवलोक्य वारिणि गलद्रक्तामवेक्ष्य प्रिया भ्रान्तस्तद्भवणवेदनापरिरतः कथं मृत साम्प्रतम् ॥ १० ॥ तीरात्तीरसमुपैति रौति करुणं चिन्ता समालम्बते किंचिद्ध्यायति निश्चलेन मनसा योगीव युंक्ते क्षण । स्वा छायामवलोक्य कूजति पुन कान्तेति मुग्ध खगो धन्यास्ते भुवि ये निवृत्तमनसो धिग्दुःखितान्कामिनः ॥ ११ ॥ मित्रे कापि गते सरोरुहवने बद्धानने ताम्यति क्रन्दत्सु भ्रमरेषु वीक्ष्य दयिताक्षिष्ठं पुर सारसम् । चक्राहेन वियोगिना बिसलता नास्वादिता नोज्झिता वक्रे केवलमर्गलेव निहिता जीवस्य निर्गच्छतः ॥ १२ ॥ भङ्क्त्वा भोक्तु न मुङ्के कुटिलबिसलताकोटिभिन्दोर्वितर्कात्ताराकारास्तुषार्त. पिबति न पयसा विप्रुषैः पत्रसस्थाः । छायामम्भोरुहाणाम्-
लिकुलसबला वेत्ति सध्यामसव्या कान्ताविश्लेषभीरुर्दिनमपि रजनीं मन्यते चक्रवाकः ॥ १३ ॥
संध्यावर्णनम्
उच्चैस्तरादम्बरशैलमौलेश्च्युतो रविर्गेरिकगण्डशैलः । तस्यैव पातेन विचूर्णितास सध्यारजोराजिरिवोजिहीते ॥१॥ विहिताञ्जलिर्जनतया दधती विकसत्कुसुम्भकुसुमारुणताम् । चिरमुज्झितापि तनुरोज्झदसौ न पितुप्रसूः प्रकृतिमात्मभुवः ॥ २ ॥ अथ सान्द्रसाध्यकिरणारुणित हरिहेतितिहृति मिथुन पततो । पृथगुत्पपात विरहार्तिदलद्धृदयस्रुतासृगनुलेपिसमिव ॥ ३ ॥ निलय श्रिय सततमेतदिति प्रथितं यदेव जल- जन्म तया । दिवसयात्यात्तदपि सुक्तमहो चपलाजन प्रति न चोद्यमद्. ॥ ४ ॥ दिवसोऽनुमित्रमगमद्द्बिलय किमिहास्यते बत मयावलया । रुचिमर्तुरस्य विरहाधिगमादिति सध्ययापि सपदि व्यगमि ॥ ५ ॥ मुग्धस्य केलिविजितखरचापयष्टेरात- न्वती रुचिमतीव सुधाकरस्य । रागोद्धुरा स्फुटसमुत्थित- तारकश्रीः संध्याविरस्ति ननु कापि पतिवरेव ॥ ६ ॥
रजनिवर्णनम्
व्योमपात्रमपि चैकपाणिना स्फुटोडुकुसुमानि बिभ्रति । अन्यपाणिकलतेन्दुदर्पणा कामिनीव रजनीयमागता ॥ १ ॥ नृपतिपुरुषशङ्कितप्रचार परगृहदूषणनिश्चिरैतकवीरम् । घन- मिरनिरुद्धसर्वभावा रजनिरिय जननीव संवृणोति ॥ २ ॥ अस्तोदयाचलविलम्बिरविन्दुबिम्बव्याजात्क्षणं श्रवणयोर्नि- हितारविन्दा । ताराच्छलेन कुसुमानि समुत्क्षिपन्ती सध्येय- मागतवती प्रमदेव काचित् ॥ ३ ॥ शशाङ्के सनद्धे भरत इव सध्यायवनिका तिरोभूत्वा पुष्पाञ्जलिमिव विकीर्योडु- निकरम् । कलं गायन्तीभि कुमुदवनभृङ्गीभिरधुना नभोरङ्गं प्राप्ता विहरति निशोलासकवधूः ॥४॥ उन्मुक्ताभिर्दिवसम- धुना सर्वतस्तामिरेव स्वच्छायाभिर्निचुलितमिव प्रेक्ष्यते विश्व- मेतत् । पर्यन्तेषु ज्वलति जलधौ रत्नसानौ च मध्ये चित्रा- ङ्गीय रमयति तमःस्तोमनीला धरित्री ॥ ५ ॥ ज्योत्स्ना- भस्माच्छुरणधवला बिभ्रती तारकास्थीन्यन्तर्धानव्यसनरसिका रात्रिकापालिकीयम् । द्वीपाद्दीपं भ्रमति दधती चन्द्रमुद्रा- कपाले न्यस्त सिद्धाञ्जनपरिमल लाञ्छनस्य च्छलेन ॥ ६ ॥
तमोवर्णनम्
लिम्पतीव तमोऽङ्गानि वर्षतीवाञ्जनं नम । असत्पुरुष- सेवेव दृष्टिनिष्फलता गता ॥ १ ॥ अविज्ञातविशेषस्य सर्व
१ दैवर्नियोग
२ सबद्धदृष्टि
३ विन्दव •
१ नाट्यनिपुणा नटीव रात्रि
२ अङ्गलेप
३ कौतुके
४ रात्रिरूपा योगिनी
तमोवर्णनम्
२९७
तेजोपहारिण । स्वामिनो निर्विवेकस्य तमसाश्च किमन्तरम् ॥ २ ॥
आपूरितमिदं श्यामतमसतमसैरिलम् । ब्रह्माण्डमण्डल भाति सकज्जलकरण्डवत् ॥ ३ ॥
तनुलग्ना इव ककुभ क्ष्मावलय चरणचारपात्रमिव । वियदपि चालिकदघ्नं मुष्टिग्राह्य तम कुरुते ॥ ४ ॥
अम्बरविपिनम्बिदानी तिमिरवराहोऽवगाहते जलवेः । रोमसु यटस्य लब्धास्तारकजलबिन्दवो भान्ति ॥ ५ ॥
घटितमिवाञ्जनपुञ्जैः पूरितमिव मृगमदक्षोदैः । ततमिव तमालतरुभिर्वृतमिव नीलांशुकैर्भुवनम् ॥ ६ ॥
औषसातपमयादपलीन वासरच्छविविरामपटीय । सनिपत्य शनकैरिव निम्नादन्धकारमुदवाप समानि ॥ ७ ॥
एकतामिव गतस्य विवेक. कस्यचिन्न महतोऽप्युपलेभे । भास्वता निदधिरे भुवनानामात्मनीव पतितेन विशेषा. ॥ ८ ॥
रञ्जिता नु विविधास्तरुशैला नामितं नु गगनं स्थगित नु । पूरिता नु विषमेषु धरित्री संहृता नु ककुभस्तिमिरैण ॥ ९ ॥
रात्रिरागमलिनानि विकास पङ्कजानि रहयन्ति विहाय । स्पष्टतारकमियाय नमःश्रीर्वस्तुमिच्छति निरापदि सर्व. ॥ १० ॥
नोर्ध्वमीक्षणगतिर्न चाप्यधो नाभितो न पुरतो न पृष्ठत । लोक एष तिमिरौघवेष्टितो गर्भवास इव वर्तते निशि ॥ ११ ॥
शुद्धमाविलमवस्थित चलं वक्रमाजंवगुणान्वितं च यत् । सर्वमेव तमसा समीकृतं धिङ्महत्त्वमसता हतान्तरम् ॥ १२ ॥
पिर्दधति ^१तिमिरे^२ समस्तलोक प्रलयमहाब्धिनिभे भृतोच्चनीचे। व्यरुचदुडुगणो वैलक्षरोचिर्र्बहुविधफेनसमूहत्तुल्यरूप. ॥ १३ ॥
पतिते पतङ्गमृगराजि निजप्रतिबिम्बरोषित इवाम्बुनिधौ । अथ नागयूथमलिनानि जगत्यरितस्तमांसि परितस्तरिरे ॥ १४ ॥
व्यसरन्नु भूधरगुहान्तरत. पटलं बहिर्बहलपङ्करुचि । दिवसावसानपटुनस्तमसो बहिरेत्य चाधिकमभक्त गुहा. ॥ १५ ॥
किमलम्बताम्बरविलघ्रमध. किमवर्धतोर्ध्वमवनीतकत । विससार तिर्यगथ दिग्भ्य इति प्रचुरीभवन्न निरधारि तम. ॥ १६ ॥
स्थगिताम्बरक्षितितले परितस्तिमिरे जनस्य दृशमन्धयति । दृधिरे रसाञ्जनमपूर्वमत. प्रिय वेश्मवर्त्म सुदृशो ददृशु ॥ १७ ॥
अवधार्य कार्यगुरुतामभवन्न भयाय सान्द्रतमसन्तमसम् । सुतनो. स्तनौ च दयितोपगमे तनुरोमराजिपथवेपथवे ॥ १८ ॥
ददृशेऽपि भास्कररुचाहि न य. स तमी तमोभिरभिगम्य तताम् । युतिमग्रहीद्ग्रहगणो लघव. प्रकटीभवन्ति मलिनाश्रयत. ॥ १९ ॥
अनुलेपनानि कुसुमान्यबला कृतमन्वय. पतिषु दीपशिखाः । समयेन तेन चिरसुप्तमनोभवबोधनं समवबोधियत ॥ २० ॥
विवस्वतानायिषतेव मिश्रा. खगोऽसँहृक्षेण सम जनानाम् । गावोऽपि नेत्रापरनामधेयास्तेनेदमान्ध्यं खलु नान्यकारं ॥ २१ ॥
चरमगिरिनिकुञ्जमुष्णभानौ भगवति गच्छति विप्रयोगखिन्ना । मुकुलितनयनाम्बुजा धरित्री वपुषि बभार तमांसि शैवलानि ॥ २२ ॥
काश्मीरगौरवपुषामभिसारिकाणामाबद्धरेखममितोरुचिमञ्जरीभि । एतत्त्मालदलनीलतम तमिस्र तत्प्रेमहेमेमनिकषोपलता तनोति ॥ २३ ॥
उद्गामदिग्द्विरदचञ्चलकर्णपूरगण्डस्थलोञ्चलदलस्तवकाकृतीनि । मीलन्नभासि मृगनाभिममानभासि दिक्कन्दरेषु विलसन्ति तमांसि ॥ २४ ॥
सिन्धो सुधाशुशल परिगृह्य सध्याक्षोमकरी निपत्तिताम्बरभूरूहाग्रे । चञ्चुपुटेन चपलेन तया विकीर्णास्तारगामिषेण पतिता इव पक्षखण्डा ॥ २५ ॥
व्यसनिन इव विद्या क्षीयते पङ्कजश्रीर्गुणिन इव विदेशे दैन्यमायान्ति भृङ्गा । कुनृपतिरिव लोके पीडयत्यन्धकारो धनमिव कृपणस्य व्यर्थतामेति चक्षु ॥ २६ ॥
इदं नभसि भीषणभ्रमदुलूककोलाहलैर्निशाचरविलासिनीनिवहदत्तनेत्रोत्सवम् । प्ररिस्फुरति निर्भरप्रचुरपङ्कमोल्हसदग्राहकुलमासलप्रबलबन्धमन्ध तम. ॥ २७ ॥
पुर पूर्वमेव स्थगयति ततोऽन्यामपि दिश क्रमात्कामन्रिद्रुमपुरविभागास्तिरयति । उपेत. पीनत्व तदनु भुवनसेक्षणपथ तम सघातोऽय हरति हरकण्ठद्युतिहर. ॥ २८ ॥
अमुष्मिन्ध्वान्तद्रुमकुहरनीरन्ध्रभरिते तम.खण्डे पिण्डीकृतबहलकालायसघने । ^१यैतामद्यास्माकं कथमपि पुरोन्यस्तचरणं निमेषेऽप्युन्मेषे नहि नहि विशेषो नयनयो. ॥ २९ ॥
^२काँकोलः कलकण्ठिका कुवलय ^३काँदम्बिनी कर्दम. कंसारि ^४कॅबरी ^५कृपाणलतिका कस्तूरिका कज्जलम् । कालिन्दी कषपट्टिका ^६र्करिघटा कामारिकण्ठस्थली यस्यैते ^७र्करदा भवन्ति सखि तद्वन्दे विनिद्रं तम ॥ ३० ॥
कि भूमौ परित. स्फुरन्ति करिण. कस्तूरिकाया रसै. सिक्ता. कि निखिला दिश. किमखिल लिस मषीभिर्नभ । कि व्याए भुवन समस्तमपि च श्रीकण्ठकण्ठत्विषा कालिन्दीजलकान्तिभाजि निबिडे जातेऽन्धकारेऽधुना ॥ ३१ ॥
सद्यः सान्द्रमषीविलुप्तककुभ. क्षिग्धेन्द्रनीलद्रवव्यामीलन्नभसो निरन्तरमिलन्नीलीरसश्च्योतिन. । एते कोकिलकायकालिमहृतो लुम्पन्ति वृत्ति दृशोरुन्निद्राञ्जनपुञ्जमेचकरुचो ^८भीमास्तम प्रक्रमा ॥ ३२ ॥
चिन्वञ्चौरैश्चिकीर्षितानि घटयद्द्वेताल गोष्ठीसुखं तन्वानं ^९शैवसाधनोत्सवसरस निर्व्याजवीरात्मनाम् । कुर्वत्कामुकशानुसमनसा गुप्ताङ्गनासंगमं दृप्यत्कोकिलकालकण्ठमलिनं
१ तिरोधति सति
२ अन्धकारे
३ ववलकान्ति
४ किरणा
३८ सु र भा.
१ गच्छताम्
२ विषभेद
३ मेघपङ्कि
४ केशपाश
५ खङ्ग-लतिका
६ गजसमूह
७ करप्रदा
८ कर्तव्यकर्मणि
९ प्रेतसाधनविधि
२९८ सुभाषितरत्नभाण्डागारम् [ ६ प्रकरणम्
ध्वान्तं समुज्जृम्भते ॥ ३३ ॥ नाकाशं न दिशो न भूधर-
कुलं नाम्भोधयो न क्षितिर्न द्यौर्नाम्बुधरा न तीव्रकिरणा
नेन्दुर्न तारागण । एतै षट्पदकायकान्तिपटलीपाण्डित्य-
वैतण्डिकै कल्लोलैस्तमसामसाम्प्रतमयं विश्वव्ययः कल्यते
॥ ३४ ॥ एतद्व्योमवनीवराहवलयं विश्वैकवीरस्मरस्कन्धा-
वारमदान्धसिन्धुरकुलं श्यामावधूकैशिकम् । चक्षुष्यञ्जन-
वस्तु धूकमदमा विश्लिष्टचक्राद्वयस्तोमान्तर्गतधूमकेतन-
महाधूम्या तमस्तार्यते ॥ ३५ ॥ सर्वे ध्वान्तमिदं वदन्तु
बहुधा सिद्धान्त एव तु न स्वाधारेषु करेषु पुष्करमणे स्तेषु
नून शनै । अस्तालम्बतयाम्वरेण पतता ग्रस्ते समस्ते
जगत्युन्मीलत्करकन्दलैरपि विधोस्तावत्कदुत्तार्यते ॥ ३६ ॥
विश्वं चाक्षुषमस्तमस्ति हि तमःकैवल्यमौपाविकञ्चाद्यादिव्य-
वहारवीजविरहाद्द्विञ्जात्रमेव स्थितम् । गृह्लन्ते भयहेतव.
पटुभिरप्यक्षान्तर्गैरैर्भाति च ध्वान्तेनातिघनेन वस्तु वचसा
ज्ञात खरेणामुक. ॥ ३७ ॥ व्योम्नि प्राङ्गणसीम्नि साध्य-
किरण विस्तार्य चेलाञ्चल ध्वान्तै. कार्भणपासुमिश्र जगता
द्राङ् मोहयित्वा दृशौ । ताराशौक्तिकमौक्तिकानि विहग-
श्रेणीरवच्छद्मना जिजिकृत्य च मायिक खरनटो वक्राद्वहि-
र्वर्षति ॥ ३८ ॥ उत्खातच्छिन्नसध्यारुणकमलवनो व्योम-
कासारमध्य मन्ये मत्तो निशीथाद्वयवनमहिषो मङ्क्षुविक्षिप्य
निमग्न. । तत्कालोद्विद्यमान सह तनुपृथुमिस्तारकाबुद्बु-
दौघैस्तस्मादेवोज्जिहीते कलुषितभुवन भीषणो ध्वान्तपङ्क
॥ ३९ ॥ चूडारत्नै. स्फुरद्विर्षिवधरविवरण्युज्जवलानुज्जवलानि
प्रेद्यन्ते चक्रवाकीमनसि निविशते सूर्यकान्तात्कृशानु. । कि
चामी शल्ययन्तस्तिमिरमुभयतो निर्भराहस्तमिस्रासघट्टो-
त्पिष्टसध्यारुणनिकरपरिसर्पिनो भान्ति दीपा. ॥ ४० ॥
अभिसारिकासंचारकथनम्
मेघा वर्षन्तु गर्जन्तु मुञ्चन्त्वशनिमेव वा । गणयन्ति न
शीतोष्णं रमणाभिमुखा स्त्रियः ॥ १ ॥ मल्लिकामाल्य-
धारिण्यः सर्वाङ्गीणार्द्रचन्दनाः । क्षौमवत्यो न लक्ष्यन्ते ज्यो-
त्स्नायामभिसारिकाः ॥ २ ॥ मल्लिकाचितधम्मिल्लाश्चारुच-
न्दनचर्चिता । अविभाव्या सुख यान्ति चन्द्रिकास्वभिसा-
रिकाः ॥ ३ ॥ गर्ज वा वर्ष वा मेघ मुञ्च वा शतशोऽ-
शनिम् । न शक्या हि स्त्रियो रोद्धं प्रस्थिता दयित प्रति
॥ ४ ॥ प्राणेशमभिसरन्ती पथि स्खलन्ती सुपिच्छिले
मुग्धा । अवलम्बनाय वारा धारासु कर प्रसारयति ॥ ५ ॥
अधियामिनि गजगामिनि कामिनि सौदामिनीव य ब्रजसि ।
जलदेनेव न जाने कति कति सुकृतानि तेन विहितानि
॥ ६ ॥ जलधर निर्लज्जस्त्वं यन्मा दयितस वेश्म गच्छ
न्तीम् । स्तनितैन भीषयित्वा धाराहस्तैः परामृशसि ॥ ७ ॥
यद्वदहल्याहेतोर्मृषा वदसि शक्र गौतमोऽस्मीति । तद्वन्म-
मापि दुःखं निरवेक्ष्य निवार्यता जलद. ॥ ८ ॥ यदि गर्जति
वारिधरो गर्जतु तन्नाम निष्ठुराः पुरुषा । अयि विद्युतप्रमदाना
त्वमपि च दुख न जानासि ॥ ९ ॥ रभसादभिसर्तुमुद्यताना
वनिताना सखि वारिदो विवस्वान् । रजनी दिवसोऽन्ध-
कारमर्चिर्विपिन वेश्म विमार्ग एव मार्ग. ॥ १० ॥ चन्द्रोदये
चन्दनमङ्गकेषु विहस्य विन्यस्य विनिर्गताया । मनो निहन्तुं
मदनोऽपि वाणान्करेण कौन्दान्विमराबभूव ॥ ११ ॥
स्फुरदुरसिजभारभङ्गुराङ्गी किसलयकोमलकान्तिना पदेन ।
अथ कथय कथं सहेत गन्तु यदि न निशासु मनोरथो
रथः स्यात् ॥ १२ ॥ सचरन्ति मृगनाभिचर्चिता मेचका-
म्बरकृतावगुण्ठनाः । प्राणनाथमभिसर्तुमुद्यता सुध्रुवस्ति-
मिरदेवता इव ॥ १३ ॥ क प्रस्थितासि करभोरु घने
निशीथे प्राणाधिपो वसति यत्र मन प्रियो मे । एकाकिनी
वद कथं न बिभेषि बाले नन्वस्ति पुँङ्खितशरो मदन.
