भारतकोश
संग्रह पर लौटें

तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)

Taittiriya Aranyaka Hindi

महर्षि वैशम्पायन द्वारा

स्रोत: Taittiriya Aranyaka with Sayana Bhashya and Hindi Translation (उद्गम)

DevanagariHindipublished940 पृष्ठ

४ प्रपाठके २ अनुवाकः। ३७६

'प्रसूत्यै' प्रसवाय सम्पद्यते । स्रुवेण जुह्वां चतुर्वारं गृहीतं यदाज्यं तेन जुहुयात् । चतुःसङ्ख्यासाम्यात् पशुप्राप्तिर्दिक्षु प्रतिष्ठा च ॥

पुनरपि चतुःसङ्ख्यां प्रकारान्तरेण प्रशंसति । "छन्दाꣳसि देवेभ्योऽपाक्रामन् । न वो भागानि हव्यं वक्ष्याम इति । तेभ्य एतच्चतुर्गृहीतमधारयन् । पुरोऽनुवाक्यायै याज्यायै ॥ १ ॥ देवतायै वषट्काराय । यच्चतुर्गृहीतं जुहोति । छन्दाꣳ- स्येव तत् प्रीणाति । तान्यस्य प्रीतानि देवेभ्यो हव्यं वहन्ति ।” (५ प्र०। २ अ० । २ म०) इति । नानाविधछन्दोयुक्तपुरोऽनुवाक्या- द्यभिमानिनो देवा हविर्भाग्यो 'देवेभ्यः', उपरक्ताः सन्तो- ऽन्यत्रागच्छन् । किं ब्रुवन्तो गता इति, तदुच्यते । हे देवा भागरहितानि वयं 'छन्दांसि', 'वः' युष्मदीयानि, हवींषि 'न वक्ष्यामः' हविर्वहनं न करिष्यामः, 'इति', ब्रुवन्तः तदानीं देवा विचार्य होमकाले यत् चतुर्ग्रहणं तच्छन्दसां प्रीतिकरं भवति इति तेषां भागमकल्पयन् । तत्र प्रथम- ग्रहणं पुरोऽनुवाक्याख्याया गायत्रोदेवताया*स्तुष्टिकरं । द्वि- तीयग्रहणं याज्याख्यायास्त्रिष्टुब्देवतायास्तुष्टिकरं । देवताख्या- या जगतीदेवतायास्तुष्टिकरं† । चतुर्थग्रहणं वषट्काराख्या- या अनुष्टुब्देवतायास्तुष्टिकरं । अतश्चतुर्गृहीतेन होमे सति छन्दोदेवताः प्रीणन्ति । ताश्च प्रीताः सत्यः 'हव्यं वहन्ति' ॥


* पुरोऽनुवाक्याख्याया देवताया इति तै० पाठः ।
† पुष्टिकरमिति तै० पाठः ।

३८० तैत्तिरीये आरण्यके

तत्र द्वौ पक्षौ। सोमयागे सङ्कल्पादिकं कृत्वा दीक्षणीयेष्टेः प्रागेव प्रवर्ग्यसाधनं महावीरादिकं सम्पादनीयमित्येकः पक्षः। दीक्षायां समाप्तायां प्रवर्ग्यानुष्ठानकाल एव सम्पादनीयमित्यपरः पक्षः। तत्र प्रथमपक्षे सावित्रहोमो विहितः। द्वितीयपक्षे मीमांसया होमं निवार्य केवलमन्त्रपाठं विधत्ते। “ब्रह्मवादिनो वदन्ति। होतव्यं दीक्षितस्य गृहा३ इन होतव्या३मिति। हविर्वै दीक्षितः। यज्जुहुयात्। हविष्कृतं यजमानमग्नौ प्रदध्यात्। यन्न जुहुयात् ॥ १॥” (५ प्र०।४ अनु०। २ म०) इति। यन्न जुहुयात् पुनः* तत्र होमपक्षो न युज्यते। 'दीक्षितः', हविःसम्पादकत्वात् 'हविः', एव। तथा सति यदि 'हविर्जुहुयात्', तदानीं हविःसम्पादकं 'यजमानं', एव 'अग्नौ', प्रक्षिपेत् ॥

अहोमपक्षे तु। “यज्ञपुरुन्तरियात्। यजुरेव वदेत्। न हविष्कृतं यजमानमग्नौ प्रदधाति। न यज्ञमुरुन्तरैति” (५ प्र०।२ अनु०।३ म०) इति। यज्ञस्य होमलक्षणमङ्गमन्तरितं भवेत्। † ततो दोषद्वयपरिहारायाऽऽहुतिप्रक्षेपं परित्यज्य 'यजुरेव', पठेत्। यद्यपि युञ्जते मन इत्येषा ऋगेव तथापि यजुर्वे पठितत्वात् युज्यतेऽनुष्ठान इति व्युत्पत्त्या वा यजुरित्युच्यते।


* दीक्षणीयेष्ट्या संस्कृते। योऽयं दीक्षितः तस्य सावित्रमन्त्रेण 'होतव्यं', न वा इत्येवं ब्रह्मवादिनां मीमांसा विचारार्था प्रवृत्तिरिति तैलङ्गपुस्तकपाठः।
† तद्दोषपरिहारायेति तै० पाठः।

४ प्रपाठके २ अनुवाकः । ३८१

(२)दे॒वस्य॑ त्वा सवि॒तुः प्रस॑वे॒ऽश्विनो॑र्बा॒हुभ्या॑म् । पू॒ष्णो हस्ता॑भ्या॒माद॑दे(२)।—

अत्र होमाभावाद्यजमानस्य प्रचेपो न भवति । मन्त्रस्य पठितत्वाद्यज्ञाङ्गमपि नान्तरितं भवति ॥

कल्पः । देवस्य त्वा सवितुः प्रसव इत्यभिमादत्त इति । पाठस्तु । (२)“देवस्य त्वा • हस्ताभ्यामाददे”(२) इति । हे अभ्रे प्रेरकस्यान्तर्यामिणः ‘देवस्य’, प्रेरणे सति ‘अश्विनोः’, सम्बन्धिभ्यां बाहुदण्डाभ्यां ‘पूष्णः’, सम्बन्धिभ्यां ‘हस्ताभ्यां’, च ‘त्वामाददे’ स्वीकरोमि ॥

