तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)
Taittiriya Aranyaka Hindi
महर्षि वैशम्पायन द्वारा
स्रोत: Taittiriya Aranyaka with Sayana Bhashya and Hindi Translation (उद्गम)
१ प्रपाठके २३ अनुवाकः । १४६
धाय॑ । तदे॒वानु॒प्रावि॑शत्^(१२) । ^(१३)तदे॒षाऽभ्यनू॑क्ता^(१३) ॥ ॥ ८ ॥
^(१४)विधाय॑ लो॒कान् वि॒धाय॑ भू॒तानि॑ । वि॒धाय॒ सर्वाः॑ प्र॒दिशो॒ दिश॑श्च । प्र॒जाप॑तिः प्रथम॒जा ऋ॒तस्य॑ । आ॒त्मना॒त्मान॑म॒भिसंवि॑वे॒शेति॑^(१४) । ^(१५)सर्व॑मे॒वेदमा॒प्त्वा । सर्व॑मव॒रुध्य॑ । तदे॒वानु॒प्रवि॑शति । य ए॒वं वेद॑^(१५) ॥ ९ ॥
स्वसामर्थ्येन, ‘आत्मानं’ स्वरूपं, जगदाकारेण ‘विधाय’, ‘तदेव’ जगत्, ‘अनु’सृत्य शरीरेषु स्वयं चिद्रूपेण ‘प्राविशत्’ ॥
अस्मिन्नर्थे ऋचमुदाहरति । ^(१२)“तदेषाऽभ्यनूक्ता”^(१३) इति ॥
तामेतामृचन्दर्शयति । ^(१४)“विधाय • संविवेशेति”^(१४) इति । ‘ऋतस्य’ सत्यस्य परब्रह्मणः, सकाशात् प्रथममुत्पन्नः ‘प्रजापतिः’, ‘लोकान्’ भूरादीन्, ‘विधाय’ भूतानि प्राणिनश्च विधाय, प्राच्याद्या मुख्यदिश आग्नेय्याद्या विदिशश्च ‘विधाय’, ‘आत्मना’ स्वकीयेन चैतन्येन, ‘आत्मानं’ स्वशरीररूपं जगत्, अभितः सम्यक् ‘प्रविवेश’ । इत्यनेन मन्त्रेण काचिदिष्टकोपधेया । तथाच बौधायन आह । विधाय लोकानिति स्तम्भनवतीमिति ॥
यथोक्तसृष्टिवेदनं प्रशंसति । ^(१५)“सर्वमेवेदमाप्त्वा • य एवं वेद”^(१५) इति । ‘यः’ पुमान्, ‘एवं’ प्रजापतिसृष्टिप्रकारं, विजानाति स पुमान् ‘सर्वमेव’ जगदिति विद्यमानम्, ‘इदं’ फलं,
१५० तैत्तिरीये आरण्यके
आसी॑त्, अति॑ष्ठन्, अभू॑त्, अपः॑, वायो॒ इति॑, सेयं दि॑क्, अ॒भ्यनू॑क्ता, अ॒भ्यनू॑क्ता, अ॒ष्टौ च॑ ॥ अनु०२३॥
अथ चतुर्विंशोऽनुवाकः ।
(१)चतु॑ष्टय्य॒ आपो॑ गृह्णाति । च॒त्वा॒रि वा अ॒पाꣳ रू॒पाणि॑ । मे॒घो वि॒द्युत् । स्त॒न॒यि॒त्नुर्वृष्टिः॑ । तान्ये॒वाव॑-
प्राप्य तच्च ‘सर्वं’, वशीकृत्य ‘तदेव’ जगत्, ‘अनुप्रविशति’ । सर्वात्मको भवतीत्यर्थः ॥
इति सायनाचार्यविरचिते माधवीये वेदार्थप्रकाशे यजुरारण्यके प्रथमप्रपाठके त्रयोविंशोऽनुवाकः ॥ २३ ॥
अथ चतुर्विंशोऽनुवाकः ।
अतीतेनानुवाकद्वयेनापां प्रशंसामुक्त्वाऽस्मिन्ननुवाकेऽभीष्टकानामनुष्ठानविशेष उच्यते । तत्रादौ सामान्येनापां ग्रहणं विधत्ते । (१)“चतुष्टय्य आपो • तान्येवावरुन्धे”(१) इति । उपदधानार्थं चतुर्विधापो गृहीतव्याः, ‘अपाꣳ रूपाणि’ निरूपकाणि वस्तूनि मेघादीनि, ‘चत्वारि’, एव । ततस्तनयित्नुशब्देन गर्जनं विवक्षितं । अपां चतुर्विधत्वेन मेघादिचतुष्टयमपि स्वाधीनं भवति ॥
१ प्रपाठके २४ अनुवाकः। १५१
रुन्थे^{(१)}। ^{(२)}आ॒तप॑ति व॒र्ष्या गृ॑ह्णाति। ताः पु॒रस्ता॑दु॒प॑दधाति। ए॒ता वै ब्र॑ह्मव॒र्च॒स्या आप॑:। मुख॒त ए॒व ब्र॑ह्मव॒र्च॒समव॑रुन्थे। तस्मा॑न्मुख॒तो ब्र॑ह्मव॒र्च॒सित॑रः^{(२)}॥ ॥ १ ॥ ^{(३)}कूप्या॑ गृ॑ह्णाति। ता दक्षि॑णत उप॑दधाति। ए॒ता वै ते॑ज॒स्विनी॒राप॑:। तेज॑ ए॒वास्य॑ दक्षि॑ण॒तो द॑धाति।
तेषु चतुर्विधेषु जलेषु प्रथमं जलविशेषं विधत्ते । (२)“आतपति • ब्रह्मवर्चसितरः”(२) इति। आतपयुक्ते प्रदेशे वर्षेण सम्पन्ना या आपः ताः पात्रेण केनचिद्गृह्णीयात् ‘ताः’, च गृहीताः चयनक्षेत्रे पूर्वस्यां दिश्युपदध्यात्। ‘एताः’ आतपयुक्ते देशे वृष्टाः, ‘आपः’, एव प्रकाशोपेतत्वाद्ब्रह्मवर्चसयोग्याः, तासां पुरस्तादुपधानेनाग्नेर्मुख ‘एव’, ‘ब्रह्मवर्चसं’, अवरुद्धं भवति। यस्मादेवं ‘तस्मात्’, लोकेऽपि वेदशास्त्रपाठरूपस्य ब्रह्मवर्चसस्य जिह्वावर्त्तित्वात् पुमान् मुखप्रदेश एवातिशयेन ब्रह्मवर्चसयुक्तो भवति॥
