भारतकोश
संग्रह पर लौटें

तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)

Taittiriya Aranyaka Hindi

महर्षि वैशम्पायन द्वारा

स्रोत: Taittiriya Aranyaka with Sayana Bhashya and Hindi Translation (उद्गम)

DevanagariHindipublished940 पृष्ठ

५२४ तैत्तिरीये आरण्यके

दुदामयेद् वृष्टिकामस्य। एता वा अपामनुज्जावर्या* नाम।
यद्दर्भाः। असौ खलु वा आदित्य इतो वृष्टिमुदीरयति।
अमावेवास्मा आदित्यो वृष्टिं नियच्छति। ता आपो नियता
धन्वना यन्ति" इति ॥ ६॥ (५ प्र० । २ ० अ० । २० म०) । यस्मि-
न्देशे 'दर्भाः', 'उपदीकसन्तताः' स्तम्बेरविच्छिन्नाः,† भवन्ति।
वृष्टिकामः तत्र 'उदामयेत्'। य एते दर्भाः 'एताः', एव 'अपां',
'अनुज्जावर्याः' इत्येतन्नामभाजो भवन्ति, 'अनुज्जाः' अनुक्रम-
गताः प्रवाहाः, तद्युक्ता नद्यः 'अनुज्जावर्याः'। आपो वै दर्भा
इति श्रुत्यन्तरात् दर्भाणामविच्छिन्नप्रवाहोपेतनदीरूपत्वं। प्रव-
र्ग्यस्यादित्यरूपत्वादादित्यवद् वृष्टिप्रदः। अतो दर्भेषु तदु-
द्वासने सति 'आदित्यः', द्युलोकाद् 'वृष्टिं', प्रेरयति। 'ताः'
च 'आपः', 'धन्वना' मरुद्गणेन सह, 'नियताः', प्रवर्त्तन्ते ॥

गोः पयः, उत्तरवेदिः, आसते, स्थापयति, घर्म्मः, यन्ति ॥

इति पञ्चमप्रपाठके दशमोऽनुवाकः ॥ १० ॥

इति सायनाचार्य्यविरचिते माधवीये वेदार्थप्रकाशे यजुरा-
रण्यके चतुर्थप्रपाठके एकादशोऽनुवाकः ॥ ११ ॥


* अपाममृम्भाभावर्य इति B, E, G, I, चिह्नितपुस्तकचतुष्टयपाठः।
अपामनुम्स्यावर्येति J, चिह्नितपुस्तकपाठः।
† स्तम्ब एव विच्छिन्ना इति D चिह्नितपुस्तकपाठः। स्तम्बरविच्छिन्ना इति E चिह्नितपुस्तकपाठः।

४ प्रपाठके १२ अनुवाकः । ५२५

अथ द्वादशोऽनुवाकः ।

(१)म॒हीनां पयो॑ऽसि॒ विहि॑तं दे॒वत्रा॑(१) । (२)ज्योति॑र्भा अ॑सि वन॒स्पती॑ना॒मोष॑धीनाग्॒ रसः॑(२) । (३)वा॒जिनं॑ त्वा वा॒जिनेा॑ऽवनयामः । ऊ॒र्द्धं मनः॑ सु॒वर्गं॑(३)॥ अनु०१२ ॥


अथ द्वादशोऽनुवाकः ।

एकादशे प्रवर्गेाद्वासनमुक्तं । तत्र महावीरे द्रव्यपूरणा- वसरे* घर्मैतत्तेऽन्नमिति† मन्त्रात् पूर्व्वं त्रयो मन्त्रा अपेक्षिताः, ते अत्र द्वादशे अभिधीयन्ते । कल्पः । महीनं पयोऽसीति महावीरे गोपय आनयतीति विहितं, देवचेति मन्त्रशेषः । (१ मन्त्रः) । हे द्रव्य ‘देवत्रा’ देवनििमत्तं,‡ ‘विहितं’ सम्पा- दितं, ‘महीनां’ गवां, ‘पयः’, ‘असि’ ॥

कल्पः । ज्योतिर्भा असि वनस्पतीनामोषधीनाग् रस इति मध्विति महावोर आनयतीत्यनुवर्त्तते । (२ मन्त्रः) । हे मधुद्रव्य ‘वनस्पतीनां’, ‘ओषधीनां’, च ‘रस’भूतस्त्वं ‘ज्योति- र्भाः’ ज्योतिषां प्रकाशकः, ‘असि’ ॥

कल्पः । वाजिनं त्वा वाजिनो वनयाम इति दधीनि महावीर आनयतीत्यनुवर्त्तते । ऊर्द्धं मनः सुवर्गमिति मन्त्र- शेषः । (३ मन्त्रः) । ‘ऊर्द्धं’ उपरिवर्त्तमानं, ‘मनः’ मननीयं,


* निरूपणावसरे इति E चिह्नितपुस्तकपाठः ।
† ५०७ पृष्ठे द्रष्टव्यम् ।
‡ देवेषु देवनििमत्तमिति E चिह्नितपुस्तकपाठः ।

५२६ तैत्तिरीये आरण्यके

अथ त्रयोदशोऽनुवाकः ।

(१)अस्कान्॒ द्यौः पृ॑थि॒वीम् । अ॒स्कान्वृ॑ष॒भो युवा॒ गाः । स्क॒न्नेमा विश्वा॒ भुव॑ना । स्क॒न्नो य॒ज्ञः प्र॒जन॑यतु^(१) । (२)अ॒स्कानज॑नि॒ प्राज॑नि । आ स्क॒न्नाज्जाय॑ते॒ वृषा॑ । स्क॒न्नात् प्रज॑निषीमहि^(२) ॥ अनु०१३ ॥


स्वर्गं प्राप्तुम्, हे दधिद्रव्य, ‘वाजिनं’ अन्नवन्तं, त्वां ‘वाजिनः’ अन्नवन्तो वयं, ‘अवनयामः’ महावीरे प्रक्षिपामः ॥

इति सायनाचार्य्यविरचिते माधवीये वेदार्थप्रकाशे यजुरारण्यके चतुर्थप्रपाठके द्वादशोऽनुवाकः ॥ १२ ॥


