तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)
Taittiriya Aranyaka Hindi
महर्षि वैशम्पायन द्वारा
स्रोत: Taittiriya Aranyaka with Sayana Bhashya and Hindi Translation (उद्गम)
६ प्रपाठके ३ अनुवाकः। ६६७
^(११)यद्वै देव॑स्य सवि॒तुः प॒वित्रं॑ सहस्र॑धारं॒ वित॑तम॒- न्तरि॑क्षे । येना॑पु॒नादिन्द्र॑मना॑र्त्तमार्त्यै॒ तेना॒हं माగ్ं स-
रेवंतीः सरभध्वं० वाजानुत्तरेम''(१०) इति । कर्पूः, कुल्याः, तत्र- त्यासु अप्सु अवगाहनाय ज्ञातयः परस्परं सम्बोध्यन्ते । हे 'सखायः', 'अश्मन्वतीः' पाषाणयुक्ताः, * 'रेवतीः' धनहेतुभूताः आपः 'संरभध्वं' प्रविशत,† 'उत्तिष्ठत' उत्साहवन्तः सन्तः प्रत्युद्गच्छत । अनेन क्रमेण 'प्रतरत' कुल्यात्रयं प्रकर्षेण तरत । 'अत्र' अस्मिन् दहनदेशे, 'अशेवाः' सेवितुमशक्याः दुःखविशेषाः, 'ये' केचित्, 'आसन्' पूर्व- मासन्, तान् सर्वान् 'जहाम' परित्यजाम । 'शिवान्' सुखहेतून, 'वाजान्' गतिविशेषान् अन्नविशेषान् वा, 'अभिलक्ष्य 'वयं', 'उ- त्तरेम' उत्तीर्णा भवाम ॥
• कल्पः । जघनेन कर्पूः पर्णशाखे निहत्य अबलेन शुल्बेन बध्वा विनिःसर्पन्ति, यद्वै देवस्य सवितुः पवित्रं सहस्रंधारं विततमन्त- रिक्षे । ये नापुनादिन्द्रमनात्र्त्तमार्त्यै तेनाहं माగ్ं सर्वतनूं पुनामि इति । (११मन्त्रः ।) 'सवितुः' प्रेरकस्य सूर्यस्य, 'देवस्य', सम्बन्धि 'पवित्रं' शुद्धिकारणं, 'यद्वै' यदेव शुल्वं, 'सहस्रधारं' बहुस- न्धिकं, 'अन्तरिक्षे', 'विततं' प्रसृतं, 'येन' सूर्यरूपेण, शुल्वेन, पुरा 'आर्त्यै' आर्त्तेः सकाशात्, 'इन्द्रं', 'अनार्त्तं'पनात्' आर्त्तो यथा
* पूषायुक्ता इति F, K, चिह्नितपुस्तकद्वयपाठः ।
† निविशतेति F, K, चिह्नितपुस्तकद्वयपाठः ।
६६८ तैत्तिरीये आरण्यके
र्वत॑नुं पुनामि^{(११)} । ^{(१२)}या रा॒ष्ट्रात् प॒न्नाद॒पय॑न्ति॒ शाखा॑ अ॒भिमृ॑ता नृ॒पति॑मि॒च्छमा॑नाः। धातु॒स्ताः सर्वाः॒ पव॑नेन पू॒ताः प्र॒जया॒ऽस्मान् र॒य्या वर्च॑सा॒ सꣳसृ॑जाथ^{(१२)}। ^{(१३)}उ॒द्व॒यन्त॑म॑स॒स्परि॒पश्य॑न्तो॒ ज्योति॒रुत्त॑रं। दे॒वं दे॑व॒त्रा
न भवति तथा शोधितवान् । ‘तेन’ शुल्बेन, ‘अहं’, प्रेतस्य ज्ञातिं ‘मां’ मद्रूपां, ‘सर्वतनुं’ कृत्स्नशरीरं, ‘पुनामि’ शोधयामि ॥