द्वितीयं जलविशेषं विधत्ते । (३)“कूप्या गृह्णाति • तेजस्वितरः”(३) इति। कूपे भवाः ‘कूप्याः’, तासां बहुविधघटघट्टकृत्योपयोगित्वेन ‘तेजस्विनीः’, ता दक्षिणदिगुपधाने सति अग्नेर्दक्षिणभागे ‘तेजः’, सम्पादयन्ति। यस्मादेवं ‘तस्मात्’, लोकेऽपि शरीरे दक्षिणभागोऽतिशयेन तेजस्वी शक्तिमान् भवति॥
१५२ तैत्तिरीये आरण्यके
त॒स्माद्दक्षि॒णोऽर्द्ध॑स्तेज॒स्वित॑रः^{(३)}। ^{(४)}स्था॒व॒रा गृ॑ह्णाति। ताः प॒श्चादुप॑दधाति। प्रति॑ष्ठिता॒ वै स्था॑व॒राः। प॒श्चादे॒व प्रति॑ष्ठति^{(४)}। ^{(५)}वह॑न्तीर्गृह्णाति ॥ २ ॥ ता उ॑त्त॒रत उ॑पदधाति। ओज॑सा वा ए॒ता वह॑न्तीरि॒वाङ्ग॑तीरिव आ॒कूज॑तीरिव॒ धाव॑न्तीः। ओज॑
तृतीयं जलविशेषं विधत्ते। ^{(४)}“स्थावरा गृह्णाति • प्रतिष्ठति”^{(४)} इति। नदीषु क्वचिदगाधो ह्रदो दृश्यते। तत्रापो न प्रवहन्ति किन्तु स्थिरावस्थितिशीलास्तासां प्रतिष्ठितस्वभावानां पश्चिमदिग्युपधानेन स्वकीयानां सर्वेषां प्रतिष्ठां कृत्वा ‘पश्चात्’, स्वस्य प्रतिष्ठां करोति ॥
चतुर्थं जलविशेषं विधत्ते। ^{(५)}“वहन्तीर्गृह्णाति • तेजस्वितरः”^{(५)} इति। नद्यां प्रवहन्त्यो या आपः ‘ताः’, गृहीत्वोत्तरस्यां दिश्युपदध्यात्। ‘एताः’ आपः, यदा धावन्ति तदानीं ‘ओजसा’ स्वकीयेन बलेन, प्रवाहमध्यपतितान् काष्ठादिपदार्थान् ‘वहन्तीरिव’ आकर्षयन्त्य इव भवन्ति, ‘उद्गतीरिव’ पाषाणादिषु लग्नाः स्वबिन्दुभिरूर्ध्वं गच्छन्त्य इव, ‘आकूजतीरिव’ तत्र तत्र निम्नोन्नतप्रदेशेषु सञ्चाराच्छब्दं कुर्वन्त्य इव भवन्ति, तस्यैतस्य वहनस्योद्गमनस्याकूजनस्य चौज एव कारणं, अत उत्तरस्यां दिशि ‘ओज एव’, आस्थापयति। यस्मादेवं ‘तस्मात्’, लोकेऽपि
१ प्रपाठके २४ अनुवाकः । १५३
ए॒वा॒स्योत्तर॒तो द॑धाति । तस्मा॑दुत्त॒रोऽर्ध॒ ओज॑स्वि-
तरः॑^(५) । ^(६)सं॒भार्या॑ गृ॒ह्णाति॑ । ता मध्य॒ उप॑दधा-
ति । इ॒यं वै सं॒भार्या॑ । अ॒स्यामे॒व प्रति॑तिष्ठति^(६) ।
^(७)प॒ल्ब॒ल्या गृ॑ह्णाति । ता उ॒परि॑ष्टा॒दुप॑दधाति ॥ ३ ॥
अ॒सौ वै प॑ल्ब॒ल्या॑ । अ॒मुष्या॑मे॒व प्रति॑तिष्ठति^(७) ।
शरीरस्य 'उत्तरः', भागः 'ओजस्वितरः', पूजाहोमादिकार्येषु दक्षिणहस्तस्य तेजस्वित्वं पूर्वमुक्तं, पादप्रक्षालनादिषु वामहस्तस्यौजस्वित्वमत्रोच्यते। चतुष्ट्य इत्यस्याः सञ्ज्ञाया उपलक्षणत्वात् षड्विधा आपो द्रष्टव्याः ॥
तत्र पञ्चमं जलविशेषं विधत्ते। ^(६)“सम्भार्या गृह्णाति ॰ प्रतिष्ठति”^(६) इति । गृहे घटेषु सम्पादनीया आपः ‘सम्भार्याः’, ‘ताः’, गृहीत्वा चतसृणां दिशां ‘मध्ये’, उपदध्यात् । सम्भार्याणां घटेष्ववस्थितत्वेन भूमिसदृशत्वादुपधानेन भूम्यामेव प्रतिष्ठितो भवति ॥
षष्ठं जलविशेषं विधत्ते । ^(७)“पल्बल्या गृह्णाति ॰ अमुष्यामेव प्रतिष्ठति”^(७) इति । यत्र कदाचिदपि जलशोषो नास्ति द्रवमात्रानुवृत्तिः सर्वदा दृश्यते तत् ‘पल्वलं’, तत्रोत्पन्ना आपो गृहीत्वा मध्ये स्थापितानामिष्टकानां ‘उपरिष्टात्’, उपदध्यात् । पल्बल्यानां कूपादिवत् खननमन्तरेण भूमेरुपर्येव वर्त्तनात् तदुपधानेन द्युलोके प्रतिष्ठितो भवति ॥
