भारतकोश
संग्रह पर लौटें

तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)

Taittiriya Aranyaka Hindi

महर्षि वैशम्पायन द्वारा

स्रोत: Taittiriya Aranyaka with Sayana Bhashya and Hindi Translation (उद्गम)

DevanagariHindipublished940 पृष्ठ

३ प्रपाठके १० अनुवाकः। ३०१

उ॒त्ता॒नाया॑ङ्गीर॒सायान॑:। वै॒श्वा॒न॒राय॒ रथ॑म्^(१)। ^(२)वै॒श्वा॒न॒रः प्र॒त्नथा॒ नाक॑मारुहत्। दि॒वः पृ॒ष्ठं भन्द॑मानः सु॒मन्म॑भिः। स पूर्व॑वज्जनय॑ञ्ज॒न्तवे॒ धन॑म्। स॒मानम॑ज्मा परि॑याति जागृ॑विः^(२)। ^(३)राज्ञा॑ त्वा वरु॑णो नयतु देवि॒ दक्षि॑णे वैश्वान॒राय॒ रथ॑म्। तेना॑मृ॒तत्वम॑श्याम्। वयो॑ दा॒त्रे। मयो॒मह्य॑मस्तु प्रतिग्रही॒त्रे॥ क इ॒दं कस्मा॑

तस्य रथप्रतिग्रहमन्त्रस्य शेषभूतामुत्तरानुषङ्गात् पूर्वभाविनीं काञ्चिदृचमाह। ^(२)“वैश्वानरः०परियाति जागृविः”^(२) इति। वैश्वानराख्यो देवः। ‘प्रत्नथा’ पुरातनशरीरधारी सन्, स्वर्गमारूढवान्। स च ‘दिवः पृष्ठं’ द्युलोकस्योपरिभागं, ‘मन्मभिः’ मननविशेषैः, ‘भन्दमानः’ कल्याणं कुर्वन्वर्त्तते, अयं यजमानः इमां दक्षिणां दत्तवान् इत्येवं वदन् देवानामग्रे स्मारयतीत्यर्थः। ‘सः’ वैश्वानरः, ‘जन्तवे’ प्राणिरूपाय यजमानाय, ‘धनं’, पूर्ववत् ‘जनयत्’ यजमानः पूर्वं यथा दक्षिणां दत्तवान् तथैव तदनुरूपं फलं जनयति। स वैश्वानरः ‘जागृविः’ सावधानः सन्, ‘अज्मा’ स्वर्गगमनशीलः, ‘समानं’, ‘परियाति’ यावद्दक्षिणार्थं द्रव्यन्तेन सदृशं तत् योग्यं फलं परिप्रापयति॥

अस्या ऋच उपरितनं रथप्रतिग्रहमन्त्रशेषमाह। ^(३)“रा-

३०२ तैत्तिरीये आरण्यके

अदा॒त् । कामः॒ कामा॑य । कामो॑ दा॒ता । कामः॒ प्रति॑ग्रही॒ता । काम॒ꣳ॒ समु॒द्रमावि॑श । कामेन॑ त्वा॒ प्रति॑- गृह्णामि । कामै॒तत् ते॑ । ए॒षा ते॑ काम॒ दक्षि॑णा । उत्ता॒- नस्त्वाङ्गीर॒सः प्रति॑गृह्णातु^(३) ॥ ४ ॥

दा॒ता, पुरु॑षम्, आप॑:, प्रतिग्रही॒त्रे, नव॑ च ॥ अनु० १० ॥


जात्वा ० प्रतिगृह्णातु”(१) इति। अत्र तेनामृतत्वमश्याम्यि- त्यादि उत्तरानुषङ्गः सर्वत्र* साधारण इति दर्शयति। प्रथम- मन्त्रे पठितोपि पुनराम्नातः राजा लेत्यादिः वैश्वानराय रथ- मित्यन्तः† पूर्वोक्ता याः ऋचः उपरिरथमन्त्रे‡ पुनः पठनीयः। इत्येतावान् विशेषः। एतैर्मन्त्रैः प्रतिग्रहेष्टका उपदध्यात्॥

इति सायणाचार्य्यविरचिते माधवीये वेदार्थप्रकाशे यजुरा- रण्यके तृतीयप्रपाठके दशमोऽनुवाकः ॥ १० ॥


* सर्व्वमन्त्र इति F पुस्तकपाठः।
† रथमन्त्रः इत्यधिकः तै० पाठः।
‡ उपरितनमन्त्र इति तै० पाठः।

३ प्रपाठके ११ अनुवाकः । ३०३

अथ एकादशोऽनुवाकः ।

(१)सु॒वर्णं॑ घ॒र्मं परि॑वेद वे॒नं। इन्द्र॑स्या॒त्मानं॑ दश॒धा चर॑न्तं। अ॒न्तः स॑मु॒द्रे मन॑सा चर॑न्तं। ब्रह्माऽन्व॑विन्द॒-


अथ एकादशोऽनुवाकः ।

अथ होतृहृदयाख्या मन्त्रा अभिधीयन्ते । तेषां लिष्टकोपधाने विनियोगश्चातुर्होत्रीयब्राह्मणे एवमाम्नायते । हृदयं यजूंषि पत्येथेति । तत्र दशहोतृहृदयाख्यं मन्त्रमाह । (१)“सुवर्णं ॰ देवैः । स मानसीन आत्मा जनानां”(१) इति । चित्तिः स्रुगित्यादीनां होतृमन्त्राणां हृदयं रहस्यं तत्त्वं परमात्मस्वरूपं प्रतिपादयतीत्ययमनुवाको हृदयमित्युच्यते । तत्रानेन मन्त्रेण दशहोतृहृदयं परमात्मतत्त्वमुच्यते । अहं मन्त्रद्रष्टा ‘इन्द्रस्य’ परमेश्वरस्य, ‘आत्मानं’ निजस्वरूपं ‘परिवेद’ परितः सर्वत्रावस्थितं जानामि । कीदृशमात्मानं, ‘सुवर्णं’ सुवर्णसदृशं, यथा सुवर्णं स्वत एव प्रकाशमानं* भवति तथा स्वयं प्रकाशं । ‘घर्मं’ अन्यस्य वस्तुनो दीपकं, तस्य भासा सर्वमिदं विभातीति श्रुतेः । ‘वेनं’ कान्तं, सर्वदुःखराहित्येन तस्य कमनीयत्वं । ‘दशधा’ चित्तिस्रुगित्यादिदशहोतृमन्त्रे प्रतिपादितैराकारैः, ‘चरन्तं’ लोके व्यवहरन्तं, ‘अन्तः समुद्रे’


