भारतकोश
संग्रह पर लौटें

तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)

Taittiriya Aranyaka Hindi

महर्षि वैशम्पायन द्वारा

स्रोत: Taittiriya Aranyaka with Sayana Bhashya and Hindi Translation (उद्गम)

DevanagariHindipublished940 पृष्ठ

३ प्रपाठके १४ अनुवाकः । ४४७

भर्त्ति॑ । य ए॒नं वेद॑ स॒त्येन॑ भ॒र्तुं(२) । ^{(३)}स॒द्योजा॒तमु॒त ज॑- हात्ये॒षः । उ॒तो जर॑न्तं॒ न ज॑हात्ये॒कं ॥ १ ॥ उ॒तो ब॒ह्वने॒कमह॑र्जहार । अत॑न्द्रो दे॒वः सद॑मेव॒ प्रार्थ्यः॑(३) । ^{(४)}यस्तद्वेद॒ यत॑ आब॒भूव॑ । स॒न्त्यां च॒ याᳵस॑-

णवायुना धार्यमाणः सन् 'बिभर्ति' स्वयमितरान् प्राणिनश्च पोषयितुं समर्थो भवति ॥

अथ तृतीयामाह । ^{(३)}“सद्योजातमुत ॰ सदमेव प्रार्थ्यः”^{(३)} इति । 'एषः' प्राणदेवः, स्वतन्त्रः सन् 'सद्योजातमुत' तदानीं चोत्पन्नमपि* पुरुषमल्पायुषं, 'जहाति' परित्यजति । 'एकं' अन्यं वा कञ्चित् पुरुषं, 'उतो जरन्तं' यतो दीर्घायुषा† जरां प्राप्तमपि, 'न जहाति' । 'एकमहः' एकस्मिन्नेव दिने, 'उतः', 'बह्वन्' लोकानपि‡ पुरुषान्, 'जहार' संहरति, सोऽयं प्राण- देवः 'सदमेव' सर्वदैव 'अतन्द्रः' उच्छ्वासनिश्वासमरणामरण- बङ्गमरणविषयव्यापारेषु आलस्यरहितः, अतोऽयं 'प्रार्थ्यः' अ- स्माभिः प्रार्थनीयः, उपास्य इत्यर्थः ॥

अथ चतुर्थीमाह । ^{(४)}“यस्तद्वेद यतः ॰ स पूर्वेषु”^{(४)} इति । 'यतः' यस्मात् कारणात्, अयं प्राणः 'आबभूव' आविर्बभूव ।


* तदानीमेवोत्पन्नमिति E, G चिह्नितपुस्तकद्वयपाठः ।
† दीर्घेणायुषेति G चिह्नितपुस्तकपाठः ।
‡ अनेकानपि इति G चिह्नितपुस्तकपाठः ।

३४८ तैत्तिरीये आरण्यके

न्धे ब्रह्म॑णैः। रम॑ते॒ तस्मि॑न्नुत जी॒र्णे शया॑ने। नैनं॑ जहात्यह॑स्सु पूर्वे॑द्युः^(१) । ^(५)त्वामापो॒ अनु॒ सर्वा॑श्चरन्ति जा॒नतीः॑। व॒त्सं पय॑सा पु॒नानाः॑। त्वम॒ग्निꣳ ह॑व्य॒वाहं॑ स॒मिन्त्से॒ त्वं भ॒र्त्ता मा॑त॒रिश्व॑ा प्र॒जानां॑^(५) ॥ २ ॥

'तत्' कारणं, यः पुमान् 'वेद' जानाति । तथा 'सन्धां च' सम्बन्धमपि, यो वेद । कीदृशी सन्धेति सैव विशेष्यते, 'एषः' प्राणः, 'ब्रह्मणा' आत्मना सह, 'यां सन्धां', 'सन्दधे' यं स- म्बन्धं प्राप्तवान्, इत्यमिह देहे वस्तव्यं इयन्तं कालमिह वस्तव्यं इत्येतादृशी सन्धा तां 'यो वेद', 'तस्मिन्' पुरुषे, प्राणाकारं प्राणात्मसम्बन्धं वा अभिजानीते 'उतजीर्णे शयाने' तादृशे पुरुषे जरां प्राप्य शयाने सत्यपि, तत्रायं प्राणो 'रमते' क्रीड- ते । 'पूर्वेद्यु' पूर्वकृतैः कर्मभिः सम्पादितेषु, 'अहस्सु' बहुष्वपि दिवसेषु, 'नैनं जहाति' एनं जीर्णं पुरुषं स प्राणो न परि- त्यजति ॥

अथ पञ्चमोमाह । ^(५)"त्वामापो ० प्रजानां"^(५) इति । हे प्राण 'त्वां' वायुरूपं, 'सर्वा आपोऽनुसञ्चरन्ति' यत्र वायुः प्रबलं वाति तत्रैव वाय्वधीनं सत् वृष्टिजलं प्रवर्तते । तत्र दृष्टान्तः, यथा 'जानतीः' स्वस्ववत्साभिज्ञा गावः, 'पयसा पुनानाः' स्वकीयेन क्षीरेण स्रवन्त्यः पोषयन्त्यः, 'वत्समनुसंच- रन्ति' । तद्वदिति द्रष्टव्यं । हे प्राण, 'त्वं', 'हव्यवाहं' ह-

३ प्रपाठके १४ अनुवाकः। ३४६

^(६)त्वं य॒ज्ञस्त्वमु॑वे॒ वासि॒ सोम॑: । तव॑ दे॒वा ह॒वमाय॑न्ति॒ सर्वे॑ । त्वमेको॑सि ब॒हूननु॒प्रवि॑ष्टः । नम॑स्ते अस्तु सु॒हवो॑ म एधि^(६) । ^(७)नमो॑ वामस्तु शृणुतᳵ हवं॑ मे । प्रा॒णो-