१५४ तैत्तिरीये आरण्यके
$^{(८)}$दिक्षूप॑दधाति । दिक्षु वा आप॑: । अन्नं॒ वा आप॑: । अ॒द्भ्यो वा अन्नं॒ जाय॑ते । यदे॒वाद्भ्योऽन्नं॒ जाय॑ते । तदव॑रुन्द्धे$^{(८)}$ । $^{(९)}$तं वा ए॒तम॑रु॒णाः केत॑वो॒ वात॑रश॒ना ऋष॑यो चिन्वन् । तस्मा॑दारुणकेतुकः$^{(९)}$॥ $^{(१०)}$तदे॒षाऽभ्यनू॑क्ता$^{(१०)}$ । $^{(११)}$के॒तवो॑ अरु॒णास॑श्च । ऋष॑यो॒ वातरशनाः । प्रति॒ष्ठाः श॒तधा॑ हि । समा॑हितासो सहस्र-
यथोक्तं दिक्षूपधानं प्रशंसति । $^{(८)}$“दिक्षूपदधाति ॰ तदवरुन्धे$^{(८)}$” इति । दिक्ष्वपां जातत्वात् अद्द्भ्यश्चान्नोत्पत्तेर्दिक्षूपदधानेनान्नं प्राप्नोति ॥
अस्य चितस्याग्नेरारुणकेतुकनाम निर्वक्ति । $^{(९)}$“तं वा एतमरुणाः ॰ तस्मादारुणकेतुकः”$^{(९)}$ इति । अरुणादिभिस्त्रिविधैर्मुनिभिश्चितत्वात् तत्सम्बन्धेनारुणकेतुकत्वं । यद्यपि वातरशनैरप्ययञ्चितः तथाप्यरुणानां केतूनाञ्च मुख्यत्वात्तन्नाम्नैव व्यवहारः॥
उक्तार्थप्रतिपादिकां ऋचमवतारयति । $^{(१०)}$“तदेषाऽभ्यनूक्ता”$^{(१०)}$ इति । ‘तत्’ तस्मिन्, आरुणकेतुकसम्बन्धोऽयमग्निरित्यस्मिन्नर्थे, काचिदृक् शाखान्तरे पठिता ॥
तामेतामृचं दर्शयति । $^{(११)}$“केतवो ॰ सहस्रधायममिति”$^{(११)}$ इति । एषा च आपमापामित्यनुवाके व्याख्याता । इत्यनेन मन्त्रेणापि काञ्चिदिष्टिकामुपदध्यात् । तथाच बौधायन आह । केतव इत्येकेति ॥
१ प्रपाठके २४ अनुवाकः । १५५
धाय॑स॒मिति॑।(११) । (१२)श॒तश॑श्चै॒व स॑ह॒स्रश॑श्च॒ प्रति॑तिष्ठ- ति । य ए॒तम॒ग्निं चि॑नु॒ते । य उ॑ चैनमे॒वं वेद॑(१२) ॥४॥ ब्रह्म॑वर्च॒सित॑रः, वह॑न्तीर्गृ॒ह्णाति॑, ता उप॑रि- ष्टादु॒पाद॑धाति, आरु॑णकेतुकः, अ॒ष्टौ च॑ ॥ अनु० २४ ॥
अथ पञ्चविंशोऽनुवाकः ।
(१)जानु॑द॒घ्नीमु॑त्तरवे॒दीं खा॒त्वा । अ॒पां पू॑रयति । अ॒पाꣳ सर्व॑त्वा॒र्यै॑ ।(१)। (२)पु॒ष्कर॑प॒र्णꣳ रु॒क्मं पुरु॑ष॒मित्युप॑-
चयनवेदने प्रशंसति । (१२)“शतशश्चैव ० चैनमेवं वेद”(१२) इति ॥
इति सायणाचार्य्यविरचिते माधवीये वेदार्थप्रकाशे यजुरा- रण्यके प्रथमप्रपाठके चतुर्विंशोऽनुवाकः ॥ २४ ॥
अथ पञ्चविंशोऽनुवाकः ।
अष्टौष्टकाः पूर्वानुवाकेऽभिहिताः । तत्र पुष्करपर्णाद्युपधानं विधत्ते । तत्रादावुत्तरवेदीखननं पूर्वमेव विहितं प्रशंसति । (१)“जानुदघ्नीमुत्तरवेदीं ० सर्वत्वायति”(१) इति । जानुपरि-
x 2
| १५६ | तैत्तिरीये आरण्यके |
|---|
दधा॑ति । तपो॒ वै पु॑ष्करप॒र्णम् । स॒त्यꣳ रुक्मः॑ । अ॒मृतं॒ पुरु॑षः । ए॒ताव॒द्वावास्ति॑ । याव॑दे॒तत् । याव॑दे॒वास्ति॑ ॥ ॥ १ ॥ तदव॑रुन्धे^(२) । ^{(३)}कू॒र्ममुप॑दधाति । अ॒पामे॒व मेध॒मव॑रुन्धे । अथो॑ स्व॒र्गस्य॑ लो॒कस्य॒ सम॑ष्ट्यै^(३) । ^{(४)}आप॑- मापा॒मपः॒ सर्वाः॑ । अ॒स्माद॒स्मादितो॒ऽमृत॑: । अ॒ग्निवी॒-
माणेन खातायामुत्तरवेद्यां गुल्फपरिमाणेन पूरितमुदकं यदस्ति तेन 'अपां', सर्वत्वं सम्पादितं भवति । यस्मात् खातस्याप्युदकमयत्वमपेक्षितं तस्मादितरस्य वस्तुनो जलमयत्वं किमु वक्तव्यमित्यभिप्रायः ॥
(२)“पुष्करपर्णं ० तदवरुन्धे”^(२) इति । पुष्करपर्णस्य पवित्रत्वेन तपोरूपत्वाद्रुक्मस्याग्निसंयोगेऽपि विनाशाभावेन सत्यत्वात् । हिरण्मयपुरुषस्यापि । अत एवामृतत्वात् त्रयाणामुपधानेन 'यावत्', सारं 'अस्ति', तत् सर्वं प्राप्तं भवति ॥