तस्याभ्रेः खादिरत्वं विधत्ते । “गायत्रीच्छन्दाᳵस्यत्यमन्यत । तस्यै वषट्कारोऽभ्यत्य शिरोऽच्छिनत् । तस्यै द्वेधा रसः परापतत् । पृथिवीमर्धः प्राविशत् । पशूनर्धः । यः पृथिवीं प्राविशत् ॥ ३ ॥ स खदिरोऽभवत् । यः पशून् । सोऽजां । यत् खादिर्यभिर्भवति । छन्दसामेव रसेन यज्ञस्य शिरः सम्भरति ।” (५ प्र० । २ अ० । ३ म०) इति । गायत्रीदेवता सोमाहरणगर्वेणेतराणि ‘छन्दांसि’ त्रिष्टुबादीनि, अहमतिलङ्घितवतीति ‘अमन्यत’ । तदा वषट्काराभिमानी देवः क्रुद्धः सन् ‘अभ्यत्य’ आभिमुख्येन प्राप्य, तस्याः गायत्र्याः ‘शिरोऽच्छिनत्’ । तस्याश्छिन्नप्रदेशान्निर्गतः ‘रसः’, ‘द्वेधा’, भूत्वा ‘पृथिवीं’, ‘पशून्’, च ‘प्राविशत्’ । पृथिव्यां प्रविष्टः ‘सः’ भागः, खदिरवृक्षोऽभूत् । पशुषु प्रवेष्टुं गतो भागः ‘अजां’, ‘प्राविशत्’ । अतो-

३८२तैत्तिरीये आरण्यके

ऽभिः ‘खादिरी’ कर्तव्या। तथा सति ‘छन्दसां’, सम्बन्धिना ‘रसेन’, ‘यज्ञस्य’, ‘शिरः’ प्रवर्ग्यरूपं, सम्पादितं भवति। गायत्र्यां हि त्रिष्टुप्सम्बद्धं जगतीसम्बद्धं चाक्षरद्वयं अन्तर्भूतमिति कद्रूश्चेत्यत्र प्रतिपादितं। ततो गायत्रोरसः सर्वछन्दसां रसो* भवति। महावीराख्यं पात्रं निष्पादयितुं मृत्खननार्थोभयतस्तीक्ष्णा व्यायाममात्री काष्ठकुद्दालरूपा अभ्रिरित्युच्यते। व्यायाममात्रत्वादिलक्षणानि पञ्चमकाण्ड उखासम्भारप्रस्तावे दर्शितानि। अतएव सूत्रकारेण तल्लक्षणमतिदिश्यते। साग्निक्या व्याख्यातेति॥

खदिरेण सह विकल्पार्थं पक्षत्रयं विधत्ते। “यदौदुम्बरी। ऊर्जा उदुम्बरः। ऊर्जैव यज्ञस्य शिरः सम्भरति। यदौणवी। तेजो वै वेणुः॥ ४॥ तेजसैव यज्ञस्य शिरः सम्भरति। यदैकङ्कती। भा एवावरुन्धे।” (५ प्र०।२ अ०।४-५ म०) इति। औदुम्बरफलस्योपदेशरूपेण भक्ष्यत्वात् ऊर्ग्रूपत्वं। अग्निर्देवेभ्यो ऽनिलायत सवेणुं प्राविशदित्युक्तत्वात् वेणोस्तेजोरूपत्वं। अग्नेः सृष्टस्य यतो विकङ्कतं भा आर्च्छदित्युक्तत्वादैकङ्कतत्वेन ‘भाः’ दीप्तिः, प्राप्नोति॥

अभ्यादाने मन्त्रं विनियुज्य व्याचष्टे। “देवस्य त्वा सवितुः प्रसव इत्यभिमादत्ते प्रसूतै। अश्विनोर्वाहुभ्यामित्याह। अश्विनौ हि देवानामध्वर्यू आस्तां। पूष्णो हस्ताभ्यामित्याह यत्यै।” (५ प्र०।२ अ०।५ म०) इति।


* सार इति तै० पाठः

४ प्रपाठके २ अनुवाकः । ३८३

(९)अभ्रिर॑सि॒ नारिर॑सि । अध्व॒रकृद्दे॒वेभ्यः॑(९) । $^{(४)}$उत्ति॑ष्ठ ब्रह्म॑णस्पते ॥ १ ॥


कल्पः। (९)“अभ्रिरसि नारिरसि” इत्यभिमन्त्रयत इति । “अध्वरकृद्देवेभ्यः”(९) इत्येतावान्मन्त्रशेषः । हे खननहेतो त्वं केनापि न ह्रियसे* न भज्यसे इति ‘अभ्रिः’, ‘असि’ । नॄणां महावीरार्थिनामुपकारत्वात् ‘नारिरसि’ । ‘देवेभ्यः’ देवार्थे, ‘अध्वरकृत्’ यागनिष्पादिका, असि ॥

अस्मिन् मन्त्रे पूर्वभागस्य तात्पर्यं दर्शयति । “वज्र इव वा एषा । यदभ्रिः । अभ्रिरसि नारिरसीत्याह शान्त्यै ॥ ५ ॥” इति (५प्र०।२अ०।५म०) । तीक्ष्णाग्रत्वाद्वज्रसमानत्वम् । न ह्रीयसे नॄणामुपकर्त्री चेत्युपलालनादुग्रस्य शान्तिः । अथवा अरिः न भवसीति ‘नारिः’ इत्युपलालनम् ॥

उत्तरभागस्य तात्पर्यं दर्शयति । “अध्वरकृद्देवेभ्य इत्याह । यज्ञो वा अध्वरः । यज्ञकृद्देवेभ्य इति वा वैतदाह” । (५प्र०। २अ०।६म०) इति ॥

कल्पः । उत्तिष्ठ ब्रह्मणस्पत इति ब्रह्माणमामन्त्रयत उपोत्तिष्ठति ब्रह्मोभावुत्तरमर्द्धर्चं क्रियत इति । तस्या ऋचः पाठस्तु । $^{(४)}$“उत्तिष्ठ ब्रह्मणस्पते • इन्द्र प्राशूर्भवा सचा”$^{(४)}$ इति । हे ‘ब्रह्मणस्पते’ मन्त्रस्य पालक, मृत्खननदेशं प्रति