* स्वत एव भासमानमिति तै० पाठः ।
2 P

३०४ तैत्तिरीये आरण्यके

द॒श॒होता॑रम॒र्णे । अ॒न्तः प्रवि॑ष्टः शा॒स्ता जना॑नाम् । एक॑ः स॒न् ब॑हुधा विचा॑रः । श॒तꣳ शु॒क्राणि॒ यत्रैकं॒ भव॑न्ति ।

ब्रह्माण्डसृष्टेः पुरा सर्वत्र व्याप्यावस्थितो योऽयं जलसङ्घः सोऽयं समुद्रः तस्य मध्ये, ‘मनसा चरन्तं’ इदं सर्वं जगत् सृजेयेत्येवं रूपेण मनोवृत्तिविशेषेण सह प्रवर्त्तमानं । अतएवान्यत्रोक्तं । आपो वा इदमासन् सलिलमेव । स प्रजापतिरेकः पुष्करपर्णे समभवत् । तस्यान्तर्मनसिकामः समवर्त्तत । इदꣳ सृजेयमितीति । ‘ब्रह्मा’ चतुर्मुखप्रजापतिः, ‘अर्णे’ अर्णवे यथोक्तसमुद्रे, ‘दशहोतारं’ दशहोतृमन्त्रं तत्प्रतिपाद्यरूपेणाविर्भूतं परमात्मानं, ‘अन्वविन्दत्’ सृष्टिसाधनत्वेनान्विष्य लब्धवान् । तथा च ब्राह्मणमाम्नातं । प्रजापतिरकामयत प्रजाः सृजेयेति । स एतं दशहोतारमपश्यदिति । सोऽयमेवंविधः परमात्मा ‘जनानां’ सर्वेषां, ‘शास्ता’ अन्तर्यामिरूपेण नियामकः सन् हृदये प्रविश्यावस्थितः । तथाच स्मर्यते ।

ईश्वरः सर्वभूतानां हृद्देशेऽर्जुन तिष्ठति ।
भ्रामयन् सर्वभूतानि यन्त्रारूढानि माययेति ॥

सर्वान्तर्यामी* स्वकीयेनेश्वररूपेण ‘एकः’, एव ‘सन्’, पुनर्जीवरूपेण ‘बहुधा’, भूत्वा ‘विचारः’ विविधचरणवान् भवति । अत एवान्योपनिषदि श्रूयते ।


* स चान्तर्यामीति तै० पाठः ।

३ प्रपाठके ११ अनुवाकः। ३०५

सर्वे॑ वे॒दा यचै॒कं भव॑न्ति। सर्वे॑ होता॑रो॒ यचै॒कं भव॑न्ति। *स॒ मान॑सीन॒ आ॒त्मा॒ जना॑नाम् ॥ १ ॥


एक एव हि भूतात्मा भूते भूते व्यवस्थितः।
एकधा बहुधा चैव दृश्यते जलचन्द्रवत् ॥ इति।

'शतं शुक्राणि' शतसङ्ख्योपलक्षितान्यनन्तानि सूर्य्यचन्द्रनक्षत्राणि ज्योतींषि, 'यच' यस्मिन् परमात्मनि, 'एकीभवन्ति' एकत्वं प्राप्नुवन्ति। तथा 'सर्वे वेदाः' ऋग्वेदप्रभृतयश्चत्वारो वेदाः नानाविधशाखोपेताः, विलीय यस्मिन् 'एकीभवन्ति', 'होतारः' च होमकत्तारः, 'सर्वे' यजमानाः, दशहोत्रादिमन्त्रा वा, यस्मिन् परमात्मनि एकत्वं प्राप्नुवन्ति। यथा बुद्बुदा जलमध्ये समुत्पद्य कञ्चित् कालमवस्थाय विलीयमाना जल एवैक्यं प्राप्नुवन्ति। तथा सर्वे भावाः परब्रह्मण्येवोत्पद्य तत्रैव स्थित्वा विलीयमाना एकतां गच्छन्ति। अतएवोपनिषदि श्रूयते। यतो वा इमानि भूतानि जायन्ते येन जातानि जीवन्ति। यत् प्रयन्त्यभिसंविशन्ति। तद्विजिज्ञासस्व। तद्ब्रह्मेति। 'सः' तादृश ईश्वरः, सर्वेषां 'जनानां', 'आत्मा' स्वरूपभूतः सन्,† 'मानसीनः' योगयुक्तेन मनसोपलभ्यो भवति। तथाच


* 'स मानसीन' इत्याद्यः 'ब्रह्मेन्द्रं' इत्यन्तः पाठः B चिह्नितपुस्तके पतितः।
† सन् इति शब्दः D, E, पुस्तकद्वये नास्ति।
2 p 2

३०६ तैत्तिरीये आरण्यके

अ॒न्तः प्रवि॑ष्टः शा॒स्ता जना॑नाꣳ॒ सर्वा॑त्मा सर्वाः॑
प्र॒जा यत्रै॑कं॒ भव॑न्ति। चतु॑र्होतारो॒ यत्र॒ सम्प॑दं॒ गच्छ॑-
न्ति दे॒वैः। स मान॑सीन आ॒त्मा जना॑नां⁽१⁾। ⁽२⁾ब्रह्मेन्द्रे-