सहायः ॥ १४ ॥ मन्दं निवेहि चरणौ परिधेहि वासो नीलं
पिधेहि वलयावलिमञ्चलेन । मा जल्प साहसिनी शारद-
चन्द्रकान्तदन्ताशवस्तव तमासि समापयन्ति ॥ १५ ॥ मूढे
निरन्तरपयोधरया मयैव कान्त. सहारमते यदि कि
तवात्र । मा गर्जितैरिति मुहुर्विनिवारयन्ती मार्गं रुणद्धि
कुपितेव निशा सपत्नी ॥ १६ ॥ उरसि निहितस्तारो हार
कृता जघने घने कलकलवती काञ्ची पादौ रणन्मणिनूपुरौ ।
प्रियमभिसरस्येवं मुग्धे त्वमाहृतडिण्डिमा यदि किमपर
त्रासोत्कम्प दिशः समुदीक्षसे ॥ १७ ॥ न जल्प दशन-
त्विषा भवति ते तमिस्रक्षतिस्तरङ्गोय दृगञ्चलं भवतु तेन
गाढ तम. । अपीह सखि साध्वस पथि जहीहि निम्नोन्नते
खर समदसिन्दुर समधिरुह्य निर्गच्छसि ॥ १८ ॥ वातो-
द्धूतमुखी प्रनष्टतिलका तोयार्द्रलीनांशुका मेघाना निनदेन
भीतहृदया गत्वा प्रियस्यालयम् । द्वार नेच्छति लज्जया
प्रलपितु देहीति वर्षाहता पादौ नूपुरकर्दमप्रतिहतौ सशब्द-
यन्ती स्थिता ॥ १९ ॥ मुक्त मौक्तिकदाम हेमवलयश्रेणी
समुत्सारिता वासो नीलमूरीकृत नियमितो मञ्जीरकोलाहलः ।
गच्छन्त्यास्तव साहस न सहते तन्वङ्गि सगोपनं धम्मि-
ल्लोच्युतमल्लिकापरिमलग्रोंढो निशीथानिलः ॥ २० ॥ जाताः
प्रासादपालीकनकवलभिकान्वस्तमाणिक्यदीपच्छायाविच्छर्द-
तुच्छीकृतविरलतमा ये निशीथान्धकाराः । तेऽमी स्फारीक्रि-
यन्ते प्रतिविगिष्खमितः कान्तसकेतधावद्रामभ्रूमूक्तनेत्रोत्प-
१ दुकूलधारिण्य २ पङ्कयुक्ते
१ निबिडे २ अर्धरात्रे ३ पुङ्खिता शरा येन
अभिसारिकासंचारककथनम्, नक्षत्रोदयवर्णनम्, चन्द्रोदयवर्णनम् २९९
लतरलतरतारकामेचकिम्ना ॥ २१ ॥ उत्तंस केकिपिच्छै- र्मरकतवलयै श्यामले दोःप्रकाण्डे हारः सान्द्रेन्द्रनीलैर्मृग- मदरचितो वक्त्रपत्रप्रपञ्चः । नीलाब्जैः शेखरश्रीरसितवसनता चेत्यभीकाभिसारे सप्रत्येणेक्षणाना तिमिरभरसखी वर्तते वेषलीला ॥ २२ ॥ मलयजरसविलिसतनवो नवहारलताविभू- षिताः सिततरदन्तपत्रकृतवक्त्ररुचो रुचिरमलांशुका । शश- भृति विततधाम्नि धवलयति धरामविभाव्यता गता प्रिय- वसति प्रयान्ति सुखमेव निरस्तभियोऽभिसारिका ॥ २३ ॥
नक्षत्रोदयवर्णनम्
घनतरतिमिरघुणोत्करजग्धानामिब पतन्ति काष्ठानाम् । छिद्रैरमीभिरुडुभिः किरणव्याजेन चूर्णानि ॥ १ ॥ उद्धर्तुं किल शैलकेलिगभसस्तानि पाथोनिधेरन्तर्भूषणमौक्तिकानि दिविजस्त्रीभिः समुत्कण्ठया । गाढ तत्र निमज्जितेन रविणा बद्धा दृढ रश्मिभिः प्रोत्क्षिप्तानि निपत्य तानि गगने तारा- पदेशं दधुः ॥ २ ॥
चन्द्रोदयवर्णनम्
ततः कुमुदनाथेन कामिनीगण्डपाण्डुना । नेत्रानन्देन चन्द्रेण माहेन्द्री दिगलङ्कृता ॥ १ ॥ कुमुदेष्वधिक भान्ति पतिताश्चन्द्ररश्मयः । अतिप्रकृष्टशीलेषु कुलेष्विव समृद्धयः ॥ २ ॥ आनन्दं कुमुदादीनामिन्दु कन्दलयन्नयम् । लङ्घ- यत्यम्बरामोघं हनूमानिव सागरम् ॥ ३ ॥ पिनथीव तर- ङ्गाग्रैः समुद्रः फेनचन्दनम् । तदादाय करैरिन्दु्र्लिम्पतीव दिगङ्गनाः ॥ ४ ॥ नयनानन्ददायीन्दोर्बिम्बमेतत्प्रसीदति । अधुना विनिरुद्धाशं प्रविशीर्णमिदं तमः ॥ ५ ॥ नाशयन्तो घनध्वान्तं तापयन्तो वियोगिनः । पतन्ति शशिनः पादा भासयन्तः क्ष्मातलम् ॥ ६ ॥ ज्योत्स्नाचय पय पूरस्तारकाः कैरवाणि च । राजति व्योमकासारराजहंसः सुधाकरः ॥ ७ ॥ इदमाभाति गगने भिन्दानं सततं तमः । अमन्द- नयनानन्दकर मण्डलमैन्र्दवम् ॥ ८ ॥ उदयतटान्तरित- मिय प्राची सूचयति दिङि्गङ्गानाथम् । परिपाण्डुना मुखेन प्रियमिव हृदयस्थित रमणी ॥ ९ ॥ अथ पथिकवधूदहनः शनकैरूदभून्निशाकरालोकः । कुमुदप्रबोधदूतो व्यसनगुरु- श्चक्रवाकीणाम् ॥ १० ॥ त्रिनयनचूडारत्नं मित्रं सिन्धोः कुमु- द्वतीदयितः । अयमुदयति घुमृणारुणरमणीवदनोपमश्चन्द्र- ॥ ११ ॥ हंसो यथा राजति पञ्जरस्थः सिंहो यथा मन्दरकन्दरस्थ । वीरो यथा दर्पितकुञ्जरस्थश्चन्द्रोऽपि बभ्राम तथाऽम्बरस्थ ॥ १२ ॥ आकाशवापीसितपुण्डरीकं शाणोपल मन्मथसायकानाम् । पश्योदित शारदमम्बुजाक्षि संध्याङ्गनाकन्दुकमिन्दुबिम्बम् ॥ १३ ॥ वीथीषु वीथीषु विलासिनीना मुखानि सत्रीक्ष्य शुचिस्मितानि । जालेषु जालेषु करं प्रमार्य लावण्यभिक्षामटतीव चन्द्र ॥ १४ ॥ नमोलता- कुञ्जमुपागताया प्रमोदपर्याकुलतारकाया । निशाङ्गनाया स्फुरता करेण शशी तम कञ्चुकमुन्सुमोच ॥ १५ ॥ मवोजराजस्य सितातपत्र श्रीखण्डचित्रं हरिदङ्गनाया । विगजति व्योमसरे सरोज कर्पूरपूरप्रभमिन्दुविम्बम् ॥ १६ ॥ अथ मन्मथवाहिनीपग किमपि ज्योतिरुदस्फुरत्पुर- स्तात् । तिमिरस्य जग चँकोरकूर कुलटाकेलिवनीदवा- नलार्चि ॥ १७ ॥ नवकुङ्कुमचर्चिका रजन्या गग- नागोकतरोः प्रवालपङ्किः । मणिकुन्तलता स्मरस्य मन्ये शशिन प्राथमिकी मयूखलेखा ॥ १८ ॥ उपोढरागेण विलोळतारक तथा गृहीत शशिना निशामुखम् । यथा समस्तं तिमिरांशुकं तया पुरोऽपि रागाद्गलित न लक्षितम् ॥ १९ ॥ करमुदयमहीधरस्तनाग्रे गलिततम पटलांशुके निवेश्य । विकसितकुसुमेक्षणं विचुम्वलत्यभमरेशदिशो मुखं सुधांशुः ॥ २० ॥ अन्धकारगरलं यतो जगन्मोहकारि भृशमत्ति नित्यशः । उज्ज्वल जठरमोषधीपतेरञ्जनाभमभव- त्ततः प्रिये ॥ २१ ॥ मानिनीजनविलोचनपातानुष्णबाष्प- कलुषान्मृतिगृह्णन् । मन्दमन्दमुदितः प्रपयौ ख भीतभीत इव शीतमयूख ॥ २२ ॥ शंकराध्र्तनुबद्धपार्वतीकुङ्कुमाक्त- कुचकोरकाकृतिः । सूच्यते कमलिनीरुन्धन्मपद्मकोशकर- लीलया शशी ॥ २३ ॥ इन्दुरिन्दुरिति कि दुराशया बिन्दुरेष पयसो विलोक्यते । नन्विदं विजयते मृगीदृश श्याम- कोमलकपोलमाननम् ॥ २४ ॥ रुद्धनिर्गमनमा दिनक्षयात्पूर्व- दृष्टतनुचन्द्रिकास्मितम् । एतदुद्गिरति रात्रिरोदिता दिग्रहस्य- मिव चन्द्रमण्डलम् ॥ २५ ॥ पश्य पक्वफलिनीफलत्विषा बिम्बलाञ्छन वियतसरोम्भसा । विप्रकृष्टविवर हिमांशुना चक्रवाकमिथुनं विडम्ब्यते ॥ २६ ॥ अङ्गुलीभिरिव केश- सचय सनियम्य तिमिर मरीचिभि । कुञ्जलीकृतसरोज- लोचन चुम्बतीव रजनीमुखं शशी ॥ २७ ॥ रक्तभावमपहाय चन्द्रमा जात एव परिशुद्धमण्डल । विक्रिया न खलु कालदोषजा निर्मलप्रकृतिषु स्थिरोदया ॥ २८ ॥ उन्नतेषु शशिन प्रभा स्थिता निम्नसश्रयपर निशातमः । नूनमात्म- सदृशी प्रकल्पिता वेधसैव गुणदोषयोर्गतिः ॥ २९ ॥ चन्द्र- पादजनितप्रवृत्तिभिश्चन्द्रकान्तजलविन्दुभिर्गिरिः । मेखला- तरुषु निद्रितान्मयूरवोध्यत्यसमये शिखण्डिन ॥ ३० ॥
१ विरहिणीकपोलवतपाण्डुरेण २ प्राचीदिक् ३ चन्द्रम् ४ आकाश एव वापी तस्या श्वेतकमलम्
१ शाणपाषाण शस्त्रादितीक्ष्णकरणार्ह पाषाणइति यावत् २ सौन्दर्यस्य याचनाम् ३ चकोराणा कूरमोदनम भोजनमिति यावत्
| ३०० | सुभाषितरत्नभाण्डागारम् | [ ६ प्रकरणम् |
|---|
उन्नतावनतभागवत्तया चन्द्रिका सतिमिरा गिरेरियम् । भक्तिभिर्बहुविधाभिरर्पिता भाति भूतिरिव मत्तदन्तिनः ॥३१॥
एतदुच्छ्वसितपीतमन्दव सोढुमक्षममिव प्रभाकसम् । मुक्त- षट्पदविरावमञ्जसा भिद्यते कुमुदमा निबन्धनात् ॥ ३२ ॥
आननानि हरिणीनयनानामद्भुतानि च समीक्ष्य जगत्याम् । लज्जयेव घनमण्डललीनो मन्दमन्दमहहेन्दुरुदेति ॥ ३३ ॥
व्यानशे शशधरेण विमुक्त केतकीकुसुमकेसरपाण्डुः । चूर्णमुष्टिरिव लम्बितकान्तिर्वासवस्य दिशमंशुसमूहः ॥ ३४ ॥
उज्झती शुचमिवाशु तमिस्रामन्तिकं व्रजति तारकराजे । दिक्प्रसादगुणमण्डनमूहे रश्मिहासविशदं मुखमैन्द्री ॥३५॥
नीलनीरजनिभे हिमगौर शैलरुद्धवपुषः सितरश्मेः । खे रराज निपतत्करजालं वारिधेः पयसि गाङ्गमिवाम्भः ॥३६॥
द्या निरुन्धदतिलोलधनामं ध्वान्तमुद्यतकरेण पुरस्तात् । क्षिप्यमाणमसितेतरभासा शंभुनेव करिचर्म चकासे ॥ ३७ ॥
अन्तिकान्तिकगतेन्दुविसृष्टे जिह्वता^१ जहात दीधितिजाले । निःसृतस्तिमिरभारनिरोधादुच्छ्वसन्निव रराज दिगन्तः ॥३८॥
लेखया विमलविद्रुमभासा सतत तिमिरमिन्दुरुदासे । दंष्ट्रया कनकटङ्कपिशङ्ग्या मण्डलं भुव इवादिवराहः ॥३९॥
दीपयन्नथ नभः किरणौधैः कुङ्कुमारुणपयोधरगौरः । हेम- कुम्भ इव पूर्वपयोधेरुनन्मज्ज शनकैस्तुहिनांशु ॥ ४० ॥
उद्गतेन्दुमविभिन्नतमिस्रा पश्यति स्म रजनीमवितृप्तः । व्यंशुकस्फुटमुखीमतिजिह्ला^२ व्रीडया नववधूमिव लोक ॥४१॥
न प्रसादमुचित गमिता चौर्नोद्धतं तिमिरमद्रिवनेभ्यः । दिक्षुखेषु न च धाम विकीर्ण भूषितेव रजनी हिमभासा ॥ ४२ ॥
श्लिष्यत प्रियवधूरूपकण्ठं तारकास्ततकरस्य हिमांशोः । उद्भमन्नभिरराज समन्तादङ्गराग इव लोहित- रागः ॥ ४३ ॥
प्रेरित शशधरेण करौघः सहतान्यपि नुनाद तमांसि । क्षीरसिन्धुरिव मन्दरभिन्नः काननान्यविर- लोचतरूणि ॥ ४४ ॥
शान्ता गमितया शशिपादैश्छायया विटपिना प्रतिपेदे । न्यस्तशुक्लबलिचित्रतलाम्रिस्तुल्यता वसतिवेश्ममहीभिः ॥ ४५ ॥
गन्धमुद्धतरजःकणवाही विक्षिपन्विकसता कुमुदानाम् । आधुधाव परलीनविहङ्गा यामिनीमरुदपा नवराजी ॥ ४६ ॥
सविधातुमभिषेकमुदासे मन्मथस्य लसद्रंशुकजालैः । यामिनीवनितया ततचिह्नः सोत्पलो रजतकुम्भ इवेन्दुः ॥ ४७ ॥
ओजसापि खलु नून- मनूनं नासहायमययाति जयश्रीः । यद्विभुः शशियुखसख- सन्नाददे विजयी चापमनङ्गः ॥ ४८ ॥
कलितमम्बरमा- कलयन्करैर्मृदितपङ्कजकोशपयोधरः । विकसदुत्पलनेत्रविलो- कितः सखि निशा सरसीकुरुते विधुः ॥ ४९ ॥
वसुधा- न्तनि स्तमिवाहिपते पटलं फणामणिमहःसुरचाम् । स्फुरदंशु- जालमथ शीतरुच ककुभं समस्कुरुत माधवनीम् ॥ ५० ॥
विशदप्रभापरिगतं विबभावुदयाचलव्यवहितेन्दुवपुः । मुख- मप्रकाशदशनं शनकै सविलासहसामिव शक्रदिश ॥ ५१ ॥
कलया तुषारकिरणस्य पुरः परिमन्दभिन्नतिमिरौघजटम् । क्षणमभ्यपद्यत जनेर्न मृषा गगनं गणाधिपतिमूर्तिरिति ॥ ५२ ॥
नवचन्द्रिकाकुसुमकीर्णतमःकबरीभृतो मलयजार्द्र- मिव । ददृशे ललाटतटहारि हरेर्हरितो मुखे तुहिनरश्मि- दलम् ॥ ५३ ॥
प्रथमं कलाभवदथार्थमथो हिमदीधिति- र्महदभूदुदित । दधति ध्रुवं क्रमश एव न तु द्युतिशालिनो- ऽपि सहसोपचयम् ॥ ५४ ॥
उदमजि कैटभजितः शय- नादपनिद्रपाण्डुरसरोजरुचा । प्रथमप्रबुद्धनदराजसुता- वदनेन्दुनेव तुहिनद्युतिना ॥ ५५ ॥
अथ लक्ष्मणामुगत- कान्तवपुर्जलधिं विलङ्घ्य शशिदाशरथिः । परिवारितः परित ऋक्षगणैस्तिमिरौघराक्षसकुलं बिभिदे ॥ ५६ ॥
उप- जीवति स्म सततं दधतः परिसुम्धता वणिगिवोडुपतेः । घनवीथिथीथिमवतीर्णवतो निधिरम्भसामुपचयाय कलाः ॥ ५७ ॥
रजनीमवाप्य रुचमाप शशी सपदि व्यभूषय- दसावपि ताम् । अविलम्बितक्रममहो महतामितरेतरोप- कृतिमञ्चरितम् ॥ ५८ ॥
दिवस भृशोष्णरुचिपादहता रुदती- मिवानवरतालिरुतैः । सुहुरामुशन्मृगधरोऽग्रकरैरुदशिश्- सत्कुमुदिनीवनिताम् ॥ ५९ ॥
प्रतिकामिनीति ददृशुश्चकिता. खरजन्मघर्मपयसोपचिताम् । सुदृशोऽभिभर्तृशशिरश्मिगल- जलविन्दुमिन्दुमणिदारुवधूम् ॥ ६० ॥
अमृतद्रवैर्विदधद्- ब्जदृशामपमार्गमोषधिपति स्म करैः । परितो विसर्पि परि- तापि भृशं वपुषोऽवतारयति मानविषम् ॥ ६१ ॥
अम- लात्मसु प्रतिफलन्नभितस्तरुणीकपोलफलकेषु मुहुः । विस- सार सान्द्रतरमिन्दुरुचामधिकामवासितदिशा निकरः ॥६२॥
उपगूढवेमलमघूर्मिमृजैः सरितामचुक्षुमदधीशमपि । रजनी- कर किमिव चित्रमहो यदुरागिणा गमनमङ्गलधुम् ॥ ६३॥