* न भियसे इति तै० पाठः

3 B

३८४ तैत्तिरीये आरण्यके

दे॒वयन्त॑स्त्वेमहे । उपप्रय॑न्तु म॒रुतः॑ सु॒दान॑वः । इन्द्र॑ प्रा॒शूर्भ॑वा सचा॑ ॥(४)॥ ^{(५)}प्रैतु॒ ब्रह्म॑ण॒स्पतिः॑ । प्र दे॒व्ये॑तु सू॒नृता॑ । अच्छा॑ वी॒रन्नर्यं॑ प॒क्तिरा॑धसं । देवा य॒ज्ञं न॑यन्तु


गन्तुमस्मात् स्थानात् 'उत्तिष्ठ', 'देवयन्तः' देवानिच्छन्तः, वयं 'त्वां' ब्रह्माणं, 'ईमहे' प्रार्थयामहे । 'सुदानवः' शोभनस्य फलस्य दातारः, 'मरुतः' देवाः, 'उपप्रयन्तु' समीपे प्रकर्षेण गच्छन्तु । हे 'इन्द्र', 'सचा' अस्माभिः सह, 'प्राशूः' प्रकर्षेण शीघ्रगामी, 'भव' ॥

मन्त्रस्य तात्पर्यं दर्शयति । "उत्तिष्ठ ब्रह्मणस्पत इत्याह । ब्रह्मणैव यज्ञस्य शिरोऽन्वैति" इति । (५ प्र०।२ अ०।६ म०) । ऋत्विजा ब्रह्माख्येनैव सह यज्ञस्य शिरोरूपं प्रवर्ग्यपात्रं 'अच्छ' प्राप्तुं, 'एति' गच्छति ॥

कल्पः । आददते कृष्णाजिनमनुनयन्त्यजां पुच्छगलामयं वृषणमिति प्रैतु ब्रह्मणस्पतिरिति प्राञ्चोऽग्रप्रथमामभिप्रव्रजन्ति यत्र मृदं खनिष्यन्तः स्युरिति । पाठस्तु । ^{(५)}"प्रैतु ब्रह्मणस्पतिः ० नयन्तु नः"^{(५)} इति । 'ब्रह्मणस्पतिः' मन्त्रस्य पालकः, ऋत्विक् ब्रह्मा, 'प्रैतु' प्रथमतॊ गच्छतु । 'सूनृता' यज्ञसम्बन्धिनी मन्त्रगतप्रियवाक्यरूपा, 'देवी', प्रकर्षेण 'एतु' गच्छतु । किमर्थमिति तदुच्यते । 'नर्यं' नृभ्यः यजमानेभ्यो हितं, 'पक्तिराधसं' पाङ्क्तस्य यज्ञस्य साधकं, 'वीरं' महावीराख्यं पात्रं, 'अच्छ' प्राप्तुं, 'देवाः', सर्वे 'नः' अस्मदीयं, यज्ञं 'नयन्तु' ॥

प्रथमपादे प्रैतुशब्दस्य तात्पर्य्यं दर्शयति । 'प्रैतु ब्रह्मणस्प-

४ प्रपाठके २ अनुवाकः । ३८५

नः^(५) । ^(६)देवी॒ द्यावा॑पृथि॒वी अनु॑ मे॒ऽमꣳ॑साथां^(६) ।

प्रथमपादे प्रैतुशब्दस्य तात्पर्य्यं दर्शयति । 'प्रैतु ब्रह्मणस्प- तिरित्याह । प्रेत्यैव यज्ञस्य शिरोऽच्छैति' इति । (५ प्र० । २ अ० । ७ म०) । 'प्रेत्यैव' प्रथमत एव गत्वैव ॥

द्वितीयपादे सूनृ॒ताशब्देन प्रियवाक्ययुक्तस्य यज्ञस्य विव- क्षां दर्शयति । "प्र दे॒वेतु सूनृतेत्याह । यज्ञो वै सूनृता" इति । (५ प्र० । २ अ० । ८ म०) ।

तृतीयपादे पङ्क्तिराधसशब्देन धानाकरम्भादिपञ्चहविर्यु- क्तस्य यज्ञस्य विवक्षां दर्शयति । "अच्छा वीरं नर्यं पङ्क्तिराधम- मित्याह ॥ ६ ॥ पाङ्क्तो हि यज्ञः" इति । (५ प्र० । २ अ० । ९ म०) ॥

चतुर्थपादे देवा यज्ञं नयन्त्वित्यस्य तात्पर्य्यं दर्शयति । "देवा यज्ञं नयन्तु न इत्याह । देवानेव यज्ञनियः कुरुते" इति । (५ प्र० । २ अ० । १० म०) । 'यज्ञनियः' यज्ञस्य नेतॄन् प्रवर्त्तकान् ॥

कल्पः । उत्तरेण मृत्खननं कृष्णाजिनं प्राचीनग्रीवमुत्तर- लोमास्तीर्य्य । ^(६)"देवी द्यावापृथिवी" इति मृत्खननमभिम- न्त्रयत इति। अनु मेऽमꣳसाथां"^(६) इति मन्त्रशेषः । हे 'द्यावा- पृथिव्यौ', 'मे' मदीयं, व्यापारं 'अन्वमꣳसाथां' युवयोरनु- मतं कुरुतं ॥

मन्त्रस्य देवतयोरभ्यनुज्ञायां तात्पर्य्यं दर्शयति । "देवी द्यावापृथिवी अनु मेऽमꣳसाथामित्याह । आभ्यामेवानुमतो यज्ञस्य शिरः संभरति" इति । (५ प्र० । २ अ० । ११ म०) ॥

3 B 2

३८६ तैत्तिरीये आरण्यके

^(७)ऋ॒ध्यास॑म॒द्य । म॒खस्य॒ शिरः॑^(७) ॥ २ ॥ ^(८) म॒खाय॑ त्वा । म॒खस्य॑ त्वा शी॒र्ष्णे^(८) ।

