भारतकोश
संग्रह पर लौटें

सुभाषितरत्नभाण्डागार (पण्डित काशीनाथ शर्मा संग्रह)

Subhashita Ratna Bhandagara

पण्डित काशीनाथ शर्मा (सम्पादक: नारायण राम आचार्य) द्वारा

स्रोत: Subhashita Ratna Bhandagara (10,000+ Classic Sanskrit Epigrams & Maxims - Nirnaya Sagar Press) (उद्गम)

DevanagariSanskritpublished516 पृष्ठ

३६ सुभाषितरत्नभाण्डागारम् [ २ प्रकरणम्

प्रतिबोधितान्वयविदो ये येऽपि तेभ्यो नमः । ये तु ग्रन्थ- सहस्रशाणकषणत्रुट्यत्कलङ्कैर्गुणैर्मुलेखैः कवयन्ति विह्वण- कविस्तेष्वेव संनह्यति ॥ २९ ॥

भट्टारहरिचन्द्रः पदबन्धोज्ज्वलो हारी कृतवर्णक्रमस्थितिः । भट्टारहरि- चन्द्रस्य गद्यबन्धो नृपायते ॥ ३० ॥

भवभूतिः सुकविद्वितयं मन्ये निखिलेऽपि महीतले । भवभूति- शुकश्चायं वाल्मीकिस्तु तृतीयकः ॥ ३१ ॥ भवभूते सब- न्धाद्भूधरभूरेव भारती भाति । एतत्कृतकारुण्ये किमन्यथा रोदिति ग्रावा ॥ ३२ ॥ प्लावलीपूर्वकमन्यदास्तामसीम- भोगस्य वचोमयस्य । पयोधरस्येव हिमाद्रिजायाः परं विभूषा भवभूतिरेव ॥ ३३ ॥

भासः सूत्रधारकृतारम्भैर्नाटकैर्बहुभूमिकै । सपताकैर्यशो लेभे भासो देवकुलैरिव ॥ ३४ ॥

मयूरः तावत्कविविहङ्गानां ध्वनिलकेषु शस्यते । यावन्नो विशति श्रोत्रे मयूरमधुरध्वनिः ॥ ३५ ॥ दर्पं कविभुजङ्गानां गता श्रवणगोचरम् । विषविद्येव मायूरी मायूरी वाङ्निकृन्तति ॥ ३६ ॥

मातङ्गदिवाकरः अहो प्रभावो वाग्देव्या यन्मातङ्गदिवाकरः । श्रीहर्षस्या- भवत्सभ्यः समो बाणमयूरयोः ॥ ३७ ॥

मुरारिः भवभूतिमनादृत्य निर्वाणमतिना मया । मुरारिपद- चिन्तायामिदमाधीयते मनः ॥ ३८ ॥ मुरारिपदभक्तिश्चेत्तदा माघे रतिं कुरु । मुरारिपदभक्तिश्चेत्तदा माघे रतिं कुरु ॥ ३९ ॥ देवीं वाचमुपासते हि बहवः सारं तु सारस्वतं जानीते नितरामसौ गुरुकुलक्लिष्टो मुरारिः कविः । अब्धि- र्लङ्घित एव वानरभटैः किं त्वस्य गम्भीरतामापातालनिमग्न- पीवरतनुर्जानाति मन्थाचलः ॥ ४० ॥

रत्नखेटदीक्षितः विपश्चितामैपंश्चिमे विवादकेलिनिश्चले सपत्नजित्ययत्नतस्तु रत्नखेटदीक्षिते । बृहस्पतिः क्व जल्पति प्रसर्पति क्व मेर्प- राडसमुस्वस्तु षण्मुखः सुदुर्मुखश्चतुर्मुखः ॥ ४१ ॥

राजशेखरः बभूव वल्मीकभवः कविः पुरा ततः प्रपेदे भुवि भर्तृ- मेण्ठताम् । स्थितः पुनर्यो भवभूतिरेखया स वर्तते संप्रति राजशेखर ॥ ४२ ॥ पातु श्रोत्ररसायनं रचयितुं वाचः सतां समता व्युत्पत्तिं परमामवाप्तुमवधिं लब्धुं रसस्रोतसः । भोक्तुं स्वादु फलं च जीविततरोरर्थ्यस्ति ते कौतुकं तन्नातः शृणु गजशेखरकवे सूक्ती सुधास्यन्दिनी ॥ ४३ ॥

वाल्मीकिः कवीन्दुं नौमि वाल्मीकिं यस्य रामायणीं कथाम् । चन्द्रि- कामिव चिन्वन्ति चकोरा इव साधव ॥ ४४ ॥ सदूषणापि निर्दोषी सखरापि सुकोमला । नमस्तस्मै कृता येन रम्या रामायणी कथा ॥ ४५ ॥ योगीन्द्रश्छन्दसा सृष्टा रामायण- महाकवि । वल्मीकजन्मा जयति प्राच्यः प्राचेतसो मुनिः ॥ ४६ ॥ लौकिकानां हि साधूनामर्थं वागनुवर्तते । ऋषीणां पुनराद्यानां वाचमर्थोऽनुधावति ॥ ४७ ॥ आदिकवी चतु- रास्यौ कमलजवल्मीकजौ वन्दे । लोकश्लोकविधात्रोर्ययोर्भिदा लेशमात्रेण ॥ ४८ ॥ तमृषिं मनुष्यलोकप्रवेशविश्रामशाखिनं वाचाम् । सुरलोकादवतारप्रान्तऋखेदच्छिदं वन्दे ॥ ४९ ॥ विहितघनालङ्कारं विचित्रवर्णावलीमयस्फुरणम् । शक्रा- युधमिव वक्रं वल्मीकभुवं मुनिं नौमि ॥ ५० ॥ सति काकुत्स्थकुलोन्नतिकारिणि रामायणेऽपि कि काव्यम् । रोहति कुल्या गङ्गापूरे किं बहुरसे वहति ॥ ५१ ॥ भास्व- द्वंशवतसकीर्तिरमणीरङ्गप्रसङ्गस्वनद्वादित्रप्रथमध्वनिर्विजयते वल्मीकजन्मा मुनिः । पीत्वा यद्वदनेन्दुमण्डलगलत्काव्या- मृतान्धेः किमप्याकल्पं कविनूतनाम्बुदमयी कादम्बिनी वर्षति ॥ ५२ ॥

विजया सरस्वतीव कार्णाटी विजयाङ्का जयत्यसौ । या वैदर्भ- गिरा वासः कालिदासादनन्तरम् ॥ ५३ ॥

विज्जका नीलोत्पलदलश्यामां विज्जका मामजानता । वृथैव दण्डिना प्रोक्तं सर्वशुक्ला सरस्वती ॥ ५४ ॥


१ सुप्तिङन्ताद्यक्षरसमूहः, पक्षे,-चरण २ मनोहरः, पक्षे,-मुक्ताहारैर्युक्तः ३ अक्षराणि, पक्षे,-ब्राह्मणक्षत्रियादि ४ शिवैश्वर्यस्य ५ नगेन्द्रकन्या ६ सरस्वती ७ भवभूतिकृते करुणरसप्रधाने नाटके उत्तररामचरित इत्यर्थे ८ अपि ग्रावा रोदित्यपि दलति वज्रस्य हृदयम्' इति पद्ये ९ नाटकाचार्यः, पक्ष,-वास्तुविद्याज्ञाता १० प्रस्तावना, पक्षे,-अट्टालदिगृहायवविशेष ११ नाटकावयवविशेषः, पक्षे,-ध्वज १२ शिवैश्वर्यम्, पक्षे,-एतन्नामानं कविम् १३ विष्णुः, पक्षे,-कविविशेष १४ माघकाव्ये १५ अधे पातके मा प्रीतिं कुर्वित्यर्थः १६ मन्दराद्रि १७ पूर्वं इत्यर्थे

१ वासुकि २ दूषणो राक्षसविशेषः, पक्षे,-काव्यदोषा ३ खरो राक्षसविशेषः, पक्षे,-कर्कशत्वम् ४ वाल्मीक्यादीनाम् ५ ले लकारे शकारमात्रयोगेण लोकश्लोकयोर्भेदः, पक्षे,-किञ्चिन्मात्रम् ६ विहिता घना बह्वोऽलङ्कारा उपमादयो येन तम्, पक्षे,-विहितं घनानां मेघानामलकरणं येन तम् ७ विचित्रा वर्णानामक्षराणां यावली पङ्क्तिस्तत्प्रचुरस्फुरणं स्फूर्तिर्यस्य तम्, पक्षे,-वर्णा नीलपीताद्यस्तत्प्राङ्ग्विकार स्फुरणमुत्पत्तिर्यस्य तम् ८ वक्रोक्तिकुशलम्, पक्षे, यथाश्रुतम् ९ वाल्मीकिम्, पक्षे,-वल्मीकाज्जातम् इन्द्रधनुषोऽपि तत एवोत्पत्तिरिति लौकिकम् 'वल्मीकाग्राद्भवति धनु खण्डमाखण्डलस्य' इति कालिदास.

विशिष्टकविप्रशंसा-कुकविनिन्दा

३७


व्यासः

नमः सर्वविदे तस्मै व्यासाय कविधेसे । चक्रे पुण्यं सरस्वत्या यो वर्षमिव भारतम् ॥ ५५ ॥ अचतुर्वदनो ब्रह्मा द्विबाहुरपरो हरिः । अभाललोचनः शम्भुर्भगवान्बादरायणः ॥ ५६ ॥ श्रवणाञ्जलिपुटपेयं विरचितवान् भारताख्यममृतं यः । तमहंमरागमकृष्णं कृष्णद्वैपायनं वन्दे ॥ ५७ ॥ व्यासगिरा निर्यास सारं विश्वस्य भारतं वन्दे । भूषणतयैव सञ्ज्ञा यैदङ्किता भारती वहति ॥ ५८ ॥

शाक्लमह्लः

एकोऽभूत्पुलिनात्ततस्तु नलिनाच्चान्योऽपि नौकोरभूत्प्राच्यान्ते त्रय एव दिव्यकवयो दीव्यन्तु देव्या गिरा । अर्वाचो यदि गद्यपद्यरचनाचातुर्यवागुद्गतास्तानसर्वानतिशय्य खेलतितरा शाक्लमह्लः कवि ॥ ५९ ॥

सातवाहनः

ॲविनाशिनमग्राम्यमकरोत्सातवाहनः । विशुद्धजातिभिः कोशं रत्नैरिव सुभाषितैः ॥ ६० ॥

सुदर्शनः

न मुग्धदयिताधरे न विषभाजि रत्नाकरे न राहुमुखकोटरे न किल तार्क्ष्यपक्षान्तरे । सुदर्शनकवीश्वरे रसिकचक्रचूडामणौ गुणौकसि सुधा बुधास्त्यजत सान्द्रचन्द्रप्रभम् ॥ ६१ ॥

सुबन्धुः

कवीनामगलद्दर्पो नूनं वासवदत्तया । शक्त्येव पाण्डुपुत्राणां गतया कर्णगोचरम् ॥ ६२ ॥

कविवृन्दम्

उपमा कालिदासस्य भारवेरर्थगौरवम् । दण्डिनः पदलालित्य माघे सन्ति त्रयो गुणाः ॥ ६३ ॥ माघेन विघ्नितात्साहा नोत्सहन्ते पदकमे । खरन्तो भारवेरेव कवयः कपयो यथा ॥ ६४ ॥ श्रीरामायणभारतबृहत्कथानां कवीन्नमस्कुर्मः । त्रिस्रोता इव सरसा सरस्वती स्फुरति यैर्भिन्ना ॥ ६५ ॥ प्राचेतसव्यासपाराशराद्याः प्राञ्चः कवीन्द्रा जगदक्षितास्ते । गोष्ठी नवीनापि महाकवीनां पूज्या गुणज्ञैर्भुवनोपकर्त्री ॥ ६६ ॥ धन्वन्तरिक्षपणकामरसिंहशङ्कुवेतालभट्टघटखर्परकालिदासाः । ख्यातो वराहमिहिरो नृपतेः सभाया रत्नानि वै वररुचिर्नव विक्रमस्य ॥ ६७ ॥ यस्याश्चोरश्चिकुरनिकरः कर्णपूरो मयूरो भासो हासः कविकुलगुरुः कालिदासो विलासः । हर्षो हर्षो हृदयवसतिः पञ्चबाणस्तु बाणः केषां नैषा कथय कविताकामिनी कौतुकाय ॥ ६८ ॥ भासो रामिलसोमिलौ वररुचिः श्रीसाहसाङ्कः कविर्मेण्ठो भारविकालिदासतरलाः स्कन्दः सुबन्धुश्च यः । दण्डी बाणदिवाकरौ गणपतिः कान्तश्च रत्नाकरः सिद्धा यस्य सरस्वती भगवती के कस्य सर्वेऽपि ते ॥ ६९ ॥ वाचः पल्लवयत्युमापतिधरः संदर्भशुद्धि गिरां जानीते जयदेव एव शरणं श्लाघ्यो दुरूहद्रुते । शृङ्गारोत्तरसत्प्रमेयरचनैराचार्यगोवर्धनस्पर्धी कोऽपि न विश्रुतः श्रुतिधरो धोयीकविक्ष्मापतिः ॥ ७० ॥ माघश्चोरो मयूरो मुररिपुरपरो भारविः सारविद्यः श्रीहर्षः कालिदासः कविरथ भवभूत्याह्वयो भोजराज । श्रीदण्डी डिण्डिमाख्यः श्रुतिमुकुटगुरुर्भल्लटो भट्टबाण ख्याताश्चान्ये सुबन्ध्यादय इह कृतिभिर्विश्वमाह्लादयन्ति ॥ ७१ ॥


कुकविनिन्दा

अप्रगल्भा पदन्यासे जैननीरागहेतवः । सन्त्येके बहुलालापाः कवयो बालका इव ॥ १ ॥ कविभिर्नृपसेवांसु वित्तालंकारकारिणी । वाणी वेश्येव लोमेन परोपकरणीकृता ॥ २ ॥ अन्यवर्णपरावृत्त्या बन्धचिह्ननिगूहनैः । अनाख्यातः सता मध्ये कविश्चौरो विभाव्यते ॥ ३ ॥ प्रायः कुकवयो लोके रागाधिष्ठितदृष्टयः । कोकिला इव जायन्ते वाचालः कामकारिणः ॥ ४ ॥ किं कवेस्तस्य काव्येन सर्ववृत्तान्तगामिनी । कथेव भारती यस्य न प्राप्नोति दिगन्तरम् ॥ ५ ॥ किं कवेस्तस्य काव्येन किं काण्डेन धनुष्मतः । परस्य हृदये लग्नं न घूर्णयति यच्छिरः ॥ ६ ॥ मुखमात्रेण काव्यस्य करोत्यहृदयो जनः । छायामच्छामपि श्यामां राहुस्तारापतेरिव ॥ ७ ॥ श्लोकार्थस्वादकाले तु शब्दोत्पत्तिविचिन्तकाः । नीवीविमोक्षवेलायां वस्त्रमौल्यविचिन्तका ॥ ८ ॥ अधिभिन्नपल्लिगल्ल स्याद्गलत्पल्लवोऽपि वाचालः । नागरनरवरपरिषदि कस्य मुखादक्षरं क्षरति ॥ ९ ॥ गणयन्ति नैपशब्दं न वृत्तभङ्गं क्षयं न चौर्थस्य । रसिकलेनाकुलिता वेश्येवापतयः कुकवयश्च ॥ १० ॥ दुर्जनहुताशतस काव्यसुवर्णं विशुद्धिमायाति । दर्शयितव्यं तस्मान्मत्सरिमनसः प्रयत्नेन ॥ ११ ॥ कविरनुहरति च्छाया पदमेक पादमेकमर्थ वा । सकलप्रबन्धहर्त्रे साहसकर्त्रे नमस्तस्मै ॥ १२ ॥ विपुलहृदयाभियोग्ये खिद्यति काव्ये जडो न


१ व्यास २ भारतचिह्निताम् ३ व्यास ४ ब्रह्मदेव ५ वाल्मीकिः ६ चिरस्थायिनम्, पक्षे,-नाश न गच्छन्तम् ७ मात्राछन्दादि, पक्षे,-मूल्यवन्तम् ८ ग्रन्थविशेष, पक्षे,-भाण्डागारम् ९ एतन्नाम्ना प्रबन्धेन, पक्षे-इन्द्रदत्तया १० इन्द्रियविशेषम्, पक्षे,-कुरुसेनानायक

१ कविदिशेषः २ सुस्निग्धन्तादि, पक्षे,-अङ्गि ३ जनाना नीरागो विरस्ता तस्य हेतव, पक्षे,-जनन्या मातू रागहेतव प्रीतिहेतुभूता ४ बहुला आलापा येषाम्, पक्षे,-बही या लाला ता पिवन्ति ते ५ वर्णान्तरपरिवर्तनेन ६ गोपने ७ रक्ततया, पक्षे, कोपेन ८ चालयति ९ दुःशब्दम् १० इन्द्रवज्रादि, पक्षे,-शीलम् ११ वाच्यस्य, पक्षे,-द्रव्यस्य १२ जारा

३८सुभाषितरत्नभाण्डागारम्[२ प्रकरणम्

मौखर्ये स्वे । निन्दति कञ्चुकमेव प्रायः शुष्कस्तनी नारी ॥ १३ ॥ अतिरमणीये काव्ये पिशुनोऽन्वेषयति दूषणान्येव । अतिरमणीये वपुषि व्रणमेव हि मक्षिका-निकरः ॥ १४ ॥ बालाकटाक्षसूत्रितमसतीनेत्रत्रिभागकृत-भाष्यम् । कविमाणवका दूतीव्याख्यातमधीयते भावम् ॥ १५ ॥ द्रौधीयसा^१ धाष्टर्यगुणेन^२ युक्ताः कैः कैरपूर्वैः परकाव्यखण्डैः । आडम्बरं ये वचसा वहन्ति ते केऽपि कन्याकवयोजयन्ति^३ ॥ १६ ॥ कर्णामृतं सूक्तिरस विमुच्य दोषेषु यत्नः सुमहान्खलस्य । अवेक्षते केलिवन प्रविष्टः क्रैमेलकः कण्टकजालमेव ॥ १७ ॥ साहित्यपाथोनिधि-मन्थनोत्थं^४ काव्यामृतं रक्षत हे कवीन्द्राः । यत्तस्य दैत्या इव लुण्ठनाय काव्यार्थचोराः प्रगुणीभवन्ति ॥ १८ ॥ गृणन्तु सर्वे यदि वा यथेच्छं नास्ति क्षतिः कापि कवी-श्वराणाम् । रत्नेषु लुप्तेषु बहुष्वमर्त्यैरद्यापि रत्नाकर एव सिन्धुः ॥ १९ ॥ दैवीर्गिरः केऽपि कृतार्थयन्ति ताः कुण्ठ-यन्त्येव पुनर्विमूढाः । या विप्रुषः शुक्तिमुखेषु दैव्यस्ता एव मुक्ता न तु चातकेषु ॥ २० ॥ परिश्रमज्ञं जनमन्तरेण मौनव्रतं बिभ्रति वाग्मिनोऽपि । वाचंयमाः सन्ति विना वसन्तं पुस्कोकिलाः पञ्चमचञ्चवोऽपि ॥ २१ ॥ काव्यं करोषि किसु ते सुहृदो न सन्ति ये त्वामुदीर्णपवनं न निवारयन्ति । गव्यं घृतं पिब निवातगृह प्रविश्य वाता-धिका हि पुरुषाः कवयो भवन्ति ॥ २२ ॥ यः सत्पदस्थ मिह काव्यमधु प्रसन्नं मुष्णन्परस्य तनुते निजपद्यमध्ये । अस्थानदोषजनितेव पिपीलिकाली काली विभाति लिखिता-क्षरपङ्किरेस्य ॥ २३ ॥ हठादाकृष्टानां कतिपयपदानां रचयिता जन स्पर्धालुश्चेदहह कविना वश्यवचसा । भवेदद्य श्वो वा किमिह बहुना पापिनि कलौ घटानां निर्मातुस्त्रिभुवनविधातुश्च कलहः ॥ २४ ॥ स्तुवद्भव नि-वर्तके सति हरौ कवि. सूक्तिभिः करोति वरवर्णिनीचरित-वर्णनं^५ गर्हितम् । अनीतरवनीपतिर्बत शुनीतनु मौक्तिकै-र्विभूषयति देवतामुकुटभागयोग्यैर्यथा ॥ २५ ॥ श्रीनाथ-स्तवनानुरूपकवनां वाणीं मनोहारिणीं कष्टं हा कवयः कदर्यकुटिलक्ष्मोपालसात्कुर्वते । दूरोपाहृतसौरसैन्धवपयो^६ देवाभिषेकोचितं ससेके विनियुज्यते सुमतयः शाखालावा-लस्य किम् ॥ २६ ॥ लीलाशुण्ठितशारदापुरमहासपद्मराणा पुरो विद्वांसप्रविनिर्गलत्कणसुषो वल्गन्ति चेत्पामराः । अद्य श्वः फणिना शकुन्तशिशवो दन्तावलानां वृकाः सिंहानां च सुखेन मूर्धसु पदं धास्यन्ति सालावृकाः ॥ २७ ॥ स्वाधीनो रसनाञ्चलः परिचिताः शब्दाः कियन्तः क्वचिच्छ्रेणीन्द्रो न नियामकः परिषदः शान्ताः स्वतन्त्र जगत् । तद्ययं कवयो वयं वयमिति प्रस्तावनादुष्कृतिस्त्वच्छन्द प्रतिसञ्च गर्जत क्यं मौनव्रतालम्बन ॥ २८ ॥ स्वर्गानर्गलनिर्गलत्सुरसरित्पाथः-प्रपातप्रथाप्रत्याख्यानपटीयसापि वचसा जिहेति जिह्वेह नः । एकद्व्यक्षरकथ्पिष्टरचनादुर्वारगर्वग्रहाः कन्यामात्रकवि-न्दकाः कवयितुं सजन्ति लज्जामुचः ॥ २९ ॥ यः स्या-त्केवललक्ष्यलक्षणरतो नो तर्कसंपर्कभृन्नालङ्कारविचारचारु-धिषणः काव्यज्ञशिक्षोज्झितः । तस्माच्चेद्रसशालि काव्य-मुदयेदेकान्ततः सुन्दरं प्रासादो धवलस्तदा क्षितिफ्ते काकस्य काष्ण्याद्भवेत् ॥ ३० ॥