विषां वोढारं, ‘अग्निं’, ‘समीन्त्से’ सम्यग्दीपयसि। वायुना ह्यग्निर्दीप्यते तथा ‘त्वं’, एव ‘मात॑रिश्व‍ा’ वायुरूपः सन्, ‘प्रजानां’, ‘भर्त्ता’ धारयितासि ॥

अथ षष्ठीमाह । “^(६)त्वं यज्ञः० सुहवो म एधि”^(६) इति। हे प्राण ‘त्वं’, यज्ञप्रवर्त्तकत्वेन यज्ञरूपोऽसि। प्राणस्य वायुरूप- त्वाद्यज्ञप्रवर्त्तकत्वं। एतच्चान्यत्राम्नातं। वाताद्वा अध्वर्युर्यज्ञं प्रयुङ्क्त इति। ‘सोमः उ’ सोमयागोऽपि, त्वमेव सर्वक्रियाणां वायुप्रेरितत्वात्। किञ्च ‘सर्वे देवाः’, ‘तव हवं’, त्वदीयमा- ह्वानं प्रति, ‘आयन्ति’ आगच्छन्ति। वायुना यागक्रियायां प्रवर्त्तितायां हविरर्थं देवा आगच्छन्ति। किञ्च देवतारूपेण ‘त्वमेकोऽसि’, तथापि ‘बहून्’ देहान्, ‘अनुप्रविष्टः’ तत्तदा- नुकूल्येन पृथग्रूपाणि धृत्वा तत्र तत्र स्थितः, हे प्राण ‘ते’ तुभ्यं, ‘नमोऽस्तु’ । ‘मे’, मम, ‘सुहवः एधि’ आह्व‍ातुं सुलभो भव ॥

अथ सप्तमीमाह । ^(७)“नमो वामस्तु ० युवाना”^(७) इति। ‘अजिरं’ अजरनशीलं* गमनस्वभावं शरीरं, ‘सञ्चरन्तौ’ सम्यक्


* अजनशीलमिति F, G चिह्नितपुस्तकद्वयपाठः ।

३५० तैत्तिरीये आरण्यके

पानावजिरँ॒ सञ्च॑रन्तौ । ह्वया॑मि वां॒ ब्रह्म॑णा॒ तूर्त॑मे- तं॑ । यो मा॑ द्वेष्टि॒ तं ज॑हितं युवाना॑^(७) । ^(८)प्रा॒णा॒पा॒नौ सं॑विदानौ ज॑हितं । अ॒मुष्यासु॑ना॒ मा सङ्ग्॑साथां ॥ ३ ॥ तं मे॑ दे॒वा॒ ब्रह्म॑णा संविदानौ। व॒धाय॑ दत्तम॒हँ- ह॑नामि^(८) । ^(९)अस॑ञ्जजान॒ स त आब॑भूव । यं य॒ञ्ज-

प्रवर्त्तयन्तौ, हे 'प्राणापानौ' 'वां' युवाभ्यां, 'नमोऽस्तु' नम- स्कारोऽस्तु, 'मे हवं' मदीयमाह्वानं, 'शृणुतं' । 'ब्रह्मणा' मन्त्रेण, 'वां ह्वयामि' युवामाह्वयामि । 'तूर्त्तं' तूर्णं शीघ्रं, 'एतं' आगच्छतं, 'युवाना' नित्यं तरुणौ, युवां 'यः' शत्रुः, 'मां', 'द्वेष्टि', तं जहितं विनाशयतं ॥

अथाष्टमोमाह । ^(८)"प्राणापानौ ० हनामि"^(८) इति । हे 'प्राणापानौ' वायू, 'संविदानौ' परस्परमैकमत्यं गतौ, 'जहितं' अस्मच्छत्रुं परित्यजतं, 'अमुष्य' मदीयशत्रोः, 'असु- ना' प्राणेन, 'मा सङ्गसाथां' सङ्गतौ माभूतां, 'मे ब्रह्मणा' मदीयेन मन्त्रेण, 'संविदानौ' ऐकमत्यङ्गतौ, 'देवाः' प्राणा- पानदेवौ युवां, 'तं' मदीयं शत्रुं, 'वधाय' वधार्थं, 'दत्तं' मह्यं प्रयच्छतं 'तं' शत्रुं, 'अहं', 'हनामि' विनाशयामि ॥

अथ नवमीमाह। ^(९)"असञ्जजान ० पुनरस्तमेति"^(९) इति। 'असत्' अव्यक्तं जगत्कारणं, 'जजान' प्रथममाकाशात्मनाऽव्य- क्तरूपेणोत्पन्नं तस्मात् सतोव्यक्तत्वेन सद्रूपादाकाशाद्वायुरूपे 'यः' प्राणः, 'आबभूव' आभिमुख्येनोत्पन्नः । स च वायु-

३ प्रपाठके १४ अनुवाकः । ३५१

जान॒न्त्सउ॑ गो॒पो अ॑स्य। य॒दा भा॒रं तन्द्र॑यते॒ स भ॒र्तुम्। परा॑स्य॒ भारं॒ पुन॒रस्त॑मेति^(९)। ^(१०)तद्वै त्वं प्रा॒णो अ॑भ- वः। म॒हान् भो॑गः प्र॒जाप॑तेः। भुज॑ः क॒रिष्यमा॑णः। यद्दे॒वान् प्रा॒णयो॒ नवे^(१०) ॥४॥ एकं॑, प्र॒जानां॑, ग॒साथां॑, नवे॒ ॥ अनु० १४ ॥