कल्पः । ^(७)“ऋध्यासमद्य” इति मृत्खननेऽभ्रिया प्रहृत्य “मखस्य शिरः”^(७) इत्युपाददीत । ‘अद्य’ अस्मिन् दिने, ‘ऋध्यासं’ कर्मणा समृद्धो भूयासं । इदं मृद्रूपं ‘मखस्य शिरः’ यज्ञस्य शिरःस्थानीयं प्रवर्ग्यपात्ररूपं ॥

मन्त्रद्वयं सहैव व्याचष्टे । “ऋध्यासमद्य मखस्य शिर इत्याह । यज्ञो वै मखः । ऋध्यासमद्य यज्ञस्य शिर इति वा वैतदाह” इति । (५प्र०।२अ०।१२म०) ॥

कल्पः। ^(८)“मखाय त्वा” इति हरति “मखस्य त्वा शीर्ष्णे”^(८) इति कृष्णाजिने निर्वपतीति । हे मृत्तिके, त्वां ‘मखाय’ यज्ञार्थं, हरामीति शेषः । तथा त्वां ‘मखस्य’ यज्ञस्य, ‘शीर्ष्णे’ शिरोरूपप्रवर्ग्यार्थं, निर्वपामीति शेषः ॥

मन्त्रद्वयं सहैव व्याचष्टे । “मखाय त्वा मखस्य त्वा शीर्ष्णे इत्याह । निर्दिश्यैवेनद्धरति ॥ ७ ॥” इति । (५प्र०।२अ०। १३म०) ‘निर्दिश्यैव’ यज्ञार्थं इह हरणनिर्वपने कथयित्वैव, ‘एनत्’ मृत्खरूपं, ‘हरति’ निर्वपति, चेति द्रष्टव्यं ॥

यदुक्तं सूत्रकारेण, एवं द्वितीयं तृतीयञ्च हरति तूष्णीञ्चतुर्थं यावतीं मृदं प्रवर्ग्यपात्रेभ्यः आप्तां मन्यत इति । तदिदं विधत्ते । “त्रिर्हरति । त्रय इमे लोकाः । एभ्य एव लोकेभ्यो

४ प्रपाठके २ अनुवाकः । ३८१

^{(९)}इ॒यत्यग्र॑ आसीः^{(९)} । ^{(१०)}ऋ॒ध्यास॑म॒द्य । म॒खस्य॒


यज्ञस्य शिरः संभरति । तूष्णीं चतुर्थम् हरति । अपरिमता- देव यज्ञस्य शिरः संभरति” इति। (५ प्र० । २ अ० । १४ म०) ॥

वक्ष्यमाणसम्भारभ्यो मृदः प्राथम्यं विधत्ते । “मृत्खना- दग्रे हरति । तस्मान् मृत्खनः करुष्णतमः” इति (५ प्र० । २ अ० । १५ म०) । ये च वराहविहतादयः सम्भाराः तेभ्यः ‘अग्रे’ प्रथममेव, मृदं खात्वा तस्मात् ‘मृत्खनात्’ गर्त्तात्, मृदं हरेत् । यस्मादयं ‘मृत्खनः’, स्वकीयां वेदनामगणयित्वा यजमानोप- कारार्थं मृदं प्रयच्छति । तस्मादयमतिशयेन ‘करुणः’ कृपालुः, ततो मृत्खनादेव मृदं हरेत् । न त्वन्यतो यतः कुतश्चित् मृदानेया ॥

कल्पः । एवमितरसम्भारानभिमन्त्रणेऽधिकारः, इयत्यग्र आसीरिति वराहविहतमिति । येन प्रकारेण मृदो हरण- मुक्तं । तेनैव प्रकारेणेतरे सर्वे सम्भाराः सम्पादनीयाः । अ- भिमन्त्रणे तु तत्र तत्र मन्त्रविशेषोऽस्ति । ‘देवी द्यावापृथिवी’ इति पूर्वत्र मृदोऽभिमन्त्रणं । ^{(९)}“इयत्यग्र आसीः”^{(९)} इति मन्त्रः । वराहो दंष्ट्रया यं मृद्विशेषं सम्पादयति तन्मृत्स्वरूपं वराहविहतं । हे वराहविहत ‘इयत्यग्रे’ एतावर्ति पुरोदेशे त्वं ‘आसीः’ ॥

अभिमन्त्रितस्य वराहविहतस्याहरणे मन्त्रान् दर्शयति ।

३८८ तैत्तिरीये आरण्यके

शिर॑:। म॒खाय॑ त्वा। म॒खस्य॑ त्वा शी॒र्ष्णो॑⁽१०⁾।
⁽११⁾दे॒वीर्व॑म्रीरस्य॒ भूतस्य॑ प्रथम॒जा ऋ॒तावरी॑:⁽११⁾।
⁽१२⁾ऋ॒ध्यास॑म॒द्य। म॒खस्य॒ शिर॑:⁽१२⁾॥ ३॥

(१०)“ऋद्ध्यासमद्य ० त्वा शीर्ष्णो”(१०) इति। एते मन्त्रा: पूर्ववद्व्याख्येया:॥

एतेषां वराहविहतसम्भारमन्त्राणां तात्पर्यं दर्शयति। “इयत्यग्र आसीरित्याह। अस्यामेवाच्छम्बट्कारं यज्ञस्य शिर: सम्भरति” इति। (५ प्र ०। २ अनु ०। १६ मं ०)। यावद्वराहविहतमस्ति एतावती सर्वा भूमिर्रवराहेणोद्धृतत्वात्। एतच्चाधानब्राह्मणे स वराहो रूपं कृत्वेत्यादिना विस्पष्टमाम्नातं। अतो वराहविहतसम्भारेण ‘अस्यामेव’, सर्वस्यामपि पृथिव्यां, ‘अच्छम्बट्कारं’ अल्पोऽप्यंशो व्यर्थो यथा न भवति तथा कृत्वा, ‘यज्ञस्य शिर:’, सम्पादितं भवति॥

