तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)
Taittiriya Aranyaka Hindi
महर्षि वैशम्पायन द्वारा
स्रोत: Taittiriya Aranyaka with Sayana Bhashya and Hindi Translation (उद्गम)
३ प्रपाठके १२ अनुवाकः । ३२७
अथ द्वादशोऽनुवाकः ।
(१) स॒हस्र॑शीर्षा॒ पुरु॑षः । स॒ह॒स्रा॒क्षः स॒हस्र॑पात् ।
अथ द्वादशोऽनुवाकः ।
एतैरेकादशभिरनुवाकैश्चातुर्होत्रीयचयनमन्त्रा उक्ताः* । अथ नारायणनाम्ना पुरुषसूक्तनाम्ना च व्यवह्रियमाणोऽनुवाक उच्यते । तस्य विनियोगं महाग्नावापस्तम्बश्चाह । पुरस्तात् प्रतीचीं पुरुषाकृतिं चिनोति पुरुषशिरो भवति, सहस्रशीर्षा पुरुष इत्युपहितां पुरुषेण नारायणेन यजमान उपतिष्ठेतेति । ब्रह्ममेधेऽपि प्रेतदाहोपस्थाने विनियोगं भरद्वाज आह । नारायणाभ्यामुपस्थानमिति । अयं चोत्तरश्चेत्युभावप्यनुवाकौ नारायणमन्त्रौ नारायणाख्येन केनचित् ऋषिणा दृष्टत्वात्, जगत्कारणस्य नारायणाख्यस्य पुरुषस्य प्रतिपादकत्वात्† । तत्रास्मिन् द्वादशेऽनुवाके प्रथमामृचमाह । (१)“सहस्रशीर्षा ० अत्यतिष्ठद्दशाङ्गुलम्”(१) इति । सर्वप्राणिसमष्टिरूपो ब्रह्माण्डदेहो विराडाख्यो यः ‘पुरुषः’, सोऽयं ‘सहस्रशीर्षा’, सहस्रशब्दस्योपलक्षणत्वात् अनन्तैः शिरोभिर्युक्त इत्यर्थः, यानि सर्वप्राणिनां शिरांसि तानि सर्वाणि तद्देहान्तःपातित्वात् तदीयान्येवेति सहस्रशीर्षत्वं । एवमक्षिषु पादेष्वपि योजनीयं । ‘सः’ पुरुषः, ‘भूमिं’
* अभिहिता इति F, G चिह्नित-पुस्तकद्वयपाठः ।
† प्रतिपादकत्वादिति G चिह्नित-पुस्तकपाठः ।
३ M
३२८ तैत्तिरीये आरण्यके
स भूमिं॑ वि॒श्वतो॑ वृ॒त्वा। अत्य॑तिष्ठद्दशाङ्गु॒लम्^(१)। ^(२)पुरु॑ष ए॒वेदꣳ सर्वम्॑। यद्भूतं॒ यच्च॒ भव्यम्॑। उ॒तामृ॑त॒त्वस्येशानः॑। यदन्ने॑नाति॒रोह॑ति^(२)। ^(३)ए॒तावा॑नस्य महि॒मा। अ- तो॒ज्यायाꣳ॑श्च॒ पुरु॑षः॥ १ ॥
ब्रह्माण्डगोलकरूपां ‘विश्वतो वृत्वा’ सर्वतः परिवेष्ट्य, दशाङ्गुल- परिमितं देशं ‘अत्यतिष्ठत्’ अतिक्रम्य स्थितः। दशाङ्गुलमित्यु- पलक्षणं, ब्रह्माण्डाद्बहिरपि सर्वतो व्याप्यावस्थित इत्यर्थः ॥
अथ द्वितीयामाह। ^(२)“पुरुष एवेदꣳ • यदन्नेनातिरोह- ति”^(२) इति । ‘यद्भूतं’ अतीतं जगत्, ‘यच्च भव्यं’ भविष्यज्जगत्, यदपि ‘इदं’ वर्तमानं जगत्, तत् ‘सर्वं’, ‘पुरुष एव’। यथाऽ- स्मिन्* कल्पे वर्तमानाः प्राणिदेहाः सर्वेऽपि विराट्पुरु- षस्यावयवाः, तथा एवातीतागामिनोरपि कल्पयोर्द्रष्टव्यं । ‘उत’ अपि च, ‘अमृतत्वस्य’ देवत्वस्य, अयं ‘ईशानः’ स्वामी, यस्मात् कारणात् ‘अन्नेन’ प्राणिनां भोग्येनान्नेन निमित्त- भूतेन, ‘अतिरोहति’, स्वकीयकारणावस्थामतिक्रम्य परिदृश्यमानं जगदवस्थां प्राप्नोति । तस्मात् प्राणिनां कर्मफलभोगाय जगदवस्थास्वीकारात् नेदन्तस्य वस्तुतत्त्वमित्यर्थः ॥
अथ तृतीयामाह । ^(३)“एतावानस्य • त्रिपादस्यामृतं दिवि”
* यदा यस्मिन्निति तै० पाठः ।
पादो॑ऽस्य॒ विश्वा॑ भू॒तानि॑ । त्रि॒पाद॒स्या॒मृतं॑ दि॒वि^{(३)}} ।
३ प्रपाठके १२ अनुवाकः। ३२६
पादो॑ऽस्य॒ विश्वा॑ भू॒तानि॑ । त्रि॒पाद॒स्या॒मृतं॑ दि॒वि^{(३)}} । ^{(४)}त्रि॒पादूर्ध्व उदै॒त् पुरु॑षः । पादो॑ऽस्ये॒हाऽऽभ॑व॒त् पुन॑: ।