रूपः प्राणः, 'यं यं' देवमनुष्यादिदेहं, 'जजान' उत्पादित- वान्, 'सउ' ससर्वोपि देहः, 'अस्य' प्राणस्य, 'गोपः' रक्षको- ऽभवत्। प्राणो हि शरीरे प्रविश्य गुप्तोवर्तते। यावदायूस्ता- वन्तं कालं तत्रावस्थाय 'यदा', देहरूपं 'भारं', 'भर्तुं तन्द्र- यते' धारयितुं अलसो भवति, तदानीमेव तं 'भारं', 'परास्य' परित्यज्य, 'पुनः', अपि देहोत्पत्तेः प्रागवस्थायां 'अस्तमेति' अदर्शनं गच्छति ॥

अथ दशमीमाह। ^(१०)“तद्वै त्वं ० प्राणयोनव”^(१०) इति। 'यत्' यदा, त्वं 'भुजः' भोगान्, 'करिष्यमाणः', सन् 'नव दे- वान्' नवच्छिद्रवर्तिनश्चक्षुरादीन् दीप्यमानान् पदार्थान् प्रकर्षेण चेष्टितवानसि। 'तद्वै' तदानीमेव, 'त्वं प्राणो अभवः' प्राणयति प्रकर्षेण चेष्टयतीति व्युत्पत्त्याय प्राणनामको अभूः। कीदृशस्त्वं, 'प्रजापतेः', 'महान् भोगः' अत्यन्तभोगहेतुः ॥

इति सायनाचार्य्यविरचिते माधवीये वेदार्थप्रकाशे यजुरा- रण्यके तृतीयप्रपाठके चतुर्दशोऽनुवाकः ॥ १४ ॥

२ x

३५२ तैत्तिरीये आरण्यके

अथ पञ्चदशोऽनुवाकः ।

(१)हरिँ॒ हर॑न्त॒मनु॑यन्ति दे॒वाः । विश्व॑स्येशा॒नं वृष॑भं म॑ती॒नां । ब्रह्म॑ स॒रूप॒मनु॑ मे॒दमागा॑त् । अ॒र्य॒नं॒ मा

अथ पञ्चदशोऽनुवाकः ।

अथ मृत्युसूक्ताख्योऽनुवाकोऽभिधीयते । इत आरभ्य सप्तानामनुवाकानां ब्रह्ममेधे विनियोगं भारद्वाज आह । मृत्युसूक्तेनानुशासनं सौम्या सङ्गाहनं सौर्येणादित्योपस्थानं ही पुष्पावगाहनं*ज्योतिष्मतीभिरुपोषषं चित्तँसन्तानेनेति हविराहुतीः प्रयासाय स्वाहेति स्रुवाहुतीरिति । तत्र मृत्युसूक्ते प्रथमामृचमाह । (१)“हरिँ ॰ विवधोर्विक्रमस्व”(१) इति ।

'हरिं' हरणशीलं प्राणापहर्त्तारं मृत्युदेवं, सर्वे 'देवाः', 'अनुयन्ति' आनुकूल्येन गच्छन्ति, न कोऽपि देवो मृत्युमुल्लङ्घयितुं क्षमते । कीदृशं हरिं, 'हरन्तं' आयुषोऽवसाने प्राणाष्टकमपहरन्तं, अत एव 'विश्वस्येशानं' सर्वस्य जगतः स्वामिनं, 'मतीनां' मननीयानां देवानां मध्ये, 'वृषभं' श्रेष्ठं, अस्मिंस्तु कर्मणि 'सरूपं' समानरूपमनुकूलं 'इदं ब्रह्म' मन्त्रजातं, 'मामनु' यजमानमनुलक्ष्य, 'आगात्' आभिमुख्येन प्राप्नोत् । अतो हे मृत्यो ब्रह्मणा तुष्टः सन् 'अयनं', 'मा 'विवधोः' म-


* मृत्युसूक्तेनानुशंसनं सौर्येणादित्योपस्थानं सौम्यासङ्गाहनमोयुञ्छावगाहनमिति G चिह्नितपुस्तकपाठः ।

३ प्रपाठके १५ अनुवाकः। ३५३

विव॑धी॒र्वि॑क्रमस्व^{(१)}। ^{(२)}मा च्छि॑दो मृत्यो॒ मा व॑धीः। मा मे॒ बलं॒ वि वृ॑हो॒ मा प्रमौ॑षीः। प्र॒जां मा मे॑ रीरिष॒ आयु॑रुग्र। नृ॒चक्ष॑सन्त्वा ह॒विषा॑ विधेम^{(२)}। ^{(३)}स॒द्यश्च॑क- मा॒नाय॑। प्र॒वे॒प॒नाय मृ॒त्यवे॑ ॥ १ ॥

दीयं मार्गं मा विनाशय, किन्तु 'विक्रमस्व' मच्छत्रुविनाशार्थं पराक्रमं कुरु ॥

अथ द्वितीयामाह। ^{(२)}"मा च्छिदः ० हविषा विधेम"^{(२)} इति। हे 'मृत्यो', त्वं 'मा च्छिदः' मदीयस्य कस्याप्यवयवस्य छेदं मा कार्षीः, 'मा वधीः', मम किमपि* 'मा कार्षीः'। 'मे' मदीयं, 'बलं', 'मा विवृृहः' मा विनाशय । 'मा प्रमोषीः' अन्यदपि मदीयं वस्तु चौर्येण मापहर । 'मे' मदीयां, 'प्रजां' पुत्रपौत्रादिकां, 'मा रीरिषः' हिंसितां मा कुरु । हे 'उग्र', देव मदीयं 'आयुः', च 'मा रीरिषः' मा विनाशय । 'नृचक्षसं' मनुष्येषु प्रख्यातं, 'त्वां', 'हविषा', 'विधेम' परिचरेम ॥