कल्प:। देवीर्वम्रीरिति वल्मीकवपामिति अभिमन्त्रयत इति शेष:। पाठस्तु। (११)“देवीर्वम्रीरस्य ० ऋतावरी:”⁽११⁾ इति। वल्मीकस्य निष्पादिका: क्षुद्रजन्तुस्वरूपा: ‘वम्रय:’, हे वम्यो देव्यो यूयं ‘अस्य’ ‘भूतस्य’ प्राणिजातस्य, ‘प्रथमजा:’ प्रथमत उत्पन्ना:, ‘ऋतावरी:’ यज्ञवत्य:’ सम्भाररूपेण यज्ञनिष्पादकत्वात् तादृश्यो भवथेति शेष:॥

अनेनाभिमन्त्रितान् वल्मीकवपाया: सम्भरणमन्त्रानाह। (१२)“ऋध्यासमद्य ० मखस्य शिर:” (१२)इति। पूर्ववद्व्याख्येयं॥

४ प्रपाठके २ अनुवाकः । ३८६

(१९)ऋ॒ध्यास॑म॒द्य । म॒खस्य॒ शिर॑: । म॒खाय॑ त्वा । म॒खस्य॑ त्वा शी॒र्ष्णो(१२) ।--

वल्मीकवपायाः सम्भरणं विधत्ते । “ऊर्जे वा एतत् रसं पृथिव्या उपदीका उद्दिहन्ति ॥८॥ यद्वल्मीकं । यद्वल्मीकवपा सम्भारो भवति । ऊर्जमेव रसं पृथिव्या अवरुन्धे । अथो श्रोत्रमेव । श्रोत्र् ह्येतत् पृथिव्याः । यद्वल्मीकः” इति । (५ प्र० । २ अ० । १७ म०) । 'वल्मीकं', 'यत्', विद्यते तदेतत् 'उपदीकाः' पूर्वोक्ता वम्रयः, 'पृथिव्याः', सकाशादन्नहेतुमेव 'रसं' मृदं, उद्धृत्य निष्पादयन्ति । अतो वल्मीकवपायाः सम्भरणेन भूमिसारं 'ऊर्जमेव', प्राप्नोति । अपि च कर्णप्कुल्याकारसाम्यात् 'वल्मीकः', भूमेः 'श्रोत्रमेव', तस्माद्वल्मीकवपा प्रशस्ता* ॥

अथैनं प्रशंसति । “अबधिरो भवति । य एवं वेद” इति । (५ प्र० । २ अ० । १८ म०) ॥

कल्पः । इन्द्रस्यौजोसीति पूतीकानिति । हे पूतीकसमूह इन्द्रस्यौज बलमसि अनेन मन्त्रेणाभिमन्त्रितानां पूतीकानां सम्भरणमन्त्रानाह । (१९)“ऋद्ध्यासमद्य त्वा शीर्ष्णो”(१२) इति । पूर्ववद्व्याख्येयं ॥

पूतीकासम्भरणं विधत्ते । “इन्द्रो वृत्राय वज्रमुदयच्छत् । स यत्र यत्र पराक्रमत ॥६॥ तन्नाध्रियत । स पूतीकस्तम्बे पराक्रमत । सोऽध्रियत । ऊर्ति वै मे धा इति । तद्पूतीकानामूतीकत्वं ।


* तस्माद् वल्मीकवपा प्रशस्ता, श्रोत्रत्वात् इति । तै० पाठः ।

३६० तैत्तिरीये आरण्यके

अ॒ग्निजा अ॑सि प्र॒जाप॑ते रेत॒: ।—

यदूतौका भवन्ति। यज्ञायैवोतिं दधति" इति। (५ प्र ०।२ अ ०।१८ म ०)। पुरा कदाचित् 'इन्द्रः', वृत्रवधार्थं 'वज्रं', उद्यम्य प्रेरितवान्। तदानीं 'सः' इन्द्रः, 'यत्र यत्र' देशे, 'पराक्रमत' वज्रप्रक्षेपलक्षणं पराक्रमं कृतवान्, तत्र सर्वत्र 'नाभ्रियत' पलायनपरो वृत्रस्तेन वज्रेण धृतः प्रहृतो नासीत्। ततः 'सः' इन्द्रः, विचार्य 'पूतीक*स्तम्ब' समीपे कदाचिदवस्थितं वृत्रं प्रति 'पराक्रमत' वज्रप्रक्षेपलक्षणं पराक्रमं कृतवान्। तदानीं 'सः' वृत्रः, पूतीकस्तम्बेनावरुद्धमार्गः पलायितुमशक्तस्तेन वज्रेण 'अभ्रियत' प्रहृतोऽभूत्। तदानीं परितुष्टः स इन्द्रः पूतीकस्तम्बं प्रत्येवमब्रवीत्। हे पूतीकस्तम्ब 'मे' 'ऊतिं' मदीयपराक्रमरक्षां, 'धाः' धृतवानसि, इति ऊतीधारकत्वात् तेषां पूतीकानां 'पूती- काः', इति नाम सम्पन्नं। तेषां सम्भरणे सति यज्ञस्य रक्षां ते सम्पादयन्ति ॥

कल्पः। अजलोमानि कृष्णाजिनलोमानि च संसृज्याग्नि- जा असि प्रजापते ॑रेत इति। हे द्विविधलोमसङ्घ त्वमग्निजासि आग्नेयी वा एषा यदजात्यजाया आग्नेयत्वश्रवणात् अग्नि- र्देवेभ्यो निलायत कृष्णो रूपं कृत्वेति श्रवणाच्चोभयस्याग्नित्वम- भिप्रेत्य तन्नाममग्निजत्वमुक्तं महावीरदार्थ्यहेतुत्वात् प्राजापत्ये सृष्टौ लोम्नां सारत्वं ॥

* पूतिक इति तै० पाठः ।

४ प्रपाठक २ अनुवाकः । ३९१

ऋध्या॑स॒मद्य । म॒खस्य॒ शिर॑: ॥ ४ ॥ म॒खाय॑ त्वा । म॒खस्य॑ त्वा शी॒र्ष्णा(१४) । ^{(१५)}आयु॒र्धेहि॑

(१४)“अग्निजा असि • मखस्य त्वा शी,र्ष्णे”(१४) इति । पूर्ववद्व्या- ख्येयम् ॥

प्रजापते रेत इत्यनेन प्रजापतिसृष्टाया गायत्र्या रसोऽजां प्राविशत् । स एव विवक्षित इत्येतद्दर्शयति । “अग्निजा असि प्रजापते रेत इत्याह । य एव रसः पशून् प्राविशत् ॥ १० ॥ तमेवावरुन्धे,” इति । (५ प्र० । २ अ० । २० म०) ॥