अथ त्रयोदशोऽनुवाकः ।

त्रयोदशमारभ्य प्रायेण घर्मप्रायश्चित्ताः *उच्यन्ते । कल्पः । यदि घर्म स्कन्देत्, अस्कान् द्यौः पृथिवीमिति द्वाभ्यामभिमन्त्रयते इति । तत्र प्रथमामाह । (१)“अस्कान् द्यौः पृथिवीं । ०स्कन्नो यज्ञः प्रजनयतु”^(१) इति । ‘द्यौः’ द्युलोकाख्यो देवः, ‘पृथिवीं’, देवतां प्रति ‘अस्कान्’ स्ववीर्य्यं स्कन्दितवान् । तथा ‘युवा’ यौवनोपेतः, ‘वृषभः’, ‘गाः’, बह्वीः† प्रति ‘अस्कान्’ स्वकीयं वीर्य्यं स्कन्दितवान् । ‘इमा विश्वा भुवना’ एतानि


* त्रयोदशमारभ्य त्रयो घर्मप्रायश्चित्ता इति E चिह्नितपुस्तकपाठः ।
† बर्हीः इति D चिह्नितपुस्तकपाठः ।

४ प्रपाठके १४ अनुवाकः। ५२०

अथ चतुर्दशोऽनुवाकः ।

या पु॒रस्ता॑द्वि॒द्युदाप॑तत् । तां ते॑ ए॒तेनाव॑यजे॒ स्वा-

सर्व्वाणि भूतजातानि, ‘स्कन्ना’ स्कन्नवीर्य्यरूपाणि । अतो-
ऽचापि ‘स्कन्नः’ द्रव्यस्कन्दनयुक्तः,* ‘यज्ञः’, ‘प्रजनयतु’ प्रजा-
मुत्पादयतु ॥

अथ द्वितीयामाह। (१)“अस्कानजनि प्राजनि । ० स्कन्नात्
प्रजनिषीमहि”(१) इति । ‘अस्कान्’ द्रव्यं स्कन्नमभूत्, तेन
‘अजनि’ किञ्चिदपत्यमुत्पन्नं । ‘प्राजनि’ प्रकर्षेणापत्यस्य अपत्य-
मुत्पन्नं । ‘स्कन्नात्’, द्रव्यात् ‘वृषा’ सेचनसमर्थः पुत्रः, ‘आजा-
यते’ । अतो वयं ‘स्कन्नात्’ द्रव्यात्, ‘प्रजनिषीमहि’ प्रक-
र्षेणापत्यमुत्पादयामः ॥

इति सायनाचार्य्यविरचिते माधवीये वेदार्थप्रकाशे यजुरा-
रण्यके चतुर्थप्रपाठके त्रयोदशोऽनुवाकः ॥ १३ ॥


अथ चतुर्दशोऽनुवाकः ।

कल्पः । यदि घर्मेण चरत्सु विद्युदापतेत् या पुरस्ता-
द्विद्युदापतदिति । एतैैर्यथालिङ्गं जुहुयादिति । पाठस्तु ।
“याः पुरस्ताद्विद्युदापतत् । ० तां त एतेनावयजे स्वाहा”
इति । ‘या’ ‘विद्युत्’ अशनिरूपा, ‘पुरस्तात्’ पूर्व्वस्यां दिशि,
‘आपतत्’ पतितवती, इति ‘तां’ विद्युतं, ‘ते’ तव, सम्बन्धिना


* स्कन्नद्रव्ययुक्त इति E चिह्नितपुस्तकपाठः ।
3 U

५२८ तैत्तिरीये आरण्यके

हा॑ । या दक्षि॑णतः । या प॒श्चात् । योत्त॑र॒तः । योपरि॑- ष्टाद्वि॒द्युदाप॑तत् । तां ते॑ ए॒तेनाव॑यजे॒ स्वाहा॑ ॥ अनु० १४ ॥


अथ पञ्चदशोऽनुवाकः ।

प्रा॒णाय॒ स्वाहा॑ व्या॒नाय॒ स्वाहा॑ऽपा॒नाय॒ स्वाहा॑ । चक्षु॑षे॒ स्वाहा॒ श्रोत्रा॑य॒ स्वाहा॑ । मन॑से॒ स्वाहा॑ वा॒चे सर॑स्वत्यै॒ स्वाहा॑ ॥ अनु० १५ ॥


'एतेन' होमेन, 'अवयजे' नाशयाम* । अत्र त इत्यभिधाना- द्धर्मः सम्बोधनीयः । या दक्षिणत इत्यादिषु त्रिषु विद्युदि- त्यादिकमनुषञ्जनीयं । अनुषङ्गद्योतनायैवोत्तमे मन्त्रे पुनः पठ्यते ॥

इति सायनाचार्य्यविरचिते माधवीये वेदार्थप्रकाशे यजु- रारण्यके चतुर्थप्रपाठके चतुर्दशोऽनुवाकः ॥ १४ ॥


अथ पञ्चदशोऽनुवाकः ।

कल्पः । प्राणाय स्वाहा पूष्णे स्वाहेत्येतावनुवाकौ घर्म प्रायश्चित्तानीति घर्मविषये यद्वैकल्यं तदारयितुमनुवाकद्वय- होमः । तत्रैकमनुवाकमाह । "प्राणाय स्वाहा व्यानाय स्वाहा


* नाशयामि इति D चिह्नितपुस्तकपाठः ।

४ प्रपाठके १६ अनुवाकः। ५२८

अथ षोडशोऽनुवाकः ।

पू॒ष्णो॒ स्वाहा॑ पू॒ष्णो शर॑से॒ स्वाहा॑ । पू॒ष्णो प्र॑प॒थ्याय॒ स्वाहा॑ पू॒ष्णो न॒रन्धि॑षाय॒ स्वाहा॑ । पू॒ष्णोऽहृ॑णये॒ स्वाहा॑ पू॒ष्णो न॒रुणाय॒ स्वाहा॑ । पू॒ष्णो सांके॒ताय॒ स्वाहा॑ ॥
अनु० १६ ॥