अथ तृतीयामाह। ^{(३)}"सद्यश्चकमानाय ० कामेनाजनयन् पुनः"^{(३)} इति। 'सद्यः' तस्मिन्नेव क्षणे, 'चकमानाय' भयहेतवे, 'प्रवेपनाय तेन भयेन प्राणिनां कम्पयित्रे, प्राणिनो हि मृत्योर्नामग्रहणेनैव भीताः कम्पन्ते । 'अस्मै', ईदृशाय, 'मृत्युवे', 'आशाः' सर्वा दिशः, 'अशृण्वन्' शृण्वन्ति । सर्वा


* मम बधमपि इति F, G चिह्नितपुस्तकद्वयपाठः।
2 x 2

३५४ तैत्तिरीये आरण्यके

प्रास्मा॒ आशा॑ अ॑शृण्वन् । कामे॑नाजनयन् पुन॑:^{(३)} । ^{(४)}कामे॑न मे॒ काम॒ आगा॑त् । हृदया॒द्धृद॑यं मृत्योः । यद॒मीषा॑म॒दः प्रि॒यं । तदै॒तूपमा॒मभि॑^{(४)} । ^{(५)}परं॑ मृत्यो॒ अनु॒परे॑हि॒ पन्था॑म् । यस्ते॒ स्व इत॑रो दे॒वया॑नात् । चक्षु

दिग्वर्त्तिनः प्राणिनो मृत्युदेवस्य महिमानं शास्त्रेभ्यः प्रकर्षेण शृण्वन्ति । 'कामेन' मृत्योरिच्छया, 'पुनरजनयन्' पुनः पुनरपत्यानि जनयन्ति । मृत्यौ प्रतिकूले सत्युत्पादितान्यप- त्यानि तदानीमेव म्रियन्ते अतो मृत्युमाराध्य तदिच्छामनुव- र्त्तिनोपत्यान्युत्पादयन्ति ॥

अथ चतुर्थीमाह । ^{(४)}“कामेन मे • तदैतूपमामभि”^{(४)} इति । 'कामेन' मृत्योरिच्छया, 'मे काम आगात्' मदी- यमभीष्टं वस्वागच्छत्* । मदीयं 'हृदयं', 'मृत्योः', 'हृद- यात्' मृत्युचित्तानुकूलेन वर्त्ततामिति शेषः । अतः 'मृत्योः' अनुग्रहे सति 'अमीषां' मदीयानामिन्द्रियाणां 'यददः प्रियं' यदिदं वस्त्वभीष्टं तद्वस्तु मामभिलक्ष्य 'उप' समीपे, 'एतु' आगच्छतु ॥

अथ पञ्चमीमाह । ^{(५)}“परं मृत्यो • प्रजा ऽरीरिषोमोत वीरान्”^{(५)} इति । हे 'मृत्यो', 'देवयानादितरः', 'यः' पन्थाः, 'ते स्वः' तव स्वभूतः, यः तं 'परं पन्थां' देवयानादितरं तं मार्गं, 'अनुपरेहि' अनुक्रमेण प्राप्नुहि । 'चक्षुष्मते' साधुदर्शिने, 'शृण्वते'


* वस्वागच्छतु इति F, G चिह्नितपुस्तकद्वयपाठः

३ प्रपाठके १५ अनुवाकः । ३५५

ष्मते॒ म्रृखते॒ ते॑ ब्रवीमि । मा न॒: प्रजां॑ रीरिषो॒ मोत-
वी॒रान्⁽५⁾ ॥ ⁽६⁾प्र पू॒र्व्यं मन॑सा वन्द॑मानः । नाध॑मानो
वृष॒भं च॑र्षणी॒नां । यः प्र॒जाना॒मेकराण्मानु॑षीणां । मृ॒त्युं
य॑जे प्रथम॒जामृतस्य॑ ॥ २ ॥
मृत्यवे॑, वी॒रान्, च॒त्वारि॑ च ॥ अनु ० १५ ॥


अस्मद्विज्ञप्तीनां श्रोत्रे, 'ते' तुभ्यं, एकं वचनं 'ब्रवीमि', 'नः'
अस्मदीयां, 'प्रजां' पुत्रादिरूपां, 'मारीरिषः' मा विनाशय,
'उत' अपि च, 'वीरान्' शूरान् भृत्यानपि, 'मारीरिषः' ॥

अथ षष्ठमाह । ⁽६⁾"प्र पूर्व्यं ० प्रथमजामृतस्य"⁽१⁾ इति ।
यो मृत्युः 'मानुषीणां' मनुष्यजातियुक्तानां, 'प्रजानां', 'एक राट्'
एक एव राजा, तादृशं 'मृत्युं' अहं 'यजे' पूजयामि । कीदृ-
शोऽहं, 'मनसा वन्दमानः' प्रकर्षेण नमस्कुर्वाणः, 'नाधमानः'
अपेक्षितं फलं याचमानः । कीदृशं मृत्युं, 'प्रपूर्व्यं' प्राणिभ्यः
पूर्वस्मिन् कल्पे भवं । 'चर्षणीनां' मनुष्याणां, 'वृषभं' कामादि-
वर्षणक्षमं । 'ऋतस्य प्रथमजां' सत्यस्य परब्रह्मणः प्रथमोत्पन्न-
कार्यं ॥

इति सायणाचार्य्यविरचिते माधवीये वेदार्थप्रकाशे यजुरा-
रण्यके तृतीयप्रपाठके पञ्चदशोऽनुवाकः ॥ १५ ॥

३५६ तैत्तिरीये आरण्यके

अथ षोडशोऽनुवाकः ।

(१)तरणि॒र्विश्वद॑र्शतॊ॒ ज्योति॑ष्कृदसि सूर्य । विश्व॒माभा॑सि रोच॒नं । उ॒पया॒मगृ॑हीतोसि॒ सूर्या॑य त्वा॒ भ्राज॑स्वत ए॒ष ते॒ योनिः॒ सूर्या॑य त्वा॒ भ्राज॑स्वते(१)॥
अनु० १६॥