पूर्वोक्तानां मृत्तिकावराहविहतवल्मीकवपापूतीकाजकृ- ष्णाजिनलोमरूपाणां सम्भाराणां पञ्चसङ्ख्यां प्रशंसति । “प- ञ्चैते सम्भारा भवन्ति । पाङ्क्तो यज्ञः । यावानेव यज्ञः । तस्य शिरः सम्भरति,” इति । (५ प्र० । २ अ० । २१ म) । धानाक- रम्भादिहविःपञ्चकयोगात् ‘पाङ्क्तो यज्ञो यावान्’, अस्ति ‘तस्य’, सर्वस्य ‘शिरः’, सम्भारगतया पञ्चसङ्ख्या सम्पादितं भवति ॥

एतेषां सम्भारद्रव्याणां कृष्णाजिने सम्भरणं विधत्ते । “य- द्ग्राम्याणां पशूनां चर्मणा सम्भरेत् । ग्राम्यान् पशून् शुचा- र्पयेत् । कृष्णाजिनेन सम्भरति । आरण्यानेव पशून् शुचार्प- यति । तस्मात् समावत् पशूनां प्रजायमानानां ॥ ११ ॥ आर- ण्याः पशवः कनीयाꣳसः । शुचा हृताः,” इति । (५ प्र० ।-

३०

३६२ तैत्तिरीये आरण्यके

प्रा॒णं धे॑हि। अ॒पा॒नं धे॑हि॒ व्या॒नं धे॑हि। चक्षु॑र्धेहि॒ श्रोत्रं॑ धेहि। मनो॑ धेहि॒ वाचं॑ धेहि। आ॒त्मानं॑ धेहि॒ प्रति॑-

२ अ० । २२ म) । 'ग्राम्याणां' गवादिपशूनां, 'चर्मणा', सम्भरणे सति तान् 'पशून्', 'शुचा' शोकेन रोगादिजनितेन, यो- जयेत् । तन्माभूदिति 'कृष्णाजिनेन', एव सर्वं सम्भरणीयं, कृष्णमृगस्यारण्यजत्वात् 'आरण्यानेव', पशून् महावीरजनि- तेन सन्तापेन योजयति। यस्मादारण्येष्वेव सम्भरणादारण्याः पशवः शुचा योजिताः 'तस्मात्', 'समात्रप्रजायमानानां' ग्राम्येनोत्पद्यमानानामपि, द्विविधानां 'पशूनां', मध्ये 'आर- ण्याः', एव 'पशवः', कनिष्ठाः । नहि जना गवाश्वादिषु या- वन्तमादरं तावन्तं कृष्णाजिनमृगेषु कुर्वन्ति ॥

कृष्णाजिनस्य सलोमके भागे सम्भरणं विधत्ते । "लोम- तः सम्भरति । अतो ह्यस्य मेध्यं ।" इति । (५ प्र० । २ अ० । २३ म) । 'लोमतः', लोमवति प्रदेशे सम्भरेत् । 'अतः' लोमतः प्रदेशात्, 'अस्य' कृष्णाजिनस्य, 'मेध्यं' यागयोग्यं सम्भारं, सम्पद्यते ॥

कल्पः । आयुर्धेहि प्राणं धेहीत्यश्वेनावघ्राप्येति । पाठस्तु । "(१५)आयुर्धेहि ० मां धेहि मयि धेहि"(१५) इति । हे अश्व मृदमाघ्राय यजमानस्यायुरादीन् सम्पादय । 'मां' यजमानं, 'धेहि' पोषय, अपेक्षितं धनादिकं 'मयि' यजमाने, 'धेहि' स्थापय ॥

४ प्रपाठके २ अनुवाकः । ३८३

ष्ठां धे॑हि । मां धे॑हि॒ मयि॑ धेहि^(१५) । ^(१६)मधु॑ त्वा मधु॒ला क॑रोतु^(१६) । ^(१७)म॒खस्य॒ शिरो॑ऽसि ^(१७) ॥ ५ ॥

यदुक्तं सूत्रकारेण । बहव आर्याः परिगृह्य हरन्त्युत्तरेण विहारमुद्धृते चोक्षिते सिकतोपोप्ते परिश्रिते निदधातीति । तदेतदार्यनयनमार्याणाञ्च बहुत्वं स्थापनदेशविशेषञ्च क्रमेण विधत्ते । “परिगृह्यायन्ति । रक्षसामपहत्यै । बहवो हरन्ति । अपचितिमेवास्मिन् दधति । उद्धृते सिकतोपोप्ते परिश्रिते निदधाति शान्त्यै ।” इति । (५ प्र० । २ अ ० । २४ म) । ‘आयन्ति’ आगच्छेयुः, आर्याणां परिग्रहेण रक्षांस्यपहतानि भवन्ति । तेषां बहुत्वेनास्मिन् द्रव्ये पूजा कृता भवति । भूमेरुद्धननेन सिकतावापेन परितस्तिरोधानकरणेन च तस्मिन् देशेऽवस्थापितस्य द्रव्यस्योपद्रवपरिहाररूपा शान्तिर्भवति ॥

कल्पः । ^(१६)मधु त्वा मधुला करोतु^(१६) इति मदन्तीभिरुपसृजतीति । हे सम्भारसमूहरूप द्रव्य ‘मधु त्वा’ पूर्वमपि मधुरं महावीरनिष्पादनयोग्यं मृद्रूपं त्वां, अयं मदन्तीसंसर्गः पुनरपि ‘मधुला’ माधुर्ययुक्तं, सौकार्य्ययुक्तं, ‘करोतु’ ॥

अनेन मन्त्रेण सार्धं मदन्तीमेलनं विधत्ते । “मदन्तीभिरुपसृजति ॥ १२ ॥ तेज एवास्मिन् दधाति ।” इति । (५ प्र० । २ अ० । २५ म) । तप्ता आपो मदन्त्यः, तन्मेलनादस्मिन् द्रव्ये तेजः सम्पादितं भवति ॥

