तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)
Taittiriya Aranyaka Hindi
महर्षि वैशम्पायन द्वारा
स्रोत: Taittiriya Aranyaka with Sayana Bhashya and Hindi Translation (उद्गम)
१ प्रपाठके २२ अनुवाकः। १२६
सो स॒हस्र॑धायसं। शि॒वानः॑ श॒न्त॑मा भवन्तु। दि॒व्या॑ आ॒प ओष॑धयः। सु॒मृ॒डी॒कासर॑स्वती। माते॒व्योम॑- स॒ंहृशि॑॥ ३॥ स्वे॑ः, उ॒दीष॑त्, वात॑र॒शनाः, षट् च॑॥ अनु०॥ २१॥
अथ द्वाविंशोऽनुवाकः।
$^{(१)}$योऽपां पुष्पं॒ वेद॑। पुष्प॑वान् प्रजा॒वान् प॒शुमा॒न् भव॑ति। च॒न्द्रमा॒ वा अ॒पां पुष्पं॑। पुष्प॑वान् प्रजा॒वान् प-
हेतुं 'सहस्रधायसं' सहस्रसङ्ख्याकस्य फलस्य धारयित्रीं, दृष्ट- कामुपदधात्विति शेषः॥ इति सायनाचार्यविरचिते माधवीये वेदार्थप्रकाशे यजुरा- रण्यके प्रथमप्रपाठके एकविंशोऽनुवाकः॥ २१॥
अथ द्वाविंशोऽनुवाकः।
एतावत्स्वनुवाकेषूपधानमन्त्राः प्रायेणाभिहिताः, अतः- परमिष्टकानां ब्राह्मणमुच्यते। तत्रादौ तावदापो बहुधा प्रशं- स्यन्ते। तत्र प्रथमां प्रशंसामाह। $^{(१)}$“योपां पुष्पं ० य एवं
१३० तैत्तिरीये आरण्यके
-षुमान् भ॑वति । य ए॒वं वेद॑(१) । (२)यो॑ऽपामा॒यत॑नं॒ वेद॑ । आय॑तनवान् भ॑वति । अ॒ग्निर्वा अ॒पामा॒यत॑नं । आय॑- तनवान् भ॑वति । यो॒ऽग्नेरा॒यत॑नं॒ वेद॑ ॥ १ ॥ आय॑तनवान् भ॑वति । आपो॒ वा अ॒ग्नेरा॒यत॑नं । आ- यत॑नवान् भ॑वति । य ए॒वं वेद॑(२) । (३)यो॑ऽपामा॒यत॑नं॒ वेद॑ ।
वेद''(१) इति । अमृतमयं हि चन्द्रमण्डलं । अतो जलका- र्यत्वादपां पुष्पस्थानीयं । एतस्य वेदिता स्वयं भोगार्थचम्पक- बकुलादिपुष्पैः पुत्रादिप्रजया गवादिपशुभिश्च समृद्धो भवति । वेदने प्ररोचनार्थमादौ फलकथनं, उपसंहा- रार्थं पुनःकथनं ॥
अथ द्वितीयां प्रशंसामाह । (२)''योपामायतनं ० य एवं वेद''(२) इति । सृष्टिश्रुतावग्नेराप इति अग्नेर्जलकारणत्वा- भिधानादग्निरपामाश्रयः । अत्रापि प्ररोचनार्थमादौ फलक- थनं । उपसंहारार्थं पुनरप्यायतनवानित्यभिधानं । तत्र य एवं वेदेत्यध्याहरणीयं । महासृष्टावपामग्निकार्यत्वेपि ब्रह्मा- ण्डाद्यवान्तरसृष्टौ आपो वा इदमासन् सलिलमासीदित्यादि- वाक्येनापां सर्वकारणत्वाभिधानाद्ब्रह्माण्डान्तःपातिनोऽस्मद्दृश्य- स्याग्नेर्जलकार्यत्वादपामग्न्याधारत्वं । अत्रापि प्ररोचनार्थमप-
१ प्रपाठके २२ अनुवाकः । १३१
आय॑तनवान् भव॑ति । वायुर्वा॒ अ॒पामाय॑तनं । आ॒य॑तनवान् भव॑ति । यो वा॒योराय॑तनं॒ वेद॑ । आय॑तनवान् भव॑ति ॥ २ ॥
आपो॒ वै वा॒योराय॑तनं । आ॒यत॑नवान् भव॑ति । य ए॒वं वेद॑^{(१)} । ^{(४)}यो॑पामाय॑तनं॒ वेद॑ । आय॑तनवान् भव॑ति । अ॒सौ वै तप॑न्नपामाय॑तनं । आ॒यत॑नवान् भव॑ति । यो॑ऽमुष्य॒ तप॑त आय॑तनं॒ वेद॑ । आय॑तनवान् भव॑ति । आपो॒ वा अ॒मुष्य॒ तप॑त आय॑तनं॑ ॥ ३ ॥
मंहारार्थं द्विःफलकथनं । सेयं जलाग्न्योः परस्पराधारत्वोक्तिः । द्वितीया प्रशंसा । एवमुत्तरत्र द्रष्टव्यं ॥
अथ तृतीयां प्रशंसामाह । ^{(१)}“योपामायतनं वेद ० य एवं वेद”^{(१)} इति । महासृष्टौ वायोरग्निः अग्नेराप इति श्रुतेः । अग्निद्वारा वायोरप्कारणत्वादायतनत्वं, अपां त्वन्तरसृष्टौ पूर्वोक्तन्यायेन वाय्वाधारत्वं । अन्यत् पूर्ववद्व्याख्येयं ॥