• वाचे सरस्वत्यै स्वाहा" इति । 'वाक्'शब्देन वक्तव्यशब्दमा-
त्रत्वशङ्कां वारयितुं देवतावाचकस्य सरस्वतीशब्दस्य प्रयोगः ॥
इति सायणाचार्य्यविरचिते माधवीये वेदार्थप्रकाशे यजु-
रारण्यके चतुर्थप्रपाठके पञ्चदशोऽनुवाकः ॥ १५ ॥


अथ षोडशोऽनुवाकः ।

अनुवाकान्तरमाह । "पूष्णो स्वाहा पूष्णे शरसे स्वाहा ।
• पूष्णो साकेताय स्वाहा" इति । पोषको देवः 'पूषा', स
एव विशेषणभेदाद्भिद्यते । 'शरसे' शत्रूणां हिंसकाय, 'प्रप-
ध्याय' प्रकृष्टस्वर्गमार्गहिताय, नरान् मनुष्यान्, धिनोति
प्रीणयतीति 'नरन्धिषः', तस्मै । 'अहृणिः' रञ्जनेन दीप्य-
मानः, तस्मै । नृनय इति धातोर्नरुपणशब्दः प्राणिनां स्वस्व-
मार्गेषु नेता 'नरूणः', तस्मै । आसमन्तात् ज्ञानमाकेतः तेन
सह वर्त्तत इति 'साकेतः', तस्मै ॥
इति सायणाचार्य्यविरचिते माधवीये वेदार्थप्रकाशे यजुरा-
रण्यके चतुर्थप्रपाठके षोडशोऽनुवाकः ॥ १६ ॥

3 U 2

५५० तैत्तिरीये आरण्यके

अथ सप्तदशोऽनुवाकः ।

उद॑स्य॒ शुष्मा॑द्भा॒नुर्ना॑र्त्त विभ॑र्त्ति । भारं॑ पृथि॒वी न* भूम॑ । प्र शु॒क्रैतु॑ दे॒वी म॑नी॒षा । अ॒स्मत् सुत॑ष्टो॒ रथो॒ न वा॒जी । अर्च॑न्त॒ एके॒ महि॒ साम॑ मन्वत† । तेन्॒


अथ सप्तदशोऽनुवाकः ।

कल्पः । घर्मेष्टकामुपदधात्युदस्य शुष्माद्भानुरित्यनुवाके- नेति । एतच्च महाग्निचयने द्रष्टव्यं । तथा च तत्र सूत्रका- रेणोक्तं । घर्मेष्टकामुपधाय कुलायिनी तयोः प्रवर्गे मन्त्रा- विति । पाठस्तु । “उदस्य शुष्माद्भानुनार्त्त विभर्त्ति । * तया देवतयाऽङ्गिरखद्ब्रुवा सीद” इति । ‘भानुः’ सूर्य्यः, ‘अस्य’ अग्नेः, ‘शुष्मात्’ बलात्, ‘उत्’ एति, उच्छब्देनाकाङ्क्षितत्वात् एतीत्य- ध्याहर्त्तव्यः । स च भानुः ‘नार्त्त’ आर्त्तिं न प्राप्तः, पुनः पुनः उदयङ्गच्छतोऽप्यग्निबलसाहाय्यादार्त्तिस्तस्य न विद्यते । ‘पृथिवी न’ भूमिरिव, भूमिप्रयातं ‘भारं’, ‘विभर्त्ति’ । यथा पृथिवी प्राणिनां भारं सहते तथा अयं रश्मिभारं सहते । तस्य अग्नेः प्रसादात् ‘शुक्रा’ निर्मला, ‘मनीषा’ ‘देवी’ कर्म्मणि मनः प्रेरयन्ती देवता, प्रकर्षेण ‘एतु’ प्राप्नोतु । किन्निमित्तमिति एतदुच्यते, ‘अस्मत्’ निमित्तार्थे, पञ्चमी, अस्माननुग्रहीतु-


* एधिन इति E चिह्नितपुस्तकपाठः ।
† मन्वती इति D, F चिह्नितपुस्तकद्वयपाठः ।

४ प्रपाठके १७ अनुवाकः । ५३१

सूर्य्य॑मधारयन् । तेन॒ सूर्य्य॑मरोचयन् । घ॒र्म्मः शिर॒- स्तद्य॒म॒ग्निः । पुरी॑षमसि॒ सम्प्रि॒यं प्र॒जया॑ प॒शुभि॑र्भू- वत् । प्र॒जाप॑तिस्त्वा सादयतु । तया॑ दे॒वत॑याऽङ्गिर॒- स्व॒ङ्गुवा सी॑द ॥ अनु० १७ ॥


मित्यर्थः । बुद्धिप्राप्तौ दृष्टान्तः । ‘सुतष्टः’ वर्धकिना सुष्ठु- तक्षणेन निष्पादितः, ‘वाजी’ वेगवान्, ‘रथो न’ रथ इव, ‘एके’ महात्मानः, तं अग्निं ‘अर्चन्तः’ । ‘महि’ पूजाहं, ‘साम’ सर्वेषु समं, ‘मन्वत’ मनसि निश्चितवन्तः । ‘तेन’ अग्नि- तेजसा, ‘सूर्य्यं’, ‘अधारयन्’ पोषितवन्तः । उद्यन्तं वावादि- त्यमग्निरनुसमारोहतीति श्रुतं, ‘तेन’ अग्नितेजसा, ‘सूर्य्यं’, ‘अरोचयन्’ आदीप्तियुक्तमकुर्व्वन् । ‘घर्म्मः शिरः’ यदिदं प्रवर्ग्य- रूपं यज्ञस्य शिरोऽस्ति, ‘तदयं’ चीयमानः, ‘अग्निः’, एव । अतो हे अग्ने, त्वं ‘पुरीषं’ इष्टकोपादान* मृत्स्वरूपं, ‘असि’ । तच्च स्वरूपं ‘प्रजया पशुभिः’, ‘सम्’, एत्य ‘प्रियं भुवत्’ यजमा- नानां प्रियं भवति । तथाविधाग्निरूपे हे घर्मेष्टके ‘प्रजापतिः’, त्वां अत्र चेत्रे ‘सादयतु’ स्थापयतु । ‘अङ्गिरस्वत्’ अङ्गिरो- भिरिव, ‘तया’ प्रजापतिदेवतया, उपहिता सती ‘ध्रुवा सीद’ स्थिरा भूत्वा तिष्ठ ॥