पण्डितप्रशंसा

पण्डिते हि गुणाः सर्वे मूर्खे दोषाश्च केवलाः । तस्मा-न्मूर्खसहस्रेभ्यः प्राज्ञ एको विशिष्यते ॥ १ ॥ यत्र विद्व-ज्जनो नास्ति श्लाघ्यस्तत्राल्पधीरपि । निरस्तपादपे देशे एरण्डोऽपि द्रुमायते^१ ॥ २ ॥ किं कुलेन विशालेन विद्या-हीनस्य देहिनः । अकुलीनोऽपि विद्यावान्देवैरपि स पूज्यते^३ ॥ ३ ॥ रोहण सूक्तिरत्नाना वन्दे वृन्द विपश्चिताम् । यन्मध्यपतितो नीचः काचोऽप्युच्चैर्महीयते ॥ ४ ॥ विद्वा-नेव विजानाति विद्वज्जनपरिश्रमम् । नहि वन्ध्या विजानाति गुर्वी प्रसववेदनाम्^५ ॥ ५ ॥ प्राज्ञो हि जल्पता पुंसा श्रुत्वा वाचः शुभाशुभाः । गुणवद्वाक्यमादत्ते हंसः क्षीरमिवाम्भसः ॥ ६ ॥ विद्वत्त्वं च नृपत्वं च नैव तुल्यं कदाचन । स्वदेशे पूज्यते राजा विद्वान्सर्वत्र पूज्यते ॥ ७ ॥ अल-करोति य. श्लोक शुक एव न मध्यम । अल करोति य. श्लोक शुंक एव नमध्यम.^७ ॥ ८ ॥ सदोषमपि^८ निर्दोषं भवत्यग्रे विपश्चितः । रामस्येवार्जुने^१० वपुः कवेश्व सरस वचः ॥ ९ ॥ गुणदोषौ बुधो गृह्णन्निन्दुश्वेडाविवेश्वरः^११ । शिरसः श्लाघते^१३ पूर्वं परं कण्ठे नियच्छति^१४ ॥ १० ॥ स्थिरा शैली^१५ गुणवृता खलुबुद्धया न बाध्यते । रत्नदीपस्य हि शिखा वात्यायापि न नाश्यते ॥ ११ ॥ वेश्यानामित्र विद्याना मुखं कैः कैर्न चुम्बितम् । हृदयग्राहिणस्तासा द्वित्राः सन्ति न सन्ति वा ॥ १२ ॥ विदुषा वदनाद्वाचः सहसा यान्ति नो बहिः । याताश्चेन्न पराश्चन्ति द्विरदाना रदा इव ॥ १३ ॥ अर्थहरणकौशल्य कि स्तुमः शास्त्रवादिनाम् ।


पादटिप्पण्यः : १ अतिदीर्घेण २ प्रागल्भ्यम् ३ उद्ध ४ अलकारादिप्रतपा-दकशास्त्रसागरमन्धनोद्भवम् ५ राजवर्णनपराम् ६ गङ्गाजलम्
१ वृक्षवदाचरति २ विरतीर्णेन ३ पूज्यते ४ महतीम् ५ प्रसवकाले या वेदना ताम् ६ निषेषति तिरस्करोतीत्यर्थ ७ नमध्यम शुको नकारो मध्ये यस्यैवविध शूनक श्वा इति भाव ८ दोषसहितम्, पक्षे,-दोषो हस्तस्तत्सहितम् ९ परशुरामस्य १० सहस्रार्जुनशरीरम् ११ जानन्, पक्षे,-उपाददान १२ गरलम् १३ अभिनन्दयति, पक्षे,-धारयति १४ निरुणद्धि वाचा कण्ठा-द्बहिर्नोद्घाटयतीत्यर्थ, पक्षे,-स्थापयति १५ रीति

पण्डितप्रशंसा-कुपण्डितनिन्दा ३९


पण्डितप्रशंसाकुपण्डितनिन्दा
अव्ययेभ्योऽपि ये चार्थान्निष्कर्षन्ति सहस्रशः ॥ १४॥<br>स एव रसिको लोके श्रुत्वा काव्यं परैः कृतम् । उत्पद्यते च युगपद्वदनेऽक्ष्णोश्च यस्य वौः ॥ १५ ॥ श्रुते महाकवेः काव्ये नयने वदने च वौः । युगपद्यस्य नोदेति स वृषो महिषोऽथवा ॥ १६ ॥ विद्या विनयोपेता हरति न चेतांसि कस्य मनुजस्य । काञ्चनमणिसंयोगो नो जनयति कस्य लोचनानन्दम् ॥ १७ ॥ व्याख्यातुमेव केचित्कुशलाः शास्त्रं प्रयोक्तुमलमन्ये । उपनामयति करोऽन्नं रसांस्तु जिह्वैव जानाति ॥ १८ ॥ सत्यं तपो ज्ञानमहिंसता च विद्वत्प्रणामं च सुशीलता च । एतानि यो धारयते स विद्वाञ्छ केवलं यः पठते स विद्वान् ॥ १९ ॥ कवीश्वराणां वचसा विनोदैर्नन्दन्ति विद्यानिधयो न चान्ये । चन्द्रोपला एव करैर्हिमांशोर्मध्ये शिलानां सरसा भवन्ति ॥ २० ॥ शास्त्राण्यधीत्यापि भवन्ति मूर्खा यस्तु क्रियावान्पुरुषः स विद्वान् । सुचिन्तितं चौषधमातुराणां न नाममात्रेण करोत्यरोगम् ॥ २१ ॥ न पण्डिताः साहसिका भवन्ति श्रुत्वापि ते सन्तुलयन्ति तत्त्वम् । तत्त्वं समादाय समाचरन्ति स्वार्थं प्रकुर्वन्ति परस्य चार्थम् ॥ २२ ॥ इह तुरगशतैः प्रयान्तु मूढा धनरहितास्तु बुधाः प्रयान्तु पद्भ्याम् । गिरिशिखरगतापि काकपङ्क्ति र्पुलिनगतैर्न समत्वमेति हंसैः ॥ २३ ॥ सन्तश्चेदिह गुणबिन्दवो बुधस्तान्स्तुत्या कवलयति स्फुटेऽपि दोषे । सयुक्तानपि पयसः कणान्विचिन्वन्नन्धम्स्तोऽसति हि मङ्गु मल्लिकाक्षः ॥ २४ ॥ अन्या र्जगद्धितमयी मनसः प्रवृत्तिरन्यैव कापि रचना वचनावलीनाम् । लोकोत्तरा च कृतिराकृतिरङ्गहृद्या विद्यावतां सकलमेव गिरां दैवीयः ॥ २५ ॥ अधिगतपरमार्थान्पण्डितान्माऽवमंस्थास्तृणमिव लघु लक्ष्मीनैव तांन्संरुणद्धि । मदमिलितमिलिन्दश्यामगण्ड-स्थलानां न भवति बिसतन्तुर्वारणं वारणानाम् ॥ २६ ॥ शैलोपस्कृतशब्दसुन्दरगिरः शिष्यप्रदेयागमा विख्याताः कवयो वसन्ति विषये यस्य प्रभोर्निर्धनाः । तज्जाँर्ड्यं वसुधाधिपस्य कवयो ह्यर्थं विनापीश्वराः कुत्स्याः स्युः कुपरीक्षका न मणयो यैरर्घतः पातिताः ॥ २७ ॥ हर्तुर्याति न गोचरं किमपि शं पुष्णाति सर्वात्मना ह्यर्थिभ्यः प्रति-पाद्यमानैर्मनिशं प्राप्नोति वृद्धिं पराम् । कल्पान्तेष्वपि नप्रयाति निधनं विद्याख्यमन्तर्धनं येषां तान्प्रति मानमुज्झत नृपाः कस्तै सह स्पर्धते ॥ २८ ॥<br><br>कुपण्डितनिन्दा<br>यस्य नास्ति स्वयं प्रज्ञा शास्त्रं तस्य करोति किम् । लोचनाभ्यां विहीनस्य दर्पणः किं करिष्यति ॥ १ ॥ मूर्खचि-हानि षडिति गर्वो दुर्वचनं मुखे । विरोधी विषवादी च कृत्याकृत्यं न मन्यते ॥ २ ॥ मूर्खों हि जल्पता पुंसां श्रुत्वा वाचः शुभाशुभाः । अशुभं वाक्यमादत्ते पुरीषमिव शूकरः ॥ ३ ॥ उपदेशो हि मूर्खाणां प्रकोपाय न शान्तये । पयःपानं भुजंगानां केवलं विषवर्धनम् ॥ ४ ॥ वरं पर्वतदुर्गेषु भ्रान्तं वनचरैः सह । न मूर्खजनपंसर्कः सुरेन्द्रभवनेष्वपि ॥ ५ ॥ मूर्खोऽपि मूर्खं दृष्ट्वा च चन्दनादपि शीतलः । यदि पश्यति विद्वांसं मन्यते पितृघातकम् ॥ ६ ॥ अन्त सारविहीनस्य सहायः किं करिष्यति । मलयेऽपि स्थितो वेणुर्वेणुरेव न चन्दनः ॥ ७ ॥ यस्य नास्ति विवेकस्तु केवलं यो बहुश्रुतः । न स जानाति शास्त्रार्थान्दर्वी पाकरसानिव ॥ ८ ॥ रूपयौवनसम्पन्ना विशालकुलसम्भवाः । विद्याहीना न शोभन्ते निर्गन्धाः किंशुका इव ॥ ९ ॥ विद्याविधिविहीनेन किं कुलीनेन देहिनाम् । अकुलीनोऽपि यो विद्वान्दैवतैरपि पूज्यते ॥ १० ॥ मदोपशमनं शास्त्रं खलानां कुरुते मदम् । चक्षुः-प्रकाशकं तेज उलूकानामिवाऽन्धताम् ॥ ११ ॥ ज्ञानविद्याविहीनस्य विद्याजालं निरर्थकम् । कण्ठसूत्रं विना नारी ह्यनेकाभरणैर्युता ॥ १२ ॥ मूर्खे स्वल्पव्ययत्रासात्सर्वनाशं करोति हि । कः सुधीः सत्यजेद्भाण्डं शुल्कैक्सैवातिसाध्वसात् ॥ १३ ॥ माता शत्रुः पिता वैरी येन बालो न पाठितः । न शोभते सभामध्ये हंसमध्ये बको यथा ॥ १४ ॥ पुस्तकेषु च नाधीतं नाधीतं गुरुसन्निधौ । न शोभते सभामध्ये हंसमध्ये बको यथा ॥ १५ ॥ विद्यया शस्यते लोके पूज्यते चोत्तमैः सदा । विद्याहीनो नरः प्राज्ञः सभायां नैव शोभते ॥ १६ ॥ शोभते विदुषां मध्ये नैव निर्गुणमानसः । अन्तरे तमसा दीपः शोभते नार्कतेजसाम् ॥ १७ ॥ बोद्धारो मत्सरग्रस्ताः प्रभवः स्मयदूषिताः । अबोधोपहताश्चान्ये जीर्णमङ्गे सुभाषितम् ॥ १८ ॥ पदद्वयस्य सधानं कर्तुमप्रतिभाः खलाः । तथापि परकाव्येषु दुष्करेष्वाप्यसञ्जमाः ॥ १९ ॥ क दोषोऽत्र मया लभ्य इति सविन्त्य चेतसा । खलः काव्येषु साधूनां श्रवणाय प्रवर्तते ॥ २० ॥ उपपत्तिभिरम्लाना नोपदेशैः कदर्थिताः । स्वसंवेदनवेद्यसाराः सहृदयोक्तयः

पादटिप्पण्यः (वामतः)पादटिप्पण्यः (दक्षतः)
१ अव्ययेभ्य अव्ययानामनेकार्थत्वात्, पक्षे,-व्ययरहितेभ्य कुपणेभ्य इति यावत् २ उदकम्, पक्षे,-'वा वा' इति लौकिकशब्द ३ नयने वा सलिलम् आनन्दाश्रुजलमित्यर्थं वदने च वा. 'वाहवा' इति प्रशंसाबोधको देशी शब्द ४ सैकतगते ५ राजहंस. ६ लोक हितप्रचुरा ७ अतिदूरम् ८ अवमान मा कुरु ९ रोध न कुरुते १० गजानाम् ११ शास्त्रसंस्कारेण शुद्धा ये शब्दास्तै सुन्दरा गिरो येषां ते १२ पण्डिता १३ देशे १४ मौर्खर्यम् १५ मूल्यत १६ अचिन्त्यम् १७ सुखम् १८ दीयमानम् १९ निरन्तरम्१ त्यजत २ स्पर्धां करोति ३ विष्ठा ४ सुरेन्द्राणां भवनेषु, स्वर्गलोकेष्वपीति भाव ५ नेतव्यामेतव्यवस्तुसम्बन्धी राजग्राह्यो भाग

४० सुभाषितरत्नभाण्डागारम् [२ प्रकरणम्


॥ २१ ॥ केषांचिद्वाचि शुकवत्परेषां हृदि मूकवत् । कस्याप्या हृद्याद्वक्त्रे वल्गु वल्गन्ति सूक्तयः ॥ २२ ॥ बहूनि नरशीर्षाणि लोमशानि बृहन्ति च । ग्रीवासु प्रतिबद्धानि किंचित्तेषु सकर्णकम् ॥ २३ ॥ कवीनां महतां सूक्तैर्गूढार्थान्तरसूचिभिः । विध्यमानश्रुतेर्मा भूद्दुर्जनस्य कथं व्यथा ॥ २४ ॥

अज्ञः सुखमाराध्यः सुखतरमाराध्यते विशेषज्ञः । ज्ञानलवदुर्विदग्धं ब्रह्मापि नरं न रञ्जयति ॥ २५ ॥ गुणिगणगणनारम्भे न पतति कठिनी सुँसम्भ्रमाद्यस्य ॥ तेनाम्बा यदि सुँतिनी वद वन्ध्या कीदृशी भवति ॥ २६ ॥ निर्गुण इति मृत इति च द्वावेकार्थाभिधायिनौ विद्धि । पश्य धनुर्गुणशून्यं निर्जीवं यदिह शमन्ति ॥ २७ ॥ अन्तर्भूतो निवसति जडे जडः शिशिरमहसि हरिण इव । अजडे शशीव तपने स तु प्रविष्टोऽपि न सरति ॥ २८ ॥ जीवितं इव कण्ठगते सूक्ते दुःखासिका कवेस्तावत् । नयनविकासविधायी सचेतनाम्यागमो यावत् ॥ २९ ॥ साहित्यसंगीतकलाविहीनः साक्षात्पशुः पुच्छविषाणहीनः । तृणं न खादन्नपि जीवमानस्तद्भागधेयं परमं पशूनाम् ॥ ३० ॥ जडेषु जातप्रतिभाभिमानाः खला कवीन्द्रोक्तिषु के वराकाः । प्राप्ताभिनिर्वापणगर्वमम्बु रबाङ्कुरज्योतिषि किं करोति ॥ ३१ ॥ येषां न विद्या न तपो न दानं ज्ञानं न शीलं न गुणो न धर्मः । ते मृत्युलोके भुवि भारभूता मनुष्यरूपेण मृगाश्चरन्ति ॥ ३२ ॥ मुक्ताफलैः किं मृगपक्षिणां च मृष्टान्नपानं किमु गर्दभानाम् । अन्धस्य दीपो बधिरस्य गीतं मूर्खस्य किं धर्मकथाप्रसङ्गः ॥ ३३ ॥ अज्ञातपाण्डित्यरहस्यमुद्रा ये काव्यमार्गे दधतेऽभिमानम् । ते गारुडीयाननधीत्य मन्त्रान्हालाहलामादनमारमन्ते ॥ ३४ ॥ अवद्यजंम्बालगवेषणाय कृतोद्यमानां खलसौरभाणाम् । कवीन्द्रवाङ्निर्झरनिर्झरिण्या सजायते व्यर्थमनोरथत्वम् ॥ ३५ ॥ वरं दरिद्रः श्रुतिशास्त्रपारगो न चापि मूर्खो बहुरत्नसंयुतः । सुलोचना जीर्णपटापि शोभते न नेत्रहीना कनकैरुलंकृता ॥ ३६ ॥ व्यालाश्च राहूश्च सुधाप्रसादाज्जहाशिरोनिग्रहसुग्रमापुः । इतीव भीता पिशुना भवन्ति पराङ्मुखाः काव्यरसामृतेषु ॥ ३७ ॥ सरस्वतीमातुरभूच्चिरं न यः कवित्वपाण्डित्यघनस्तनंधयः । कथं स सर्वाङ्गमनाससौष्ठवो दिनादिनं प्रौढिविशेषमश्नुते ॥ ३८ ॥ वितीर्णशिक्षा इव हृत्पदस्थसरस्वतीवाहनराजहंसैः । ये क्षीरनीरप्रविभागदक्षा विवेकिनस्ते कवयो जयन्ति ॥ ३९ ॥ काव्यामृतं दुर्जनराहुनीत प्राप्त्य भवेन्नो सुमनोजनस्य । सच्चक्रमव्याजबिराजमानतँैष्ण्यप्रकर्षे यदि नाम न स्यात् ॥ ४० ॥ विना न साहित्यविदापरत्र गुणः कथंचित्प्रथते कवीनाम् । आलम्बते तत्क्षणमम्भसीव विस्तारमन्यत्र न तैलविन्दुः ॥ ४१ ॥ अत्यर्थवक्तवमनर्थकं या शून्या तु सर्वान्यगुणैर्य्यनक्ति । अस्पृश्यतादूषितया तया कि तुच्छश्वपुच्छच्छटयेव वाचा ॥ ४२ ॥ नीचस्तनोत्वश्रु नितान्तकाष्ण्र्यं पुष्णातु साधर्म्यमृदञ्जनेन । विना तु जायेत कथं तदीयक्षोदेन सारस्वतदृक्प्रसादः ॥ ४३ ॥ विविनक्ति न बुद्धिदुुर्विधः स्वयमेव स्वहितं पृथग्जनः । यदुदीरितमन्यदः परैर्न विजानाति तदद्भुतं महत् ॥ ४४ ॥ विद्दुरेव्यैदपायमात्मना परतः श्रद्दधतेऽथ वा बुधाः । न परो पहितं न च स्वतः प्रैमिमीतेऽनुमवाहतेऽल्पधीः ॥ ४५ ॥ अथ र्वामिनिविष्टबुद्धिषु व्रजति व्यर्थकता सुभाषितम् । रविरोगिषु शीतरुचिषः करजालं कमलाकंरेष्विव ॥ ४६ ॥

इतरकर्मफलानि यदृच्छया विलिख तानि सहे चतुरानन । अ॒रसिकेषु कवित्वनिवेदनं शिरसि मा लिख मा लिख मा लिख ॥ ४७॥ कतिचिदुद्धतनिर्भरमत्सराः । कतिचिदामवचःस्तुतिशालिनः । अहह केऽपि निरक्षरकुक्षयस्तदिह सम्प्रति कं प्रति मे श्रमः ॥ ४८ ॥ ये के विचित्ररसशालिषु सत्कवीनां सूक्तेषु कर्णपथगामिषु नाद्रियन्ते । ते मालतीपरिमलेष्वपि कन्दलत्सु नामापुटं करतलेन पिदध्युरेव ॥ ४९ ॥ मन्द्राणि मा कुरु विषादमनादरेण मात्सर्यमग्नमनसा सहसा खलानाम् । काव्यारविन्दमकरन्दमधुव्रतानामास्येषु धास्यसितमा कियतो विलासान् ॥ ५० ॥ चेतःप्रसादजननं विबुधोत्तमानामानन्दि सर्वरसयुक्तमतिप्रसन्नम् । काव्यं खलस्य न करोति हृदि प्रतिष्ठां पीयूषदानमिव वक्रविवर्ति राहोः ॥ ५१ ॥ बद्धा यदर्पणरसेन विमर्दपूर्वमर्थान्कथं झटिति तान्प्रकृतान्न दद्युः । चौंरा इवातिमृदवो महता कवीनामर्थान्तरान्यपि हठाद्वितरन्ति शब्दाः ॥ ५२ ॥ अर्थोऽस्ति चेन्न पदशुद्धिरथास्ति सापि नो रीतिरस्ति यदि सा घटना कुतस्त्या । सास्त्यस्ति चेन्न नववक्रगतिस्तदेतद्व्यर्थं विना रसमहो गहनं कृत्वित्वम् ॥ ५३ ॥ श्लाघ्यैव वक्रिमगतिर्धनदार्व्यबन्धोत्सवा. कविप्रवरसूक्तिधनुर्लतायाः । कर्णान्तिकप्रणयभाजि गुणे यदीये चेतांसि मत्सरवतां झटिति त्रुटन्ति ॥ ५४ ॥ अरण्यरुदितं कृतं शवशरीरमुँद्वर्तितं स्थैलेऽब्जमवरोपितं सुचिरमूषरे वर्षितम् । श्वपुच्छेमवनामितं बधिरैर्कर्णजापः कृतो धृतोऽन्धमुखदर्पणो यदबुधो जनः सेवितः ॥ ५५ ॥ प्रैसँह्म


पादटिप्पणी (Footnotes)

वामभागः (Left Side): १ विकृतिभाव गतम्, २ रञ्जयितुमसमर्थो भवति ३ खटिका 'खडू' इति लोके, न पतति सद्यो यस्य नाम न लिखति ४ पुत्रिणी ५ मूर्खै, पक्षे,-जलरूपत्वात् ६ मूर्ख, पक्षे,-पशुत्वात् ७ शृङ्गम् ८ दैवम् ९ कर्दम्