अथ चतुर्थीमाह । ^{(४)}“योपामायतनं ० य एवं वेद”^{(४)} इति । योसावादित्यस्तपन्नुपलभ्यते सोयमपामाधारः । आदित्याज्जायते वृष्टिरिति जलकारणत्वस्मृतेः अपाञ्च पूर्ववदादित्याधारत्वं द्रष्टव्यं ॥
४ २
१६२ तैत्तिरीये आरण्यके
आ॒य॒त॒न॒वान् भ॑वति । य ए॒वं वेद॑⁽४⁾ । ⁽५⁾यो॑ऽपा- मा॒यत॑नं॒ वेद॑ । आ॒य॒त॒न॒वान् भ॑वति । च॒न्द्रमा॒ वा अ॒पामाय॑तनं । आ॒य॒त॒न॒वान् भ॑वति । यश्च॒न्द्रम॑स आ॒यत॑नं॒ वेद॑ । आ॒य॒त॒न॒वान् भ॑वति । आपो॒ वै च॒- न्द्रम॑स आ॒यत॑नं । आ॒यत॑नवान् भ॑वति ॥ ४ ॥ य ए॒वं वेद॑⁽५⁾ । ⁽६⁾यो॑ऽपामा॒यत॑नं॒ वेद॑ । आ॒यत॑- नवान् भ॑वति । नक्ष॑त्राणि॒ वा अ॒पामाय॑तनं । आ॒य- त॑नवान् भ॑वति । यो नक्ष॑त्राणामा॒यत॑नं॒ वेद॑ । आ- यत॑नवान् भ॑वति । आपो॒ वै नक्ष॑त्राणामा॒यत॑नं । आ॒यत॑नवान् भ॑वति । य ए॒वं वेद॑⁽६⁾ ॥ ५ ॥
अथ पञ्चमीमाह । ⁽५⁾“योपामायतनं ० य एवं वेद”⁽४⁾ इति । तुहिनरूपाणां किरणानां चन्द्रजन्यत्वाच्चन्द्रमसो जलाधारत्वं ॥
अथ षष्ठीमाह । ⁽६⁾“योपामायतनं वेद ० य एवं वेद”⁽६⁾ इति । पुष्याश्लेषादिषु महानक्षत्रेषु वर्त्तमानेषु वृष्ट्याधिक्य-दर्शनान्नक्षत्राणामबाधारत्वं ॥
अथ सप्तमीमाह । ⁽७⁾योपामायतनं वेद • य एवं वेद”⁽७⁾ इति । पर्जन्याख्यस्य मेघस्य जलाधारत्वं प्रसिद्धं ॥
१ प्रपाठके २२ अनुवाकः । १३३
^{(७)}यो॑ऽपामा॒यत॑नं॒ वेद॑ । आ॒यत॑नवान् भव॑ति । प॒र्जन्यो॒ वा अ॒पामा॒यत॑नं । आ॒यत॑नवान् भव॑ति । यः प॒र्जन्य॑स्या॒यत॑नं॒ वेद॑ । आ॒यत॑नवान् भव॑ति । आपो॒ वै प॒र्जन्य॑स्या॒यत॑नं । आ॒यत॑नवान् भव॑ति । य ए॒वं वेद॑^{(७)} । ^{(८)}यो॑ऽपामा॒यत॑नं॒ वेद॑ ॥ ६ ॥
आ॒यत॑नवान् भव॑ति । सं॒व॒त्स॒रो वा अ॒पामा॒यत॑नं । आ॒यत॑नवान् भव॑ति । यः सं॑वत्स॒रस्या॒यत॑नं॒ वेद॑ । आ॒यत॑नवान् भव॑ति । आपो॒ वै सं॑वत्स॒रस्या॒यत॑नं । आ॒यत॑नवान् भव॑ति । य ए॒वं वेद॑^{(८)} । ^{(९)}योऽप्सु नावं॒ प्रति॑ष्ठितां॒ वेद॑ । प्रत्ये॒व ति॑ष्ठति ॥ ७ ॥
अथाष्टमीमाह। ^{(८)}“योपामायतनं वेद ॰ य एवं वेद”^{(८)} इति। वर्षर्त्तुद्वारा संवत्सरस्य जलाधारत्वं ॥
अथ नवमीमाह। ^{(९)}“योप्सुनावं ॰ तदेषाभ्यनूक्ता”^{(९)} इति। ‘यः’ पुमान्, ‘अप्सु’, ‘प्रतिष्ठितां’ स्थैर्येणावस्थितां, ‘नावं’, ‘वेद’। स स्वयं लोके प्रतिष्ठायुक्तो भवति। कासौ प्रतिष्ठिता नौरिति सेयमुच्यते। ‘इमे वै’ दृश्यमाना एव, भूरादयः ‘लोकाः’, ‘अप्सु’, स्थैर्येणावस्थिताः नौस्थानीयाः। अतः सर्वलोकाधारभूता आप इति वेदनेन प्रतिष्ठिताप्रा-
१३४ तैत्तिरीये आरण्यके
इ॒मे वै लो॒का अ॒प्सु प्रति॑ष्ठिताः। तदे॒षाभ्यनू॑क्ता^(९)। (१०)अ॒पाग्ँ रस॒मुद॑यग्ँसन्। सूर्ये॑ शु॒क्रग्ँ समा॑भृतम्। अ॒पाग्ँ रस॑स्य॒ यो रस॑ः। तं वो॑ गृह्णाम्युत्त॒ममिति॑^(१०)।
प्तिः। नद्यादिषु परतीरगमनाय जनैर्या नौ सम्पाद्यते सा- जले प्रतिष्ठिता न भवति। गमनागमनाभ्याञ्चञ्चलत्वात्। सर्वा लोकमङ्गरूपा तु नौर्न कदाचिदपि चलति किं त्वप्सु स्थैर्येणावतिष्ठते। आवरणसहितं ब्रह्माण्डं घनोदाख्ये महा- जलेऽवतिष्ठत इति हि पौराणिकप्रसिद्धिः। तत् तस्मिन् सर्वजगदाधारभूता आप इत्येवं रूपेऽर्थे काचिदृक् 'अभ्य- नूक्ता', शाखान्तरे समाम्नानात् तामेतामृचद्दर्शयति। "(१०) अपाग्ँ • गृह्णाम्युत्तममिति"(१०) इति। योऽयम् 'अपां', 'रसः' सारः, तं रसमभिलक्ष्य 'उदयन् सन्' सर्वे लोका उद्गताः। तस्मादेव रसादुत्पद्यतेऽस्मिन्नेवावतिष्ठत इत्यर्थः। कीदृशं रसं, 'सूर्ये' आदित्यमण्डले, वृष्टिजननाय 'समा- भृतं' सम्पादितं, अत एव 'शुक्रं' निर्मलं, 'अपां रसस्य' त्रैलोक्यरूपस्योदकसारस्य, तदुत्तमः 'रसः' सोमरूपः, हे आपो युष्मदीयं 'तं' 'उत्तमं', रसं, 'गृह्णामि' तेषु तेषु स्वीकरोमि, 'इति'शब्दो मन्त्रसमाप्त्यर्थः, अनेन मन्त्रेण का- चिदिष्टकोपधेया॥