कल्पः । जघन्यो व्युदस्यति, या राष्ट्रात् पन्नादपयन्ति शाखा अभिमृता नृपतिमिच्छमानाः। धातुस्ताः सर्वाः पवनेन पूताः प्रजयाऽस्मान् रय्या वर्चसा सꣳसृजायेति। (१२ मन्त्रः ।) शुल्बस्याधस्तात् ये ज्ञातयो निर्गच्छन्ति तेषां मध्ये पश्चात् निर्गच्छन् दहनकर्ता पुरुषः शाखाद्वयमनेन मन्त्रेण व्युदस्येत्। ‘अभिमृताः’ अनुक्रमेण पूर्वं मृताः पुरुषाः, ‘नृपतिमिच्छमानाः’ मनुष्याणां पालकं स्वामिनमिच्छन्तः, ‘पन्नात्’ प्राप्तात्, ‘राष्ट्रात्’, ‘याः’ ‘शाखाः’, ‘अपयन्ति’ अपसारयन्ति, ‘ताः’ सर्वाः शाखाः, ‘धातुः’, सम्बन्धिना ‘पवनेन’ शुद्धिहेतुना, ‘पूताः’ शोधिताः । तादृश्यः हे शाखाः, ‘अस्मान्’, प्रजादिभिः संयोजयत ॥
कल्पः । उदयन्तमसस्परीत्यादित्यमुपस्थायेति । पाठस्तु । (१३)“उद्वयन्तमसस्परि ॰ ज्योतिरुत्तमं”(१३) इति । ‘वयं’, ‘तमसः उत्तरं ज्योतिः’ तमसो विनाशकत्वेन उत्कृष्टं सूर्यसम्बद्धं ज्योतिः,
६ प्रपाठके ३ अनुवाकः । ६६६
सूर्य॑मगन्म॒ ज्योति॑रुत्त॒मम्^(१३) । ^{(१४)}धा॒ता पु॑नातु सवि॒ता पु॑नातु । अ॒ग्नेस्तेज॑सा॒ सूर्य॑स्य॒ वर्च॑सा^{(१४)} ॥ २ ॥ धे॒हि॒, उत्त॑रेम॒, अ॒ष्टौ च॑ ॥ ३ ॥
‘उत्परिपश्यन्तः’ उत्कर्षेण सर्वतः अवलोकयन्तः, ‘देवत्रा’ देवेषु मध्ये, ‘सूर्य’, देवं, ‘उत्तमं’, ‘ज्योतिरूपं’, ‘अगन्म’ प्राप्ताः स्म ॥
कल्पः । अनवेक्षमाणाः अपोऽवगाहन्ते, धाता पुनातु सविता पुनात्विति । अग्नेस्तेजसा सूर्यस्य वर्चसेति मन्त्रशेषः। (१४ मन्त्रः ।) ‘धाता’ जगतः स्रष्टा प्रजापतिः, अग्निसम्बन्धेन ‘तेजसा’, ‘पुनातु’ शोधयतु । ‘सविता’ प्रेरको देवः, सूर्यसम्बन्धिना ‘तेजसा’, ‘पुनातु’ ॥
इति सायनाचार्यविरचिते माधवीये वेदार्थप्रकाशे यजुरारण्यके षष्ठप्रपाठके तृतीयोऽनुवाकः ॥ ३ ॥
६७० तैत्तिरीये आरण्यके
अथ चतुर्थोऽनुवाकः ।
(१)यन्तै॑ अ॒ग्निमम॑न्थाम वृषभायै॑व पक्तवे॑ । इ॒मन्तꣳ॑ श॑- मयामसि क्षीरे॑ण चोद॒केन॑ च(१) । (२)यं त्वम॑ग्ने॒ समद॑ह॒- स्त्वमु॒ निर्वा॑पया पुन॑: । क्याम्बूरत्र॑ जायतां पाकदू॒र्वा व्य॑ल्कशा(२) । (३)शीति॑के शीति॑कावति ह्लादु॑के ह्लादु॑-
कल्पः । अपरेद्युस्तृतीयास्यां पञ्चम्यां सप्तम्यां वा अस्थीनि सञ्चिन्वन्ति, क्षीरोन्मिक्तेन उदकेन उदुम्बरशाखया प्रकाथयन् श- रीराणि अवोक्षति, यन्ते अग्निममन्थामेति पञ्चभिरिति । तत्र प्रथमामाह । (१)“यन्ते अग्निममन्थाम ॰क्षीरेण चोदकेन च”(१) इति । हे प्रेतशरीर ‘ते’ तव, ‘पक्तवे’ पाकार्थं, ‘वृषभायेव’ यथा पशवे, तथा यं ‘अग्निं अमन्थाम’ । पशुबन्धेषु हि पशोः पाका- र्थमग्निर्मथ्यते, निर्मन्ध्यं वा कुर्यादिति श्रुतेः । ‘तमिमं’ अग्निं, अनेन ‘क्षीरेण चोदकेन च’, ‘शमयामसि’ शान्तं कुर्मः ॥