दक्षिणभागः (Right Side): १ बुद्धिशून्य २ पामरजन ३ आगामिनम् ४ जानाति ५ दुराग्रहमस्तचि्त्तेषु ६ शीतभानो ७ स्वेच्छया ८ प्रेतशरीरम् ९ उद्वर्तन यवगोधूमादिचूर्णेन मलापकर्षणं तेन सुगन्धितम् १० निर्जैलप्रदेशे ११ क्षारमृद्धूमौ १२ ऋजुतास्पादानाय नम्रीकृतम् १३ कर्णमन्त्र १४ बलात्कार कृत्वा

कुपण्डितनिन्दा (४१)

मणिमुद्धरेन्मकरवक्त्रदंष्ट्राङ्कुरात्समुद्रमपि संतरेत्प्रचलदूर्मि-<br>मालाकुलम् । भुजगमपि कोपितं शिरसि पुष्पवद्धारयेन्न तु<br>प्रतिनिविष्टमूर्खजनचित्तमाराधयेत् ॥ ५६ ॥ लभेत सिकतासु तैलमपि यत्नतः पीडयन्पिबेच्च मृगतृष्णिकासु सलिलं<br>पिपासार्दितः । कदाचिदपि पर्यटञ्छशविषाणमासादयेन्न तु<br>प्रतिनिविष्टमूर्खजनचित्तमाराधयेत् ॥ ५७ ॥ यदा किंचिज्ज्ञोऽहं द्विप इव मदान्धः समभवं तदा सर्वज्ञोऽस्मीत्यभवदवलिप्तं मम मनः । यदा किंचित्किंचिद्बुधजनसकाशादवगतं तदा मूर्खोऽस्मीति ज्वर इव मदो मे व्यपगतः ॥ ५८ ॥<br>शिरः शार्वं स्वर्गात्पशुपतिशिरस्तः क्षितिधरं महीध्रात्तुङ्गादवनिमवनेश्चापि जलधिम् । अधोऽधो गङ्गेयं पदमुपगता<br>स्तोकनधुना विवेकभ्रष्टानां भवति विनिपातः शतमुखः ॥ ५९ ॥<br>परश्लोकान्स्तोकाननुदिवसमभ्यस्य ननु ये चतुष्पादीं कुर्युर्बहव इह ते सन्ति कवयः । अविच्छिन्नोद्रेच्छज्जलधिलहरी-<br>रीतिसुहृदः सुहृद्या वैशद्यं दधति किल केषांचन गिरः ॥ ६० ॥<br>वितरति गुरुः प्राज्ञे विद्यां यथैव तथा जडे न तु खलु<br>तयोर्ज्ञाने शक्तिं करोत्यपहन्ति वा । भवति च पुनर्भूयांन्भेदः<br>फल प्रति तद्यथा प्रभवति शुचिर्बिम्बेग्राहे मणिर्न मृदां<br>चयः ॥ ६१ ॥ अविनयसुवामज्ञानानां शमाय भवन्नपि<br>प्रकृतिकुटिलाद्विद्याभ्यासः खलत्वविवृद्धये । फणिभयभृतामस्तूच्छेदक्षमस्तमसामसौ विषधरफणारत्नस्यालोको भय तु<br>भृशायते ॥ ६२ ॥ व्यासादीन्कविपुंगवान्ननुचितैर्वाक्यैः सलीलं<br>सहृद्वच्चैर्जल्प निमील्य लोचनयुगं श्लोकान्सगर्भं पठ ।<br>काव्यं धिक्कुरु यत्परैर्विरचितं स्पर्धस्व सार्धं बुधैर्गद्यम्बन्धयसे<br>श्रुतेन रहितः पाण्डित्यमाप्तुं बलात् ॥ ६३ ॥ ये ससत्सु<br>विवादिनः परयशःशूलेन शल्याकुलाः कुर्वन्ति स्वगुणस्तवेन गुणिनां यद्वाङ्गुणाच्छादनम् । तेषां रोषंकषायितोदरदृशां कोपोष्णनिःश्वासिनां दीप्ता रक्तशिखेव कृष्णफणिनां<br>विद्या जनोद्वेजिनी ॥ ६४ ॥ ग्रीवास्तम्भभृतः परोन्नति-<br>कथामात्रे शिरःशूलिनः सोद्वेगभ्रमणप्रलापविपुलक्षोभाभिभूतस्थितेः । अन्तर्द्वेषविषप्रवेशविषमक्रोधोष्णनिःश्वासिनः कष्टान्नूनमपण्डितस्य विकृतिर्भीमज्वरारम्भभूः ॥ ६५ ॥ मूर्खत्वंसुलभं भजस्व कुमते मूर्खस्य चाष्टौ गुणा निश्चिन्तो बहुभोजनोऽतिमुखरो रात्रिंदिवं स्वप्नभाक् । कार्याकार्यविचारणान्धबधिरो मानापमाने समः प्रायेणामयवर्जितो दृढवपुर्मूर्खः<br>सुखं जीवति ॥ ६६ ॥ व्यालं बालमृणालन्तुभिरसौ रोद्धुं<br>समुज्जृम्भते छेत्तुं वज्रमणीञ्शिरीषकुसुमप्रान्तेन संनह्यते ।<br>माधुर्यं मधुबिन्दुना रचयितुं क्षाराम्बुधेरीहते नेतुं वाञ्छति<br>यः खलान्पथि सतां सूक्तैः सुधास्यन्दिभिः ॥ ६७ ॥ शक्यो<br>वारयितुं जलेन हुतभुक्छत्रेण सूर्यातपो नागेन्द्रो निशिताङ्कुशेन समदो दण्डेन गोगर्दभौ । व्याधिर्भेषजसंग्रहैश्च<br>विविधैर्मन्त्रप्रयोगैर्विषं सर्वस्यौषधमस्ति शास्त्रविहितं मूर्खस्य<br>नास्त्यौषधम् ॥ ६८ ॥ तोयं निर्मथितं घृताय मधुने निष्पीडितः प्रस्तारः पानार्थं मृगतृष्णिकोर्मितरला भूमिः समालोकिता । दुग्धा सेयमचेतनेन जरती दुग्धाशया सूकरी<br>कष्टं यत्खलु दीर्घया धनतृषा नीचो जनः सेवितः ॥ ६९ ॥<br>काव्ये भव्यतमेऽपि विज्ञनिवहैरास्वाद्यमाने सुहृद्द्दोषान्वेषणमेव मत्सरजुषां नैसर्गिकं दुर्ग्रहः । कासारेऽपि विकासिपङ्कजचये खेलन्मराले पुनः क्रौञ्चश्चञ्चुपुटेन कुम्बितवपुः<br>शम्बूकमन्वेषते ॥ ७० ॥ विद्ये हृद्यतरासि किं नु कृपणासभायैर्नर्लज्जसे सन्त्यन्वे तव तोषणात्कविहितो धन्या वदान्या भुवि । कान्तानां कुचकुङ्कुमकोशलरुचा नो हानिरैतावता षण्ढानां हृदयेऽपि यत्प्रणयते नानङ्गरागोदयः ॥ ७१ ॥<br>मीमांसा पठिता न यैरुपनिषन्नैव श्रुता तत्त्वतः श्रीमच्छङ्करभाष्यतो भगवती गीताऽप्यधीता न यैः । सिद्धान्तपागतं<br>शिरोमणिमतं ज्ञात्वाऽपि किंचित्ततो भट्टाचार्यपदं गताः कथमहो लज्जा लभन्ते न ते ॥ ७२ ॥ पेटीचीवरपट्टवस्त्रपटलश्वेतातपत्रच्छटाशाटीहारकघोटकस्फुटघटाटोपाय तुभ्यं<br>नमः । येनानक्षरकुक्षयोऽपि जगतः कुर्वन्ति सर्वज्ञताभ्रान्तिं<br>येन विना तु हास्यपदवी सन्तोऽपि कष्टं गताः ॥ ७३ ॥<br>साकूतं निजसविदेकविषयं तत्त्वं सचेता ब्रुवन्नग्रे नूनमबोधमोहितधिया हास्यत्वमायास्यति । तद्युक्तं विदुषो जनस्य<br>जडवज्जोषं तु नामासितुं जात्यन्य प्रतिरूपवर्णनविधौ कोऽयं<br>वृथैवोद्यमः ॥ ७४ ॥ ये तावत्स्वगुणोपवृंहितधियस्तेषामरण्यं<br>जगद्येऽप्येते कृतमत्सराः परगुणः खम्रेऽपि नेच्छन्ति ये ।<br>अन्येषामनुरागिणां क्वचिदपि स्निग्धं मनो निर्वृतावित्ये यान्तु<br>तपोवनानि महता सूक्तानि मन्येऽधुना ॥ ७५ ॥ यातास्ते रससारसंग्रहविधिं निष्पीड्य निष्पीड्य ये वाक्तत्त्वेष्वलताः पुरा<br>कतिपये तत्त्वस्पृशश्चक्रिरे । जायन्तेऽद्य यथायथं तु कवयस्ते

पाद-टिप्पण्यः (Footnotes)

वामभाग-टिप्पणीदक्षिणभाग-टिप्पणी
१ ज्ञानलेशशून्यत्वेन विपरीसार्थग्राही २ वालुकासु ३ मरीचिकासु ४ शृङ्गम् ५ गज ६ मगर्वम् ७ सर्वसम्बन्धि ८ मस्तकात् ९ ददाति १० मूर्खे ११ नाशयति १२ महान् १३ बिम्बग्रहणे १४ मृत्पिण्ड १५ कविश्रेष्ठान् १६ अयोग्यै १७ रोषेण कषायितं ताम्रसुदर गर्भे यस्या एवविधा दुष्ट्येषांम् १८ कृष्णसर्पाणाम् १९ त्रासदात्री २० ग्रीवास्तम्भं धारयत् २१ परोत्कर्ष २२ मूर्खस्य २३ विकार २४ दारुणज्वरारम्भकहेतु<br>६ सु. र भा.१ रोगवर्जित २ सर्पम् ३ बिसम् ४ हीरकादीन् ५ सन्नद्धो भवति ६ इच्छति ७ अमृतस्त्राविभि ८ तीक्ष्ण
४२सुभाषितरत्नभाण्डागारम्[ १ प्रकरणम्
तत्र सतन्वते येऽनुप्रासकठोरचित्रयमकश्लेषादिशल्कोच्चयम् ॥ ७६ ॥ प्रादु<sup></sup> ष्यात्पाण्डितानां क्वचिद्वचसि कथं प्रत्ननूत्नत्वचिन्ता विधेरन्यद्यदवद्यं निजहति तथा गृह्णते स्युर्गुणाश्चेत् । अन्यस्त्वन्यप्रमाणं परमवतनुते छिद्यते तावता किं नायं रत्नस्य दोषो दृषदिति यदिदं क्षिप्रमन्धाः क्षिपन्ति ॥ ७७ ॥फणाभृद्दीशगिरा दुरापा बुधराजगोष्ठी । अबुद्धचापश्रुतिपद्ध<sup></sup>तीनां युद्धक्षमेवोद्धतयोद्धृसार्था ॥ ६ ॥ नाङ्गीकृतव्याकर<sup></sup>णौषधानाामपाटवं वाचि सुगाढमास्ते । कश्चिच्छिदुक्ते तु पदे कथंचित्स्वैरं वपुः स्विद्यति वेपते<sup></sup> च ॥ ७ ॥ शब्द<sup></sup>शास्त्रमनधीत्य<sup></sup> यः पुमान् वक्तुमिच्छति वचः सभान्तरे । बन्धुमिच्छति वने मदोत्कटं हस्तिनं कमलनालतन्तुना<sup></sup> ॥ ८ ॥
छान्दसप्रशंसावैयाकरणनिन्दा
नाध्यापयिष्यंश्चेन्माञ्छ्रमेणोपाध्यायलोका यदि शिष्यवर्गान् । निर्वेदवादं किल निर्वृतानामुर्वीतलं हन्त तदामविष्यत् ॥ १ ॥टिडाणञ्द्वयसच्द्वयसटिडसोस्तिस्रस्झिसिप्थस्थमिब्वस्मस्ता हशिच्थुनाधुरतइञ्शश्छोऽव्यचोऽन्यादिटि । लोपोव्योर्वलिबृद्धिरेचियचिभंदाधाध्वदाप्छेचटेरित्यन्दानखिलान्नयन्ति<sup></sup> कतिचिच्छब्दान्पठन्तः कर्दून्<sup>१०</sup> ॥ १ ॥ सूत्रैः पाणिनिनिर्मितैर्बहुतरैर्निष्पाद्य शब्दावलिं वैकुण्ठस्तवमक्षमा<sup>११</sup> रचयितुं मिथ्याश्रमाः शाब्दिकाः । पक्वान्नं विविधं श्रमेण विविधापूपाय्यसूपान्वितं मन्दाग्नीनैरनुरुन्ध्यते मितबलानाघ्रातुमप्यक्षमन् ॥ २ ॥ कुप्वोःकऽपौ च शेषोध्यसखि ससजुषोरुर्विरामोऽवसानं शश्छोऽटीत्यादिशब्दैः सदसि यदि शंठाः<sup>१४</sup> शाब्दिकाः पण्डिताः स्युः । तेषां को वापराधः कथयत सततं ये पठन्तीह थोन्तैत्ताथय्याथय्यथय्याधिगधिगधिगधिकथय्यथय्येति<sup>१५</sup> शब्दान् ॥ ३ ॥
छान्दसनिन्दा
आः कष्टमप्रहृष्टाः शठा अपि वित्तचापलाविष्टाः । अध्यापयन्ति वेदानादाय चिराय मासि मासि भृतिम् ॥ १ ॥
वैयाकरणप्रशंसानैयायिकप्रशंसा
वैयाकरणकिरातादपशब्दमृगाः क्व यान्ति सत्रस्ताः । ज्योतिर्नटविटगायकभिषगाननगह्वराणि यदि न स्युः ॥ १ ॥ यद्यपि बहु नाधीषे तथापि पठ पुत्र व्याकरणम् । स्वजनः श्वजनो मा भूतसकलः शकलः सकृच्छकृत् ॥ २ ॥ कृतदुरितनिराकरणं व्याकरणं चतुरधीरधीयानः । बुधगणगणना<sup></sup>वसरे कनिष्ठिकायाः परं जयति ॥ ३ ॥ सूत्रैः<sup>१३</sup> पाणिनिनिबद्धं<sup>१५</sup> कङ्कणम्<sup>१४</sup>पुरुषः समुद्वहति<sup>१७</sup> सुदृशम्<sup>१८</sup> ॥ वर्णादीनां<sup>१९</sup> धर्मान्बुद्ध्वा<sup>२०</sup> विधिवत्प्रयुङ्क्तेऽसौ<sup>२१</sup> ॥ ४ ॥ पोतं<sup>२३</sup> जले विष्णुँपदापगायाः<sup>२४</sup> पोतञ्जले<sup>२५</sup> चापि नयेऽवगाहम्<sup>२६</sup> । आचक्षते<sup>२८</sup> शुद्धिदमोप्रसूतेरॉ<sup>२९</sup> च क्षते<sup>३०</sup> रागंमघोक्षजे च ॥ ५ ॥ नृणामनैम्व्यस्त-अद्भुतस्तर्कपाथोधिर्गाधो यस्य वर्धकः । अक्षपादो<sup>१६</sup>ऽर्तमःस्पृष्टस्त्वकलङ्कः कलानिधिः<sup>१९</sup> ॥ १ ॥ अपरीक्षितलक्षणप्रमाणैरपराभृष्टपदार्थसार्थतत्त्वैः<sup>२०</sup> । अवशीकृतजैत्रयुक्तिजालैरममैतरनधीततर्कविद्यैः ॥ २ ॥ मोहं<sup>२२</sup> रुणद्धि<sup>२३</sup> विमलीकुरुते च बुद्धिं सूते<sup>२४</sup> च संस्कृतपदव्यवहारशक्तिम् । शास्त्रान्तराभ्यसनयोग्यतायां युनक्ति<sup>२५</sup> तर्कश्रमो न तनुते किमिहोपकारम् ॥ ३ ॥ ज्ञानाम्बुधेश्चरैश्चरणः कँणैभक्षकश्च<sup>२७</sup> श्रीपक्षिलोऽप्युदयनः स च वर्धमानः । गङ्गेश्वरः शशधरो

टिप्पण्यः (Footnotes)

वामभागस्थटिप्पण्यःदक्षिणभागस्थटिप्पण्यः
१ प्रादुर्भवतु २ काव्ये ३ दोषा ४ वेदान् ५ वेतनम् ६ भिक्षु ७ भीताः ८ गणका ९ नाट्यकारा १० जारा ११ वैद्या १२ गुहा १३ विष्ठा १४ व्याकरणसूत्रम्, पक्षे,-कङ्कणम् १५ पाणिनिना बद्धं रचितम् पक्षे,-पाणौ हस्ते निबद्धम् विवाहकाले सूत्रनिर्मिते कङ्कणे वधूवरयोर्हस्तयोर्बध्नातीति प्रसिद्धिः १६ अर्थज्ञानपूर्वकं विचारयन्, पक्षे,-धारयन् १७ सम्यग्ध्वारयति; पक्षे,-सम्यगुद्वहति, पाणिग्रहणपूर्वकं स्वीकारोतीत्यर्थ १८ शोभनां दृष्टिम्, शुद्धाशुद्धविवेचनशक्तिमित्यर्थे पक्षे,-शोभना दृग्यस्यास्तादृशीं स्त्रियम् १९ अकारप्रभृतिवर्णादीनाम्, पक्षे,-ब्राह्मणवर्णादीनाम् २० ज्ञात्वा २१ यथाशास्त्रम् २२ प्रयोगं करोति, पक्षे,-योजयति २३ पतनम् २४ गङ्गायाः २५ पतञ्जलिनिर्मिते २६ व्याकरणशास्त्रे २७ मज्जनम्, पक्षे,-अभ्यासम् २८ वदन्ति २९ जननादारभ्य ३० मरणान्तं च ३१ अनधीतमहाभाष्याणाम्१ दुष्प्रापा २ पण्डितराजसभा ३ अज्ञातानुर्वेदमाार्गाणाम् ४ कम्पते ५ व्याकरणम् ६ अध्ययनमकृत्वा ७ बिसतन्तुना ८ वर्षाणि ९ यापयन्ति १० कर्णकठोरान् ११ विष्णुस्तवम् १२ कृत्वेति शेष १३ अनुकुर्वन्ति १४ धूर्ता १५ गायकानां तालशब्दानुकुरणमेतत् १६ तर्कसमुद्र १७ गौतम, पक्षे,-क्षपां ददातीति क्षपादः, स न भवतीति तथाविधः, चन्द्र इत्यर्थ १८ अज्ञानेन, पक्षे,-राहुणा १९ कलानां निधिः, पक्षे,-चन्द्र २० अज्ञातपदार्थसमूहत्तत्त्वैः २१ जययुक्ति २२ अज्ञानम् २३ रोधयति, नाशयतीत्यर्थ २४ उत्पादयति २५ योजयति २६ गौतम २७ कणाद

नैयायिकनिन्दा, मीमांसकप्रशंसा, मीमांसकनिन्दा, वैद्यप्रशंसा ४३

बहवश्च नव्या ग्रन्थैर्व्यरन्ध्रत इमे हृदयान्यन्धकारम् ॥ ४ ॥
प्रायः काव्यैर्गमितवयसः पाणिनीयाम्बुराशेः सारज्ञास्या-
प्यपरिकलितन्यायशास्त्रस्य पुंसः । वादारम्भे वदितुमनसो
वाक्यमेकं सभाया म्रैह्ला जिह्वा भवति कियतीं पश्य कष्टा-
मवस्थाम् ॥ ५ ॥

घटकाः शास्त्राणि सदूष्य वै सोऽहं तर्कविभूषणोऽत्र गहने
धात्रा शृगालः कृतः ॥ १० ॥


मीमांसकप्रशंसा

भगवदनभ्युपगमनं दैवतचैतन्यनिह्नवश्चैषाम् । कर्म-
श्रद्धावर्धकतत्प्राधान्यप्रदर्शनायैव ॥ १ ॥ आगमरूपविचारि-
ण्यधिकरणसहस्रशिक्षितविपक्षे । स्वामिनि जैमिनियोगिन्यु-
परज्यति हृदयमस्मदीयमिदम् ॥ २ ॥ शबरकुमारिलगुरवो
मण्डनभवदेवपार्थसारथयः । अन्ये च विश्वमान्या जयन्ति
सत्रायमाणतन्त्रास्ते ॥ ३ ॥ नैयायिका वा ननु शाब्दिका वा
त्रैयीशिरःसु श्रमशालिनो वा । वादाहवे बिभ्रति जैमिनी-
यन्यायोपरोधे सति मौनमुद्राम् ॥ ४ ॥ आदौ धर्मे प्रमाणं
विविधविधिभिदाशेषता च प्रयुक्ति पौर्वापर्याधिकारौ तदनु
बहुविध चातिदेश तथोहम् । बाध तन्त्रं प्रसङ्गं नयमनय-
शतैः सम्यगालोचयन्त्यो भिन्ना मीमांसकेभ्यो विदधति
भुवि के सादर वेदकक्षाम् ॥ ५ ॥


