तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)
Taittiriya Aranyaka Hindi
महर्षि वैशम्पायन द्वारा
स्रोत: Taittiriya Aranyaka with Sayana Bhashya and Hindi Translation (उद्गम)
४५६ | तैत्तिरीये आरण्यके
एता वै होत्राः । होत्राभिरेव यज्ञस्य शिरः प्रतिदधाति ॥ ॥१०॥ इति । (५ प्र०।६ अ०।३४ म०) । यदा धनुःकोट्या यज्ञपुरुषस्य, 'शिरः' छिन्नं तदा 'देवाः' तत् 'शिरः' 'होत्राभिः' यज्ञशरीरे प्रतिष्ठितवन्तः होमनिष्पादिका ऋत्विजां याः प्रत्यवेक्षणादि*क्रियाः, 'एताः' एव 'होत्राः' तस्मादृत्त्विजामवे- क्षणेन 'होत्राभिरेव' 'यज्ञस्य शिरः' प्रतिष्ठितं भवति ॥
अग्निश्रेष्ठ्यादिमन्त्रैरुपस्थानादूर्द्धकालीनत्वमवेक्षणस्य विध- त्ते । "रुचितमवेक्षन्ते । रुचिताद्वै प्रजापतिः प्रजा असृजत । प्रजानाग् सृष्ट्यै†" इति । (५ प्र०।६ अ०।३५ म०) । रुचिधात्वर्थ- प्रतिपादकैः अग्निश्रेष्ठ्यादिकैर्मन्त्रैरभिमन्त्रितो महावीरो रु- चितः तादृशं पश्चादवेक्षेरन्, पुरा 'प्रजापतिः' प्रवर्यात्, 'रुचि- तात्' एव 'प्रजाः' सृष्टवान्, अतोऽचापि 'सृष्ट्यै' तद्भवति ॥
पूर्वोक्तमेवानूद्य पुनः प्रशंसति । "रुचितमवेक्षन्ते । रुचि- ताद्वै पर्जन्यो वर्षति । वर्षुकः पर्जन्यो भवति । सं प्रजा वर्द्धन्ते" इति । (५ प्र०।६ अ०।३६ म०) पूर्वोक्तात् 'रुचितात्' प्रवर्यादेव कर्मानुष्ठानद्वारादित्यप्राप्त्या मेघः 'वर्षति' अतोऽचापि रुचिता- वेक्षणे 'पर्जन्यः' वर्षणशीलः, 'भवति', 'प्रजाः' च सम्यग्वर्द्धन्ते ॥
पुनरपि प्रकारान्तरेण प्रशंसति । "रुचितमवेक्षन्ते । रुचि- तं वै ब्रह्मवर्चसं । ब्रह्मवर्चसिनो भवन्ति" ॥११॥ इति । (५ प्र०। ६ अ०।३७ म०) । 'ब्रह्मवर्चसं' श्रुताध्ययनसम्पत्तिः, 'रुचितं'
* अवेक्षणादि इति तै० पु० पाठः † सृष्ट्यैतत् इति तै० पु० पाठः ।
४ प्रपाठके ७ अनुवाकः। ४५७
विद्वत्सभायां प्रकाशितं, भवति। अतो हवितावेक्षणेन ब्रह्मवर्चसयुक्ताः 'भवन्ति' ॥
अवेक्षणे पूर्व्वोक्तमन्त्रान् विधत्ते । “अधीयन्तोऽवेक्षन्ते । सर्व्वमायुर्य्यन्ति” इति । (५ प्र० । ६ अ० । ३८ म०) । 'अधीयन्तः' अपश्यं गोपामित्यादिमन्त्रान् पठन्तः, ऋत्विजोऽवेक्षेरन्, ततो* मन्त्रसामर्थ्यात् सर्व्वायुःप्राप्तिः ॥
पत्न्याः कञ्चिद्विशेषं विधत्ते । “न पत्न्यवेक्षेत । यत् पत्न्यवेक्षेत । प्रजायेत । प्रजां त्वस्यै निर्द्दहेत् । यन्नावेक्षेत । न प्रजायेत । नास्यै प्रजां निर्द्दहेत् । तिरस्कृत्य यजुर्व्वाचयति ॥ प्रजायते । नास्यै प्रजां निर्द्दहति” इति । (५ प्र० । ६ अ० । ३९ - म०) । अत्रायं विचारः, किं 'पत्न्यवेक्षेत', 'न' वेति अवेक्षणपक्षे प्रजोत्पत्तिलक्षणे गुणे सत्यपि तदीयां 'प्रजां' महावीरः 'निर्द्दहेत्' इत्येष महान् दोषः, अतः 'नावेक्षेत' इत्येकः पक्षः । अनवेक्षणपक्षे निर्द्दाहाभावेऽपि प्रजोत्पत्तिः 'न' स्यादित्यन्यो दोषः, अतो दोषद्वयनिवृत्तये पत्नीं केनचिद्व्यवधानेन 'तिरस्कृत्य' 'लष्ट्रीमती' इति मन्त्रं पठेत् ॥
तस्मिन् मन्त्रे सपेयेत्यस्य तात्पर्य्यं दर्शयति । “लष्ट्रीमती ते सपेयेत्याह । सपादिव प्रजाः प्रजायन्ते” ॥ १२॥ इति । (५ प्र० । ६ अ० । ४० म०) । स्त्रीपुरुषयोः समवायात् प्रजोत्पत्तिः प्रसिद्धा तस्मात् 'सपेय' इत्युच्यते ॥
ऋतवः, हि शिरः, सर्व्वपृष्ठे प्रव्रणक्ति, अनिपद्यमानजि-
* अतो इति तै० पु० पाठः ।
3 L 2
४५८ तैत्तिरीये आरण्यके