अथ षोडशोऽनुवाकः ।

अथ सूर्योपस्थाने विनियुक्तं मन्त्रमाह । (१)“तरणिर्विश्वदर्शत०त्वा भ्राजस्वते”(१) इति । हे ‘सूर्य’, त्वं ‘तरणिः’ अन्धकारोत्तरणहेतुः, ‘विश्वदर्शतः’ विश्वैः सर्वैः प्राणिभिः दर्शनीयः, ‘ज्योतिष्कृत्’ सर्वस्मिँल्लोके प्रकाशकृच्चासि । ‘विश्वं’ सर्वं जगत्, ‘रोचनं’ दीप्यमानं यथा भवति तथा, ‘आभासि’ सर्वतः प्रकाशयसि । अग्निष्टोमे योऽयमतिग्राह्यरूपो ग्रहोऽस्ति तादृश हे ग्रह* ‘भ्राजस्वते’ दीप्तियुक्ताय यथोक्तमहिमोपेताय, ‘सूर्याय’, ‘त्वां’, गृह्णामि अतस्त्वं तदर्थं ‘उपयामगृहीतः’ उपयामेन पृथिवीकार्येण पात्रेण गृहीतः, ‘असि’ । ‘एषः’ हविर्धानमण्डपस्थः खरप्रदेशः ‘ते’ तव, ‘योनिः’ स्थानं, अतः ‘भ्राजस्वते’ दीप्तिमते सूर्याय, ‘त्वां’, तत्र प्रदेशे सादयामि ईदृशोऽयमतिग्राह्यो यस्मै सूर्याय गृह्यते किमु वक्तव्यं तस्य मा-


* तादृशं ग्रहमिति G चिह्नितपुस्तकपाठः ।

३ प्रपाठके १७ अनुवाकः । ३५७

अथ सप्तदशोऽनुवाकः ।

⁽१⁾आप्याय॑स्व मदिन्तम॒ सोम॒ विश्वा॑भिरू॒तिभिः॑ ।
भवा॑ नः स॒प्रथ॑स्तमः⁽१⁾ ॥ अनु० १७ ॥


हात्ममित्येवमुपस्थानकाले स्तुत्यर्थो ग्रहोपन्यासो लिङ्गबला- त्तस्य अतिग्राह्यस्य ग्रहणेऽप्ययं मन्त्रो विनियुज्यते ॥

इति सायनाचार्यविरचिते माधवीये वेदार्थप्रकाशे यजुरा- रण्यके द्वितीयप्रपाठके षोडशोऽनुवाकः ॥ १६ ॥


अथ सप्तदशोऽनुवाकः ।

प्रेतदाहस्थानसमीपे अवटं खात्वा जलं प्रक्षिप्य तेन सेचनं सङ्गाहनं तत्र विनियुक्तां सौमीमृचमाह । ⁽१⁾"आप्यायस्व० स प्रथस्तमः"⁽१⁾ इति । हे 'मदिन्तम' अतिशयेन हर्षयुक्तसोम, 'विश्वाभिरूतिभिः' सर्वप्रकारैरस्मदीयरक्षणैः, 'आप्यायस्व' सर्वतो वर्धस्व । 'नः' अस्मान् प्रति, 'सप्रथस्तमः' अतिशयेन प्रथा- युक्तः, 'भव' ॥

इति सायनाचार्यविरचिते माधवीये वेदार्थप्रकाशे यजुरा- रण्यके द्वितीयप्रपाठके सप्तदशोऽनुवाकः ॥ १७ ॥

३५८ तैत्तिरीये आरण्यके

अथाष्टादशोऽनुवाकः ।

(१)ई॒युष्टे ये पूर्व॑तरामप॑श्यन्॒ व्युच्छ॑न्तीमु॒षसं॒ मर्त्या॑सः । अ॒स्माभि॑रू॒नु प्रति॑च॒क्ष्याभू॒दोते य॑न्ति॒ ये अ॑प॒रीषु॒ पश्यान्॑ ^{(१)} ॥ अनु० १८ ॥


अथाष्टादशोऽनुवाकः ।

अवगाहनेष्टादशीमाह* । (१)“ईयुष्टे ये ० अपरीषु पश्यान्” (१) इति । ‘ये’, ‘मर्त्यासः’ मनुष्याः, ‘व्युच्छन्तीं’ प्रभातं कुर्वन्तीं, ‘उषसं’ उषःकालदेवतां, ‘पूर्वतरां’ इतरेभ्योत्यन्तं पूर्वां, ‘अपश्यन्’ पश्यन्ति, ‘ते’ मनुष्याः, ‘ईयुः’ तां देवतां प्राप्नुवन्ति, ‘अस्माभिरूनु’ अस्माभिरनु क्षिप्रं,† ‘प्रतिचक्ष्याभूत्’ प्रत्यक्षं दर्शनीयाभूत् । ‘ये’ अन्येपि, ‘अपरीषु’ अपररात्रिषु, रात्रीणामवसानेषु, ‘पश्यान्’ पश्यन्ति । ‘ते ओ यन्ति’ तेपि तां देवतां सर्वथा प्राप्नुवन्ति ॥

इति सायनाचार्यविरचिते माधवीये वेदार्थप्रकाशे यजुरारण्यके तृतीयप्रपाठके अथाष्टादशोऽनुवाकः ॥ १८ ॥


* अवगाहने विनियुक्तामौषसीं द्वितीयामृचमाहेति G चिह्नितपुस्तकपाठः ।
† अस्माभिः सा अनुक्षप्रमिति G चिह्नितपुस्तकपाठः ।