(३) इति । अतीतानागतवर्तमानरूपं जगद्यावदस्ति 'एतावान्' सर्वोऽपि, 'अस्य' पुरुषस्य, 'महिमा' । स्वकीयसामर्थ्यविशेषः, न तु तस्य वास्तवं स्वरूपं वास्तववस्तुपुरुषः 'अतः' महिम्नोऽपि, 'ज्यायान्' अतिशयेनाधिकः । एतच्च* स्पष्टीक्रियते। 'विश्वाभूतानि'† कालत्रयवर्तीनि प्राणिजातानि, 'अस्य' पुरुषस्य, 'पादः' चतुर्थोऽंशः। 'अस्य', अवशिष्टं 'त्रिपात् स्वरूपं' 'अमृतं' विनाशरहितं सत्, 'दिवि' द्योतनात्मके स्वप्रकाशरूपे, अवतिष्ठते । यद्यपि सत्यं ज्ञानमनन्तं ब्रह्मेत्याम्नातस्य परब्रह्मण इयत्तया अभावात् अंशचतुष्टयं न निरूपयितुं शक्यं तथापि जगदिदं ब्रह्मस्वरूपापेक्षयाऽत्यल्पमिति विवक्षितत्वात् पादोपन्यासः ॥
अथ चतुर्थीमाह । ^{(४)}“त्रिपादूर्ध्व उदैत्पुरुषः ० साशनानशने अभि”^{(४)} इति । योऽयं 'त्रिपात्', 'पुरुषः' संसारस्पर्शरहितब्रह्मस्वरूपः‡ । सोऽयं 'ऊर्ध्व उदैत्' अस्मादज्ञानकार्यात्
* एतच्चोभयमिति F, G चिह्नित-पुस्तकद्वय-पाठः ।
† सर्वाणि भूतानि इति G चिह्नित पुस्तकपाठः ।
‡ संसारस्पर्शरहितब्रह्मस्वरूप इति तद्भिन्नाक्षरपुस्तकस्य G चिह्नित-पुस्तकस्य च पाठः ।
3 M 2
३३० तैत्तिरीये आरण्यके
ततो विष्वङ्व्यक्रामत् । साशनानशने अभि^(४) । ^(५)त-
संसाराद्वहिर्भूतः सन् अत्यन्तैर्गुणदोषैरस्पृष्टः उत्कर्षेण स्थितवान् । तस्य योऽयं 'पादः' लेशः, सोऽयं 'इह' मायायां, 'पुनराभवत्' । सृष्टिसंहाराभ्यां पुनः पुनरागच्छति । अस्य सर्वस्य जगतः, परमात्भांशत्वं* भगवताऽप्युक्तम्, विष्टभ्याहमिदं कृत्स्नमेकांशेन स्थितो जगदिति । 'ततः' मायया आगत्यानन्तरं† 'विष्वङ्' देवतिर्यगादिरूपो‡ विविधः सन्, 'व्यक्रामत्' व्याप्तवान् । किं कृत्वा । 'साशनानशने' 'अभि,' लक्ष्य साशनं भोजनादिव्यवहारोपेतं चेतनं प्राणिजातं अनशनं तद्रहितमचेतनं गिरिनद्यादिकं तदुभयं यथास्यात् तथा स्वयमेवंविधो भूत्वा व्याप्तवानित्यर्थः ॥
अथ पञ्चमीमाह । ^(५)“तस्माद्विराज्जायत ० पश्चाद्भूमिमथोपुरः”^(५) इति । विष्वङ्व्यक्रामदिति यदुक्तं तदेव प्रपञ्च्यते । 'तस्मात्' आदिपुरुषात्, 'विराट् अजायत' ब्रह्माण्डदेह उत्पन्नः, विविधं राजन्ते वस्तून्यत्रेति विराट्, 'विराजो अधि' विराड् देहस्योपरिस्थितमेव देहमधिकरणं कृत्वा,
* परमात्मोपदेशत्वमिति तै० पाठः † माययागत्यनन्तरमिति तै० पाठः। मायायामागत्यनन्तरमिति G चिह्नित-पुस्तकपाठः । ‡ देवतिर्यगादिरूपेणेति तै०पाठः। G चिह्नित पुस्तकस्य च पाठः।
३ प्रपाठके १२ अनुवाकः । ३३१
स्मा॑द्वि॒राड॑जायत । वि॒राजे॒ अधि॒ पूरु॑षः । स जा॒तो अत्य॑रिच्यत । प॒श्चाद्भूमि॒मथो॑ पु॒रः^(५) ॥ २ ॥ ^(६)यत् पुरु॑षेण ह॒विषा॑ । दे॒वा य॒ज्ञमत॑न्वत । व॒सन्तो॒
‘पुरुषः’ तद्देहाभिमानी कश्चित् पुमान्, ‘अजायत’ । योऽयं सर्ववेदान्तवेद्यः परमात्मा स एव स्वकीयया मायया विराड्- देहं ब्रह्माण्डं सृष्ट्वा तत्र जीवः* अभवत् । एतच्चाथर्वणिका उत्तरतापनीये समामनन्ति† । स वा एष भूतानीन्द्रियाणि विराजं देवताः कोशांश्च सृष्ट्वा प्रविश्यामूढो मूढ इव व्यव- हरन्नास्ते माययैवेति । ‘स जातः’ विराट् पुरुषः ‘अत्य- रिच्यत’ अतिरिक्तोऽभूत्, विराड्व्यतिरिक्तो देवतिर्यङ्मनुष्या- दिरूपोऽभूत् । ‘पश्चात्’ देवादिजीवभावादूर्ध्वं, ‘भूमिं’ सस- र्जेति शेषः । ‘अथो’ भूमिसृष्टेरनन्तरं, तेषां जीवानां ‘पुरः’ ‘ससर्ज’, आपूर्यन्ते सप्तभिर्धातुभिरिति पुरः शरीराणि ॥