कठा अधीयते। मनसैवेदमाप्तव्यं नेह नानास्ति किञ्चनेति। ततो योगिनां मानसप्रत्यक्षगम्यत्वात्। अन्तःप्रविष्टः शास्ता जनानामिति योऽयमुक्तः सोऽयं 'सर्वात्मा' सर्वेषां प्राणिनामात्मा स्वरूपभूतः, तं हि जनाः* योगेन निरुद्धचित्ताः सन्तो जगदीश्वरं स्वस्वरूपत्वेनैव साक्षात् कुर्वन्ति न तु भेदेन पश्यन्ति, अतः पूर्वोक्तः सर्वाश्चर्य उपपन्न इत्युपसंह्रियते। 'सर्वाः प्रजाः', देवमनुष्यादयः, 'यत्र' यस्मिन् योगिप्रत्यक्षगम्ये चैतन्यैकरसे परमात्मनि, 'एकीभवन्ति', चतुर्होतृमन्त्राश्च सर्वे यस्मिन् स्वप्रतिपाद्यैः 'देवैः', सह यस्मिन् ब्रह्मणि 'सम्पदं' सम्यगेकीभावं, प्राप्नुवन्ति। 'सः' तादृशो ब्रह्मस्वरूपः, 'मानसीनः' मानसप्रत्यक्षः, सर्वेषां 'जनानामात्मा'। ऋचां भेदादपुनरुक्तिर्द्रष्टव्या। द्वितीया द्विपदा, इतरास्तिस्रश्चतुष्पदा, इत्यृचां विवेकः। अत्र चतुर्होतृशब्देन दशहोत्रादयः सर्वेऽपि मन्त्रा विवक्ष्यन्ते। तथा च ब्राह्मणे चतुर्होतृदेवं प्रति प्रजापतिर्वरन्दत्तवान्। त्वं वै मे नेदिष्ठं हूतः प्रत्यश्रौषीः। त्वद्येतानाख्यातार इति। तस्मान्नु हैनांश्चतुर्होतार इत्याचक्षत इति॥

* सर्वे हि जना इति E, F, पुस्तकद्वयपाठः।

३ प्रपाठके ११ अनुवाकः । ३०१

म॒ग्निं जग॑तः प्रति॒ष्ठां । दि॒व आ॒त्मानꣳ॑ सवि॒तारं॒ बृह॒- स्पतिं॑ । च॒तुर्होता॑रं प्र॒दिशोनु॑कॢ॒प्तं । वा॒चो वी॒र्यं॑ ।


तदेवं दशहोतृहृदयाख्यो मन्त्रोऽभिहितः । अथ चतुर्होतृ- हृदयाख्यो मन्त्रोऽभिधीयते । तत्र तिस्र ऋचस्तासु प्रथमा- माह । (१)“ब्रह्मेन्द्रमग्निं ॰ तपसान्वविन्दत्”(१) इति । ‘ब्रह्मा’ चतुर्मुखः, ‘इन्द्रं’ परमैश्वर्ययुक्तं परमात्मानं, ‘तपसा’, ‘अन्व- विन्दत्’ अन्विष्य लब्धवान्, तद्दर्शपूर्णमासं सृष्टिसाधनं किमिति विचार्य चतुर्होतुमन्त्ररूपेणावस्थितं परमात्मानं निश्चित- वान् इत्यर्थः । तथा च ब्राह्मण* आम्नायते । प्रजापतिर- कामयत दर्शपूर्णमासौ सृजेयेति । स एतं चतुर्होतारमप- श्यदिति । कीदृशमिन्द्रं, ‘जगतः प्रतिष्ठां’, ‘अग्निं’ सर्वस्य जगत आधाररूपो योऽयं चातुर्होत्रचितिरूपोऽग्निः तत्स्वरूपं, ‘दिव आत्मानं सवितारं’ द्युलोकस्य प्रकाशकत्वेनात्मवदवस्थि- तोयः सविता तद्रूपं, तथा ‘बृहस्पतिः, योऽयं देवगुरुस्तद्रूपेणाव- स्थितं, ‘प्रदिशः’ सर्वान् प्रदेशान्, ‘अनुकॢप्तं’ सर्वेषु प्रदेशेष्वव- स्थितं, ‘चतुर्होतारं’ पृथिवीहोतेत्यादिमन्त्रस्वरूपं, ‘वाचः’, ‘वीर्यं’ सर्वस्वं, वेदरूपायाः वाचः सारभूतं ॥

अथ द्वितीयामृचमाह । (१)“अन्तः प्रविष्टः कर्त्तारमेतं ॰ कवयो निचिक्युः”(२) इति । ‘कवयः’ विद्वांसः वेदशास्त्रपारं


* ब्राह्मणमिति F पुस्तकपाठः

३०८ तैत्तिरीये आरण्यके

तप॑साऽन्व॑विन्द॒त्⁽२⁾ । ⁽२⁾अ॒न्तः प्रवि॑ष्टं क॒र्त्तार॑मे॒तं । त्व- ष्टारँ॑ रूपा॑णि विकु॒र्वन्तं॑ विप॒श्चिं ॥ २ ॥ अ॒मृत॑स्य प्रा॒णं य॒ज्ञमे॒तं । च॒तुर्हो॑तॄणामा॒त्मानं॑


गताः, 'चतुर्होतॄणां' चतुर्होतृशब्देनाभिधीयमानानां सर्वेषां होतृमन्त्राणां, 'आत्मानं' स्वरूपभूतं परमेश्वरं, 'निचिक्युः' नि- श्चितवन्तः । कीदृशमात्मानं, 'अन्तःप्रविष्टं' जीवरूपेण शरी- रेषु प्रविश्यावस्थितं । अतएवाम्नायते । अनेन जीवतात्मनानु- प्रविश्येति । 'कर्त्तारमेतं' अहमित्यनेन मानसप्रत्यक्षेण प्रतीय- मानं लौकिकवैदिकसर्वक्रियानिष्पादकं । एतच्चान्यत्राम्नातं । एष हि द्रष्टा श्रोता घ्राता रसयिता मन्ता बोद्धा कर्ता विज्ञानात्मा पुरुष इति । 'रूपाणि विकुर्वन्तं', विपश्चितं 'त्व- ष्टारं' गर्भेषु देवतिर्यङ्मनुष्यादिरूपेण 'रूपाणि', विविधं नि- ष्पादयन्तं त्वष्टृदेवस्वरूपं । एतदप्याम्नातं । यावच्छो वै रेतसः सिक्तस्य त्वष्टा रूपाणि विकरोति तावच्छो वै तत् प्रजायत इति । 'विपश्चिं' विपश्चितं, तत्तद्रूपनिर्माणप्रकाराभिज्ञं, 'अ- मृतस्य प्राणं' मरणरहितस्य परमात्मनो व्यवहारहेतुभूतप्रा- णोपाधिख्यरूपं* । एतदप्याथर्वणिका आमनन्ति । कस्मिन्व- हमुत्क्रान्त उत्क्रान्तो भविष्यामि कस्मिन् वा प्रतिष्ठिते प्रतिष्ठा- स्यामीति स प्राणमसृजतेति । यज्ञमेव सर्वैरनुष्ठीयमानत्वेन