३ प्रपाठके १६ अनुवाकः । ३५६

अथ एकोनविंशोऽनुवाकः ।

$^{(१)}$ज्योति॑ष्मतीं त्वा सादयामि ज्योति॒ष्कृतं॑ त्वा सा- दयामि ज्योति॒र्विदं॑ त्वा सादयामि॒ भास्व॑तीं त्वा साद- यामि॒ ज्वल॑न्तीं त्वा सादयामि म॒ल्मला॒ भव॑न्तीं त्वा सा- दयामि दी॒प्यमा॑नां त्वा सादयामि॒ रोच॑मानां त्वा सा- दया॒म्यर्ज॑सां त्वा सादयामि बृ॒हज्ज्योति॑षं त्वा सादया- मि बो॒धयं॑तीं त्वा सादयामि॒ जागृ॑तीं त्वा सादया- मि$^{(१)}$ ॥ अनु० १९ ॥


अथ एकोनविंशोऽनुवाकः ।

अथोपोषणे दाहे विनियुक्तानि यजूंष्याह । $^{(१)}$"ज्योतिष्मतीं • जागृतीं त्वा सादयामि"$^{(१)}$ इति । प्रेतं दग्धुं या समित् प्रक्षिप्यते तां सम्बोध्योच्यते । हे समित् त्वां अस्य प्रेतस्योपरि 'सादयामि' स्थापयामि । ज्योतिष्मतीत्यादिभिर्विशेषणैस्तत् समिधनिष्ठाया ज्वालायाः उत्तरोत्तराभिवृद्ध्या अवस्थाविशेषा उच्यन्ते । अत्यल्पप्रकाशोपेता 'ज्योतिष्मती' । ईषदधिकप्रकाशोपेता 'ज्योतिष्कृत्' । अतोप्यधिकप्रकाशोपेता 'ज्योतिर्वित्' । एवं भास्वत्यादिषु योजनीयं । मल्मलेति दह्यमानकाष्ठध्वनेरनुकरणं । लिङ्गानुसारेणायं मन्त्र इष्टकोपधानेऽपि विनियोक्तव्यः ॥

इति सायनाचार्य्यविरचिते माधवीये वेदार्थप्रकाशे यजुरारण्यके तृतीयप्रपाठके एकोनविंशोऽनुवाकः ॥ १९ ॥

2 x

३६० तैत्तिरीये आरण्यके

अथ विंशोऽनुवाकः ।

^(१)प्र॒या॒साय॒ स्वाहा॑ऽऽया॒साय॒ स्वाहा॑ विया॒साय॒ स्वाहा॑ संया॒साय॒ स्वाहो॑द्या॒साय॒ स्वाहा॑ऽवया॒साय॒ स्वाहा॑ शु॒चे स्वाहा॒ शोका॑य॒ स्वाहा॑ तप॒त्यै स्वाहा॒ तप॑ते॒ स्वाहा॑ ब्रह्मह॒त्यायै॒ स्वाहा॒ सर्व॑स्मै॒ स्वाहा॑^(१) ॥ अनु० २० ॥


अथ विंशोऽनुवाकः ।

अथ स्रुवाहुतिमन्त्रा उच्यन्ते । तत्र द्वादश मन्त्रानाह । (१)“प्रयासाय ० सर्वस्मै स्वाहा”(१) इति । प्रेतस्य यमलोके बाधका देवताविशेषाः प्रयासादिशब्दवाच्याः, तन्निर्वचनानि तु यथायोगमन्नेयानि । तस्मै तस्मै देवतायै स्रुवेण गृहीतमिदमाज्यं स्वाहुतमस्तु ॥

इति सायनाचार्य्यविरचिते माधवीये वेदार्थप्रकाशे यजुरारण्यके तृतीयप्रपाठके विंशोऽनुवाकः ॥ २० ॥

३ प्रपाठके २१ अनुवाकः । ३६१

अथ एकविंशोऽनुवाकः ।

$^{(२)}$चित्तँ॒ सन्ता॑नेन॒ भवं॑ य॒क्ना रु॒द्रन्त॑र्न्नि॒म्ना प॒शुप॒तिँ॑ स्थूलहृदयेना॒ग्निँ॑ हृद॑येन रु॒द्रं लोहि॑तेन॒ शर्वँ॑


अथ एकविंशोऽनुवाकः ।

अथ राजगवीयो होमार्थोऽयमनुवाक उच्यते । तत्र नवमन्त्रानाह । (१)“चित्तँ सन्तानेन ॰ शिङ्गीनिकोशाभ्यां”(१) इति। अत्र द्वितीयान्ताश्चित्तादिशब्दा देवताविशेषवाचिनः, तृतीयान्ताः सन्तानादिशब्दाः पशोर्मांसविशेषवाचिनः, सन्तानाख्येन मांसविशेषेण चित्ताख्यं देवताविशेषं परितोषयाम इति वाक्यशेषः । एवं सर्वत्र योजनीयं । तदेवमस्मिन् प्रपाठके ब्रह्मचितिब्रह्ममेधयोरङ्गभूता मन्त्रा उक्ताः । चातुर्होत्रीयचितिर्ब्रह्मचितिः । ब्रह्म वै चतुर्होतार इत्याम्नातत्वात् । तस्यां ब्रह्मचितौ चित्तिस्स्रुगित्यादयः सुवर्शं घर्ममित्येवमन्ता अनुवाका विनियुक्ताः । ब्रह्ममेधे तु कृत्स्नोऽपि प्रपाठको विनियुक्तः । आहिताग्नेर्यो दहनादिसंस्कारः सोऽयं पितृमेधः । आहिताग्नित्वे सति यो ब्रह्मतत्त्वं जानाति तस्य दहनादिसंस्कारो ब्रह्ममेध इत्युच्यते । तस्मिन् ब्रह्ममेधेऽस्य प्रपाठकस्य विनियोगं भरद्वाज आह, अथात उत्तरं पितृमेधं व्याख्या-

