भारतकोश
संग्रह पर लौटें

तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)

Taittiriya Aranyaka Hindi

महर्षि वैशम्पायन द्वारा

स्रोत: Taittiriya Aranyaka with Sayana Bhashya and Hindi Translation (उद्गम)

DevanagariHindipublished940 पृष्ठ

१०० तैत्तिरीये आरण्यके

भिः । या॒मि म॒यूर॑रोमभिः । मा मा केचिन्॒न्येमु॑रि॒न्न पा॒शिनः । नि॒धन्वे॑व॒ ताँ॒३ इ॑मि⁽५⁾ । ⁽६⁾अणुभिश्च म॒हद्भि॑श्च ॥ २ ॥

नि॒घृषै॑रस॒मायु॑तैः । कालै॑र्हरि॒त्वमाप॑न्नैः । इन्द्रा॑- या॒हि स॒हस्र॑युक्⁽६⁾ । ⁽७⁾अ॒ग्निर्वि॒भ्राष्टि॑वसनः । वा॒युः

कल्पः । आमन्द्रैरित्येकां यजमान उपदध्यात् । पाठस्तु । ⁽५⁾"आ मन्द्रैरिन्द्र हरिभिः ० निधन्वेव तां३ इमि"⁽५⁾ इति । इत्ययं* शब्दः प्रथमैकवचनमुपलक्षयति तस्मादहमित्यर्थः सम्प- द्यते । मन्द्रैरित्यादि पूर्ववद्योजनीयं । हे 'इन्द्र', त्वया सहाह- मपि त्वदीये लोके 'यामि' गच्छामि, त्वामिव मामपि जनाः 'पाशिनः', मां 'मा', प्रतिबध्नन्तु ततोऽहं 'निधन्वेव' निधान- वानिव लब्धनिधिरिव तुष्टः सन्, 'तान्' उत्तमलोकान्, 'इमि' एमि, प्राप्नुवानि ॥

कल्पः । अणुभिश्चेति द्वे इति । तत्र प्रथमामाह । ⁽६⁾"अणु- भिश्च ० सहस्रयुक्"⁽६⁾ इति । हे 'इन्द्र', त्वं 'कालैः' कालविशेषैः सह, 'आयाहि' आगच्छ । कीदृशैः कालैः, 'अणुभिश्च' क्षण- मुहूर्त्ताद्याकारेण सूक्ष्मरूपैः, 'महद्भिश्च' संवत्सरयुगादिरूपेण प्रौढैरपि, 'निघृष्वैः' नितरां दीप्यमानैः, यद्यपि कालस्य नो- रूपत्वान्नास्ति दीप्तिः, तथापि तदभिमानिनां देवानां अस्त्येव दीप्तिः । 'असमायुतैः' परस्परमसङ्गतैः, न ह्येकस्मिन् काले


* इत्ययमित्यत्र भाष्योद्धृत इतिशब्दो मूले न दृश्यते ।

१ प्रपाठके १२ अनुवाकः । २०१

श्वेत॑सिकद्रुक॒: । सं॒व॒त्स॒रो वि॒षूवर्णे॑: । नित्या॒स्तेनु॑च- रा॒स्तव॑^{(७)} । ^{(८)}सुब्र॒ह्म॒ण्यो३॑ सुब्र॒ह्म॒ण्यो३॑ सुब्र॒ह्म॒ण्यो॑ । इन्द्राग॑च्छ॒ हरि॑व॒ आग॑च्छ मेधातिथेः । मेष॒ वृषणश्वस्य॑ मेने॒ ॥ ३ ॥


वर्त्तमाने कालान्तरं सह प्रवर्त्तन्ते । ‘हरित्वमापन्नैः’ हरिनामक- त्वदीयाश्वत्वं प्राप्तैः, कालाभिमानिदेवा एव तवाश्वा इत्यर्थः । कीदृश इन्द्रः, ‘सहस्रयुक्’ अर्चिस्सहस्रेण युक्तः ॥

अथ द्वितीयामाह । ^{(७)}“अग्निर्विभ्राष्टिवसनः ० नित्यास्ते- नुचरास्तव”^{(७)} इति । हे इन्द्र ‘अग्निः’ ‘वायुः’ ‘संवत्सरः’, ये त्रयः सन्ति ते त्रयोपि ‘तव नित्या अनुचराः’, कदाचिदप्यनपायिनो नित्याः । कीदृशोऽग्निः, ‘विभ्राष्टिवसनः’ विशेषेण भ्राजमान- वसनयुक्तः । कीदृशो वायुः, ‘श्वेतसिकद्रुकः’ श्वेतानां सिकतानां द्रोग्धा, तदेतदुपलक्षणं, नानाविधां धूलिमुत्पादयतीत्यर्थः । कीदृशः संवत्सरः, ‘विषूवर्णैः’ नानाविधैर्वर्णैर्युक्तः । वसन्ताद्यृतु- भेदाः पूर्वमेवोक्ताः ॥

कल्पः । सुब्रह्मण्योमित्येकामिति । पाठस्तु । ^{(८)}“सुब्रह्मण्यो३ ० गौतम ब्रुवाण”^{(८)} इति । शोभनं ब्रह्म सुब्रह्म वेदः तस्मै हितः ‘सुब्रह्मण्यः’ इन्द्रः, ‘ॐ’, इति सम्बोधनार्थः । हे सुब्रह्मण्येति त्रिर्भिधानमादरार्थं । तद्गुणकथनेन स्तुत्यर्थमिन्द्रादिपदैः सम्बोधनं । हे ‘इन्द्र’ परमैश्वर्ययुक्त, इह कर्मणि ‘आगच्छ’,

१०२ तैत्तिरीये आरण्यके

गौरा॒वस्कन्दि॒न्नह॑ल्यायै जा॒र। कौशि॒कब्रा॑ह्म॒ण गौ॑तमब्रुवा॒ण^(८)। ^(९)अरु॑णाश्चा इ॒हाग॑ताः। वस॑वः पृथि-