नैयायिकनिन्दा

परामृशन्तो लिङ्गानि व्यभिचारविचारकाः । तार्किका
यदि विद्वांसो विटैः किमपराध्यते ॥ १ ॥ गुरोर्गिरः पञ्च-
दिनान्यधीत्य वेदान्तशास्त्राणि दिनत्रयं च । अमी समाघ्रात-
वितर्कवादाः समागताः कुक्कुटपादमिश्राः ॥ २ ॥ कर्कश-
तर्कविचारव्यग्रं किं वेत्ति काव्यहृदयानि । ग्राम्य इव
कृषिविलग्नश्चञ्चलनयनावचोरहस्यानि ॥ ३ ॥ नैयायिकाना
मलिनाम्बराणा जद्गुर्गतं रासभचिन्तयैव । तथापि वेश्यास्तन-
सनिवेशस्तोतुः कवेः कोऽपि विशेष एव ॥ ४ ॥ न जिघ्र-
त्यैम्नाय स्पृशति न तदङ्गान्म्यपि सकृत्पुराणं नादत्ते न
गणयति किं च स्मृतिगणम् । पठँशुष्कं तर्के परपरिभवा-
र्थोक्तिभिरसौ नयत्यायुः सर्वं निहितपरलोकार्थयतनः ॥ ५ ॥
प्रयत्नैस्तो कैः परिचितकुतर्कप्रकरणाः पर वाचोवश्यन्क-
तिपयपदौघान्विदधतः । सभाया वाचाटाः श्रुतिकटु रटन्तो
घटपटाञ्च लज्जन्ते र्मन्दाः स्वयमपि तु जिह्वेति विबुधः
॥ ६ ॥ ^(१)कर्मब्रह्मविचारणा विजहतो मोगापवर्गप्रदा घोषं
कंचन कण्ठशोषफलक कुर्वन्त्यमी तार्किकाः । प्रत्यक्षं न
पुनाति नापहरते पापानि पीलुच्छेदोव्यासिनैवति नैव पाल्य-
नुमितिनों पक्षता रक्षति ॥ ७ ॥ हेतुः कोऽपि विशिष्टैधी-
रनुमितौ न ज्ञानयुग्म मैरुत्त्वाचो नेति च मोघवादसुँखैरा
नैयायिकाश्चैद्वुधाः । मेषस्याण्डमियत्पलं बलिभुजो दन्ताः
कियन्तस्तयैत्येव सततचिन्तनैः श्रमजुषो न स्युः कथं
पण्डिताः ॥ ८ ॥ साधु व्याकरण हिताय विशदं काव्य
पिकीगीतवन्मीमासा श्रुतितत्परा तदनुगं साख्य सपाताञ्जलम्।
त्वं तु न्याय विशुद्धवैदिकविधिव्याकोपबौद्धागमव्याघाताय
निगूढतर्कगहन कामोदमाधास्यसि ॥ ९ ॥ हे हे मित्र
जिता मयातिबलिनो विप्रा धनं चार्जित शेषेभ्य. शरयन्न-
दानमपि सत्संपादित भूरिशः । ग्रन्थाश्चापि कृताः सुतर्क-


मीमांसकनिन्दा

ते मीमांसाशास्त्रलोकप्रसिद्धाः सर्वैर्भीणा सेहिरे नैव
सत्ताम् । चैतन्यस्यापह्नवं देवतानां चक्रुर्विश्वं नश्वरं मन्य-
मानाः ॥ १ ॥ मीमांसकाः कतिचिदत्र मिलन्ति वेदप्रामा-
ण्यसाधनकृतोऽपि न तेऽभिवन्द्याः । उद्धोषितोऽप्युपनिषद्भि-
रैशेषशेषी नैवैव नाभ्युपगतः पुरुषोत्तमो यैः ॥ २ ॥


वैद्यप्रशंसा

गुरोरधीताखिलवैद्यविद्य. पीयूषपाणिः कुशलः क्रियासु ।
गतस्पृहो धैर्यधरः कृपालुः शुद्धोऽधिकारी भिषगीदृशः
स्यात् ॥ १ ॥ रागादिरोगान्सततानुषक्तानशेषकायप्रसृतान-
शेषान् । औत्सुक्यमोहारतिदाञ्जघान योऽपूर्ववैद्याय नमो-
ऽस्तु तस्मै ॥ २ ॥ अन्यानि शास्त्राणि विनोदमात्र प्राप्तेषु
वा तेषु न तैश्च किंचित् । चिकित्सितज्योतिषमन्त्रवादाः पदे
पदे प्रत्ययमावहन्ति ॥ ३ ॥ माबोधि वैद्यकमथापि महाम-
येषु प्राप्तेषु यो भिषगिति प्रथितस्तमेव । ॐकारयत्यखिल
एव विशेषदर्शी लोकोऽपि तेन भिषगेष न दूषणीयः ॥ ४ ॥
^(१३)मस्ते दुःसहवेदना कवलिते मग्ने स्वरेऽन्तर्गलं तप्ताया


टिप्पण्यः (Footnotes)

वामभागस्य टिप्पण्यःदक्षिणभागस्य टिप्पण्यः
१ बुद्धेरज्ञानम्१ अपलाप
२ अनभ्यस्त२ शास्त्रदीपिकाकर्ता पार्थसारथिमिश्रपण्डित
३ वक्रा३ वेदत्रयी
४ वेदम्४ वादयुद्धे
५ वेदाङ्गानि५ न्यायरूपे प्रतिबन्धके
६ नीरसम्६ सामान्यविशेषभेदेन
७ बहुभि७ प्रतीतपदार्थे सहाविचाल्य
८ मूर्खा८ अमृत पाणौ यस्य स अमृतवदवश्यमारोग्यद इत्यर्थ
९ लज्जा प्राप्नोति९ अविचार्थकार्यप्रवृत्तिः
१० कर्मचिन्तन ब्रह्मचिन्तन च१० विचारशक्ति
११ परमाणुसमुदाय११ असंतोषः
१२ व्याप्तिविशिष्टपक्षधर्मता ज्ञानविशिष्ट१२ आह्वयति
१३ पूर्वोक्तगताशब्दयम्१३ मस्तके
१४ त्वगिन्द्रियप्रत्यक्ष
१५ जल्हकाः
१६ काका
४४सुभाषितरत्नभाण्डागारम्[ १ प्रकरणम्

ज्वरपावकेन च तनौ तान्ते हृषीकव्रजे । दूने बन्धुजने कृतप्रलपने धैर्यं विधातुं पुनः कः शक्तः कलितामयप्रशमनो वैद्योत्तरो विद्यते ॥ ५ ॥ श्रान्ता वेदान्तिनः किं पठथ शततयाद्यापि चाद्वैतविद्यां पृथ्वीतत्त्वे लुठन्तो विमृशथ सततं कर्कशास्तार्किकाः किम् । वेदैर्नानागमैः किं ग्लपयथ हृदयं श्रोत्रियाः श्रोत्रशूलैर्वैद्यं सर्वानवद्यं विचिनुत शरणं प्राणसम्प्रीणनाय ॥ ६ ॥

कुवैद्यनिन्दा

वैद्यराज नमस्तुभ्यं यमराजसहोदर । यमस्तु हरति प्राणान्वैद्यः प्राणान्धनानि च ॥ १ ॥ वैद्यराज नमस्तुभ्यं क्षपिताशेषमानव । त्वयि विन्यस्तभारोऽय कृतान्तः सुखमेधते ॥ २ ॥ चिता प्रज्वलितां दृष्ट्वा वैद्यो विस्मयमागतः । नाहं गतो न मे भ्राता कस्येदं हस्तलाघवम् ॥ ३ ॥ कषायैरुपवासैश्च कृतामुल्लाघता नृणाम् । निजौषधकृतां वैद्यो निवेद्य हरते धनम् ॥ ४ ॥ अज्ञातशास्त्रसद्भावाञ्छास्त्रमात्रपरायणान् । त्यजेद्दूराद्भिषकपाशान्पाशान्वैवस्वतानिव ॥ ५ ॥ मिथोऽवधैर्यैस्तै मृषाकषायैरस्रह्रस्रैहैर्यैस्तथातैस्तैः । वैद्या इमे वर्द्धितरोगवर्गाः पिंचेण्डेभाण्डं परिपूरयन्ति ॥ ६ ॥ नटोऽपि दद्याद्गणकोऽपि दद्यात्तत्प्रार्थितः पाशुपतोऽपि दद्यात् । वैद्यः कथं दास्यति याचमानो यो मर्तुकामादपि हर्तुकामः ॥ ७ ॥ न धौतोर्विज्ञानं न च परिचयो वैद्यकनये न रोगाणां तत्त्वावगतिरपि नो वस्तुगुणधीः । तथाप्येते वैद्या इति तैर्लयन्तो जडजनैर्नसूनु॑र्मूलो॒धृत्या इव वैसुं हरन्ते र्गद॑जुषाम् ॥ ८ ॥ सत्कोण लोलनेत्रं कुलयुवतिमुखं दृश्यते सानुकम्पै रण्डानांमर्थलञ्जश्चितमधिपुलकं स्पृश्यते पीनमङ्गम् । क्लीबाना खाद्यतेऽन्तश्चिरनिहितधन काष्ठमूलाभितोयै. पूर्वा सिद्धा कलाना सकलगुणनिधिर्वैद्यविद्याभिधन्वा ॥ ९ ॥

गणकप्रशंसा

चतुरङ्गबलो राजा जगतीं वशमानयेत् । अहं पञ्चाङ्गबलवानाकाशं वशमानये ॥ १ ॥ एकासनस्था जलवायुभक्षा मुमुक्षवस्त्यक्तपरिग्रहाश्च । पृच्छन्ति तेऽप्यम्बरचारिचारं दैवज्ञमन्ये किमुतार्थचित्ताः ॥ २ ॥ न दैवं न पित्र्यं च कर्मावसिद्धयेन्न यत्रास्ति देशे ननु ज्योतिषज्ञः । न तारा न चारा नवानां ग्रहाणां न तिथ्यादयो वा यतस्तत्र बुद्धाः ॥ ३ ॥ दूतो न सञ्चरति खे न चलेच्च वार्ता पूर्वं न जल्पितमिदं न च सगमॊऽस्ति । व्योम्नि स्थितं रविशशिग्रहणं प्रशस्तं जानाति यो द्विजवरः स कथं न विद्वान् ॥ ४ ॥ वृद्धिह्रासौ कुमुदसुहृदः पुष्पैवन्तोर्पराग. शुकादीनामुदयविलयावित्यमी सर्वदृष्टा । आविष्कुर्वन्त्यखिलवचनेष्वत्र कुम्भीपुलाकन्यायाज्ज्योतिर्नयगतिविदा निश्चलं मानभावम् ॥ ५ ॥ भानोः शीतकरस्य वापि भुजगर्भासे पुरो निश्चिते तीर्थानामटनं जनस्य घटते तापत्रयोच्चाटनम् । इष्टे प्रागवधारिते सति धृतेस्तुष्टेश्च लाभो भवेद्दुष्टे तु व्यंसनेऽत्र तर्पिरिहिति. कर्तुं जपायै. क्षमा ॥ ६ ॥

कुगणकनिन्दा

गणयति गगने गणकश्चन्द्रेण समागम विशाखायाः । विविधभुजङ्गक्रीडासक्ता गृहिणीं न जानाति ॥ १ ॥ गणिकागणकौ समानधर्मौ निजपञ्चाङ्कनिदर्शकावुभौ । जनमानसमॊहकारिणौ तौ विधिना चित्तहरौ विनिर्मितौ ॥ २ ॥ असुखमथ सुख वा कर्मणा पक्तिवेलास्वहह नियतमेते भुञ्जते देहभाजः । तदिह पुरत एव प्राह मौहूर्तिकश्चेत्कथय फलममीषामन्ततः किं ततः स्यात् ॥ ३ ॥ विलिखति सदसद्वा जन्मपत्रं जनानां फलति यदि तदानीं दर्शयत्यात्मदाक्ष्यम् । न फलति यदि लब्धद्दष्टरेवाह मोहं हरति धनमिहैवं हन्त दैवज्ञैपाशः ॥ ४ ॥ प्रमोदे खेदे वाप्युपनमति पुसा विधिवशान्मयैवं प्रागेवाभिहितमिति मिथ्या कथयति । जनानिष्टानिष्टाकलनपरिहारैकनिरतानसौ मेषादीना परिगणनयैव भ्रमयति ॥ ५ ॥ ज्योतिःशास्त्रमहोदधौ बहुनरोत्सर्गोऽपवादात्मभिः कल्लोलैर्निबिडे कतान्कतिपयॉल्लुब्ध्वा कृतार्था इव । दीर्घायुःसुतसपदादिककथनैदैवज्ञैपाशा इमे गेह गेहमनुप्रविश्य धनिना मोह मुहुः कुर्वते ॥ ६ ॥

पौराणिकनिन्दा

पौराणिकाना व्यभिचारदोषो नाशङ्कनीयः कृतिभिः कदाचित् । पुराणकर्ता व्यभिचारजातस्तत्स्यापि पुत्रो व्यभिचारजातः ॥ १ ॥


टिप्पण्यः (Left Footnotes):

१ ग्लाने
२ इन्द्रियससमूहे
३ दु खिते
४ वेदाध्यायिन
५ कर्णकटुभि
६ सर्वेषा मध्ये निर्दोषम्
७ नीरोगताम्
८ वास्तवानर्थान्
९ कुत्सिता भिषजो भिषक्पाशास्तान्
१० यम संबन्धिन
११ रोगिसमूह
१२ उदरभाण्डम्
१३ पारदादे
१४ भ्रामयन्त
१५ प्राणान्
१६ यमस्य
१७ द्रव्यम्
१८ रोगिणाम्
१९ मोक्षेच्छव
२० त्यक्त परिग्रह कलत्र यैस्ते
२१ आकाशसञ्चारिग्रहगतिम्

टिप्पण्यः (Right Footnotes):

१ क्षयवृद्धी
२ चन्द्रस्य
३ सूर्याचन्द्रमसो
४ ग्रहणम्
५ स्थालीपुलाकन्यायेन
६ ग्रहणे
७ दु खे
८ परिहार
९ परिपाककालेषु
१० स्वचातुर्यम्
११ कुदैवज्ञ
१२ हर्षे
१३ भ्रम करोत
१४ सामान्यनियम, अपवाद प्रसिद्ध
१५ कुज्योतिषिका
१६ व्यास

पुरोहितनिन्दा, कायस्थनिन्दा, सज्जनप्रशंसा४५

पुरोहितनिन्दामानान्त्रिपुनपि । सपत्नीः प्रापयन्त्यब्धिं सिन्धवो नगनिन्र्भगाः ॥ १४ ॥ सुखेन नोद्विरत्यूर्ध्वं हृदयेन नयत्यधः । जैरयत्यन्तरे माधुर्योषं विषमिवेश्वर ॥ १५ ॥ विकृति नैव गच्छन्ति सङ्गदोषेण साधव. । आवेष्टित महासर्पैश्चन्दनं न विषायते ॥ १६ ॥ मान्या एव हि मान्याना मानं कुर्वन्ति नेतरे । शम्भुर्बिभर्ति मूर्नेन्दु खर्मानुस्त जिघृक्षति ॥ १७ ॥
पुरीषस्य च रोषस्य हिंसायास्तस्करस्य च । आद्याक्षराणि संगृह्य वेधाश्चक्रे पुरोहितम् ॥ १ ॥सुजन व्यजन मन्ये चारुवर्रैशसमुद्भवम् । आत्मान च परिक्राम्य परतापानिवारणम् ॥ १८ ॥ उदये सविता रक्तो रक्तश्चास्तमये तथा । संपत्तौ च विपत्तौ च महतामेकरूपता ॥ १९ ॥ आरभन्तेऽल्पमेवाज्ञाः काम व्यग्रा भवन्ति च । महारम्भाः कृतधियस्तिष्ठन्ति च निराकुलाः ॥ २० ॥
कायस्थनिन्दासद्भ्रिस्तु लीलया प्रोक्तं शिलालिखितमक्षरम् । असद्भिः शपथेनापि जले लिखितमक्षरम् ॥ २१ ॥ हँरेः र्पदाहति श्लाघ्या न श्लाघ्यं खरारोहणम् । स्पर्द्धापि विदुषा युक्ता न युक्ता मूर्खमित्रता ॥ २२ ॥ साधोः प्रकोपितस्यापि मनो नायाति विक्रियाम् । नहि तापयितुं शक्य सागराम्भस्तृणोलकया ॥ २३ ॥ नारिकेलसमाकारा दृश्यन्तेऽपि हि सज्जना । अन्ये बदरिकाकारा बहिरेव मनोहराः ॥ २४ ॥ स्नेहच्छेदेऽपि साधूना गुणा नायान्ति विक्रियाम् । भङ्गेनापि मृणालानामनुबध्नन्ति तन्तवः ॥ २५ ॥ परोपदेशे पाण्डित्य सर्वैषा सुकर नृणाम् । धर्मे स्वीयमनुष्ठान कस्यचित्सुमहात्मन. ॥ २६ ॥ सपत्सु महता चित्तं भवत्युत्पलकोमलम् । आपत्सु च महाशैलशिलासंघातकर्कशम् ॥ २७ ॥ पतन्ति व्यसने दैवाद्दारुणे दारुणात्मनि । सवर्मयति वज्रेण धैर्येण महता मनः ॥ २८ ॥ सन्तः स्वतः प्रकाशन्ते गुणा न परतो नृणाम् । आमोदो नहि कस्तूर्याः शपथेन विभाव्यते ॥ २९ ॥ पातितोऽपि कराघातैरुत्पत्येव कन्दुक. । प्रायेण हि सुवृत्तानामैस्थायिन्यो विपत्तयः ॥ ३० ॥ सकृत्कन्दुकपातेनोत्पत्यार्यः पतन्नपि । तथा त्वनार्यः पतति मृत्पिण्डपतन यथा ॥ ३१ ॥ दन्तिदन्तसमान हि निःसृत महता वच. । कूर्मग्रीवेण नीचाना पुनरायाति याति च ॥ ३२ ॥ श्लोकस्तु श्लोकता याति यत्र तिष्ठन्ति साधवः । लैकारो लुप्यते तत्र यत्र तिष्ठन्त्यसाधवः ॥ ३३ ॥ किमत्र चित्र यत्सन्तः परानुग्रह-तत्परा. । नहि स्वदेहशैत्याय जायन्ते चन्दनद्रुमाः ॥ ३४ ॥ काकैः सह विवृद्धस्य कोकिलस्य केलौ गिर. ।
काकाल्लौल्यं यमात्क्रौर्यं स्थपतेर्दृढघातिताम् । आद्याक्षराणि संगृह्य कायस्थः केन निर्मितः ॥ १ ॥ कायस्थेनोदरस्थेन मातुरामिषशङ्कया । अन्त्राणि यन्न भुक्तानि तत्र हेतु रदन्तता ॥ २ ॥ विना मद्य विना मास परस्वहरण विना । विना परापवादेन दिविरो दिवि रोदिति ॥ ३ ॥ कलमग्रानिर्गतमषीबिन्दुव्याजेन साञ्जनाश्रुकणा । कायस्थलुण्ठ्यमाना रोदिति खिन्नैव राजश्री ॥ ४ ॥
सज्जनप्रशंसा
अहो किमपि चित्राणि चरित्राणि महात्मनाम् । लक्ष्मीस्तृणाय मन्यन्ते तद्भरेण नमन्त्यपि ॥ १ ॥ नाल्पीयसि निबध्नन्ति पदमुन्नतचेतसः । येषा भुवनलाभेऽपि निःसीमानो मनोरथाः ॥ २ ॥ अञ्जलिस्थानि पुष्पाणि वासयन्ति करद्वयम् । अहो सुमनसा प्रीतिर्वामदक्षिणयोः समा ॥ ३॥ वज्रादपि कठोराणि मृदूनि कुसुमादपि । लोकोत्तराणा चेतांसि को हि विज्ञातुमर्हति ॥ ४ ॥ गवादीना पयोऽन्येद्युः सद्यो वा जायते दधि । क्षीरोदधेस्तु नाद्यापि महता विकृतिः कुतः ॥ ५ ॥ गङ्गा पापं शशी तापं दैन्य कल्पतरुस्तथा । पापं ताप च दैन्य च घ्नन्ति सन्तो महाशयाः ॥६॥ छायावन्तो गतव्याला स्वारोहा. फलदायिनः । मार्गद्रुमा महान्तश्च परेषामेव भूतये ॥ ७ ॥ संपदो महतामेव महतामेव चापदः । वर्धते क्षीयते चन्द्रो न तु तारागण. क्वचित् ॥ ८ ॥ अपकुर्वन्नपि प्रायः प्राप्नोति महतः फलम् । और्व दहन्तमेवाग्नि संतर्पयति सागरः ॥ ९ ॥ महता प्रार्थनेनैव विपच्चिरपि शोभते । दन्तभङ्गो हि नागाना श्लाघ्यो गिरिविदारणे ॥ १० ॥ गुणग्रामाविसंवादि नामापि हि महात्मनाम् । यथा सुवर्णश्रीखण्डरत्नाकरसुधाकराः ॥ ११ ॥ वहन्ति शोकशङ्कु च कुर्वन्ति च यथोचितम् । कोऽप्येष महता हन्त गाम्भीर्यान्नुगुणो गुणः ॥ १२ ॥ नागुणी गुणिन वेत्ति गुणी गुणिषु मत्सरी । गुणी च गुणरागी च विरलः सरलो जनः ॥ १३ ॥ महात्मानोऽनुगृह्णन्ति भज-

पादटिप्पणी (Footnotes)

वाम भाग:
१ कायस्थ
२ तृणवन्मन्यन्ते
३ लक्ष्मीभरेण
४ उदारचेतस
५ अन्यस्मिन्दिवसे
६ विकार.
७ स्तुत्य
८ पर्वतभेदने.