2 x 2

३६२ तैत्तिरीये आरण्यके

मत॑स्ताभ्यां म॒हादे॒वम॒न्तःपा॒र्श्वेना॑पिष्ठह॒न्ग्‍ शि॑ङ्गीनि- को॒शाभ्या॑म्^(१) ॥ १ ॥

चि॒त्तमेक॑म् ॥ अनु० २१ ॥

चित्ति॑:, पृथि॒वी, अ॒ग्निः, सूर्य॑न्ते॒ चक्षु॑:, म॒हा- ह॒विर्होता॑, वाग्धोता॑, ब्रा॒ह्म॒ण एक॑होता, अ॒भि- र्यजु॑र्भिः, सेनेन्द॑स्य, दे॒वस्य॑, सु॒वर्ग्णं घ॒र्मं, स॒हस्र॑शी॒र्षा,


ख्यामो ब्रह्ममेध इत्याचक्षते । तथाप्युदाहरन्ति द्विजातीनामप- वर्गार्थः तत्त्वदर्शिभिः, ऋषिभिः तपसो योगाद्दिष्टितं पुरुषो- त्तमं । दोह्यञ्च* पितृमेधञ्च संसृत्य विधिरुत्तरः । विहितस्तु समासेन ऋतूनामुत्तमः क्रतुरिति । तस्य सप्तर्द्विहोतृभिर्होमो भर्तृसूक्तेन भरणं पत्नीभिरुपसादनं दक्षिणप्रतिग्रहैर्निर्मार्गै- र्हृदयैर्हिरण्यशलाकान् सम्भारयजुर्भिः पाचचयनं ज्योतिष्म- तीभिरुपोषणं नारायणाभ्यामुपस्थानं ब्राह्मण एकहोतृभि- श्चानुमन्त्रणं चित्तिः सन्तानेनेति हविराहुतोः प्रणामाय स्वाहेति स्रुवाहुतीर्मृत्युसूक्तेनानुशसनं सौम्या सङ्काचनं सौर्येणा- दित्योपस्थानमीयुष्णावगाहनं† समानमत ऊर्ध्वं‡ पैतृमेधिक-


* दोह्यंञ्चेति G चिह्नितपुस्तकपाठः ।
† -मीयुष्कावगाहनमिति G चिह्नितपुस्तकपाठः ।
‡ समानमेतदूर्ध्वं इति G चिह्नितपुस्तकपाठः ।

३ प्रपाठके २१ अनुवाकः । ३६३

अ॒ङ्गाः, भ॒र्त्ता, ह॒रिं, त॒र॑णिः, आ॒प्या॑यस्व, ई॒युष्टे ये, ज्योति॑ष्मतीं, प्र॒यासा॑य, चि॒त्तं, एक॑विꣳश॒तिः ॥ ११ ॥ चि॒त्तिः, अ॒ग्निर्यजुर्भिः, अ॒न्तःप्रवि॑ष्टः, प्र॒जाप॑तिः प्र॒जया॑, भ॒र्त्ता*, प्र॒यासा॑य॒, द्विपञ्चा॒शत् ॥ ५२ ॥ तच्छं॒ योरावृ॑णीमहे गा॒तुं य॒ज्ञाय॑ गा॒तुं य॒ज्ञप॑तये । दैवी᳚ स्व॒स्तिर॑स्तु नः । स्व॒स्तिर्मा॑नु॒षेभ्यः॑ । ऊ॒र्ध्वं जि॑गातु भेष॒जं । शन्नो॑ अस्तु द्विपदे᳚ । शं चतु॑ष्पदे । ॐ शान्तिः॒ शान्तिः॒ शान्तिः॑ । हरिः॒ ओ३म् ॥ तत् सत् ॥


मायवोदनप्राशनात्परं ब्रह्मेत्याचक्षते तानसाधारणे श्मशाने प्रयुञ्जीत तानाचार्याय† द्विजातीनामेवं सन्तिष्ठते ब्रह्ममेधः ॥ वेदार्थस्य प्रकाशेन तमोहार्दं निवारयन् । पुमर्थांश्चतुरो देयाद्विद्यातीर्थमहेश्वरः ॥ इति सायनाचार्य्यविरचिते माधवीये वेदार्थप्रकाशे यजुरा- रण्यके तृतीयप्रपाठके एकविंशोऽनुवाकः ॥ २१ ॥

समाप्तश्च तृतीयप्रपाठकः ।


* भर्त्तेत्यादिपाठस्थाने संविदानस्तस्य धीरा ज्योतिष्मतीं द्विपञ्चा- शत् इति पाठः B चिह्नितपुस्तके वर्त्तते । परन्तु दशतिगणनया द्वि- पञ्चाशत्सङ्ख्या नोपलभ्यते । दशमानुवाकस्य चतुर्थदशत्यामुद्धृत्तनव- कण्डिका अपि एकदशतित्वेन ग्राह्याः । † तानाचार्यो य इति G चिह्नितपुस्तकपाठः ।

तैत्तिरीये आरण्यके

चतुर्थप्रपाठकं प्रथमोऽनुवाकः ।


श्रीगणेशाय नमः ।

(१)नमो॑ वा॒चे या चोदि॑ता या चानु॑दिता॒ तस्यै॑ वा॒चे नमो॒ नमो॑ वा॒चे नमो॑ वा॒चस्पत॑ये॒ नम॒ ऋषि॑भ्यो मन्त्र॒-


तैत्तिरीये आरण्यके

चतुर्थप्रपाठके प्रथमोऽनुवाकः ।

यस्य निःश्वसितं वेदा यो वेदेभ्योऽखिलं जगत् ।
निर्ममे तमहं वन्दे विद्यातीर्थमहेश्वरम् ॥
तृतीये कथिता मन्त्रा ब्रह्माग्निब्रह्ममेधयोः ।
प्रवर्ग्यमन्त्राः प्रोच्यन्ते चतुर्थेऽस्मिन् प्रपाठके ॥
तद्ब्राह्मणं पञ्चमे स्यात्तावन्योन्याभिकाङ्क्षिणौ ।
तेन प्रपाठकावेतौ व्याख्यास्ये सह सर्वशः ॥