अथ षष्ठमाह । ^((६))“यत् पुरुषेण० ग्रीष्म इध्मः शरद्धविः” (६) इति । पूर्वोक्तक्रमेण देवशरीरेषूत्पन्नेषु ते ‘देवाः’, उत्तर- सृष्टिसिद्ध्यर्थं तत्साधनत्वेन ‘यज्ञमतन्वत’ कञ्चिद्यज्ञमन्वतिष्ठन् ।
* तत्र जीवरूपेण प्रविश्य ब्रह्माण्डाभिमानी देवतात्मा जीवोभवत्
इति F पुस्तकपाठः। तत्र जीवरूपेण प्रविश्य ब्रह्माण्डाभिमानी देव-
ताऽभवत् इति तै० पाठः। तत्र जीवरूपेण ब्रह्माण्डाभिमानी देव-
तात्मा जीवोभवत् इति G चिह्नित-पुस्तकस्य पाठः।
† साधु समामनन्तीति F, G चिह्नित पुस्तकद्वयपाठः।
३३२ तैत्तिरीये आरण्यके
अ॒स्यासी॒दाज्य॑म्। ग्री॒ष्म इ॒ध्मः श॒रद्ध॒विः॑।⁽६⁾। ⁽७⁾स॒प्तास्या॑सन्
परि॒धयः॑। त्रिः स॒प्त स॒मिधः॑ कृ॒ताः। दे॒वा यद्य॒ज्ञं त॑न्वा-
बाह्यद्रव्यस्याप्यनुत्पन्नतवेन हविरन्तरासम्भवात् पुरुषस्वरूपमेव
मनसा हविष्ट्वेन सङ्कल्प्य तेन 'पुरुषाख्येन', 'हविषा', 'यत्' यदा,
मानसं 'यज्ञं', अकुर्वत तदानीं 'अस्य' यज्ञस्य, वसन्तर्त्तुरेव 'आज्यं',
अभूत्, तमेवाज्यत्वेन सङ्कल्पितवन्तः, एवं 'ग्रीष्मः', इध्मत्वेन स-
ङ्कल्पितः । 'शरत्', पुरोडाशादिहविष्ट्वेन सङ्कल्पिता। पूर्वं पु-
रुषस्य हविःसामान्यरूपत्वेन सङ्कल्पः। वसन्तादीनां त्वाज्या-
दिविशेषरूपत्वेनेति द्रष्टव्यं ॥
अथ सप्तमीमाह। ⁽७⁾"सप्तास्यासन् परिधयः ० अबध्नन् पु-
रुषं पशुं"⁽७⁾ इति। 'अस्य' साङ्कल्पिकयज्ञस्य, गायत्र्यादीनि
'सप्त', छन्दांसि 'परिधयः', 'आसन्', ऐष्टिकस्याहवनीयस्य,
त्रयः परिधयः औत्तरवेदिकास्त्रयः, आदित्यश्च सप्तमः परि-
धिप्रतिनिधिरूपः। अत एवाम्नायते, न पुरस्तात् परिदधा-
त्यादित्यो ह्येवोद्यन् पुरस्ताद्रक्षाꣳस्यपहन्तोति। त एत आदि-
त्यसहिताः* सप्त परिधयोऽत्र सप्तच्छन्दोरूपाः। तथा 'समिधः',
'त्रिःसप्त' त्रिर्गुणितसप्तसङ्ख्याकाः एकविंशतिः, 'कृताः' द्वादश
* तेष्वादित्यसहिता इति G चिह्नित-पुस्तकपाठः।
३ प्रपाठके १२ अनुवाकः । ३३३
नाः । अब॑ध्नन् पुरु॑षं प॒शुं^(७) । ^(८)तं य॒ज्ञं ब॒र्हिषि॒ प्रौ-
क्षन् । पुरु॑षं जा॒तम॑ग्र॒तः ॥ ३ ॥
तेन॑ दे॒वा अय॑जन्त । सा॒ध्या ऋष॑यश्च॒ ये^(८) । ^(९)त-
स्मा॑द्य॒ज्ञात् स॑र्व्वहुतः॑ । सम्भृ॑तं पृषदा॒ज्यं प॒शूꣳस्ताꣳ-
मासाः, पञ्चर्तवः, त्रय इमे लोकाः, असावादित्य एकविंश इति
श्रुताः पदार्था एकविंशतिदारुयुक्तेध्मत्वेन भाविताः । यः
पुरुषो* वै राजोऽस्ति तं ‘पुरुषं’, ‘देवाः’ प्रजापतिप्राणेन्द्रिय-
रूपाः, ‘यज्ञं तन्वानाः’ मानमयज्ञं कुर्वाणाः, ‘पशुमबध्नन्’
विराट्पुरुषमेव पशुत्वेन भावितवन्तः । एतदेवाभिप्रेत्य पूर्व्वत्र
पुरुषेण हविषेत्युक्तं ॥
अथाष्टमीमाह । ^(८)“तं यज्ञं बर्हिषिप्रौक्षन् ० साध्या ऋषयश्च
ये”^(८) इति । ‘यज्ञं’ यज्ञसाधनभूतं, ‘तं’ पुरुषं, पशुत्वभावनया
यूपे बध्नन् ‘बर्हिषि’ मानसे यज्ञे, ‘प्रौक्षन्’ प्रोक्षितवन्तः । की-
दृशं ‘अग्रतः’ सर्व्वसृष्टेः पूर्व्वं, ‘पुरुषं जातं’ पुरुषत्वेनोत्पन्नं । एतच्च
पूर्व्वमेवोक्तं । तस्माद्विराजायत विराजो अधिपूरुष इति । ‘तेन’
पुरुषरूपेण पशुना, ‘देवाः’ ‘अयजन्त’ मानसयागं निष्पा-
दितवन्तः । के ते देवाः इति त एवोच्यन्ते । ‘साध्याः’ सृष्टि-
साधनयोग्याः, प्रजापतिप्राणरूपाः तदनुकूलाः, ‘ऋषयः’ मन्त्र-