उक्तचितयादनन्तरं कूर्मोपधानं विधत्ते । (३)“कूर्ममुपदधाति ० लोकस्य समष्ट्यै”^(३) इति । 'अपां', सम्बन्धी मेधः सारः कूर्मः तदुपधानेन सारं प्राप्नोति । किञ्च स्वर्गोऽपि प्राप्यते ॥
अथाभीष्टकाविधिं सूचयितुं तन्मन्त्रान् पूर्वमेवाम्नातान् प्रदर्शयितुं लेशतः पठति । (४)“आपमापामपः ० रश्मिप-
१ प्रपाठके २५ अनुवाकः । १५७
यु॒ञ्च॒ ह्य॑र्य॒ञ्च । स॒ह सं॑ञ्चस्कर॒र्धिया॒ इति॑ । वा॒क्व॑श्चा र॒श्मि- प॑तयः(४) । (५)लो॒कं पृ॑ण छि॒द्रं पृ॑ण ॥ २ ॥ यास्ति॒स्रः प॑र॒म॒जाः(५) । (६)इन्द्र॑घोषा वो॒ वसु॑भि- रे॒वा ह्ये॑वेति॑(६) । (७)पञ्च॒ चित॑य उप॑दधाति । पा॒ङ्क्तोऽग्निः॑।
तयः”(४) इति । आपमापमित्यारभ्य वाक्यश्चा इत्यादिभिर- बीष्टका उपधेया इति तात्पर्यार्थः ॥
लोकं पृणेष्टकोपधानमन्त्रं दर्शयति । (५)“लोकं पृण छिद्रं ० परमजाः”(५) इति । हे इष्टके ‘लोकं’ पूर्वमुपधान- रहितं स्थानं, ‘पृण’ पूरय, तत्पूरणेन चित्याग्नेः ‘छिद्रं’, ‘पृण’ पूरय । ‘याः’ च ‘तिस्रः’ स्वाहागणाः, प्रथममध्यमोत्तरचिति- षूपधेयतया ‘परमजाः’ प्रकृष्टमुत्पन्नाः, ता अपि पूरय ॥
मन्त्रान्तरमपि पूर्वमाम्नातमेवोपधानविध्यभिप्रायेण पुनः प्रदर्शयति । (६)“इन्द्रघोषा ० एवा ह्येवेति”(६) इति । इन्द्र- घोषेत्यादयो ये मन्त्राः एवा ह्येवेत्यादयश्च ये मन्त्राः, ‘इति’ शब्दप्रदर्शिताः, अन्ये च ये मन्त्रास्तैः सर्वैरुपदध्यादित्यर्थः ॥
चितीनां सङ्ख्यां विधत्ते । (७)“पञ्च चितय ० तं चिनुते”(७) इति । जानुप्रमाणेन खातस्य मध्ये पञ्चसङ्ख्याकाश्चितीरुप- दध्यात् । गुल्फदघ्नमुदकं पूरयित्वा पर्णैर्दण्डैः कृत्स्नपुष्करैश्च सञ्छाद्य मृण्मयपात्रेष्वधो धृत्वा ता अबीष्टका उपदध्यात् । तत
पादः॑ । परो॒ रजाः॒ पादः॑⁽८⁾ । ⁽९⁾वि॒राज्ये॒व प्रति॑तिष्ठ-
१५८ तैत्तिरीये आरण्यके
यावा॑ने॒वाग्निः॑ । तं चि॑नुते⁽७⁾ । ⁽८⁾लो॒कंपृ॑णया द्वि॒ती- या॒मुप॑दधाति । प॒ञ्चप॑दा॒ वै वि॒राट् । तस्या॒ वा इ॒यं पादः॑ । अ॒न्तरि॑क्षं॒ पादः॑ ॥ द्यौः पादः॑ । दिशः॒ पादः॑ । परो॒ रजाः॒ पादः॑⁽८⁾ । ⁽९⁾वि॒राज्ये॒व प्रति॑तिष्ठ-
उपर्य्यपि पूर्ववत्यचैर्दण्डैः कृत्स्नपुष्करैश्च छादयित्वा पुनर- प्यबीष्टका उपदध्यात् । एवं पञ्चकस्थाभिरुत्तरवेद्यां पूरयि- तायां तत्र पञ्चचितयः सम्पद्यन्ते । तत्रोर्ध्वैः काष्ठैः मञ्चकं कृत्वा तस्योपरि पुरीषं प्रसार्य पुरीषस्योपर्यग्निं प्रणीयोपसमा- धाय तस्याग्रेऽसुतर्दिक्षु तत्तन्मन्त्रैरबीष्टका उपदध्यात् । एवं कृतेऽग्निः पञ्चचितियुक्तो भवति । आहवनीयगार्हपत्यदक्षिणा- ग्निसभ्यावसथ्यरूपेण पञ्चसङ्ख्यायोगात् ‘पाङ्क्तः’, ‘अग्निः’, सर्वो- ऽपि चितो भवति ॥
द्विश्चितौ विशेषं विधत्ते । ⁽८⁾“लोकंपृणया ० परो रजाः पादः”⁽८⁾ इति । येयं द्वितीया चितिः, सेयं ‘लोकंपृणया’, एव इष्टकोपधेया, सर्वपूरकत्वादियं ‘लोकंपृणा’ विराट्- देहरूपी, सा च विराट्मूर्त्तिः पञ्चपादोपेता । लोकत्रयं चत- र्द्दिशश्च पादचतुष्टयं । रजोगुणात्मकस्य संसारस्य परस्ता- द्वाह्ये योऽयं चिदात्मा वर्त्तते अपरो ‘रजाः’, स च पञ्चमः ‘पादः’, एवं प्रशस्ता लोकंपृणा ॥
तच्चयनवेदने प्रशंसति । ⁽९⁾“विराज्येव ० य ङ्वेन-
१ प्रपाठके २६ अनुवाकः । १५६
ति । य ए॒तद॒ग्निञ्चि॑नु॒ते । य उ॑चैनमे॒वं वेद॑^(६) ॥ ३ ॥