१ प्रपाठके २२ अनुवाकः। १५५
(११)इ॒मे वै लो॒का अ॒पाꣳ रस॑:। ते॑ऽमु॒ष्मिन्ना॑दि॒त्ये समा॑- भृताः(११)। (१२)जा॒नु॒द॒घ्नीमु॑त्तरवे॒दीं खा॒त्वा आप॑ पू॒र- यि॒त्वा गु॑ल्फद॒घ्नं ॥ ८ ॥ पुष्करपर्णैः पुष्करदण्डैः पुष्करैश्च सꣳस्तीर्य॑। तस्मि॑न्
तथाच बौधायन आह। अपाꣳरसमित्येकेतिमन्त्रस्य ता- त्पर्यं दर्शयति। “(११)इमे वै लोकाः ० समाभृताः”(११) इति। य एते पृथिव्यादयः 'लोकाः', ते सर्वेऽपि 'अपां', मध्ये सारभूताः सर्व्वलोकगर्भिताः। ब्रह्माण्डगोलकरूपा पृथिवी क्षीरमध्ये म- ण्डमिव जलमध्ये घनीभूता। तथाच वाजसनेयिन आमनन्ति। यदपां शर आसीत्तत्समहन्यत सा पृथिव्यभवदिति। 'ते' च उदकसारभूता लोकाः 'अमुष्मिन्' दृश्यमान आदित्यमण्डले 'समाभृताः' सम्यगाश्रिताः। आदित्यस्य वृष्टिद्वारेण सर्व्वलोक- स्थितिहेतुत्वात्। तदेवं योऽपां पुष्पमित्यारभ्यामुष्मिन्नादित्ये समाभृता इत्यन्तेन ग्रन्थेनेष्टकोपधानार्थमपां बहुधा प्रशंसा कृता॥
अथ प्रयोगं विधत्ते। “(१२)जानुदघ्नीमुत्तरवेदीं ० समा- धाय”(१२) इति। तत्र सावित्रचयनवद्रथचक्रं परिलिख्य तत्र जानुप्रमाणाम् 'उत्तरवेदीं खात्वा', तां खातामुत्तरवेदीं 'गुल्फदघ्नं', यथा भवति तथा जलैः पूरयित्वा तज्जलमादौ
१३६ तैत्तिरीये आरण्यके
वि॒हाय॑से । अ॒ग्निं प्र॒णीयो॑पसमा॒धाय॑^(१९) । ^{(१९)}ब्र॒ह्म- वा॒दिनो॑ वदन्ति । कस्मा॑त् प्र॒णीतेय॒मग्निश्ची॑यतै ।
पद्मपत्रैः सञ्छाद्य तत उपरि पत्ररहितैः केवलैः पद्मदण्डैः सञ्छाद्य ततोऽप्युपरि मूलदण्डपत्रसहितैः कृत्स्नैः पद्मैः सञ्छाद्य ‘तस्मिन् विहायसे’, तत् तस्यापि तस्य मञ्चकस्य उपरिकर्मानुगुणमग्नेः प्रणयनं कृत्वा तञ्च ‘अग्निमुपसमाधाय’, तस्याग्नेः परित इष्टका उपदध्यादिति वक्ष्यमाणेनान्वयः ॥
अथाक्षेपसमाधानाभ्यां तमिमं प्रयोगं समर्थयते । “(१९)ब्रह्मवादिनो ०उपदधाति”(१९) इति । अग्न्यन्तरेभ्योऽस्य वैलक्षण्यं दर्शयितुं ‘ब्रह्मवादिनः’,अत्र पर्यनुयोगमाङः । इतरत्र हि चयने सम्पूर्णा सति पश्चादग्निः प्रणीयते, अत्र तु कस्मात् कारणात् मञ्चकस्योपरि वह्नौ प्रणीते सति पश्चादिष्टकाभिः‘अयम्’ आरुणकेतुकः, ‘अग्निश्चीयते’ । मञ्चकन्तु बौधायने दर्शितम् । दीर्घदा जतिर्मञ्चं कृत्वा पृष्टो दिवोति पुरीषव्यूहनमिति । अतोऽस्य मञ्चकस्योपर्याकाशेऽग्निप्रणयनादूर्द्धं पुनरिष्टकोपधानमितरचयनावैलक्षण्यादयुक्तमिति ब्रह्मवादिनामाक्षेपाभिप्रायः। तस्याक्षेपस्योत्तरं साप्रणीत इत्यादिनाच्यते । अद्भिः सह वर्त्तत इति सापः यस्मादयं जलसहितस्तस्मादयमिष्टकाचयनरूपोऽग्निरङ्गाररूपे वह्नौ प्रणीते सति पश्चाच्चेतव्यः अप्सु ह्ययं चीयत इत्यनेन जलसहितत्वमेव स्पष्टीक्रियते । आदावुत्तरवेद्यामद्भिः
१ प्रपाठके २२ अनुवाकः। १३७
सा प्र॑णीतेय॒मप्सु॒ ह्ययं चीयतै॑ । अ॒सौ भुव॑ने॒ऽप्यना॑-
हिताग्निरेताः । तम॒भित॑ एता अ॒बीष्ट॑का उप॑दधा-
ति^{(१३)} । ^{(१४)}अ॒ग्निहो॒त्रे दर्श॑पूर्णमा॒सयो॑: । प॒शु॒ब॒न्धे चा॑-