इति सायनाचार्य्यविरचिते माधवीये वेदार्थप्रकाशे यजु- रारण्यके चतुर्थप्रपाठके सप्तदशोऽनुवाकः ॥ १७ ॥


* इष्टकोपधानेति E०चिह्नितपुस्तकपाठः ।

५३२ तैत्तिरीये आरण्यके

अथाष्टादशोऽनुवाकः ।

यास्ते॑ अग्ने॒ आर्दा॑ योन॑यो॒ याः कु॑ला॒यिनी॑: । ये
ते॑ अग्ने॒ इन्द॑वो॒ या उ॑र्णुनाभ॑यः* । यास्ते॑ अग्ने त॒नुव॒
ऊर्जो॒ नाम॑ । ताभि॒स्त्वमु॒भयी॑भिः सं॑विदा॒नः । प्र॒जा-
भि॑रग्ने॒ द्रवि॑णे॒ह सी॑द । प्र॒जाप॑तिस्त्वा सादयतु । तया॑
दे॒वत॑याऽङ्गि॒रस्वद्ध्रु॒वा सी॑द ॥ अनु० १८ ॥


अथाष्टादशोऽनुवाकः ।

कल्पः । कुलायिनीं यास्ते आर्द्रायोनय इत्यनुवाकेनेति, उपदधातीत्यनुवर्त्तते । पाठस्तु । “यास्ते अग्ने आर्दा योनयो याः कुलायिनीः । ० तया देवतयाऽङ्गिरस्वद्ध्रुवा सीद” इति । हे ‘अग्ने’, ‘ते’ त्वदीया, ‘आर्द्राः योनयः’ अश्वत्थवृक्षादिरूपाः, ‘आर्द्राः’ कारणविशेषाः, सन्ति । अश्वत्थाद्व्यवाद्धाद्विजातामग्नेस्तनुं यज्ञिया संभरामीति श्रुतेः । ‘याः’ च ‘कुलायिनीः’ आहवनीयादिस्थानविशेषाः सन्ति । हे ‘अग्ने’, ‘ते’ त्वदीयाः, ‘इन्दवः’ चन्द्रप्रभृतयः स्थानविशेषाः, ‘ये’, सन्ति । ‘या उर्णुनाभयः’ याश्चोर्णुनाभ्यादिस्थानविशेषाः सन्ति । हे ‘अग्ने’, ‘ते’ त्वदीया, ‘याः’ च अन्याः, ‘तनुवः’, ‘ऊर्जो नाम’ ओषध्यादिपाचकत्वेनोर्ङ्नामधारिण्यः सन्ति । ‘ताभिः’ स-


* या उनाभय इति A, B, G, I, J, चिह्नितपुस्तकपञ्चकपाठः ।

४ प्रपाठके १६ अनुवाकः । ५३३

अथैकोनविंशोऽनुवाकः ।

अ॒ग्निर॑सि वैश्वान॒रोऽसि॑ । सं॒व॒त्स॒रोऽसि॑ परि- वत्स॒रोऽसि॑ । इ॒दाव॑त्स॒रोऽसीदु॑वत्स॒रोऽसि॑ । इ॒द्वत्स- रोऽसि॑ वत्स॒रोऽसि॑ । तस्य॑ ते वस॒न्तः शिर॑: । ग्री॒ष्मो दक्षि॑णः प॒क्षः । व॒र्षाः पुच्छ॑म् । श॒रदुत्त॑रः प॒क्षः । हे॒म॒न्तो मध्य॑म् । पूर्व॑प॒क्षाश्चित॑यः । अ॒प॒र॒प॒क्षाः पुरी॑षम् । अ॒हो-


र्वाभिः, युक्तः ‘त्वं’, ‘उभयीभिः’ दैवीभिर्मानुषीभिश्च, ‘प्रजा- भिः’, ‘संविदानः’ ऐकमत्यं गतः त्वं* ‘इह’ चेत्रे, ‘द्रविणे’ अस्माकं धननिमित्तं, हे ‘अग्ने’, ‘सीद’ तिष्ठ, प्रजापतिरि- त्यादि पूर्व्ववत् ॥

इति सायनाचार्य्यविरचिते माधवीये वेदार्थप्रकाशे यजु- रारण्यके चतुर्थप्रपाठकेऽष्टादशोऽनुवाकः ॥ १८ ॥


अथैकोनविंशोऽनुवाकः ।

कल्पः । अध्वर्य्युरग्निमभिमृशति अग्निरसि वैश्वानरोऽसी- त्यनुवाकेनेति । पाठस्तु । “अग्निरसि वैश्वानरोऽसि । * तथा देवतयाऽङ्गिरस्वद्ध्रुवा सीद” इति । इष्टकाभिर्निष्पन्न हे देव त्वं ‘अग्निरसि’, अङ्गारैर्विना इष्टकाशरीरमात्रेणैव अग्नित्वं ।


* गतः सन् इति E चिह्नितपुस्तकपाठः ।

५३४ तैत्तिरीये आरण्यके

रा॒त्राणी॑ष्ट॒काः । तस्य॑ ते॒ मासा॑श्चार्द्धमा॒साश्च॑ कल्पन्तां । ऋ॒तव॑स्ते कल्पन्तां । सं॒व॒त्स॒रस्ते॑ कल्पतां । अहो॑- रा॒त्राणि॑ ते कल्पन्तां । एति॒ प्रेति॒ वीति॒ समि॒त्युदि॑ति । प्र॒जाप॑तिस्त्वा सादयतु । तया॑ दे॒वत॑याऽङ्गिर॒स्वद्ध्रु॒वः सी॑द ॥ अनु० १८ ॥