त्याह, गतेत्याह, शारदावेवास्मा ऋतू कल्पयति, रुन्धे, कवी- नामित्याह, प्राणाः, प्रतिदधाति, भवन्ति, वाचयति, चत्वारि च ॥ इति ५ प्रपाठके ६ अनुवाकः ॥
अत्र मीमांसा । तृतीयाध्यायस्य तृतीयपादे चिन्तितम् ।
न प्रवृञ्ज्यादाद्ययज्ञे क्रतौ सोऽनुष्ठितावुत ।
प्रतिषेधः क्रतौ युक्त उक्ता ह्यस्याद्ययज्ञता ॥
प्रवृणक्त्युपसद्द्भ्यः प्रागिति वाक्यात् क्रतोर्विधेः ।
आद्यप्रयोगे प्राथम्यान्निषेधः क्वचिदेव सः ॥
ज्योतिष्टोमे प्रवर्ग्याख्यं कर्म प्रकृत्य श्रूयते । न प्रथमयज्ञे प्रवृञ्ज्यादिति सोऽयं निषेधो ज्योतिष्टोमक्रतौ द्रष्टव्यो न तु तदीयप्रथमप्रयोगे । कुतः । एष वाव प्रथमो यज्ञो यज्ञानां यज्ज्योतिष्टोम इति। तस्य प्रथमयज्ञत्वाभिधानादिति चेत् । मैवं । पुरस्तादुपसदां प्रवर्ग्यं प्रवृणक्तीति* वाक्येन क्रतौ प्रवर्ग्यस्य विहितत्वात् । न च विधिनिषेधवाक्ययोः समानबलत्वादयं निर्णयः, तथा सति प्रतिषेधवाक्ये प्रथमशब्देन प्रयोगपरत्वनिर्णयात् प्रथमद्वितीयादिशब्दाः क्रियाया आवृत्तौ मुख्याः तत्सम्बन्धाद्वस्तुषूपचर्य्यन्ते । प्रथममध्येतव्यत्वात् प्रथमकाण्डं, तदनन्तरमध्येतव्यत्वाद्वितीयकाण्डं, एवमादावुत्पन्नत्वात् प्रथमः पुत्रः, तदनन्तरमुत्पन्नत्वाद्वितीयः पुत्रः । तथापि† प्रयोगक्रियाया
* प्रवृणक्तीति D चिह्नितपु० पाठः।
† तथा सति इति तै० पु० पाठः ।
४ प्रपाठके ७ अनुवाकः । ४५६
आवृत्तिविशेषेऽपि* प्रथमशब्दो मुख्यः तदा-†वृत्तिविशेषतया यज्ञशब्दो लाक्षणिकः, तत्पक्षे क्रतौ मुख्यो यज्ञशब्दः प्रयोगे‡ लाक्षणिकः स्यादितिचेत् । बाढं । तथाप्यसञ्जातविरोधिनि लाक्षणिकत्वकल्पनात् कामं§मुत्तरपदे तत्कल्पनं तस्माज्ज्योतिष्टोमस्य प्रथमप्रयोगे प्रवर्ग्यस्य निषेधः । न तु सप्तमसंख्यायुक्तस्य ज्योतिष्टोमस्य प्रथमसंस्थारूपोऽग्निष्टोमः तत्रायं निषेधः पर्य्यवस्यति । विधिश्च तत्र श्रूयते । अग्निष्टोमे प्रवृणक्तीति । एवं तर्ह्यधिकारि॥भेदेन विधिनिषेधयोर्व्यवस्थास्तु । तथा च श्रूयते । कामन्तु योऽनूचानः स्यात् तस्य प्रवृञ्ज्यादिति तस्मादनूचानव्यतिरिक्तप्रथमप्रयोगएवायं निषेधः ॥
इति सायनाचार्य्यविरचिते माधवीये वेदार्थप्रकाशे यजुरारण्यके चतुर्थप्रपाठके सप्तमोऽनुवाकः ॥ ७ ॥
* आवृत्तिर्द्वितीयेऽपि इति D चिह्नितपु० पाठः ।
† तथा इति तै० पु० पाठः ।
‡ प्रयोगे इति तै० पु० पाठः ।
§ वरं इति तै० पु० पाठः ।
॥ अधिकार इति D चिह्नितपु० पाठः ।
| ४६० | तैत्तिरीये आरण्यके |
|---|
अथ अष्टमोऽनुवाकः ।
$^{(१)}$दे॒वस्य॑ त्वा सवि॒तुः प्र॑स॒वे । अ॒श्विनो॑र्बा॒हुभ्या॑म् । पू॒ष्णो हस्ता॑भ्या॒माद॑दे$^{(१)}$। $^{(२)}$अदि॑त्यै रास्ना॑सि$^{(२)}$। $^{(३)}$इड॒
अथ अष्टमोऽनुवाकः ।
सप्तमे महावीरवेक्षणमुक्तं । अष्टमे आज्ये महावीरे पयः-प्रक्षेपं विधत्ते प्रवृञ्जनमुच्यते*। कल्पः। सावित्रेण रशनामादायेति । पाठस्तु । $^{(१)}$"देवस्य त्वा सवितुः प्रसवे ॰ पूष्णोहस्ताभ्यामाददे"$^{(१)}$ इति । द्वितीयानुवाके (३८१पृ०) व्याख्यातोऽयं मन्त्रः ॥
अनेन मन्त्रेण साध्यमादानं विधत्ते । "देवस्य त्वा सवितुः प्रसव इति रशनामादत्ते प्रसूत्यै । अश्विनोर्बाहुभ्यामित्याह । अश्विनौ हि देवानामध्वर्यू आस्तां । पूष्णो हस्ताभ्यामित्याह यत्यै" इति । (५प्र०।७अ०।१म०)॥
कल्पः । अदित्यै रास्नासीत्यभिमन्त्रयेति। (२मन्त्रः) हे रशने त्वं 'अदित्यै' भूमिरूपायै धेन्वे, 'रास्ना' बन्धनार्था रशना, 'असि' ॥