अथ द्वितीयामाह । (२)“यं त्वमग्ने समदहः ॰पाकदुर्वा व्यल्क- शा”(२) इति । हे ‘अग्ने’, ‘त्वं’, ‘यं’ प्रेतदेहं, ‘समदहः’ सम्यग्द- ग्धवानसि । ‘त्वमु’ तादृशस्त्वमेव, ‘पुनर्निर्वापय’ इतः स्थानात् पुनरपि निःसारय । ‘अत्र’ देशे, ‘क्याम्बूः’ कियताम्बुना युक्ता काचिदोषधिः, ‘पाकदुर्वा’ अल्पया दूर्वया युक्ता, ‘व्यल्कशा’ विवि- धशाखायुक्ता, ‘जायतां’ उत्पद्यतां ॥
अथ तृतीयामाह । (३)“शीतिके शीतिकावति ॰ स्वग्निꣳ
६ प्रपाठके ४ अनुवाकः । ६७१
कावति । म॒ण्डूक्या॑सु सङ्ग॒मयेꣳ॑ स्वे॒मग्निꣳ॑ श॑मय॑^(३) । ^(४)शन्ते॑ ध॒न्व॒न्या आप॑:॒ शमु॑ ते सन्त्वनू॒क्या॑: । शन्ते॑ समु॒द्रि- या आप॑:॒ शमु॑ ते सन्तु वर्ष्या॑:^(४) । ^(५)शन्ते॑ स्रवन्तीस्त॒नु- वे॒ शमु॑ ते सन्तु कूप्या॑: । शन्ते॑ नीहा॒रो वर्षतु॒ शमु॑ पृ- ष्ठाऽव॑शीयतां^(५) ॥ १ ॥
शमय”^(३) इति । शीतेन जलेन युक्ता भूमिः, शीतिका, ह्लादका- रिणा क्षीरेण युक्ता भूमिः, ह्लादुका । हे ‘शीतिके’ भूमे, ‘शीति- कावति’ शीतिकाभूमियुक्ते स्थाने, ‘मण्डूक्यासु’ मण्डूकप्लवनयोग्यासु अप्सु, ‘सङ्गमय’ प्रापय । हे ‘ह्लादुके’, ‘ह्लादुकावति’ ह्लादुकायुक्ते स्थानविशेषे, ‘मण्डूक्यासु’ मण्डूकप्लवनयोग्यासु अप्सु, ‘सङ्गमय’ ‘इमं’ प्रेतदेहं, प्रापय, ‘अग्निं’, च ‘सुष्ठु’ ‘शमय’ ॥
अथ चतुर्थीमाह । ^(४)“शन्ते धन्वन्या आपः ० सन्तु वर्ष्याः”^(४) इति । धन्वनि मरुदेशे भवाः ‘धन्वन्याः’, तादृश्यः ‘आपः’, हे प्रेतदेह ‘ते’ तव, ‘शं’ ‘सन्तु’ सुखहेतवो भवन्तु । अनूपदेशे भवाः ‘अनूक्याः’, आपः, ‘शं सन्तु’ सुखहेतव एव भवन्तु । तथा समुद्रे भवाः ‘समुद्रियाः’, वर्षे भवाः ‘वर्ष्याः’, ताः सर्वा अपि ‘ते’, सुखहेतवो भवन्तु ।
अथ पञ्चमीमाह । ^(५)“शन्ते स्रवन्तीस्तनुवे ० शमु पृष्ठाऽवशी- यतां”^(५) इति । ‘स्रवन्तीः’ नदीगता आपः हे प्रेत ‘ते’, ‘तनुवे’,
4 M
| ६७२ | तैत्तिरीये आरण्यके |
|---|
(६)अव॑सृज॒ पुन॑रग्ने पि॒तृभ्यो॒ यस्त॒ आहु॑त॒श्चर॑ति स्व॒धाभि॑: । आयु॒र्वसा॑न॒ उप॑यातु॒ शेष॒ꣳ सङ्ग॑च्छतां त॒नुवा॑ जातवेदः^{(६)}। ^{(७)}सङ्ग॑च्छस्व पि॒तृभि॑: स॒ꣳ स्व॒धाभि॑: स-
'शं' सुखहेतवः भवन्तु। कूपे भवाः 'कूप्याः', ताश्च 'ते', सुखहेतवः भवन्तु । 'नीहारः' हिमरूपः, 'ते', सुखार्थं 'वर्षतु' दृष्टिवत् स्रवतु । 'पृश्वा' जलविन्दुः, 'शमु' सुखार्थमेव, 'अवश्योतां' अधःपततु ।