'वैश्वानरः' विश्वेषां नराणां उपकारकः, 'असि' । प्रभवादी- नामेकैकपञ्चके वर्त्तमानाः शब्दाः* संवत्सरादयः, सर्व्वेष्वनुगतो वत्सरः, त्वमेवं षड्विधः 'असि'। 'तस्य' तथाविधस्य, 'ते' ऊर्ज्जरूपस्य, वसन्ताद्यृतवः 'शिरः' आद्यवयवाः, चैत्रादिमा- सेषु ये शुक्लपक्षाः ते चितिरूपाः । ये च कृष्णपक्षाः ते पुरीषरूपाः । यान्यहोरात्राणि तानीष्टकारूपाणि । 'तस्य ते' तादृशस्य तव, मासादयः स्वस्वकार्य्यक्षमा भवन्तु । इतिशब्द- शिरस्काः आ,प्र,वि,सम्,उद्ः, उपसर्गाः अत्र निर्द्दिष्टाः, तैरू- चितक्रियां संयोज्य अग्निहोत्रं स्तोतव्यं† इति तात्पर्यार्थः । उचितक्रियाणां च बहूनां सम्भवात् महती स्तुतिः सम्पद्यते । प्रजापतिरित्यादि पूर्व्ववत् । अग्निविशेषणत्वाद् ध्रुव इति लिङ्ग- निर्देशः ॥

इति सायणाचार्य्यविरचिते माधवीये वेदार्थप्रकाशे यजुरा- रण्यके चतुर्थप्रपाठके एकोनविंशोऽनुवाकः ॥ १९ ॥


* शब्दा इति E चिह्नितपुस्तकपाठः।
† अग्निस्तोतव्य इति D, E चिह्नितपुस्तकद्वयपाठः।

४ प्रपाठके २० अनुवाकः । ५३५

अथ विंशोऽनुवाकः ।

(१)भूर्भुव॒: सुव॑:(१) । (२)ऊ॒र्ध्व ऊ॒षु ण॑ ऊ॒तये॑ । ऊ॒र्ध्वो न॑: पा॒ह्यंह॑सः(२) । (३)वि॒धुन्द्र॑दाणाꣳ॒ सम॑ने बहू॒नां । युवा॑न॒ꣳ सन्त॑म्पलि॒तो ज॑गार । दे॒वस्य॑ पश्य॒ काव्यं॑ महि॒त्वा-


अथ विंशोऽनुवाकः ।

(१)“भूर्भुवः सुवः” (१)इति सर्वप्रायश्चित्तानीति । त्रयो लोकाः सुखप्रदा भवन्त्विति मन्त्रत्रयस्यार्थः ॥

कल्पः । यदि महावीरः पद्येत ऊर्ध्व ऊषु ण ऊतय इति द्वाभ्यामिति । पाठस्तु । “(२)ऊर्ध्व ऊषु ण ऊतये, ऊर्ध्वो नः पाह्यंहसः,”(२)इति । एतच्च मन्त्रयोः प्रतीकद्वयं । तौ च मन्त्रावञ्जन्ति त्वामध्वरे देवयन्त इत्यनुवाके व्याख्यातौ ॥

कल्पः । यदि भिद्येत विधुन्द्रदाणमिति सन्दृ॑ह्यादिति* । पाठस्तु । (३)“विधुन्द्रदाणँ समने बहूनां । ० स ह्यः समान”(३) इति । ‘बहूनां’ कर्मणां, ‘समने’ समीचीनचेष्टारूपे अनुष्ठाने, ‘द्राणं’ भूयःप्रवर्त्तमानं, ‘विधुं’ अनुष्ठानस्य विधातारं महावीरं, ‘युवानं’ यौवनोपेतपुरुषवद्दृढं, एवं ‘सन्तं,’ ‘पलितः’ वयोहीनसदृशः† शैथिल्यविशेषः, ‘जगार’ निगीर्णवान् ‘देवस्य’ जगद्विधातुः परमेश्वरस्य, ‘काव्यं’ ‡अभिज्ञानरूपं, ‘महित्वा’ महिमानं, ‘सः’ महावीरः, ‘ह्यः’ पूर्वेद्युः, ‘समान’ सम्यक् चेष्टितवान् । ‘अद्य’


* सन्दध्यादिति E चिह्नितपुस्तकपाठः ।
† वयोहानिसदृश इति F चिह्नितपुस्तकपाठः ।
‡ काम्यं इति E चिह्नितपुस्तकपाठः ।
3 v

५३६ तैत्तिरीये आरण्यके

ऽद्या म॒मार॑। स ह्यः समा॑न^(३)। ^(४)यदृ॒ते चि॑द॒भिश्रि॑षः।
पु॒रा ज॒र्तृभ्य॑ आ॒तृद॑ः। सन्धा॒ता सन्धिं॑ म॒घवा॑ पुरो॒-
वसु॑ः॥ १ ॥
  नि॒ष्कर्ता॒ विहृ॑तं॒ पुन॑:^(४)। ^(५)पुनेरू॒र्जा सह र॒य्या^(५)।

'पश्य' हे जनसमूह अवलोकय। किन्नामहात्म्यमिति तदुच्यते।
अस्मिन् दिने, 'ममार' भग्नोऽभूत्,* ईदृशं खल्वेश्वरस्य माहात्म्यं॥
  कल्पः। ततो यानि दृढार्थे संश्लेषणानि स्युः तैरेनमाभि-
सन्दध्यात् यदन्यन्नासान्नाषेभ्यश्च। यदृते चिदभिश्रिष इति
भिन्नं महावीरं विधुन्दद्राणमिति मन्त्रेण सन्धाय यदृते
चिदितिमन्त्रेण संश्लेषणसाधनैरुपलिम्पेत्। पाठस्तु। ^(४)“य-
दृते चिदभिश्रिषः। ० निष्कर्ता विहृतं पुनः” ^(४)इति।
‘यत्’ महावीरस्वरूपं, ‘जर्तृभ्यः पुरा’ कपालजरणेभ्यः† कपा-
लानाञ्चूर्णभावेभ्यः पूर्वं, ‘अभिश्रिषः ऋते’ अभितः संश्लेषणसाध-
नानि द्रव्याणि विना, ‘आतृदः’‡ तर्दनम्भङ्गं प्राप्नोत्। तस्य
महावीरस्य ‘मघवा’ इन्द्रः, ‘सन्धिं’ सन्धानं, करिष्यति।
कीदृशो मघवा, ‘पुरोवसुः’ पुरतोऽवस्थितानि वसूनि संश्लेषणसा-
धनानि द्रव्याणि यस्यासौ पुरोवसुः, इत्थं स इन्द्रः ‘विहृतं’ वि-
शेषेण भग्नं महावीरं, ‘पुनर्निष्कर्ता’ पुनरपि सम्पादयिष्यति॥