‘हरिवः’ हरिनामकावश्वावस्य विद्येते इति हरिवान् तस्य सम्बोधनं, शुक्लकृष्णपक्षदेवावेव तदीयाश्वत्वं प्राप्य हरिशब्देनोच्येते, तादृश हे हरिवः, इह कर्मणि ‘आगच्छ’। ‘मेधातिथेः’ मेधातिथिर्नामकः कश्चिदृषिः कण्वस्य पुत्रः तत्सम्बन्धिन्, हे ‘मेष’ रूप, वृषणश्वो नाम कश्चिन्मुनिः तस्य सम्बन्धिनी या मेनकाख्या दुहिता तां मन्यमाने तस्मिन्नर्थे ‘वृषणश्वस्य मेने’, इति सम्बुध्यन्तं प्रयुक्तं। ‘गौरावस्कन्दिन्’ गौरमृगो भूत्वा यागमध्ये समागत्य सोमं पीत्वा हे विनाशक। तदेतत् सर्वं शाखान्तरब्राह्मणे समाम्नातं, हरिव आगच्छेति पूर्वपक्षावपरपक्षौ वा इन्द्रस्य अश्वौ ताभ्यां ह्येष सर्वं चरतीति मेधातिथेर्मेषेति मेधातिथिं काण्वायनं मेषो भूत्वा जहार। वृषणश्वस्य मेन इति वृषणश्वस्य मेनका नाम दुहिता तामिन्द्रश्चकमे गौरावस्कन्दिन्निति गौरमृगो भूत्वा राजानं पिब हीति । ‘अहल्यायै जार’ अहल्या गौतमस्य भार्या तस्य इन्द्रो जार इति पुराणे प्रसिद्धं, ‘कौशिकब्राह्मण’ कौशिकनामा कश्चिन्महर्षिः तस्य समीपे ब्राह्मणवेषेण समागतवान्, ‘गौतमब्रुवाण’ गौतमो महर्षिः तं प्रसादयितुं स्तुतिं कृतवान्, तथाविध हे इन्द्र आगच्छेत्यन्वयः ॥

कल्पः। अरुणाश्वा इति चतस्र इति । तत्र प्रथमामाह ।

१ प्रपाठके १२ अनुवाकः। १०३

विक्ष॑ितः । अ॒ष्टौ दिग्वा॑ससो॒ऽग्नय॑ः । अ॒ग्निश्च॑ जातवे॑- दा॒श्चेत्ये॒ते(९) । ।(१०)ता॒म्राश्वा॑स्ता॒म्रर॑थाः । ता॒म्रव॑र्णास्त- था॒सिता॑ः । द॒ण्डह॑स्ताः खाद॒ग्दतः॑ । इ॒तो रु॒द्राः प॑- रा॒ङ्गताः॑ ॥ ४ ॥ उक्तँस्थानं प्रमाणञ्च पुर॒ इत(१०) । ।(११)बृहस्पति॑श्च


(९)“अरुणाश्वाः • जातवेदाश्चेत्येते”(९) इति । ‘अष्टावग्नयः’, ‘इह’ कर्मणि, ‘आगताः’ । कीदृशाः, ‘अरुणाश्वाः’ अरुणवर्णैरश्वै- र्युक्ताः, ‘वसवः’ जगतोनिवासहेतवः, ‘पृथिविक्षितः’ भूमि- वासिनः, ‘दिग्वाससः’ दिश एतेषामग्नीनां वासांसि । केतेऽष्टा- वग्नय इति तदुच्यते, ‘अग्निश्च जातवेदाश्च’, ‘इति’ एतस्मिन् मन्त्रे’ ये पूर्वमभिहिताः ‘एते’ अग्नयः, वेदितव्याः ॥

अथ द्वितीयामाह । (१०)“ताम्राश्वाः • पुर इत”(१०) इति । ये ‘रुद्राः’, सन्ति ते ‘इतः’ स्थानात् पृथिवीरूपात्, ‘परां’ दिवं, ‘गताः’ । कीदृशा रुद्राः, ताम्रवर्णैरश्वैरथैश्च युक्ताः, स्वयञ्च ‘तथा’, ‘ताम्रवर्णाः’, ‘असिताः’ ईषदपि सितं श्वैत्यं येषां नास्ति ते तादृशाः, ‘दण्डहस्ताः’ गदापाणयः, ‘खादग्दतः’ खादयन्तो भक्षयन्तो दन्ता येषां तादृशाः, एवम्बिधा हे रुद्रा युष्माकं ‘स्थानं’, ‘उक्तं’ शास्त्रेषु प्रसिद्धं, तथा तस्य स्थानस्य ‘प्रमाणञ्च’ इयत्तानिश्चयः शास्त्रसिद्धः, तस्मात् ‘पुरः’ भव- दीयाः पुरोः, ‘इत’ गच्छतः ॥

१०४ | तैत्तिरीये आरण्यके

·स॒वि॒ता । वि॒श्वरू॑पैरि॒हाग॑तां । रथे॑नोदक॒वर्त्म॑ना ।
अ॒प्सृ॒षा इति॒ तद्द्वयोः॑।(११) । (१२)उ॒क्तो वेषो॑ वासा॑ꣳसि-
च । काला॒वय॑वानामि॒तः प्रती॒च्या । वा॒सा॒त्या इत्य्-


अथ तृतीयामाह । (११)“बृहस्पतिश्च ० इति तद्द्वयोः” (११) इति । योऽयं ‘बृहस्पतिः’, यश्च ‘सविता’, तावुभौ ‘विश्वरूपैः’ नानाविधरूपैरश्वैः, ‘इह’ कर्मणि, ‘आगतां’ आगच्छतां, केन साधनेन, ‘उदकवर्त्मना रथेन’ उदकस्येव वर्त्म मार्गो यस्य रथस्य सोऽयमुदकवर्त्मा, यथा वृष्टिजलस्यान्तरिक्षमेव मार्गः एवमेतदीयरथस्याप्यन्तरिक्षमेव मार्गः। कीदृशावेतौ, ‘अप्सृषा’ अपांसनितारौ, ‘इति’ एवमुक्तप्रकारेण, ‘द्वयोः’ सवितृबृहस्पत्योरुभयोः, ‘तत्’ स्वरूपं, उक्तमिति शेषः ॥