भवनोदरेषु परिमन्दतया शयितोऽलम. स्फटिकयष्टिरुचः । अवलम्ब्य जालकममुखोपगतानुदतिष्ठदिन्दुकिरणान्मदनः ॥ ६४ ॥
अविभावितेषुविषय. प्रथमं मदनोऽपि नूनमभव- त्तमसा । उदिते दिश प्रकटयत्यमुना यदघर्मधाम्नि धनु- राचकृषे ॥ ६५ ॥
युगपद्विकासमुदयाद्गमिते शशिनः शिली- मुखगणोऽलभत । द्रुतमेत्य पुष्पधनुषो धनुष कुमुदेऽङ्गना- मनसि चावसरम् ॥ ६६ ॥
ककुभा मुखानि सहसोज्ज्व- लयन्दधदाकुलत्वमधिकं रतये । अदिदीपदिन्दुरपरो दहनः कुसुमेषुमत्रिनयनप्रभवः ॥ ६७ ॥
ख्याता वयं समधुपा मधुकोशवत्यश्चन्द्रः प्रमारितकरो द्विजराज एषः । अस्म- त्समागमकृतोऽस्य पुनर्द्वितीयो मा भूत्कलङ्क इति सकुचिता
^१ कौटिल्य, तिर्यक्त्व वा
^२ अतिमन्दगामिनीम्
चन्द्रोदयवर्णनम् ३०१
नलिन्य. ॥ ६८ ॥ उद्दम्भेद्रूततरुणीरमणोपमर्दमग्रोन्नत्तस्त- ननिवेशनमिव हिमांशो । बिम्ब कठोरबिसकाण्डकडारमेत- द्रम्मापदं प्रथममग्रकरैर्न्यनक्ति ॥ ६९ ॥ ताराक्षतान्प्रति- किरन्कलकण्ठनादान्मन्त्राक्षराणि निगदन्कुसुमेषुरेष । लाभाय वासरमणेर्मुषितस्य साय सचारयत्यमृतदीधितिका- स्यपात्रम् ॥ ७० ॥ एतद्विभाति चरमाचलचूड़चुम्बिडिण्डी- रपिण्डरुचिशीतमरीचिबिम्बम् । उज्ज्वलितस्य रजनी मदनानल्स्य धूम दद्यत्प्रकटलाञ्छनकैकतवेन ॥ ७१ ॥ भूय- स्तराणि यदमूनि तमस्विनीषु ज्योत्स्नीषु च प्रविरलानि ततः प्रतीमः । सध्यानलेन भृशमम्बरमूषिकायामावर्तितैरुडुभि- रेव कृतोऽयमिन्दुः ॥ ७२ ॥ उज्जृम्भते कुमुदिनीसुकृत मृगाङ्को विश्वग्विकीर्णपरिपटलरश्मिदण्डः । उत्सूतविद्रुम- कुलो जलधेस्तरङ्गादुत्क्षिप्यमाण इव कश्चन राजकम्बुः ॥ ७३ ॥ गगनविपिनसिंहः कामभूपातपत्र निखिलदिग्- बलाना कन्दुक क्रीडनाय । मणिरिव रतिभर्तु कार्मणः पार्वणोऽयं जयति कुमुदबन्धुर्बन्धुरश्चन्द्रबिम्ब. ॥ ७४ ॥ अयमुदयति चन्द्रो वारिधेरम्बुगर्भामृतकणकरालैरंशुभि- र्दीप्यमानः । भुजगशयनवक्षोर्म्यदेशे ललन्त्या वदनमिव यदच्छोत्तान्तित विश्वमातु ॥ ७५ ॥ अयमुदयति चन्द्रश्च- न्द्रिकाधौतविश्व. परिणतविमलिम्नि व्योम्नि कर्पूरगौर । ऋजुरजतशलाकास्पार्धिभिर्यस्य पादैर्जगदमलमृणालीपञ्जरस्थं विभाति ॥ ७६ ॥ उदयति कलमन्द्रैः कण्ठतालैरलीना कुमुदमुकुलकेषु व्यञ्जयन्नङ्गहारान् । मदसुखरचकोरीतोय- कर्मातिकोऽयं तुहिनरुचिरधामा दक्षिण लोकचक्षुः ॥ ७७ ॥ मृगाङ्कोऽयं धत्ते गगनजलधे. फेनतुलना सितच्छत्राकारा मदननृपतेर्विश्वजयिन. । त्रियामारामाया मलयजविशेष- प्रतिकृति जगद्धात्रीदेव्या मणिसुकुरलक्ष्मीं च विमलाम् ॥ ७८ ॥ कपाले मार्जारः पय इति करॉलेढि शशिनस्तरु- च्छिद्रप्रोतान्बिसमिति करी सकलयति । रतान्ते तल्पस्था- न्हरति वनिताप्यंशुकमिति प्रभामत्तश्चन्द्रो जगदिदमहो विप्लवयति ॥ ७९ ॥ अयं नेत्रादत्रेर्जनि रजनीवल्लभ इति भ्रमः कोऽय प्रज्ञापरिचयपराधीनमनसाम् । सुधानामाधार. स खलु रतिबिम्बाधरसुधारसासेकस्निग्धादजनि नयनात्पुष्प- धनुष. ॥ ८० ॥ जटाभाभिर्भाभिः करधृतकलङ्काक्षवलयो वियोगिव्यापत्तेरिव कलितवैराग्यविशदः । परिप्रेङ्खत्तारापरि- करकपालाङ्किततले शशी भस्मापाण्डुः पितृवन इव व्योम्नि चरति ॥ ८१ ॥ तथा पौरस्त्याया दिशि कुमुदकेदारकलि- काकवाटन्नीमिन्दुः किरणलहरीमुल्लसयति । समन्तादुन्मील- द्बहलजलबिन्दुस्तबकिनो यथा पुञ्जायन्ते प्रतिगुडकमेणा- ङ्कमणय. ॥ ८२ ॥ सुधारश्मिः सद्यस्तिमिरनिकरान्तं विरचयन्नलिन्देभ्यः स्यन्द शशमणिसुत्यं च वितरन् । उदेत्यादौ रक्ताम्बुजममरुचिः कैरववने प्रमोद तन्वानो मधुपवनितागीतिमधुरम् ॥ ८३ ॥ त्रिनयनजटावलीपुष्पं निशावदनस्मितं ग्रहकिसलयं सध्यानारीनितम्बनखक्षतिः । तिमिरभिदुर व्योम्न शृङ्गं मनोभवकार्मुक प्रतिपदि नवस्ये- न्दोर्बिम्ब सुखोदयमस्तु न ॥ ८४ ॥ प्रथममरुणच्छायस्ता वत्ततः कनकप्रभस्तदनु विरहोत्ताम्यत्तन्वीकपोलतलद्युति. । उदयति ततो ध्वान्तध्वंसक्षमः क्षणदान्मुखे सरसबिसिनीक- न्दच्छेदच्छविर्मृगलाञ्छनः ॥ ८५ ॥ मयूखनखरत्रुटत्तिमिर्- कुम्भिकुम्भस्थलोच्छलत्तरलतारकागणविकीर्णमुक्तागण. । पुरदरहरिद्दरीकुहरगर्भसुतोत्थितस्तुषारकरकेसरी गगनका- ननं गाहते ॥ ८६ ॥ प्रसार णपरैः करै. प्रकटितानुरागोदये सुधाकिरणकामुके त्वरितमम्बरालम्बिनि । तदा विगलितो- ल्लसत्तिभिरजालनीलांशुका पुरदरदिगङ्गना पुलकितैव तारा- गणैः ॥ ८७ ॥ कलानिधिरयं रवै. समुपलभ्य रूप स्वय दिनान्तसमयेऽस्पृशत्सपदि पद्मिनी रागवान् । धैवान्यकर- सगमान्सुकुलितेति पूर्वाकृति समीक्ष्य जहसुः प्रियों ध्रुवम- भूदत. पाण्डुरः ॥ ८८ ॥ दर्पोद्रेक कुसुमधनुषो जीवित कैरवाणा जीवञ्जीवप्रणयगरिमा भाग्यराशिनिशायाः । शृङ्गा- रश्रीललितहसितं पानपात्रं सुराणा पौरस्त्याद्रेर्जयति शिखर कि तमः स्थातुमीष्टे ॥ ८९ ॥ तैः सर्वज्ञीभवदभिसृतानेत्र- सिद्धाञ्जनैर्वा नीरन्ध्रैर्वा त्रिभुवनदशामन्धपट्टैस्तमोभिः । व्याप्तं पृथ्वीवलयमखिलं क्षालयन्नुच्छलद्भिर्ज्योत्स्नाजालैरय मुदयते शर्वरीसार्वभौम. ॥ ९० ॥ पश्योदेति वियोगिना दिनमणि. शृङ्गाररक्षामणिस्तारामौक्तिकहारनायकमणि- श्चण्डीशचूडामणि. । प्रौढानङ्गभुजंगमस्तकमणि. कंदर्पसीम- न्तिनीकाञ्चीमध्यमणिश्चकोरपरिषच्चिन्तामणिश्चन्द्रमाः ॥ ९१ ॥ ॐकारो मदनद्विजस्य गगनक्रोडैकदंष्ट्राङ्कुरस्तारामौक्तिक- शुक्तिरन्धतमसस्तम्बेरमस्याङ्कुशः । शृङ्गारार्गलकुञ्चिका विरहि- णीमर्मच्छिदा कर्तरी सध्यावारवधूनखक्षतिरिय चान्द्री कला जृम्भते ॥ ९२ ॥ खैर कैरवकोरकान्विदल्यन् यूना मनो दोलयन्नम्भोजानि निमीलयन्मृगदृशा मानं समुन्मूलयन् । ज्योत्स्ना कन्दलयन्दिशो धवलयन्नम्भोधिमुद्वेलयन्कोकाना- कुलयंस्तम कवलयन्निन्दु. समुज्जृम्भते ॥ ९३ ॥ एष स्वर्ग- तरगिणीजलमिलद्दिग्दन्तिदन्तद्युतिर्भ्रश्यद्राजतकुम्भविभ्रम- घरः शीताशुरभ्युद्यतः । हंसीत्यमलामञ्जुजीयति लस- ड्डिण्डीरपिण्डीयति स्फारस्फाटिककुण्डलीयति दिशा मानन्द-
१ सूर्याव् २ पति ३ पूर्ववदाकृति स्वरूप यस्य तथा बिम्बम् प्रथम पद्मिनीदर्शनेन विकृताकृति पश्चान्सुकुलीभावेन निराशर्तया विकारापगमेन स्वरूपस्थिति प्राप्तमित्यर्थ ४ कैरविण्य ५ विरहिण सूर्यवन्तापक ६ वराह ७ उद्घाटनसाधनम्, 'चावी' इति लोके.
३०२ सुभाषीतरत्नभाण्डागारम् [ ६ प्रकरणम् ]
कन्दीयति ॥ ९४ ॥ अद्यापि स्तनशैलदुर्गविषमे किं मानिनीनां हृदि स्थातुं वाञ्छति मान एष झगिति क्रोधादिवालोहित । उच्चन्दूरतरप्रसारितकरः कर्षत्यसौ तत्क्षणात्फुल्लत्कैरवकोशनिःसरदलिश्रेणीकृपाणं शशी ॥ ९५ ॥ कैलासायितमद्रिभिर्विटपिभिः श्वेतातपत्रायितं मृत्पङ्केन दधीयितं जलनिधौ दुग्धायितं वारिभिः । मुक्ताहारलतायितं व्रततिभिः शङ्खायितं श्रीफलैः श्वेतद्वीपजनायितं जनपदेर्जाते शशाङ्कोदये ॥ ९६ ॥ पीयूषाश्रपणं जगत्त्रयदृगामालानलेखालवो विश्वोन्माथहुताशनस्य ककुभामुद्घाटिनी कुञ्चिका । वीरेषु प्रथमा च पुष्पधनुषो रेखा मृगाक्षीमुखश्रीणां च प्रतिराजबीजमधिकानन्दी नवश्चन्द्रमाः ॥ ९७ ॥ दिग्बालाकरकन्दुकः स्मरवधूस्रीमन्तमुक्तामणिः कामक्षोणिपतेर्विहारवलभीनिर्यूहपारावतः । हृद्योम्नि विकीर्णतारकमणिः श्यामा वणिक्सुध्रुवः स्फारः स्फाटिकसम्पुटः कुमुदिनीकान्तोऽयमुन्मीलति ॥ ९८ ॥ यातस्यास्तमनन्तरं दिनकृतो वेषेण रागान्वितः स्वैरं शीतकरः करं कमलिनीमालिङ्गितु योजयन् । शीतस्पर्शमुपेत्य संप्रति तया रुद्धे मुखाम्भोरुहे हासेनेव कुमुद्वतीवनितया वैलक्ष्यपाण्डूकृतः ॥ ९९ ॥ एतत्कोककुटुम्बिनीजनमनःशल्यं चकोराङ्गनाचञ्चूकोटिकपाटघटितयितोरूद्घाटिनी कुञ्चिका । दृग्ध्वंसापि नवाङ्कुरः स्मरशरोरार्द्राङ्गसा प्रेयसीमामोदामगजाइकुशो विजयते मुग्धं सुधाशोर्वपुः ॥ १०० ॥ क्षीराब्धेर्लहरीषु फेनधवलाश्चन्द्रोपलेषु स्रवत्याथःसीकरिणो विकासिकुमुदक्रोडे रजःपिञ्जराः । उन्मीलन्ति चकोरचञ्चुगहने छिन्प्रप्ररूढाश्रमांकुर्वन्तः प्रियविप्रयुक्तहरिणीगात्रे सुधाशोः कराः ॥ १०१ ॥ ध्वान्तौघे शितिकण्ठकण्ठमहसि प्राप्ते प्रतीचीमुखं प्राचीमम्बति कि च दुग्धलहरीमुग्धे विधोर्धामनि । एतत्कोकचकोरशोकसम्सम्भानप्रसन्नोल्लसद्दृक्पातोर्मिकदम्बचुम्बितमिव त्रैलोक्यमाभासते ॥ १०२ ॥ शीताशुस्फटिकालवालवलयद्रागुल्लसत्कौमुदीवल्ली नूतनपल्लवाञ्चितमिव प्राप्य क्षणं ताम्रताम् । चञ्चन्मत्तचकोरचञ्चुघटनाच्छिन्नाग्रकाण्डस्रुतक्षीरसन्दनिरन्तराप्लुतभिव श्वेतं वियद्भासते ॥ १०३ ॥ यः श्रीखण्डतमालपत्रति दिशः प्राच्या स्मरक्ष्मापतेः पाण्डुच्छत्रति दन्तपत्रति वियल्लक्ष्मीकुरङ्गीदृशः । केलिश्वेतसहस्रपत्रति रतेः कि च क्षपायोषितः क्रीडाराजतसीधुपात्रति शशी सोऽयं जगन्नेत्रति ॥ १०४ ॥ ये पूर्वं यवसूचिसूत्रसुहृदो ये केतकाग्रच्छदच्छायासाम्यभृतो मृणाललतिकालावण्यभाजोऽत्र ये । ये धाराम्बुविडम्बिनः क्षणमथो ये तारहारश्रियस्तेऽमी स्फाटिकदण्डडम्बरजितो जाताः सुधांशोः कराः ॥ १०५ ॥ सद्यश्चन्दनपङ्कपिच्छिलमिव व्योमाङ्गणं कल्पयन्प्रयैरावतकान्त-दन्तमुसलच्छेदोपमेयाकृतिः । उच्चैश्छलयन्मळ्छमौक्तिककताप्राल्म्बम्बम्बैः करैर्मुग्धानां स्मरलेखवाचनकलोकेलिप्रदीपः शशी ॥ १०६ ॥ कोकानाकुलयंश्चकोरतरुणीवैकल्यमुन्मूलयन्पद्मोजानि निमीलयन्कुमुदिनीरुन्मीलयन्सर्वतः । पान्थानाकुलतां नयन्कुलवधूचेतः समुल्लासयन्नस्तं याति दिवापतिः समुदयं यात्येष दोषोपतिः ॥ १०७ ॥ स्वर्गामामृतपानचारुचषक कि कामदेवाङ्गनाक्रीडाकन्दुक एष किं सुरनदीडिण्डीरपिण्डः किमु । किं छत्रं स्मरभूपतेः किमु यशः पुञ्जं पुरस्तादिदं चेतः सशयकारकं समुदितं शीतद्युतेर्मण्डलम् ॥ १०८ ॥ पद्मिन्या दयितेऽनुधावति रुषा स्वं पद्मिनीद्रोहिणं भ्रान्त्वा भीतमना दिगन्तमखिलं चन्द्रो जगाहेऽम्बुधिम् । गाढे तत्र च तत्र विह्वलममुं कर्षन्ति तारा पति सोऽयं तच्छलवारिकुङ्कुमरसैः सिक्तोऽरुणो दृश्यते ॥ १०९ ॥ मानावभ्युदिते तथा मयि गते किं स्यान्मम प्रेयसी हा हेल्यस्तमितः शशी रसविशादीन्दीवरिण्याः स्मरन् । सोऽयं सम्प्रति नीलिमाङ्किततनूत्कस्माद्दारीदृश्यते ये वै यत्किल सस्मरन्ति चरमे तद्रूपमेष्यन्ति ते ॥ ११० ॥ आदायामृतपूर्णमर्कचषक शोणारविन्दप्रभे पाणाविन्द्रवधूर्विलोक्य च पुनस्तत्स्निग्धश्यामिकाम् । चिक्षेपोपरि कोपतः परिजनैऽसशोध्य दत्ता सुधेत्येनं तं शशिनं प्रशसति जनस्तत्पाणिमुक्ताञ्जनम् ॥१११॥ आनीला करपल्लवैरपनयञ्छन्ना तमःकञ्चुकीमाशा संप्रति वासवीमनुसरन्नक्षीष्णरागः शशी । अस्याश्च स्तनसङ्गिनीमिव वहन्नङ्गेन कस्तूरिकामारिङ्गत्ययमादरेण रजनीमर्धोन्मिषत्तारकाम् ॥ ११२ ॥ यत्पीयूषमयूखमालिनि तमःस्तोमावलीढायुषा नेत्राणामपमृत्युहारिणि पुरः सूर्येऽद्य एवातिथौ । अम्भोजानि पराञ्चि तन्निजमघं दत्त्वैव तेभ्यस्ततो गोराङ्गीवदनोपमासुकृतमादत्ते परित्यज्यनाम् ॥ ११३ ॥ यं प्राक्प्रत्यगवागुदश्वि ककुभा नामानि सबिभ्रतं ज्योत्स्नाजालझलञ्झलाभिरभितो लुम्पन्तमन्धं तमः । प्राचीनादचलादितस्त्रिजगतामालोकबीजाङ्कहिरिर्णीयान्तं हरिणाङ्कमङ्कुरमिव द्रष्टु जनो जीवति ॥ ११४ ॥ स श्रीकण्ठकिरीटकूट्टिमपरिष्कारप्रदीपाङ्कुरो देवः कैरवबन्धुरन्धतमसप्राग्भारकुक्षिम्भरिः । सस्कर्ता निजकान्तिमौक्तिकमणिश्रेणीभिरिणीदृशा गीर्वाणाधिपतेः सुधारसवतीपौरोगवः प्रोदगात् ॥ ११५॥ प्राचीनाचलचुम्बिचन्द्रममणिर्निर्व्यूढपाथं निजैर्निर्याणैरुडुभिर्निजेन वपुषा दत्तार्धलाजाञ्जलि । अन्त प्रौढकलङ्कतुच्छमभितः सान्द्र परिस्तीर्यते बिम्बाद्कुरभन्मनेभिकतम सदोहमन्दोर्मह ॥ ११६ ॥ सायनाभ्युदेति वासरमणिश्चन्द्रो नु चण्डद्युतिर्दावाग्निः कथमम्बरे किमशनिः स्वच्छान्तरीक्षे कुतः । हन्तेदं निरणायि पान्थरमणीप्राणानिलाशाशया धावद्धोरविभावरीविषधरीभोगस्य भीमो मणिः ॥ ११७॥ प्राणायमोपदेष्टा सरसिरुहमुने-