द्रष्टारश्च, ‘ये’, सन्ति ते सर्वेऽपि ‘अयजन्त’ ॥
अथ नवमीमाह । ^(९)“तस्माद्यज्ञात् सर्व्वहुत ० ग्राम्याश्च ये”
* यत् यः पुरुष इति G चिह्नित-पुस्तकपाठः ।
३३४ तैत्तिरीये आरण्यके
श्च॒क्रे वायव्या॑न् । आ॒र॒ण्यान् ग्राम्याश्च॒ ये^(९) । ^(१०)तस्मा॑- द्य॒ज्ञात् स॑र्व॒हुत॑: । ऋच॒: सामा॑नि जज्ञिरे । छन्दाँ॑सि जज्ञि॒रे तस्मा॑त् । यजु॒स्तस्मा॑दजायत^(१०) ॥ ४ ॥ ^(११)तस्मा॒दश्वा॑ अजायन्त । ये के चो॑भ॒याद॑तः । गा-
(९) इति । 'सर्वहुतः' सर्वात्मकः पुरुषो यस्मिन् यज्ञे हूयते सोऽयं सर्वहुतः तादृशात्, पूर्वोक्तात् मानसात् 'यज्ञात्', 'पृषदाज्यं', 'सम्भृतं' सम्पादितं, दधि चाज्यं चेत्येवमादिभोग्यजातं सम्पादितमित्यर्थः । तथा 'वायव्यान्' वायुदेवताकान्, लोकप्रसिद्धान्, 'आरण्यान्', 'पशून्', 'चक्रे' उत्पादितवान् । आरण्याः द्विखुरादयः तथा ये 'ग्राम्याः' गवाश्वादयं, तानप्युत्पादितवान् । पशूनामन्तरिक्षद्वारा वायुदेवत्यत्वं मन्त्रान्तरव्याख्याने समाम्नातं । वायवस्त्येत्याह वायुर्वा अन्तरिक्षस्याध्यक्षाः । अन्तरिक्षर्देवत्याः खलु वै पशवः । वायव एवैनान् परिददातीति ॥
अथ दशमीमाह । (१०)“तस्माद्यज्ञात् ० यजुस्तस्मादजायत”(१०) इति । 'छन्दांसि' गायत्र्यादीनि । स्पष्टमन्यत् ॥
अथैकादशीमाह । (११)“तस्मादश्वा अजायत०तस्माज्जाता अजावयः”(११) इति । अश्वव्यतिरिक्ता गर्दभा अश्वतराश्च ये
३ प्रपाठके १२ अनुवाकः । ३३५
वा॑ ह जज्ञिरे॒ तस्मा॑त् । तस्मा॑ज्जा॒ता अ॒जाव॑यः।(११) । (१२) यत् पुरु॑षं॒ व्यद॑धुः । क॒ति॒धा व्य॑कल्पयन् । मुखं॒ किम॑स्य॒ कौ बा॒हू । कावू॒रू पादा॑वुच्येते।(१२) । (१३)ब्राह्म॒णो॑स्य॒ मु- ख॑मासीत् । बा॒हू रा॑ज॒न्यः॑ कृतः ॥ ५ ॥
केचिदूर्ध्वाधोभागयोरुभयोर्दन्तयुक्ताः सन्ति तेऽश्ववत् ‘अजा- यन्त’ । तथा ‘गावः’, अजाश्वावयश्च ते सर्वेऽप्युत्पन्नाः ॥
अथ द्वादशीमाह । (१२)“यत् पुरुषं० कावूरू पादावुच्येते” (१२) इति । प्रश्नोत्तररूपेण ब्राह्मणादिसृष्टिं वक्तुमत्र ब्रह्म- वादिनां प्रश्ना उच्यन्ते । प्रजापतेः प्राणरूपा देवाः ‘यत्’ यदा, ‘पुरुषं’ विराड्रूपं, ‘व्यदधुः’ सङ्कल्पेनोत्पादितवन्तः । तदानीं ‘क- तिधा’ कतिभिः प्रकारैः, ‘व्यकल्पयन्’ विविधं कल्पितवन्तः । एष सामान्यरूपः प्रश्नः । मुखं किमित्यादयो विशेषप्रश्नाः ॥
अथ त्रयोदशीमाह । (१३)“ब्राह्मणोस्य ० अजायत”(१३) इति । योऽयं ब्राह्मणजातिविशिष्टः पुरुषः सोऽयं ‘अस्य’ प्रजा- पतेः, ‘मुखमासीत्’, मुखादुत्पन्न इत्यर्थः । योऽयं ‘राजन्यः’ क्ष- त्रियजातिः, स बाहुत्वेन निष्पादितः, बाहुभ्यामुत्पादित इत्यर्थः । ‘तत्’ तदानीं, यौ प्रजापतेः ‘ऊरू’, तद्रूपः ‘वैश्यः’, सम्पन्नः* ऊरुभ्यामुत्पन्न इत्यर्थः । तथा ‘पद्भ्यां शूद्रः’, उत्पन्नः ।
* उत्पन्न इति तै० पाठः ।
२ 8
| ३२६ | तैत्तिरीये आरण्यके |
|---|
ऊ॒रू तद॑स्य॒ यद्वैश्य॑: । प॒द्भ्याग्ँ शू॒द्रो अ॑जायत^(१३) ।
^(१४)च॒न्द्रमा॒ मन॑सो जा॒तः । चक्षो॒: सूर्यो॑ अजायत ।
मुखा॒दिन्द्र॑श्चा॒ग्निश्च॑ । प्रा॒णाद्वा॒युर॑जायत^(१४) । ^(१५)ना-
भ्या॑ आसीद॒न्तरि॑क्षम् । शी॒र्ष्णो द्यौ: सम॑वर्त्तत । प॒द्भ्यां
भूमि॒र्दिश॑: श्रोत्रा॑त् । तथा॑ लो॒काग्ँ अ॑कल्पयन्^(१५) ॥ ६ ॥