एवं त्रयो मन्त्रा उक्ताः, चतुर्थस्तु उपरिष्टादुदाहरिष्यते । (१२)“उक्तो वेषो ० तस्यैषा भवति”(१२) इति । ‘कालावयवानां’ वसन्ताद्यृतूनां, ‘इतः’ अस्मादनुवाकात्, प्रतीच्येष्वतीतेष्वनुवाकेषु साकं जानामित्यादिषु, ‘वेषः’ आकारविशेषः, ‘उक्तः’, ‘वासांसि च’ वस्त्राण्यप्युक्तानि। ऋतुर्ऋतुनाऽनुद्यमानः। विमनादाभिधावाः षष्टिश्च त्रिंशका वल्गा इत्यादिना यत् स्वरूपमृतूनामभिहितं सोऽयं वेष इत्युच्यते । सारागवस्त्रैर्जरदपचः वसन्तो वसुभिः सहेत्यादिना वस्त्राण्युक्तानि । तथा वासात्या चित्रा इत्यादिनाऽश्विनोर्देवयोर्वेष उक्तः ।

१ प्रपाठके १२ अनुवाकः। १०५

श्विनोः । कोन्तरिक्षे॒ शब्दं॑ करोतीति॑ । वासिष्ठो रौ-
हिणो मीमा॑सां चक्रे । तस्यै॒षा भव॑ति^(१२) । ^(१३)वा॒श्रेव॑
वि॒द्युदि॑ति^(१३) । ^(१४)ब्रह्म॑ण उद॒रण॑मसि । ब्रह्म॑ण उदी-


यद्यप्येतद्ब्राह्मणं न सन्निहितमन्त्रोपयुक्तं तथाप्युक्तं स्थानमिति
वचनेन बुद्धिस्थमर्थं प्रसङ्गात् ब्रूते । अथ चतुर्थमन्त्रोदाहर-
णार्थमिदमुच्यते । ‘वासिष्ठः’ वसिष्ठगोत्रोत्पन्नः, ‘रौहिणः’
रोहिणाख्यस्य मुनेः पुत्रः, सोऽयमाकाशे कञ्चिद्ध्वनिं श्रुत्वा
‘मीमांसां चक्रे’ विचारितवान्, किमिति को नामान्तरिक्षे
शब्दं करोति, न ह्यूर्द्धमवलोक्यमाने कश्चिदपि पुमानुपलभ्यते,
शब्दश्च भेरीवादनादप्यधिकः श्रूयते, तस्माद्विस्मयं प्राप्तस्य को
नाम शब्दकर्त्तेति विचारः । ‘तस्य’ विचारस्य, ‘एषा’ निर्णय-
वादिनी काचिदृग्, विद्यते ॥

तस्या ऋचः प्रतीकं दर्शयति । ^(१३)“वाश्रेव विद्युदिति”^(१३)
इति । वाश्रेव विद्युन्मिमातीत्ययं मन्त्रोऽग्निना रयिमश्नवदि-
त्यनुवाके व्याख्यातः । ‘वाश्रा’ वासनशीला, गौर्यथावत्सं प्रति
शब्दं करोति एवमियं ‘विद्युत्’ सूर्य्यतेजोरूपमेघवर्त्तिनी, ‘मि-
माति’ शब्दं निर्म्मिमीते इत्यर्थः ॥

कल्पः । ब्रह्मण उदरणमसीति चतस्रो ब्रह्मसदना इति ।
पाठस्तु । ^(१४)“ब्रह्मण उदरणमसि • उपस्तरणमसि”^(१४)
इति । हे इष्टके त्वं ‘ब्रह्मणः’ हिरण्यगर्भस्य, ‘उदरणं’ उद्घो-

१०६तैत्तिरीये आरण्यके

रण॑मसि । ब्रह्म॑ण आ॒स्तर॑णमसि । ब्रह्म॑ण उप॒स्तर॑णमसि^(१४) ॥ ५ ॥

दृश्य॑ते, च, मे॒ने, प॒रा॑ङ्गताः, चक्रे॒, षट् च॑ ॥ अनु० १२ ॥


अथ त्रयोदशोऽनुवाकः ।

*(१)अ॒ष्टयो॑नीम॒ष्टपु॑त्रां । अ॒ष्टप॑त्नीमि॒मां म॒हीम् ।
अ॒हं वेद॒ न मे॑ मृ॒त्युः । न चामृ॑त्यु॒रघा॒हरत्^(१) । (२)अ॒ष्ट-


रणत्वहेतुरसि । 'उदीर्णं' उदीर्णत्वहेतुरसि । उदीर्णत्वं लोभराहित्यं । उदीर्णत्वं गुणान्तरैरन्येभ्य आधिक्यं । 'आस्तरणं' आसनं । 'उपस्तरणं' उपर्याच्छादनं । एतैश्चतुर्भिर्यजुर्मन्त्रैश्चतस्र इष्टका उपरि दध्यात् ॥

इति सायनाचार्यविरचिते माधवीये वेदार्थप्रकाशे यजुराण्यके प्रथमप्रपाठके द्वादशोऽनुवाकः ॥ १२ ॥


अथ त्रयोदशोऽनुवाकः ।

कल्पः । अष्टयोनीमित्यष्टौ दिश्या इति । तत्र प्रथमामाह । (१)“अष्टयोनी ० मृत्युरघाहरत्^(१) इति । अष्टौ अष्टसंख्याकानि मूलप्रकृतिसहितानि महदहंकारपञ्चतन्मात्ररू-


* B चिह्नितपुस्तके “अपक्रामन्तुगर्भिण्यः” इत्यधिकः पाठः ।

१ प्रपाठके १३ अनुवाकः । १०७

यौ॒न्य॑ष्टपु॒त्रं । अ॒ष्टप॑दीद॒मन्तरि॑क्षं । अ॒हं वे॑द॒ न मे॑ मृ॒त्युः । न चामृ॑त्यु॒रघा॑हरत्^(१) । ^(२)अ॒ष्टयो॑नीम॒ष्टपु॑त्रां । अ॒ष्टप॑त्नीम॒मूं दिव॑म् ॥ १ ॥

अ॒हं वे॑द॒ न मे॑ मृ॒त्युः । न चामृ॑त्यु॒रघा॑हरत्^(३) । ^(४)सु॒त्रामा॑णं^(४) ^(५)म॒हीमू॒षु^(५)। ^(६)अदि॑ति॒र्द्यौरदि॑ति॒रन्तरि॑क्षं।