* हेतुभूतप्राणापानस्वरूपमिति तै० पाठः

३ प्रपाठके ११ अनुवाकः। ३०६

क॒वयो॑ निचिक्युः॑।^(९) । ^(४)“अ॒न्तः प्रवि॑ष्टं क॒र्त्ता॑रमे॒तं। दे॒वा- नां॒ बन्धु॒ निहि॑तं॒ गुहा॑सु। अ॒मृते॑न कॢ॒प्तं य॒ज्ञमे॒तं। च॒- तुर्होतॄणामा॒त्मानं॑ क॒वयो॑ निचिक्युः।^(४) । ^(५) श॒तं नि- युतः॒ परि॑वेद॒ विश्वा॑ वि॒श्ववा॑रः। विश्व॑मि॒दं शृ॑णोति।


दृश्यमानमेतं दर्शपूर्णमासयज्ञस्वरूपं चतुर्होतृमन्त्रस्य तद्यज्ञ- सृष्टिसाधनत्वात् तद्रूपत्वं युक्तं। तद्यज्ञसाधनत्वं ब्राह्मणे समा- म्नातं। स एतं चतुर्होतारमपश्यत्। तं मनसानुद्रुत्याहवनीये जुहोत्। ततो वै स दर्शपूर्णमासावसृजतेति॥

अथ तृतीयामाह। ^(४)“अन्तः प्रविष्टं कर्त्तारमेतं ॰ कवयो निचिक्युः”^(४) इति। योऽयं परमात्मा सोऽयं ‘देवानां’ बन्धुवत् प्रियः। तादृशं, तेषु* पक्षपातत्वेन विजयहेतुत्वं तलवकाराः† आमनन्ति। ब्रह्म ह देवेभ्यो विजिग्ये इति। ‘गुहासु’ बुद्धिषु, ‘निहितं’ साक्षित्तेनावस्थितं, यो वेद निहितं गुहायामित्यादि- श्रुतेः। ‘अमृतेन’ स्वर्गफलनिमित्तेन, ‘कॢप्तं’ सम्पादितं, ‘एतं’ ‘यज्ञं’ इत्यादीनामिति‡॥

तदेवमृक्त्रयरूपं चतुर्होतृहृदयमुक्तं। अथ पञ्चहोतृहृद- याख्यो मन्त्रो ऽभिधीयते। तत्र प्रथमामाह। ^(५)“शतं नि-


* तेषु देवेषु पक्षपातत्वेनेति तै० पाठः।
† कठा आमनन्तीति तै० पाठः।
‡ इत्यादि पूर्ववदिति तै० पाठः।

३१० तैत्तिरीये आरण्यके

इन्द्र॑स्या॒त्मा निहि॑तः पञ्च॑होता । अ॒मृतं॑ दे॒वाना॒मायु॑: प्र॒जानां॑^{(५)} ॥ ३ ॥

^{(६)}इन्द्रँ॒ राजानँ॑ सवि॒तार॑मे॒तम् । वा॒योरा॒त्मानं॑ क॒वयो॑ निचिक्युः । र॒श्मिँ र॑श्मी॒नां मध्ये॒ तप॑न्तम् । ऋ॒तस्य॑ प॒दे क॒वयो॑ निपान्ति^{(६)} । ^{(७)}य अ॑ण्डको॒शे भुव॑नं बि-


युतः ० प्रजानां”^{(५)} इति । ‘पञ्चहोता’ अग्निहोता इत्यादि पञ्चहोतृमन्त्ररूपः, आत्मा सः ‘विश्ववारः’ सर्वैर्वरणीय वायुरूपः सन्, ‘शतं नियतः’, शतसंख्याकान् स्वकीयान् खान्, ‘परिवेद’ परितः सञ्चारित्वेन जानाति, अत एव ‘इदं विश्वं’ जगत्, ‘वृणाति’ व्याप्नोति, सोऽयं ‘इन्द्रस्यात्मा’ परमेश्वरस्य स्वरूपभूतः सन्, ‘निहितः’ सर्वत्रावस्थितः, स च ‘देवानाम् अमृतं’, प्रयच्छति । ‘प्रजानां’, वा ‘आयुः’, प्रयच्छतीति शेषः ॥

अथ द्वितीयामाह । ^{(६)}“इन्द्रँ राजानँ० निपान्ति”^{(६)} इति । एवं चतुर्होतृदेवं ‘कवयः’ पण्डिताः, ‘निचिक्युः’ विनिश्चितवन्तः । कीदृशं, ‘इन्द्रं’ परमैश्वर्ययुक्तं, ‘राजानं’ दीप्यमानं, ‘सवितारं’ प्रेरकं, ‘वायोः’, ‘आत्मानं’ स्वरूपभूतं, ते कवय एतं चतुर्होतृदेवं ‘ऋतस्य पदे’ ब्रह्मणः स्थाने, ‘निपान्ति’ नितरां पालयन्ति, तद्रूपत्वेन पश्यन्तीत्यर्थः । कीदृशं, ‘रश्मीनां’ दृश्यमानानां किरणानां, ‘मध्ये’ स्थित्वा ‘तपन्तं’ जगतस्तापं कुर्वन्तं, ‘रश्मिं’ प्रौढरश्मिरूपं, आदित्यमित्यर्थः ॥

३ प्रपाठके ११ अनुवाकः । ३११

भ॑र्त्तिं। अनि॑र्भिन्‍नः सन्‍नथो॑ लो॒कान् विच॑ष्टे। यस्या॑ण्ड- को॒शꣳ शुष्म॑माहुः प्रा॒णमु॒ल्व॑म्। तेन॑ कॢ॒प्तोऽमृते॑ना॒हम॑- स्मि^(७)। ^(८)सु॒वर्णं॒ कोश॒ꣳ रज॑सा परी॑वृतं। दे॒वानां॒ वसु॑- धानीं॒ वि॒राज॑म् ॥ ४ ॥