दक्षिण भाग:
१ जीर्णं करोति
२ राहु
३ ग्रहीतुमिच्छति
४ वेणु, पक्षे,-कुलम्
५ सिहस्य
६ पादताडनम्
७ विकारम्
८ सबन्ध कु न्ति
९ कठिनम्
१० संगोपयति
११ क्षणिका.
१२ लकारलोपाच्छोक एवावतिष्ठते
१३ अव्यक्तमधुरा

४६ सुभाषितरत्नभाण्डागारम् [२ प्रकरणम्


खलसङ्गेऽपि नैष्ठुर्यं कल्याणप्रकृतेः कुतः ॥ ३५ ॥ यथा चित्तं तथा वाचो यथा वाचस्तथा क्रियाः । चित्ते वाचि क्रियायां च साधूनामेकरूपता ॥ ३६ ॥ विवेकः सह संयत्या$^१$ विनयो विद्यया सह । प्रभुत्वं प्रश्रयोपेतं चिह्नमेतन्महात्मनाम् ॥ ३७ ॥ उपकर्तुं प्रियं वक्तुं कर्तुं स्नेहमकृत्रिमम्$^२$ । सज्जनानां स्वभावोऽयं केनेन्दुः शिशिरीकृतः ॥ ३८ ॥ निर्गुणेष्वपि सत्त्वेषु$^३$ दया कुर्वन्ति साधवः । नहि संहरते ज्योत्स्ना$^४$ चन्द्रश्चाण्डालवेश्मसु$^५$ ॥ ३९ ॥ उपकारिषु यः साधुः साधुत्वे तस्य को गुणः । अपकारिषु यः साधुः स साधुः सद्भिरुच्यते ॥ ४० ॥ हृदयानि सतामेव कठिनानीति मे मतिः । खलवाग्विशिखैस्तीक्ष्णैर्भिद्यन्ते न मनाग्यतः$^६$ ॥ ४१ ॥ अपेक्षन्ते न च स्नेहं$^७$ न पात्रं$^८$ न देशान्तरम्$^९$ । सदांलोकहिते$^{१०}$ युक्ता रत्नदीपा इवोत्तमाः ॥ ४२ ॥ ब्रूतेऽन्यस्यासतोऽप्यार्यो गुणान्दोषांस्तु दुर्जनः । तुल्येऽप्यसत्त्वे किं त्वेको गच्छत्यूर्ध्वमधोऽपरः ॥ ४३ ॥ सन्तो मनसि कृत्वैव प्रवृत्ताः कृत्यवस्तुनि । कस्य प्रतिशृणोति स्म कमलेभ्यः श्रियं रविः ॥ ४४ ॥ आमरणान्ताः प्रणयाः कोपास्तत्क्षणभङ्गुराः । परित्यागाश्च निःसङ्गा भवन्ति हि महात्मनाम् ॥ ४५ ॥ सन्त एव सता नित्यमापदुद्धरणक्षमाः । गजानां पङ्कमग्नानां गजा एव धुरंधराः ॥ ४६ ॥ नूनं दुग्धाब्धिमन्थोत्थाविमौ सुजनदुर्जनौ । कि ल्विन्दोः सोदरः पूर्वः कालकूटस्य चेतरः ॥ ४७ ॥ गोत्रस्थितिं$^{११}$ न मुञ्चन्ति सदा संन्नतिमाश्रिताः$^{१२}$ । उदन्वन्तश्च$^{१३}$ सन्तश्च महासत्त्वतयान्वया$^{१४}$ ॥ ४८ ॥ विगृहीतः पदाक्रान्तो भूयोभूयश्च खण्डितः । माधुर्यमेवावहति सुश्लोक इव सज्जनः ॥ ४९ ॥ प्रकृतिप्रत्ययोपेतः सद्ग्रत्तः साधुसंमतः । अर्थार्पणसमर्थश्च सुश्लोक इव सज्जनः ॥ ५० ॥ गुणोऽपि नूनं दोषाय दुष्विधातोः खलस्य च । सन्मार्गसिद्धये वृद्धिर्मृजेः साधुजनस्य च ॥ ५१ ॥ मुञ्चन्तश्चापलरसं प्रस्थिताः पावने पथि । घना इवार्द्रहृदयाः सन्तो जीवनहेतवः ॥ ५२ ॥ धनिनोऽपि निरुन्मादा युवानोऽपि न चञ्चलाः । प्रभवोऽप्यप्रमत्तास्ते महामहिमशालिनः ॥ ५३ ॥ साधुरेव प्रवीणः स्यात्सदृगुणामृतचर्वणे । नवचूताङ्कुरास्वादकुशलः कोकिलः किल ॥ ५४ ॥ उत्तमः क्लेशविक्षोभं क्षमः सोढुं न हीतरः । मणिरेव महोशाणघर्षणं$^१$ न तु मृत्कणः ॥ ५५ ॥ सज्जना एव साधूनां प्रथयन्ति गुणोत्करम् । गुणाणां सौरभं प्रायस्तैलेतै$^२$ दिक्षु मारुतः ॥ ५६ ॥ खराव नेव मुञ्चन्ति सन्त संसर्गतोऽसताम् । न त्यजन्ति रुतं मञ्जु काकसंपर्कतः पिकाः ॥ ५७ ॥ संपत्तौ कोभल चितं साधोरापदि कर्कशम् । सुकुमारं मधौ पत्रं तरोः स्यात्कठिनं शुचौ$^३$ ॥ ५८ ॥ स्वभावं न जहात्येव साधुरापद्गतोऽपि सन् । कर्पूरः पावकस्पृष्टः सौरभं लभतेतराम् ॥ ५९ ॥ आप्यायनसमयः साधोः प्रयाति श्लाघनीयताम् । विधोर्विर्धंतुदस्कन्दविपत्तकालोऽपि सुन्दरः ॥ ६० ॥ विना परीक्षा नो तत्त्वं प्रसिद्धं जायते सतः । स्ववर्णबन्धाञ्चो शुद्धिक्षीयते कर्षेण विना ॥ ६१ ॥ दृष्टदुर्जनदौरात्म्यैः सज्जने रज्यते जनः । आरुह्य पर्वतं पान्थः सानौ निर्वृतिमेत्यलम् ॥ ६२ ॥ क्षणक्षयिणि सापाचे भोगे रज्यन्ति नोत्तमाः । सत्यज्यामभोजकिञ्जल्कं न प्रार्थयति शैवलम् ॥ ६३ ॥ उत्तगं शुचिर नैव विपदोऽभिभवन्त्यलम् । राहुग्रसनसभूति-क्षणं विच्छाययेद्विधुम् ॥ ६४ ॥ प्रायः स्वभावं मुञ्चन्ति सन्ततः संसर्गंतोऽसताम् । चण्डांश्चण्डांश्चण्डातपात्पादा हिमाशोरमृतस्रुजः ॥ ६५ ॥ तुल्यं परोपतापित्वं क्रुद्धयोः साधुनीचयोः । न दाहे ज्वलतोर्भिन्द चन्दनेन्धनयोः कचित् ॥ ६६ ॥ महतां तादृशं तेजो यत्र शाम्यन्त्यनौजसः । अस्तं यान्ति प्रकाशेन तारका हि विवस्वतः ॥ ६७ ॥ आस्थामालम्ब्य नीतेषु वशं क्षुद्रेश्वरातिषु । व्यक्तिमायाति महता माहात्म्यमनुकम्पया ॥ ६८ ॥ न गुणाः कापि पूज्यन्ते सत्स्वीकारो हि गौरवम् । पीतिमा गुणसाम्येऽपि हरिद्रास्वर्णयोरिव ॥ ६९ ॥ आ-किमर्थमिदं चेतः सतामम्भोधिदुंभरम् । इति कुध्वेव दुर्वेधाः परदुःखैरपूरयत् ॥ ७० ॥ काचो मणिर्मणिः काचो येषा तेऽन्ये हि देहिनः । सन्ति ते सुधियो येषां काचः काचो मणिर्मणिः ॥ ७१ ॥ दोषानपि गुणीकर्तुं दोषीकर्तुं गुणानपि । शक्तो वादी न तत्त्वथ दोषा दोषा गुणा गुणा ॥ ७२ ॥ गुणराशिवमहानारनिर्भरपूरितान्तराः । सन्तो गौरवमायान्ति यदि तत्र किमद्भुतम् ॥ ७३ ॥ स्वात्मन्येव लयं याति तादृशो गुणिनां गुणः । स्वय प्रख्याप्यमानोऽपि यस्तृणाय न मन्यते ॥ ७४ ॥ सुवृत्तस्यैकरूपस्य परप्रीत्यै धृतोन्नतेः । साधोः स्तनयुगस्येव पतनं कस्य तुष्टये ॥ ७५ ॥ च्युतोऽप्युद्गच्छति पुनः प्रज्ञावाञ्च तु मूढधीः । कन्दुकः$^४$ पतनोत्थायी न तु कान्ताकुचद्वयी ॥ ७६ ॥ नालोकः क्रियते सूर्ये भूः प्रतीपं न धार्यते । नहि प्रत्युपकाराणामपेक्षा सत्सु विद्यते ॥ ७७ ॥ दृष्ट्वापि दृश्यते दृश्यं श्रुत्वापि श्रूयते पुनः ।


पादटिप्पण्यः

१ विनय. २ निष्कपटम्. ३ प्राणिषु ४ चन्द्रकान्तिम् ५ चाण्डालगृहे ६ किंचिदपि. ७ मैत्रीम्, पक्षे,-घृतादिम् ८ योग्यताम्, पक्षे,-भाण्डम् ९ अवस्थान्तरम्, पक्षे,-सूत्रवर्तिन् १० लोकानां हितं तस्मिन्नासक्ता, पक्षे,-आलोक प्रकाशस्तदेव हितं तस्मिन्नासक्ता ११ कुलमर्यादाम्, पक्षे,-पर्वस्थितिम् १२ सन्नमनम् १३ समुद्रा १४ प्राणिन, पक्षे,-धैर्यम्

१ कषपाषाणम्, 'कसोटी' इति लोके. २ प्रसारयति ३ ज्येष्ठमासे ४ 'चेन्दू' इति लोके प्रसिद्ध

सज्जनप्रशंसा । ४७


सत्यं न साधुवृत्तस्य दृश्यते पुनरुक्तता ॥ ७८ ॥ सत्पक्षा ऋजवः शुद्धाः सफला गुणसेविनः । तुल्यैरपि गुणैश्चित्रं सन्तः सन्तः शराः शराः ॥ ७९ ॥ लाभप्रणयिनो नीचा मानकामा मनस्विनः । मङ्गुः सरसि मत्स्यार्थी हंसस्येष्टा प्रसन्नता ॥ ८० ॥ परदुःखं समाकर्ण्य स्वभावसरलो जनः । उपकारासमर्थत्वात्पामोति हृदये व्यथाम् ॥ ८१ ॥ वित्ते त्यागः क्षमा शक्तौ दुःखे दैन्यविहीनता । निर्दम्भता सदाचारे स्वभावोऽयं महात्मनाम् ॥ ८२ ॥ न कदाचित्सता चेत प्रसरत्यधकर्मसु । जलेषु द्रुतमप्यन्तः सर्पिराश्योनता व्रजेत् ॥ ८३ ॥ सांगसेऽपि न कुप्यन्ति कृपया चोपकुर्वते । बोध स्वस्यैव नेच्छन्ति ते विश्वोद्धरणक्षमाः ॥ ८४ ॥ साभिमानमसम्भाव्यमौचित्यच्युतमप्रियम् । दुःखवामवानदीन वा न वदन्ति गुणोन्नताः ॥ ८५ ॥ आपत्स्वेव हि महता शक्तिरभिव्यज्यते न सपत्सु । अगुरोस्तथा न गन्धः प्रागस्ति यथाग्निपतितस्य ॥ ८६ ॥ शून्येऽपि च गुणवत्तामातन्वानः स्वकीयगुणजालैः । विवराणि मुद्रयन्द्राग्गूर्णायुरिव सज्जनो जयति ॥ ८७ ॥ तरुमूलादिषु निहित जलमाविर्भवति पल्लवाग्रेषु । निर्भृत यदुपक्रियते तदपि महान्तो वहन्त्युच्चैः ॥ ८८ ॥ सपदि यस्य न हर्षो विपदि विषादो रणे च धीरत्वम् । त भुवनत्रयतिलकं जनयति जननी सुत विरलम् ॥ ८९ ॥ दुर्जनवचनाङ्गारैर्दग्धोऽपि न विप्रिय वदत्यार्यः । अगुरुरपि दह्यमानः स्वभावगन्ध परित्यजति कि नु ॥ ९० ॥ अप्रियवचनदरिद्रैः प्रियवचनाढ्यैः स्वदारपरितुष्टैः । परपरिवादनिवृत्तैः क्वचित्क्वचिन्नैर्मण्डिता वसुधा ॥ ९१ ॥ पतितोऽपि राहुवदने तरैणिर्बोधयैति पद्मखण्डानि । भवति विपद्यपि महतामङ्गीकृतवस्तुनिर्वाहः ॥ ९२ ॥ छिन्नोऽपि रोहति तरुश्चन्द्र क्षीणोऽपि वर्धते लोके । इति विमृशन्तः सन्त सतप्यन्ते न लोकेऽस्मिन् ॥ ९३ ॥ वासरगम्यैर्मयूरौरम्बरमवनी च वामनैकपदा । जलधिरपि पोतैर्लङ्घ्यः सता मनः केन तुलयामः ॥ ९४ ॥ गौरीपतेर्गरीयो गरलं गत्वा गले जीर्णम् । जीर्यति कर्णे महता दुर्वादो नाल्पमपि विशति ॥ ९५ ॥ निजपैदलतिगुणरञ्जितजगता करिणा च संत्कवीना च । वहतामपि महिमान शोभायै सर्जना एव ॥ ९६ ॥ बाण हरिरिव कुरुते सुजनो बहुदोषमप्यदोषमिव । यौवदोष जाग्रति मैलिम्लुचा इव पुन पिशुनाः ॥ ९७ ॥ महतोः सुवृत्तयोः सखि हृदयग्रहणयोग्योः समस्थितयोः । सज्जनयोः स्तनयोरपि निरन्तर सगत भवति ॥ ९८ ॥ महतोऽपि हि विश्वासान्माहाशया दधति नाल्पवति लघैवे. । सवृणुतेऽद्रीनुदधिर्निदाघनद्यो न मेकपि ॥ ९९ ॥ वैगुण्यॆऽपि हि महता विनिर्मित भवति कर्म शोभायै । दुर्वह नितम्बमन्थरमपि हरति नितम्बिनीनृत्यम् ॥ १०० ॥ सज्जन एव हि विद्या शोभायै भवति दुर्जने मोघा । न विदूरदर्शनतया कैश्चिदुपादीयते गृध्रः ॥ १०१ ॥ भवति सुभगवमधिक विस्तारितपरगुणस्य सुजनस्य । वहति विकासितकुमुदो द्विगुणरुचि हिमकरोद्द्योतः ॥ १०२ ॥ वदन प्रसादसदनं सदय हृदय सुधासुचो वाचः । करण परोपकरण येषा केषा न ते वन्द्याः ॥ १०३ ॥ उपकारमेव तनुते विपद्गत सद्गुणो महताम् । मूर्च्छा गतो मृतो वा निदर्शन पारदोऽत्र रसः ॥ १०४ ॥ गिरयो गुरुवंस्तेभ्योऽप्युर्वी गुर्वी ततोऽपि जगदण्डम् । तस्मादप्यतिगुरवः प्रलयेऽप्यचला महात्मान ॥ १०५ ॥ अनवरतपरोपकरणव्यग्रीभवदमलचेतसा महताम् । आपातकाटवानि स्फुरन्ति वचनानि भेषजानीव ॥ १०६ ॥ न भवति भवति च न चिर भवति चिर चेत्फले विसवादी । कोप सत्पुरुषाणा तुल्य स्नेहेन नीचानाम् ॥ १०७ ॥ इक्षोरग्र्यात्क्रमश पर्वणि पर्वणि यथा रसविशेषः । तद्वत्सज्जनमैत्री विपरीताना च विपरीता ॥ १०८ ॥ उपचरितव्याः सन्तो यद्यपि कथयन्ति नैकमुपदेशम् । यास्तेषा स्वैरकथास्ता एव भवन्ति शास्त्राणि ॥ १०९ ॥ सुजनो न याति वैर परहितनिरतो विनाशकालेऽपि । छेदेऽपि चन्दनतरुः सुरभयति मुख कुठारस्य ॥ ११० ॥ अतिकुपिता अपि सुजना योगेन मृदूभवन्ति न तु नीचाः । हेम्नः कठिनस्यापि द्रवणोपायोऽस्ति न तृणानाम् ॥ १११ ॥ अनुकुरुतः खलसुजनावग्रिमपाश्चात्यभागयोः सूच्याः । विदधौति रन्ध्रमेको गुणवानन्यस्तु पिदधाति ॥ ११२ ॥ आस्तामन्य-


१ जलकाक २ घनत्वम् ३ सापराधेष्वपि ४ व्यक्ता भवति ५ लूता ६ एकान्ते ७ श्रेष्ठम् ८ अनिष्टम् ९ दूषणम् १० शोभिता ११ सूर्य १२ विकासयति १३ सकटकाले १४ अरुणस्य १५ नौका १६ पादविन्यासा, पक्षे,-पदप्रयोगज्ञानम् १७ महत्परिमाणम्, पक्षे,-प्रतिष्ठाम् १८ सत्पुरुषा, पक्षे,-गजाना सज्जीकरणम् १९ बाणासुरम्

१ गुणमित्रो दोष, पक्षे,-बहुतरखड्गशालिनम् २ दोषशून्यम्, पक्षे,-बाहुरहितम् ३ समग्रदोषम्, पक्षे,-यावद्रात्रिम् ४ तद्विषयकगवेषणावन्तो भवन्ति, पक्षे,-निद्राभाववन्तो भवन्ति ५ तस्करा. ६ श्रेष्ठयो, पक्षे,-महापरिमाणशालिनो ७ सुचरितयो., पक्षे,-सुवर्तुलयो ८ आलिङ्गनयोग्यो, पक्षे,-वक्षःस्थले विराजमानयो ९ श्रेष्ठानपि, पक्षे,-महापरिमाणानपि १० श्रेष्ठा, पक्षे,-गभीरा ११ नीचा, पक्षे,-स्वल्पपरिमाणशालिन १२ सेव्या १३ स्वैरालापा १४सुगन्धयति. १५ परशो १६ अनुकरण कुरुत १७करोति. १८ सूत्रयुक्त., पक्षे,-विद्याविनयादिगुणयुक्त १९ आच्छादयति

४८सुभाषितरत्नभाण्डागारम्[ २ प्रकरणम्

त्सुजना परोपकारैककरणदुर्ललिता । संतापितपिशुनेषु स्व-
गुणेष्वपि हन्त खिद्यन्ते ॥ ११३ ॥ गर्ददि न वर्षति गर्जति
वर्षति वर्षासु निःस्वनो मेघः । नीचो वदति न कुरुते न
वदति सुजनः करोत्येव ॥ ११४ ॥ यदमी दशन्ति दशना
रसना तत्स्वादमनुभवति । प्रकृतिरियं विमलानां क्लिश्यन्ति
यदन्यकार्येषु ॥ ११५ ॥ तदपकृतं विधिनाधिषु यल्लग्नं
स्वल्पसपदो विहिता । तुच्छे पयसि घनानां सीदति बत
जीवलोकोऽयम् ॥ ११६ ॥ अमृतं किरति हिमांशुर्विषमेव
फणी समुद्विरति । गुणमेव वक्ति साधुर्दोषमसाधुः प्रकाश-
यति ॥ ११७ ॥ गुणिनामपि निजरूपप्रतिपत्तिः परतः एव
संभवति । स्वमहिमदर्शनमक्षणोर्मुकुरतले जायते यस्मात्
॥ ११८ ॥ उत्कर्षवाञ्छिजैर्गुणो यथा यथा याति कर्णमन्वस्य ।
धनुग्वि सुवंशजन्मा तथा तथा सज्जनी नमति ॥ ११९ ॥
दुर्जनवदनविनिर्गतवचनभुजंगेन सज्जनो दष्टः । तद्विषनाश-
निमित्तं साधुः संतोषमौषधं पिबति ॥ १२० ॥ कमठकुला-
चलदिग्गजफणिपतिविभृतापि चलति वसुधेयम् । प्रतिपन्न-
ममलममना न चलति पुंसा युगान्तेऽपि ॥ १२१ ॥ अन्तः
कटुरपि लघुरपि सङ्घत्तं यः पुमाञ् सत्यजति । स भवति
मद्यो वन्द्यः सर्पप इव सर्वलोकस्य ॥ १२२ ॥ अद्यापि
दुर्निवारं स्तुतिकन्या भजति कौमारम् । सभ्यो न रोचते
सा सन्तोऽप्यस्यै न रोचन्ते ॥ १२३ ॥ मूकः परापवादे
परदारनिरीक्षणेऽप्यन्धः । पङ्गुः परधनहरणे स जयति
लोकत्रये पुरुषः ॥ १२४ ॥ पेशलमपि खलवचनं दहतिंतरा
मानसं सुतत्त्वविदाम् । परुषमपि सुजनवाक्यं मलयजरसव-
त्प्रमोदयति ॥ १२५ ॥ भक्तिर्भवे न विभवे व्यसनं शास्त्रे
न युवतिकामान्ने । चिन्ता यशसि न वपुषि प्रायः परिदृश्यते
महताम् ॥ १२६ ॥ उपरि करवालधाराकाराः क्रूरा भुजग-
मसदृक्षा । अन्तः साक्षान्द्राक्षाद्रीक्षागुरवो जयन्ति केऽपि
जनाः ॥ १२७ ॥ स्वस्थानादपि विचलति मज्जति जलधौ च
नीचमपि भजते । निजपक्षसंरक्षणमनाः सुजनो मैनाकशैल इव
॥ १२८ ॥ दुर्जनसहवासादपि शीलोत्कर्षं न सज्जनस्त्यजति ।
प्रतिपर्व तपनवासी निःसृतमात्रः शशी शीतः ॥ १२९ ॥
विप्रियमप्याकर्ण्य ब्रूते प्रियमेव सर्वदा सुजनः । क्षारं पिबति
पयोधेर्वर्षत्यम्भो धरो मधुरमम्भः ॥ १३० ॥ खलसख्यं
द्राङ्मधुरं नयोऽन्तराले निदाघदिनमन्ते । एकादिमध्यपरि-
णतिरमणीयां साधुजनमैत्री ॥ १३१ ॥ न विमोचयितुं शक्यः
क्षमा महान्मोचितो यदे कथंचित् । मन्दरगिरिरिव हि तलं
नियर्तते न तु स समवाप्य ॥ १३२ ॥ स्वाधीनैक समृद्धिजैर्नो-
पजीव्यत्वमुच्च्छ्रयश्छाया । मत्सृसो मरुभूरिव जीवनमात्रं समा-
शास्यम् ॥ १३३॥ सर्वस्य सर्वदापि स्पर्शनयोगेन तापमपनेतुम् ।
सुजनस्य व्यजनस्य च शक्तिमसगृह्तः पश्य ॥ १३४ ॥ कि
मधुना कि विधुना किं सुधया कि च वसुधयाखिलया । यदि
हृदयहारिचरित्त पुरुषः पुनरेति नयनयोरैयनम् ॥ १३५ ॥
ते वन्द्यास्ते कृतिनः श्लाघ्या तेषा हि जन्मनोत्पत्ति । यैरु-
ज्झितात्मकार्यैः सुहृदामर्था हि साध्यन्ते ॥ १३६ ॥ स्व-
ल्पापि साधुसङ्गोम्या महता न पृथ्व्यपि खलश्रीः । सारसमेव
पप्रम्तृषमपहगति न वारिवेर्जातु ॥ १३७ ॥ दोषो गुणाय
गुणिना महदपि दोषाय दोषिणा सुकृतम् । तृणमिव दुग्धाय
गवा दुग्धमिव विषाय सर्पाणाम् ॥ १३८ ॥ विषमगता
अपि न बुधा परिभवमिश्रां श्रियं हि वाञ्छन्ति । न पिबन्ति
भौममम्भः सरसममिति चातका एते ॥ १३९ ॥ योग्यतयैव
विनाशः प्रायोऽनार्येषु यान्ति गुणवन्तः । स्फुटवचना एव
शुकाः पञ्जरबन्धं निषेवन्ते ॥ १४० ॥ निर्गुणमप्यनुरक्तं
प्रायो न समाश्रितं जहाति सन्तः । सह वृद्धिक्षयभाजो वहति
शशाङ्कः कलङ्कमपि ॥ १४१ ॥ अन्त्यावस्थोऽपि बुधः स्वगुण
न जहाति जातिशुद्धतया । न श्वेतभावमुज्झति शङ्खः शिखि-
मुक्तमुक्तोऽपि ॥ १४२ ॥ साप्तपदीनं सख्यं भवेत्प्रकृत्या
विशुद्धचित्तानाम् । किमुतान्योन्यगुणकथाविसम्भनिबद्धभा-
गानाम् ॥ १४३ ॥ स्पृहणीयाः कस्य न ते सुमेतेः सरला-
शया महात्मानः । त्रयमपि येषा सदृशं हृदयं वचनं तथा-
चारः ॥ १४४ ॥ गुणिनः समीपवर्ती पूज्यो लोकस्य गुणवि-
हीनोऽपि । विमलेक्षणप्रमज्जादञ्जनमामोति काणाक्षि ॥ १४५ ॥
सहसिद्धमिदं महता धनेष्वनास्था गुणेषु कृपणत्वम् । पर-
दुःखे कातरता महच्च धैर्यं खलु खेषु ॥ १४६ ॥ उपकृति-
साहसिकतया क्षतिमपि गणयन्ति नो गुणिनः । जनयन्ति हि
प्रकाशं दीपशिखाः स्वाङ्गदाहेन ॥ १४७ ॥ उपकर्तुमप्रकाश
क्षन्तु न्यूनेष्वयाचितं दातुम् । अभिसधातु च गुणैः शतेषु
केचिद्विजानन्ति ॥ १४८ ॥ मा भूत्सज्जनयोगो यदि योगो
मा पुनः स्नेहः । स्नेहो यदि विरहो मा यदि विरहो जीविताशा
का ॥ १४९ ॥ अम्बरमनूरुलङ्घ्यं वसुंधरा सापि वामनैक-
पदा । अब्धिरपि पोर्तलङ्घ्यः सता मनः केन तुल्यं स्यात्
॥ १५० ॥ किमपेक्ष्य फल पयोधरान्च्छैनतः प्रार्थयते मृगा-
धिपः । प्रकृतिः खलु सा महीयसः सहते नान्यसंमुन्नति