| चन्द्रोदयवर्णनम् | ३०३ |
|---|
| [वाम स्तम्भ] | [दक्षिण स्तम्भ] |
|---|---|
| यौवनोन्मादलीलागोष्ठीना पीठमर्द्दस्त्रिभुवनवनितानेत्रयो प्रातराश । कामायुष्टोममज्वा शमितकुमुदिनीमानमुद्रानुराग शृङ्गाराद्वैतवादी प्रभवति भगवानेषु पीयूषभानु ॥ ११८ ॥ कल्लोलक्षिप्तसप्तच्छ्रिपुरहरशिर ख स्रवन्तीमृणालं कर्पूरक्षोदजालं कुसुमशरवधुसीधुभृङ्गारनालम् । एतद्दुग्धाब्धिवन्धोर्गगनकमलिनीपत्रपानीयविन्दोरन्तस्तोष न केषा किसल यति जगन्मण्डन खण्डमिन्दो ॥ ११९ ॥ सरम्भोद्रिक्त नक्तसमयदशमुखोद्दण्डदोर्दण्डहेलाकैलास सप्तलोकीजयसुदितमनोजन्यवादित्रशङ्ख । लोलाक्षीगण्डपालीलवणमजलवेरुद्गत. फेनपिण्ड पश्य व्योमावकाशं विशति विरहिणा दत्तशङ्क. शशाङ्क ॥ १२० ॥ कैतन्मार्त्तण्डविम्बं मरसि सरसिजश्रेणिहास्यं क यात कैते याता रथाङ्गा. सपदि गतहियः क प्रविष्टा मरालाः । सध्यरागारुणाङ्ग· कुपित इव पति. प्रोद्यतोऽयं हिमाशुर्मन्ये हर्षादिवेय हसति कुमुदिनी जाग्रतीवालिनादैः ॥ १२१ ॥ प्राचीभागे सरागे धरणिबिरहिणीक्लान्तवक्त्रे समुद्रे निद्रालौ नीरजातौ विकसति कुमुदे निर्विकारे चकोरे । आकाशे सावकाशे तमसि शममिते नागलोके मशोके कन्दर्पे मन्ददर्पे वितरति किरणान् शर्वरीसार्वभौमः ॥ १२२ ॥ <br><br>चन्द्रकलावर्णनम्<br>अकलङ्कचन्द्रकलया कलिता सा भाति वारुणी तरुणी । भालस्थलीव शभोः सध्याध्यानोपविष्टस्य ॥ १२३ ॥ <br><br>ज्योत्स्नावर्णनम्<br>दलविततिभृता तले तरूणामिह तिलतण्डुलितं मृगाङ्करोचि । मदचपलचकोरचञ्चुकोटीकवलनतुच्छमिवान्तराऽन्तराभूत् ॥ १२४ ॥ आलोक्य चन्द्रमसमभ्युदितं समन्तादुद्वेलदूर्भिविचुलत्कलशाम्बुराशेः । विष्वग्विसारिपरमाणुपरस्परैव ज्योत्स्नात्मना जगदिद धवलीकरोति ॥ १२५ ॥ सितकिरणकपोलीमालिमालोक्यन्ती तिमिरविरहतापव्याकुला व्योमलक्ष्मीम् । रजनिरमलताराशीकरै. सिक्तमस्याः परिमलयति गात्रं चन्द्रिकाचन्दनेन ॥ १२६ ॥ *अपि पिवत चकोरा. कृत्वसुम्नाभ्य कण्ठ क्रमकवलनचञ्च्वचञ्चवश्चन्द्रिकाम्भ । विरहविधुरिताना जीवितत्राणहेतोर्भवति हरिणलक्ष्मा येन तेजोदरिद्र. ॥ १२७ ॥ सह कुमुदकदम्बै. काममुल्लासयन्त. सह घनतिमिरौद्यैर्धैर्यमुत्सारयन्त. । सह सरसिजखण्डैः स्वान्तमामीलयन्तः प्रतिदिशममृतागोरशवः सचिरन्ति ॥ १२८ ॥ भास्वत्कर्कशशाणचक्रकषणैराकाशकौलायसाच्चूर्णं निबिड निपत्य तम इत्याख्या जगन्त्यामगात् । यच्चेन्दोश्चलसिद्धपारदमहाबिन्दोः समायौगतो जातं रूप्यरजोमयं वयमिद ज्योत्स्ना समाचक्ष्महे ॥ १२९॥ एतत्कर्षय कैरवङ्कमुहरे शृङ्गारदीक्षागुरौ दिकान्तामुकुरे | चकोरसुहृदि प्रौढे तुषारत्विषि । कर्पूरे किमपूरि कि मलयजैरलेपि कि पारदैङ्गक्षालि स्फटिकोपलैः किमघटि द्यावापृथिव्योर्वपुः ॥ १३० ॥ उन्मीलन्ति मृणालकोमलरुचो राजीवसर्वंकषामवर्तव्रतवृत्तय कतिपये पीयूषभानो. कग । अप्युन्मैधवलीभवत्सु गिरिषु क्षुब्धोऽयमुन्मज्जता विश्वेनेव तमोमयो निविग्पामह्याय फेनायते ॥ १३१ ॥ कि नु ध्वान्तपयोधिरेष केतकक्षोदैरिबेन्दो. करैरत्यच्छोऽयमथश्व पङ्कपटलं छायापदेशादभूत् । कि वा तत्करकर्तरीभिरभितो निस्तक्षणादुज्ज्वल व्योमैवेदमितस्ततश्च पतिताश्छायाच्छलेन त्वच. ॥ १३२ ॥ पौलोमीकुचकुम्भरूङ्कमरज स्वाजन्यजन्मोद्धता. शीतागोद्युतय पुरदरपुरीसीम्नामुपस्कुर्वते । एताभिलिहतीभिरन्वतमन्यान्मुद्रुक्षतीभिर्दिश श्रोणीमास्तृणतीभिरन्तरतम व्योमेदभोजायते ॥ १३३ ॥ नैवाय भगवानुद्वच्छति शशी गब्यूतिमात्रीं<sup>१</sup>पि यामद्यापि तमस्तु कैरवकुल श्रीचाटुकारा. करा. । मग्नन्ति स्थलसीम्नि शैल गहनोत्सङ्गेषु सरुन्धते जीवगाहमिव कचित्कचिदपि च्छायासु गृह्णन्ति च ॥ १३४ ॥ यन्नद्रावितकेतकोदरदलस्रोतश्रियं विश्रती येयं मौक्तिकदामगुम्फनविधौ योग्यच्छवि प्रागभूत् । उत्सेच्य कलशीभिरञ्जलिपुटैर्ग्राह्या मृणालाङ्कुरै पातुञ्च शशिन्यमुग्धविभवे सा चन्द्रिका वर्तते ॥ १३५ ॥ मुग्धा दुग्धधिया गवा विदधते कुम्भानधो वल्लवा. कर्णे कैरवशङ्कया कुवलयं कुर्वन्ति कान्ता अपि । कैर्कन्धूफलमुच्चिनोति शवरी मुक्ताफलाकाङ्ख्या सान्द्रा चन्द्रमसो न कस्य कुरुते चित्तभ्रम चन्द्रिका ॥ १३६ ॥ इन्दोरस्य त्रियामायुवतिकुचतटीचन्दनस्यासकस्य व्योमश्रीचामरस्य त्रिपुरहरजटावल्लरीकोरकस्य । कंदर्पक्षोणिपालस्फटिकमणिगृहस्यैतदाखण्डलाशानासामुक्ताफलस्य स्थगयति जगती कोऽपि भासा विलास ॥ १३७ ॥ लक्ष्मीक्रीडात्तडागो रतिधवलगृहं दर्पणो दिग्वधूना पुष्प श्यामालतायास्त्रिभुवनजयिनो मन्मथस्यातपत्रम् । पिण्डीभूत हरस्य स्मितममरसरित्पुण्डरीकं मृगाङ्को ज्योत्स्नापीयूषवापी जयति सितवृषस्तैरकागोकुलस्य ॥१३८॥ <br><br>सकलङ्कचन्द्रवर्णनम्<br>दोषागमनमागङ्ग्य रविरेष तिरोहितः । कथमिन्दु समायाति कुतः शङ्का कलङ्किन. ॥ १३९ ॥ यक्ष विरहिण कंचित्त्रासयामास तेजसा । यक्ष एव विलोमेनं सल्लग्नोऽभूद्विधौ क्षय. ॥ १४० ॥ शिवमालानलोत्थेन धूमयोगेन कालिमा । विधौ शङ्कतररे कि वा इति मन्मानसार्थाय ॥ १४१ ॥ इन्दोरेककलाया रुद्रेणोद्धृत्य मूर्धनि वृताया । स्थानमिव तुच्छमेतन्कलङ्करूपेण परिणमति ॥ १४२ ॥ अस्त गतवति सवितरि पायसपिण्ड सुधाकर प्राची । विरचयदम्बरकुशमुवि चरति कलङ्कस्तदन्तरे |
पादटिप्पण्यः (Footnotes):
१ किरणै
२ 'निर्मली नामरुजलप्रकाशकफलशकले
३ बदरी फलम्
४ विपरीततया
१ चन्द्रमा
२ हृदयम्
३ लोहविशेषात्
| ३०४ | सुभाषितरत्नभाण्डागारम् | [ ६ प्रकरणम् |
|---|
काकः ॥ १४३ ॥ कृष्णवर्णहृदय सितदीप्ति दुर्धियः किल कलङ्किनमाहुः । कृष्णवर्णसमुदीरणमात्रादेव यद्गलति दृश्यकलङ्कः ॥ १४४ ॥ आयताग्रसितरश्मिनिबद्धा लाञ्छनच्छविमभीरसदिग्धम् । चन्द्रकैतवमरुत्पटचक्रं क्रीडयोत्सृजति किं खरबालः ॥ १४५ ॥ शम्बरारिरमृतं विषगर्भ चन्द्रबिम्बकपटात्प्रयुनक्ति । यद्वहिः सितमथासितमन्तः प्रोषितान्दहति दर्शनमात्रात् ॥ १४६ ॥ अयं पुरः पार्वणशर्वरीशः किं दर्पणोऽयं रजनीरमण्या । यतस्तदीयं प्रतिबिम्बमस्मिन्सल्लक्ष्यते लाञ्छनकैकैतवेन ॥ १४७ ॥ प्रदोषमातङ्गममञ्जदेवस्तुङ्गं समारुह्य समागतोऽयम् । सिन्दूरिते तस्य सुधांशुकुम्भे किमङ्कुशो लक्ष्ममिषेण दत्तः ॥ १४८ ॥ मम प्रियां कैरविणीं करेण संतापयामास दिनाधिनाथः । इतीव दुःखैर्विकलः कलावान्यपौ विषं लक्ष्ममिषेण सद्यः ॥१४९॥ कलाधिनाथानयनाय सायं कुमुद्वतीप्रेषित एष भृङ्गः । किमिन्दुनालिङ्ग्य सरागमङ्के कृतः कलङ्कभ्रममातनोति ॥ १५०॥ नेदं नभोमण्डलमम्बुराशिर्नैताश्च तारा नवफेनभङ्गाः । नायं शशी कुण्डलितः फणीन्द्रो नासौ कलङ्कः शयितो मुरारिः ॥१५१॥ मधुव्रतोत्थः कुपितः स्वकीयमधुप्रपापद्मनिमीलनेन । बिम्बं समाक्रम्य बलात्सुधाशोः कलङ्कमङ्के ध्रुवमातनोति ॥ १५२॥ अत्रान्तरे च कुलटाकुलवर्मपातसंजातपातक इव स्फुटलाञ्छनश्रीः । वृन्दावनान्तरमदीपयदंशुजालैर्दिक्सुन्दरीवदनचन्दनबिन्दुरिन्दुः ॥ १५३ ॥ अच्छप्रकाशवति चन्द्रमसि प्रियेऽस्मिन्नाह्लादकारिणि सुधावति पूर्णबिम्बे । धाता विचिन्त्य मनसाखिलदृष्टिपातं हर्तुं चकार किमु कज्जलविन्दुयोगम् ॥ १५४ ॥ दृष्टे जगद्वपुषि कालभुजंगमेन तत्रान्धकारमिषमाविरभूद्विषं यत् । सजातलक्ष्मणि तदिन्दुमणौ निपाय्य ज्योत्स्नामये पयसि तत्क्षिपति स्म धाता ॥ १५५ ॥ दिग्वस्त्रतस्तिमिरचूर्णविशेषपूर्णादुद्वक्त्ररोडमयरक्षकविस्फुलिङ्गात् । कालेन पूर्वगिरिदुर्गजुषा प्रयुक्तो वृत्तोपलो विधुमिषात्पथिकान्निहन्ति ॥ १५६ ॥ मन्थानभूमिधरमूलशिलासहस्रसंघट्टनव्रणकिणैः स्फुरतीन्दुमध्ये । छाया मृगः शशक इत्यतिपामरोक्तिस्तेषां कथंचिदपि तत्र हि न प्रसक्तिः ॥ १५७ ॥ अवाप्य प्रागल्भ्यं परिणतरुचः शैलतनये कलङ्को नैवायं विलसति शशाङ्कस्य वपुषि । अमुष्यैवं मन्ये विगलदमृतस्यन्दशिशिरे रतिश्रान्ता शेते रजनिरमणी गाढमुरसि ॥ १५८ ॥ समयशबरो व्योमारण्ये सुधाशनमक्षिकासुविहितसुधाबिम्बक्षौद्रस्फुरत्पटलं प्रति । कलयति कलङ्काख्यं धूमं निपीय पुनश्च तत्किरति मधुरज्योत्स्नाक्षौद्रं महीतलभाजने ॥१५९॥ रुचिभिरभितस्तङ्गोत्कीर्णैरिव त्रसरेणुभिर्मृदुडुभिरपि छेदैः स्थूलैरिव म्रियते नभः । प्रकृतिमलिनो भास्वद्विम्बोन्मृजाकृतकर्मणस्तदयमपि हि त्वद्युः कुन्दे भविष्यति चन्द्रमाः ॥ १६० ॥ तरुणतमालकोमलमलीमसमेतदयं कलयति चन्द्रमाः किल कलङ्कमिति ब्रुवते । तदन्तमेव निर्दयविधुतुददन्तपदव्रणविवरोपदर्शितमिदं हि विभाति नभः ॥ १६१॥ अङ्कं केऽपि शशङ्गिरे जलनिधेः पङ्कं परे मेनिरे सारङ्गं कतिचिच्च संजगदिरे भूच्छायमैच्छन्परे । इन्दोर्दालितेन्द्रनीलशकलश्यामं दरीदृश्यते तत्सान्द्रं निशि पीतमन्धतमसं कुक्षिस्थमाचक्ष्महे ॥ १६२ ॥ रङ्गावड्कङ्गते त्रिविष्टपवनीखेलत्कुरङ्गीगणैः साकं क्रीडनकौतुकेन रभसादुत्प्लुत्य याते दिवम् । तच्छायानुकृतात्ममूर्तिरधुना धर्तुं तमेनं शशी मन्दं व्यायतरश्मिजालकलितः खाय समारोहति ॥ १६३ ॥ काश्मीरेण दिहानमम्बरतलं वामभ्रुवामाननद्वैराज्यं विदधानमिन्दुदृषदा भिन्दानमम्भःसिराः । प्रत्युद्गत्युरुहूतपत्तनवधूवक्तार्धदूर्वाङ्कुरक्षीबोत्सङ्गरुरङ्गमन्दवमिदं बिम्बं समुज्जृम्भते ॥१६४॥
नायकागमनावस्थावर्णनम्
श्रुत्वायान्तं बहिः कान्तमसमासविभूषया । भालेऽञ्जनं दृशोर्लक्षा कपोले तिलकः कृतः ॥ १ ॥ आगच्छन्स्रुचितो येन येनानीतो गृहं प्रति । प्रथमं सखि कः पूज्यः किं काकः किं क्रमेलकः ॥ २ ॥ सज्जितसकलशरीरा क्षणे क्षणे मनसि किमपि गणयन्ती । उत्सवमिव तं दिवसं मनुते मुग्धा प्रियागमने ॥ ३ ॥ अभ्युन्नतस्तनयुगा तरलायताक्षी द्वारि स्थिता तदुपयानमहोत्सवाय । सा पूर्णकुम्भनवनीरज तोरणस्रक्संभारमङ्गलमयत्नकृतं विधत्ते ॥ ४ ॥ आयातो दयितस्त्वेति सहसा न श्रद्दधे भाषितं सद्यः सम्मुखतां गतेऽपि सुमुखी भ्रान्तिं निजां मन्यते । कण्ठाश्लेषभुजेऽपि शून्यहृदया स्वभ्रान्तरं शङ्कते प्रत्यावृत्तिरियं प्रियस्य कियता प्रत्येतु शातोदरी ॥ ५ ॥ द्वारोपान्तनिरन्तरे मयि तया सौन्दर्यसारश्रिया प्रोल्लासोरुयुगं परस्परममासक्तं समासादितम् । आनीतं पुरतः शिरोंशुकमधः क्षिप्ते चले लोचने वाचस्तन्न निवारितं प्रसरणं संकोचिते दोर्लते ॥ ६ ॥