कल्पः । अतएवाङ्गारान् दक्षिणान् निर्वर्त्य तिस्रः स्रुवाहुतीर्जुहोति, अवसृजेति, प्रतिमन्त्रमिति। तत्र प्रथमामाह । ^{(६)}"अवसृज पुनरग्ने ० तनुवा जातवेदः"^{(६)} इति । हे 'अग्ने', 'यः' प्रेतः पुमान्, 'आहुतः' चितौ मन्त्रेण समर्पितः सन्, 'स्वधाभिः' स्वधाकारसमर्पितैरुदकादिभिः* सह, 'चरति'। तं प्रेतं 'पितृभ्यः' पितृप्राप्त्यर्थं, 'पुनरवसृज' भूयः प्रेरय । अयं प्रेतः, 'आयुर्वसानः' आच्छादयन् आयुषा युक्त इत्यर्थः । 'शेषं' भोगं, 'उपयातु' प्राप्नोतु । हे 'जातवेदः', सोऽयं प्रेतः 'तनुवा सङ्गच्छतां' शरीरेण सङ्गतो भवतु ॥
अथ द्वितीयामाह । ^{(७)}"सङ्गच्छस्व पितृभिः ० सविता दधातु"^{(७)} इति । हे प्रेत त्वं 'पितृभिः', 'सङ्गच्छ' सङ्गतो भव । 'स्वधाभिः' स्वधाकारसमर्पितैर्द्रव्यैः, सङ्गतो भव । 'परमे व्योमन्,
* उदकाञ्जलिभिरिति E चिह्नितपुस्तकपाठः ।
६ प्रपाठके ४ अनुवाकः । ६७३
मि॒ष्टापू॒र्त्तेन॑ प॒रमे व्यो॑मन्। यत्र॒ भूम्यै॑ वृण॒से तत्र॑ गच्छ॒ तत्र॑ त्वा दे॒वः स॑वि॒ता द॑धातु^(७)। ^(८)यत्ते॑ कृ॒ष्णः श॑कु॒न आ॒तुतो॑द पि॒पीलः॑ स॒र्प उ॒तवा॒ श्वाप॑दः। अ॒ग्निष्टद्विश्वा॑-
उत्कृष्टे स्वर्गे, ‘इष्टापूर्त्तेन’ श्रौतस्मार्त्तकर्मफलेन, सङ्गतो भव ‘भूम्यै’ भूम्यां, ‘यत्र’ यस्मिन् देशविशेषे, ‘वृणसे’ जन्म प्रार्थयसे, ‘तत्र’, ‘गच्छ’ । ‘सविता देवः’, त्वां ‘तत्र’, ‘दधातु’ स्थापयतु ॥
अथ तृतीयामाह । ^(८)“यत्ते कृष्णः शकुनः ० ब्राह्मण- माविवेश^(८)” इति । हे प्रेत तव देहे ‘कृष्णः’, ‘शकुनः’ पक्षिविशेषः, ‘यत्’ अङ्गं, ‘आतुतोद’ ईषद्व्यथितमकरोत् । ‘पिपीलः’ पिपीलिका वा, ‘सर्पः’, वा ‘यत्’ अङ्गं, ‘आतुतोद’ । ‘उतवा’ अथवा, ‘श्वापदः’* अन्योपि जीवः, व्यापात्तिहेतुः, ‘आतुतोद’ । अयं ‘अग्निः’, देवः ‘तत्’ अङ्गं, ‘विश्वात्’ सर्वस्मादुपद्रवात्, ‘अनृणं’ ऋणरहितं, उपद्रवरहितं, ‘कृणोतु’ करोतु । ‘यस्य सोमः’, ‘ब्राह्मणे’ एतदीये ब्राह्मणशरीरे, ‘आविवेश’ यागकाले प्रविष्टवान्, सोऽपि ‘अनृणं’, करोतु ॥
कल्पः । अथैनत् आदग्धं उदकुम्भैः खवोत्चितमवोक्ष्य या अस्य स्त्रीणां मुख्या सा सव्ये पाणौ नीललोहिताभ्यां सूत्राभ्यां त्रिग्रन्थ्य
* श्ववत्यादा यस्य व्याघ्रादेः सः, अपि वा तुतोद इति E चिह्नितपु- स्तकपाठः ।
४ M २
६७४ तैत्तिरीये आरण्यके
दनॄणं कृ॑णोतु सोमो॒ यश्च॑ ब्राह्म॒णमा॑वि॒वेश॑^(८) । ^(१)उ- त्तिष्ठाऽत॑स्तनु॒व॒ग्ं॒ सम्भ॑रस्व मेह गात्र॒मव॑हा मा शरी॑रं । यच्च॒ भूम्यै॑वृणसे॒ तच्च॑ गच्छ॒ तच्च॑ त्वा दे॒वः स॑वि॒ता द॑धा- तु । इ॒दन्न॒ एक॑म्पर॒ उत॒ एकं॑ तृतीये॑न॒ ज्योति॑षा सं-