अथ तृतीयामाह। ^(७)"य आण्डकोशे० अमृतेनाहमस्मि"^(७) इति। 'यः' पञ्चहोतृदेवः, 'आण्डकोशे' ब्रह्माण्डमध्ये, 'अनि- र्भिन्‍नः' अभेदेनावस्थितः सन्, 'भुवनं' कृत्स्नं भूतजातं, 'बिभर्त्ति' धारयति। 'अथ' ब्रह्माण्डभेदानन्तरं, तदन्तःस्थितान् भूर्यादि- 'लोकान्', 'विचष्टे' विशेषेण प्रख्यापयति, 'यस्य' चतुर्होतृरूपस्य परमात्मनः, 'शुष्ममाण्डकोशं' प्रवलं ब्रह्माण्डावकाशस्थं, 'प्राणं', वायुविशेषं, 'उल्वमाहुः' गर्भवेष्टनस्थानीयमाहुः, यथा लोके गर्भ उल्वेन वेष्ट्यते तथा सूक्ष्मशरीरेण प्राणवायुना ब्रह्माण्डं वेष्टितं भवति । 'तेनामृतेन' पञ्चहोतृरूपेण परमात्मना, 'अहं', 'कॢप्तः' व्यवहारसमर्थत्वेनोत्पादितः, 'अस्मि'* ॥

अथ षड्ढोतृहृदयमन्त्राः। तत्र प्रथमामृचमाह । ^(८)"सुवर्णं ० विवि॑त्से"^(८) इति । वाग्घोतेति मन्त्रोऽत्र षड्ढोता, स च ब्र- ह्माण्डकोशमध्ये चन्द्ररूपेणावस्थितः। चन्द्ररूपं षड्ढोतृदेवं वि- राजं अभिज्ञाः †सुवर्णत्वादिगुणयुक्तमाचक्षते । 'सुवर्णं' शोभन-


* 'यस्य' पञ्चहोतृदेवस्य, 'आण्डकोशं' ब्रह्माण्डं, 'शुष्ममुल्वं' प्राण- स्वरूपं 'आहुः', 'तेन' पञ्चहोतृरूपेण परमात्मना, 'अहं', 'कॢप्तः' व्यवहारसमर्थत्वेन उत्पादितः, 'अस्मि' । इति तैत्तिरीयपुस्तकधृतपाठो यस्य चतुर्होतृरूपस्येत्यारभ्य अस्मीत्यंशपर्यन्तस्य विनिमये बोद्ध्यः। † देवरहस्याभिज्ञा इति तै० पाठः ।

2 Q

३१२ तैत्तिरीये आरण्यके

अ॒मृत॑स्य पू॒र्णां ता॒मु क॒लां विच॑क्षते । पादं॑ ष॒ड्ढो- तुर्न कि॒लावि॑वित्से^(८) । ^(९)येन॒र्त्तव॑: पञ्च॒धोत कॣप्ता॑: । उ॒तवा॑ ष॒ड्ढा मन॒सोत कॣप्ता॑: । तꣳ ष॒ड्ढोतार॑मृ॒तुभि॑:

वर्णं, एतं चन्द्रमण्डलं हिरण्मयवर्णोपेतं,* 'कोशं' ब्रह्माण्डकोश- मध्यगं,'रजसा' रजआत्मकेनामृतेन,'परीवृतं' सर्वतो व्याप्तं,तथा- विधं चन्द्रं,'तामु कलां' तादृशीमेव भागरूपां, 'आचक्षते'। की- दृशीमिति तदुच्यते । 'देवानां वसुधानीं' वह्निरव्यादीनां देव- तानामपेक्षितं यद्वसु अमृतरूपं तस्य धारयित्रीं । अत एवस्म- र्यते । प्रथमां पिवते वह्निर्द्वितीयां पिबते रविरित्यादि । 'विराजं' विशेषेण राजमानां, 'अमृतस्य पूर्णां' पीयूषेण पूरि- तां, एवं रूपं षड्ढोतृहदेवमभिज्ञा आचक्षते। प्राकृतस्तु जनः 'षड्ढोतुः', 'पादं' षड्ढोतृदेवस्यांशभूतं चन्द्रं,'न किलाविवि- त्से', नैव जानाति ॥

अथ द्वितीयामाह। ^(९)“येनर्त्तवः ० कवयो निपान्ति” ^(९) इति। 'येन' चन्द्ररूपेण षड्ढोतृहदेवेन, वसन्ताद्यृतवः पञ्च- प्रकारां: 'कॣप्ताः' सम्पादिताः, हेमन्तशिशिरयोः समासेन पञ्च- त्वं । 'उत वा' अथवा, हेमन्तशिशिरयोर्विभागेन षट्प्रकाराः 'कॣप्ताः', 'उत' अपि च, 'मनसा कॣप्ताः' सङ्कल्पमात्रेण सम्पादि-

* भासते इति E, F चिह्नितपुस्तकद्वयपाठः ।

३ प्रपाठके ११ अनुवाकः । ३१३

कल्पमानं॑ । ऋ॒तस्य॑ प॒दे क॒वयो॒ निपा॑न्ति⁽९⁾ । ⁽१०⁾अ॒न्तः प्रवि॑ष्टं क॒र्त्तार॑मे॒तं । अ॒न्तश्च॒न्द्रम॑सि॒ मन॑सा चर॑न्तं । स

ताः, 'तं'*पञ्चषड्ढोत्टदेवं, 'ऋतुभिः', 'कल्पमानं' पञ्चधा षोढा वा भिन्नैः वसन्तादिभिः, सर्वव्यवहारसमर्थं, 'ऋतस्य पदे' सत्यस्य परब्रह्मणःस्थाने, 'कवयः' वेदरहस्याभिज्ञाः, 'निपान्ति' नि- तरां पालयन्ति, परब्रह्मैवायं चन्द्ररूपः षड्ढोतेत्येवमुपासत इत्यर्थः ॥