मन्त्रतात्पर्यं दर्शयति । "आददेऽदित्यै रास्नासीत्याह यजुष्कृत्यै" इति । (५प्र०।७अ०।२म०)। 'आददे' इत्येष पूर्व-
* पयःप्रक्षेपाममुच्यते इति तै० पु० पाठः ।
४ प्रपाठके ८ अनुवाकः । ३८१
एहि॑ । अदि॑त॒ एहि॑ । सर॑स्व॒त्येहि॑^(२) । ^{(४)}असा॒वेहि॑ । असा॒वेहि॑ । असा॒वेहि॑^(४) ॥ १ ॥
मन्त्रशेषः, स्पष्टार्थत्वात् पाठ एव तस्य व्याख्यानं । यजुषा मन्त्रेण कृतिः निष्पादनं यजुष्कृतिः तत्सिद्धार्थमनेनाभि- मन्त्रणं ॥
कल्पः । पूर्व्वया द्वारोपनिष्क्रम्य त्रिरुपांशु घर्मदुघामा- ह्वयति । (२) "इड एहि अदित एहि सरस्वत्येहि"^(१) इति । इंडादीनि गोनामधेयानि तैः सम्बोध्य 'एहि' इत्याह्वयति ॥
मन्त्रतात्पर्यं दर्शयति । "इड एह्यदित एहि सरस्वत्येही- त्याह । एतानि वा अस्यै देवनामानि । देवनामैरेवैनामाह्वय- ति" इति । (५ प्र० । ७ अ० । ३ म०) । वक्ष्यमाणाङ्गानेन पुनरुक्तिं वारयितुं 'देवनामानि' इति विशिष्यते । इडादीनि देवानां प्रसिद्धानि गोनामानि मन्त्रपाठे सति तैरेवेयमाह्वता भवति ॥
कल्पः । प्रत्येत्य दोग्ध्रे निदाने इत्यादाय दक्षिणया द्वा- रोपनिष्क्रम्य त्रिरुच्चैः । असावेहि । असावेहि । असावेहीति (४ मन्त्रः) । * घर्मदुघामाह्वयतीत्यनुवर्त्तते । मनुष्ये व्यवहारार्थं सङ्केतितं गङ्गादिकं धेनुनाम 'असौ' इति शब्देन निर्द्दिश्यते हे गङ्गे समागच्छ ॥
पूर्व्वाङ्गानाङ्गावृत्तिमन्त्रं दर्शयति । "असावेह्यसावेह्य- सावेहीत्याह । एतानि वा अस्यै मनुष्यनामानि ॥ १ ॥ मनुष्य नामैरेवैनामाह्वयति" इति । (५ प्र० । ७ अ० । ४ म०) ॥
४६२ तैत्तिरीये आरण्यके
^(५)अदित्या उ॒ष्णीष॑मसि^(५)। ^(६)वा॒युर॑स्यै॒डः^(६)। ^(७)पू॒षा
द्विविधाङ्गानगतां सङ्ख्यां प्रशंसति। “षट् सम्पद्यन्ते। षट् वा ऋतवः। ऋतुभिरेवैनामाङ्क्षयति” इति। (५ प्र०। ७ अ०। ५ म०)। त्रीणि देवनामानि त्रीणि मनुष्यनामानीत्येवं ‘षट्’ सम्पत्तिः॥
कल्पः। अदित्या उष्णीषमसीति रशनया घर्मदुघामभिददाति इति। (५ मन्त्रः) हे रशने ‘अदित्याः’ भूमिरूपाया धेनोः, उष्णीषस्थानीया ‘असि’॥
मन्त्रस्य स्पष्टार्थं दर्शयति। “अदित्या उष्णीषमसीत्याह। यथा यजुरेवैतत् इति। (५ प्र०। ७ अ०। ६ म०)॥
कल्पः। वायुरस्यैड इति वत्सम् इति। (६ मन्त्रः) अभिदधातीत्यनुवर्त्तते। इडाया अपत्यं ‘ऐडः’ वत्सः, तादृशस्त्वं ‘वायु’-स्वरूपः ‘असि’॥
वायुत्वमुपपादयति। “वायुरस्यैड इत्याह। वायुदेवत्यो वै वत्सः” इति। (५ प्र०। ७ अ०। ७ म०)। वत्सापाकरणे वायवः स्थेत्याम्नानात्* ‘वायुदेवत्यः’ त्वं, अत एवान्यत्र ब्राह्मणे वायुर्वत्स इत्युक्तं॥
कल्पः। पूषा त्वोपावसृजत्वित्युपावसृज्येति अश्विभ्यां प्रदापय इति मन्त्रशेषः। (७ मन्त्रः) हे वत्स त्वां, ‘पूषा’-ख्यो देवः स्तनपानार्थं मुञ्चतु लञ्चाश्विदेवार्थं पयः ‘प्रदापय’॥
* इत्याम्नातं तै० पु० पाठः।
४ प्रपाठके ८ अनुवाकः। ४६३
त्वो॒पाव॑सृजतु। अ॒श्विभ्यां॑ प्रदा॑पय⁽७⁾। ⁽८⁾यस्ते॒ स्तन॑: श॒श॒यो यो म॑यो॒भूः। येन॒ विश्वा॑: पुष्य॑सि॒ वार्या॑णि। यो
मन्त्रस्य पूर्व्वभागे पूषेत्यस्य तात्पर्य्यं दर्शयति। “पूषा त्वो- पावसृजत्वित्याह। पौष्णा वै देवतया पशवः ॥ २॥ स्वयैवैनं देवतयोपावसृजति” इति। (५प्र०।७अ०।८म०)। पोषकत्वा- देवाय॑ पशूनां देवः ॥
उत्तरभागेऽश्विशब्दतात्पर्य्यं दर्शयति। “अश्विभ्यां प्रदाप- येत्याह। अश्विनौ वै देवानां भिषजौ। ताभ्यामेवास्मै भेषजं करोति” इति। (५प्र०।७अ०।६म०)। ‘अस्मै’ वत्साय, क्षीरं ‘भेषजं’ इत्येतत् प्रत्यक्षं, ‘अश्विभ्यां’ तु हविःप्रदानद्वारा ‘भेषजं’ ॥