श्मशानमन्वास्थाय अपामार्गेण सकृदपमृज्य दत्तः शिरस्तो वा अस्थि गृह्णाति, उत्तिष्ठाऽतस्तनुवग्ं सम्भरस्व मेह गात्रमवहा मा शरीरं । यच्च भूम्यै वृणसे तच्च गच्छ तच्च त्वा देवः सविता दधात्विति, इदन्न एकमिति द्वितीयं, पर उत एकमिति तृतीयं, तृतीयेन ज्योतिषा संविशस्वेति चतुर्थं, संवेशनस्तनुवै चारुरेधीति पञ्चमं, प्रियो देवानां परमे सधस्थ इति षष्ठं इति । (६ मन्त्रः ।) हे प्रेत 'अतः' अस्मात् दहनदेशात्, 'उत्तिष्ठ' । 'तनुवं' शरीरं, 'सम्भरस्व' सम्पादय, 'इह' दहनदेशे, 'गात्रं' अङ्गं, एकमपि 'मा अवहाः' मा परित्यज । 'शरीरं', अपि 'मा अवहाः', मा परित्यज । यत्रेत्यादि पूर्ववत् । हे प्रेत 'ते' तव सम्बन्धि, 'इदमेकं' अस्थि, 'उत' अपिच, 'परः' परस्तात्, 'ते' तव सम्बन्धि, 'एकं' अस्थि, हे प्रेत एतदस्थिरूपेण पूर्वद्वयापेक्षया 'तृतीयेन', 'ज्योतिषा' प्रकाशेन, 'संविशस्व' संयुक्तो भव । 'तनुवे' शरीरसिद्ध्यर्थं, 'संवेशनः' सर्वेषामस्थ्नां योजयिता, 'चारुरेधि' रमणीयो भव । 'परमे सधस्थे' उत्कृष्टे सहोपवेशनस्थाने, 'देवानां', 'प्रियः', भव ॥
६ प्रपाठके ४ अनुवाकः। ६७५
विश॑स्व। संवे॒शन॑स्तनु॒वै चा॒रु॑रेधि प्रि॒यो दे॒वानां॑ प॒र॒मे स॒धस्थे॑^(९)। ^(१०)उत्ति॑ष्ठ॒ प्रेहि॒ प्रद्र॑वौकः कृणुष्व प॒र॒मे व्यो॑मन्। य॒मेन॑ त्वं य॒म्या संवि॑दानोत्त॒मन्नाक॒मधि॑रोहे- मं^(१०)। ^(११)अश्म॑न्वती रे॒वती॒र्यद्दे॑ दे॒वस्य॑ सवि॒तुः प॒वित्रं॑
कल्पः। अथैतान्यस्थीनि अद्भिः प्रक्षाल्य कुम्भे वासते वा कृत्वा आदाय उपोत्तिष्ठति, उत्तिष्ठ प्रेहि प्रद्रवौकः कृणुष्व परमे व्योमन्। यमेन त्वं यम्या संविदानोत्तमं नाकमधिरोहेममिति। (१० मन्त्रः।) हे प्रेत अस्मात् स्थानात् 'उत्तिष्ठ'। उत्थाय च · 'प्रेहि' प्रकर्षेण गच्छ। गमनकालेऽपि 'प्रद्रव' शीघ्रं गच्छ। गत्वा च 'परमे व्योमन्' उत्कृष्टे स्वर्गे, 'ओकः' 'कृणुष्व' स्थानं कुरु। कृत्वा च 'त्वं', 'यमेन' 'यम्या' च स्त्रीपुरुषाभ्यामुभाभ्यां सह, 'संविदाना' संविदानः, ऐक- मत्यं प्राप्तः सन्, 'इदमुत्तमं नाकं' स्वर्गभोगं, 'अधिरोह' प्राप्नुहि॥
कल्पः। शम्यां पलाश्रे वा कुम्भं निधाय जघनेन कुम्भं कूर्च्चा- दिसमानमाश्मनात् मृदा स्नातीत्येके इति। तत्र पूर्वोक्तानां मन्त्राणां प्रतीकानि दर्शयति, अश्मन्वती रेवतीर्यद्दे देवस्य सवितुः पवित्रं या राष्ट्रादुदुद्यन्तममस्परि धाता पुनाविति। (११मन्त्रः।) ॥