तत्र चतुर्थस्य प्रथमेऽनुवाके शान्तिपाठार्थो मन्त्रोऽभिधीयते, तस्य च प्रवर्ग्यकर्मादौ महावीरनिष्पत्तेः पूर्वं पाठं बो-

४ प्रपाठके १ अनुवाकः । ३६५

नमो॑ मन्त्र॒पति॑भ्यो॒ मा मामृष॑यो मन्त्र॒कृतो॑ मन्त्र॒पत॑यः परा॑दु॒र्माहमृषी॒न् मन्त्र॒कृतो॑ मन्त्र॒पती॒न् परा॑दा॒म्^(१) ।

ध्यायन् आह। अथामावास्येन वो हविर्ज्ज्येष्ठानक्षत्रे वा *पूर्वां शान्तिमुपयन्ति नमो वाच इति। आपस्तम्बस्तु प्रवर्ग्यप्रचारादौ महावीरनिष्पत्तेरूर्ध्वं शान्तिपाठमाह। प्रवर्ग्येण प्रचरिष्यन्तः प्रवणन्ति† द्वाराणि परिश्रयन्ति पत्न्याः पश्चाद्धोतोपविशति पुरस्तादध्वर्युर्दक्षिणतो ब्रह्मा यजमानः प्रस्तोता चोत्तरतः प्रतिप्रस्थाताग्नीध्रश्च मदन्तीरुपस्पृश्य प्रथमेनानुवाकेन शान्तिं कुर्व्वन्ति। तस्यानुवाकस्य प्रथमभागे स्वाभीष्टानां देवतानामृषीणाञ्च नमस्कारमाह। "(१)नमो वाचे ० परादां"^(१) इति। अनुष्ठेयस्य कर्म्मणो मन्त्राधीनत्वान्मन्त्राणाञ्च वाग्देवताशरीरस्वरूपत्वात् तस्यै देवतायै प्रथमं नमस्काराः क्रियन्ते। वाक् च द्विविधा, काचित् पूर्व्वमुदिता व्यवहृता काचित् अनुदिता व्यवहरिष्यमाणा, तयोर्मध्ये 'या च वागुदिता', तस्या अपि 'नमः', अस्तु। 'या च', पूर्व्वं 'अनुदिता', तस्यै वाचे ऽपि 'नमः', अस्तु। विभज्य नमस्कृत्य पुनः समुदायाकारेण नमस्क्रियते। 'वाचे' भागधेयेऽप्यनुगदितायै वाग्देवतायै 'नमः', अस्तु। सेयं वाग्देवता येन बृहस्पत्तिरूपेण पात्यते तस्मै 'वाचस्पतये', 'नमः', अस्तु। यथा देवतानमस्कारः, तद्वत्


* अमावास्येन वा हविषेष्ट्वा नक्षत्रे वा इति E, G चिह्नितपुस्तकद्वयपाठः।
† संवृण्वन्ति इति E चिह्नितपुस्तकपाठः।

३६६ तैत्तिरीये आरण्यके

(२)वै॒श्व॒दे॒वीं वाच॑मुद्यास॒ग्॒ शिवामद॑स्तां॒ जुष्टां॑ दे॒वेभ्यः॑ ।(१) ।
(३)शर्म॑ मे॒ द्यौ शर्म॑ पृथि॒वी शर्म॑ वि॒श्वमि॒दं जग॑त् । शर्म॑

‘ऋषिभ्यः’, अपि नमस्कारोऽस्तु । कीदृशेभ्यः, ‘मन्त्रकृद्भ्यः’ मन्त्रं कुर्वन्तीति मन्त्रकृतः, यद्यप्यपौरुषेये वेदे कर्त्तारो न सन्ति, तथापि कल्पादावीश्वरानुग्रहेण मन्त्राणां लब्धारो मन्त्रकृत इत्युच्यन्ते । तल्लाभश्च स्मर्य्यते । ‘युगान्ते तर्हि तान् वेदान् सेतिहासान् महर्षयः । लेभिरे तपसा पूर्वमनुज्ञाता स्वयम्भुवेति’ । त एव महर्षयः सम्प्रदायप्रवृत्त्या मन्त्राणां पालनात् ‘मन्त्रपतयः’, इत्युच्यन्ते । तथाविधा महर्षयः ‘मां’ यजमानं, ‘मा परादुः’ परादानमवज्ञां मा कुर्वन्तु, किन्त्वनुगृह्णन्तु । ‘अहं’, अपि तान् महर्षीन् ‘मा परादां’ अवज्ञां न करोमि, किन्त्वादरेण भजामि ॥

द्वितीयभागेन नमस्कारप्रयोजनं दर्शयति । (२)“वैश्वदेवीं ० देवेभ्यः”(१) इति । अहं ‘वाचमुद्यासं’ तत्तद्रूपाया वाचो* वदिता भूयासं । कीदृशीं वाचं, ‘वैश्वदेवीं’ सर्वदेवविषयां, ‘शिवां’ स्तुतिरूपेण देवेभ्यः सुखप्रदां, ‘अदस्तां’ अनुपक्षीणां, सम्पूर्णां, ‘देवेभ्यो जुष्टां’ देवानां प्रियां ॥

तृतीयभागे देवतानुग्रहप्रार्थनारूपामष्टचं दर्शयति । (३)“शर्म मे द्यौः ० प्रजापती”(३) इति । द्यौर्लोकात्मको देवः ‘मे’ मम, ‘शर्म’ सुखरूपः, भवतु, अनुष्ठेये कर्मणि विघ्नपरिहारेण अनुग्र-


* मन्त्ररूपाया वाच इति तै० पाठः ।