अथ तृतीयामाह । ⁽१०⁾"अन्तः प्रविष्टं ० शतधा चरतं"⁽१०⁾ इति । 'देवाः', सर्वे 'सहैव सन्तं' स्वकीयहृदये स्वेन जीवात्मना सहैवावस्थितं, 'एतं' षड्ढोत्टदेवं परमात्मानं, 'न विजानन्ति' वेदान्ताभ्यासमन्तरेण हृदयेऽवस्थितोऽयं परमात्मेति विशेषेण न जानन्ति । कीदृशं परमात्मानं । 'अन्तःप्रविष्टं' अन्तर्यामि- रूपेण सर्वेषां पृथिव्यादिपदार्थानां मध्येऽवस्थितं । एतच्च वाजसनेयिनोऽन्तर्यामिब्राह्मणे यः पृथिव्यान्तिष्ठन्नित्यादिना बहुप्रपञ्चेनामनन्ति । 'कर्त्तारं' नियामकत्वेन सर्वस्य निष्पा- दकं, 'अन्तश्चन्द्रमसि' चन्द्रमण्डलमध्ये, 'मनसा' सङ्कल्पमात्रेण, 'चरन्तं', एतच्चोपलक्षणं सर्वेष्वपि वस्तुषु चरन्तमित्यर्थः । एत-


* "तं" चन्द्ररूपं षड्ढोत्टदेवं इति F पुस्तकपाठः
2 ७ 2

३१४ तैत्तिरीये आरण्यके

हैव सन्तं॑ न वि॑जानन्ति दे॒वाः । इन्द्र॑स्या॒त्मानँ॑ शत॒धा चर॑न्तम्^(१०) ॥ ५ ॥

^(११)इन्द्रो॒ राजा॒ जग॑तो॒ य ईशे॑ । स॒प्तहो॑ता स॒प्तधा विक्ॢप्तः॑^(११) । ^(१२)परे॑ण॒ तन्तुं॑ परिषि॒च्यमा॑नम् । अ॒न्तरा-


देव स्पष्टीकर्त्तुं, शतधा चरन्तमित्युक्तं । ‘इन्द्रस्य’ परमैश्वर्य्युक्तस्य देवादेः, आत्मभूतं स्वरूपं* ॥

अथ सप्तहोतृहृदयाख्यो मन्त्रः । तत्र प्रथमां ऋचमाह । (११)“इन्द्रो राजा • सप्तधा विक्ॢप्तः”^(११) इति । महार्विर्होतेत्ययं मन्त्रः ‘सप्तहोता’ । स च ‘सप्तधा कॢप्तः’ होत्रध्वर्युप्रमुखैः सप्तभिः प्रकारैः सम्पादितः । स किंरूप इति तदुच्यते । ‘इन्द्रः’ परमैश्वर्य्ययुक्तः, ‘राजा’ दीप्यमानः ‘यः’ परमात्मा, ‘जगतः’, ‘ईशः’ स्वामी भवति । स एवायं सप्तहोतृरूप इत्यर्थः ॥

अथ द्वितीयामाह । (१२)“परेण तन्तुं • ब्रह्मान्वविन्दत्”^(१२) इति । ‘ब्रह्मा’ प्रजापतिः, ‘देवानां’ इन्द्रादीनां, ‘हृदयं’ हृदयस्थितं परमात्मानं, ‘अन्वविन्दत्’ अन्विष्य लब्धवान्, कीदृशं, ‘तन्तुं’, ‘परेण’ अर्वाच्छिन्नस्य यज्ञस्य परस्तात् फलदशायां, ‘परिषिच्यमानं’ वृष्टिरूपेण परितः सिच्यमानं,

* ‘आत्मानं’ स्वरूपभूतं, इति तै० पाठः ।

३ प्रपाठके ११ अनुवाकः । ३१५

दित्य म॑न॑सा चर॑न्तं॑ । दे॒वानाँ॒ꣳ॒ हृद॑यं॒ ब्रह्म॒न्ववि॑न्दत् ^{(१२)}} । ^{(१३)}}ब्रह्मै॒तद्ब्रह्म॑ण उज्ज॑भार । अ॒र्कꣳ श्यो॒तन्तं॑ स- रि॒रस्य॒ मध्ये॑^{(१३)}} । ^{(१४)}}आ यस्मि॑न्॒ स॒प्त पे॒रवः॑ । मेह॑न्ति ब॒हुलाꣳ श्रियं॑ । ब॒ह्वश्वा॑मिन्द्र॒ गोम॑तीं^{(१४)}} ॥ ६ ॥

“अन्तरादित्ये’ आदित्यमण्डलमद्धये, ‘मनसा’ सङ्कल्पमात्रेण, ‘चरन्तं’, ॥

अथ तृतीयामाह । ^{(१३)}“ब्रह्मैतद्ब्रह्मणः • सरिरस्य मध्ये”

^{(१३)}}इति । ‘ब्रह्मा’ चतुर्मुखः प्रजापतिः, ‘ब्रह्मणः’, वेदस्य सका- शात् ‘एतत्’ सप्तहोतृस्वरूपं, ‘उज्जभार’ सारत्वेनोद्धृतवान् । कीदृशं, ‘अर्कं’ सूर्यरूपेणावस्थितं, ‘सरिरस्य’ मेघस्थजलस्य, ‘मध्ये’, रश्मिद्वारा प्रविश्य, ‘श्योतन्तं’ वर्षयन्तं ॥

अथ चतुर्थीमाह । ^{(१४)}“आ यस्मिन् • बह्वश्वामिन्द्रगोम-

तीं”^{(१४)}} इति । ‘यस्मिन्’ सप्तहोतृरूप आदित्ये, ‘पेरवः’ वृष्टि- प्रदानेन लोकस्य पातारः, सप्तसङ्ख्याका रश्मयः प्रापिताः* र- श्मिसप्तकञ्च, साकञ्जानां सप्तधमाहुरेकजमित्यत्र प्रपञ्चितं । ते च सप्तरश्मयो, ‘बहुलां श्रियं’ प्रभूतां धनादिसम्पदं, ‘मेह- न्ति’ वृष्टिसेचनद्वारेण सम्पादयन्ति । हे ‘इन्द्र’ सप्तहोतृदेवरूप परमेश्वर, ‘बह्वश्वां’ बहुभिरश्वैरुपेततां, ‘गोमतीं’ बहुभिर्गोभि- रुपेततां, तां श्रियं प्रयच्छेति शेषः ॥