तुर्मा॒स्येषु॑ ॥ ६ ॥
अथो॑ आहुः । सर्वे॑षु यज्ञक्र॒तुषि॒ति^{(१४)} ।
पूरणं, ततः पुष्करपर्णादिसञ्च्छादनं, ततो मञ्चकस्योपरि वह्निप्रणयनं, एवं सत्यस्त्वेवायं प्रणीतो भवति। इतरस्त्वग्निर्नाप्सु प्रणीयते, तस्मादितरवैलक्षण्यात् प्रणयनादूर्द्धमबीष्टकोपधानं कर्त्तव्यं। पश्चात् प्रणिधानाभावे सति 'असौ' अग्निः, परितो रक्षकाभावेन 'भुवने' देवयजनाद्बहिर्भूते लोके, 'अपि', गत्वा 'अनाहिताग्निः', सन्नेवागमिष्यति। इतराग्नयो जलभयाभावाद्देवयजन एव तिष्ठन्ति, अयन्तु जलाद्भीतः सन् बहिरपि गमिष्यति । 'एताः' इति शब्दः उल्लङ्घ्य गमिष्यतीत्यस्मिन्नर्थे वर्त्तते। अतो बहिर्गमनं माभूदित्येवमर्थं 'तं' प्रणीतमग्निम्, 'अभितः' सर्वतः, रक्षार्थम् 'एता अबीष्टकाः', उपदध्यात्। तदेवमाक्षेपसमाधानाभ्यामग्निं प्रणीयोपसमाधाय तमभित एता अबीष्टका उपदधातीत्ययमर्थ उपपादितः ॥
अथायमारुणकेतुकोऽग्निः कस्मिन् कर्म्मण्यङ्गभूत इत्याकाङ्क्षायामङ्गीनि कर्माणि दर्शयति। "^{(१४)}अग्निहोत्रे ० क्रतुष्विति"^{(१४)} इति। अग्निहोत्रादिविषयत्वेन सङ्कोचो माभूदिति सोमयागविषयत्वमप्यभिप्रेत्य पक्षान्तरोपन्यासः ॥
१३८ तैत्तिरीये आरण्यके
(१४)एतद्ध॑ स्म॒ वा आ॑हुः शाण्डि॒लाः । कम॒ग्निं चि॑नुते । स॒त्रिय॑म॒ग्निं चि॑न्वा॒नः । सं॑वत्स॒रं प्र॒त्यक्षे॑ण(१५) । (१६)कम॒ग्निं चि॑नुते । सा॒वि॒त्रम॒ग्निं चि॑न्वा॒नः । अ॒मुमा॑दि॒त्यं प्र॒त्यक्षे॑ण(१६) । (१७)कम॒ग्निं चि॑नुते ॥ १० ॥ ना॒चि॒के॒तम॒ग्निं चि॑न्वा॒नः । प्रा॒णान् प्र॒त्यक्षे॑ण(१७) ।
अथ प्रश्नोत्तरपर्यायैः सप्तभिरारुणकेतुकस्याग्नेरधिकफलत्वं वक्तुं प्रथमं प्रश्नोत्तरपर्यायं दर्शयति । (१४)एतद्ध स्म ० प्रत्यक्षेण(१५) इति । शाण्डिलो नाम कश्चिन्महर्षिः तस्य वंशे समुत्पन्नाः सर्वे ‘शाण्डिलाः’, ते वै तदारुणकेतुकफलं निश्चितुं परस्परमेवं ‘आहुः’, ‘ह स्म वै’ इति निपातत्रयस्याप्येक एवार्थः । तत्र कैश्चिदेवं पृच्छयते । ‘सत्रियं’ सत्रे भवमग्निं, यः ‘चिनुते’, सोऽयं ‘कमग्निं’ किम्फलमग्निं, ‘चिनुते’, इति । तत्राभिज्ञैरुत्तरमुच्यते । ‘प्रत्यक्षेण’ मुख्यया वृत्त्या, ‘संवत्सरं’ संवत्सरप्राप्तिफलकमग्निं, चिनुत इत्युत्तरं ॥
अथ द्वितीयं पर्यायं दर्शयति । (१६)“कमग्निं ० अमुमादित्यं प्रत्यक्षेण”(१६) इति । अनुपचारेणादित्यप्राप्तिफलकः ‘सावित्रोऽग्निः’ ॥
तृतीयं पर्यायं दर्शयति । (१७)“कमग्निं चिनुते ० प्राणान् प्रत्यक्षेण”(१७) इति । यथा सावित्रस्यादित्यरूपत्वम् एष वाव सावित्रो य एष तपति इति श्रुत्या अवगतं । एवम्, अयं वायवः पवते, सोऽग्निर्नाचिकेत इति श्रुत्या नाचिकेतस्य वायुरूपत्वावगमात् तच्चयनेन वायुरूपप्राणप्राप्तिः ॥
१ प्रपाठके २२ अनुवाकः । १३६
(१८)कम॒ग्निं चि॑नुते । चा॒तुर्होत्रि॒यम॒ग्निं चि॑न्वा॒नः ।
ब्रह्म॑ प्रत्य॒क्षेण॑(१८) । (१९)कम॒ग्निं चि॑नुते । वै॒श्व॒सृ॒जम॒ग्निं
चि॑न्वा॒नः । शरी॑रं प्रत्य॒क्षेण॑(१९) । (२०)कम॒ग्निं चि॑नुते ।
उपा॒नुवा॒क्य॑मा॒शुम॒ग्निं चि॑न्वा॒नः ॥ ११ ॥
इ॒मान् लो॒कान् प्रत्य॒क्षेण॑(२०) । (२१)कम॒ग्निं चि॑नुते ।
इ॒मम॑रु॒णके॑तुकम॒ग्निं चि॑न्वा॒न इति॑ । य ए॒वासौ ।
चतुर्थं पर्यायं दर्शयति । (१८)“कमग्निं ० ब्रह्म प्रत्यक्षेण”(१८)