अ॒स्ति, पृ॒ण, अ॒न्तरि॑क्षं॒ पाद्ः, षट् च॑ ॥ अनु०।२५॥
अथ षड्विंशोऽनुवाकः ।
(१)अ॒ग्निं प्र॒णीयोप॑समा॒धाय॑ । तम॒भित॑ ए॒ता अ॒वी-
ष्ट॑का उप॑दधाति । अ॒ग्नि॒हो॒त्रे दर्श॑पूर्णमा॒सयोः॑ । प॒शु-
ब॒न्धे चा॑तुर्मा॒स्येषु॑ । अथो॒ आहुः॑ । सर्वे॑षु य॒ज्ञक्रतु॑-
ष्विति॑^(१) । (२)अथो॑ ह॒ स्माहा॑रु॒णः स्वा॑यम्भु॒वः॑ । सा॒वि॒त्रः
मेवं वेद"^(६) इति । 'विराञ्जैव' अन्नं एव, विराड्देह एव,
वा ॥
इति सायनाचार्यविरचिते माधवीये वेदार्थप्रकाशे यजुरा-
रण्यके प्रथमप्रपाठके पञ्चविंशोऽनुवाकः ॥ २५ ॥
अथ षड्विंशोऽनुवाकः ।
पूर्वानुवाके पुष्करपर्णाद्युपधानमुक्तं । इह फलविशेषा
व्रतविशेषाश्चोच्यन्ते । पूर्वं विहितमेवार्थं पुनर्विशेषकथनाया-
दावनुवदति । (१)"अग्निं प्रणीयो • क्रतुष्विति"^(१) इति ।
एतत् सर्वं योऽपां पुष्पं वेदेत्यनुवाके व्याख्यातं ॥
१६० तैत्तिरीये आरण्यके
सर्वो॒ग्निरित्य॑न॒नुष॒ङ्गं म॑न्यामहे । नाना॒ वा ए॒तेषां॒ वीर्या॑णि^(२) । ^(३)कम॒ग्निं चि॑नुते ॥ १ ॥
अस्यारुणकेतुकस्य स्वातन्त्र्येण क्रत्वङ्गत्वमाक्षेपसमाधाना- भ्यामुपपादयितुं मतद्वयमुपन्यस्यति । ^(२)“अथ ह स्माहारुणः • एतेषां वीर्याणि”^(२) इति । स्वयम्भुवः पुत्रः कश्चित् ‘अरुण- नामको मुनिरेवं ‘आह स्म’, काठकेषु योऽयं विचितः ‘अग्निः’, सावित्रादिरारुणकेतुकान्तः सः ‘सर्वः’, अपि ‘सावित्रः’, एव उत्तरोत्तरेषु पूर्वपूर्वानुषङ्गस्य विद्यमानत्वात् । यो नाचिकेतः स सावित्रपूर्वक एवानुष्ठेयः । चातुर्होत्रीयस्तदुभयपूर्वकः । वैश्व- सृजस्तत्त्रितयपूर्वकः । आरुणकेतुकस्तच्चतुष्टयपूर्वकः । एवमनु- षङ्गे सत्यारुणकेतुकस्येतरनिरपेक्षस्य स्वातन्त्र्यं नास्ति । सावित्रस्य तु तद्विद्यते । तस्मात् सर्वेष्वनुषक्तत्वात् सर्वोऽपि सावित्र इत्येव व्यवहार्यः । अतस्तस्यैव क्रत्वङ्गत्वं न त्वारुणकेतुकस्य स्वतन्त्रस्येत्यारुणस्य मुनेर्मतं तदिदं दूष्यते । ब्रह्मवादिनो वदन्ति ‘सावित्रः सर्वोऽग्निरित्यनुषङ्गं मन्यामहे’, न कोऽप्यग्निरितर- त्रानुषज्जति । ‘एतेषां’ अग्नीनां, ‘वीर्याणि’ फलानि, ‘नाना’- पृथगुक्तान्येव, तानि च योऽपां पुष्पमित्यनुवाके संवत्सरं प्रत्य- क्षेणामुमादित्यं प्रत्यक्षेणेत्यादिना निरूपितानि ॥
तदेतत्फलनानात्वं प्रपञ्चेन प्रदर्शयति । ^(३)“कमग्निं चिनुते • चिन्वान इति”^(३) इति । द्वादशाहादिसत्त्राङ्गत्वेन
१ प्रपाठके २६ अनुवाकः । १६१
स॒त्रि॒यम॒ग्निं चि॑न्वा॒नः । कम॒ग्निं चि॑नुते । सा॒वि॒त्रम॒ग्निं चि॑न्वा॒नः । कम॒ग्निं चि॑नुते । ना॒चि॒के॒तम॒ग्निं चि॑न्वा॒नः । कम॒ग्निं चि॑नुते । चा॒तु॒र्हो॒त्रि॒यम॒ग्निं चि॑न्वा॒नः । कम॒ग्निं चि॑नुते । वै॒श्व॒सृ॒जम॒ग्निं चि॑न्वा॒नः । कम॒ग्निं चि॑नुते ॥ २ ॥
उ॒पा॒नु॒वा॒क्य॑मा॒शुम॒ग्निं चि॑न्वा॒नः । कम॒ग्निं चि॑नुते । इ॒ममा॑रु॒णके॒तुकम॒ग्निं चि॑न्वा॒न इति॑⁽३⁾ । ⁽४⁾वृषा॒ वा अ॒ग्निः । वृषा॑णौ॒ सᳲस्फो॑लयेत् । हन्ये॑तास्य य॒ज्ञः ।