नायकागमने नायिकां प्रति सखीवचनम्
नित्यं मनोरथस्यापि सखि दुर्गम एव यः । अभवत्सांप्रतं कामं प्रत्यक्षेण विभाति सः ॥ १ ॥ धैर्यमाधाय लज्जां च व्यपनीय विलासिनम् । सभावयसि किं नैनं दिष्ट्या स्वयमुपस्थितम् ॥ २ ॥ अपाङ्गसंसर्गि तरङ्गितं दृशोर्भ्रुवोरगलान्त-
१ मध्यभागे २ मन्दर ३ चिह्नम् ४ मूर्खे ५ छायादीनाम्
१ कलङ्कम् २ अब्रुवन् ३ स्फुटित ४ घनम् ५ गाढध्वान्तम् ६ अत्यन्तसन्निहिते
नायकातिथ्यवर्णनम्, नायकस्य नायिकां प्रति प्रश्नः, प्रणयकलहे नायिकानुनयः | ३०५
विकासि वेल्लनम् । विसारि रोमाञ्चितकञ्चुक तनोस्तनोति योऽसौ सुभगे तवागतः ॥ ३ ॥ कलय वलय धम्मिल्लेऽस्मि- न्निवेशय मल्लिका रचय सिचय मुक्ताहार विभूषय सत्वरम् । मृगमदमषीपत्रालेपं कुरुष्व कपोलयोः सहचरि समायातः प्रातः स ते हृदयप्रियः ॥ ४ ॥
नायकातिथ्यवर्णनम्
आयाते दयिते मरुस्थलभुवामुत्प्रेक्ष्य दुर्लङ्घ्यता गेहिन्या परितोषबाष्पकलिलामासज्य दृष्टि सुखे । दत्त्वा पीलुशमी- करीरकवलं लोलाञ्चलेनादरादुन्मृष्टं करभस्य केसरसटाभाराञ्च- लग्न रजः ॥ १ ॥ बाला चन्दनमालिकाकिसलयग्रन्थींनध.- कुर्वतः श्रुत्वा वल्लभवाहनस्य रटितं दासेरकस्याङ्गने । आक्र- न्दात्सुहृदो वनाद्रुरुजनं त्रासायसद्भादसूनकान्तं खीर्घपात- कात्खरमसत्कीर्तेः परावर्तयत् ॥२॥ किंचित्कम्पितपाणिकङ्कण- रवैः पृष्ट ननु स्वागतं व्रीडानममुखाम्बुज्या चरणयोर्न्यस्ते च नेत्रोत्पले । द्वारस्थस्तनयुग्ममङ्गलघटे दत्त. प्रवेशो हृदि स्वामिन्किं न तवातिथे. समुचितं सख्यानयानुष्ठितम् ॥ ३ ॥ दीर्घा वन्दनमालिका विरचिता दृष्ट्यैव नेन्दीवरै. पुष्पाणा प्रकर. स्मितेन रचितो नो कुन्दजात्यादिभि । दत्तः खेदमुचा पयोधरभरेणार्घ्यो न कुम्भाम्भसा स्वैरेवावयवैः प्रियस्य विशतस्तन्व्या कृत मङ्गलम् ॥ ४ ॥
नायकस्य नायिकां प्रति प्रश्नः
कृशा केनासि त्वं प्रकृतिरियमङ्गस्य ननु मे मलाधूम्रा कस्माद्गुरुजनगृहे पाचकतया । खरस्रस्तान्कञ्चिन्जहि नहि नहीत्येवमवदत्खरोत्कम्पं बाला मम हृदि निपत्य प्ररुदिता ॥ १ ॥ कृशासीत्यालीना मलिनवसनासीत्यवनता चिराद्द्द- ष्टासीति स्तनकलशकम्पं प्ररुदिता । परिष्वक्ता यावत्प्रणय- पदवीं कामपि गता ततः सारङ्गाक्ष्या हृदयसदने लीनमभवत् ॥ २ ॥ अङ्गानाममलितानव कुत इदं कस्मादकस्मादये मुग्धे *पाण्डुकपोलमाननमिति प्राणेश्वरे पृच्छति । तन्व्या सर्वमिदं स्वभावत इति व्याहृत्य पक्ष्मान्तरव्यापी बाष्पभरस्तया चलि- तया निःश्वस्य मुक्तोऽन्यतः ॥ ३ ॥
प्रणयकलहे नायिकानुनयः
अनिर्देश्योपभोगस्य रूपस्य मृदुन. कथम् । कठिन खलु ते चेतः शिरीषस्येव बन्धनम् ॥ १ ॥ किं त्वा भणामि विच्छेद- दारुणायासकारिणि । कामं कुरु वरारोहे देहि मे परि- रम्भणम् ॥ २ ॥ मयि ते पादपतिते किंकरत्वमुपागते । प्रिये कामातुरः कोपं कान्ते कोऽन्योऽपनेष्यति ॥ ३ ॥ दाक्षिण्यं नाम बिम्बोष्ठि नायकाना कुलव्रतम् । तन्मे दीर्घाक्षि ये प्राणास्ते त्वदाशानिबन्धनाः ॥ ४ ॥ मुखमिन्दु- र्यथा पाणिः पल्लवेन समः प्रिये । वचः सुधा इवोष्ठस्ते बिम्बतुल्यो मनोऽश्मवत् ॥ ५ ॥ मोढुमलमस्मि नाहं सुन्दरि मन्दागमाद्विलम्बं ते । पञ्चगरास्त्रहत मा सजीवय चारुगात्रि परिरम्भै. ॥ ६ ॥ सकृदिव समर्प्य बाले मम हस्ते मदनघर्मतप्तस्य । अपहरसे कुचकुम्भं तृषितकरा- दमृतकुम्भमिव ॥ ७ ॥ अपराधी नूनमहं प्रसीद रम्भोरु विरम <sup>१</sup>सरम्भात् । सेव्यो जनश्च कुपित. कथं नु दासो निरपराध ॥ ८ ॥ त्वामेयमावद्धाञ्जलि दासजनस्तमिममर्थ- मर्थयते । स्वपिहि मया सह सुरतव्यतिकरखिन्नेव मा मैवम् ॥ ९ ॥ सरले साहसरागं परिहर रम्भोरु मुञ्च सर- म्भम् । विरसं विरहायास वोढु तव चित्तमसह मे ॥ १० ॥ क्षीण. क्षीणोऽपि शशी भूयो भूयोऽभिवर्धते नित्यम् । विरम प्रसीद सुन्दरि यौवनमनिवर्ति यातं तु ॥ ११ ॥ अङ्गानि खेदयसि किं शिरीषकुसुमपरिपेलवानि मुधा । अयमीहितकुसुमाना सपादयिता तवास्ति दासजनः ॥ १२ ॥ मधुधारेव न मुञ्चसि मानिनि रूक्षापि माधुरीं सहजाम् । कृतमुखभङ्गापि रस ददासि मम निम्नगा यथाम्भोघेः ॥१३॥ विराममेवानलयाऽतितोषात्तथापि रोषारुणितेव दृष्टिः । निशापतिः श्लिष्यति पश्चिमाशाframe/मये किमाशा विफलीकरोषि ॥ १४ ॥ यदि प्रिये वेत्सि .तव प्रभु मामनन्यसाधारण- दासमद्वयो. । तदद्य वक्षो मम पात्रमस्तु स्वयंग्रहाश्लेषमहो- त्सवानाम् ॥१५॥ उत्तरङ्गय कुरङ्गलोचने लोचने कमलगर्व- मोचने । अस्तु सुन्दरि कलिङ्गनन्दिनीवीचिदम्बरगभीर- मम्बरम् ॥ १६ ॥ शशिमुखि तव भाति मङ्गुरभ्रुवुवजन- मोहकरालकालसर्प. । यदुदितभयभञ्जनाय यूना त्वदधर- सीधुसुधैव सिद्धमन्त्रः ॥ १७ ॥ मयि निवद्धरते. प्रियवादिनः प्रणयभङ्गपराङ्मुखचेतस. । कमपराधलवं मयि पश्यसि त्यजसि मानिनि दासजनं यतः ॥ १८ ॥ विसृज सुन्दरि सगमसाध्वस ननु चिरात्प्रभृति प्रणयोन्मुखे । परिगृहाण गते सहकारता त्वमतिमुक्तलताचरितं मयि ॥ १९ ॥ मोहन्मया सुतनु पूर्वमुपेक्षितस्ते यो बाष्पबिन्दुरधर परि- बाधमान. । तं तावदाकुटिलपक्ष्मविलम्बमद्य कान्ते प्रमृज्य विगैतानुशयो भवामि ॥ २० ॥ मुग्धे विधेहि मयि निर्दय- दन्तदशं दोर्वल्लिबन्धनविडम्तनपीडनानि । चण्डि त्वमेव सुदमञ्चय पञ्चबाणचण्डालकाण्डदलनादसवः प्रयान्ति ॥२१॥ मा मा ससाध्वसमपेहि विलोलनेत्रे दासे जने किमिति सभ्रमकातरासि । किं युज्यते बत मया चिरकाङ्क्षितस्य मध्ये वराङ्गि परिरम्भसुखस्य भङ्ग. ॥ २२ ॥ कि शीकरैः
पादटिप्पणी:
१ कृशत्वम्
२ एतन्नामकवृक्ष प्रसिद्ध
३९ सु. र. भा.
१ कोपात्
२ कोपम्
३ नष्टानुताप
अङ्के विधाय चरणावुत पद्मताम्रौ संवाहयामि करभोरु यथासुखं ते ॥ २३ ॥
| ३०६ | सुभाषितरत्नभाण्डागारम् | [ ६ प्रकरणम् |
|---|
क्लमविमर्दिभिरार्द्रवातं सचालयामि नलिनीदलतालवृन्तम् ।
अङ्के विधाय चरणावुत पद्मताम्रौ संवाहयामि करभोरु यथासुखं ते ॥ २३ ॥
आताम्रतामपनयामि विलक्ष एष लाक्षाकृता चरणयोस्तव देवि मूर्ध्ना ।
कोपोपरागजनिता तु मुखेन्दुबिम्बे हर्तुं क्षमो यदि परं करुणा मयि स्यात् ॥२४॥
इन्दीवरेण नयनं मुखमम्बुजेन कुन्देन दन्तमधरं नवपल्लवेन ।
अङ्गानि चम्पकदलेः स विधाय वेधाः कान्ते कथं घटितवानुपलेन चेतः ॥ २५ ॥
किं मुक्तमासनमलं मयि सम्भ्रमेण नोत्थातुमित्यमुचितं मम तन्तुमध्ये ।
दृष्टिप्रसादविधिमात्रहतो जनोऽयमत्यादरेण किमिति क्रियते विलक्षः ॥२६॥
शुभ्रालकं सितपराजितचन्द्रलेखं दृग्लीलया कुवलयश्रियमाददानम् ।
एतन्मुखं दिविषदामपि दुर्निरीक्ष्यं तन्वङ्गि मामिव सुधा किमद्य करोषि ॥ २७ ॥
लावण्यकान्तिपरिपूरितदिखण्डेऽस्मिन्स्रेऽधुना इव मुखे तरलायताक्षि ।
क्षोभं यदेति न मनागपि तेन मन्ये सुव्यक्तमेव जलराशिरयं पयोधिः ॥ २८ ॥
किं ते निसर्गरुचिरौ चरणौ कराभ्यां संवाहयामि नयने च तवाञ्जनेन ।
किं रञ्जयामि किमु ते स्तनयोर्विचित्रां पत्रावलीं विरचयाम्यचिरेण तन्वि ॥ २९ ॥
सुतनु जहिहि मौनं मुञ्च वाचो जडत्वं प्रणयिनि मयि कोपं किंकरे किं करोषि ।
अथ यदि तव चित्ते सापराधोऽस्मि बाले निजभुजयुगवल्लीबन्धनं मा विधेहि ॥ ३० ॥
किमपि किमपि शङ्के मङ्गलेभ्यो यदन्यद्विरमतु परिहासश्चण्डि पर्युत्सुकोऽस्मि ।
कलयसि कलितोऽहं वल्लभे देहि वाचं भ्रमति हृदयमन्तर्विह्वलं निर्दयासि ॥ ३१ ॥
यदिदमगणयित्वा दुर्वहं श्रोणिभारं मदभिसरणलोभात्प्रस्थितं पद्मताम्रम् ।
अयमहमिहवान्छाम्यप्रमृज्यैव पांसुं सुमुखि पदतलं ते चूडितुं चुम्बितुं च ॥ ३२ ॥
वितरय कुचयोस्त्वद्दर्शनोपक्रमाणां मदनशररुजानां शान्तये मामकीनाम् ।
सकृदपि परिरम्भं सुभ्रु दोर्मूलकूलकषधनपरिणाहस्र्यातयोरेतयोस्ते ॥ ३३ ॥
चरणकमलदासस्त्वेष सङ्कल्पसङ्गे सुमुखि यदभिधत्से त्वं बलात्कारधूर्तम् ।
प्रसभवधृततैर्घः पीडयाम्यत्मनैव द्विरद इव सरोजं पाणिमापाटलं ते ॥ ३४ ॥
विकिर धवलदीर्घापाङ्गसंसर्पि चक्षुः परिजनपथवर्तिन्यत्र किं संभ्रमेण ।
स्मितमधुरमुदारं देवि मामल्पोच्चैः प्रभवति मम पाण्योरञ्जलिः सेवितुं त्वाम् ॥ ३५ ॥
परिलुठति ललाटे मञ्जुरा भ्रूलता किं मदनजयपताकाविभ्रमं बिभ्रतीयम् ।
स्फुरति च किमकाण्डे चण्डि बिम्बाधरोऽयं मृदुपवनविधूतोच्छिद्रबन्धूकबन्धुः ॥ ३६ ॥
मुहुर्मुहुर्वेक्षणं सरसमञ्जसा सस्रवः समुच्छलत्तरङ्गिणी प्रचुरनर्ममर्मस्पृहा । मुहुर्निबिड-
नम्रता परिजनव्यपेक्षापि नो कुतः सुमुखि शिक्षिता कथय कोपरीतिस्त्वया ॥ ३७ ॥
तरङ्गय दृशोऽञ्जने रचय वन्ध्यमिन्दीवरं क्षण वपुरपावृणु स्पृशतु काञ्चनं कालिमा ।
स्फुटीकुरु रदच्छदं व्रजतु विद्रुमः श्वेततामुदुञ्चय मुखं मनाग्भवतु लज्जितश्चन्द्रमाः ॥ ३८ ॥
उदञ्चय दृगञ्चलं चलतु चञ्चरीकोचयः प्रपञ्चय वचःसुधां श्रवणपालिमालिङ्गतु ।
भ्रुवं नटय नागरि त्यजतु मन्मथः कार्मुकं मुखं च कुरु संमुखं व्रजतु लाघवं चन्द्रमाः ॥ ३९ ॥
पुरोदिगनुरागिणी तदपि नानुरागोदयः कृशोदरि निशा कृशा तदपि ते न मानः कृशः ।
प्रसन्नमिदमम्बरं तदपि न प्रसन्नं मनो ननाद चरणाद्युदस्तदपि मौनमालम्बसे ॥ ४० ॥
कृतो दूरादेव स्मितमधुरमभ्युद्गमविधिः शिरस्याज्ञा न्यस्ता प्रतिवचनमुच्चैः प्रणमितम् ।
न दृष्टेः शैथिल्यं मिलत इति चेतो दहति मे निगूढान्तःकोपा कठिनहृदये संवृत्तिरियम् ॥ ४१ ॥
गतप्राया रात्रिः कृशतनु शशी सीदत इव प्रदीपोऽयं निद्रावशमुपगतो घूर्णत इव ।
प्रणामान्तो मानस्त्यजसि न तथापि क्रुधमहो कुचप्रत्यासत्त्या हृदयमपि ते चण्डि कठिनम् ॥ ४२ ॥
इदं दूर्वाकाण्डद्युतिमुषि कपोले कतिपयैः श्रमाम्भोभिः कीर्णं सहजबकुलामोदसुभगम् ।
समाकाङ्क्षे ताम्राधरमनुमनुष्व प्रियतमे मनोज्ञं ते पातुं मुखकमलमाघ्रातुमथवा ॥ ४३ ॥
प्रसादे वर्तस्व प्रकटय मुदं सत्यज रुषं प्रिये शुष्यन्त्यङ्गान्यमृतमिव ते सिञ्चतु वचः ।
निधानं सौख्यानां क्षणमभिमुखं स्थापय मुखं न मुग्धे प्रत्येतुं प्रभवति गतः कालहरिणः ॥ ४४ ॥
प्रसीदेति ब्रूयामिदमसति कोपे न घटते करिष्याम्येवं नो पुनरिति भवेदभ्युपगमः ।
न मे दोषोऽस्तीति त्वमिदमपि हि ज्ञास्यसि मृषा किमेतस्मिन्वक्तुं क्षममिति न वेद्मि प्रियतमे ॥४५॥
कृतेऽप्याज्ञाभङ्गे कथमिव मया ते प्रणतयो धृताः स्तित्वा हस्ते विसृजसि रुषं सुभ्रु बहुशः ।
प्रकोपः कोऽप्यन्यः पुनरयमसीमाद्य गुणितो वृथा यत्र स्निग्धाः प्रियसहचरीणामपि गिरः ॥४६॥
कपोले पत्राली करतलनिरोधेन मृदिता निपीतो निःश्वासैरयममृतहृद्योऽधररसः ।
मुहुः कण्ठे लग्नस्तरलयति बाष्पः स्तनतटं प्रियो मन्युर्जातस्तव निरनुरोधे न तु वयम् ॥४७॥
सुतनु हृदयात्प्रेत्यादेशव्यलीकमपैतु ते किमपि मनसः संमोहो मे तदा बलवानभूत् ।
प्रबलतमसामेवं प्रायाः शुभेषु हि वृत्तयः स्रजमपि शिरस्यन्धः क्षित्वा धुनोत्यहिशङ्कया ॥ ४८ ॥
परिहर कृतातङ्के शङ्कां त्वया सततं घनस्तनजघनाक्रान्ते स्वान्ते परानवकाशिनि ।
विशति वितनोरन्यो धन्यो न कोऽपि ममान्तर स्तनभरपरीरम्भारम्भे विधेहि