इति । ब्रह्म वै चतुर्होतार इत्युक्तत्वाद्व्रह्मप्राप्तिः । ‘ब्रह्म’शब्देन
वेदपुरुष उच्यते ॥
पञ्चमं पर्यायं दर्शयति । (१९)कमग्निं ० शरीरं प्रत्य-
क्षेण”(१९) इति । ‘शरीरं’ हिरण्यगर्भस्य देहं ॥
षष्ठं पर्यायं दर्शयति। (२०)“कमग्निं ० लोकान् प्रत्यक्षेण”(२०)
इति । यदेकेन संस्थापयतीत्यादिकं, उपानुवाक्यं काण्डं, तत्र
प्रोक्तोऽग्निरपि ‘उपानुवाक्यः’, स च ‘आशुः’ शीघ्रं, महानि-
त्यर्थः । अतएव तच्चयनेन सर्वलोकप्राप्तिः ॥
सप्तमं पर्यायं दर्शयति । (२१)“कमग्निं ० तमिति”(२१)
इति । इमञ्च लोकं व्यतीत्यातिक्रम्य स्थित्वा यो न गच्छति
सोऽयं ‘व्यतीपातो’ सूर्यः, ‘तं’ सूर्य, प्राप्नोति । आद्येतिशब्दः,
प्रश्नसमाप्त्यर्थः, द्वितीय उत्तरसमाप्त्यर्थः ॥
т २
१४० तैत्तिरीये आरण्यके
इ॒तश्चा॒मुत॑श्चाव्यतीपा॒ती । तम॑िति॑⁽२१⁾ । ⁽२२⁾योऽग्नि॑र्मि- थू॒या वे॑द॑ । मि॒थु॒न॒वान् भ॑वति । आपो॒ वा अ॒ग्नेर्मि॑- थू॒याः । मि॒थु॒न॒वान् भ॑वति ॥ य ए॒वं वेद॑⁽२२⁾ ॥ १२ ॥
वेद॑, भवति, आ॒यत॑नम्, आ॒यत॑नवान् भवति, वेद॑, वेद॑, प्रत्ये॒व ति॑ष्ठति, गु॒ल्फद॒घ्नं, चा॒तुर्मा॒स्येष्व॒मुमा॑दि॒त्यं प्र॒त्यक्षे॑ण कम॒ग्निं चि॑नुते, उ॒पानुवा॒क्य॑मा॒शुम॒ग्निं चि॑न्वा- नः, मि॒थु॒न॒वान् भ॑व॒ति, एकं॑च ॥ अनु० २२ ॥
पुष्पं॑, अ॒ग्निः, वायुः॑, असौ वै तप॑न्, च॒न्द्रमा॑, नक्ष॑- त्राणि, प॒र्जन्यः॑, संवत्सरः॑, तिष्ठ॑ति, स॒चिय॒ग्ँ, सं॑वत्स॒रग्ँ, सा॒वि॒त्रम्, अ॒मुम्, ना॑चि॒के॒तं, प्रा॒णान्, चा॒तुर्हो॑चि॒यं, ब्रह्म॑, वै॒श्वसृ॒जग्ँ, शरी॑रम्, उ॒पानुवा॒क्य॑मा॒शुम्, इ॒मान्, लो॒कान्, इ॒ममा॑रु॒णके॑तु॒कं, य ए॒वासौ॑, ॥
आरुणकेतुकाग्नेरपाञ्च सम्बन्ध रूपो यो मिथुनीभावः त- द्वेदनं प्रशंसति । ⁽२२⁾"योऽग्निर्मिथूया ० य एवं वेद"⁽२२⁾ इति । 'मिथूयाः' 'मिथुनगमनाः, 'मिथुनवान्' मिथुनशक्तिमान्, वेदनफलस्य पुनर्वचनमुपसंहारार्थं ॥
इति सायनाचार्यविरचिते माधवीये वेदार्थप्रकाशे यजुगा- रण्यके प्रथमप्रपाठके द्वाविंशोऽनुवाकः ॥ २२ ॥
१ प्रपाठके २३ अनुवाकः १४१
अथ त्रयोविंशोऽनुवाकः ।
(१)आपो॒ वा इ॒दमा॑सन्सलि॒लमे॒व । स प्र॒जाप॑ति- रेकः॑ पुष्करप॒र्णे सम॑भवत् । तस्यान्तर्मन॑सि॒ कामः॑ सम॑वर्तत । इ॒दं सृ॑जेय॒मिति॑ । तस्मा॒द्यत् पुरु॑षो॒ म- न॑सा॒भिगच्छ॑ति । तद्वा॒चा व॑दति । तत् कर्म॑णा करो-
अथ त्रयोविंशोऽनुवाकः ।
अथास्मिन्ननुवाके सृष्ट्युपन्यासमुखेनारुणकेतुकमग्निं तद- ङ्गभूता अपश्च प्रशंसति । तत्र सृष्ट्यादौ कामोत्पत्तिं दर्शयति । (१)"आपो वा ० तदेषाभ्यनूक्ता"(१) इति । यत् 'इदं' जगत्, इदानीमस्माभिर्दृश्यते तत् 'इदम्', उत्पत्तेः पूर्वम् 'आपः', एव 'सन्', न तु देवतिर्यङ्मनुष्यादिकं किञ्चिदपि भौतिकमा- सीत् । पृथिव्यादिभूतान्तरमपि वारयितुं 'सलिलमेव', इत्यु- च्यते । तास्वप्सु मध्ये कस्मिंश्चित् 'पुष्करपर्णे', जगदीश्वरः 'स प्रजापतिः', 'समभवत्' सम्यगाविर्भूयावस्थितः, 'तस्य' प्रजा- पतेः, मनोमध्ये सर्वम् 'इदं' जगत्, 'सृजेयम्', इत्येवं 'कामः', उदपद्यत । यस्मात् प्रजापतेर्वाक्शरीरप्रवृत्तिभ्यां पूर्वं सर्व- प्रवृत्तिहेतुः कामो मनस्याविरभूत् । 'तस्मात्', प्रजापति सन्ततावुत्पन्नः सर्वः 'पुरुषः', इदं कार्यं करिष्यामीत्यादौ 'मनसा', चिन्तयति, 'तत्' तथैव, 'वाचा वदति', 'कर्मणा'