कल्पः। यस्ते स्तनः शशय इति घर्मदुघामभिमन्त्रयत इति। पाठस्तु। ⁽८⁾“यस्ते स्तनः शशयो यो मयोभूः० सरस्वति तमिह धातवेऽकः”⁽८⁾ इति। हे धेनो ‘ते’ तव, ‘यः’ ‘स्तनः’ ‘शशयः’ शयानः स्थैर्य्येणावस्थितः, ‘यः’ च ‘स्तनः’ ‘मयोभूः’ सुखस्य भावयिता, ‘येन’ च स्तनेन, ‘विश्वाः’ सर्व्वाणि, ‘वार्याणि’ वरणीयानि* वत्सादिगशरीराणि, ‘पुष्यसि’ पुष्टानि करोषि, ‘यः’ च ‘स्तनः’ ‘रत्नधा’ रत्नवन्महार्घं क्षीरं धारयति। अत एव ‘वसुवित्’ उत्तमं वस्तु लभते। ‘यः’ च स्तनः, ‘सुदत्रः’ शोभनदानशीलः, बहुक्षीरं ददातीत्यर्थः। हे ‘सरस्वति’
* प्रेरणोयानि इति D चिह्नितपु० पाठः।
2 I
४६४ तैत्तिरीये आरण्यके
रत्न॒धा वसु॒विद्यः सु॒दत्र॑: । सर॑स्वति॒ तम॒ह धात॑वे- ऽकः॑^(८) । ^(६)उस्र॑ घ॒र्मꣳ शि॑ङ्ष्व । उस्र॑ घ॒र्मं पा॑हि ॥ २ ॥
एतन्नामयुक्ते धेनो, ‘तं’ स्तनं, ‘इह’ कर्मणि, ‘धातवे’ धातुं देवानां क्षीरं पातुं*, ‘अकः’ योग्यं कुरु ॥
स्तनवर्णनेन धेनोरेव स्तुतिः सम्पद्यत इत्येतद्दर्शयति । “यस्ते स्तनः शशय इत्याह । स्तौत्येवैनां” (५ प्र० । ७ अ० । १० म०) ॥
कल्पः । उस्र घर्मꣳ शिङ्ष्व उस्र घर्मं पाहि घर्माय शिङ्षेति निदाय वत्समिति । (६ मन्त्रः) । ‘निदाय’ बद्ध्वे- त्यर्थः । हे ‘उस्र’ वत्स, ‘घर्मं’ अरणयोग्यं† क्षीरं, ‘शिङ्ष्व’ अवशेषय, हे ‘उस्र’ क्षीराख्यं ‘घर्मं’ ‘पाहि’ पालय, यथा सुरक्षितं भवति तथा कुरु । किमर्थमिति तदुच्यते । ‘घर्माय’ प्रवर्यार्थं, ‘शिङ्ष्व’ अवशेषय ॥
घर्मायेत्येतच्चतुर्थ्यन्तस्य तात्पर्यं दर्शयति । “उस्र घर्मꣳ शिङ्ष्वोस्र घर्मं पाहि घर्माय शिङ्षेत्याह । यथा ब्रूयादमुष्मै देहीति । तादृगेव तत्” इति । (५ प्र० । ७ अ० । ११ म०) । लोके हि बालपुत्रार्थं क्षीरं देहीति गृहस्वामिनं बालस्य माता याचते तद्वदिदं द्रष्टव्यं ॥
कल्पः । बृहस्पतिस्तो॑पसीदत्वेत्युपसीदतीति । (१० मन्त्रः) ।
* दातुं इति तै० पु० पाठः ।
† रक्षणयोग्यं इति वै० पु० पाठः ।
४ प्रपाठके ८ अनुवाकः । ४६५
घ॒र्माय॑ शिश्लृष्व^{(९)} । ^{(१०)}बृह॒स्पति॑स्त्वोप॑सीदतु^{(१०)} । ^{(११)}दान॑वः स्थ पेर॑वः । विष्व॑ग्वृ॒तो लोहि॑तेन^{(११)} ।
हे धेनो 'त्वा' त्वां, दोग्धृरूपः 'बृहस्पतिः' 'उपसीदतु' समीपे प्राप्नोतु ॥
बृहस्पतिशब्दतात्पर्यं दर्शयति । “बृहस्पतिस्त्वोपसीदत्वित्याह ॥ ३ ॥ ब्रह्म वै देवानां बृहस्पतिः । ब्रह्मणैवैनामुपसीदति” इति । (५ प्र० । ७ अ० । १२ म०) । 'देवानां' मध्ये, बृहस्पतेः परब्रह्मरूपत्वात् तेनैवोपसदनं कृतं भवति ॥
कल्पः । दानवः स्थ पेरव इति स्तनान् संमृश्येति । विष्वग्वृतो लोहितेनेति मन्त्रशेषः । (११ मन्त्रः) । हे स्तनायूयं, 'दानवः' क्षीरदानकुशलाः, 'पेरवः' वत्सेन पातुं योग्याः, 'लोहितेन' वत्सेन, 'विष्वग्वृतः' पृथग्भूत्वा वर्त्तमानाः, 'स्थ' । न हि स्तनदोहने रक्तमायाति ॥
पानयोग्यत्वकथनेन शुद्धिः सूचितेत्येतद्दर्शयति । “दानवः स्थ पेरव इत्याह । मेध्यानेवैनान् करोति” इति । (५ प्र० । ७ अ० । १३ म०) ॥
विष्वग्वृत इत्यनेन क्षीरस्य रक्ताद्व्यावृत्तिर्विवक्षितेति दर्शयति । “विष्वग्वृतो लोहितेनेत्याह व्यावृत्यै” इति । (५ प्र० । ७ अ० । १४ म०) ॥
कल्पः । अ॒श्विभ्यां॑ पिन्वस्व सर॑स्वत्यै पिन्वस्व पू॒ष्णे पि॑न्वस्व
312
४६६ तैत्तिरीये आरण्यके
(१२) अ॒श्विभ्यां॑ पिन्वस्व । सर॑स्वत्यै पिन्वस्व । पू॒ष्णे पि॑न्वस्व । बृह॒स्पत॑ये पिन्वस्व । इन्द्रा॑य पिन्वस्व । इन्द्रा॑य पिन्वस्व⁽१२⁾ ॥ ३ ॥