पादटिप्पण्यः :

१ शब्दरहितः. २ वर्षति ३ रज्जु, पक्षे,-विनयादि ४ कर्ण-
प्रदेशे, पक्षे,-श्रुतिगोचरताम् ५ वेणु, पक्षे,-कुलम्. ६ स्तुतिरेव
कन्या ७ कुमारिकात्वम् ८ कोमलम् ९ खड्गम् १० सदाऽविकृता

१ अमृतेन २ स्थानम् ३ खलेषु ४ अग्नि ५ लघुभिः, पक्ष्यादि-
कैरित्यर्थे ६ नौका ७ शब्दान्कुर्वतः . ८ स्वभाव ९ उत्कर्षम्.

सज्जनप्रशंसा | ४९


यया ॥ १५१ ॥ वचनैरसता महीयसो न खलु व्येति गुरुत्वमुद्धतैः । किमपैति रजोभिरौर्वरैरवकीर्णस्य मणेर्महार्घता ॥ १५२ ॥ प्रकटान्यपि नैपुण महत्तरैर्वाच्यानि चिराय गोपितुम् । विवरीतुमथात्मनो गुणान्भृशमाकौशलमार्यचेतसाम् ॥ १५३ ॥ किमिवाखिललोककीर्तितं कथयत्यात्मगुणं महामनाः । वदिता न लघीयसोऽपरः स्वगुणं तेन वदत्यसौ स्वयम् ॥ १५४ ॥ विसृजन्त्यन्तैर्विविधिनः परे विषमाशीविषवन्नराः क्रुधम् । दधतोऽन्तरसाररूपतां धनिसाराः पटहा इवेतरे ॥ १५५ ॥ जितरोषतया महाधियः सपदि क्रोधजितो लघुर्जनः । विजितेन जितस्य दुर्मतेर्मतिमद्भिः सह का विरोधिता ॥ १५६ ॥ इयमुन्नतसत्त्वशालिनां महतां कापि कठोरचित्तता । उपकृत्य भवन्ति दूरतः परत प्रत्युपकारशङ्कया ॥ १५७ ॥ सावलेपमुपलििप्सते परैरभ्युपैति विकृति रजस्यपि । अर्थितस्तु न महान्समीहते जीवितुं किमु धनं धनायितुम् ॥ १५८ ॥ आदिमध्यनिधनेषु मोहदं सज्जने भवति नेतरे जने । छेदतापनविघर्षताडनैर्हेन्येभावमुपयाति कौञ्चनम् ॥ १५९ ॥ चातकस्त्रिचतुरानप्य कणाम् याचते जलधरं पिपासया । सोऽपि पूरयति विश्वमम्भसा हन्त हन्त महतामुदारता ॥ १६० ॥ दोषजातमवधीर्य मानसे धारयन्ति गुणमेव सज्जनाः । क्षारमवमपनीय गृह्यते वारिधेः सलिलमेव वारिदाः ॥ १६१ ॥ सज्जनस्य हृदयं नवनीतं यद्वदन्ति कवयस्तदलीकम् । अन्यदेहविलसत्परितापात्सज्जनो द्रवति नो नवनीतम् ॥ १६२ ॥ उपकारिणि वीतमत्सरे वा सदयत्वं यदि तत्र कोऽतिरेकः । अहिते सहसापराध्लब्धे सघृणं यस्य मनः सतां स धुर्यः ॥ १६३ ॥ तुङ्गात्मना तुङ्गतराः समर्था मनोरथान्पूरयितुं न नीचाः । धाराधरा एव धराधराणां निदाघदाहं शमितुं न नद्यः ॥ १६४ ॥ प्रकाममभ्यस्यतु नाम विद्यां सौजन्यमभ्यासवशादलभ्यम् । कर्णौ सपत्न्यः प्रविशालयेयुर्विशालयेदक्षियुगं न कोऽपि ॥ १६५ ॥ सन्तोऽपि सन्तः क्व किरन्तु तेजः क्व न ज्वलन्तु क्व ननु प्रथन्ताम् । विधाय रुद्धा ननु वेधसैव ब्रह्माण्डकोषे घटदीपकल्पाः ॥ १६६ ॥ प्रसादमाधुर्यगुणोपपन्ना यद्वानौचित्यपरावरूक्षाणाम् । अर्थाः कवीनामिव सज्जनानां सर्वस्य सर्वावसरोपयोगाः ॥ १६७ ॥ वनेऽपि सिंहा मृगमांसभक्षिणो बुभुक्षिता नैव तृणं चरन्ति । एवं कुलीना व्यसनाभिभूता न नीचकर्मणि समाचरन्ति ॥ १६८ ॥ अहो महत्त्वं महतामपूर्वं विपत्तिकालेऽपि परोपकारः । यथैतन्मध्ये पतितोऽपि राहोः कलानिधिः पुण्यचय ददाति ॥ १६९ ॥ पिबन्ति नद्यः स्वयमेव नाम्भः स्वयं न खादन्ति फलानि वृक्षाः । नादन्ति शस्यं खलु वारिवाहाः परोपकाराय सतां विभूतयः ॥ १७० ॥ रत्नाकरः किं कुरुते स्वरत्नैर्विन्ध्याचलः किं करिभिः करोति । श्रीखण्डखण्डैर्मलयाचलः किं परोपकाराय सतां विभूतयः ॥ १७१ ॥ श्लाघ्यः स एको भुवि मानवानां स उत्तमः सत्पुरुषः स धन्यः । यसार्थिनो वा शरणागता वा नाशाभिमङ्गाद्विमुखाः प्रयान्ति ॥ १७२ ॥ सन्तस्तृणोत्सारणर्मुत्तमाङ्गात्सुवर्णकोट्यर्पणमामनन्ति । प्राणव्यये वापि कृतोपकाराः खलाः परे वैरमिहोद्वहन्ति ॥ १७३ ॥ कटु क्वणन्तो मलदायकाः खलास्तुदन्त्यलं बन्धनशृङ्खला इव । मनस्तु साधुध्वनिभिः पदे पदे हरन्ति सन्तो मणिनूपुरा इव ॥ १७४ ॥ क्षारं जलं वारिमुचः पिबन्ति तदेव कृत्वा मधुरं वमन्ति । सन्तस्तथा दुर्जनदुर्वचांसि पीत्वा च सूक्तानि समुद्विरन्ति ॥ १७५ ॥ अयं स्वभावः स्वत एव यत्परश्रमापनोदप्रवणं महात्मनाम् । सुधांशुरेषः स्वयमर्ककर्कशप्रभाभितप्तामवति क्षितिं किल ॥ १७६ ॥ कर्णेजपानां वचनप्रपञ्चान्महात्मनः कापि न दूषयन्ति । भुजङ्गमानां गरलप्रसङ्गान्नापेयतां यान्ति महासरांसि ॥ १७७ ॥ अपानिधिं वारिभिरर्चयन्ति दीपेन सूर्यं प्रतिबोधयन्ति । ताभ्यां तयोः किं परिपूर्णता स्याद्भक्त्या हि तुष्यन्ति महानुभावाः ॥ १७८ ॥ दानाय लक्ष्मीः सुकृताय विद्या चिन्ता परब्रह्मविनिश्चयाय । परोपकाराय वचांसि यस्य वन्द्यस्त्रिलोकीतिलकः स एकः ॥ १७९ ॥ न दुर्जनानामिह कोऽपि दोषस्तेषां स्वभावो हि गुणासहिष्णुः । द्वेष्यैव केषामपि चन्द्रखण्डविपाण्डुरा पुण्ड्रकशर्करापि ॥ १८० ॥ दीपाः स्थितं वस्तु विभावयन्ति कुलप्रदीपास्तु भवन्ति केचित् । चिरव्यतीतानपि पूर्वजान् ये प्रकाशयन्ति स्वगुणप्रकर्षात् ॥ १८१ ॥ व्रते विवादं विमतिं विवेके सत्येऽतिशङ्कां विनये विकारम् । गुणेऽवमानं कुशले निषेधं धर्मे विरोधं न करोति साधुः ॥ १८२ ॥ वन्द्यः स पुंसां त्रिदशाभिनन्द्यः कारुण्यपुण्योपचयक्रियाभिः । संसारसारत्वमुपैति यस्य परोपकाराभरणं शरीरम् ॥ १८३ ॥ किं चन्द्रमाः प्रत्युपकारलिप्सया करोति गोभिः कुमुदावबोधनम् । स्वभाव एवोन्नतचेतसां सतां परोपकारव्यसनं हि जीवितम् ॥ १८४ ॥ चिराय सत्संगमशुद्धमानसो न यात्यसत्संगतमात्मवान्नरः । मनोहरेन्दीवरखण्डगोचरो न जातु भृङ्गः कुणपे निलीयते ॥ १८५ ॥ इदं हि माहात्म्य-


पादटिप्पणी (Footnotes):

वाम भाग:
१ निष्ठुरै २ भौमै ३ छन्नस्य ४ कौशलम् ५ परदूषणानि
६ वक्ता ७ अनात्मश्लाघिनः ८ क्रूरसर्पवत् ९ अभ्यन्तरे १० विकृतिम्
११ सुवर्णम् १२ शमयितुम् १३ सकटव्याप्ता १४ अलौकिकम्
७ सु. र भा.

दक्षिण भाग:
१ मुखमध्ये २ वृद्धिम् ३ धान्यम् ४ मेघा ५ ऐश्वर्याणि
६ शिरस ७ त्रिलोक्या तिलको भूषणभूतः ८ इक्षुकरै.. ९ मृतदेहे-

५० सुभाषितरत्नभाण्डागारम् [ २ प्रकरणम्


विशेषसूचकं वदन्ति चिह्नं महता मनीषिणः । मनो य-
देषा सुखदुःखसंभवे प्रयाति नो हर्षविषादवश्यताम् ॥ १८६ ॥
सुभाषितैः प्रीतिरनुन्नतिः श्रिया परार्थनिष्पत्तिपटीयसी क्रिया ।
गुणेष्वतृप्तिर्गुणवत्सु चादरो निगूढमेतच्चरितं महात्मनाम्
॥ १८७ ॥ विपदि धैर्यमथाभ्युदये क्षमा सदसि वाक्पटुता
युधि विक्रमः । यशसि चाभिरुचिर्व्यसनं श्रुतौ प्रकृतिसिद्धमिदं
हि महात्मनाम् ॥ १८८ ॥ अविरतं परकार्यकृता सता
मधुरिमातिशयेन वचोमृतम् । अपि च मानसम्भुनिधिर्यशो
विमलशारदपार्वणचन्द्रिका ॥ १८९ ॥ यदि दहत्यनलोऽत्र
किमुद्भुतं यदि च गौरयमद्रिषु किं ततः । लवणमम्बु सदैव
महोदधेः प्रकृतिरेव सतामविषादिता ॥ १९० ॥ आपद्गतः
खलु महाशयचक्रवर्ती विस्तारयत्यकृतपूर्वमुदारभावम् ।
कालागुरुर्दहनमध्यगतः समन्ताल्लोकोत्तरं परिमलं प्रकटी-
करोति ॥ १९१ ॥ यः प्रीणयेत्सुचरितैः पितरं स पुत्रो
यद्भर्तुरेव हितमिच्छति तत्कलत्रम् । तन्मित्रमापदि सुखे च
समक्रियं यदेतत्त्रयं जगति पुण्यकृतो लभन्ते ॥ १९२ ॥
प्रेमैव मास्तु यदि चेत्पंथिकेन सार्थं तेनापि चेद्भवता न
संमं कदाचित् । तेनापि चेद्भवतु मास्तु कदापि
भङ्गो भङ्गोऽपि चेद्भवतु वश्यमवश्यमायुः ॥ १९३ ॥
चन्द्रः क्षयी प्रकृतिवक्रतनुर्जडात्मा दोषांकरः स्फुरति
मित्रविपत्तिकाले । मूर्ध्ना तथापि विधृतः परमेश्वरेण नैवा-
श्रितेषु महता गुणदोषशङ्का ॥ १९४ ॥ दोषाकरोऽपि
कुटिलोऽपि कलङ्कितोऽपि मित्रौर्वैसानसमये विहितोदयोऽपि ।
चन्द्रस्तथापि हरैर्वल्लभतामुपैति नैवाश्रितेषु महता गुणदोष-
शङ्का ॥ १९५ ॥ लज्जागुणौघजननीं जननीमिव स्वाम-
त्यन्तशुद्धहृदयामनुवर्तमानम् । तेजस्विनः सुखमसूनपि
संत्यजन्ति सत्यव्रतव्यसनिनो न पुनः प्रतिज्ञाम् ॥ १९६ ॥
सत्पुरुष खलु हिताचरणैरमन्दमानन्दयत्यखिललोकमनुक्त
एव । आराधितः कथय केन करेरुदारैरिन्दुर्विकासयति
कैरविणीकुलानि ॥ १९७ ॥ दाता न दापयति दापयिता
न दत्ते यो दानदापनपरो मधुरं न वक्ति । दानं च दाप-
नमथो मधुरा च वाणी त्रीण्यप्यमूनि खलु सत्पुरुषे वस-
न्ति ॥ १९८ ॥ केनाञ्जितानि नयनानि मृगाञ्जनाना को
वा करोति रुचिराङ्गरुहान् मयूरान् । कश्चोत्पलेषु दलसंनिचयं
करोति को वा करोति विनयं कुलजेषु पुंसु ॥ १९९ ॥
अद्यापि नोञ्झति हरः किल कालकूटं कूर्मो बिभर्ति धरणीं
खलु पृष्ठभागे । अम्भोनिधिर्वहति दुर्वहवाडवाग्निमङ्गीकृतं
सुकृतिन परिपालयन्ति ॥ २०० ॥ विश्वाभिरामगुणगौरव-
गुम्फिताना रोषोऽपि निर्मलधिया रमणीय एव । लोकप्रियैः
परिमलैः परिपूरितस्य कॉश्मीरजस्य कटुतापि नितान्त-
रम्या ॥ २०१ ॥ किं जन्मना च महता पितृपौरुषेण शक्त्या
हि याति निजया पुरुषः प्रतिष्ठाम् । कुम्भा न कूपमपि
शोषयितु समर्थाः कुम्भोद्भवेन मुनिनाम्बुधिरेव पीतः ॥ २०२॥
आरभ्यते न खलु विघ्नभयेन नीचैः प्रारभ्य विघ्नविहता
विरमन्ति मध्याः । विघ्नैः पुनःपुनरपि प्रतिहन्यमानाः प्रार-
ब्धमुत्तमजना न परित्यजन्ति ॥ २०३ ॥ सौजन्यधन्य-
जऩुषः पुरुषाः परेषा दोषानपास्य गुणमेव गवेषयन्ति ।
त्यक्त्वा भुजगमविषाणि पटीरगर्भात्सौरभ्यमेव पवनाः परि-
शीलयन्ति ॥ २०४ ॥ आक्रोक्षितोऽपि सुजनो न वदत्य-
वाच्यं निष्पीडितो मधुरमुद्वमतीक्षुदण्डः । नीचो जनो
गुणशतैरपि सेव्यमानो हास्येन तद्वदति यत्कलहेऽप्यवा-
च्यम् ॥ २०५ ॥ यद्वञ्चनाहितमतिर्बहुचाटुगर्भं कार्योन्मुखः
खलजनः कृतक ब्रवीति । तत्साधवो न न विदन्ति विदन्ति
किं तु कर्तु वृथा प्रणयमस्य न पारयन्ति ॥ २०६ ॥ सद्गं-
शजस्य परितारपुनर्द्वः सुवृत्तशुद्धात्मनः सकललोकविभूषणस्य ।
छिद्र प्रजायतमि साधुजनस्य देवान्मुक्तामणेरिव गुणाय भव-
त्यवश्यम् ॥ २०७ ॥ न्यायः खलैः परिहृतश्चलितश्च धर्मः कालः
कलिः कलुष एव परं प्रवृत्तः । प्रायेण दुर्जनजन प्रभविष्णु-
रेव निष्क्रकिक. परिभवास्पदमेव साधुः ॥ २०८ ॥ सत्यं गुणा
गुणवता विधिवैपरीत्याद्यद्युपार्जिता अपि कलौ विफला
भवन्ति । साफल्यमस्ति सुतरामिदमेव तेषा यत्तापयन्ति
हृदयानि पुनः खलानाम् ॥ २०९ ॥ पापं समाचरति वीतघृणो
जघन्यः प्राप्यापदं सघृण एव तु मध्यबुद्धिः । प्राणान्त्येऽपि
न तु साधुजन. सुवृत्त वेला समुद्र इव लङ्घयितुं समर्थः
॥ २१० ॥ शुद्धः स एव कुलजश्च स एव धीरः श्लाघ्यो
विपत्स्वपि न मुञ्चति यः स्वभावम् । तप्तं यथा दिनकरस्य
मरीचिजालैर्देहं त्यजेदपि हिमं न तु शीतलत्वम् ॥ २११ ॥
याञ्चापदं मरणदुःखमिवाऽनुभाव्य दत्तेन किं खलु भवत्यति-
भूयसापि । कल्पद्रुमान्परिहसन्त इवेह सन्तः सकल्पितैर-
तिददत्यकँदर्थितं यत् ॥ २१२ ॥ ते साधवो भुवनमण्डल-
मौलिभूता ये साधुता निरुपकारिषु दर्शयन्ति । आत्मप्रयो-


पादटिप्पण्यः (Footnotes):

१ उदयकाले
२ वक्तृत्वशक्ति
३ शास्त्रे
४ स्वभावसिद्धम्
५ पान्थेन सार्धं मास्तु
६ सह
७ विघात
८ प्रकृत्या स्वभावेन वक्रा तनुर्यस्य
९ जडस्वभाव , पक्षे,-डलयो सावर्ण्योज्जलात्मा जलरूप
१० दोषा रात्रिं करोतीति दोषाकरश्चन्द्र , पक्षे,-दोषाणामाकर खनिरिति यावत्.
११ मित्र सूर्यस्तस्य विपत्तिकालोऽस्तकालस्तस्मिन्, पक्षे,-मित्र सुहृत्तद्विपत्तिकाल
१२ सदाशिवेन, पक्षे,-केनचित्स्वामिना
१३ सूर्यास्तसमये, पक्षे,-मित्रव्यसनकाले
१४ शिवप्रियताम्