चीयमानो योऽयं महाग्निः सोऽयं 'सत्रियः' सञ्चिन्वानः पुमान् 'कमग्निं' किम्फलकमग्निं, 'चिनुते', इत्येवं भो अरुणाश्रमुने त्वं विचारय । संवत्सरदेवताप्राप्तिस्तस्य फलं, इतरेषां त्वन्यदेव पृथक् पृथक् फलमादित्यप्राप्त्यादिरूपं, अतो नैकफलस्य सम्भावनाप्यस्तीति किंशब्दस्याभिप्रायः । एवमुत्तरत्रापि योज्यं । उपानुवाक्यमाशुमग्निमित्यत्र यदेकेनेत्याद्युपानुवाक्यकाण्डोक्तो महानाग्निर्विवक्षितः । यद्यसौ सत्रियमिति वाक्येनैव गतार्थः, तर्हि शाखान्तरप्रसिद्धं कञ्चिदग्न्यन्तरमस्तु । तदेव फलनानात्वमविसृष्टमिति ब्रह्मवादिनामभिप्रायः ॥
सावित्राग्नेरनुषङ्गपक्षे बाधं दर्शयति । ⁽४⁾"वृषा वा अग्निः • तस्मान्नानुषज्यः"⁽४⁾ इति । योऽयमग्न्यपलक्षितोऽग्निचित् सोऽयं
१६२ तैत्तिरीये आरण्यके
तस्मा॒न्नानु॒षञ्ज्यः॑।^(४)। ^((५))सोऽत्त॑रवे॒दिषु॒ क्रतु॑षु चिन्वीत । उ॒त्त॒र॒वेद्याꣳ॒ ह्य॒ग्निश्ची॒यतै॑।^(५)। ^((६))प्र॒जाका॑मश्चिन्वीत ॥३॥ प्रा॒जा॒प॒त्यो वा ए॒षोऽग्निः॑ । प्रा॒जा॒प॒त्याः प्र॒जाः । प्र॒- जावा॑न् भवति । य ए॒वं वेद॑।^(६)। ^((७))प॒शुका॑मश्चि-
'वृषा' सेक्ता, रेतःसेचनेन प्रजामुत्पादयितुं समर्थः । तादृशो यद्यनुषङ्गं कुर्यात् तदानीमस्याग्निचितो वृषणद्वयं कसिद्वैरौ 'संस्फात्नयेत्' पीडयेत् । 'अस्य', 'यज्ञः', अपि विनश्येत् । 'तस्मात्', सावित्राग्निरितरत्र नानुषञ्जनीयः, स्वतन्त्रा एवैते सर्वेऽग्नयः । तस्मादारुणकेतुकस्य स्वातन्त्र्येणैव क्रत्वङ्गत्वयुक्तमित्यर्थः ॥
क्रतुविशेषे तत्सम्बन्धं विधत्ते । ^((५))"सोत्तरवेदिषु ह्यग्निश्चीयते"^(५) इति । उत्तरवेदिसहिता ये क्रतवः पशुबन्धा- दयः तेष्वेवारुणकेतुकमग्निं 'चिन्वीत', नतूत्तरवेदिरहितेष्वग्नि- होत्रादिषु । यस्मादयं 'अग्निः,' उत्तरवेदिस्थाने 'चीयते', तस्मात् तद्रहितं तच्चयनं न युक्तं । एवं सत्यस्मदग्निनिषेधात् पूर्वोक्तादग्निहोत्रदर्शपूर्णमासयोरित्यादिविधानाच्चाग्निहोत्रादा- वारुणकेतुकस्य विकल्पो द्रष्टव्यः ॥
अथास्य चयनस्य काम्यप्रयोगाः । तत्रैकं काम्यं दर्शयति । ^((६))"प्रजाकामश्चिन्वीत • य एवं वेद"^(६) इति । अग्नेः प्रजानां च प्रजापतिना सृज्यत्वात् प्राजापत्यत्वम्तेन साम्येन प्रजाफल- कत्वमग्नेः ॥
१ प्रपाठके २६ अनुवाकः । १६३
न्वीत॑ । स॒ञ्ज्ञानं॒ वा ए॒तत् प॑शू॒नां । यदाप॑ः । प॒शू- ना॑मे॒व स॒ञ्ज्ञाने॒ऽग्निं चि॑नुते । प॒शु॒मान् भ॑वति । य ए॒वं वेद॑^(७) ॥ ४ ॥ ^(८)वृष्टि॑कामश्चिन्वीत । आपो॒ वै वृष्टि॑ः । प॒र्जन्यो॑ वर्षुको भवति । य ए॒वं वेद॑^(८) । ^(९)आ॒म॒या॒वी चि॑न्वीत । आ- पो॒ वै भै॑ष॒जं । भै॒ष॒जमे॒वास्मै॑ करोति । सर्व॒मायु॑रेति^(९) । ^(१०)अ॒भिच॑रँश्चिन्वीत । वज्रो॒ वा आप॑ः ॥ ५ ॥ वज्र॑मेव भ्रातृ॑व्येभ्यः प्रह॑रति । स्तृ॒णुत ए॒नं^(१०) ।
अथ द्वितीयकाम्यं दर्शयति । ^(७)“पशुकामश्चिन्वीत • य एवं वेद”^(७) इति । ये तृषार्त्ताः पशवो यत्र क्वाप्योऽन्विष्य जानन्ति तस्मात् ‘आपः,’ पशूनां’, सम्यग्ज्ञानसाधनं अतो- ऽप्सुचयने सति ‘पशूनां’, ज्ञानसाधन ‘एव’, अग्निश्चितो भवति ॥
अथ तृतीयं दर्शयति । ^(८)“वृष्टिकामश्चिन्वीत • य एवं वेद”^(८) इति ॥
चतुर्थं दर्शयति । ^(९)“आमयावी चिन्वीत • सर्वमायुरेति” ^(९) इति । तापशान्तिकरत्वादपां भेषजत्वं ॥
पञ्चमं दर्शयति । ^(१०)“अभिचरँश्चिन्वीत • स्तृणुत एनं” ^(१०) इति । उपरिष्टात् ता आपो वज्रोभूत्वेत्येव वक्ष्यते । तस्मा- दपां वज्रत्वं । अत्रापामेवोपधेयत्वात् सर्वतः फलसाधनत्वेना- पामेवोपप्रशंसं ॥
I 2
| १६४ | तैत्तिरीये आरण्यके |
|---|