पाणि तत्त्वानि योनयः कारणानि यस्याः पृथिव्याः सेयं 'अष्टयोनी', तां । अष्टसङ्ख्याका वक्ष्यमाणा मित्रावरुणादयः पुत्रा यस्याः पृथिव्याः सेयं 'अष्टपुत्रा', तां । अष्टसङ्ख्याका इन्द्रादयो दिग्वर्त्तिनः पतयः पालका यस्याः पृथिव्याः सेयं 'अष्टपत्नी', तां । तथोक्तगुणयुक्तां 'इमां महीं' पृथिवीं, 'अहं' मन्त्रद्रष्टा, 'वेद' जानामि, अतो ज्ञानप्रभावेन 'मे मृत्युः', नास्ति, किन्त्वतो मुक्त एव भविष्यामीति शेषः । किञ्च 'अमृत्युः' परममृत्योरन्योऽपमृत्युरित्यर्थः । सः 'अघः' पापानि दुःखानि, 'न चाहरत्' ज्ञानप्रभावादेव नैव सम्पादयिष्यति ॥

अथ द्वितीयातृतीयाञ्चाह । ^(२)“अष्टयोन्यष्टपुत्रं ० न चामृत्युरघाहरत्”^(१) इति । 'अष्टपत्' अष्टपतिः, अष्टसङ्ख्याकाः पालका इत्यर्थः । अन्यत् पूर्ववत् ॥

अथ चतुर्थपञ्चममन्त्रयोः प्रतीके दर्शयति । ^(४)“सुत्रामाणं महीमूषु”^(५) इति । सुत्रामाणं पृथिवीद्यामित्येके।

N 2

१०८ तैत्तिरीये आरण्यके

अदि॑तिर्माता स पि॒ता स पु॒त्रः। विश्‍वे॑ दे॒वा अदि॑तिः प- ञ्चजनाः॑। अदि॑तिर्जा॒तमदि॑ति॒र्जनि॑त्वम्^{(६)}। ^{(७)}अ॒ष्टौ पु- त्रासो॑ अदि॑तेः। ये जा॒तास्त॒न्व॑: परि॑। दे॒वां३ उपप्रै॑त् स॒प्तभि॑: ॥ २ ॥


मन्त्रः। महीमूषु मातरमित्यपरो मन्त्रः। एतौ चोभौ वैश्वा- नरो न ऊत्येत्यनुवाके व्याख्यातौ ॥

अथ षष्ठोमाह। ^{(६)}“अदितिर्द्यौः ० मदितिर्जनित्वं”^{(६)}इति। अदितिशब्दवाच्यदेवता सर्वात्मकत्वेन स्तूयते। ‘माता’ पृथि- वी, अतो लोकत्रयात्मिकांशः देवताविशेषोदित्याख्यः, सर्वस्य जगतः ‘पिता’, ‘सः’, एव ‘पुत्रः’, च। ये ‘विश्वे देवाः’ सर्वेऽपि देवाः, ये च ‘पञ्चजनाः’ निषादपञ्चमा ब्राह्मणक्षत्रियवैश्य- शूद्राः ते सर्वेऽपि, ‘अदितिः’, एव ‘जातं’ यत् पूर्वमुत्पन्नं जगत्, ‘जनित्वं’ जननरूपो व्यापारः तत् सर्वमपि ‘अदितिः’, एव ॥

अथ सप्तमीमाह। ^{(७)}“अष्टौ पुत्रा ० मार्ताण्डमास्यत्”^{(७)} इति। ‘अदितेः’ देवतायाः, ‘अष्टौ पुत्रासः’ अष्टसङ्ख्याकाः पुत्रा विद्यन्ते, ‘ये’ पुत्राः, ‘तन्वःपरि’ शरीरस्योपरि जाताः, औ- रसा इत्यर्थः। तेषां मध्ये ‘सप्तभिः’, पुत्रैः सह ‘देवान्’, ‘उपप्रैत्’ समीपे प्राप्तवती, ‘मार्ताण्डं’, अष्टमं पुत्रं ‘परास्यत्’ पराकृतवती। तमेकं परित्यज्यान्यैरेव सप्तभिः सह देवलोकं गता ॥

१ प्रपाठके १३ अनुवाकः ॥ १०६

प॒रा॑ मा॒र्ता॒ण्डमास्य॑त्⁽७⁾। ⁽८⁾स॒प्तभिः॑ पु॒त्रैरदि॑तिः। उ॒- पप्रै॑त् पूर्व्यं॑ यु॒गं। प्र॒जायै॑ मृ॒त्यवे॒ त॑त्। प॒रा॒ मार्ता॑- ण्डमाभ॑र॒दिति॑⁽८⁾। ⁽९⁾ताननुक्र॑मिष्यामः⁽९⁾। ⁽१०⁾मि॒त्रश्च॒


अथाष्टमीमाह। ⁽८⁾"सप्तभिः ० मार्ताण्डमाभरदिति"⁽८⁾ इति। अस्यामृच्यदितिदेवतायाः सप्तपुत्रस्वीकारे मार्ताण्डपरित्यागे च कारणमुच्यते। इयं 'अदितिः', देवी 'सप्तभिः पुत्रैः', निमित्तभूतैस्तदुत्पादनार्थं 'पूर्व्यं युगं' तदुत्पत्तेः पूर्वकालीनं पतिसंयोगं, 'प्रजायै' प्रजोत्पत्त्यर्थं, 'उपप्रैत्' प्रीतिपूर्वकं प्राप्तवती। एतेषु सप्तसु पुत्रेषूत्पन्नेषु तद्वारा प्रजावृद्धिर्भवतीत्यभिप्रेत्य तैः सह देवलोके गमनं। मार्त्ताण्डाख्यमष्टमं पुत्रं 'पराभरत्' परित्यक्तवतीति यत् तत् 'मृत्यवे' मृत्युनिमित्तं, मार्त्ताण्डो हि मृत्योरेव हेतुर्न प्रजाभिवृद्धेः। मार्त्ताण्डो ह्यादित्यः, स चाण्डभेदेनोत्पद्यते। तथा हि छन्दोगास्तदाण्डं निरवर्त्तत। तत् संवत्सरस्य मात्रामदायत। तन्निरभिद्यतेत्युपक्रम्यान्ते समामनन्ति। अथ यत् तदजायत सोऽसावादित्य इति। शब्दनिर्वचनमपि तादृशमेव। मृतमण्डं यदीयजन्मना स मार्त्ताण्ड इति। तथा च स्मर्य्यते। मृतेऽण्डे जायते यस्मान्मार्त्ताण्डः स उदाहृत इति। अतोयं मृत्यवे मृत्युप्रीत्यर्थमेवोपयुज्यते। न त्वभिवृद्ध्यर्थमित्यदितेस्तत्परित्यागो युक्तः। 'इति'शब्दो मन्त्रसमाप्तिद्योतनार्थः॥