सोमयाजिनस्तु पुनर्दहनं कर्त्तव्यं, पुनर्दहनान्तं सोमयाजिन इति सूत्रेऽभिहितत्वात्। तत्प्रकारस्तु कल्पे दर्शितः, अथ यदि पुनर्धक्ष्यन्तः स्युः, अतएवागारान् दक्षिणान् निर्वर्त्य तिस्रो रात्रोरिष्वा दहन-
६७६ तैत्तिरीये आरण्यके
या रा॒ष्ट्रात्पना॑दु॒द्वयं॒ तम॑स॒स्परि॑ धा॒ता पु॑नातु^{(११)} । ^{(१२)}अ॒स्मात् त्वमधि॑जा॒तोऽस्ययं त्वदधि॑जायतां* । अ॒ग्नये॑ वैश्वान॒राय॑ सुव॒र्गीय॑ लो॒काय॒ स्वाहा॑^{(१२)} ॥ २ ॥ अव॑शीयताग्ँ, स॒धस्थे॑, पञ्च॑ च ॥ अनु० ४ ॥
वदवकाशं जोषयित्वा अग्निमुपसमाधाय सम्परिस्तीर्य अपरेणाग्निं दर्भान् संस्तीर्य तेषु कृष्णाजिने शम्यायां दृषदुपलाभ्यामेवाञ्जनं शरीराणि सुसम्पिष्टानि पेषयित्वा आज्यकुम्भे समुदायृत्य* अग्निहोत्रहवण्या जुहोति, अ्रस्मात् त्वमधिजातोऽसीति । पाठस्तु । (१२) “अ्रस्मात् त्वमधिजातोऽस्ययं ० लोकाय स्वाहा”^{(१२)} इति । द्वितीयानुवाके व्याख्यातो मन्त्रः ॥
इति सायनाचार्यविरचिते माधवीये वेदार्थप्रकाशे यजुरारण्यके षष्ठप्रपाठके चतुर्थोऽनुवाकः ॥ ४ ॥
* “अयं त्वदधिजायतां” इत्यस्य स्थाने द्वितीयानुवाके “त्वदयं जायतां पुनः” इति पाठः ।
समवधाय इति E चिह्नितपुस्तकपाठः ।
६ प्रपाठके ५ अनुवाकः। ६७७
अथ पञ्चमोऽनुवाकः।
(१)आया॑तु दे॒वः सु॒मना॑भिरू॒तिभि॒र्य॒मो ह॑ वे॒ह प्रय॑- ताभिर॒क्ता। आसी॑दताꣳ सुप्रय॒ते ह ब॒र्हिष्यूर्जा॑य जा- त्यै॒ मम॑ शत्रूह॒त्यै(१)। (२)यमे इ॑व॒ यत॑माने यदैतं॒ प्र वां॑
अथ पञ्चमोऽनुवाकः।
पञ्चमेऽनुवाके यमयज्ञोऽभिधीयते, च स कल्पसूत्रे एवमुपक्रा- न्तः, यमयज्ञं स्वयं प्रोक्तं प्रवक्ष्ये बलिमुत्तमं। मासि मासि तु कर्त्त- व्योऽन्तकाय तु बलिस्तथेति। तत्र मन्त्रविनियोग एवमभिहितः, “आयातु देवः सुमनाभिरूतिभिर्यमो ह वेह प्रयताभिरक्ता। आसीदताꣳ सुप्रयते ह बर्हिष्यूर्जाय जात्यै मम शत्रूहत्यामिति, य- ममावाहयति। तत्र आवाहनार्थः प्रणवः अध्याहृतः। (१मन्त्रः।) मन्त्रे 'ह'शब्दः प्रसिद्धार्थः, 'वा'शब्दः समुच्चये। प्रसिद्धः 'यमः', 'देवः', 'सुमनाभिः' सौमनस्ययुक्तैः, 'ऊतिभिः' अस्मदीयरक्षणैः, सहि- तः, 'इह' यमयज्ञाख्ये कर्मणि, 'आयातु'। तथा 'प्रयताभिः' निय- ताभिः, 'ऊतिभिः', 'अक्ता' सम्बद्धा, यमी च 'आयातु'। 'मम' यजमानस्य, 'ऊर्जाय' अन्नसिद्धये, 'जात्यै' उत्तमजातिसिद्धये, 'शत्रु- हत्या' शत्रुबधाय च, 'सुप्रयते' सुष्ठुनियते, 'बर्हिषि', 'ह' प्रसिद्धौ एतौ दम्पती, 'आसीदतां' उपविशतां॥