(११)तेज॑स्कामो॒ यश॑स्कामः। ब्र॒ह्म॒व॒र्च॒सका॑मः स्वर्गका॑म- श्चिन्वीत। ए॒ताव॒द्वावा॑स्ति। याव॑दे॒तत्। याव॑दे॒वास्ति॑। तदव॑रुन्धे^(११)। ^(१२)तस्यै॒तद्व्र॒तं। वर्ष॑ति॒ न धावे॑त् ॥६॥ अ॒मृतं॒ वा आप॑:। अ॒मृत॒स्यान॑न्तरित्यै^(१२)। ^(१३)ना- प्सुमूत्र॑पुरी॒षं कु॑र्यात्। न निष्ठी॑वेत्। न वि॒वसं॑नः स्ना- यात्। गुह्यो॒ वा ए॒षोऽग्निः। ए॒तस्याग्ने॒रन॑तिदाहाय^(१३)।
षष्ठसप्तमाष्टमनवमफलानि दर्शयति । ^(११)“तेजस्कामो ० तदवरुन्धे”^(११) इति । तत् प्रजापश्वादिकं स्वर्गान्तं ‘यावत्’, फलमुक्तं ‘एतावत्’, एव लोकेऽपि विद्यमानमुत्तमं फलं, अतः ‘यावत्’, उत्तमं फलं ‘अस्ति’, ‘तत्’, सर्वमनेन चयनेन प्राप्नोति ॥
अथारुणकेतुकाग्निचितो नियमविशेषं विधत्ते । ^(१२)“तस्यै- तद्व्रतं ० अमृतस्यानन्तरित्यै”^(१२) इति । पर्जन्ये ‘वर्षति’, सति यदा मार्गे गच्छति तदा क्लेदनभीत्या धावनं न कुर्यात् । तत्र करणे चामृतरूपाणामपां परित्यागेन स्वर्गसुखरूपममृतम- न्तरितं भवेत् । तन्माभूदिति ‘न धावेत्’ ॥
नियमान्तराणि विधत्ते । ^(१३)“नाप्सु मूत्रपुरीषं ० एत- स्याग्नेरनतिदाहाय”^(१३) इति । ‘एषः’ आरुणकेतुकः, ‘अग्निः’, अबीष्टकाभिर्निष्पाद्यत्वादप्सु गूढो वर्त्तते । तादृशो मूत्रादि- कारिणमतिशयेन दहति । स दाहो माभूदिति मूत्रादिकं ‘न कुर्यात्’,। पुरुषार्थत्वेन शास्त्रेषु निषिद्धस्यापि अत्र पुनर्निषेधः॥
१ प्रपाठके २६ अनुवाकः। १६५
(१४)न पुष्क॑रप॒र्णानि॒ हिर॑ण्यं॒ वाधि॑तिष्ठेत् । ए॒तस्या॒ग्ने- रन॑भ्यारोहाय^(१४) । ^(१५)न कू॒र्मस्या॑श्नीयात् ॥ नोद॒कस्या॑- घा॒तुका॑न्येनेमोद॒कानि॑ भवन्ति । अघा॑तुका॒ आप॑: । य ए॒तम॒ग्निं चि॑नु॒ते । य उ॑चैनमे॒वं वेद॑^(१५) ॥ ७ ॥ चि॒नु॒ते, चि॒नु॒ते, प्र॒जाका॑मश्चिन्वीत, य ए॒वं वेद॑, आप॑:, धावेत्, अ॒श्नी॒यात्, च॒त्वारि॑ च ॥ अनु० २६ ॥
अत्रप्रायश्चित्तार्थं नियमान्तरं विधत्ते । ^(१४)“न पुष्कर- पर्णानि ० एतस्याग्नेरनभ्यारोहाय”^(१४) इति । पुष्करपर्णस्य हिरण्यस्य वा पादेनाक्रमणे सति तमग्निमारूढवान् भवेत् । अतस्तदुभयं ‘नाधितिष्ठेत्’ ॥
नियमान्तरं विधत्ते । ^(१५)“न कूर्मस्याश्नीयात् ० य उच्चै- नमेवं वेद”^(१५) इति । ‘कूर्मस्य’, अङ्गं किञ्चिदपि न भुञ्जीत । उदकशब्देन तत्रत्यो मीनादिरूपो लक्ष्यते, तदीयमध्यङ्गं ‘नाश्नीयात्’ । ‘यः’, ‘एतं’ आरुणकेतुकं, ‘अग्निं’, ‘चिनुते’, ‘यः’, च ‘एवं’, ‘वेद’, तं ‘एनं’, प्रति ‘ओदकानि’ उदकवर्त्तीनि मीनादीनि, ‘अघातुकानि’ अहिंसकानि, ‘भवन्ति’ ‘आपः’, अपि ‘अघातुकाः’ उदकमरणं न भवेदित्यर्थः ॥
इति सायनाचार्यविरचिते माधवीये वेदार्थप्रकाशे यजुरा- रण्यके प्रथमप्रपाठके षड्विंशोऽनुवाकः ॥ २६ ॥
१६६ तैत्तिरीये आरण्यके
अथ सप्तविंशोऽनुवाकः ।
(१)इ॒मा नु कं॒ भुव॑ना सीषधेम॑ । इन्द्र॑श्च॒ विश्वे॑ च दे॒वाः(१) । (२)य॒ज्ञं च॑ नः स्त॒न्वं॑ च प्र॒जां च॑ । आ॒दि॒त्यैरिन्द्रः॑ स॒ह सी॑षधातु(२) । (३)आ॒दि॒त्यैरिन्द्रः॒ सग॑णो म॒रुद्भिः॑ । अ॒स्माकं॑ भूत्ववि॒ता त॒नूनां(३) । (४)आस्र॑वस्व॒
अथ सप्तविंशोऽनुवाकः ।
कल्पः । इमा नु कमिति चतस्र इति । तत्र प्रथमामाह ।
(१)“इमा नु कं ॰ विश्वे च देवाः”(१) इति । ‘इन्द्रश्च विश्वे देवाश्च’, वयञ्च ‘इमाः’ ‘भुवनानि’, ‘नु कं सीषधेम’ सुखनामसु नु कमितिपठितं सुखं यथा भवति तथा साधयाम ॥