१ नीलोत्पलेन २ पाषाणेन तत्सदृशकठिनत्वात् ३ अभिलाष
१ अत्यन्तकोपने; २ निराकृतिदुःखम् ३ मालाम् ४ सर्पभ्रान्त्या
| प्रणयकलहे नायिकानुनयः, सख्यनुनयः | ३०७ |
|---|
विधेयताम् ॥ ४९ ॥ व्यथयति वृथा मौनं तन्वि प्रपञ्चय पक्ष्मलं तरुणि मधुरालापैस्ताप विनोदय दृष्टिभिः । सुमुखि विमुखीभाव तावद्विमुञ्च न वञ्चय स्वयमतिशयस्निग्धो मुग्धे प्रियोऽहमुपस्थित ॥ ५० ॥ कठिनहृदये मुञ्च भ्रान्तिं व्यलीककथाश्रितां पिशुनवचनैर्दुःखं नेतुं न युक्तमिमं जनम्। किमिदमथवा सत्यं मुग्धे त्वया हि विनिश्चितं यदभिरुचितं तन्मे कृत्वा प्रिये सुखमास्यताम् ॥ ५१ ॥ पादासक्ते सुचिरमिह ते वामता कैव मुग्धे नर्मासक्ते प्रणयिनि जने कोऽपराधोऽपराध। इत्थं तस्या परिजनकथा कोमले कोपवेगे बाष्पोद्भेदैस्तदनु सहसा न स्थितं न प्रवृत्तम् ॥ ५२ ॥ कोऽयं कोपविधि. प्रयच्छ करुणागर्भं वचो जायता पीयूष- द्रवदीर्घिकापरिमलैरामोदिनी मेदिनी । आस्ता वा स्पृहयालु- लोचनमिदं व्यावर्तयन्ती मुहुर्यस्मै कुप्यसि तस्य सुन्दरि तपोवृन्द्वानि वन्दामहे ॥ ५३ ॥ सूर्येऽस्ताचलमौलिमालिनि गृहे दीपावलीशालिनि प्राणस्वामिनि मानिनि प्रतिपदं सत्कारमातन्वति । यन्मानं न जहासि कोपकलनादालोहित- स्तत्क्षणादिन्दुः सुन्दरि पूर्वपर्वतशिर.सीमानमारोहति ॥५४॥ सन्त्येवात्र गृहे गृहे युवतयस्ताः पृच्छ गत्वाधुना प्रेयांसः प्रणमन्ति किं तव पुनर्जासो यथा वर्तते । आत्मद्रोहिणि दुर्जनप्रलपितं कर्णे वृथा मा कृथाश्छिन्नस्नेहरसा भवन्ति पुरुषा दु खानुवर्त्या यत. ॥ ५५ ॥ क्षीणांशु शशलाञ्छनः सखि पुनः क्षीणो न मानस्तव ²सैरं पद्मवनं मना- गपि न ते ¹खेर मुखाम्भोरुहम् । पीत श्रोत्रयुगेन ³चैद्रपदस्तं पीत न ते जल्पितं रक्ता ⁴शैकदिगङ्गना रविकरैर्नाद्यापि रक्तासि किम् ॥ ५६ ॥ कि कण्ठे शिथिली- कृतो भुजलतापाशः प्रमादान्मया निद्राच्छेदविवर्तनैष्त्वमि- मुखी नाद्यापि सभाविता । अन्यस्त्रीजनसकथायलघुरहं स्वप्रे त्वया लक्षितो दोष पश्यसि किं प्रिये परिजनोपालम्भयोग्ये मयि ॥ ५७ ॥ चक्षुर्जाड्यमपैतु मानिनि मुखं सदर्शय श्रोत्रयोः पीयूषस्रुतिसौरभ्यमस्तु मधुरा वाचं प्रिये व्याहर । तापः शाम्यतु मे प्रसादशिशिरा दृष्टि शनैः पातय त्यक्त्वा दीर्घमभूतपूर्वमचिराद्दोषं सखीदोषजम् ॥ ५८ ॥ कल्याणाङ्ग- रुचानुरक्तमनसा त्व येन सप्रार्थ्यते यस्यार्थे सुमुखि त्वया पुनरसुत्यागोऽपि सनह्यते । सोऽयं सुन्दरि पञ्चबाणवि- शिखव्यालीढदोरन्तरस्त्वैरोत्पीडितपीवरस्तनतटस्त्वद्दोलतापञ्जरे ॥ ५९ ॥ शीतांशुर्मुखमुत्पले तव दृशौ पद्मानुकारौ करौ रम्भागर्भनिभं तयोरुयुगलं बाहू मृणालोपमौ । इत्याह्लादकरा- खिलाङ्गि रभसान्निःशङ्कमालिङ्ग्य मामङ्गानि त्वमनङ्गतताप- विधुराण्येह्येहि निर्वापय ॥ ६० ॥ स्निग्धं यद्यपि वीक्षितं नयनयोस्ताम्रा तथापि द्युतिर्माधुर्यापि सती स्वलत्यनुपदं ते गद्गदा वागियम् । निःश्वासा नियता अपि स्तनभरोत्कम्पेन सलक्षिता. कोपस्ते प्रकटं प्रयत्नविघृतोऽप्येष स्फुटं लक्ष्यते ॥ ६१ ॥ भ्रूभङ्गैः क्रियते ललाटशशिन. कस्मात्कलङ्को मुधा वाताकम्पितबन्धुपुष्पसमता नीतोऽधरः कि स्फुरन् । मध्यश्रा- धिककम्पितस्तनमरेणार्यं पुनः खिद्यते कोप मुञ्च तवैव चित्त- हरणार्यैतन्मया क्रीडितम् ॥ ६२ ॥ भ्रूभङ्गं न करोषि रोदिषि मुहुर्मुर्मुवेक्षणे केवलं नातिप्रस्फुरिताधरानवरतं निःश्वासमेवो- ज्झसि । वाचं नापि ददासि तिष्ठसि पर प्रध्यातनम्रानना कोपस्ते स्तिमितोऽतिपीडयति मा गूढप्रहारोपमः ॥ ६३ ॥ धृष्ट. कि पुरतोऽवरुध्य विहसन्गृह्णामि कण्ठे प्रिया कि वा चाटुशतप्रचण्डरचनाप्रीता करिष्यामि ताम् । कि तिष्ठामि कृताञ्जलिर्निपतितस्तस्या. पुरः पादयोः सत्यं सत्यमहो न वेद्यमनुनयस्तस्याः कथं स्यादिति ॥ ६४ ॥ सुभ्रु त्वं कुपितेत्य- पास्तमशनं त्यक्ताः कथा योषिता दूरादेव मयोज्झिताः सुरभयः स्रग्गन्धधूपादद्य. । रागं रागिणि मुञ्च मय्यवनते दृष्टे प्रसीदा- धुना सद्यस्त्वद्विरहे भवन्ति सुभगे सर्वा ममान्धा दिशः ॥ ६५ ॥ व्यावृत्तं खलु सर्वतो विषयतस्त्वय्येव लीनं मनो नित्यं च त्वदधीनमेव नियतं मज्जीवितं मानिनि । मत्वैवं मयि नूनमन्यविषया शङ्का त्वया त्यज्यता किं वान्यत्र निशाकरोऽ- भिरमते मुक्त्वा क्षणं कौमुदीम् ॥ ६६ ॥ यद्रम्यं गुरुगौरवस्य सुहृदो यस्मिँल्लभन्तेऽन्तर यद्दाक्षिण्यवशात्प्रसह्य सहते नर्माप- चारानपि । यल्लज्जा निरुणद्धि यत्र शपथैस्तूप्याद्यते प्रेत्यय- स्तत्कि प्रेम स उच्यते परिचयस्तत्रापि कोपेन किम् ॥ ६७॥ मुग्धे मानिनि कोपरीतिरियती युक्ता न तथ्यं त्विदं कान्ते कि त्वदुपेक्षिता मम तनु. शोभेत नेहाद्भुतम् । अन्यायो भवति च्छलस्य करणे दक्षे जनेऽन्यादृशं काहेति प्रतिरुद्ध- वागकरवं वाक्स्तम्भनं चुम्बनैः ॥ ६८ ॥ मानं मानिनि मुञ्च देवि दयिते मिथ्या वचः श्रूयते कि कोपो निजसेवके यदि वचः सत्यं त्वथा गृह्यते । दोभ्यों बन्धवमाशु दन्तदलनं पीनस्तनास्फालन दोषश्रेन्नम ते कटाक्षविशिखै. शस्त्रैः प्रहार कुरु ॥ ६९ ॥ सुभ्रु त्व नवनीतकल्पहृदया केनापि दुर्मन्त्रिणा मिथ्यैव प्रियकारिणा मधुमुखेनाक्षासु चण्डीकृता । किं त्वेतद्विमृश क्षणं प्रणयिनामेणाक्षि कस्ने हित. कि धात्री- तनया वयं किमु सखी कि वा किमक्षत्सुहृत् ॥ ७० ॥
सख्यनुनयः
मुग्धे मानं न ते कर्तुं युक्तं प्राणाधिके प्रिये । धत्से मत्सी कियत्कालं जीवितं ³जीवैनं विना ॥ १ ॥ कुपितासि यदा तन्वि निधाय करजक्षतम् । बधान भुजपाशाभ्या
१ प्रिया २ विकसितम् ३ अमरशब्द ४ प्राची
१ दृढ २ विश्वास ३ जलम्
| ३०८ | सुभाषितरत्नभाण्डागारम् | [ ६ प्रकरणम् |
|---|
कण्ठमस्य दृढं तदा ॥ २ ॥ स्मेरराजीवनयने नयने किं निमीलिते । पश्य निर्जितकंदर्प कंदर्पवशगं प्रियम् ॥ ३ ॥ रमणे चरणप्रान्ते प्रणतिप्रवणेऽधुना । वदामि सखि ते तत्त्वं कदाचिन्नोचिताः क्रुधः ॥ ४ ॥ यदि कुप्यसि नास्ति रतिः कोपेन विनाऽथवा कुतः कामः । कुप्य च कोपय च त्वं प्रसीद च त्वं प्रसादय च कान्तम् ॥ ५ ॥ अरुणे च तरुणि नयने तव मलिनं च प्रियस्य मुखम् । मुखमानतं च सखि ते ज्वलितश्वासान्तरे खरज्वलनः ॥ ६ ॥ अध्वति रजनिरुद्ध्यति तिमिरमिदं चञ्चति मनोभूः । उक्तं न त्यज युक्तं विरचय रक्तं मनस्तस्मिन् ॥ ७ ॥ वियदलिमलिनाम्बुगर्भमेघं मधुकरकोकिलकूजितैर्दिशा श्रीः । धरनिरभिनवाङ्कुराङ्कटङ्का प्रणतिपरे दयिते प्रसीद मुग्धे ॥ ८ ॥ जहीहि कोपं दयितोऽनुगम्यता पुरोऽनुशेते तव चञ्चलं मनः । इति प्रिये काचिदुपैतुमिच्छती पुरानुनान्ये निपुणः सखीजनः ॥ ९ ॥ समयचकितं विन्यस्यन्ती दृशं तिमिरे पथि प्रतितरु मुहुः स्थित्वा मन्दं पदानि वितन्वतीम् । कथमपि रहःप्राप्तामङ्गै रनङ्गरतङ्गिभि सुमुखि सुभगः स त्वा पश्यन्नुपैतु कृतार्थताम् ॥ १० ॥ चपलहृदये किं स्वातन्त्र्यात्स्वयं गृहमागतश्चरणपतितः प्रेमार्द्राङ्गैः प्रियः समुपेक्षितः । तदिदमधुना यावज्जीवं निरस्तसुखोदया रुदितशरणा दुर्जातानां सहस्व रुषा फलम् ॥ ११ ॥ लिखन्नास्ते भूमि बहिरवनतः प्राणदयितो निराहाराः सख्यः सततरोदितोच्छूननयनाः । परित्यक्तं सर्वं हसितपठितं पञ्जरशुकैस्तवावस्था चेयं विसृज कठिने मानमधुना ॥ १२ ॥ असद्वृत्तो नायं न च खलु गुणैरेष रहितः प्रियो मुक्ताहारस्तव चरणमूले निपतितः । गृहाणैनं मुग्धे भजतु निजकण्ठप्रणयितामुपायो नास्त्यन्यस्तव हृदयसंतापशमने ॥ १३ ॥ अनालोच्य प्रेम्णः परिणतिमनादृत्य सुहृदस्त्वयाकाण्डे मानः किमिति सरले संप्रति कृतः । समाकृष्टा ह्येते प्रलयदहनोद्भासुरशिखा स्वहस्तेनाङ्गारास्तदलमधुणारण्यरुदितैः ॥ १४ ॥ अयेऽस्तमयते शशी नहि कृशीभवत्याग्रहो विनश्यति तमो हठं किमणुमर्प्यपास्ते मनः । सखि प्रकटितोऽरुणो न करुणोदयेस्ते मनाक्प्रयाति खलु यामिनी न विमनीकृथा नायकम् ॥ १५ ॥ आयात कुसुमदेश्वरो विजयते सर्वेश्वरो मारुतो भृङ्ग स्फूर्जति भैरवो न निकटं प्राणेश्वरो मुञ्चति । एते सिद्धरसाः प्रसूनविशिखो वैद्योऽनवद्योत्सवो मानव्याधिं कृशोदरि कथं त्वच्चेतसि स्थास्यति ॥ १६ ॥ मानं मानिनि मुञ्च मानसमुवः साम्राज्यमुज्जृम्भता हा हा गच्छति यामिनी न समयो यातः पुनः प्राप्यते । अत्यन्तागति कल्पिताधिकमये कान्ते पदान्तानते कोऽयं कोकिलवाणि केलिसमये कोपस्त्वयालम्बितः ॥ १७ ॥ स्निग्धे यत्परुषासि यत्प्रणमति स्तब्धासि यद्रागिणि द्वेषस्थासि यदुन्मुखे विमुखता यातासि तस्मिन्प्रिये । तन्मुग्धे विपरीतकारिणि तव श्रीखण्डचर्चा विषं शीतांशुस्तपनो हिम हुतवहः क्रीडामुदो यातना ॥ १८ ॥ त्वा चित्तेन चिरं वहन्नयमविश्रान्तो भृशं तापितः कन्दर्पेण च पातुमिच्छति सुधासवादि विम्बाधरम् । अङ्गाङ्गं तदलंकुरु क्षणमिह भ्रूक्षेपलक्ष्मीलवक्रीते दासजनेऽपि सेवितपदाम्भोजे कुतः संभ्रमः ॥ १९ ॥ मुग्धे किं नखरैः क्षिपस्यविरतं नेत्राम्बु मानोन्नते पश्यैनं चरणाग्रनम्रशिरसं कान्तमाज्ञाञ्जलिम् । अप्रह्ने तव चेतसि प्रणयिनि प्राप्तेऽतिनिर्विण्णतामन्यासक्तमनस्युपेक्षितगता फूत्कृत्य रोदिष्यसि ॥ २० ॥ मुग्धे मुग्धतयैव नेतुमखिलः काल किंमारभ्यते मानं धत्स्व धृतिं बधान ऋजुतां दूरीकुरु प्रेयसि । सख्यैवं प्रतिबोधिता प्रतिवचस्तामाह भीतानना नीचैः शंसै हृदि स्थितो हि ननु मे प्राणेश्वर श्रोष्यति ॥ २१ ॥ अङ्गुल्यग्रनखेन बाष्पसलिलं निक्षिप्य निक्षिप्य किं तूष्णीं रोदिषि कोपने बहुतरं फूत्कृत्य रोदिष्यसि । यस्यास्ते पिशुनोपदेशवचनैर्मानोऽतिभूमिं गते निर्विण्णोऽनु नयं प्रति प्रियतमो मध्यस्थतामेष्यति ॥ २२ ॥ नो तल्पं मजसे न जल्पसि सुधाधारानुकारा गिरो दृक्पातं कुरुषे न वा परिजने कोपप्रकाशच्छलात् । इत्थं केतकगर्भगौरि दयिते कोपस्य संगोपर्ने तत्स्यादेव न चेत्युनः सहचरी कुर्वीत साचिक्षितम् ॥ २३ ॥
कलहान्तरिताप्रलापाख्यानम्
उपचारादुनयनास्ते कितवस्योपेक्षिताः सखीवचसा । अधुना निष्ठुरमपि यदि स वदति कलिकैतवाद्यामि ॥ १ ॥ प्रयाहि तत्रैव ययानुरज्यसे किमत्र निर्विर्शा तव प्रयोजनम् । न कञ्चुकग्रन् lay ... कञ्चुकग्रन्थिमपाकुरूष्व मे कथं हृदि ग्रन्थिमपाकरिष्यसि ॥ २ ॥ अकेरोः किमु नेत्रशोणिमानं किमकार्षी करपल्लवावरोधम् । कलहं किमधा वृथा रसज्ञे हितमर्थं न विदन्ति दैवदष्टाः ॥ ३ ॥ स्फुरसि बाहुलते किमनर्थकं त्वमपि लोचनभावमहो गता । तमहमगातप्यपराधिनं न परिरन्धुमलं न च वीक्षितुम् ॥ ४ ॥ मानोन्नेतेत्यसहनेत्यतिपण्डितेति मय्येव धिक्कृतिरनेकमुखी सखीनाम् । दाक्षिण्यमात्रमसृणेन विचेष्टितेन धूर्तस्य तस्य हि गुणानुपवर्णयन्ति ॥ ५ ॥ नवनखपदभङ्गं गोपयन्संशुकेन स्थगयसि पुनरोष्ठं पाणिना
पादटिप्पण्यः :
वामभागः : १ नम्र २ उपवासशील ३ सततरोदनेन शोथयुक्तानि नयनानि यासाम् ४ पाषाणहृदये ५ मौक्तिकानां हार, पक्षे,-मुक्तस्त्यक्त आहारोऽशन येन प्रियेणेत्यर्थ ६ हृदयदाहशान्त्यै ७ अनवसरे ८ नाशयति.