इयं च मुखादिभ्यो ब्राह्मणादीनामुत्पत्तिः सप्तमकाण्डे स मुखतस्त्रिवृतं निरमिमीतेत्यादौ विस्पष्टमाम्नाता । अतः प्रश्नोत्तरे उभे अपि तत्परत्वेनैव* योजनीये ॥
अथ चतुर्दशीमाह । ^(१४)“चन्द्रमा मनसो जातः ० प्राणाद्वायुरजायत”^(१४) इति । यथा दध्याज्यादिद्रव्याणि गवादिपशवः ऋगादिवेदाः ब्राह्मणादिमनुष्याश्च तस्मादुत्पन्नाः, एवं चन्द्रादयो देवा अपि तस्मादेवोत्पन्नाः । ‘चक्षोः’ चक्षुषः ॥
अथ पञ्चदशीमाह । ^(१५)“नाभ्या आसीदन्तरिक्षं ० अकल्पयन्”^(१५) इति । यथा देवास्तस्मादुत्पन्नाः । तथा लोकानप्यन्तरिक्षादीन् प्रजापतेः नाभ्याद्यवयवात्† ‘अकल्पयन्’ उत्पादितवन्तः ॥
* तत्परत्वेनैव तयोरिति F पुस्तकपाठः
† नाभ्याद्यवयवेभ्य इति तै० पाठः ।
३ प्रपाठके १२ अनुवाकः। ३६७
(१६)वेदा॒हमे॒तं पुरु॑षं म॒हान्त॑म्। आ॒दि॒त्यव॑र्णं तम॑सस्तु पा॒रे। सर्वा॑णि रू॒पाणि॑ वि॒चित्य॒ धीरः॑। नामा॑नि कृ॒- त्वाभि॒वद॒न् यदास्ते॑(१६)। (१७)धा॒ता पु॒रस्ता॒द्यमु॒दाज॑-
अथ षोडशीमाह। (१६)“वेदाहमेतं ॰ यदास्ते”(१६) इति। यथोक्तविराट्पुरुषध्यानमत्र प्रतिपाद्यते। तत्र मन्त्रद्रष्टा स्वकी- यं ध्यानानुभवं प्रकटयति। ‘यत्’ यः पुरुषः, ‘सर्वाणि रूपाणि’ देवमनुष्यशरीराणि, ‘विचित्य’ विशेषेण निष्पाद्य, ‘नामानि’ च देवोऽयं पशुरयमित्यादीनि, ‘कृत्वा’, ‘अभिवदन्’, तैर्नाम- भिरभितो व्यवहरन्, ‘आस्ते’, ‘एतं’ ‘पुरुषं’ विराजं, ‘महा- न्तं’ सर्वगुणैरधिकं, ‘आदित्यवर्णं’ आदित्यवत् प्रकाशमानं, ‘वेद’ ‘अहं’, जानामि, ध्यानेन सर्वदा अनुभवामीत्यर्थः। स च पुरुषः ‘तमसः पारे’ अज्ञानात्परस्ताद्वर्त्तते। अतो गुरुशास्त्रोपदेशरहितैर्मूढैरनुभवितुमशक्य इत्यर्थः॥
अथ सप्तदशीमाह। (१७)“धाता ॰ अयनाय विद्यते” (१७) इति। ‘धाता’ प्रजापतिः, ‘यं’ विराट्पुरुषं, ‘उदाजहार’ ध्यातॄणामुपकारार्थं प्रख्यापितवान्। ‘चतस्रः प्रदिशः’ चतुर्द्दि- क्षु वर्तिनः सर्वान् प्राणिनः, ‘प्रविद्वान्’ प्रकर्षेण जानन्, ‘शक्रः’ इन्द्रः, तदनुग्रहार्थं प्रख्यापितवान्। धातुरिन्द्रस्योपदेशात् ‘तं’
२ s २
३३८ तैत्तिरीये आरण्यके
हार॑। श॒क्रः प्र॒विद्वा॒न् प्र॒दिश॒श्चत॑स्रः। तमे॒वं वि॒द्वा- न॒मृत॑ इ॒ह भ॑वति। नान्यः पन्था॒ अय॑नाय विद्यते⁽१७⁾। ⁽१८⁾य॒ज्ञेन॑ य॒ज्ञम॑यजन्त दे॒वाः। ता॒नि धर्मा॑णि प्रथ॒मान्या॑-
विराट्पुरुषं ‘एवं’ उक्तप्रकारेण, ‘विद्वान्’ साक्षात् कुर्वन्, ‘इह’ अस्मिन्नेव जन्मनि, ‘अमृतः’ मरणरहितः, ‘भवति’। यदा विराट्पुरुषोऽहमिति साक्षात् करोति तदानीं वर्त्तमा- नदेहस्य तत्स्वरूपलाभावात् तन्मरणेन *अयमुपासको न म्रियते ‘अयनाय’ अमृतत्वप्राप्तये, ‘अन्यः पन्थाः’ यथोक्तविराट्- पुरुषसाक्षात्कारमन्तरेणान्यो मार्गः, ‘न विद्यते’। न हि कर्म- सहस्रैरप्यमृतत्वं सम्पादयितुं शक्यते। न कर्मणा न प्रजया धनेनेत्यादि शास्त्रात् ॥
अथाष्टादशीमाह। ⁽१८⁾“यज्ञेन ० मन्ति देवाः”⁽१८⁾ इति। अत्र कृत्स्नानुवाकतात्पर्यं सङ्क्षिप्योपन्यस्यति। ‘देवाः’ प्रजापति- प्राणरूपाः, ‘यज्ञेन’ यथोक्तेन मानसेन सङ्कल्पेन, ‘यज्ञं’ यथोक्त- यज्ञस्वरूपं प्रजापतिं, ‘अयजन्त’ पूजितवन्तः, तस्मात् पूजनात् ‘तानि’ प्रसिद्धानि, ‘धर्माणि’ जगद्रूपविकाराणां धारकाणि, ‘प्रथमानि’ मुख्यानि भूतानि,† ‘आसन्’, एतावता सृष्टिप्रतिपा-