कल्पः। यमे इव यतमाने यदैतमिति च इति। आवाहयती- त्यनुवर्त्तते। पाठस्तु। (२)“यमे इव यतमाने ० भवतमिन्द्वे
६७८ तैत्तिरीये आरण्यके
भर॒न्मानु॑षा देव॒यन्तः॑ । आसी॑द॒त्ग्ँ स्वमु॑ लो॒कं वि॑दा॒ने
स्वा॒स॒स्थे भ॑वत॒मिन्द्वे॑ नः^(२) । ^(३)य॒माय॒ सोम॑ग्ँ सुनुत
य॒माय॑ जुहुता ह॒विः । य॒मग्ँ ह॑ य॒ज्ञो ग॑च्छत्व॒ग्निदू॑तो
नः”(२) इति। ‘इव’शब्दः एवकारार्थः। ‘यत्’ यदा, ‘यतमाने’
प्रयत्नं कुर्वाणे, ‘यमे इव’ यमो यमो चेत्येते एव, युवां, ‘एतं’ अ-
स्मिन् कर्म्मण्यागच्छतं,। तदानीं ‘देवयन्तः’ देवानात्मन इच्छन्तः,
‘मानुषाः’ यजमानाः, ‘वां’ युवां, ‘प्रभरन्’ प्रकर्षेण भरन्तु, पोष-
यन्तु। ‘खमु लोकं’ खोचितमेव स्थानं, ‘विदाने’ जानन्त्यौ, युवां,
‘आसीदतं’ उपविशतं, ‘नः’ अस्माकं, ‘इन्द्वे’ आल्हादाय, ‘स्वा-
सस्थे’ सुखासनस्थाने, ‘भवतं’ तिष्ठतं ॥
कल्पः। मध्यमस्यामुत्तरवेद्यां यमाय हविर्निवेदयन्ते, यमा-
य सोमग्ँ सुनुत यमाय जुहुता हविः। यमग्ँ ह यज्ञो गच्छत्वग्नि-
दूतो अरङ्कृत इति। (३ मन्त्रः।) हे ऋत्विजः यमदेवार्थं ‘सोमं
सुनुत’ लतात्मकं सोममभिषुणुत्त, तथा यमार्थं ‘हविः’, ‘जुहुत’।
अग्निदूतो यस्मिन् यज्ञे सोयं ‘अग्निदूतः’। अग्नेर्दूतत्वमन्यत्राम्नातं,
अग्निर्देवानां दूत आसीदिति। ‘अरङ्कृतः’ बहुभिर्द्रव्यैरलङ्कार-
रूपैर्युक्तः, तादृशः ‘यज्ञः’, ‘यमं ह’ यममेव, ‘गच्छतु’। ओङ्कार-
स्त्वध्याहृतः ॥
६ प्रपाठके ५ अनुवादः। ६७६
अरंकृतः^(२)। ^(४)यमा॑य घृ॒तव॑द्ध॒विर्जु॑हो॒त प्र च॑ तिष्ठत । स नो॑ दे॒वेष्वाय॑मद्दी॒र्घमायुः॒ प्रजी॒वसे॑^(३)। ^(५)य॒माय॑ मधु॑मत्तम॒ꣳ राज्ञे॑ ह॒व्यं जु॑होतन । इ॒दन्नम॒ ऋर्षि॑भ्यः पूर्वे॒जेभ्यः॒ पूर्वे॑भ्यः पथि॒कृद्भ्यः॑^(५)॥ १ ॥ ^(६)योऽस्य॑ को॒ष्ठ्य॑ जग॑तः पार्थि॑वस्यै॒क इद्वशी॑ । य॒मं
कल्पः । प्रतीच्यामुत्तरवेद्यां, यमाय घृतवद्धविर्जुहोत प्र च तिष्ठत । स नो देवेष्वायमद्दीर्घमायुः प्रजीवसे, ओमिति । (४ मन्त्रः।) हे ऋत्विजः यमार्थं घृतयुक्तं 'हविर्जुहोत' । यूयं 'च', प्रकर्षेण 'तिष्ठत' । 'देवेषु', मध्ये यः यमो देवः 'सः', 'प्रजीवसे' प्रकृष्टजीवनार्थं, 'नः' अस्माकं, 'दीर्घमायुः', 'आयमत्' प्रयच्छतु ॥