दक्षिणभागः : १ क्रोध २ सरलत्वम् ३ कथय ४ उदासीनताम् ५ शय्याम् ६ अमृतधारातुल्या ७ केतकीगर्भश्वच्छेताङ्गि ८ निर्दोष
कलहान्तरिताप्रलापाख्यानम्, नायकानुनयः, नायकयोरुक्तिप्रत्युक्तयः ३०९
[कलहान्तरिताप्रलापाख्यानम्]
दन्तदष्टम्। प्रतिदिशमपरस्त्रीसङ्गशंसी विसर्पन्नवपरिमलगन्धः
केन शक्यो वरीतुम् ॥ ६ ॥ इदं कृष्ण कृष्ण प्रियतम ननु
श्वेतमथ किं गमिष्यामो यामो भवतु गमनेनाथ भवतु ।
पुरा येनैव मे चिरमनुसृता चित्तपदवी स एवान्यो जातः
सखि परिचिता कस्य पुरुषा ॥ ७ ॥ कथमपि सखि
क्रीडाकोपाद्गजेति मयोदिते कठिनहृदयस्त्यक्त्वा गत्या
बलाद्गत एव स । इति सरभसध्वस्तप्रेम्णि व्यपेतघृणे
स्पृहा पुनरपि हतव्रीडं चेतं. करोति करोमि किम् ॥ ८ ॥
अद्यारभ्य यदि प्रिये पुनरहं मानस्य चान्यस्य वा गृह्णीया
शठदुर् नयेन मनसा नामापि संक्षोभत । तत्तेनैव विना
शशाङ्ककिरणस्पष्टाट्टहासा निशा एको वा दिवसः पयोध-
मलिनो भूयान्मम प्रावृषि ॥ ९ ॥ मानव्याधिनिपी-
डिताहमधुना शक्नोमि तस्यान्तिकं नो गन्तुं न सखी-
जनोऽस्ति चतुरो यो मा बलान्नेष्यति । मानी सोऽपि जनो न
लाघवभयादभ्येति मात स्वयं कालो याति चलं च जीवित-
मिदं क्षुण्णं मनश्चिन्तया ॥ १० ॥ निःश्वासा वदनं
दहन्ति हृदयं निर्मूलमुन्मथ्यते निद्रा नैति न दृश्यते
प्रियमुरुं नक्तंदिनं रुद्यते । अङ्गं शोषमुपैति पादपतितः
प्रेयांस्तदोपेक्षितः सख्यः कं गुणमाकलय्य दयिते मानं वय
कारिताः ॥ ११ ॥ तद्वक्त्राभिमुखं मुखं विनमितं दृष्टिः कृता
पादयोस्तस्यालापकुतूहलाकुलतरे श्रोत्रे निरुद्धे मया ।
पाणिभ्यां च तिरस्कृतः सपुलकः स्वेदोद्गमो गण्डयोः सख्यः
किं करवाणि यान्ति शतशो यत्कञ्चुके संधयः ॥ १२ ॥ नो
चाटु श्रवणं कृतं न च दृशा हारोऽन्तिके वीक्षितः कान्तस्य
प्रियहेतवे निजसखीवाचोऽपि दूरीकृताः । पादान्ते विनिपत्य
तत्क्षणमसौ गच्छन्मया मूढया पाणिभ्यामवरुध्य हन्त
सहसा कण्ठे कथं नार्पितः ॥ १३ ॥ भर्तुर्यस्य कृते गुरु-
र्लघुरभूद्गोष्ठी कनिष्ठकृता धैर्यं कोषधनं गतं सहचरी नीतिः
कृता दूरत । निर्मुक्ता तृणवत्त्रपा परिचिता स्रोतस्विनी
बिन्दुवत्स क्रोधादवधीरतो हतधिया मातर्बलीयौन्विधिः
॥ १४ ॥ यत्पङ्केरुहलक्ष्म पाणिमलं भाग्यालये यद्धुरुन्यस्तं
वा मम यल्ललाटफलके भाग्याक्षरं वेधसा । तत्सर्वं सखि यो
यथार्थमकरोत्तस्मिन्प्रकोपः कृतो धिङ् मा धिङ् मम जीवितं
धिगतनु धिक्चेष्टितं धिग्वयः ॥ १५ ॥ केकाभि कलयन्तु
४केकिनिवहा सम्भूय कर्णज्वरं विद्युद्भिः सह भीषयन्तु परितः
पाथोधराणा घटाः । पश्चेषुर्वधिरीकरोतु ककुभ सर्वाः शराणां
रवैर्नाहं दग्धदुरन्तजीवनकृते कस्यापि वश्या सखि ॥ १६ ॥
१ त्यक्तरुणे
२ मन
३ एकादशम्स्थान भाग्यस्थान, तस्मिन्
४ मयूरसमूहा
नायकानुनयः
घनघनमपि दृष्ट व्योम वान्तो मरुत्वान् शिखिकुलकलवाचा
श्रोत्रमासीन्निवास । १असुमम न मृताहं त्वद्वियोगेऽपि जाते
तव घनपरिरम्भप्रार्थनाग्रावशेन ॥ १ ॥ मयि मलयममीगे
वर्षतीव स्फुलिङ्गानहह हिमकरो मामग्निना सिञ्चतीव ।
किमिति मकरकेतो किं नु वक्ष्ये कठोरे कथमपि तदहं ते
नाथ नोपेक्षणीया ॥ २ ॥ त्वं तावद्वहुलक्ष्मो नवयुवा कान्त-
सुखी निर्घृणो नो जानासि परव्यथा शठमते नैवासि दुःखी
यत । किं त्वन्याः परिपृच्छ मन्मथशरै पीडाममक्ष्णमिमा
त्राता नो भव येन सज्जनजनैः कापालिको नोच्यसे ॥ ३ ॥
मुक्तो मानपरिग्रहः महू सखीसार्थेन तन्मन्त्रिणा शक्ता
त्वच्चरणप्रसादरहिता नाहं क्षणं प्राणितुम् । पश्य त्व सुकृशं
शरीरकमिदं या यामवस्था गतं सैपाहं तव पादयोर्निपतिता
नाथ प्रसीदाधुना ॥ ४ ॥
नायकयोरुक्तिप्रत्युक्तयः
सार्थे मनोरथशतैस्तव धूर्त्त कान्ता सैव स्थिता मनसि
कृत्रिमभावरम्या । अस्माकमस्ति न कथंचिदिहावकाशस्त-
स्मात्कृतं चरणपातविडम्बनाभिः ॥ १ ॥ तद्वितथमवादीर्य-
न्मम त्वं प्रियेति प्रियजनपरिभुक्तं यद्दुकूल दधानः । मद्-
धिवसति मागा कामिना मण्डनश्रीयंत्रजति हि सफलत्वं
वल्लभालोकनेन ॥ २ ॥ यदा त्व चन्द्रोऽभू शिरिकरपर्क-
रुचिरस्तदाहं जाता द्राक्षाशधरमणीना प्रतिकृति । इदानी-
मर्कस्त्वं खररुचिसमुत्सारितरसः किरन्ती कोपायीनहमपि
रविग्रावघटिता ॥ ३॥ तवेदं पश्यन्त्याः प्रसरदनुराग बहिरिव
प्रियापादालक्तच्छुरितमरुणद्योतिहृदयम् । ममाद्य प्रख्यात-
प्रणयभरभङ्गेन कितव त्वदालोकः शोकादपि किमपि लज्जा
जनयति ॥ ४ ॥ कृतककृतकैर्मायाशाठ्यैस्त्वयाप्यतिवर्तितं
निभृतनिभृतै कार्य्यालापैर्मयाप्युपलक्षितम् । भवतु विदितं
नेहा तेऽहं वृथा परिखिद्यते अहमसहना त्वं नि स्नेहः समेन
समं गतम् ॥ ५ ॥ कोपो यत्र भुकुटिरचना निग्रहो यत्र
मौन यत्रान्योन्यस्मितमनुनयो दृष्टिपात प्रसाद । तस्य प्रेम्ण-
स्तदिदमधुना वैगँस पश्य जातं त्वं पादान्ते लुठसि न च मे
मन्युमोक्ष खलायाः ॥ ६ ॥ बाले नाथ विमुञ्च मानिनि
रुष रोषान्मया किं कृत खेदोऽस्मासु न मेऽपराध्यति भवान्
सर्वेऽपराधा मयि । तत्कि रोदिषि गद्गदेन वचसा कस्या-
ग्रतो रुद्यते नन्वेतन्मम का तवास्मि दयिता नासीत्यतो
रुद्यते ॥ ७॥ किं मे वक्त्रमुपेत्य चुम्बसि बलान्निर्लज्ज लज्जा
१ हे प्राणमम
२ अलमित्यर्थे
३ नाशम्
४ क्रोधम्
३१० सुभाषितरत्नभाण्डागारम् [ ६ प्रकरणम्
क्व ते वस्त्रान्त शठ मुञ्च मुञ्च शपथैः किं ब्रूते वाग्बन्धने. । खिन्नाहं तव रात्रिजागरवशात्तामेव याहि प्रिया निर्मल्यो- ज्झितपुष्पदामनिकरे का षट्पदाना रति ॥ ८ ॥ साहार वचनं प्रयच्छसि न मे नो वाञ्छितं यच्छसि प्रायः प्रोच्छ्रसिषि द्रुतं हुतवहज्वालासमं रात्रिषु । कण्ठाश्लेषपरिग्रहे शिथि- लता यच्चादराच्चुम्बसे तंत्तं धूर्त हृदि स्थिता प्रियतमा काचिन्ममेवापरा ॥ ९ ॥ सत्यं तथदवोचथा मम महानरा- गस्त्वदीयादिति त्वं प्राप्तोऽसि विभात एव सदनं मां द्रष्टु- कामो यतः । रागं किं च बिभर्षि नाथ हृदये काश्मीर- पङ्कोदितं नेत्रे जागरजं ललाटफलके लाक्षारसापादितम् ॥ १० ॥ गेहन्तौ प्रथमं ममोर्ग्सि तव प्राप्ता विशुद्धिः स्तना सलापास्तव वाक्यभङ्गिमलिना मोग्धेयं परं त्याजिता । धात्री- कण्ठमपास्य बाहुलतिके कण्ठे तवामञ्जिते निर्दाक्षिण्यं करोमि किं नु विगिष्वाप्येष्या ($१$) न पन्थास्तव ॥११॥ अज्ञानेन परा- ङ्मुखां परिभवादाश्लिष्य मा तु स्थिता किं लब्धं चटुल त्वयेह नयता सौभाग्यमेतां दृशाम् । पश्यैतद्दयिताकुचव्यतिकरेणोन्मृ- द्याङ्गरागारुणं वक्षस्ते मलतैलपङ्कशबलदेणीपदैरङ्कितम्॥१२॥
नायकशिक्षा
अङ्गुलीकिमलयाग्रतर्जनं भ्रूविभङ्गकुटिलं च वीक्षणम् । मेखलाभरमकृच्च बन्धनं वञ्चयन्प्रणयिनीमपाम् म ॥ १ ॥ अधिरजनि जगाम धाम तस्याः प्रियमतयेति रुषा मनावनद्धः । पदमपि चलितुं युवा न सेहे किमिव न शक्तिहरं ममा व- सानाम् ॥ २ ॥ सालक्तकेन नवपल्लवकोमलेन पादेन नूपुर- वता मदनालसेन । यस्ताड्यते दयितया प्रणयापगधान्मो ऽङ्गीकृतो भगवता मकरध्वजेन ॥ ३ ॥ मालक्तकं गत- दलाधिककान्तिरम्यं रत्नौघधामनिकरारुणनूपुरं च । क्षिप्तं भृशं कुपितया तरलोत्पलाक्ष्या सौभाग्यचिह्नमित्र मूर्ध्नि पदं विरेजे ॥ ४ ॥ कोपात्किंचिदुपानतोऽपि रमसादाकृष्य केशेष्वल नीत्वा मोहनमन्दिरं दयितया हारेण बद्ध्वा दृढम् । भूयो यास्यति तद्गृहानिति मुहुः कण्ठार्थरुद्धाक्षरं जल्पन्त्याः श्रवणोत्पलेन सुकृती कश्चिद्रहस्ताड्यते ॥ ५ ॥ सा गाढं भवतेक्षितेति निबिडं संयम्य बाह्वोः स्रजा भूयो द्रक्ष्यसि तां शठेति नितरां सम्भर्त्स्य सतर्ज्य च । आलीनां पुर एव निह्नुतिपरः कोपादसन्नूपुरं मानिन्याश्चरणप्रहारविधिना प्रेया- नशोकीकृतः ॥ ६ ॥ पादे मूर्धनि ताम्रतामुपगते कर्णो- त्पले चूर्णिते छिन्ने हारलतागुणे करतले सपाताजातव्रणे । अप्राप्तप्रियताडनव्यतिकरा हन्तुं पुन कोपिता वाञ्छन्ती मुहुरेशणावनायना पर्याकुला रोदिति ॥ ७ ॥ कोपात्कोमल- लोलबाहुलतिकापाशेन बद्ध्वा दृढं नीत्वा केलिनिकेतनं
($१$) नवनवकुसुमलोलुपानां श्रमराणाम्, पक्षे,-अनेकस्त्रीसक्तानाम्
दयितया सायं सखीनां पुरः । भूयोऽप्येवमिति स्खलत्कल- गिरा ससूच्य दुश्चेष्टितं धन्यो हन्यत एव निह्नुतिपरः प्रेया- न्रुदत्या हसन् ॥ ८ ॥
नायिकाप्रसादः
भवति विततश्वासोन्नाहप्रणुन्नपयोधरं हृदयमपि च स्निग्धं चक्षुर्निजप्रकृतौ स्थितम् । तदनु वदनं मूर्च्छाच्छेदात्प्रसादि विगजते परिगतमिव प्रारम्भेऽह्नां श्रिया सरसीरुहम् ॥ १ ॥ आविर्भूते शशिनि तमसा मुच्यमानेव रात्रिनैंशास्यार्चिर्हुत- भुज इव छिन्नधूमप्रधूमा । मोहेनान्तर्व्रतनुरियं लक्ष्यते मुक्तकल्पा गङ्गा रौवं पतनकलुषा गृह्णतीव प्रसादम् ॥ २ ॥ कुरङ्गीवाङ्गानि स्तिमितयति गीतध्वनिषु यत्सखी कान्तो- दन्तं श्रनमपि पुनः प्रक्षयति यत् । अनिद्रं यच्छ्रान्तः स्वपिति तदहो वेद्यमभिनवा प्रवृत्तोऽस्याः सेक्तुं हृदि मनसिजः प्रेमलताकम् ॥ ३ ॥ परिम्लाने माने मुखशशिनि तस्यां करधृते मयि व्रीडोपाथे प्रणिपतनमात्रैककरणे । तया पक्ष्म- प्रान्तव्रजपुटनिरुद्धेन सहसा प्रमाडो बाष्पेण स्तनतट- विशीर्णेन कथितम् ॥ ४ ॥ कृष्णस्निग्धकनीनिके विकसतः कर्णान्तदीर्घे दृशावुत्कम्पो हृदयस्य वेपितकुचामोग्रं शनैः शाम्यति । धत्ते शीतरुचो विनुतुदमुखान्मुक्तस्य लक्ष्मी- मद मुग्धाङ्गना विगलद्विमाहातिमिरं वक्त्रं प्रसीदत्क्रमात्॥५॥
परस्परप्रसादः
पदप्रणतमालोक्य कान्तमेकान्तकातरम् । मुञ्चन्ती बाष्पमतानं सुसुखं। तेन चुम्बिता ॥ १ ॥ इह स्फुटं तिष्ठति नाथ कण्टकः शनैः शनैः कर्ष नखायलीलया । इति च्छलात्काचिदलग्नकण्टकं पदं तदुत्सङ्गतले न्यवेशयत् ॥२॥ निपपात ससम्भ्रुतं श्रवणादसित्वश्रवः प्रणदितालिकुलम् । दयितावलोकविकसन्नयनप्रसरप्रणुन्नमिव वारिरुहम् ॥ ३ ॥ उपनेतुमुन्नतिमतेव दिवं कुचयोर्युगेन तरसा कलिताम् । रभ- सोत्थितानुपगतं सहसा परिरभ्य कश्चन वधूमरूरुधत् ॥ ४ ॥ अनुदेहमागतवतः प्रतिमां परिणायकस्य गुरुसुद्वहता । मुकुरेण वेपथुभृतोऽतिभरात्कथमप्यपाति न वधूकरतः ॥ ५ ॥ अवनम्य वक्षसि निमग्नकुचद्वितयेन गाढमुपगूढवता । दयितेन तत्क्षणचलद्रशनाकलकिङ्किणीरवमुदासि वधूः ॥६॥ कररुद्धनीवि दयितोपगतौ गलितं त्वराविरहितासनया । क्षणदृष्टहाटकशिलासदृशस्फुरदूरुमिति वसनं ववसे ॥ ७ ॥ पिदधानमन्वगुपगम्य दृशौ ब्रुवते जनाय वद कोऽयमिति । अभिधातुमध्यवससौ न गिरा पुलकैः प्रियं नववधूर्न्यगदत्
१ तीरपातेन मृदाविला २ नैर्मल्यम् ३ नेत्ररेखे
| परस्परप्रसादः | ३११ |
|---|---|