* तत्प्रत्यक्तरूपत्वाभावात् अन्यमरणेनेति G चिह्नितपुस्तकपाठः।
† मुख्यभूतानीति G चिह्नितपुस्तकपाठः।
३ प्रपाठके १२ अनुवाकः । ३३६
सन् ॥ ते ह॒ नाकं॑ महि॒मान॑: सचन्ते । यत्र॒ पूर्वे॑ सा॒ध्या: सन्ति॑ दे॒वा:(१८) ॥ ७ ॥*
पू॒रुष॑:, पु॒रः, अग्र॑तः, अजायत, कु॒तः, अ॑कल्पयन्, आ॑सन्, द्वे च॑ ॥ १२ ॥
दकोनुवाकभागार्थः† सङ्गृहीतः। अथोपासनतत्फलरूपोनु- वाकभागार्थः सङ्गृह्यते, 'यत्र' यस्मिन् विराट्प्राप्तिरूपे, नाके, 'पूर्वे साध्याः' पुरातना विराडुपास्तिसाधकाः,‡ 'देवाः', 'सन्ति' तिष्ठन्ति । तं 'नाकं' विराट्प्राप्तिरूपं स्वर्गं, 'ते महिमानः' तदुपासका महात्मानः, 'सचन्ते' समवयन्ति प्राप्नुवन्ति ॥
इति सायनाचार्यविरचिते माधवीये वेदार्थप्रकाशे यजुरा- रण्यके तृतीयप्रपाठके द्वादशोऽनुवाकः ॥ १२ ॥
* एतत्पुरुषसूक्ते ऋग्वेदीयपुरुषसूक्तात् पाठभेदो दृश्यते । एत- दीया सप्तमी ऋक् 'तथा लोकाँऽ अकल्पयन्' इत्यतः परं पठिता । तथा षोडशी सप्तदशी च द्वे ऋचे ऋग्वेदीयसूक्ते न दृश्येते । † सृष्टिप्रतिसृष्टिप्रतिपादक इति तै० पाठः । ‡ विराड्रूपोपास्तिसाधका इति G चिह्नितपुस्तकपाठः ।
| २४० | तैत्तिरीये आरण्यके |
|---|
अथ त्रयोदशोऽनुवाकः ।
(१) अ॒द्भ्यः संभू॑तः पृथि॒व्यै रसा॓च्च । वि॒श्वकर्म॑णः॒ स-
म॑वर्त्त॒ताधि॑ । तस्य॒ त्वष्टा॑ वि॒दध॑द्रू॒पमे॑ति । तत्पुरु॑षस्य॒
अथ त्रयोदशोऽनुवाकः ।
अथोत्तरनारायणाख्यः कश्चिदनुवाकस्तस्य च विनियोगं पुरुषमेधे आपस्तम्ब आह । उत्तरनारायणेनादित्यमुपस्था-येति । तत्र प्रथमामृचमाह । (१)“अद्भ्यः सम्भूतः ० विश्वमा-जानमग्रे”(१) इति । योऽयं विराड्रूपो नारायणाख्यः पुरुषः सोऽयं 'अद्भ्यः सम्भूतः' सर्वत्र* व्यापेषु जलेषु क्षीरमध्ये मण्ड-वत् ब्रह्माण्डगोलकमुत्पन्नं । न केवलमद्भ्य एव किन्तु 'पृथिव्यै रसाच्च' भूम्याः सम्बन्धी योऽयं रसः सारः तस्मादप्युत्पन्नः । मण्डस्य योऽयं घनीभावः स पार्थिवः, स च तन्मध्यद्रव्यांशाः† ते आप्याः, यत् कठिनं सा पृथिवी, यद्द्रवं तदाप इत्यादि-श्रुतेः । 'विश्वकर्मणः' जगत्कर्त्तुः परमेश्वरात्, 'अधिसमवर्तत' आधिक्येन निष्पन्नः' योऽयं ब्रह्माण्डाभिमानो चेतनः पुमान् सोऽयमीश्वरांशः 'तस्य' विराट्पुरुषस्य, 'रूपं' चतुर्दशलोकरूपा-वयवसंस्थानं 'विदधत्' निष्पादयन् । 'त्वष्टा' विश्वकर्मा जग-
* सर्वत इति F चिह्नितपुस्तकपाठः ।
† ये च तन्मध्ये द्रवांशा इति F, G, चिह्नितपुस्तकद्वयपाठः ।
३ प्रपाठके १३ अनुवाकः । ३४१
विश्व॑माजा॒नमग्रे॑।⁽१⁾ । ⁽२⁾वेदा॒हमे॒तं पुरु॑षं म॒हान्त॑म्। आ॒दि॒त्यव॑र्णं तम॑सः प॒रस्ता॑त्। तमे॒वं वि॒द्वान॒मृत॑ इ॒ह भ॑वति। नान्यः पन्था॑ विद्य॒तेऽय॑नाय⁽२⁾। ⁽३⁾प्र॒जाप॑तिश्चरति॒ गर्भे॑ अ॒न्तः। अ॒जाय॑मानो बहु॒धा विजा॑यते ॥ १ ॥
तस्य॒ धीराः॒ परि॑जानन्ति॒ योनि॑म्। मरी॑चीनां पद॒-
दीश्वरः, ‘एति’ प्रवर्तते, ‘पुरुषस्य’ विराडाख्यस्य, सम्बन्धि ‘तत्’ विश्वं, प्रसिद्धं* देवमनुष्यादिरूपं सर्वं, जगद् ‘अग्रे’ सृष्ट्यादौ, ‘आजानं’ सर्वत उत्पन्नं ॥
अथ द्वितीयामाह । ⁽१⁾“वेदाहमेतं • विद्यतेयनाय”⁽२⁾ इति । पूर्ववत् व्याख्येयं ॥