बृहस्पतये पिन्वस्वेति तृष्णीयसि* दोग्ध्रे दोग्धीति । स्थूले दोहनपात्रे दुह्यादित्यर्थः† । इन्द्राय पिन्वस्व इन्द्राय पिन्वस्वेति मन्त्रशेषः । (१२ मन्त्रः) । हे धेनो अश्विसरस्वत्यादिदेवार्थं 'पिन्वस्व' हविःप्रभूतं देहि ॥
प्रभूतदाहत्वं धेनोः प्रसिद्धमित्येतद्दर्शयति । “अश्विभ्यां पिन्वस्व सरस्वत्यै पिन्वस्व पूष्णे पिन्वस्व बृहस्पतये पिन्वस्वेत्याह । एताभ्यो ह्येषा देवताभ्यः पिन्वते” इति । (५ प्र० । ७ अ० । १ । ५ म०) ॥
बृहस्पत्यादिवदिन्द्रस्य सम्बन्धमात्रेण परितोषो न भवति किन्तु हविर्भागोऽप्यस्तोत्येतद्दर्शयति । “इन्द्राय पिन्वस्वेन्द्राय पिन्वस्वेत्याह । इन्द्रमेव भागधेयेन समर्द्धयति” इति । (५ प्र० । ७ अ० । १ । ६ म०) ॥
भागाधिक्येनेन्द्रमन्त्रावृत्तिं दर्शयति । “द्विरिन्द्रायेत्याह ॥ ॥ ४ ॥ तस्मादिन्द्रो देवतानां भूयिष्ठ भाक्तमः” इति । (५ प्र० । ७ अ० । १ । ७ म०) ॥
* वर्षीयसि इति तै० पु० पाठः ।
† दुह्यतोत्यर्थः इति तै० पु० पाठः ।
४ प्रपाठके ८ अनुवाकः । ४६७
(१३)गा॒यत्रो॑ऽसि । त्रै॒ष्टुभो॑ऽसि । जा॒गतम॑सि(१३) ।
(१४)स॒होर्ज्जो भा॒गेनोप॑मेहि(१४) । (१५)इन्द्रा॑श्विना॒ मधु॑नः
कल्पः । उपोत्तिष्ठन्तावग्नीध्रे पयसो प्रदाय पूर्व्वावभिहृत्य* शफोपयमानादत्ते गायत्रोऽसीति प्रथमं त्रैष्टुभोऽसीति द्वितीयं जागतमसीति तृतीयमित्युपयमनं प्रतिप्रस्थातेति । (१३ मन्त्रः) । तप्तस्य महावीरस्य हस्ताभ्यां ग्रहीतुमशक्यत्वात् सन्दंशवदुभयतः काष्ठद्वयमध्ये महावीरं सन्दष्टं कृत्वा काष्ठद्वयस्य मूलद्वयमग्रद्वयं च धृत्वा अध्वर्य्युप्रतिप्रस्थातारावानयतः तौ काष्ठविशेषौ शफावित्युच्येते । महावीरस्याधस्ताद्धार्य्यमाणः काष्ठविशेष उपयम† इत्युच्यते । हे प्रथमशफ त्वं गायत्रीच्छन्दःसम्बन्धी ‘असि’ । हे द्वितीयशफ त्वं त्रिष्टुवच्छन्दःसम्बन्धी ‘असि’ । हे उपयम‡ त्वं जगतोच्छन्दःसम्बन्धी ‘असि’ ॥
एतन्मन्त्रसाध्यमादानं विधत्ते । “गायत्रोऽसि त्रैष्टुभोऽसि जागतमसीति शफोपयमानादत्ते । छन्दोभिरेवैनानादत्ते” इति । (५ प्र० । ७ अ० । १८ म०) । गायत्र्यादिशब्दप्रयोगेण च्छन्दोभिरादानं सिध्यति ॥
कल्पः । सहोर्ज्जो भागेनोपमेहीति पय आग्नीध्रीयमाणं प्रतीक्षत इति । (१४ मन्त्रः) । आग्नीध्रेणानीयमान हे पयः ‘ऊर्ज्जः’ रसस्य, ‘भागेन’ ‘सह’ मां, ‘उपेहि’, मत्समीपे समागच्छ ॥
* पूर्व्ववदुद्रुत्य इति तै० पु० पाठः ।
† उपयमन इति तै० पु० पाठः ।
‡ उपयमन इति II चिह्नितपु०पाठः ।
| ४६८ | तैत्तिरीये आरण्यके |
|---|
सार॒घस्य॑ । घ॒र्मं पा॑त वसवो यज॑ताव॒ट्^(१५) । ^(१६)स्वाहा॑
एतन्मन्त्रबलेनोर्जो रसस्य भागः सम्पादितो भवतीति दर्शयति। “सहोर्जो भागेनोपमेहीत्याह। ऊर्ज्जं एवैनं भागमकः” इति। (५ प्र० । ७ अ० । १६ म०) ॥
कल्पः। इन्द्राश्विना मधुनः सारघस्येति महावीरे गोपयः आनयतीति। घर्मं पात वसवो यजता वड़िति मन्त्रशेषः। (१५ मन्त्रः) । हे 'इन्द्र' हे अश्विनौ, यूयं त्रयोऽपि 'मधुनः' सम्बन्धिनं 'घर्मं' घृतसहितं क्षीरं, 'पात' पिवत। कीदृशस्य 'मधुनः' 'सारघस्य' सरघा मधुमक्षिकाः ताभिर्निष्पादितं सारघं तादृशस्य मधुनः सम्बन्धेन हविषस्तद्वन्मधुररसवं हे 'वसवः' देवाः, 'यजत' यागं कुरुत, 'वट्' इदं हविर्दत्तमस्तु ॥