| ॥ ८ ॥ उदितोरुसादमतिवेपथुमत्सुदृढोऽभिभर्त्तुं विधुर<br>त्रपया । वपुरादरातिशयगंसि पुन प्रतिपत्तिमूढमपि बाढम-<br>भूत् ॥ ९ ॥ परिमन्थराभिगलगुरुभराधधिवेश्म पत्युरुपचार-<br>विधा । स्खलिताभिरप्यनुपदं प्रमदा प्रणयातिभूमिमगम-<br>न्नातिभिः ॥ १० ॥ मधुरोन्नतञ्च ललितं च दृशो सकर-<br>प्रयोगचतुर च वच. । प्रकृतिस्थमेव निपुणागमितं स्फुट-<br>नृत्यलीलम्भवत्सुतनो. ॥ ११ ॥ लोलाक्षुकस पवनाकुलि-<br>ताशुंकान्त त्वदृष्टिहारि मम लोचनबान्धवस्य । अध्यामितुं<br>तव चिर जघनस्थलस्य पर्याप्तमेव करभोरु ममोरुयुग्मम् ।<br>॥ १२ ॥ सुतनु जँहिहि मौन पश्य पादानतं मा न खलु<br>तव कदाचित्कोप एवंविधोऽभूत् । इति निगदति नाथे<br>तिर्यङ्गामीलिताक्ष्या नयनजलमनल्पं मुक्तमुक्तं न किंचित्<br>॥ १३ ॥ वचोवीचीदानं स्फुरदधरपानं विविनयं कृशीभूते<br>माने मयि मृगयमाणे मृगदृश । वभूव भ्रूभङ्ग सनयन<br>तरङ्ग. सपदि य. प्रमुल व्यताने जगदुपरेि तेनेह मदन<br>॥ १४ ॥ तदेवाजिह्माक्ष सुखमविशदस्ता गिर इमा स<br>एवाङ्गश्लेषो मयि सरसमाश्रिष्यति तनुम् । तदुक्तं प्रत्युक्तं<br>यदपटु शिर.कम्पनपर प्रिया मानेनेय पुनरपि कृता मे<br>नववधू. ॥ १५ ॥ दृष्टैकासनसंस्थिते प्रियतमे पश्चादुपेल्या-<br>दरादेकस्या नयने निमील्य विहितक्रीडानूबन्धच्छल. ।<br>ईषद्वक्रितकन्धर. सपुलकः प्रेमोल्लसन्मानसामन्तर्हासलस-<br>त्कपोलफलका धूर्तौऽपरा चुम्बति ॥ १६ ॥ आगल्य प्रणि<br>पातसान्त्वितसखीदत्तान्तरे सागसि खैर कुर्वति तल्पपार्श्व-<br>निभृते धूर्तेऽङ्गसवाहनम् । ज्ञात्वा स्पर्शवशात्प्रिय किल<br>सखीभ्रान्त्या स्वमक्षं शनै खिन्नासीत्यभिधाय मीलितदृशा<br>सानन्दमारोपित ॥ १७ ॥ सत्यं दुर्लभ एष वल्लभतरो<br>रागो ममास्मिन्पुन कोपोऽस्यातिगुरुर्न चातिनिपुणा.<br>सख्योऽपि सबोधने । सचिन्त्येति मृगीदृशा प्रियतमे दृष्टे<br>श्रथा मेखला बन्नन्त्या न गत स्थितं न च चलद्वासोऽथवा<br>संवृतम् ॥ १८ ॥ वाचो वाग्मिनि कि तवाद्य परुषाः सुभ्रु<br>ध्रुवो विभ्रमोऽप्युद्ग्रान्त. कृत एष लोलनयने कि लोहिते<br>लोचने । नास्त्यागो मयि कि मुखैव कुपितेत्युक्ते पुन.<br>प्रेयसा मानिन्या जलविन्दुदुन्तुरपुटा दृष्टि. सखीष्वाहिता<br>॥ १९ ॥ सा यावन्ति पदान्यलीकवचनैरालीजने पाठिता<br>तावन्त्येव कृतागसो द्रुततर सल्प्य पत्यु पुर । आरेभे<br>पुरतो यथा मनसिजस्येच्छा तथा वर्तितुं प्रेम्णो मौर्य्य-<br>विभूषणस्य सहज. कोऽप्येष कान्त. क्रम. ॥ २० ॥ दृष्टे<br>लोचनवन्मनाञ्चुकुलित पार्श्वस्थिते वक्रवच्र्यङ्गभूतं बहिरासित<br>पुलकवत्स्पर्श समातन्वति । नीवीबन्धवदागत शिथिलता | सभाषमाणे अणान्मानेनापमृतं हियेव सुदृशः पाद-<br>स्पृशि प्रेयसि ॥ २१ ॥ एकस्मिन्शयने पराङ्मुखतया<br>वीतोत्तर ताम्यतोन्त्योन्यस्य हृदि स्थितेऽप्यनुनये सरक्षतो-<br>गौरवम् । दंत्यो श्नकगपाङ्गवलनान्मिश्रीभवच्चक्षुषोर्भग्नो<br>मानकलि महामगमसव्यामक्तकण्ठग्रह. ॥ २२ ॥ कृत्वा<br>विग्रहमश्रुपातकल्लुष शय्यासनादुत्थिता कोवाच्चापि विहाय<br>गर्भभवनद्वार रुपा प्रस्थिता । दृष्ट्वा चन्द्रमस प्रभाविरहितं<br>प्रत्यूषवाताहता हा रात्रिरत्वरिता गतेति पतिता कान्ता<br>प्रियस्रोगसि ॥ २३ ॥ पश्याम. किमियं प्रधक्ष्यत इति स्थैर्ये<br>मयालम्बित कि मा नालपतीत्यय खलु शठ कोपस्तया-<br>प्याश्रित. । इत्यन्योन्यविलक्षदृष्टियुतुरे तस्मिन्नवस्थान्तरे<br>सव्याजं हमित मया त्रुटिहरे मुक्तस्तु बाष्पस्तया ॥ २४ ॥<br>चक्षुर्लुसमषीकणं कवलितस्ताम्बूलरागोऽधरे विश्रान्ता कवरी<br>कपोलफलके लूँशव गात्रद्युति । जाने संप्रति मानिनि प्रण-<br>यिना कैरप्युपायकर्ममंथो मानमहातहरुस्तृणो ते चेत.स्थली-<br>वर्धित. ॥ २५ ॥ तस्या. सान्द्रविलेपनस्तनयुगप्रक्षेषमुद्राङ्कितं<br>कि वक्षश्चरणानतिव्यतिकरव्याजैन गोपाप्यते । इत्युक्ते क<br>तदित्युदीर्य सहसा तत्सप्रमार्टु मया संश्लिष्टा रभसेन तत्सुख-<br>वशात्तन्व्यापि तद्विस्मृतम् ॥ २६ ॥ नापेतोऽनुनयेन य.<br>प्रियसृहृद्वाक्यैर्न य. सहतो यो दीर्घ दिवस विषह्य हृदये<br>यत्नात्कथंचिद्धृत । अन्योन्यस्य हृते सुखे विहितयोस्तिर्यक्कथं-<br>चिदृशो समेदे सपदि स्मितव्यतिकरे मानो विहस्योज्झित<br>॥ २७ ॥ शून्य वासगृहं विलोक्य शयनादुत्थाय किचिच्छनै-<br>र्निद्राव्याजमुपागतस्य सुचिर निर्वर्ण्य पत्युर्मुखम् । विश्रब्धं<br>परिचुम्ब्य जातपुलकामालोक्य गण्डस्थली लजानन्रमूखी<br>प्रियेण हसता बाठा चिर चुम्बिता ॥ २८ ॥ कान्ते<br>घोरकृतान्तवक्त्रकुहरत्त्वं पुण्यपुञ्जेन मे मुक्ता कृन्त तर्द्धन-<br>श्रमभर प्रत्यङ्कमालिङ्ग्य माम् । इत्याकर्ण्य निमीलितार्थ-<br>नयनं खैर शनैरानतं सोल्लास वदनाम्बुजं मृगदृश खैर<br>चुचुम्ब प्रिय. ॥ २९ ॥ एकस्मिन्शयने सरोरुहद्वि-<br>ज्ञाय निद्रा तयोरेका पल्लवितावगुण्ठनवतीमुत्कन्धरो<br>दृष्टवान् । अन्यस्या सविधे समेत्य निभृतव्यालोलहस्ताङ्गुलि-<br>व्यापारैर्वसनाञ्चलं चपलयन्स्वापच्युति क्रमवान् ॥ ३० ॥<br>लीलातामरसाहतोऽन्यनित्तानि.शङ्कष्टदाघर कश्चित्केसर-<br>दूषितेक्षण इव व्यामील्य नेत्रे स्थित. । मुग्धा कुञ्चलिता-<br>ग्नेन दधती वायु स्थिता तस्य सा भ्रान्त्या धूर्ततया च वेपे-<br>थुमती तेनानिशं चुम्बिता ॥ ३१ ॥ जाता नोत्कलिका स्तनौ<br>न लुलितौ गात्रं न रोमाञ्चितं वक्त्रं खेदकणान्वितं न सहसा |
| १ लज्ज २ न किञ्चिदप्युक्तम् ३ तिरस्कृतम् | १ मौनरूपम् २ कपायमाना |
| ३१२ | सुभाषितरत्नभाण्डागारम् | [ ६ प्रकरणम् |
|---|
यावच्छेदेनामुना। दृष्टेनैव मनो हृतं द्युतिमुषा प्राणेश्वरेणाद्य मे तत्केनापि निरूप्यमाणनिपुणो मानः समाधीयताम् ॥३२॥
प्रियचाटूक्तयः
मुग्धे यानुष्कता केयमपूर्वा त्वयि दृश्यते । यथा विध्यसि चेतांसि गुणैरेव न नायकैः ॥ १॥
कृष्णार्जुनोनुरक्तापि दृष्टिः कर्णायतम्बिनौ । याति विश्वसनीयत्वं कस्य ते कलभाषिणि ॥ २ ॥
सितपुष्पोद्गमोऽयं ते दृश्यतेऽवरपल्लवे । फलं तु जातं मुग्धाक्षि चक्षुषोर्मम पश्यतः ॥ ३ ॥
अपूर्वं चौर्यमभ्यस्तं त्वया चञ्चललोचने । दिवैव जाग्रता पुंसां चेतो हरसि दूरतः ॥ ४॥
कुतः कुवलयं कर्णे करोषि कलभाषिणि । किमपाङ्गमपर्याप्तमस्मिन्कर्मणि मन्यसे ॥ ५ ॥
दृष्टिं देहि पुनर्बाले कमলায়तलोचने । श्रूयते हि पुरा लोके विषस्य विषमौषधम् ॥ ६ ॥
विभ्रमैर्विश्वहृत्यैस्व विद्ययाप्यनवद्यया । केनापि हेतुना मन्ये प्राप्ता विद्याधरी क्षितिम् ॥ ७ ॥
त्वदङ्गमार्दवे दृष्टे कस्य चित्ते न भासते । मालतीशशभृल्लेखाकदलीनां कठोरता ॥ ८ ॥
बिम्बोष्ठ एव रागस्ते तन्वि पूर्वमदृश्यत । अधुना हृदयेऽप्येष मृगशावाक्षि दृश्यते ॥ ९ ॥
पातालमिव ते नाभिः स्तनौ क्षितिधरोपमौ । वेणीदण्डः पुनरयं कालिन्दीपातसन्निभः ॥ १०॥
अनङ्गोऽयमनङ्गःत्वमद्य निन्दिष्यति ध्रुवम् । यदनेन न सम्प्राप्तं पाणिसम्पर्शोत्सवस्तव ॥ ११ ॥
कमले कमलोत्पत्तिः श्रूयते न च दृश्यते । बाले तव मुखाम्भोजे दृष्टमिन्दीवरद्वयम् ॥ १२ ॥
आकर्ण्य सरोजाक्षि वचनीयमिदं भुवि । शशाङ्कस्तव वक्त्रेण पामरैरुपमीयते ॥ १३ ॥
नीतानामाकुलीभावं लुब्धैर्भूरिशिलीमुखैः । मदंशं वनवृद्धानां कँमलानां त्वदीक्षणे ॥ १४ ॥
यन्मध्यदेशादपि ते सूक्ष्मं लोलाक्षि दृश्यते । मृणालसूत्रमपि ते न समाति स्तनान्तरे ॥१५॥
अनयोरनवद्याङ्गी स्तनयोर्जृम्भमाणयोः । अवकाशो न पर्याप्तस्तव बाहुलतान्तरे ॥ १६ ॥
निर्णेतुं शक्यमस्तीति तव मध्यं नितम्बिनि । अन्यथा नोपपद्येत पयोधरभरस्थितिः ॥ १७ ॥
राकाविभावरीकान्तसक्रान्तद्युति ते मुखम् । तपनीयशिलाशोभी कटिश्च हरते मनः ॥ १८ ॥
आक्षिपन्त्यरविन्द्वानि मुग्धे तव मुखश्रियम् । कोषद्ण्डसमग्राणां किमेषामस्ति दुष्करम् ॥ १९ ॥
आवर्त एव नाभिस्ते नेत्रे नीलसरोरुहे । तरङ्गा वलयस्तेन त्वं लावण्याम्बुवापिका ॥ २० ॥
साहजिकरूपवत्या भवति भवत्या विभूषणं भारः । सर्वाङ्गसौरभिण्या दमनकवल्याः किमालि कुसुमेन ॥ २१ ॥
इन्दुः किं क्व कलङ्कः सरसिजमेतत्किमम्बु कुत्र गतम् । ललितविलास्रवचनैर्मुखमिति हरिणाक्षि निश्चितं परतः ॥ २२ ॥
आरुह्य शैलशिखरं त्वद्वदनापहृतकान्तिसर्वस्वः । फूत्कर्तुमिवोर्ध्वकरः स्थितः पुरस्तान्निशानाथः ॥ २३ ॥
कौटिल्यं कचनिचये करचरणाधरदलेषु रागस्ते । काठिन्यं कुचयुगले तरलत्वं नयनयोर्वसति ॥ २४ ॥
आक्षिपसि कर्णमक्ष्णा बैलिरपि बद्धस्त्वया त्रिधा मध्ये । इति जितसकलवदान्ये तनुदाने लज्जसे सुतनु ॥ २५ ॥
नयननिपातेऽङ्कुरितः पल्लवितो वचसि पुष्पितो हसिते । फलतु कृशाङ्गि तवाङ्गस्पर्गेन मनोरथोड्स्माकम् ॥ २६ ॥
उचितं गोपनमनयोः कुचयोः कनकाद्रिकान्ति तस्करयोः । अवधीरितविधुमण्डलमूखमण्डलगोपनं किमिति ॥ २७ ॥
वदनेन निर्जितं तव निलीयते चन्द्रविम्बमम्बुधरे । अरविन्दमपि च सुन्दरि निलीयते पॊथसां पूरे ॥ २८ ॥
सत्यं तपः सुगत्यै यत्तत्वाम्बुषु रविप्रतीक्षं सत् । अनुभवति सुगतिम्बज्ज त्वत्पद्मजन्मानं समस्तकमनीयम् ॥ २९ ॥
दलदमलकोमलोत्पलपालाशशङ्काकुलोऽयमलिपॊतः । तव लोचनयोरनयोः परिसरमनुवेलमनुसरति ॥ ३० ॥
तव कुवलयाक्षि वक्षसि कुण्डलिता कापि काञ्चनी कान्तिः । कुसुमेषोर्विजिगीषोर्भवति च भवतीह भूयसी कण्डूः ॥ ३१ ॥
कम्बुकण्ठि चरणं शनैश्चरो राहुरेष तव केशकलापः । न च्युतं तदपि यौवनमेतत्समा पयोधरगुरोरनुकम्पा ॥ ३२ ॥
कमलाक्षि विलम्ब्यतां क्षणं कमनीये कचभारबन्धने । दृढलममिदं दृगोर्युगं शनकैरद्य समुद्धराम्यहम् ॥ ३३ ॥
अयि मन्मथचूतसञ्जरि श्रवणायतचारुलोचने । अपहृत्य मनः क्व यासि तत्किमराजकमत्र राजते ॥ ३४॥
भवत्कृते खञ्जनमञ्जुलाक्षि शिरो मदीयं यदि याति यातु । नीतानि नाशं जनकात्मजार्थं दशाननेनापि दशाननानि ॥ ३५ ॥
ताम्बूलरागोऽधरलोलुपो यद्यदञ्जनं लोचनचुम्बनौत्सुकम् । हरश्च कण्ठग्रहलालसो यत्स्वार्थं स तेषां न तु भूषणं ते ॥ ३६ ॥
यत्पद्ममादिक्सु तवाननीया कुरङ्गलक्ष्मा च मृगाक्षि लक्ष्मीम् । एकार्थलिप्स्याकृत एव मन्ये शशाङ्कपङ्केरुहयोर्विरोधः ॥ ३७ ॥
सदा प्रदोषो मम याति जाग्रतः सदा च मे निःश्वसतो गता निशा । त्वया समेतस्य विशाललोचने ममाद्य शोकान्तकरः प्रदोषकः ॥३८॥
पादटिप्पण्यः (Left Footnotes): १ इन्दीवरसदृशं नेत्रयुगलम् २ अङ्गीकृतया निन्दितम् ३ व्याप्तताम्, पक्षे,-चपलताम् ४ लोभशीले, पक्षे,-व्याधे ५ अमरैः पक्षे,-वाणै ६ जलम्, पक्षे,-अरण्यम् ७ पद्मानाम, पक्षे,-हरिणानाम्
पादटिप्पण्यः (Right Footnotes): १ आर्त्तव्याहरणं फूत्कारः २ श्रोत्रम्, पक्षे,-अष्टाधिपम् ३ वलि नामा दैत्यः, पक्षे,-वयसो सावर्ण्यात् वलिः वलित्रितयम् ४ जितमवदानशौण्डे ५ जलानाम्