११० तैत्तिरीये आरण्यके

वरु॑णश्च । धा॒ता चार्य॒मा च॑ । अं॒शश्च॒ भग॑श्च । इ- न्द्र॑श्च विव॒स्वाँश्चेत्ये॒ते^(१०)। ^(११)हिर॑ण्यगर्भो ह॒ꣳसः शुचि॑-


अथ ब्राह्मणवाक्यमुच्यते । ^{(९)}“ताननुक्रमिष्यामः”^{(९)} इति। अष्टपुत्रमिति ये पुत्राः सूचिताः ‘तान्’ पुत्रान्, ‘अनु’क्रमेण, वक्ष्यामः ॥

कल्पः । मित्रश्च वरुणश्चेत्यष्टौ दिश्या इति । पाठस्तु । ^{(१०)}मित्रश्च ॰ विवस्वाँश्चेत्येते”^{(१०)} इति । मित्रादिनामान्ये- वात्र मन्त्राः । मित्रस्त्या देवतयाऽङ्गिरस्वदित्युपधानं द्रष्टव्यं । ‘इत्येते’ मित्रवरुणादयोऽष्टौ पुत्रा उक्ताः ॥

अथ मन्त्रचतुष्टयस्य प्रतीकानि दर्शयति । ^{(११)}“हिरण्य- गर्भो ॰ तदित्पदमिति”^{(११)} इति । हिरण्यगर्भ इत्ययं मन्त्र ऊर्ध्वा अस्येत्यनुवाके व्याख्यातः । हंसः शुचिषदित्ययं मन्त्र इन्द्रस्य वज्रोसीत्यनुवाके व्याख्यातः । ब्रह्मजज्ञानमित्ययं मन्त्रो- भ्यक्तादिश्या इत्यनुवाके व्याख्यातः । तदित्पदमित्ययं मन्त्र उदस्थाषीत् सवितेत्यनुवाके व्याख्यातः । तत्र हिरण्यगर्भ इति मन्त्रो हिरण्मयपुरुषोपधानार्थः । हंसः शुचिषदिति मन्त्रः पुष्करपर्णोपधानार्थः । ब्रह्मजज्ञानमिति मन्त्रोरुकोपधानार्थः। तदित्पदमिति मन्त्रः कूर्मोपधानार्थः । एतदेवाभिप्रेत्य कल्पे निहितं । पुष्करपर्णं हिरण्मयं पुरुषं कूर्ममिति । ‘इति’शब्दः प्रतीकसमाप्त्यर्थः ॥

१ प्रपाठके १४ अनुवाकः। १११

षत्। ब्रह्म॑जज्ञा॒नं तदि॒त्यद॒मिति॑।⁽११⁾। ⁽१२⁾गर्भः प्रा॑जा-
प॒त्यः॑। अथ॒ पुरु॑षः स॒प्तपु॑रुषः⁽१२⁾ ॥ ३ ॥
अ॒मूर्न्दिवँ॑, स॒प्तभि॑ः, ए॒ते, च॒त्वारि॑ च ॥ अनु०१२॥


अथ चतुर्दशोऽनुवाकः।

*(१)योऽसौ॒ तप॒न्नुदे॑ति॑। स सर्वे॑षां भू॒तानां॑ प्रा॒णाना॒-
दायोदे॑ति। मा मे॑ प्र॒जाया॒ मा प॑शू॒नां॑। मा मम॑ प्रा-


अथ ब्राह्मणमुच्यते। ⁽१२⁾“गर्भः प्राजापत्यः ० सप्तपुरुषः” ⁽१२⁾इति। प्रजापतेरयं 'प्राजापत्यः', तादृशः 'गर्भः', पूर्वमुक्तः, हिरण्यगर्भ इति मन्त्रे प्राजापत्यगर्भाभिधानात्। 'अथ' अनन्तरं, उत्तरेणानुवाकेन 'पुरुषः' आदित्याख्यः, प्रतिपाद्यते। स च कीदृशः, 'सप्तपुरुषः' सप्तपुरुषाः किङ्करस्थानीयाः नक्षत्रमासार्द्धमासर्तुसंवत्सराहोरात्राख्यपुरुषा यस्यासौ सप्तपुरुषः ॥

इति सायनाचार्य्यविरचिते माधवीये वेदार्थप्रकाशे यजुरारण्यके प्रथमप्रपाठके त्रयोदशोऽनुवाकः ॥ १३ ॥


अथ चतुर्दशोऽनुवाकः।

योऽसावित्यनुवाकस्योपधाने विनियोगदर्शनाल्लिङ्गानुसारेणायुष्काम एतेनादित्यमुपतिष्ठेत्। तस्मिन्ननुवाके प्रथमं मन्त्र-


* B चिह्नितपुस्तके “यथाख्यानं गर्भिण्यः” इत्यतिरिक्तः पाठः।

११२ तैत्तिरीये आरण्यके

"णानादायोद॑गाः^(१) । ^(२)अ॒सौ योऽस्तमेति॑ । स सर्वे॑षां भू॒तानां॑ प्रा॒णाना॒दायास्तमे॑ति । मा मे॑ प्र॒जाया॒ मा प॑शू॒नां । मा मम॑ प्रा॒णाना॒दायास्त॑ङ्गाः^(२) । ^(३)अ॒सौ य आ॒पूर्य॑ति । स सर्वे॑षां भू॒तानां॑ प्रा॒णैरा॒पूर्य॑ति ॥ १ ॥