3 C 2

३६४ तैत्तिरीये आरण्यके

यद्यपि जलमेलनादेव महावीरनिष्पादनसामर्थ्यरूपं तेजः सम्पद्यते। तथापि मन्त्रेणैव सामर्थ्यातिशयाय मन्त्रपाठ इत्येतद्दर्शयति। “मधु त्वा मधुला करोत्वित्याह। ब्रह्मणैवास्मिंस्तेजो दधाति।” इति ॥

अथास्मिन् द्रव्ये मेलयितव्यं द्रव्यान्तरं विधत्ते। “यद्ग्राम्याणां पात्राणां कपालैः संसृजेत्। ग्राम्याणि पात्राणि शुचार्पयेत्। अर्मकपालैः संसृजति। एतानि वा अनुपजीवनीयानि। तान्येव शुचार्पयति।” इति। (५ प्र०। २ अ०। २६ म)। गृहेषु पाकाद्यर्थानि भाण्डानि ग्राम्यपात्राणि तदीयकपालैः संसर्गे सति तानि ‘शुचा’ शोकेन भङ्गरूपेण* योजितानि भवन्ति। तन्माभूदिति ‘अर्मकपालैः’, मिश्रयेत्। अर्मशब्देन चिरन्तने जीर्णग्रामदेशे अवस्थिता भाण्डांशा उच्यन्ते। तानि प्राणिभिरुपजीवितुमयोग्यानि अतस्तेषां शुचा योजनेऽपि न कश्चित् बाधः ॥

द्रव्यान्तरं विधत्ते। “शर्कराभिः संसृजति धृत्यै। अथो शन्त्वाय।” इति। (५ प्र०। २ अ०। २७ म)। ‘शर्कराः’ क्षुद्रपाषाणाः, तत्संसर्गे सति महावीरस्य ‘धृतिः’ दार्ढ्यं भवति। अपि च शं सुखं कुर्वन्तीति शर्करानामनिरुक्ते तद्योगः ‘शन्त्वाय’ सुखसिद्धये, भवति। एतच्चाधानप्रकरणे समाम्नातं। शं वै नः-ऽभूदिति। तच्छर्कराणां शर्करत्वमिति ॥

द्रव्यान्तरं विधत्ते। “अजलोमैः संसृजति। एषा वा

* भङ्गरूपेणेति तै० पाठः ।

४ प्रपाठके २ अनुवाकः। ३९५

अग्नेः प्रिया तनूः। यदजा। प्रिययैवैनं तनुवा सꣳसृजति। अथो तेजसा।” इति। (५प्र०।२अ०।२८म०)। अजाग्नेोः प्रजा- पतिमुखजत्वेन सोदरत्वात् प्रियत्वं। अपि चाग्नेः स्वेनैव तेजो- रूपत्वात् 'तेजसा', द्रव्यं संसृष्टं भवति ॥

द्रव्यान्तरं विधत्ते। “कृष्णाजिनस्य लोमभिः सꣳसृजति। यज्ञो वै कृष्णाजिनं। यज्ञेनैव यज्ञꣳसꣳसृजति।” ॥ १३ ॥ इति। (५प्र०।२अ०।२६म०)। अवघातप्रस्तावे यज्ञो देवेभ्योऽनिलायत कृष्णोरूपं कृत्वेत्युक्तत्वात् कृष्णाजिनस्य यज्ञत्वं तल्लोमरूपेण ‘यज्ञेनैव’, महावीरद्रव्यरूपः ‘यज्ञः’, संसृष्टो भवति ॥

महावीरनिर्माणाय देशविशेषं ब्राह्मणगततृतीयानुवाके विधत्ते। “परिश्रिते करोति। ब्रह्मवर्चमस्य परिगृह्यै।” इति। (५प्र०।३अ०।१म०)। योऽयं देशः परितः कटादि- भिरावृतः तस्मिन् ‘परिश्रिते’, महावीरं ‘करोति’ *। तदे- तद्ब्रह्मवर्चसपरिग्रहाय भवति ॥

तत्र नियमं कञ्चिद्विधत्ते। “न कुर्वन्नभिप्राण्यात्। यत् कुर्वन्नभिप्राण्यात्। प्राणाञ्च्छुचार्पयेत्। अपहाय प्राणिति। प्राणानां गोपीथाय।” (५प्र०।२अ०।३०म०) इति। सोऽयं तदानीं ‘नाभिप्राण्यात्’ तदाभिमुख्येन श्वासं न कुर्यात्। तत्करणे स्वकीयाः ‘प्राणाः’, दुःखेन योजिता भवन्ति। त- स्मात् मुखं ‘अपहाय’, परतो नीत्वा श्वासं कुर्यात्। तच्च ‘प्राणानां’, रक्षणाय भवति ॥

नियमान्तरं विधत्ते। “न प्रवर्ग्यं वादित्यं चान्तरेयात्।


* कुर्यादिति तै० पाठः।

३६६तैत्तिरीये आरण्यके

यदन्तरेयात् । दुश्चर्मा स्यात् ॥ १ ॥ तस्मान् नान्तराय्यं । आत्म-
नो गोपीथाय ।" इति । (५ प्र० । ३ अ० । ३ म०) । यत्र प्रवर्ग्यपा-
त्राणि तिष्ठन्ति । तत्र सूर्य्यश्चेत् प्राच्यां वसेत् तदानीं स्वयं प्रती-
च्यां तिष्ठेत् । सूर्य्यस्य प्रतीच्यामवस्थाने स्वयं प्राच्यां तिष्ठेत् ।
एवं सति प्रवर्ग्यादित्ययोर्मध्येऽन्तरायो न भवेत् । अन्तराये
तु कुष्ठरोगो 'स्यात्' । अतः 'स्वशरीररक्षार्थं 'अन्तरायं न',
कुर्यात् ॥