अथ द्वितीयामाह । (२)“यज्ञं च न ॰ सह सीषधातु”(२) इति । अयं ‘इन्द्रः’, ‘आदित्यैः सह’, ‘नः’ अस्माकं, ‘यज्ञं’, शरीरं ‘प्रजाञ्च’, साधयतु ॥
अथ तृतीयामाह । (३)“आदित्यैरिन्द्रः ॰ तनूनां”(३) इति । ‘आदित्यैर्मरुद्भिः’, च युक्तत्वात् ‘सगणः’, अयं ‘इन्द्रः’, अस्माकं ‘तनूनां’, ‘अविता भूत्’ रक्षिता भवतु* ॥
कल्पः । आस्रवस्वेति सप्तदशच्छपण्ड इति । तत्र प्रथमामाह । (४)“आस्रवस्व ॰ खां पुरं”(४) इति । अस्रशब्देन जन्मवान्
* अत्र चतुर्थी नास्ति ।
१ प्रपाठके २७ अनुवाकः । १६७
मास्र॑वस्व । आ॒ण्डीभ॑व॒ ज्ञ मा मु॑हुः । सुखादौ दुः॑ख- निधनां । प्रति॑मुञ्चस्व॒ स्वां पुरं॑⁽४⁾ ॥ १ ॥ ⁽५⁾मरी॑चयः स्वायम्भु॒वाः । ये शरी॑राण्यक॑ल्पयन् । ते ते॑ दे॒हं क॑ल्पयन्तु । मा च॑ ते॒ ख्यास्म॑तीरिषत्⁽५⁾ । ⁽६⁾उत्ति॑ष्ठत मा स्व॑प्त । अ॒ग्निमि॑च्छध्वं भार॑ताः । रा॒ज्ञः
यजमान उच्यते । आस्रवं नाम गमनं जन्म, स्रवनं प्रापणं, यज- मानं जन्मोपेतमाङः । 'आस्रवस्व' पुनः पुनर्जन्मलक्षणमागमनं, मा कुरु, मुहुः 'मास्रवस्व' पुनः पुनर्मरणलक्षणं स्रवनं मा कुरु । 'मा 'मुहुराण्डीभव' आण्डः ब्रह्माण्डमध्य इत्यर्थः आण्डी- त्यभूततद्भाव उच्यते । पूर्वमनाण्डा इदानीमाण्डीभव तस्य निषेधो माशब्देनोच्यते, पुनः पुनर्ब्रह्माण्डवर्त्तित्वं तव माभू- दित्यर्थः । खशब्देनावश्यकत्वं द्योतयति । संसारोत्तरणविषया तवाख्यातिः सर्वथा विनश्यत्वित्यर्थः ॥
अथ द्वितीयामाह । ⁽५⁾"मरीचयः स्वायम्भुवाः • मा च ते ख्यास्मतीरिषत्"⁽५⁾ इति ॥
अथ तृतीयामाह । ⁽६⁾"उत्तिष्ठत मा स्वप्त • सूर्येण सयु- जोषसः"⁽६⁾ इति । हे ऋत्विजो यूयं 'उत्तिष्ठत', उत्थिता भवत, उत्साहं कुरुतेत्यर्थः । 'मा स्वप्त' स्वप्नं मा कुरुत, अल- सा मा भूतेत्यर्थः । 'भारताः' हविरादिभरणशीलाः सन्तः,
१६८ तैत्तिरीये आरण्यके
सोम॑स्य तृ॒प्तास॑ः । सूर्य्ये॑ण॒ सयुजो॑षसः^{(६)} । ^{(७)}युवा॑सु॒ वासा॑:^{(७)} । ^{(८)}अ॒ष्टाच॑क्रा नव॑द्वा॒रा ॥ २ ॥ दे॒वानां॒ पूरयो॑ध्या । तस्याँ॑ हिर॑ण्मयः॒ कोश॑ः । स्व॒र्गो लो॒को ज्योति॑षाऽऽवृ॑तः^{(८)} । ^{(९)}यो वै तां ब्रह्म॑णो
'अग्निं' आरुणकेतुकं, 'इच्छध्वं' । कीदृशा ऋत्विजः, 'राज्ञः' राजमानस्य, 'सोमस्य', पानेन 'तृप्ताः', 'सूर्येण', 'सयुजोषसः' समानप्रीतयः, यद्यप्येवंविधो मन्त्र अनुष्ठेयार्थस्येष्टकोपधानस्य प्रकाशको न भवति तथाप्येतदर्थानुस्मरणेन कश्चिददृष्टातिशयो द्रष्टव्यः ॥
अथ चतुर्थ्याः प्रतीकं दर्शयति। ^{(७)}“युवा सुवासाः”^{(७)} इति। सोऽयं मन्त्रो यजन्ति त्वामध्वरे देवयन्त इत्यनुवाके व्याख्यातः ॥
अथ पञ्चमीमाह । ^{(८)}“अष्टाचक्रा • ज्योतिषावृतः”^{(८)} इति। पूरिति शरीरमुच्यते, 'देवानां' इन्द्रादीनां, 'पूः,' 'अष्टाचक्रा' चक्रवदावरणभूतास्त्वगसृङ्मांसमेदोऽस्थिमज्जाशुक्रो- जोरूपाः अष्टौ धातवो यस्याः सेयं 'अष्टाचक्रा', शिरोवर्त्तिभिः सप्तभिर्द्वारैरधोवर्त्तिभ्यां द्वाराभ्यामुपेता 'नवद्वारा', 'अयोध्या' कर्मगतिमन्तरेण केनापि प्रहर्त्तुमशक्या, 'तस्यां' पुरि, 'हि- रण्मयः' सुवर्णनिर्मितपदार्थसदृशः, 'कोशः', अवकाशरूपः, 'स्वर्गः' सुखमयः, 'लोकः' स्थानविशेषः, 'ज्योतिषा' भासकेन जीवचैतन्येन, 'आवृतः' परिवेष्टितः, वर्त्तते ॥