* आश्रिता इति E,F पुस्तकद्वयपाठः ।

३१६ तैत्तिरीये आरण्यके

(१५) अच्यु॒तां बहु॒लाꣳ श्रियँ॑। स हरि॒र्वसु॑वित्त॒मः। पे॒रु- रिन्द्रा॑य पिन्वते^(१५)। ^(१६)बह्व॑श्वामिन्द्र॒ गोम॑तीं। अच्यु॒तां बहु॒लाꣳ श्रियँ॑। मह्य॒मिन्द्रो॒ निय॑च्छतु^(१६)। ^(१७)श॒तꣳ श॒ता अ॑स्य यु॒क्ता हरी॑णां। अ॒र्वाङ्ङाया॑तु॒ वसु॑भी र॒श्मिरिन्द्र॑ः।


अथ पञ्चमीमाह। ^(१५)“अच्युतां ० पेरुरिन्द्राय पिन्वते” ^(१५) इति। ‘सः’ देवः सप्तहोत्राख्यः, ‘इन्द्राय’ कर्मस्वामिने यज- मानाय, ‘श्रियं’, ‘पिन्वते’ सिञ्चति, प्रयच्छतीत्यर्थः। कीदृशः स देवः, ‘हरिः’ पापहरणशीलः, ‘वसुवित्तमः’ अतिशयेन धन- स्य लब्धा, ‘पेरुः’ पालकः। कीदृशीं श्रियं, ‘अच्युतां’ विनाश- रहितां, ‘बहुलां’ गवाश्वादिभिः प्रभूतां ॥

अथ षष्ठीमाह। ^(१६)“बह्वश्वामिन्द्र गोमतीं ० नियच्छतु” ^(१६) इति। ‘इन्द्रः’ परमैश्वर्ययुक्तः सप्तहोतृदेवः। स्पष्टमन्यत् ॥

अथ सप्तमीमाह। ^(१७)“शतꣳ शता ० नियच्छतु” ^(१७) इति। ‘अस्य’ आदित्यरूपस्य सप्तहोतृदेवस्य, ‘हरीणां’ अन्धकारहर- णशीलानां रश्मीनां, ‘शतꣳ शता’ शतसङ्ख्याकानि शतानि, अयु- तसङ्ख्यानीत्यर्थः। ‘युक्ता’ युक्तानि, सम्पादितानि, ‘इन्द्रः’ पर- मैश्वर्ययुक्तः ‘रश्मिः’ बहुविधरश्मियुक्तः आदित्यः, ‘वसुभिः’ धनैः, सह ‘आयातु’ आभिमुख्येनागच्छतु। आगतश्च सविता ‘बहुलां श्रियं’ प्रभूतां धनादिसम्पदं, ‘मे’ मह्यं, ‘नियच्छतु

३ प्रपाठके ११ अनुवाकः । ३१७

प्रमꣳ॑ह॒माणो॑ बहु॒लाꣳ श्रिय॑म् । र॒श्मिरिन्द्र॑: सवि॒ता मे॒ निय॑च्छतु⁽१७⁾ ॥ ७ ॥

⁽१८⁾घृ॒तन्तेजो॒ मधु॑म॒दिन्द्रि॒यम् । मय्य॒यम॒ग्निर्द॑धातु⁽१८⁾ । ⁽१९⁾हरि॑: पत॒ङ्गः प॑ट॒री सु॑प॒र्णः । दि॒विक्षयो॒ नभ॑सा य एति॑ । स न॒ इन्द्र॑: कामव॒रं द॑दातु⁽१९⁾ । ⁽२०⁾प॒ञ्चारं॑ च॒क्रं परि॑वर्त्तते॒ पृथु॑ । हिर॑ण्यज्योतिः सरि॒रस्य॒ मध्ये॑ । अजस्रं॑


नितरां ददातु । कीदृशः सविता, 'प्रमꣳहमाणः' अस्मदीयस्तु- तिभिः प्रकर्षेण वर्द्धमानः, 'रश्मिः' बहुविधरश्मियुक्तः, 'इन्द्रः' परमैश्वर्ययुक्तः ॥

अथाष्टमीमाह । ⁽१८⁾“घृतन्तेजो ० मय्ययमग्निर्दधातु”⁽१८⁾ इति । 'अयं' सप्तहोतृदेवः, द्रव्यात्मकः सन् 'मयि' यजमाने, 'मधुघृतं' मधुररसोपेतं घृतादिद्रव्यं, 'तेजः' कान्तिं, 'इन्द्रियं' चक्षुरादिसामर्थ्यं च, 'दधातु' सम्पादयतु ॥

अथ नवमीमाह । ⁽१९⁾“हरिः पतङ्गः ० ददातु”⁽१९⁾ इति । 'हरिः' अन्धकारहरणशीलः, 'पतङ्गः' सूर्यरूपः, 'पटरी' तेजः- पटलवान्, 'सुपर्णः' पक्षिसदृशः, 'दिविक्षयः' स्वर्गनिवासी, 'यः' सप्तहोतृदेवः, 'नभसा' आकाशमार्गेण, 'एति' गच्छति । 'सः' देवः, 'नः' अस्माकं, 'कामवरं' कामानां मध्ये श्रेष्ठं, 'ददातु' ॥

अथ दशमीमाह । ⁽२०⁾“पञ्चारं चक्रं ० कामवरं ददातु”

३१८ तैत्तिरीये आरण्यके

ज्योति॒र्नभ॑सा सर्प॑देति॑। स न॒ इन्द्रः॑ काम॒वरं॑ द॑दातु⁽²⁰⁾।
⁽²¹⁾स॒प्त यु॑ञ्जन्ति॒ रथ॒मेक॑चक्रं ॥ ८ ॥
एको॒ अश्वो॑ वहति सप्तनामा॑। त्रि॒नाभि॑ च॒क्रम॒जर॒* म-


(२०) इति। ऋतुपञ्चात्मका आरा यस्य कालचक्रस्य तत् ‘पञ्चारं’, ‘पृथु’ विस्तृतं, ‘चक्रं’ संवत्सरात्मकं कालचक्रं, ‘परिवर्त्तत’ परितः प्रवर्त्तते। ‘सरिरस्य मध्ये’ मेघवर्तिजलस्य मध्ये, ‘हिरण्यज्योतिः’ रश्मिसञ्चारणविद्युद्रूपपरिणामे सति सुवर्णसमानं ज्योतिर्यस्य मण्डलस्य तद्धिरण्यज्योतिः, तादृशं ‘ज्योतिः’ आदित्यमण्डलं संवत्सरचक्रनिष्पादकं, ‘अजस्रं’ निरन्तरं ‘नभसा’ आकाशमार्गेण, ‘सर्पदेति’ शनैः सञ्चरति गच्छति। ‘सः’ ज्योतिर्मण्डलात्मा ‘नः’ अस्माकं ‘कामवरं ददातु’ ॥