मृत्पात्रनिर्माणे साधनं विधत्ते । "वेणुना करोति । तेजो
वै वेणुः । तेजः प्रवर्ग्यः । तेजसैव तेजः समर्धयति ।" इति ।
(५ प्र० । ३ अ० । ४ म०) । कुम्भनिर्माणार्थं कुम्भकाराः काष्ठेन यं
व्यापारं कुर्वन्ति तत्र 'वेणुना', कुर्यात् नतु दारुणा । अग्नि-
र्देवेभ्योऽनिलायत स वेणुं प्राविशदिति श्रुत्या वेणोस्तेजस्त्वं तप्त-
घृताधारत्वात् प्रवर्ग्यपात्रमपि 'तेजः' । अतो वेणुरूपेण 'तेजसा',
प्रवर्ग्यरूपं 'तेजः', समृद्धं करोति ॥

कल्पः । मखिष्यन् मृदं (१६)"मखस्य शिरोऽसीति"(१७) । पिण्डं
कृत्वाेति । हे मृत्पिण्ड त्वं यज्ञस्य शिरःस्थानीयः 'असि' ॥

प्रवर्ग्यार्थस्य द्रव्यस्य शिरस्थानीयत्वं विशदयति । "मखस्य
शिरोऽसीत्याह । यज्ञो वै मखः । तस्यैतच्छिरः । यत् प्रवर्ग्यः ॥ २ ॥
तस्मादेवमाह ।" इति । (५ प्र० । ३ अ० । ५ म०) प्रथमानुवाके
धनुःकोट्याच्छिन्नं यज्ञपुरुषस्य शिरो द्यावापृथिव्योरनुवर्त्तनात्
प्रवर्ग्यनाम सम्पन्नमित्युक्तं । तस्मात् मखस्य शिरोऽसीति
मन्त्रोक्तमुपपन्नं ॥

४ प्रपाठके २ अनुवाकः । ३६७

^(१८)य॒ज्ञस्य॑ प॒दे स्थः॑^(१८) । ^(१९)गा॒य॒त्रेण॑ त्वा॒ छन्‌द॑सा करोमि । त्रैष्टु॒भेन॑ त्वा॒ छन्‌द॑सा करोमि । जाग॑तेन त्वा

कल्पः । ^{(१८)}यज्ञस्य पदे स्थ^{(१८)} इत्यङ्गुष्ठाभ्यां निगृह्य इति । आर्द्रस्य पिण्डस्योपरि अङ्गुष्ठद्वयग्रेण निष्पन्नविन्दुद्वयाकारे हेलाञ्छने युवां ‘यज्ञस्य’, पादौ भवथः ॥

एतयोर्यज्ञपादत्वे शास्त्रप्रसिद्धिं दर्शयति । “यज्ञस्य पदे स्थ इत्याह । यज्ञस्य ह्येते पदे । अथो प्रतिष्ठित्यै ।” इति । (५ प्र० । ३ अ० । ६ म०) । समानरूपत्वेन द्वित्वेन च पादसादृश्यादित्यं कर्त्तव्यं । अपि च पादद्वयसादृश्येन प्रतिष्ठार्थमेतद्भवति* ॥

कल्पः । महावीरं करोति । त्र्युद्धिं पञ्चाङ्गुमपरिमितोर्द्धं प्रादेशमात्रमूर्द्धसमानं† उपरिष्टादासेचनवन्तं मध्ये सन्नत वायव्यप्रकारङ्गायत्रेण त्वा छन्दसा करोमीति प्रथमन्त्रैष्टुभेनेति । द्वितीयं जागतमिति । तृतीयं अपि वा सर्वैरेकैकमिति । पाठस्तु । ^{(१९)}“गायत्रेण त्वा ० छन्दसा करोमि”^{(१९)} इति । हे प्रथम महावीर त्वां गायत्रच्छन्दोदेवतासामर्थ्येन निष्पादयामि । एवं द्वितीयतृतीययोर्महावीरयोस्त्रैष्टुभजागतमन्त्रौ व्याख्येयौ

मन्त्रेषु गायत्रादिपदानामुपयोगं दर्शयति । “गायत्रेण त्वा छन्दसा करोमीत्याह । छन्दोभिरेवैनं करोति” इति ।


* प्रतिष्ठार्थमेव भवतीति तै० पाठः
† मूर्द्धसानुमिति तै० पाठः ।

३६८ तैत्तिरीये आरण्यके

छन्द॑सा करोमि^(१९) । ^{(२०)}म॒खस्य॒ रास्ना॑सि^{(२०)} । ^{(२१)}अ-

(५ प्र०। ३ अनु०। ७ म०) । एतेषां मन्त्राणां पाठेन महावीरस्येदं छन्दो देवतादिभिर्निष्पादितं भवति ॥ एकैकस्मिन् महावीरे कच्यात्रयं विधत्ते । “त्र्युद्बिं करोति। त्रय इमे लोकाः एषां लोकानामाप्त्यै।” इति। (५ प्र०। ३ अनु०। ८ म०) । भाण्डस्योपरिभाण्डान्तरप्रक्षेपे यादृश आकारो भ- वति । तादृश आकार उद्बिरित्युच्यते । ऊर्ध्वाधोभावेनाव- स्थितभाण्डत्रयवत् त्रिविधा उधा यस्य* महावीरस्य सोऽयं ‘त्र्युद्बिः’ । तत्र त्रित्वसाम्याल्लोकत्रयप्राप्तिः ॥ पूर्वव्याख्यातैः छन्दःप्रतिपादकैर्मन्त्रैः तन्निष्पादनं विध- त्ते । “छन्दोभिः करोति ॥ ३ ॥ वीर्यं वै छन्दाꣳसि । वीर्येणै- वैनं करोति।” इति । (५ प्र०। ३ अनु०। ९ म०) । वीर्यप्रदत्वात् गायत्र्यादिच्छन्दसां वीर्यरूपत्वं ॥ कल्पः । ^{(२०)}“मखस्य०रास्नासि”^{(२०)} इति। उपबिलं रास्नां करोतीति । बिलस्य समीपे वर्त्तमान हे वलयाकार त्वं यज्ञस्य ‘रास्ना’ रसना, ‘असि’ । यथा काञ्चीदाम, कण्ठाभरणं वा तद्वत् ॥ कल्पः । ^{(२१)}“अदितेस्ते बिलं गृह्णातु”^{(२१)} इति वेणुपर्वणा बिलं करोतीति । पाङ्क्तेन छन्दसेति मन्त्रशेषः । हे महावीर

* उच्छ्राया इति तै० प० ठः ।