मा मे॑ प्र॒जाया॒ मा प॑शू॒नां । मा मम॑ प्रा॒णैरा॒पूरि॑-


माष्ट । (१)“योऽसौ तपन्नुदेति ० प्राणानादायोदगाः”^(१) इति । ‘योऽसौ’ आदित्यः, प्रातःकाले प्राच्यां ‘उदेति’, ‘सः’ आदित्यः, ‘सर्वेषां’ प्राणिनां, ‘प्राणान्’, ‘आदाय’ स्वीकृत्य, ‘उदेति’ आयुःक्षयोपादानेन प्राणानपहरति, सूर्योदये सति पूर्वदिनस्य समाप्तत्वादेकदिनमात्रमायुः क्षीणं भवति । तस्मादेवं प्रार्थयाम हे आदित्य मदीयानां प्रजानां ‘पशूनां’, च ‘मम’, च ‘प्राणानादाय’, उदयं ‘मागाः’ मामुहि । प्राणापहारहेतुमायुःक्षयं मा कुर्वित्यर्थः ॥

अथ द्वितीयं मन्त्रमाह । ^(२)“असौ योऽस्तमेति ० प्राणानादायास्तङ्गा”^(२) इति । ‘योऽसौ’ आदित्यः, सायङ्काले, ‘अस्तं’, प्राप्नोति ‘सः’, अप्येकमहः समाप्य तावन्मात्रमायुः क्षपयति । अन्यत् पूर्ववत् ॥

अथ तृतीयं मन्त्रमाह । ^(३)“असौ यः ० प्राणैरापूरिष्ठा”^(३) इति । उदेतुं प्रक्रान्तः सूर्य्यः क्रमेण यावद्यावद्रश्मिः ‘आपूर्यते’, तावत् प्राणिनामायुः क्षीयते । अन्यत् पूर्ववत् ॥

१ प्रपाठके १४ अनुवाकः। ११३

ष्ठा^{(२)}। ^{(४)}अ॒सौ यो॑ प॑क्षीयति॑। स स॒र्वे॑षां भू॒तानां॑ प्रा॒- णै॒रप॑क्षीयति। मा मे॑ प्र॒जाया॑ मा प॑शू॒नां। मो ममे॑ प्रा॒- णै॒रप॑क्षेष्ठाः^{(४)}। ^{(५)}अ॒मूनि॒ नक्ष॑त्राणि। स॒र्वे॑षां भू॒तानां॑ प्रा॒णै॒रप॑ प्रस॒र्पन्ति॒ चोत्स॑र्पन्ति च। मा मे॑ प्र॒जाया॑ मा प॑शू॒नां। मा मम॑ प्रा॒णै॒रप॑ प्रसृपत*मोत्सृ॑पत^{(५)}॥ २॥


अथ चतुर्थमाह। ^{(४)}“असौ योपचीयति • प्राणैरपचेष्ठाः” ^{(४)} इति। अस्तं प्राप्तमुपक्रान्तः सूर्य्यो यावद्यावत् रश्मिभिः क्रमेण क्षीणो भवति तावत् तावत् प्राणिनामायुःक्षयः। अन्यत् पूर्ववत् सर्वत्र योज्यं॥

अथ पञ्चममाह। ^{(५)}“अमूनि नक्षत्राणि • प्रसृपत मोत्सृपत”^{(५)} इति। 'अमूनि' एतानि, 'नक्षत्राणि', दिवि सञ्चरन्ति तानि सर्वाण्यहनि 'अपसर्पन्ति' अपगतज्योतींषि भूत्वा प्रकर्षेण सञ्चरन्ति। रात्रौ 'च', 'उत्सर्पन्ति' उत्कृष्टज्योतींषि भूत्वा प्रवर्त्तन्ते, तस्मिन्नुभयस्मिन्नपि काले प्राणिनां 'प्राणैः', सहैव प्रवर्त्तन्ते। यावद्यावत् कालातिक्रमः तावत् तावदायुषा क्षीयमाणत्वात्। ततो हे 'नक्षत्राणि', प्रजादीनां 'प्राणैः', सह 'मापसृपत' अहनि अपसर्पणं मा कुरुत, 'मोत्सृपत' रात्रावुत्सर्पण-


* (A) ऽङ्कितपुस्तके अपप्रसृप इत्यस्मात् परं मोत्सृपत इत्यस्मात् पूर्वं “योऽसौ षोडशामूनि द्वादशायं संवत्सरश्चतुर्दश” इति पाठः। स च न मूलान्तरपठितः भाष्यकारसम्मतश्च॥

११४ तैत्तिरीये आरण्यके

(६)इ॒मे मासा॑श्चार्द्धमा॒साश्च॑ । सर्वे॑षां भू॒तानां॒ प्रा॒णैरप॑ प्र॒सर्प॑न्ति॒ चोत्सर्प॑न्ति च । मा मे॑ प्र॒जाया॒ मा प॑शू॒नां । मा मम॑ प्रा॒णैरप॑ प्रसृपत॒ मोत्सृ॑पत^(६) । (७)इ॒म ऋ॒तव॑: । सर्वे॑षां भूतानां॒ प्रा॒णैरप॑ प्रस॒र्पन्ति॒ चोत्सर्प॑न्ति च । मा मे॑ प्र॒जाया॒ मा प॑शू॒नां । मा मम॑ प्रा॒णैरप॑ प्रसृपत॒ मोत्सृ॑पत^(७) । (८)अयग्ं सं॑वत्स॒रः । सर्वे॑षां भू॒तानां॒ प्रा॒णैरप॑ प्रसर्प॑ति॒ चोत्सर्प॑ति च ॥ ३ ॥

मा मे॑ प्र॒जाया॒ मा प॑शू॒नां । मा मम॑ प्रा॒णैरप॑ प्रसृप॒ मोत्सृ॑प^(८) । (९)इ॒दमह॑: । सर्वे॑षां भू॒तानां॒ प्रा॒णैरप॑ प्रस॒र्पति॒ चोत्सर्प॑ति च । मा मे॑ प्र॒जाया॒ मा प॑शू॒नां । मा मम॑ प्रा॒णैरप॑ प्रसृप॒ मोत्सृ॑प^(९) । (१०)इ॒यग्ं रात्रि॑: । सर्वे॑षां भू॒तानां॒ प्रा॒णैरप॑ प्रसर्प॑ति॒ चोत्सर्प॑ति च । मा मे॑ प्र॒जाया॒