अथ तृतीयामाह । ⁽३⁾“प्रजापतिश्चरति• पदमिच्छन्ति वेधसः”⁽२⁾ इति । ब्रह्माण्डरूपे ‘गर्भे’, ‘अन्तः’ मध्ये, ‘प्रजापतिः’, विग्रहवान् भूत्वा ‘चरति’। स च वास्तवेन रूपेण सत्यं ज्ञानमनन्तं ब्रह्मेत्येतादृशत्वात् ‘अजायमानः,’ एव तथापि मायिकेन रूपेण ‘बहुधा’ स्थावरजङ्गमादिबहुप्रकारः, विशेषेण ‘जायते’। ‘तस्य’ प्रजापतेः, ‘योनिं’ जगत्कारणरूपं वास्तवं स्वरूपं, ‘धीराः’ धैर्यवन्तो योगेन निरुद्धेन्द्रियाः महात्मानः, ‘जानन्ति’, ‘वेध-
* तद्विखण्डप्रसिद्धमिति G चिह्नितपुस्तकपाठः ।
३४२ तैत्तिरीये आरण्यके
मि॑च्छन्ति वे॒धस॑:॥^(१)। ^(४)यो दे॒वेभ्य॒ आत॑पति। यो दे॒- वानां॑ पु॒रोहि॑तः। पूर्वो॒ यो दे॒वेभ्यो॑ जा॒तः। नमो॑ रुचा॑- य॒ ब्राह्म॑ये॥^(४)। ^(५)रुचं॑ ब्राह्मं जनय॑न्तः। दे॒वा अग्रे॒ त-
सः’ विधातारः, सृष्टिकर्त्तारः*। तमेवोपास्यं ‘मरीचीनां’ मरीच्यादिप्रमुखानां महर्षीणां, ‘पदं’ जगदुत्पादकत्वलक्षणं, ‘इच्छन्ति’ ॥
अथ चतुर्थीमाह । ^(४)“यो देवेभ्यः • रुचाय ब्राह्मये” ^(४) इति। ‘यः’ परमेश्वरः, ‘देवेभ्यः’ देवार्थं, ‘आतपति’ सर्वत्र प्रकाशते, देवानां देवत्वसिद्धये तत्तद्धृदयेषु चैतन्यरूपेण प्र- विश्याविर्भवति । ‘यः’, च देवानां ‘पुरोहितः’ बृहस्पतिः, बभूव । बृहस्पतिर्देवानां पुरोहित इति श्रुतेः । ‘यः’ च ‘देवे- भ्यः’, ‘पूर्वो जातः’ प्रथमभावी हिरण्यगर्भरूपेणोत्पन्नः, हिर- ण्यगर्भः समवर्तताग्रे इति श्रुतेः । तादृशाय ‘रुचाय’ रोच- मानाय स्वयम्प्रकाशाय, ‘ब्राह्मये’ परब्रह्मस्वरूपाय, ब्रह्मणा वेदेन प्रतिपाद्याय वा, ‘नमः’ नमस्कारोऽस्तु ॥
अथ पञ्चमीमाह । ^(५)“रुचं ब्राह्मं • देवा अग्रेऽब्रुवन्”^(५) इति। ‘देवाः’, सर्वे ‘अग्रे’ सृष्ट्यादौ, ब्रह्मविद्यासम्प्रदायप्रव- र्त्तनकाले, ‘ब्राह्मं रुचं’ परब्रह्मसम्बन्धि चैतन्यं, ‘जनयन्तः’
* त्रयीकर्त्तार इति G चिह्नितपुस्तकपाठः
३ प्रपाठके १३ अनुवाकः । ३४३
दे॒ब्रुव॒न् । यस्त्वे॒वं ब्रा॑ह्म॒णो वि॒द्यात् । तस्य॑ दे॒वा अ॑- स॒न् वशे॑॥(५)॥ ⁽६⁾ह्रीश्च॑ ते ल॒क्ष्मीश्च॒ पत्न्यौ॑ । अ॒हो॒रा॒त्रे पा॒र्श्वे ।
विद्यया प्रादुर्भावयन्तः, ‘तत्’ ब्रह्मतत्त्वं, सम्बोध्य ‘अब्रुवन्’ वक्ष्यमाणं वाक्यमुक्तवन्तः । किं तद्वाक्यमिति तदुच्यते। हे परमात्मन् ‘यः’, कश्चित् ‘ब्राह्मणः’, पुमान् ‘त्वां’, ‘एवं’ यथोक्तप्रकारेण, ‘विद्यात्’, ‘तस्य’ ब्रह्मविदः, सर्वे ‘देवाः’, ‘वशे असन्’, अधीना भवन्ति, स्वयं हि तेषां देवानामन्त- र्यामी परमात्मा भवति, तस्माद्देवा एतदधीना नत्वस्य देवा ईश्वराः। एतमेवार्थं वाजसनेयिनो विस्पष्टमामनन्ति। य एवं वेदाहं ब्रह्मास्मीति स इदꣳ सर्वं भवति तस्य देवाश्च नाभूत्या ईशते । आत्मा ह्येषां सभवतीति ॥
अथ यजुरात्मानं कञ्चिन्मन्त्रमाह । ⁽१⁾“ह्रीश्च ते ० सर्वं मनिषाण”⁽६⁾ इति । ‘ह्रीः’ लज्जाभिमानिनो देवता । ‘लक्ष्मीः’ ऐश्वर्याभिमानिनी देवता । हे परमात्मन् । ‘ह्रीश्च’, ‘लक्ष्मीश्च’ ‘ते’ तव, ‘पत्न्यौ’ भार्यास्थानीये । ये च ‘अहो- रात्रे’, ते ‘पार्श्वे’ पार्श्वद्वयस्थानीये । ‘नक्षत्राणि’ आकाशे दृश्य- मानानि, ‘रूपं’ तव शरीरस्थानीयं* । ‘अश्विनौ’, द्यौदेवौ तौ तव ‘व्यात्तं’ विवृतमुखस्थानीयं । तथाविध हे विराट्पुरुष ‘इष्टं’ अस्मदपेक्षितं आत्मबोधं ‘मनिषाण’ अनुमन्यस्व, देही-
* तवरूपस्थानीयानीति G चिह्नितपुस्तकपाठः ।
३४४ तैत्तिरीये आरण्यके