| १६२ | तैत्तिरीये आरण्यके |
|---|
ति। तदे॒षाभ्यनू॑क्ता^(१)। ^(२)काम॒स्तदग्रे॒ सम॑वर्त॒ताधि॑। मन॑सो॒ रेतः॑ प्रथ॒मं यदासी॑त् ॥ १ ॥
स॒तो बन्धु॒मस॑ति॒ निर॑विन्दन्। हृ॒दि प्र॒तीष्या॑ क॒वयॊ॑ मनी॒षेति॑^(२)। ^(३)उपै॑नं तदुप॑नमति। यत्का॑मो
शरीरव्यापारेणापि, तथैव 'करोति', 'तत्' तस्मिन् कामस्य प्रथमोत्पत्तिलक्षणेऽर्थे, काचिदृक् शाखान्तरे 'अभ्यनूक्ता' ॥
तामेतामृचं दर्शयति। (१)“कामस्तदग्रे ० कवयो मनोषेति”(१) इति। 'तत्' तदानीं सृष्टिकाले, प्रजापतेः सकाशात् 'अग्रे' प्रथमं, 'कामः' सर्वं सृजेयमित्यभिलाषः, 'अधिसमवर्त्तत' आधिक्येन सम्यगुत्पन्नः, 'यत्' यदा, 'मनसः प्रथमं, 'रेतः' कार्यम्, 'आसीत्'। तदिति पूर्वत्रान्वयः। पूर्वसृष्टौ लीनायामव्यक्ते जगत्कारणे सृज्यमाणप्राणिकर्मोद्भवे सति यदा प्रजापतेर्मानसं प्रथमं कार्यमुत्पन्नं तदा तत्कार्यं सृष्टिविषयेच्छारूपेण निष्पन्नमित्यर्थः ॥ 'मनीषाः' मनस ईशितारः, 'कवयः' विद्वांसः, तत्तत्सृष्टिगताः प्रजापतयः, 'हृदि' स्वचित्ते, 'प्रतीष्य' प्रत्येकं निश्चित्य, 'सतः' विद्यमानस्य व्यक्तस्य जगतः, 'बन्धुं' बन्धकमुत्पत्तिहेतुं कामं, 'असति' अव्यक्ते कारणे, 'निरविन्दन्' निष्कृष्य लब्धवन्तः, न केवलमेतस्यामेव सृष्टौ किन्तु सर्वास्वपि सृष्टिषु प्रवृत्ताः प्रजापतयः काममेव प्रथमं लभन्त इत्यर्थः ।
१ प्रपाठके २३ अनुवाकः । १४३
भव॑ति । य ए॒वं वेद॑^(३) । ^{(४)}स तपो॑ऽतप्यत । स तप॑- स्त॒प्त्वा । शरी॑रम॒धूनुत । तस्य॒ यन्मा॒ꣳसमासी॑त् । ततो॑- ऽरुणाः के॒तवो॒ वात॑रश॒ना ऋष॑य॒ उद॑तिष्ठन् ॥ २ ॥ ये नखा॑: । ते वै॑खान॒साः । ये बाला॑: । ते बा॑लखि-
'इति'शब्दो मन्त्रसमाप्तौ । अनेन मन्त्रेणैकामष्टिकामुपदध्यात् ॥ तथा च बौधायन आह । 'कामरुदय इति सङ्कल्पवती- मिति' ॥
यथोक्तकाममाहात्म्यवेदनं प्रशंसति । ^{(३)}"उपेनं ० य एवं वेद"^{(३)} इति । 'यः' पुमान्, काममाहात्म्यं 'वेद', स पुमान् 'यत्कामः' यद्विषयकामनावान्, 'भवति', 'तत्' वस्तु, 'एनं' वेदितारम्, 'उपनमति' प्राप्नोति । देशकालयोः सामीप्यविवक्षया द्वावुपशब्दावुक्तौ ॥
कामानन्तरभाविनीं सृष्टिं दर्शयति । ^{(४)}"स तपोऽतप्यत ० सोऽपाम्"^{(४)} इति । 'सः' प्रजापतिः, सृष्टिं कामयित्वा 'तपः', कृतवान् । नात्र तप उपवासादिरूपं, किन्तु स्रष्टव्यं वस्तु कीदृशमिति पर्यालोचनरूपं । अतएवाथर्वणिका आमनन्ति । 'यः सर्वज्ञः सर्वविद्यस्य ज्ञानमयं तपः' इति । 'सः' प्रजापतिः, 'तपः' पर्यालोचनरूपं, कृत्वा स्रष्टव्यविशेषं निश्चित्य, स्वकीयं 'शरीरं', 'अधूनुत' कम्पितवान् । 'तस्य' कम्पनस्य शरीरस्य, 'यन्मांसं', अस्ति, तस्मान्मांसादरुणादिनामकास्त्रिविधाः 'ऋष-
१६४ तैत्तिरीये आरण्यके
ल्याः । यो रस॑ः । सोऽपां॑^(४) । ^(५)अ॒न्तरतः॑ कू॒र्मं भू॒तꣳ सर्प॑न्तं । तम॑ब्रवीत् । मम॒ वै त्वङ्माꣳसा॑ । सम॑भूत् ॥ ३ ॥
नेत्य॑ब्रवीत् । पूर्व॑मे॒वाहमि॒हास॒मिति॑ । तत् पुरु॑षस्य पुरु॑ष॒त्वं । स स॒हस्र॑शीर्षा॒ पुरु॑षः । स॒ह॒स्रा॒क्षः स॒हस्र॑पात् । भू॒त्वोद॑तिष्ठत् । तम॑ब्रवीत् । त्वं वै पूर्व॒ꣳ सम॑भूत् । त्वमि॒दं पूर्व॑ः कु॒रुष्वेति॑^(५) । ^(६)स इ॒त आ॒दायापः॑ ॥ ४ ॥