मपि मा कुरुत । भवदीयप्रजारक्षणनिमित्तमायुःक्षयोमा भूदित्यर्थः ॥

अथ षष्ठसप्तममन्त्रावाह । (६)“इमे मासाश्चार्द्धमासाश्च ॰ प्रसृपत मोत्सृपत” “इमे ऋतवः ॰ प्रसृपत मोत्सृपत”(७) इति । नलुचवाक्यवद्व्याख्येयं ॥

अथाष्टममाह । (८)“अयग्ं संवत्सरः ॰ प्रसृप मोत्सृप”(८) इति। अत्र संवत्सरशब्दस्यैकवचनान्तत्वात् सर्प प्रसर्पेति चैकवचन । अन्यत् पूर्ववत ॥

१ प्रपाठके १४ अनुवाकः । ११५

मा प॒शूनां॑। मा मम॑ प्रा॒णैरप॑ प्रसृ॒प मोत्सृ॑प^(१०) ॥ ^(११)ॐ भूर्भुवः॒ स्वः॑^(११) । ^(१२)एतद्वो॑ मिथु॑नं मा नो॑मिथु॒नꣳ- री॑ढ्वं^(१२) ॥ ४ ॥

प्रा॒णैरा॒पूर्य॑ति, उत्सृ॒पत, उत्सर्प॑ति च, उत्सृ॑प दे च ४ ॥

उदे॒त्यस्त॑मेत्या॒पूर्य॑त्यपक्षीय॑त्य॒मूनिनक्ष॑त्राणी॒मेमा॑ सा इ॒म ऋ॒तवो॒यꣳ सं॑वत्स॒र इ॒दमह॑र॒ियꣳ रा॒त्रिर्द॑शे ॥ अनु० ॥ १४ ॥


अथ नवमदशमौ मन्त्रावाह । ^(९)“इदमहः ॰ प्रसृप मो- त्सृप” ^(९) ^(१०)“इयं रात्रिः ॰ रप प्रसृप मोत्सृप”^(१०) इति । एतद्वाक्यद्वयं संवत्सरवाक्यवद्व्याख्येयं ॥

अथैकादशं मन्त्रमाह । ^(११)“ॐ भूर्भुवः स्वः”^(११) इति । योऽयं प्रणवप्रतिपाद्यः परमात्मा स एव लोकत्रयरूप इत्यर्थः ॥

अथ द्वादशमाह । ^(१२)“एतद्वोमिथुनं ॰ मिथुनं रीढ्वं” ^(१२) इति । नक्षत्रमासार्द्धमासर्तुसंवत्सराहोरात्ररूपा ये सप्त पुरुषाः प्रणवप्रतिपाद्यपरमात्मरूपेणादित्येन सहावस्थानं यद- स्ति तद् ‘वः’ युष्माकं, ‘मिथुनं’ सम्बन्धः, उपकार्योपकारक- लक्षणः, एतस्य ध्यानेनास्माकमपि ‘मिथुनं’ स्त्रीपुंसलक्षणं, ‘मारीढ्वं’ हिंसितं मा कुरुत ॥

इति सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे यजु- रारण्यके प्रथमप्रपाठके चतुर्दशोऽनुवाकः ॥ १४ ॥

० २

११६तैत्तिरीये आरण्यके
अथ पञ्चदशोऽनुवाकः ।

(१)अथादित्यस्याष्टपुरु॒षस्य(१) ।
(२)वसूनामादित्यानाग्ँ स्थाने स्वतेज॑सा भानि॒(१) ।
(३)रुद्राणामादित्यानाग्ँ स्थाने स्वतेज॑सा भानि॒(१) । (४)आ-


कल्पः। वसूनां रुद्राणामित्यष्टावुत्तरत इति तदेतच्छाखवाक्येन सङ्ग्रहरूपेण प्रतिजानीते । ^{(१)}“अथादित्यस्याष्टपुरुषस्य”^{(१)} इति। अष्टयोनोमित्यनुवाकोक्तैर्मन्त्रैरिष्टकोपधानादनन्तरं वक्ष्यमाणाष्टविधपुरुषेणावस्थितस्यादित्यस्य सम्बन्धिभिर्मन्त्रैरिष्टका उपदध्यादिति शेषः ॥

तत्र प्रथमं मन्त्रमाह। ^{(१)}“वसूनामादित्यानां • स्वतेजसा भानि”^{(१)} इति। पूर्वमृतुप्रकरणे वसन्तो वसुभिः सह शुक्लवासा रुद्रगण इत्यादिना ये च रुद्रादयो निर्द्दिष्टाः, ते सर्वेऽप्यादित्यस्यैवावतारविशेषाः, तेचात्र मन्त्रेषु क्रमेण निर्द्दिष्यन्ते। अष्टवसुरुपेणावतीर्णा ये आदित्यमूर्त्तिविशेषाः, तेषां ‘स्थाने’, तिष्ठन्नहमस्मत्प्रसादलभ्येन स्वकीयेन ‘तेजसा’, ‘भानि’ भासमानो भूयासं ॥

अथ द्वितीयमाह। ^{(२)}“रुद्राणामादित्यानां • स्वतेजसा भानि”^{(१)} इति। एकादशरुद्ररूपेणावतीर्णा आदित्यमूर्त्तिविशेषाः। अन्यत् पूर्ववत् सर्वत्र व्याख्येयं ॥

१ प्रपाठके १५ अनुवाकः। ११०

दित्यानामादित्यानाग्ँस्थाने॒ स्वतेज॑सा भानि॑^{(४)}। ^{(५)}स॒ताग्ँस॑त्यानां। आदित्यानाग्ँस्थाने॒ स्वतेज॑सा भानि॑^{(५)}। ^{(६)}अ॒भिधून्व॑तामभिघ्न॒तां। वात॑वतां म॒रुतां। आदित्या- नाग्ँस्थाने॒ स्वतेज॑सा भानि॑^{(६)}। ^{(७)}ऋभू॒णामादित्यानाग्ँ- स्थाने॒ स्वतेज॑सा भानि॑^{(७)}॥ ^{(८)}विश्वे॑षां दे॒वानां॑। आदि-