१ मनोहरलोम्न
२ न त्यजति
३ सुन्दर
४ कुङ्कुमस्य
५ अगस्त्येन
६ दोषशून्यम्

सज्जनप्रशंसा


जववशीकृतखिन्नदेहः पूर्वोपकारिषु खलोऽपि हि सानुकम्पः ॥ २१३ ॥ नान्तर्विचिन्तयति किंचिदपि प्रतीपमाकोपितोऽपि सुजनः पिशुनेन पापम् । अर्कद्विषोऽपि हि सुखे पतिताग्रभागास्तारापतेरमृतमेव करा. किरन्ति ॥२१४॥ हेतो कुतोऽप्यसदृशाः सुजना गरीयः कार्य निसर्गगुरव. स्फुटमारभन्ते । उत्थाय किं कलशतोऽपि न सिन्धुनाथमुद्वीचिमालमपिबद्भगवानगस्त्यः ॥ २१५ ॥ पात्रं पवित्रयति नैव गुणान्क्षिणोति स्नेहं न संहरति नापि मलं प्रसूते । दोषावसानरुचिरश्वलता न धत्ते सत्सङ्गमः सुकृतसद्मनि कोऽपि दीपः ॥ २१६ ॥ उदधिरवधिरुर्व्यास्तं हनूमांस्तेतार निरवधि गगन चेत्काण्डैकोशे विलीनम् । इति परिमितिमन्तो भान्ति सर्वेऽपि भावाः स तु निरवधिरेकः सज्ज नाना विवेकः ॥ २१७ ॥ नहि भवति वियोगः स्नेहविच्छेदहेतुर्जगति गुणनिधीना सज्जनाना कदाचित् । घनतिमिरनिवद्धो दूरसस्थोऽपि चन्द्रः किमु कुमुदवनाना प्रेमभङ्ग करोति ॥ २१८ ॥ धवलयति समग्र चन्द्रमा जीवलोक किमिति निजकलङ्क नात्मसस्थ प्रमाष्टिं । भवति विदितमेतत्प्रायशः सज्जनाना परहितनिरतानामादरो नात्मक कार्ये ॥ २१९ ॥ प्रथमवयसि पीतं तोयमल्पं स्मरन्तः शिरसि निहितभारा नालिकेरा नराणाम् । ददति जलमनल्पास्वादमाजीवितान्तं नहि कृतमुपकार साधवो विस्मरन्ति ॥ २२० ॥ मनसि वचसि काये पुण्यपीयूषपूर्णास्त्रिभुवनमुपकारश्रेणिभि प्रीणयन्तः । परगुणपरमाणून्पर्वतीकृत्य नित्यं निजहृदि विकसन्तः सन्ति सन्तः कियन्त. ॥ २२१ ॥ उदयति यदि भानु पश्चिमे दिग्विभागे प्रचलति यदि मेरुः शीतता याति वह्निः । विकसति यदि पद्म पर्वताग्रे शिलाया न भवति पुनरुक्त भाषित सज्जनानाम् ॥ २२२ ॥ व्यतिकरितदिगन्ताः श्वेतमानैर्यशोभिः सुकृतविलसिताना स्थानमूर्जस्वलानाम् । अकलितमहिमानः केतनं मङ्गलाना कथमपि भुवनेऽस्मिंस्तादृशाः सम्भवन्ति ॥ २२३ ॥ वपुरविहितसिद्धा एव लक्ष्मीविलासा. प्रतिजनकमनीय कान्तिमुत्केतयन्ति । अमलिनमिव रत्नं रश्मयस्ते मनोज्ञा विकसितमिव पद्म बिन्दवो माकरन्दा. ॥ २२४ ॥ अपि विभवविहीनः प्रच्युतो वा स्वदेशान्नहि खलजनसेवा प्रार्थयत्युन्नतात्मा । तनु तृणमुपभुङ्क्ते न क्षुधार्तोऽपि सिंह. पिबति रुधिरमुष्णं प्रायशः कुञ्जराणाम् ॥ २२५ ॥ वहति भुवनश्रेणी शेष. फणाफलकस्थिता कमठपतिना मध्येपृष्ठ सदा स च धार्यते । तमपि कुरुते क्रोडाधीन पयोनिधिरादरादहह महता निःसीमानश्चरित्रभूतयः ॥ २२६ ॥ अणुरपि मणिः प्राणत्राणक्षमो विषभक्षिणा शिशुरपि रुषा सिहीसूनू. समाह्वयते गजान् । तनुरपि तरुस्कन्धोद्भूतो दहत्यनलो वन प्रकृतिमहता जात्यं तेजो न मूर्तिमपेक्षते ॥ २२७ ॥ सुखलवदशा हर्षक्लैब्ये खल. खलु खेलते स्खलति भजते लेशक्लेशै विषादविषूचिकाम् । भवति न सता दर्पोद्दामान दैन्यमयी मतिर्दुर्भभवता गम्भीराणा सुखेष्वसुखेषु च ॥ २२८ ॥ घृष्टं घृष्टं पुनरपि पुनश्चन्दनं चारुगन्धं छिन्नं छिन्नं पुनरपि पुनः स्वादु चैवेक्षुकाण्डम् । दग्धं दग्धं पुनरपि पुन. काञ्चनं कान्तवर्णं न प्राणान्ते प्रकृतिविकृतिर्जायते चोत्तमानाम् ॥ २२९ ॥ केनादित्यो कमलकुमुदोन्मीलने पुष्पवन्तौ विश्वं तोयैः स्रपयितुमसौ केन वा वारिवाह. । विश्वानन्दोपचयचतुरो दुर्जनाना दुरापः श्लाघ्यो लोके जयति महतामुज्ज्वलोऽयं निसर्ग ॥ २३० ॥ कस्यादेशात्क्षपयति तम. सप्तसप्तिः प्रजाना छायाहेतोः पथि विटपिनामञ्जलिः केन बद्धः । अभ्यर्थ्यन्ते जललवमुच. केन वा वृष्टिहेतोर्जात्यैवैते परहितविधौ साधवो बद्धकक्षाः ॥ २३१ ॥ यैर्वाकूलो भवति पुरत. कथ्यमानैर्जनाना कामप्यन्तर्विदधति रुज येऽप्यनुद्रीयमाणा. । तेऽभिप्रायः किमपि हृदये कण्ठलग्नाः स्फुरन्तो यस्याख्येयास्तमिह सुहृदं पुण्यवन्तो लभन्ते ॥ २३२ ॥ उदन्वच्छन्ना भूः स च निधिरपा योजनशत सदा पान्थः पूषा गगनपरिमाणं कलयति । इति प्रायो भावाः स्फुरदवधिमुद्रासुकुलिता. सता प्रज्ञोन्मेषः पुनरयमसीमा विजयते ॥ २३३ ॥ यदेतन्नेत्राम्भः पतदपि समासाद्य तरुणीकपोले व्यासङ्ग कुचकलशमस्याः कलयति । ततः श्रोणीबिम्ब व्यवसितविलास तदुचित स्वभावस्वच्छाना विपदपि सुखं नान्तरयति ॥ २३४ ॥ यदिन्दोरन्वेति व्यसनमुदयं वा निधिरपामुपधिस्तत्राय जयति जनिकर्तु. प्रकृतिता । अयं कः सबन्धो यदनुहरते तस्य कुमुद विशुद्धाः शुद्धाना ध्रुवमनभिसन्धिप्रणयिनः ॥ २३५ ॥ गुणायन्ते दोषा सुजनवदने दुर्जनमुखे गुणा दोषायन्ते तदिदमपि नो विस्मयपदम् । महामेघः क्षारं पिबति कुरुते वारि मधुरं फणी क्षीरं पीत्वा वमति गरल दुःसहतरम् ॥ २३६ ॥ प्रियैप्राया वृत्तिर्विनयमधुरो वाचि नियमः प्रकृत्या कल्याणी मतिरनवगीतः परिचय. । पुरो वा पश्चाद्वा तदिदमविपर्यासितरसं रहस्यं साधूनामैनुपधि विशुद्धं विजयते ॥ २३७॥ असाधुः साधुर्वा भवति खलु जात्यैव पुरुषो न सङ्गाद्दौर्जन्य न हि सुजनता


पादटिप्पण्यः (वामभागः)पादटिप्पण्यः (दक्षिणभागः)
१ मर्यादा१ सूर्य
२ तीर्णवान्२ आश्चर्यविषयम्
३ ब्रह्माण्डकोशे३ सर्प,
४ गाढान्धकार४ आनन्दामिका-
५ नाशयतीत्यर्थ५ कापट्यरहितम्
६ अमृततुल्यम्
७ अमृतम्
८ पङ्किभि
५२सुभाषितरत्नभाण्डागारम्[ २ प्रकरणम्

कस्यचिदपि । प्ररूढे ^१संसर्गे मणिभुजगयोर्जन्मजनिते
मर्णिनेर्होदोषान्स्पृशति न तु सर्पो मणिगुणान् ॥ २३८ ॥
न साधु कुत्रापि व्रजति खलु दोषं न गुणता खलानां संस-
^२सर्गैरपि कृतनिवासोऽपि निपुण । यथा पङ्किथ्वैलैरपिहित-
तनुश्चन्दनतरुर्न वैकृत्यं याति क्षपयति च तापं सुमनसाम्
॥ २३९ ॥ करे श्लाघ्यस्त्याग शिरसि गुरुपादप्रणयिता
मुखे सत्या वाणी विजयि भुजयोर्वीर्यैमतुलम् । हृदि स्वस्था
वृत्ति. श्रुतमधिगतैकव्रतफल विनाप्यैश्वर्येण प्रकृतिमहता
^५मण्डनमिदम् ॥ २४० ॥ अचिन्त्या. पन्थान किमपि मह-
^६तामन्धकारिपोर्यद्दक्षणोऽभूत्तेजस्र्दकृत कँथामप्यमदनाम् ।
मुनेर्नेत्रादत्रेर्यदजनि पुनर्ज्योतिरृहह प्रतेने तेनेद मदनमय-
मेव त्रिभुवनम् ॥ २४१ ॥ इहानके सन्तः सततमुपकारि-
ण्युपकृतिं कृतज्ञा. कुर्वन्तो जगति निवसन्तोऽपि सुधियः ।
कियन्तस्ते सन्त सुकृतपरिपाकप्रणयिनो विना स्वार्थै येषा
भवति परकृत्यव्यमनिता ॥ २४२ ॥ अभेदेनोपास्ते कुमुद-
मुदरे वा स्थितवतो विपक्षदम्मोजादुपगतवतो वा मधुलिह ।
अपर्याप्तः कोऽपि स्वपरपरिचर्यापरिचयप्रबन्ध साधूनाम-
यमनभिसधानमधुर. ॥ २४३ ॥ तृषार्तै मारंगै. प्रति
जलधर भूरि विरूत घनैर्मुक्ता धारा सपदि पयसस्तान्प्रति
मुहुः । खगाना के मेघा. क इह विहगा वा जलमुचाम-
याच्यो नार्तानामनुपकरणीयो न महताम् ॥ २४४ ॥ शिला
बाला जाता चरणरजमा यत्कुलशिरो. स एवाय सूर्य
सपदि निजपादर्गरिशिलाम् । स्पृशन्भूयो भूयो न खलु
कुरुते कामपि वधू कुले कश्चिद्धन्यः प्रभवति नर. श्लाघ्य-
महिमा ॥ २४५ ॥ परार्थव्यासङ्गादुपजहदपि स्वार्थपरताम-
भेदैकत्व यो वहति गुरु भूतेषु सततम् । स्वभावादक्षान्तः
स्फुरति ललितोदात्तमहिमा समर्थो यो नित्य स जयतितर.
कोऽपि पुरुषः ॥ २४६ ॥ तमासि ध्वसन्ते परिणमति
भूयानुपशय. सकृत्सवादेऽपि प्रथत इह चामुत्र च शुभम् ।
अथ प्रत्यासङ्गः कमपि महिमान वितरति प्रसन्नाना वाचः
फलमपरिमेय प्रस्रुवते ॥ २४७ ॥ प्रिया न्याय्या वृर्त्तिर्म-
लिनँमैैमँहैऽप्यसुकरं त्वसन्तो नभ्यर्थ्या सुहृदपि न
याच्यः कृर्शैधनः । विपद्युञ्चै. स्थेयं पैदर्मेनुविधेय च महता
सता केनोद्दिष्टं विषममसिधाराव्रतमिदम् ॥ २४८ ॥


प्रदानं प्रैच्छन्नं र्गृहमुपगते सभ्रमविधिः प्रियं कृत्वा मौनं
सदसि कथन नाप्युपकृतेः । अँनुत्सेको लक्ष्म्या निर्रभिभव-
सारा. परकथा. सता केनोद्दिष्ट विषममसिधाराव्रतमिदम्
॥ २४९ ॥ विजेतव्या लङ्का चरणतरणीयो जलनिधिर्वि-
पक्ष पौलस्त्यो रणभुवि सहायाश्च कपयः । तथाप्येको रामः
सकलमवधीद्राक्षसकुलं क्रियासिद्धिः सत्त्वे वसति महता
नोपकरणे ॥ २५० ॥ रथस्यैक चक्रं भुजगयमिता. सप्त
तुरगा निरालम्बो मार्गश्चरणरहितः सारथिरपि । रविर्गच्छ-
त्यन्त प्रतिदिनमपारस्य नभसः क्रियासिद्धिः सत्त्वे वसति
महता नोपकरणे ॥ २५१ ॥ धनुः पौष्पं मौर्वी मधुकरमयी
चञ्चलदृशा दृशा कोणो बाण सुहृदपि जैडोत्मा हिमकर. ।
तथायैकोऽनङ्गरित्रभुवमपि व्याकुलयति क्रियासिद्धिः सत्त्वे
वसति महता नोपकरणे ॥ २५२ ॥ विपक्षः श्रीकण्ठो
जडतनुरमाल्य शशधरो वसन्तः मामन्त कुसुमधनुषः
सैन्यमवला. । तथापि त्रैलोक्य जयति मदनो देहेर्रहितः
क्रियासिद्धि सत्त्वे वसति महता नोपकरणे ॥ २५३ ॥ घटो
जैन्मस्थानं मृगैपरिजनेो भूर्जवसनो वने वासः कन्दाशनमपि
च दु.स्थ वपुरिदम् । तथाप्येकोऽगस्त्यः सकलमपिबद्वारि-
धिजल क्रियासिद्धि. सत्त्वे वसति महता नोपकरणे ॥ २५४ ॥
जयन्ति जितमत्सरा. परहितार्थमभ्युद्यता. पराभ्युदयसुस्थि-
ता. परविपत्तिखेदाँकॅला । महापुरुपसतकथाश्रवणजातकौतू-
हल्य समस्तदुरितार्तिवप्रकटसेतव साधव ॥ २५५ ॥
ये जाते व्यॅमने निरौंकुलधिय. सम्पत्सु नाभ्युन्नता. त्रासे
नैव पराङ्मुखा. प्रणयिनि प्राणोपयोगैरपि । ^२२ह्रीैमन्त. स्वगुण-
प्रकाशनविधावन्यस्तुतौ पण्डितास्ते भूमण्डलण्डनैक-
तिलका. सन्त. कियन्तो जना ॥ २५६ ॥ क्षुैद्राः सन्ति
सहस्रशः स्वभरणव्यापारमात्रोद्यता. स्वार्थो यस्य पदार्थ एव
स पुमानेकः सतामग्रैणीः । दुष्पूरोदरपूरणाय पिबति ^२*स्रोत.-
पति र्वाँडवो जीमूतँस्तु निर्दोधतापिजगत्सतापविच्छि-
त्तये ॥ २५७ ॥ मज्जन्तोऽपि विपैत्पयोधिशहने निःशङ्क-
धैर्यावृता. कुर्वन्त्येव परोपकारमनिश सन्तो यथाशक्ति वै ।
राहोरूग्रकैरावलव्रकुहरग्रासाभिभूतोऽप्यल चन्द्रः कि न


पादटिप्पण्यः

१ सबन्धे २ सर्पस्य ३ दानम् ४ निस्तुलम् ५ भूषणम्.
६ शंकरस्य ७ अकरोत् ८ वार्तावशिष्टो मदनो यसिंस्तत्तथाविधम्.
९ न्यायानुसारिणी १० वर्तनम् ११ पातकम् १२ प्राणव्यये
१३ न याचितव्या १४ क्षीणधन १५ अनुसर्तव्यम्
१६ उपदिष्टम्. अतिकठिनम् १८ ख धाराताण्डवरूपम्.

१ गुप्तम् २ अतिथौ ३ अनुद्घाटनम् ४ उपकारस्य ५ गर्वाभावः.
६ निन्दा ७ रावण ८ कार्यसिद्धि ९ सामथ्य् म् १० अनूरु
११ पुष्पमयम् १२ ज्या १३ अमररूपा १४ बुद्धिरहित
पक्षे,-डल्यो सावर्ण् यात् जलात्मा जलरूप १५ अनङ्ग
१६ उत्पत्तिस्थानम् १७ मृगा एव परिजन १८ समुद्रम्.
१९ व्यग्रचित्ता २० संकटे २१ अव्याकुलचित्ता २२ लज्जावन्त .
२३ नीचा २४ अग्रेसर २५ समुद्रम् २६ वाडवाग्नि २७ मेघ.
२८ ग्रीष्म २९ विपदेव विपदां वा पयोधि समुद्र ३० भयकरम्.

सज्जनप्रशंसा | ५३

जन करोति सुखिनं आसावशेषैः करैः^१ ॥ २५८ ॥ वाञ्छा सज्जनसंगमे परगुणे प्रीतिर्गुरौ नम्रता विद्याया व्यसनं स्वंयोषिति^२ रतिर्लोकापवादाद्भयम् । भक्ति शूलिनि^३ शक्तिरात्मदमने संसर्गमुक्ति खलेष्वेते येषु वसन्ति निर्मलगुणास्तेभ्यो नरेभ्यो नमः ॥ २५९ ॥ दृश्यन्ते भुवि भूरि निम्बतरव. कुत्रापि ते चन्दना. पाषाणै. परिपूरता वसुमती वंज्रो^५ मणिर्दुर्लभः । श्रूयन्ते करटारवाश्च^६ सतत चैत्रे कुँहूकूजित^७ तन्मन्ये खलसंकुल जगदिद द्विंत्राः क्षितौ सज्जना. ॥ २६० ॥ घर्मातं न तथा सुशीतलजलै. स्नान न मुक्तावलिर्न श्रीखण्डविलेपन सुखयति प्रत्यङ्गमप्यर्पितम् । प्रीत्ये सज्जनभाषित प्रभवति प्रायो यथा चेतस. सद्युक्त्या च पुरस्कृत सुकृतिनामाकृथिमंप्रोपमम्^४ ॥ २६१ ॥ धर्मे तत्परता मुखे मधुरता दाने समुत्साहिता मित्रेऽवञ्चकता गुरौ विनयिता चित्तेऽतिगम्भीरता । आचारे शुचिता गुणे रसिकता शास्त्रेऽतिविज्ञानिता रूपे सुन्दरता हरौ भजनिता सत्स्वेव संदृश्यते ॥ २६२ ॥ सौजन्यामृतसिन्धवः^९ परहितप्रारब्धवीरव्रता वाचाला. परवर्णने निजगुणालापे च मौनव्रता. । औपक्तव्यविलुप्तधैर्यनिचयाः^१० सपत्खेन्नुत्सेकिनो^११ मा भूवन्खलवक्रनिर्गतविषज्वालातताः सज्जनाः ॥ २६३ ॥ ये दीनेषु दयालव. स्पृशति यानल्पोऽपि न श्रीमदो व्यग्रा ये च परोपकारकरणे हृष्यन्ति^१२ ये याचिताः । स्वस्थाः सन्ति च यौववोन्मदमहाव्याधिप्रकोपेऽपि ये तैः स्तम्भैरिव सुस्थितैः कलिभरक्रान्ता धरै^१३ धार्यते ॥ २६४ ॥ क्षारो वारिनिधि कलङ्ककलुषश्चन्द्रो रविस्तापकृत्पर्जन्यश्चैपलाश्रयो^१४ऽभ्रपटलाद्दृश्यः सुवर्णाचलः । शून्य व्योम रँसो^१५ द्विजिह्वविधृता स्वर्धामधेनु. पशुः काष्ठ कल्पतरुर्बृहत्सुरमणिस्तत्केन साम्य सताम् ॥ २६५ ॥ कस्मादिन्दुरसौ धिनोति जगती पीयूषगर्भैः करै. कस्माद्वा जलधारयैव धरणि धाराधर. सिञ्चति । आम आममय च नन्दयति वा कस्मात्त्रिलोकी रविः साधूना हि परोपकारकरणे नोपाध्यपेक्ष मनः ॥ २६६ ॥ अद्वैत सुखदुःखयोरनुगतं सर्वास्ववस्थासु यद्विश्रामो हृदयस्य यत्र जरसा यस्मिन्नहार्यो रसः । कालेनावरणात्ययात्परिणते यत्स्नेहसारे स्थित भद्रं तस्य सुमानुषस्य कथमप्येक हि तत्प्रार्थ्यते ॥ २६७ ॥ गर्व नोद्वहते न निन्दति परान्नो भाषते निष्ठुर प्रोक्त केनचिदप्रियं च सहते क्रोवं च नालम्बते । श्रुत्वा काव्यमलक्षण परकृतं सत्तिष्ठते मूकवद्दोषाञ्छादयते स्वय न कुरुते ह्येतत्सता लक्षणम् ॥ २६८ ॥ कि कूर्मस्य भरव्यथा न वपुषि क्ष्मा न क्षिपत्येष यत्कि वा नास्ति परिश्रमो दिनपतेरास्ते न यन्निश्चल. । कि चाङ्गीकृतमुत्सृजन्ति मनसा श्लाघ्यो जनो लज्जते निर्वाह. प्रतिपन्नवस्तुषु सतामेतद्धि गोत्रव्रतम् ॥ २६९ ॥ सेतूपक्रमकौतुकाहृतगिरिप्रक्षेपवेगोच्छलन्निःशेषाम्बुपरिस्फुटोदरदरीगम्भीरिमा सागरः । चक्रे गोष्पदवद्विलङ्घितवतोऽप्यन्तर्भय मारुतेः पूर्णत्वादतिरिच्यते हि महतस्तुच्छस्य दुर्लङ्घ्यता ॥ २७० ॥ शूरा सन्ति सहस्रश. प्रतिपद विद्याविदोऽनेकण सन्ति श्रीपतयो निरस्तधनदास्तेऽपि क्षितौ भूरिशः । ये कर्मण्यनिरीक्ष्य वान्यमनुज दुःखार्दितं यन्मनस्ताद्रूप्य प्रतिपद्यते जगति ते सत्पुरुषाः पञ्चषाः ॥ २७१ ॥ ख्याति यत्र गुणा न यान्ति गुणिनस्तत्रादरः स्यात्कुत. कि कुर्याद्वहुशिक्षितोऽपि पुरुषः पाषाणभूते जने । प्रेमारूढविलासिनीमदवशाव्यावृत्तकण्ठस्खन. सीत्कारो हि मनोहोऽपि बधिरे कि नाम कुर्याद्गुणम् ॥ २७२ ॥ तृष्णा छिन्धि भज क्षमा जहि मदं पापे रति मा कृथाः सत्यं ब्रूह्यनुयाहि साधुपदवीं सेवस्व विद्वज्जनान् । मान्यान्मानय विद्विषोऽप्यनुनय ह्याच्छादय स्वान्गुणान्कीर्तिं पालय दुःखिते कुरु दयामेतत्सता लक्षणम् ॥ २७३ ॥ क्षाम्ये पेशलता गुणे प्रणयिता हर्षे निरुत्सेकता पत्रे सवृत्तता श्रुते सुमतिता वित्तोदये त्यागिता । साधौ सादरता खले विमुखता पापे पर भीरुता दुःखे क्लेशसहिष्णुता च महता कल्याणमाकाङ्क्षति ॥ २७४ ॥ गेह दुर्गतबन्धुभिर्गुरुगृह छात्रैहकारिभिर्हष्टं पत्तनवञ्चकैर्मुनिजनैः शापोन्मुखैराश्रमन् । सिहाद्यैश्च वन खलैनृपसभा चौरैर्दिगन्तानपि संकीर्णान्यवलोक्य सत्यसरल साधुः क विश्राम्यति ॥ २७५ ॥ दीनाना कल्पवृक्षः सुगुणफलनतः सज्जनाना कुटुम्बी ह्यादर्श. शिक्षिताना सुचरितनिकषः शीलवेलासमुद्रः । सत्कर्ता नावमन्ता पुरुषगुणनिधिर्दक्षिणोदारसत्त्वो ह्येकः श्लाघ्यः स जीवत्यधिकगुणतया चोच्छ्वसन्तीव चान्ये ॥ २७६ ॥ नम्रत्वेनोन्नमन्त. परगुणकथनैनैः स्वान्गुणान्ख्यापयन्त.^१ स्वार्थान्सम्पादयन्तो विततबहुतरारम्भयत्नाः परार्थे । क्षान्त्यैवाक्षेप रूक्षाक्षरमुखरमुखान्दुर्मुखान्दुःखयन्तः सन्तः साश्चर्यचर्या जगति बहुनताः कस्य नाभ्यर्थनीया. ॥ २७७ ॥ वक्रे वेल्गाप्रकर्षः^२ समरभुवि^३ तव प्राणरक्षापि दैवात्स्वेच्छाचारो न चास्ते नहि भवति तथा भारवाहो नितान्तम् । इत्युक्तोऽश्व. खरेण प्रहसितवदनो मूक एवावतस्थे तस्माज्जात्या महान्तोऽधमजनविषये मौनमेवाश्रयन्ते ॥ २७८ ॥