अस्मिन् मन्त्रे इन्द्रशब्देन सहाश्विशब्दस्य प्रयोगाभिप्रायं दर्शयति। “अश्विनौ वा एतद्यज्ञस्य शिरः प्रतिदधतावब्रूतां। आवाभ्यामेव पूर्वाभ्यां वषट् क्रियाता इति। इन्द्राश्विना मधुनः सारघस्येत्याह। अश्विभ्यामेव पूर्वाभ्यां वषट्करोति। अथो अश्विनावेव भागधेयेन समर्द्धयति” ॥५॥ इति। (५ प्र० । ७ अ० । २० म०) । धनुष ऊर्द्ध्वकोट्या छिन्नं 'एतद्यज्ञस्य शिरः' एनस्तद्देहे* प्रतिदधतौ, 'अश्विनौ' तस्मिन् काले, इदं वचनं 'अब्रूतां' । पूर्व्वभाविभ्यां 'आवाभ्यामेव' 'वषट्'-कारेण हविः-
* तद्देहे इति तै० पु० पाठः।
४ प्रपाठके ८ अनुवाकः । ४६६
प्रदातव्यमिति अतस्ताभ्यां प्रार्थितत्वात् ‘अश्विनौ’ इति मन्त्र उच्यते । तेनैताभ्यां प्रथमतॊ हविर्दत्तं भवति । अपि च पूर्व्वं भागरहितौ ‘अश्विनौ’ इदानीं भागेन समृद्धं करोति, ‘शिरः’ प्रतिधानवेलायामितरदेवान् प्रति ‘पूर्व्वाभ्यां’ इति वरस्य* दत्तत्वात् देवान्तरापेक्षयाश्विनोः पूर्व्वत्वं अतो नान्येभ्यो देवेभ्यः घर्म्मो दीयते । किन्तु इन्द्रसहिताश्विभ्यामेव ॥
मन्त्रस्योत्तरभागे वसुशब्देन वसूनामपि भागसिद्धिं दर्शयति । “घर्म्मं पात वसवो यजता वडियाह । वसूनेव भागधेयेन समर्द्धयति” इति । (५ प्र० । ७ अ० । २१ म०) ॥
अत्र मीमांसयां† वषट्शब्दं प्रशंसति । “यदषट्कुर्य्यात् । यातयामास्य वषट्कारः स्यात् । यन्न वषट्कुर्य्यात् । रक्षाꣳसि यज्ञꣳ हन्युः । वडियाह । परोक्षमेव वषट्करोति । नास्य यातयामा वषट्कारो भवति । न यज्ञꣳ रक्षाꣳसि घ्नन्ति” ॥६॥ इति । (५ प्र० । ७ अ० । २२ म०) । अत्रेदं विचार्य्यते । ‘वषट्’-शब्दः प्रयोक्तव्यो न वेति तत्प्रयोगे सति इदानीमेव गतसारत्वात्‡ सोमयागे भविष्यति वषट्कारो निःसारो भवेत् । तदप्रयोगे वज्रो वै वषट्कार इति श्रुतस्य वज्रस्याभावात् ‘रक्षांसि’ ‘यज्ञं’ विनाशयेयुः, अत उभयदोषपरिहाराय द्वितीयाक्षरं परित्यज्य ‘वट्’ इत्येव प्रयोक्तव्यं । तथा
* पदस्य इति तै० पु० पाठः ।
† मीमांसायां इति D चिह्नितपु० पाठः ।
‡ रसनामेव गतसारत्वात् इति D चिह्नितपु० पाठः
| ४७० | तैत्तिरीये आरण्यके |
|---|
त्वा॒ सूर्य्य॑स्य र॒श्मये॑ वृष्टिवन॑ये जुहोमि^(१६)। ^(१७)मधु॑
सति सम्पूर्णत्वाभावात् प्रत्यचः 'वषट्कारः' । 'न' भवति अंश एव ततः सद्भावात् परोक्षस्तिरोहितः, 'वषट्कारः' 'भवति' ततः सम्पूर्ण'वषट्कारः' 'न' गतसारः, एकदेशस्यापि विद्य- मानत्वात् । वज्रसद्भावेन 'रक्षांसि' अपि 'यज्ञं' 'न' विना- शयन्ति ॥
कल्पः । स्वाहा त्वा सूर्य्यस्य रश्मये वृष्टिवनये जुहोमीत्यु- द्यन्तमुष्माणमनुमन्त्रयत इति । (१६ मन्त्रः) । 'वृष्टिवनये' वृष्टि- प्रदानाय, 'सूर्य्यस्य रश्मये' हे ऊष्मन् त्वां, 'स्वाहा' 'जुहोमि' स्वाहाकारयोग्यामाहुतिं द्रव्यं कृत्वा 'जुहोमि' ॥
सूर्य्यायेत्यनुक्त्वा रश्मय इत्युक्तेस्तात्पर्य्यं दर्शयति । “स्वाहा त्वा सूर्य्यस्य रश्मये वृष्टिवनये जुहोमीत्याह । यो वा अस्य पुष्णो रश्मिः । स वृष्टिवनिः । तस्मा एवैनं जुहोति” इति । (५ प्र०। ७ अ०। १२ म०) । सूर्य्यो न साक्षाद्वृष्टिं प्रयच्छति किन्तु पुष्णरश्मिद्वारा अतः साक्षात् 'रश्मये' एव वृष्टिप्रदानाय, आहुतिर्युक्ता ॥
कल्पः । मधु हविरसीत्यजापय इति । (१७ मन्त्रः) । महावीर आनयतीत्यनुवर्त्तते । हे अजाक्षीर, त्वं मधुरं, 'हविः' 'असि' ॥
स्वादुकर्त्तुं मधुशब्दप्रयोग इति दर्शयति । “मधु हविर- सीत्याह । स्वदयत्येवैनं” इति । (५ प्र०। ७ अ०। २४ म०) ॥
४ प्रपाठके ८ अनुवाकः । ४०१