अथ तृतीयमाह। ^{(४)}“आदित्यानां ॰ स्वतेजसा भानि” ^{(४)}इति। द्वादशादित्यरूपेणावतीर्णाः परमात्मरूपादित्यस्य मूर्त्तिविशेषाः॥

अथ चतुर्थमाह। ^{(५)}“सतांसत्यानां ॰ स्वतेजसा भानि”^{(५)} इति। ‘सन्तः’ सत्पुरुषाः, ‘निजावतारेण सर्वलोकसम्मतिपन्ना महर्षयः’, तेच ‘सत्याः’ सर्वदा सत्यवादिनः, तादृशाः केचि- दादित्यावतारविशेषाः॥

अथ पञ्चमषष्ठावाह। ^{(६)}“अभिधून्वतां ॰ स्वतेजसा भा- नि”^{(६)} ^{(७)}“ऋभूणामादित्यानां ॰ स्वतेजसा भानि ”^{(७)} इति। ऋतुप्रकरणेऽभिधून्वन्तोऽभिघ्नन्त इत्यादिना मरुद्गणा उक्ताः ते चाभितो धून्वन्ति वृष्टिजलञ्चालयन्ति इतस्ततः कम्पयन्ति मार्गे गच्छतः पुरुषानभिघ्नन्ति आभिमुख्येन ताडयन्ति। तेच ‘वात- वन्तः’ तीव्रवायुयुक्ता भवन्ति, ते च मरुद्गणा आदित्यावतार- विशेषाः॥

११८ तैत्तिरीये आरण्यके

त्यानाᳲस्थाने स्वतेज॑सा भानि॑^{(८)}। ^{(९)}संवत्सर॑स्य सवि-
तु॑ः। आदित्‍यस्य॑ स्थाने स्वतेज॑सा भानि॑^{(९)}। ^{(१०)}ओंभूभु॑-
व॒ः स्व॑ः। रश्मयॊ वॊ मिथुनं मा नौ॑ मिथुन॒ᳲरीढ्वं॑^{(१०)}॥ १ ॥

ऋभूणामादित्यानाᳲस्थाने स्वतेज॑सा भानि षट्
च॥ अनु० १५॥


अथ सप्तममाह । ^{(८)}“विश्वेषां ० स्वतेजसा भानि”^{(८)}इति।
ये प्रसिद्धास्ते विश्वेदेवा स्तेष्यादित्यावतारविशेषाः ॥

अथाष्टममाह । ^{(९)}“संवत्सरस्य ० स्वतेजसा भानि”^{(९)}
इति। ऋतुप्रकरणे स खलुसंवत्सर एतैरिति संवत्सरोऽभिहितः
सचादित्यस्यावतारविशेषः ॥

अथ सर्वमन्त्रेषु अनुषञ्जनीयं वाक्यद्वयमाह। ^{(१०)}“ओं-
भूर्भुवःस्वः० मिथुनᳲरीढ्वं”^{(१०)} इति । प्रणवप्रतिपाद्यस्य लोक-
त्रयात्मकस्यादित्य सम्बन्धिनो हे ‘रश्मयः’, ‘वः’ युष्माकं, स्वा-
मिनाऽऽदित्येन सह ‘मिथुनं’ मिथुनवदुपकार्योपकारकभा-
वोऽस्ति, अतस्तादृशा यूयं ‘नः’ अस्माकं, स्त्रीपुरुषलक्षणमिथुनं
‘मा रीढ्वं’ हिंसितं मा कुरुत ॥

इति सायणाचार्य्यविरचिते यजुरारण्यके प्रथमप्रपाठके
पञ्चदशोऽनुवाकः ॥ १५ ॥

१ प्रपाठके १६ अनुवाकः । १९६

अथ षोडशोऽनुवाकः ।

$^{(१)}$आरोगस्य स्थाने स्वतेज॑सा भानि । भ्राजस्य स्थाने स्वतेज॑सा भानि । पटरस्य स्थाने स्वतेज॑सा भानि । पतङ्गस्य स्थाने स्वतेज॑सा भानि । स्वर्णरस्य स्थाने स्वतेज॑सा भानि । ज्योतिषीमतस्य स्थाने स्वतेज॑सा भानि । विभासस्य स्थाने स्वतेज॑सा भानि । कश्यपस्य स्थाने स्वतेज॑सा भानि । ओं भूर्भुव॒ः स्व॑ः । आपोवो मिथुनं मा नोमिथुनं॒ रीढ्वँ॒$^{(१)}$ ॥ १ ॥

आरोगस्य दर्श ॥ अनु० १६ ॥


कल्पः । आरोगस्येत्यष्टावुपतिष्ठादिति । आरोगो भ्राजः पटरः पतङ्ग इत्यादीन्यष्टसूर्यनामानि मन्त्ररूपाणि पूर्वमाम्नातानि इदानीं तेनैव क्रमेणाष्टौ मन्त्रान्तराण्याम्नायन्ते । तानि दर्शयति । $(१)$“आरोगस्य ॰ मिथुनं रीढ्वं”$^{(१)}$ इति । आरोगनामको यः प्रथमः सूर्यः तस्य 'स्थाने,' तिष्ठन्नहन्तत्प्रसादलब्धेन स्वकीयेन 'तेजसा', भासमानो भूयासं । प्रणवप्रतिपाद्योलोकत्रयात्मको यः सूर्यः तेन सह 'आपः', 'वः', युष्माकम्, उपकार्योपकारकभावोऽस्ति अतस्तथाविधा यूयं अस्मदीयं 'मिथुनं', हिंसितं मा कुरुत । एतच्च वाक्यद्वयं पूर्ववत् सर्व मन्त्रेषुः ॥

इति सायनाचार्य्यविरचिते माधवीये वेदार्थप्रकाशे यजुरारण्यके प्रथमप्रपाठके षोडशोऽनुवाकः ॥ १६ ॥