अथ एकादशीमाह। (२१)“सप्त युञ्जन्ति ० भुवनानि तस्थुः” (२१) इति। सप्तसङ्ख्याकाः साकञ्जानामित्यत्रोक्ताः मुख्यरश्मिविशेषाः अश्वसदृशाः ‘एकचक्रं’ एकप्रकारपरिवर्त्तं कालचक्रं, ‘युञ्जन्ति’। प्रवर्तयन्ति। तदेव स्पष्टीक्रियते। ‘सप्तनामा’ सप्तसङ्ख्यानि नामानि नमनयोग्यानि कंश्यानि †रश्मिरूपाणि य-


* अक्षरमिति E पुस्तकपाठः।
† वश्यानीति तै० पाठः।

३ प्रपाठके ११ अनुवाकः। ३१८

म॑र्वीम् । येने॒मा विश्वा॒ भुव॑नानि त॒स्थुः(२१) । (२२)भ॒द्रं पश्य॑- न्त उप॑सेदुरग्रे॑ । तपो॑ दी॒क्षामृष॑यः सु॒वर्विद॑: । तत॑: क्ष॒त्रं बल॒मोज॑श्च जा॒तं । तद॑स्मै दे॒वा अ॒भिसन्न॑मन्तु(२२) ।


स्यासौ सप्तनामा । 'अश्वः' व्यापकः 'एकः' सूर्य्यः तत्कालचक्रं 'वहति' । कीदृशं चक्रं, 'त्रिनाभि' तिस्रः सत्वरजस्तमोगुणरूपाः भूतभविष्यद्वर्त्तमानरूपा वा नाभयो यस्य तत्तिनाभि, 'अजरं' विनाशरहितं, न हि कालः संसारमध्ये कदाचिद्विनश्यति । 'अनर्वी' अर्वा विरोधो विनाशको भ्रातृव्यो वा अवेति श्रुतेः, तद्रहितं, न हि कालचक्रस्य कश्चिन्नाशकोऽस्ति । 'येन' कालचक्रेण, 'इमा विश्वा भुवनानि' दृश्यमानानि सर्वाणि भूतजातानि, तिष्ठन्ति, सुखेन वर्तन्ते तस्य कालचक्रस्य निर्वाहकोऽयं सप्तहोतादेव आदित्यः ॥

अथ द्वादशीमाह । (२२) "भद्रं पश्यन्तो ० अभिसन्नमन्तु" (२२) इति । 'सुवर्विदः' स्वर्गमार्गाभिज्ञाः, ऋषयः 'भद्रं' कल्याणं सप्तहोत्रूपमादित्यं, 'पश्यन्तः' प्राप्यत्वेन निश्चिन्वनाः, 'तपः' अनशनादिरूपं, 'दीक्षां' नियमविशेषं च, 'उपसेदुः' अनुष्ठितवन्तः । 'ततः' आदित्यसकाशात्, 'क्षत्रं' क्षतात् त्राणं अनिष्टनिवारणं । 'बलं' शरीरशक्तिः, 'ओजः' कान्तिः, इत्येतत् सर्वं 'जातं' सम्पन्नं । 'तत्' चस क्षत्रादित्रयं, 'अस्मै' यजमानाय, 'देवाः', अभिसन्नमन्तु । अभितः सम्पादयन्तु ॥

2 R

३२० तैत्तिरीये आरण्यके

(२३)श्वेतग्ँ र॒श्मिं वोभु॒ज्यमा॑नं । अ॒पाम्नेता॑रं॒ भुव॑नस्य गो॒पां । इन्द्रं॑ निचिक्युः पर॒मे व्योमन्(२३) ॥ ६ ॥ (२४)रोहि॑णीः पिङ्ग॒ला एक॑रूपाः । क्षर॑न्ति पिङ्ग॒ला


अथ त्रयोदशीमाह । (२३)“श्वेतग्ँ रश्मिं ॰ परमे व्योमन्” (२३) इति । ‘परमे व्योमन्’ उत्कृष्टे हृदयाकाशे, ‘इन्द्रं’ पर- मैश्वर्ययुक्तं सप्तहोतृदेवमादित्यं, ‘निचिक्युः’ निश्चितवन्तः, ध्यातवन्त इत्यर्थः । कीदृशमिन्द्रं, ‘श्वेतं’ प्रकाशरूपत्वेन* शुक्ल- वर्णं । ‘रश्मिं’ रश्मियुक्तं, ‘बोभुज्यमानं’ सर्वैः प्राणिभिः वृष्टि- द्वारेण पुनः पुनः भुज्यमानं । एतदेव स्पष्टीक्रियते, ‘अपां नेतारं’ आदित्याज्जायते वृष्टिरिति स्मृत्या सूर्यो जलस्य नेता तादृशं, ‘भुवनस्य गोपां’ भुवनस्य पालकं† ॥

अथ चतुर्दशीमाह । (२४)“रोहिणीः ॰ नाव्यानां”(२४) इति । ‘रोहिणीः’ रोहिणवर्णाः,‡ ‘पिङ्गलाः’ पिङ्गलवर्णाश्च, या आपस्तत्तद्भूमिसम्बन्धेन बहुविधा दृश्यन्ते । ताः सर्वा अपि सप्तहोतृरूपस्य आदित्यस्य रश्मिसम्बन्धे सति मेघेषु नानारू- पत्वपरिव्यञ्जकरूपाः,§ भवन्ति । तथा ‘चरन्तीः’ वृष्टिरूपेण


* प्रकाश्यमानत्वेनति तै० पाठः ।
† भूतजातपालकमिति तै० पाठः ।
‡ लोहितवर्णा इति तै० पाठः ।
§ नानारूपत्वं परित्यज्यैकरूपा इति तै० पाठः ।