नक्ष॑त्राणि रू॒पं। अ॒श्विनौ॒ व्यात्त॑म्। इ॒ष्टं म॑निषाण। अ॒- मुं म॑निषाण। सर्वं॑ मनिषाण^(६) ॥ २ ॥ जा॒य॑ते॒, वशे॑, स॒प्त च॑ ॥ अनु० १३ ॥
अथ चतुर्दशोऽनुवाकः।
^(१)भ॒र्त्ता सन् भ्रिय॑माणो बिभर्त्ति। एको॑ दे॒वो ब॒हु-
त्यर्थः । 'अमुं' लोके दृश्यमानं गवाश्वादिकं, 'मनिषाण' प्रयच्छ, किं बहुना 'सर्वं मनिषाण' ऐहिकमामुष्मिकं वा सर्वं दिष्टं देहि ॥
इति सायणाचार्य्यविरचिते माधवीये वेदार्थप्रकाशे यजुरा- रण्यके तृतीयप्रपाठके त्रयोदशोऽनुवाकः ॥ १३ ॥
अथ चतुर्दशोऽनुवाकः
अथ भर्तृसूक्ताख्यः कश्चिदनुवाकोऽभिधीयते । तस्य च मृत्यवे स्वाहेतात्यस्मिन् पक्षे नाग्निष्टोमानन्तरमपहा-
३ प्रपाठके १४ अनुवाकः । ३४५
धा निवि॑ष्टः। य॒दा भार॒न्त॒न्द्रय॑ते॒ स भ॒र्तुँ॑ । निधाय
मार्थत्वेन विनियोगो द्रष्टव्यः । तथा चापस्तम्ब आह। मृच्यवे वेहतं तत्र भर्त्तारमुपजुहुयादिति । तत्र प्रथमामाह। (१)“भर्त्ता सन् ॰ पुनरस्तमेति”(१) इति। योऽयं प्राणाभिमा- नी देवः सोऽयं ‘भर्त्ता’ पोषकः, ‘सन्’, ‘भ्रियमाणः’ अन्त- र्यामिणा परमेश्वरेण स्वयं धार्यमाणः सन्, ‘बिभर्त्ति’ देहान् धारयति । स च सूत्रात्मरूपेण स्वयं ‘एकः’, एव ‘देवः’, त- त्तच्छरीरेषु ‘बहुधा’ शरीरानुसारेण बहुप्रकारः, ‘निविष्टः’ अवस्थितः । अतएव प्राणविद्याप्रकरणे तत्तच्छरीरानुसारेण प्राणस्यावस्थितिं काण्वा आमनन्ति। समः प्लुषिणा* समो मश- केन समो नागेन सम एभिस्त्रिभिर्लोकैरित्यादि । ‘सः’ प्राणः, ‘यदा’, ‘भारं’ देहरूपं, ‘भर्त्तुं’ धारयितुं, ‘तन्द्रयते’ तन्द्रीमा- लस्यं,† ‘प्राप्नोति’, आयुषोऽवसाने हि तस्यालस्यं भवति । त- दानीं ‘भारं’ देहरूपं, ‘निधाय’ क्वचिदुत्सृज्य, ‘पुनः’, ‘अस्त- मेति’ । अदर्शनं गच्छति । यथा देहोत्पत्तेः पूर्वमदर्शनं गतः तथा देहपातादूर्ध्वं अतोत्याभिप्रेत्य‡ पुनरित्युक्तं ॥
* समःप्लुषिणा इति G चिह्नितपुस्तकपाठः ।
† तन्द्रियमलस्यमिति तै० पाठः ।
‡ देहपातादूर्ध्वमपीत्याभिप्रेत्येति G चिह्नितपुस्तकपाठः
2 u 2
३४६ तैत्तिरीये आरण्यके
भारं॒ पुन॒रस्त॑मेति^(१)। ^(२)तमे॒व मृ॒त्युम॒मृत॒न्तमा॑हुः। तं भ॒र्त्तारं॒ तमु॑ गो॒प्तार॑माहुः। स भृतो॒ भ्रिय॑माणो वि-
अथ द्वितीयामाह। (२)“तमेव ० वेद सत्येन भर्तुं”^(२) वेदरहस्याभिज्ञाः पुरुषाः ‘तमेव’ प्राणं, ‘मृत्युमाहुः’, यदा प्राणो देहात् निर्गच्छति तदैव देहो म्रियते अतो मृत्युहेतुत्वात् मृत्युत्वं। तथा देहेऽवस्थिते अमृतो देह इत्यमृतत्वहेतुत्वात् ‘तं’ प्राणं, ‘अमृतमाहुः’, शरीरस्थापनहेतुत्वात् ‘तं’ एव प्राणं, ‘भर्तारं’ देहस्य धारयितारमाहुः। तथा च कौषीतकिनः समामनन्ति। अथ खलु प्राण एव प्रज्ञात्मेदं* शरीरं परिगृह्योत्थापयतीति। तथा तमेव प्राणं अन्नपानादिस्वीकारहेतुत्वात् ‘गोप्तारं’ पोषकं, ‘आहुः’। तथा च छान्दोगा अन्नपानस्वीकारसाधनत्वं† प्राणस्यामनन्ति। यदश्नाति यत् पिबति तेनेतरान् प्राणानवतीति‡। ‘यः’ पुमान्, ‘एनं’ प्राणं, ‘सत्येन’ श्रुतिस्मृत्युदितेन सम्यङ्मार्गेण, ‘भर्तुं’ ध्यानकाले चित्ते धारयितुं ‘वेद’ जानाति, ‘सः’ उपासकः पुमान्, ‘भृतः’ परमेश्वराणादौ पोषितः भ्रियमाणः, अनेन प्रा-
* प्राजापत्येदमिति तै० पाठः।
† अन्नपानादिस्वीकारसाधनत्वमिति G चिह्नितपुस्तकपाठः
‡ प्राणानभिभवतीति तै० पाठः।