पादटिप्पणी:

१ किरणै २ स्वस्त्रियाम् ३ शकरे ४ मनोज्ञे ५ हीरकमणि ६ काकशब्दा ७ कोकिलशब्दा ८ मुक्तासर ९ सुजनतामृतसमुद्रा १० विपत्तिकालेषु ११ गर्वरहिता १२ हर्षयुक्ता भवन्ति १३ पृथिवी १४ विद्युत् १५ पृथ्वी

१ प्रकटयन्त २ मुखबन्धन(लगाम)सौष्ठवम् ३ सङ्ग्रामाङ्गणे

५४ सुभाषितरत्नभाण्डागारम् [ २ प्रकरणम्


दुर्जननिन्दा

खलः सर्षपमात्राणि परच्छिद्राणि पश्यति । आत्मनो बिल्वमात्राणि पश्यन्नपि न पश्यति ॥ १ ॥

न विना परवादेन रमते दुर्जनो जनः । काकः सर्वरसान्मुक्त्वा विनामेध्यं न तृप्यति ॥ २ ॥

विशिखैर्व्यालयोरन्त्यवर्णाभ्यां यो विनिर्मितः । परस्य हरति प्राणान्नॆतच्चित्रं कुलोचितम् ॥ ३ ॥

विषमा मलिनात्मानो द्विजिह्वा जिह्मगा इव । जगत्प्राणहरा नित्यं कस्य नोद्वेजकाः खलाः ॥ ४ ॥

दुर्जनः परिहर्तव्यो विद्ययालङ्कृतोऽपि सन् । मणिना भूषितः सर्पः किमसौ न भयङ्करः ॥ ५ ॥

खलानां कण्टकानां च द्विविधैव प्रतिक्रिया । उपानन्मुखभङ्गो वा दूरतो वा विसर्जनम् ॥ ६ ॥

अपूर्वः कोऽपि कोशाग्निः सज्जनस्य खलस्य च । एकस्य शाम्यति स्नेहादूर्ध्वतेऽन्यस्य वारितः ॥ ७ ॥

अर्जितं सज्जनं दृष्ट्वा द्वेष्टि नीचः पुनः पुनः । कवलीकुरुते स्वस्थं विधुं दिवि विधुंतुदः ॥ ८ ॥

क्वचित्सर्पोऽपि मित्रत्वमियान्नैव खलः क्वचित् । न शेषशायिनोऽप्यस्य वशे दुर्योधनो हरेः ॥ ९ ॥

उपकारोऽपि नीचानामपकारो हि जायते । पयःपानं भुजंगानां केवलं विषवर्धनम् ॥ १० ॥

अलक्ताश्च खलाश्चैव मूर्धभिः सुजनैर्धृताः । उपर्युपरि सस्कारेऽप्याविष्कुर्वन्ति वक्रताम् ॥ ११ ॥

खलानां धनुषां चापि सङ्घर्शैर्जनुषामपि । गुणलाभो भवेदाशु परहृद्भेदकारकः ॥ १२ ॥

बहुँर्निष्कपटद्रोही बहुँर्धान्योपघातकः । रन्ध्रान्वेषी च सर्वत्र दूषको मूषको यथा ॥ १३ ॥

नौश्च दुर्जनजिह्वा च प्रतिकूलविसर्पिणी । परप्रतारणायैव दारुणा केन निर्मिता ॥ १४ ॥

यस्मिन्वंशे समुत्पन्नस्तमेव निजचेष्टितैः । दूषयत्यचिरेणैव घुंर्णकीट इवाधमः ॥ १५ ॥

स्वभावकठिनस्यास्य कृत्रिमां बिभ्रतो नतिम् । गुणोऽपि परहिंसायै चापस्य च खलस्य च ॥ १६ ॥

अयःपिण्ड इवोत्तप्ते खलानां हृदये क्षणात् । पतिता अपि नेक्ष्यन्ते गुणास्तोयकणा इव ॥ १७ ॥

वर्जनीयो मतिमता दुर्जनः सख्यवैरयोः । श्वा भवत्युपकाराय लिहन्नपि दशन्नपि ॥ १८ ॥

वक्रतां बिभ्रतो यस्य गुह्यमेव प्रकाशते । कथं खलु समो न स्यात्पुच्छेन पिशुनः शुनः ॥ १९ ॥

स्नेहेन भूतिदानेन कृतः स्वच्छोऽपि दुर्जनः । दर्पणश्चान्तिकं तिष्ठन्करोत्येकमपि द्विधा ॥ २० ॥

आजन्मसिद्धं कौटिल्यं खलस्य च हलस्य च । सोढुं तयोर्मुखाक्षेपमलमेकैव सा क्षमा ॥ २१ ॥

यथा यथैव स्नेहेन भूयिष्ठमुपचर्यते । धत्ते तथा तथा तापं महावैश्वानरः खलः ॥ २२ ॥

स्तोकेनोन्नतिमायाति स्तोकेनायात्यधोगतिम् । अहो नु सदृशी वृत्तिस्तूलाकोटेः खलस्य च ॥ २३ ॥

दुर्जनः कृतशिक्षोऽपि सज्जनो नैव जायते । अपि गङ्गाजलस्नानान्नाधःकेशः कुशायते ॥ २४ ॥

दह्यमानाः सुतीव्रेण नीचाः परयशोऽग्निना । अशक्तास्तत्पदं गन्तुं ततो निन्दां प्रकुर्वते ॥ २५ ॥

खलः सक्रियमाणोऽपि ददाति कलहं सताम् । दुग्धधौतोऽपि किं याति वायसः कलहंसताम् ॥ २६ ॥

दुर्जनस्य विशिष्टस्य परोपद्रवकारणम् । व्याघ्रस्य चोपवासेन पारणं पशुमारणम् ॥ २७ ॥

सत्यज्य शूर्पवद्देषान्गुणानगृह्णाति पण्डितः । दोषग्राही गुणत्यागी पेलोलीव हि दुर्जनः ॥ २८ ॥

खलो न साधुता याति सद्भिः सबोधितोऽपि सन् । सरित्पूरप्रपूर्णोऽपि क्षारो न मधुरोदधिः ॥ २९ ॥

सर्पदुर्जनयोर्मध्ये वरं सर्पो न दुर्जनः । सर्पो दशति कालेन दुर्जनस्तु पदे पदे ॥ ३० ॥

अकस्मादेव कुप्यन्ति प्रसीदन्त्यनिमित्ततः । शीलमेतदसाधूनामभ्रं परिप्लवं यथा ॥ ३१ ॥

अशक्ताः शक्तिमात्मीयां श्लाघयन्ते च दुर्जनाः । ते भवन्त्युपहासाय महतामेव सन्निधौ ॥ ३२ ॥

सर्पः क्रूरः खलः क्रूरः सर्पात्क्रूरतरः खलः । मन्त्रेण शाम्यते सर्पो न खलः शाम्यते कदा ॥ ३३ ॥

दुर्जनं प्रथमं वन्दे सज्जनं तदनन्तरम् । मुखप्रक्षालनात्पूर्वं गुदप्रक्षालनं यथा ॥ ३४ ॥

दुर्जनः सुजनो न स्यादुपाय्यानां शतैरपि । अपानं मृत्सहस्रेण धौतं चास्यं कथं भवेत् ॥ ३५ ॥

खलास्तु कुशलाः सम्भोहिंतप्रत्यहकर्मणि । निपुणाः फणिनः प्राणानपहर्तुं निरोगसाम् ॥ ३६ ॥

अहो बत महष्कष्टं विपरीतमदं जगत् । येनोप॑त्रपते साधुरसाधुस्तेन तुष्यति ॥ ३७ ॥

तक्षकस्य विषं दन्ते मक्षिकाया विषं शिरः । वृश्चिकस्य विषं पुच्छं सर्वाङ्गे दुर्जनो विषम् ॥ ३८ ॥

दुर्जनो नार्जवं याति सेव्यमानोऽपि नित्यशः । स्वेदनाभ्यञ्जनोपायैः श्वपुच्छमिव ना-


पादटिप्पण्यः (Footnotes)

वामभागःदक्षिणभागः
१ विष्ठाद्यशुचि१ तैलेन, पक्षे,-ममतया
२ बाण२ भस्म, पक्षे,-वैभवम्
३ सर्प३ लाङ्गलम्
४ अन्त्यवर्णौ 'खल' इति४ पृथ्वी, पक्षे,-शान्ति
५ कुटिला५ बाहुल्येन
६ मलिनान्त करणा६ पूज्यते
७ सर्पा७ अभ्रि, पक्षे,-वैश्वानर इति च्छेद
८ प्रतीकार८ तुलायष्टे
९ उपानहा पादस्थचर्मणा मुखभङ्गो९ राजहंसत्वम्
१० निवारणात्, पक्षे,-जलात्१० चालनी
११ कुलम्, पक्षे,-वेणु११ चञ्चलम्
१२ विनयादि, पक्षे,-मौर्वी१२ हितेऽन्तरायाचरणे
१३ बहु निष्कपट द्रोही, पक्षे,-बहु निष्क पट द्रोही इति पदच्छेद१३ निरपराधानाम्
१४ बहुधा अन्योपघातक, पक्षे,-बहु धान्य उपघातक इति पदच्छेद१४ लज्जां प्राप्नोति
१५ दूषणान्वेषी, पक्षे,-छिद्रान्वेषी१५ सरलताम्
१६ प्रतितीरम्, पक्षे,-विरुद्धम्
१७ परेषां प्रकर्षेण तारणाय, पक्षे,-परेषां वञ्चनाय
१८ भयंकरा, पक्षे,-काष्ठेन
१९ वेणौ, पक्षे,-कुले
२० स्वकर्मभि
२१ काष्ठवेधक कृमि
२२ क्रियया निर्वृत्ताम्, पक्षे,-कपटयुक्ताम्
२३ नम्रत्वम्
२४ मौर्वी, पक्षे,-विनयादि
२५ धनुष

दुर्जननिन्दा | ५५

मितम् ॥ ३९ ॥ वर्धन वाथ संमान खलाना प्रीतये कुतः । फलन्त्यमृतसेकेऽपि न पथ्यानि विषद्रुमाः ॥ ४० ॥ दुर्जनै- रुच्यमानानि वचांसि मधुराण्यपि । अकालकुसुमानीव भयं संजयन्ति हि ॥ ४१ ॥ शत दद्यान्न विवदेदिति विज्ञस्य संमतम् । विना हेतुमपि द्वन्द्वमेतन्मूर्खस्य लक्षणम् ॥४२॥ अहो खलभुजंगस्य विपरीतो वधक्रमः । अन्यस्य दशति श्रोत्रमन्य. प्राणैर्विमुज्यते ॥ ४३ ॥ न यत्नकोटिशतकैरपि दुष्ट. सुधीर्भवेत् । किं मर्दितोऽपि कस्तूर्या लशुनो याति सौरभम् ॥ ४४ ॥ पाषाणो भिद्यते टङ्कैर्वज्रं वज्रेण भिद्यते । सर्पोऽपि भिद्यते मन्त्रैर्दुष्टात्मा नैव भिद्यते ॥ ४५ ॥ दुर्ज- नो दोषमादत्ते दुर्गन्धमिव सूकरः । सज्जनश्च गुणग्राही हंस. क्षीरमिवाम्भस. ॥ ४६ ॥ अपूर्वा रसनाव्यालाः खलाननबिलेशयाः । कर्णमूले स्पृशन्त्यन्य हरन्त्यन्य- स्य जीवितम् ॥ ४७ ॥ दुर्जनेन सम सख्य प्रीति चापि न कारयेत् । उष्णो दहति चाङ्गारः शीतः कृष्णायते करम् ॥ ४८ ॥ दुर्जनः प्रियवादी च नैतद्विश्वासकारणम् । मधु तिष्ठति जिह्वाग्रे हृदये तु हलाहलम् ॥ ४९ ॥ मनस्यन्यद्वचस्यन्यत्कार्ये चान्यद्दुरात्मनाम् । मनस्येकं वच- स्येकं कर्मण्येकं महात्मनाम् ॥ ५० ॥ ^१जीवनग्रहणे नम्रा गृहीत्वा पुनरुन्नताः । किं कनिष्ठाः किमु ज्येष्ठा घटीयन्त्र- ख दुर्जनाः ॥ ५१ ॥ बिभ्राणा गरल कण्ठे भुजगपरि- वेष्टिता । शाम्भीव तनुः कस्य न वन्द्या दौर्जनी सभा ॥ ५२ ॥ अक्षमालाप्रवृत्तित्ज्ञा कुशासनपरिग्रहा । ब्राह्मीव दौर्जनी संसद्वन्दनीया ^९समेखला ॥ ५३ ॥ खलः करोति दुर्वृत्तं नून फलति साधुषु । दशाननोऽहरत्सीता बन्धन च महोदधे. ॥ ५४ ॥ कुर्वते स्वमुखेनैव बहुधान्यस्य ख- ण्डनम् । नमः पतनशीलाय मुसलाय खलाय च ॥ ५५ ॥ अपवादाद्भीतस्य समस्य गुणदोषयोः । असद्वृत्तेरहो वृत्तं दुर्विभाव्यं विघेखिव ॥ ५६ ॥ न देवाय न धर्माय न बन्धुभ्यो न चार्थिने । दुर्जनस्यार्जित वित्त भुज्यते राज- तस्करैः ॥ ५७ ॥ मुखं पद्मदलाकारं वाचा चन्दनशीतला । तोहृदयं क्रोधसंयुक्तं त्रिविधं धूर्तलक्षणम् ॥ ५८ ॥ निष्णा- ऽपि च वेदान्ते साधुत्व नैति दुर्जनः । चिर जलनिधौ मग्नो मैनाक इव मार्दवम् ॥ ५९ ॥ खल सज्जनकार्पास- धैक्षणैकहुताशन । परदु खाभिधमनमारुतः केन वर्ण्य- ताम् ॥ ६० ॥ यश.सौरभ्यलशुनः शान्तिशैत्यहुताशन । कारुण्यकुसुमाकाश खल. सज्जनदु.खद ॥ ६१ ॥ अन्तर्म- लिनदेहेन बहिराह्लादकारिणा । मँहाकालफलेनेव के खलेन न वञ्चिताः ॥ ६२ ॥ अहो प्रकृतिसादृश्य श्लैष्मैणो दुर्जनस्य च । मधुरैः कोपमायाति कटुकैनैव शाम्यति ॥ ६३ ॥ ईषल्लब्धप्रवेशोऽपि स्नेहविच्छेदकारक । कृतक्षोभो नरीन- र्ति खलो मन्थानदण्डवत् ॥ ६४ ॥ विवृण्वती पुरस्तैक्ष्ण्य पृष्ठत. कुर्वती गुणम् । कर्णान्निध्यति लोकस्य सूचीवत्सू- चकस्य वाक् ॥ ६५ ॥ सर्वथा व्यवहर्तव्य कुतो व्यवच- नीयता । यथा स्त्रीणा तथा वाचा साधुत्वे दुर्जनो जनः ॥ ६६ ॥ कापूरुष. कुकुरश्च भोजनैकपरायण. । लालित. पार्श्वमायाति वारितो नच गच्छति ॥ ६७ ॥ मालिन्यम- वलम्बेत यदा दर्पणवत्खल. । तदैव तन्मुखे देय रजो नान्या प्रतिक्रिया ॥ ६८ ॥ नीच. समुत्थितोऽवश्यमनवाप्य पराश्र- यम् । छिद्र न रतिमाप्नोति दृष्टान्तोऽत्र ^८कंटीभवः ॥ ६९ ॥ दुर्जन. परिहर्तव्य प्रत्यक्शो द्विपदः पशुः । विध्यते वा कुश- ल्येन अदृष्टः कण्टको यथा ॥ ७० ॥ यथा वृष्टि समुद्रेषु भु- क्तस्योपरि भोजनम् । एवं प्रीति. खलैः सार्धमुत्यन्तेऽर्थेऽव- सीदति ॥ ७१ ॥ क्वचित्कार्यवशान्नीचोऽप्यलं भवति नो म- हान् । कांस्यस्यैव हिं राज्ञोऽपि दर्पणः कनकस्य न ॥ ७२ ॥ दुर्जनो दूषयत्येव सता गुणगणं क्षणात् । मलिनीकुरुते धू- मः सर्वथा विमलाम्बरम् ॥७३॥ यथा दोषो विधातस्य ज- नस्य न तथा गुण. । प्रायः कलङ्क एवेन्दो. प्रस्फुटो न प्रस- न्नता ॥ ७४ ॥ सप्तौ कर्कशं चित्त खलस्यापदि कोमलम् । शीतल कठिन प्रायस्ततं मृदु भवत्य॑यः ॥ ७५ ॥ प्रायः प्रकु- प्यतितरा प्रीत्यैव प्रखलो जनः । नयन स्नेहसपर्कात्कालुष्यं समुपैत्यलम् ॥ ७६ ॥ प्राप्य वित्तं जडास्तूष्णे निर्वृति यान्ति नान्यथा । तोयमासाद्य गर्जन्ति न रिक्ताः स्तेनयित्नवः ॥७७॥ सदा खण्डनयोग्याय तुषपूर्णायशाय च । नमोऽस्तु बहुबीजा- य खलायोलूखलाय च ॥७८॥ जिह्वादूषितसत्यान्नः पिण्डार्थी कलहोत्कटः । तुल्यतामशुचिर्नित्यं बिभर्ति पिशुनः शुनः॥७९॥


१ जिह्वारूपा सर्पा २ उदकम्, पक्षे,-प्राणा ३ अधोमुखा, पक्षे,-विनीता ४ ऊर्ध्वमुखा पक्षे,-उद्धता ५ एकरज्जुसबद्धघटमाळारूप 'राहाट' इति प्रसिद्धम् ६ सर्पा, पक्षे,- जारा ७ दुर्जनसवन्धिनी ८ अक्षमा य आलापास्तेषा वृत्तिज्ञा, पक्षे,- अक्षमाला जपमाला तस्या अपवृत्तिभ्रमण जानातीति सा ९ कुत्सित यच्छासन शिक्षा तस्य परिग्रहोऽवलम्बो यस्या सा, पक्षे,-कुशासन दर्भासन तत्परिग्रह स्वीकारो यस्या सा १० समे साधौ खला, पक्षे,-मेखलया सहिता ११ बहुधा अ-न्यस्य परस्य खण्डनम्, पक्षे,-पुष्कळधान्यस्य खण्डन वितुषीकरणम्

१ दहनम् २ कीर्तिरेव सौगन्ध्व तन्नाशकत्वाल्लशुन इव लशुनो हि कस्तूर्यादि सौगन्ध्व नाशयतीति प्रसिद्धि. ३ शान्तिरेव शैत्य तन्नाशकत्वादग्निरेव ४ कारुण्यमेव कुसुम तस्याकाश आकाशस्य यथा पुष्प कदापि नोपलभ्यते तद्वत्खले कारुण्य सर्वथाऽसम्भाव्य इत्यर्थ ५ धत्तूरफलेन ६ स्वभावसाम्यम् ७ कफस्य ८ साधुदन्द्यै, पक्षे,-सुवचनै ९ पुन पुनर्नृत्यति १० पुरुषव्यञ्जनम् ११ लोहम् १२ मेघ १३ मध्येच्छु