* महावीरो भग्नो भूदिति E चिह्नितपुस्तकपाठः।
† कपालक्षरगोभ्य इति D चिह्नितपुस्तकपाठः।
‡ आतद इति D, F, चिह्नितपुस्तकद्वयपाठः।

४ प्रपाठके २० अनुवाकः। ५३७

(५)मा नौ॑ घ॒र्म व्यथि॑तो॒ विव्य॑थो न॒:। मा न॒: पर॒मध॑रं॒ मा रजौऽनै॑:। मा स्व॒स्माᳲस्तम॑स्य॒न्तराधा॑:। मा रु॒द्रिया॑सो अ॒भिगु॑र्धृ॒धान॑:॥(६)। (७)मा न॒: क्रतु॑भिर्होडि॒तेभि॑र॒स्मान्।

कल्पः। यदि घर्मं प्रतिपरोयुः, न वा प्रतिपरोयुः, पुनरूर्ज्जा-सह रय्येति" ⁽५⁾मन्त्रः। एताभ्यामेनं प्रतिपरीयुरिति त्रिः परिषिञ्चन् पर्येतीति यदुक्तं, तत्राधिकपर्यावर्त्तने त्रिः पुनः परियन्तीति विपरीतावर्त्तनं यदुक्तं, तदकरणेयेतत् प्रायश्चित्तं। तत्र मन्त्रयोर्यदिदं* प्रतीकद्वयं, पुनरूर्ज्जा निवर्त्तस्वेत्येको मन्त्रः, सह रय्या निवर्त्तस्व इत्यपरो मन्त्रः, एतावुभावपि भूमिर्भूम्येत्यत्र† व्याख्यातौ॥

कल्पः। मा नो घर्म व्यथित इत्यष्टौ घर्मे व्यथिते प्रायश्चित्तानीति। घर्मस्याज्यपयोरूपद्रव्यस्य व्यथनं चलनं सन्तापाधिक्येन पात्रस्योपरि उद्गमने सति एतत्प्रायश्चित्तं। तत्र प्रथमामृचमाह। (१)“मा नो घर्म व्यथितो विव्यथो नः। ० मा रुद्रियासो अभिगुर्धृधानः”⁽१⁾इति। 'नः' अस्मदीय, हे 'घर्म' हविर्द्रव्य, त्वं 'व्यथितः' चलितो भूत्वा, 'नः' अस्मान्, 'मा विव्यथः' स्वस्थानान्मा विचालय। 'नः' अस्माकं, 'परं' उत्कृष्टं कर्म, 'अधरं' निकृष्टं, 'मा', कुरु। 'रजो मा अनैः' अस्मान् रजोगुणं मा प्रापय,। तथा 'तमस्यन्तः' तमोगुणमध्ये, 'अस्मान्', सुष्ठु 'मा आधाः' मा स्थापय। 'वृधानः' वर्धमाना उद्दान्ताः, 'रुद्रियासः' रुद्रसम्बन्धिनः क्रूरदेवाः, 'मा अभिगुः' अस्मिन् कर्मण्याभिमुख्येन मा आगच्छन्तु।


* मन्त्रेणोदितमिति D चिह्नितपुस्तकपाठः।
† भूमिर्भूमिसंज्ञचानुवाके इति E चिह्नितपुस्तकपाठः।
3 v 2

५३८ तैत्तिरीये आरण्यके

द्वि॒षा सु॑नी॒ते मा परा॑दाः । मा नौ॑ रु॒द्रो निर्ऋ॑- ति॒र्मा नौ॑ अस्ता॑ । मा द्यावा॑पृथि॒वी ह्री॑डिषातां^{(७)} ॥ २ ॥ ^{(८)}उप॑ नो मित्रावरुणावि॒हाव॑तं । अन्वा॒दीध्या॑था- मि॒ह न॑ः सखाया । आ॒दि॒त्यानां॒ प्रसि॑ति॒र्हेति॑ः । उ॒ग्रा श॒ता पाशा॑द्य॒ विष॑ परि॑ णो वृणक्तु^{(८)} ।


अथ द्वितीयामाह । "^{(७)}मा नः क्रतुभिर्हीडितेभिरस्मान् । ० मा द्यावापृथिवी ह्रीडिषातां"^{(७)} इति । हे घर्म 'ह्रीडितेभिः' अप- राधयुक्तैः, 'नः' अस्मदीयैः, 'क्रतुभिः,' कुपितस्त्वं 'अस्मान्' यजमा- नान्, 'द्विषा' द्वेषेण, 'सुनीते' सुष्ठु सम्पादिते फले, 'मा परादाः' निराकरणं मा कुरु, । एतावन्तङ्कालं महता स्वक्लेशेन सम्पादितङ्क- र्मफलमोधदपराधद्वेषेण मा विनाशयेत्यर्थः । तथा 'रुद्रः' क्रूरो देवः, 'नः' अस्मान्, 'मा अस्ता' मैव अस्यतु, मा निराकरोतु । 'निर्ऋतिः' अपि राक्षसदेवता, 'नः' अस्मान्, 'मा अस्ता' मा अ- स्यतु, मा निराकरोतु । 'द्यावापृथिव्यावपि देवते 'मा ह्रीडि- षातां' अस्मद्विषये क्रोधम्माकुरुतां ॥