यः', उदपद्यन्त । प्रजापतेः सत्यसङ्कल्पत्वात् तत्सङ्कल्पानुसारेण तत्तद्वस्त्वपद्यते । तस्य शरीरस्य 'ये नखाः', आसन् 'ते', वैखानसनामका मुनयोऽभवन् । 'ये', च शरीरे 'बालाः' केशाः, 'ते', बालखिल्यनामका मुनयोऽभवन् । 'यः' शरीरस्य 'रसः' सारांशः, 'सोऽपां', मध्ये कश्चित् कूर्मोऽभूदिति शेषः ॥
तेन कूर्मेण सह प्रजापतेः संवादं दर्शयति । ^(५)"अन्तरतः • पूर्वः कुरुष्वेति"^(५) इति । 'अन्तरतः' जलस्य मध्ये, कूर्माकारेण निष्पन्नं तत्रैव सञ्चरन्तं 'तं' पुरुषं, स प्रजापतिः 'अब्रवीत्' । हे कूर्म 'मम वै', 'त्वङ्माꣳसा', त्वचो मांसस्य च सम्बन्धिनो रसात् 'समभूत्' । त्वं समुत्पन्नोऽसीति तदा स कूर्मो 'नेत्यब्रवीत्' यत् त्वयोक्तं तन्न त्वदीयशरीररसान्नाहमुत्पन्नः, किन्तु कूर्माकारं शरीरमेव निष्पन्नं, अहं तु सर्वगतनित्यचैतन्यस्वरूपत्वात् 'पूर्व-
१ प्रपाठके २३ अनुवाकः । १३५
अ॒ञ्जलि॑ना पुर॒स्तादुपा॑दधात् । ए॒वाह्येवेति॑ । ततो॑ आ॒दि॒त्य उद॑तिष्ठत् । सा प्राची॒ दिक्^{(६)} । ^{(७)}अथा॑रु॒णः के॒तुर्द॑क्षिण॒त उपा॑दधात् । ए॒वा ह्य॒ग्न इति॑ । ततो॒ वा
मेवाहर्मास्मंस्थाने स्थितोऽस्मि इत्येतत् कूर्मस्य वचनं । यस्मात् पूर्व- मासमित्युवाच तस्मात् ‘पुरुषः’, इति परमात्मनो नाम सम्पन्नम् । एवमुक्त्वा ‘सः’ कूर्मशरीरवर्त्ती परमात्मा, स्वसामर्थ्यप्रकट- नाय विराड्रूपं कृत्वा सहस्रसङ्ख्यकैः शिरोभिरक्षभिः पादैश्च युक्तो ‘भूत्वा’, प्रादुरभूत् । तदानीं प्रजापतिः ‘तं’ विराड्रूपं, दृष्ट्वा तत्रत्यं परमात्मानमेवम् ‘अब्रवीत्’, भोः परमात्मन् मच्छरीरात् ‘पूर्वं’, ‘त्वं’, एव सर्वदा विद्यमानः अतोमत्तः पूर्वभावी सन् ‘त्वं’, एव ‘इदं’ सर्वं जगत्, ‘कुरुष्व’ ॥
इति तेन प्रजापतिनैवमुक्तस्य परमेश्वरस्य सृष्टिप्रकारं दर्शयति । ^{(६)}“स इत ० प्राची दिक्”^{(६)} इति । ‘सः’ पर- मेश्वरः, स्वयमारुणकेतुरूपः सन् ‘इतः’ सृष्टेरपि पूर्वसि- द्धात् सलिलमेवासीदित्युक्तात् महाजलात्, कियतोः ‘अपः’, स्वकीयेन ‘अञ्जलिना’, ‘समादाय’, पूर्वस्यां दिशि तामब्बोष्टका- मुपधत्तवान् । केन मन्त्रेण ‘एवाह्येवेति’, अनेन मन्त्रेण । तस्य मन्त्रस्यादित्यपरत्वं पूर्वमेव दर्शितं । ‘ततः’ समन्त्रकोपधानात्, ‘आदित्यः’, उत्पन्नः । स यस्यां दिश्युत्पन्नः ‘सा प्राची दिक्’, अभूत् ॥
अनेन प्रकारेण क्रमात् सर्वदिगुत्पत्तिं दर्शयति । ^{(७)}“अ-
| १९६ | तैत्तिरीये आरण्यके |
|---|
अ॒ग्निरुद॑तिष्ठत् । सा दक्षि॑णा दि॑क् । अथा॑रु॒णः के॒तुः प॒श्चादुपा॑दधात् । ए॒वा हि वा॒यो इति॑ ॥ ५ ॥
ततो॑ वा॒युरुद॑तिष्ठत् । सा प्र॒तीची दि॑क् । अथा॑- रु॒णः के॒तुरु॑त्त॒रत उपा॑दधात् । ए॒वा हीन्द्रेति॑ । ततो॒ वा इन्द्र॒ उद॑तिष्ठत् । सोदी॑ची दि॑क् । अथा॑रु॒णः के॒तु- र्मध्ये॒ उपा॑दधात् । ए॒वा हि पू॒ष॒न्निति॑ । ततो॒ वै पू॒षो- द॑तिष्ठत् । सेयं दि॑क् ॥ ६ ॥
अथा॑रु॒णः के॒तुरु॒परि॑ष्टादुपा॑दधात् । ए॒वा हि दे॒वा इति॑ । ततो॑ दे॒वम॒नुष्याः॑ पि॒तरः॑ । ग॒न्ध॒र्वाप्स॒रस॒श्चोद॑- तिष्ठन् । सोर्ध्वा दि॑क्^(७) । ^(८)या वि॒प्रुषो॒ वि प॑रा॒पत॑न् । ताभ्योऽसु॑रा॒ रक्षां॑सि पिशा॒चाश्चोद॑तिष्ठन् । तस्मा॑त्