ह॒विर॑सि^{(१७)}। ^{(१८)}सूर्य्य॑स्य॒ तप॑स्तप^{(१८)}। ^{(१९)}द्यावा॑पृथि॒वीभ्यां॑ त्वा परि॑गृह्णामि^{(१९)}॥ ^{(२०)}अन्तरि॑क्षेण त्वोप॑- यच्छामि^{(२०)}। ^{(२१)}दे॒वानां॑ त्वा पितॄणामनु॑मतो॒ भर्त्तुं॑^k
कल्पः । सूर्य्यस्य तपस्तपे*तूष्णीमिति । उद्यन्तमभिमन्त्रयत इत्यनुवर्त्तते । (१८ मन्त्रः) । हे उखन् 'सूर्य्यस्य' 'तपः' सूर्य्य- सम्बन्धिनं तापमपि तापमतिशयेन तप्तं कुरु ॥
मन्त्रस्य स्पष्टार्थतां दर्शयति । "सूर्य्यस्य तपस्तपेत्याह । यथा यजुरेवैतत्" इति । (५ प्र०। ७ अ०। १५ म०) ॥
कल्पः । द्यावापृथिवीभ्यां त्वा परिगृह्णामीति शफाभ्यां महावीरं परिगृह्णाति । (१९ मन्त्रः) । हे महावीर त्वां, द्यावापृथिवीदेवतारूपाभ्यां 'शफाभ्यां' 'परिगृह्णामि' ॥
मन्त्रबलात् द्यावापृथिव्योपरिग्रहः सिध्यतीति दर्शयति । "द्यावापृथिवीभ्यां त्वा परिगृह्णामीत्याह । द्यावापृथिवीभ्या- मेवैनं परिगृह्णाति" ॥७॥ इति । (५ प्र०। ७ अ०। १६ म०) ॥
कल्पः । प्रच्छिन्नाग्रेण वेदेन भस्म प्रमृज्यान्तरिक्षेण त्वोप- यच्छामीत्युपयमनेन प्रतिप्रस्थातोपयच्छतीति । (२० मन्त्रः) । हे महावीर, त्वां, अन्तरिक्षदेवतारूपेण उपयमनाख्यकाष्ठ- पात्रेण, 'उपयच्छामि' शफनामकाभ्यां काष्ठाभ्यामुद्ध्रीयमाणे त्वयि तयोः सहाय्यरूपेणानेनाधस्तादुद्यच्छामि ॥
मन्त्रबलादन्तरिक्षदेवतासाहाय्यं सिध्यतीति दर्शयति ।
* तपेत्युष्माणमनुमन्त्रयते इति तै० पु० पाठः ।
3 N
| ४७२ | तैत्तिरीये आरण्यके |
|---|
श॒केय॑म्(२१) । (२२)तेजो॑ऽसि । तेजोऽनु॒प्रेहि॑ । दि॒वि स्पृ॒क्षा मा हि॑ᳵसीः । अ॒न्तरि॑क्षस्पृ॒क्षा मा हि॑ᳵसीः । पृ॒थि॒वि॒स्पृ॒क्षा मा हि॑ᳵसीः । सुव॑रसि॒ सुव॑र्मे यच्छ । दि॒वं य॑च्छ दि॒वो मा॑ पाहि(२२) ॥ ४ ॥
"अन्तरिक्षेण नोपयच्छामीत्याह । अन्तरिक्षेणैवेनमुपयच्छति । न वा एतं मनुष्यो भर्त्तुमर्हति" इति । (५ प्र० । ७ अ० । २७ म०) ॥
कल्पः । देवानां त्वा पितॄणामनुमतो भर्त्तुᳵ शकेयमित्यादायात्थाप्येति । (२१ मन्त्रः) । हे महावीर, 'देवानां', 'पितॄणां' वा अनुमतिं प्राप्तोऽहं त्वां 'भर्त्तुं' धारयितुं शक्तो भूयासं ॥
एतत्पाठेनो*भयानुमतिसिद्धिं दर्शयति । "देवानां त्वा पितॄणामनुमतो भर्त्तुᳵ शकेयमित्याह । देवैरेवैनं पितृभिरनुमत आदत्ते" इति । (५ प्र० । ७ अ० । २८ म०) ॥
कल्पः । तेजोऽसि तेजोऽनुप्रेहीति हरतीति । पाठस्तु । (२२) "तेजोऽसि ० दिवं यच्छ दिवो मा पाहि"(२२) इति । हे प्रवर्ग्य त्वं तेजोरूपः 'असि' । अतस्तेजोरूपमाहवनीयं 'अनु'लक्ष्य,† 'प्रेहि' प्रकर्षेण गच्छ, अत्युष्णस्त्वं द्युलोकादीन् स्पृशन्नपि 'मा हिᳵसीः'‡ तापं मा कुरु । 'सुवरसि' त्वमेव स्वर्ग-
* द्वारेण इति तै० पुस्तकपाठः ।
† अभिलक्ष्य इति तै० पु० पाठः ।
‡ माहिंसितं इति तै० पु० पाठः ।
४ प्रपाठके ८ अनुवाकः । ४७३
एहि॑, पाहि॑, पिन्व॒स्व, गृ॒ह्णामि॑, नव॑र्च ॥ अनु० ८ ॥
सुखरूपः 'असि' । अतः स्वर्गसुखं 'मे' प्र'यच्छ' । तत्- सुखाधारं द्युलोकं 'दिवं' 'मे' प्र'यच्छ' । 'दिवः' द्युलोकात्, मां, 'पाहि' । तत्र राक्षसप्रवेशं निवार्य्य पालय ॥
मन्त्रस्य पूर्व्वभागे तेजोऽनुप्रेहीत्यस्य तात्पर्य्यं दर्शयति । “विवा एनमेतदर्द्धयन्ति । यत् पश्चात् प्रवृज्य पुरो जुह्वति । तेजोऽसि तेजोऽनुप्रेहीत्याह । तेज एवास्मिन् दधाति” इति । (५ प्र० । ७ अ० । २६ म०) । आहवनीयस्य पश्चिमभागे गार्हपत्य- स्योत्तरदेशे प्रवर्ग्यं कृत्वा 'पुरः' पूर्व्वस्यां दिशि, आहवनीये 'जुह्वति' इति 'यत्' अस्ति एतेन 'एनं' प्रवर्ग्यं समृद्धिरहितं कुर्व्वन्ति, प्रवृञ्जनेनैव तेजसोपगतत्वात् अतः 'तेजोऽनुप्रेहि' इत्युक्त्या द्रव्ये 'तेजः' सम्पादितं भवति ॥