अथ तृतीयामाह । "^{(८)}उप नो मित्रावरुणाविहावतं । ० पा- शाद्य विष परिणो वृणक्तु"^{(८)} इति । हे 'मित्रावरुणा,' 'नः' अस्मान्, घर्मापराधसहितान, 'इह'कर्मणि, 'उपावतं' उपेत्य रक्षतं । हे 'सखाया' सखिवदत्यन्तस्निग्धौ युवां, 'इह' कर्मणि, 'नः' अस्मान्,

४ प्रपाठके २० अनुवाकः। ५३६

^(९)इ॒मं मे॑ वरुण॒ तत्त्वा॑यामि। त्वन्नो॑ऽग्ने॒ स त्वन्नो॑ऽग्ने। त्व-
म॑ग्ने॒ अय॑ासि॑^(९)। ^(१०)उद्यन्त॒न्तम॑स॒स्परि॑। उदु॒त्यञ्चि॒त्रं।
वय॑ः सु॒प॒र्णाः^(१०)॥ ३ ॥
पुरो॒वसुं॑, ह्वी॒डिषा॒ताᳪँ, सु॒प॒र्णाः ॥अनु०२० ॥

'अन्वादीध्याथां' अनुक्रमेण सर्वतो दीप्तान् कुरुतं। 'आदित्यानां,'
सम्बन्धिनी 'हेतिः' पापिषु हिंसाकारणमायुधं, 'नः' अस्मान्,
'परिवृणक्तु' सर्वतो वर्जयतु। कीदृशी हेतिः, 'प्रसितिः'
प्रकृष्टबन्धा, * 'उग्रा' तीक्ष्णाघाता, 'पाष्टा' बहुस्पर्शा, बहुभिरव-
यवैः प्रहर्त्तुं समर्थेत्यर्थः †। 'विषा' व्यापिनी,। 'अद्य'शब्दो यथो-
क्तविशेषणसमुच्चयार्थः ॥

चतुर्थादीनामष्टमान्तानामृचानाम्प्रतीकानि दर्शयति। " ^((९))
इमं मे वरुण तत्त्वा यामि। ० त्वमग्ने अयासि^((९))"। तत्राद्यं मन्त्रद्वयं
इन्द्रं वो विश्वतस्परीन्वर इत्यत्र व्याख्यातं। अनन्तरन्तु मन्त्रद्व-
यमायुष्ट आयुर्दा अग्ने इत्यत्र व्याख्यातं। अन्तिमो जुष्टो दमूना
इत्यत्र व्याख्यातः॥

कल्पः। यदि घर्मेण चरंस्खादित्योऽस्तमियात्। अपरस्या-
न्दारि दर्भेण हिरण्यं प्रबध्य उद्यन्तममसस्परीत्युपस्थाय उदुत्यं
चित्रमिति द्वाभ्याङ्गार्हपत्ये हुत्वा प्रवृज्य शोभते वयःसुपर्णा इत्या-


* प्रकृष्टबन्धना इति D, F, चिह्नितपुस्तकद्वयपाठः। प्रकृष्टसम्ब-
न्धना इति E चिह्नितपुस्तकपाठः।
† प्रहरणसमर्थेत्यर्थ इति E चिह्नितपुस्तकपाठः।

५४० तैत्तिरीये आरण्यके

अथ एकविंशोऽनुवाकः ।

$^{(१)}$भूर्भुव॒: सुव॑: । मयि॒ त्यदि॑न्द्रि॒यं महत् । मयि॒ दक्षो॑ मयि॒ क्रतु॑: । मयि॑ धायि सु॒वीर्यं॑ । त्रिशु॑ग्घ॒र्मो विभा॑तु मे ।


दित्यमुपतिष्ठत इति । चतसृणामेतासामत्र प्रतीकान्याम्नातानि ।
($^१$प्रतीकः) उद्वयमिति मन्त्रः समास्त्वाग्न इत्यनुवाके व्याख्यातः ।
उदुत्यं चित्रमिति द्वयं उदुत्यं जातवेदसे इत्यनुवाके व्याख्यातं ।
वयः सुपर्णा इति मन्त्रः स ईं पाहि इत्यनुवाके व्याख्यातः ।
इति सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे यजुरा-
रण्यके चतुर्थप्रपाठके विंशोऽनुवाकः ॥ २० ॥

अथ एकविंशोऽनुवाकः ।

यदि घर्मं भक्षयन्ति भूर्भुवः स्वरित्यनुवाकेनेति । पाठस्तु ।
(१)“भूर्भुवः सुवः । ० उपहूतस्योपहूतो भक्षयामि”$^{(१)}$ इति । भू-
रादिलोकदेवता अनुगृह्णन्त्विति शेषः । ‘त्यत्’ प्रसिद्धं, ‘मह्’
इन्द्रियसामर्थ्यं, ‘मयि’, ‘धायि’ धीयतां, स्थाप्यतां । तथा ‘दक्षः’
उत्साहः, ‘क्रतुः’ अनुष्ठानं, ‘सुवीर्यं’ सर्वेषु कार्येषु शोभनं सामर्थ्यं,
तत्सर्वं ‘मयि,’ आस्त्थाप्यतां । ‘त्रिशुक्’ अग्निविद्युदात्मनः त्रेधा-
भिन्नदीप्तिः, ‘घर्मः,’ मदर्थं आकृत्यादिभिः ‘सह’, ‘विभातु’
विविधन्दीव्यतां । ‘आकूतिः’ सङ्कल्पः, ‘मनः’ सङ्कल्पसाधनं,
‘विराट्’ अन्नं, ‘ज्योतिः’ तेजः, ‘यज्ञः’ क्रतुः, ‘पयः’ क्षीरं,

४ प्रपाठके २१ अनुवाकः । ५४१

आकू॑त्या मन॑सा स॒ह । वि॒राजा॒ ज्योति॑षा स॒ह । य॒ज्ञेन॒ पय॑सा स॒ह । ब्रह्म॑णा तेज॑सा स॒ह । क्ष॒त्रेण॒ यश॑सा स॒ह ॥ स॒त्येन॒ तप॑सा स॒ह । तस्य॑ दोह॑मशीमहि । तस्य॑ सु॒म्नम॑शीमहि । तस्य॑ भ॒क्षम॑शीमहि । तस्य॑ त॒ इन्द्रे॑ण पी॒तस्य॒ मधु॑मतः । उप॑हूत॒स्योप॑हूतो भक्षयामि⁽१⁾ ॥ १ ॥ यश॑सा स॒ह, षट् च॑ ॥ अनु० २१ ॥