थारुणः • सोर्ध्वा दिक्”(७) इति । एतेषु मन्त्रेषु ‘एवाः’ एतव्याः प्राप्तव्या कामाः । ‘हि’शब्दः प्रसिद्धौ । सर्वेषां देवानां कामप्रदत्वेन तत्कामरूपत्वं प्रसिद्धमिति पूर्वं व्याख्यातम् । ‘एवा हि’ इतिशब्दः आगच्छ इत्येतस्मिन्नर्थे वा व्याख्येयः । ‘सेयम्’ इति अधोदिगुच्यते । अन्यत् पूर्ववद्व्याख्येयं ॥
देवसृष्टिमभिधायासुरसृष्टिं दर्शयति । ^(८)“या विप्रुषो • समभवन्”^(८) इति । अञ्जलिनोपधीयमानानामपां सम्बन्धिन्यः ‘याः’ ‘विप्रुषः’ विन्दवः, विविधा भूत्वा तस्मात्
१ प्रपाठके २३ अनुवादः। १४७
ते परा॑भवन् । वि॒प्रुड्भ्यो॒ हि ते सम॑भवन् ^{(८)} । ^{(९)}तदे॒- षाऽभ्यनू॑क्ता ^{(९)} ॥ ७ ॥
^{(१०)}आपो॑ ह॒ यद्बृ॑ह॒तीर्गर्भ॒माय॑न् । दक्षं॒ दधा॑ना ज॒- नय॑न्तीः स्वय॒म्भुम् । तत॑ इ॒मेऽध्यसृ॑ज्यन्त॒ सर्गाः॑ । अ॒ङ्गो
उपधानप्रदेशात् बहिः 'परापतन्'। 'ताभ्यः' विप्रुड्भ्यः, असु- रादय उत्पन्नाः। ते चावान्तरजातिभेदात्त्रिविधाः। यस्मात् 'ते', पराभवन्तीभ्यः 'विप्रुड्भ्यः', उत्पन्नाः, 'तस्मात्', पराभूताः। अधमाः सन्तो विनष्टा इत्यर्थः ॥
अपां सकाशादियं सृष्टिः प्रपञ्चिता, तस्याः सङ्ग्रहरूपामृ- चमवतारयति । ^{(९)}“तदेषाऽभ्यनूक्ता”^{(९)} इति । 'तत्' तस्मिन्, अङ्ग्यः सर्वं समुत्पन्नमित्यस्मिन्नर्थे, काचिदियं ऋक् शाखान्तरे 'अभ्यनूक्ता' ॥
तामेतामृचं दर्शयति । ^{(१०)}“आपो ह यद्बृहतीर्गर्भमायन् • स्वयम्भ्विति”^{(१०)} इति । अत्राङ्गो वा इति वाक्यं ब्राह्मण- रूपमपि तृतीयपादतात्पर्यप्रदर्शनार्थं मन्त्रमध्ये समाम्नातं । 'बृ- हतीः' प्रौढाः, 'आपः', यं 'गर्भं' जायद्रूपम्, 'आयन्' प्राप्तवत्यः । कीदृश्य आपः, 'दक्षं' वृद्धिशीलं गर्भं, 'दधानाः' धारयन्त्यः, 'स्वयम्भुं' कूर्मरूपं परमात्मानं, 'जनयन्तीः' जनयितुकामाः, 'ततः' तस्माद्विराड्रूपात् अपां गर्भात्, 'इमे' भूरादयः सर्गाः सृज्यमाना लोकाः, 'अध्यसृज्यन्त', सृष्ट्यर्हानेतान् सृष्टवानि- त्यर्थः । 'अङ्ग्यः', एवेदं सर्वं जगदुत्पन्नमिति कृत्वा पादत्रये-
U 2
१४८ तैत्तिरीये आरण्यके
वा इ॒दꣳ सम॑भूत् । तस्मा॑दि॒दꣳ सर्वं॒ ब्रह्म॑ स्वय॒म्भ्वि- ति॑^(१०) । ^(११)तस्मा॑दि॒दꣳ सर्व॒ꣳ॒ शिथि॑लमिवा॒ध्रुव॑मिवा- भवत्^(११) । ^(१२)प्र॒जाप॑तिर्वाव तत् । आ॒त्मना॒त्मानं॑ वि-
णोक्तोऽर्थो युक्त एव । यस्मात् कारणात् कूर्मरूपं ब्रह्मैव सर्वं सृष्टवान् 'तस्मात्' कारणात्, 'इदं सर्वं' जगत्, 'स्वयम्भू' स्वतःसिद्धं, 'ब्रह्म', एव 'इति' अनेन मन्त्रेण, एकादिष्टकामुपद- ध्यात् । तथाच बौधायन आह । आपो ह यदित्यौघवती- मिति ॥
कार्यत्वं जगतो युक्त्योपपादयति । ^(११)“तस्मादिदꣳ • मि- वाभवत्”^(११) इति । यस्माच्छिथिलाभ्योऽद्भ्यो जातं, आपो हि शिथिलाः न तु पाषाणवद्दृढाः, 'तस्मात्' कारणात्, 'इदं सर्वं' जगत्, 'शिथिलमिव', दृश्यते । तस्यैव व्याख्यानम् 'अध्रु- वमिव', इति । अनित्यत्वम् अध्रुवत्वं ॥
अथास्य जगतो दार्ढ्योपायं दर्शयति । ^(१२)“प्रजापतिर्वाव • तदेवानुप्राविशत्”^(१२) इति । केवलकार्यत्वं समुत्पन्नं शिथिलं भवत् न तु तदस्ति । किन्तु 'तत्' जगत्, 'प्रजापतिः', एव । यथा घटे मृदंशः पृथुबुध्नोदराकारांशश्चेत्यंशद्वयं, एवं जग- त्यपि सच्चिदानन्दरूपप्रजापत्यांशोनामरूपांशश्चेत्यंशद्वयं, तत्र नामरूपयोर्कार्यत्वेन शैथिल्येऽपि सच्चिदानन्दप्रजापत्यंशस्य दार्ढ्यमस्ति । स हि प्रजापतिः, 'आत्मना' साधनान्तरनिरपेक्षेण