मध्यमभागस्याहिंसापरत्वं दर्शयति । “दिविस्पृङ्मा मा हिꣳसीरन्तरिक्षस्पृङ्मा मा हिꣳसीः पृथिवीस्पृङ्मा मा हिꣳ- सीरित्याहाहिꣳसायै” ॥८॥ इति । (५ प्र० । ७ अ० । ३० म०) ॥
तृतीयभागस्याशिःपरत्वं दर्शयति । “सुवरसि सुवर्मे यच्छ दिवं यच्छ दिवो मा पाहीत्याह । आशिषमेवैतामा- शास्ते” इति । (५ प्र० । ७ अ० । ३१ म०) ॥
इति सायनाचार्य्यविरचिते माधवीये वेदार्थप्रकाशे यजुरा- रण्यके चतुर्थप्रपाठके अष्टमोऽनुवाकः ॥ ८ ॥
3 N 2
| ४७४ | तैत्तिरीये आरण्यके |
|---|
अथ नवमोऽनुवाकः ।
(१)समु॒द्राय॑ त्वा॒ वाता॑य॒ स्वाहा॑ । स॒लि॒लाय॑ त्वा॒ वाता॑य॒ स्वाहा॑ । अ॒ना॒धृ॒ष्याय॑ त्वा॒ वाता॑य॒ स्वाहा॑ । अ॒प्र॒ति॒धृ॒ष्याय॑ त्वा॒ वाता॑य॒ स्वाहा॑ । अ॒व॒स्यवे॑ त्वा॒ वाता॑य॒ स्वाहा॑ । दुव॑स्वते त्वा॒ वाता॑य॒ स्वाहा॑ । शि॒मिं॑दते त्वा॒ वाता॑य॒ स्वाहा॑ । अ॒ग्नये॑ त्वा॒ वसु॑मते॒ स्वाहा॑ । सोमा॑य त्वा रु॒द्रव॑ते॒ स्वाहा॑ । वरु॑णाय त्वादित्यव॑ते॒ स्वाहा॑ ॥ १ ॥
अथ नवमोऽनुवाकः ।
अष्टमे महावीरे घृतयुक्ते क्षीरप्रक्षेपलक्षणं प्रवृञ्जनमुक्तं । नवमे तस्य प्रवर्ग्यद्रव्यस्याहवनीये याग उच्यते । कल्पः । प्रभञ्जनावानं पञ्चवातनामानि व्याचष्टे समुद्राय त्वा वाताय स्वाहेत्यपि पञ्चोत्तराण्यग्नये त्वा वसुमते स्वाहेति । पाठस्तु । (१)“समुद्राय त्वा वाताय स्वाहा ॰ यमाय त्वाऽङ्गिरस्वते पितृमते स्वाहा”(१) इति । अत्र ‘वाताय’ इति विशेष्य निर्देशः । समुद्रादिशब्दविशेषणभूता नामधेयविशेषवाचिनः । हे प्रवर्ग्य त्वां, समुद्रनामकाय ‘वाताय’ ‘स्वाहा’ कथयामीत्यर्थः । निपातानामनेकार्थत्वात् । एवमुत्तरेष्वपि योज्यं । षष्ठसप्तमौ मन्त्रौ विकल्पार्थौ । वसुयुक्तायाग्नये अग्निनामकाय वातविशेषा-
षाय, त्वां, ‘स्वाहा’ कथयामि । एवमुत्तरत्रापि योज्यं । ऋग्भा-
४ प्रपाठके ६ अनुवाकः । ४७५
बृहस्पत॑ये त्वा विश्वदे॑व्यावते॒ स्वाहा॑ । स॒वि॒त्रे त्वा॑र्भू॒मते॑ वि॒भुमते॑ प्र॒भुमते॒ वाज॑वते॒ स्वाहा॑ । य॒माय॑ त्वाङ्गिर॑स्वते पितृमते॒ स्वाहा॑^(१) । ^(२)विश्वा॒ आशा॒ दक्षि॑णसत्^(१) ।
दिभिर्युक्ताय सवितृनामकाय वाताय कथयामि । अङ्गिरोभिः पितृभिश्च युक्ताय यमनामकाय वाताय कथयामि । अय- मपि मन्त्रोविकल्पार्थः ॥
एतैर्मन्त्रैः साध्यवातनामकथनं* विधत्ते । "शिरो वा एत- द्यज्ञस्य । यत् प्रवर्ग्यः । आत्मा वायुः । उद्यत्य वातनामान्याह । आत्मन्नेव यज्ञस्य शिरः प्रतिदधाति" इति । (५ प्र० । ७ अ० । ३२ म०) । आहवनीयं प्रतिनेतुं प्रवर्ग्यमुद्धृत्य वातनामकथनेन वायोरात्मत्वादात्मन्येव 'यज्ञस्य†' अग्निः प्रतिष्ठितो भवति ॥
तत्कथनमध्ये श्वासं वारयति । "अनवानं । प्राणानाꣳ सन्तत्यै" इति । (५ प्र० । ७ अ० । ३३ म०) । अवानं श्वासः स यथा न भवति तथा पठेत् । तच्च प्राणानामविच्छेदाय भवति ॥
मन्त्रसङ्ख्यां विधत्ते । "पञ्चाह ॥६॥ पाङ्क्तो यज्ञः । यावानेव यज्ञः । तस्य शिरः प्रतिदधाति" इति । (५ प्र० । ७ अ० । ३४ म०) । धानाकरम्भादिहविःपञ्चकयोगेन 'यज्ञः' 'पाङ्क्तः' स च 'या- वान्' अस्ति 'तस्य' सर्व्वस्य, 'शिरः'-नामपञ्चकेन प्रतिष्ठितं भवति ॥
उत्तरपञ्चकस्य प्रथममन्त्रे अग्निशब्देनादित्यो विवक्षित
* कथनविकल्पं इति तै० पुस्तकपाठः ।
† यज्ञशिरः प्रतिष्ठितं भवति इति तै० पुस्तकपाठः ।