'ब्रह्म' ब्राह्मणजातिः, 'तेजः' शरीरकान्तिः, 'क्षत्रं' क्षत्रियजातिः, 'यशः' कीर्त्तिः, 'सत्यं' अनृतवर्जितं,* 'तपः' कृच्छ्रचान्द्रायणादिकं, 'तस्य' तैराकृत्यादिभिर्युक्तस्य घर्मस्य, 'दोहं' वृष्ट्यादिसमृद्धिं, वयं 'अशीमहि' । 'तस्य सुम्नं' तन्निमित्तं सुखञ्च, 'अशीमहि' । 'तस्य' प्रवर्ग्यस्य, प्रसादात् 'भक्षं' च 'अशीमहि' प्राप्नुयाम । हे घर्म 'तस्य' तादृशस्य, 'ते' तव, 'रसं 'उपहूतः' अनुज्ञातः, अहं भक्ष- यामि । कीदृशस्य तव, 'इन्द्रेण', प्रथमं 'पीतस्य,' 'मधुमतः' माधुर्ययुक्तस्य, 'उपहूतस्य' अनुज्ञातस्य ॥

इति सायनाचार्य्यविरचिते माधवीये वेदार्थप्रकाशे यजु- रारण्यके चतुर्थप्रपाठके एकविंशोऽनुवाकः ॥ २१ ॥


* अनृतवर्जनमिति E चिह्नितपुस्तकपाठः ।

५७२ तैत्तिरीये आरण्यके

अथ द्वाविंशोऽनुवाकः ।

(१)यास्तै॑ अग्ने॒ घो॒रास्त॒नुव॑: । क्षुच्च॑ तृ॒ष्णा॑ च । असु॑क् चाना॑हुतिश्च । अ॒श॒न॒या च॑ पि॒पासा च॑ । से॒दि॑श्चा-


अथ द्वाविंशोऽनुवाकः ।

कल्पः । व्याख्याता घोरस्तन्वोररण्येऽनुवाक्यो गण उत्तरौ चानुवाकाविति । घोरतनूनां प्रतिपादकौ द्वावनुवाकौ तत्रोक्तास्तन्व आधानप्रतिपादके सूत्रे व्याख्याताः । अरण्येऽनुवाक्या भवन्तीति हि तत्र सूत्रेऽभिहितं । तथा द्वयोरनुवाकयोर्मरुद्गण उक्तः; स च त्रिकल्पितः; तस्य विनियोगो राजसूयप्रकरणे सूत्रकारेणाभिहितः; मारुतमेकविंशतिकपालं निर्वपति; वैश्वदेवीमामिक्षान्तस्यारण्येऽनुवाक्यैर्गणैः * कपालानुपदधातीति । ब्राह्मणञ्चाम्नातं, योऽरण्येऽनुवाको गणस्तं मध्यत उपदधातीति । तत्र घोरतनुप्रतिपादकं प्रथममनुवाकमाह । (१)“यास्ते अग्ने घोरास्तनुवः । ० यच्च वयं द्विष्मः” (१) इति। हे ‘अग्ने,’ ‘ते’ तव सम्बन्धिन्यः, ‘घोराः,’ अत्युग्राः, ‘तनुवः,’ ‘याः,’ सन्ति, कास्ता इति चेत् क्षुदादिभिरमत्यन्तैरष्टाभिः शब्दैः प्रतिपादिताः । हे ‘अग्ने’, ‘ते’ तव सम्बन्धिन्यः, ‘एताः’ उक्ताः,


* अनुवाक्यैस्तृतीयेर्गणैरिति E चिह्नितपुस्तकपाठः ।

४ प्रपाठके २२ अनुवाकः। ५४३

मे॑तिश्च॒। ए॒तास्तै॑ अग्ने॒ घो॒रास्त॒नुव॑:। ताभि॑र॒मुङ्ग॑च्छ। यो॒ऽस्मान्द्वेष्टि॑। यञ्च॑ व॒यन्द्वि॒षः^(१)॥ अनु० २२॥

अथ त्रयोविंशोऽनुवाकः।

^(१)स्रिक्च॑ लो॒हिति॑श्च॒ स्लिहि॑तिश्च*। उ॒ष्णा च॑ शी॒ता च॑। उ॒ग्रा च॑ भी॒मा च॑। स॒दामी॑ से॒दिरनि॑रा। ए॒तास्तै॑ अग्ने॒ घो॒रास्त॒नुव॑:। ताभि॑र॒मुङ्ग॑च्छ। यो॒ऽस्मान्द्वेष्टि॑। यञ्च॑ व॒यन्द्वि॒षः^(१)॥ अनु० २३॥

‘तनुवः,’ ‘ताभिः’ तनुभिः सह, ‘यः’ अस्माकन्द्वेष्टा, यश्च द्वेष्यः ‘अमुं’ द्विविधम्पुरुषं, ‘गच्छ’॥

इति सायनाचार्य्यविरचिते माधवीये वेदार्थप्रकाशे यजुरारण्यके चतुर्थप्रपाठके द्वाविंशोऽनुवाकः॥ २२॥

अथ त्रयोविंशोऽनुवाकः।

अथ घोरतनूप्रतिपादकं द्वितीयमनुवाकमाह। ^(१)“स्रिक्च॑ लोहितिश्च॑ ॰ यञ्च वयं द्विषः”^(१) इति। स्रिगादीन्यनिरान्तानि तनुनामानि। अन्यत्पूर्ववत्॥

इति सायनाचार्य्यविरचिते माधवीये वेदार्थप्रकाशे यजुरारण्यके चतुर्थप्रपाठके त्रयोविंशोऽनुवाकः॥ २३॥


* लोहीतिस्नेति J चिह्नितपुस्तकपाठः। स्लिहितिस्नेति G, चिह्नितपुस्तकपाठः।
3 w