कल्पः । प्राच्यामुत्तरवेद्यां, यमाय मधुमत्तमꣳ राज्ञे हव्यं जुहोतन । इदन्नम ऋषिभ्यः पूर्वजेभ्यः पूर्वेभ्यः पथिद्भ्यः, ओमिति । (५ मन्त्रः।) हे ऋत्विजः 'यमाय राज्ञे', 'मधुमत्तमं' अतिशयेन मधुरं, 'हव्यं', 'जुहोतन' जुहुत । 'पूर्वजेभ्यः' सृष्ट्यादावुत्पन्नेभ्यः, अतएव 'पूर्वेभ्यः' अस्मत्तः पूर्वभाविभ्यः, 'पथिकृद्भ्यः' शोभनमार्ग- कारिभ्यः, 'ऋषिभ्यः', 'इदं' प्रत्यक्षं यथा भवति तथा, 'नमः', अस्तु ॥
कल्पः । योऽस्य कोष्ठ्येति तिसृभिर्यमगाथाभिस्त्रिः प्रदक्षिणं प- रिगायन्ति, इति । तत्र प्रथमामाह । ^(१)"योऽस्य॑ को॒ष्ठ्य॑ जग॑तः ० राजाऽनपरोध्यः"^(१) इति । कोष्ठं सम्पूर्णं धनमर्हति इति 'कोष्ठ्यः', तादृशः 'यः' यमः, 'एक इत्' एक एव, 'पार्थिवस्य' पृथिव्यां भवस्य,
N b
६८० तैत्तिरीय आरण्यके
भ॒ङ्ग्य॒श्रवो गाय॒ यो राजा॑ऽनपरो॒ध्य॑:। (६) । (७) य॒मं गाय॑
भ॒ङ्ग्य॒श्रवो यो राजा॑ऽनपरो॒ध्य॑: । येना॒ऽपो न॒द्यो॑ ध-
न्वा॑नि॒ येन॒ द्यौ: पृ॑थि॒वी दृ॒ढा^(७)। (८) हिर॑ण्यकक्ष्या॒न्त्सु॒धु॒-
रा॒न् हिर॑ण्याक्षानयःशफा॒न् । अश्वा॑ननश्श॒ते। दानं॑
‘अस्य’ सर्वस्य, ‘जगतः’, ‘वशी’ वशेन युक्तः, सर्वं जगत् तदधी-
नमित्यर्थः । ‘यः’ च यमः, ‘राजा’, ‘अनपरोध्यः’ केनाप्यपरो-
द्धुमशक्यः, तं ‘यमं’, प्रति ‘भङ्ग्यश्रवः’ एतन्नामकं गीतं, हे पुरुष
‘गाय’, भङ्गीरितिसङ्गीतशास्त्रोक्तां भङ्गीमर्हतीति भङ्ग्यं, श्रवणीयम्
श्रवः, भङ्ग्यञ्च तच्छ्रवश्चेति ‘भङ्ग्यश्रवः’, शास्त्रोयलक्षणोपेतत्वाच्छ्रो-
त्रसुखकरोयमित्यर्थः ॥
अथ द्वितीयामाह । ^((७))“यमं गाय भङ्ग्यश्रवः ० येन
द्यौः पृथिवी दृढा”^((७)) इति । ‘यः’ यमः, ‘राजा’, केनाप्यप-
रोद्धुमशक्यः, ‘येन’ यमेन, ‘आपः’, धृता इति शेषः । तथा
‘नद्यः’, येन, धृताः, ‘धन्वानि’ मरुस्थलानि, येन, धृतानि,
‘द्यौः’, ‘येन’, धृता, ‘दृढा’, ‘पृथिवी’, च येन, धृता । तादृशं
‘यमं’, प्रति, पूर्वोक्तं ‘भङ्ग्यश्रवः’, ‘गाय’ ॥
अथ तृतीयामाह । ^((८))“हिरण्यकक्ष्यान् ० यमोराजाऽभिति-
ष्ठति”^((८)) इति । अनसां सकटानां रथानां शतं यस्य यमस्य
सोयं ‘अनश्शतः’, तादृशः ‘यमः’, ‘राजा’, ‘दानं’ फलप्रदानं
उद्दिश्य, अत्र समागच्छतु । ‘अश्वान्’, ‘अभितिष्ठति’ रथेषु योजयति ।
कीदृशानश्वान्, ‘हिरण्यकक्ष्यान्’ सौवर्णाभरणैः युक्ताः कक्ष्याः
६ प्रपाठके ५ अनुवाकः । ६८१
य॒मो राजा॑ऽधितिष्ठ॑ति^{(८)*}। ^{(९)}य॒मो दा॑धार पृथि॒वीं य॒मो विश्व॑मि॒दं जग॑त् । य॒माय॒ सर्व॑मित्तस्थे॒ यत्प्रा॒णद्वा॒यु- र॑क्षितं॑^{(९)}। ^{(१०)}यथा॒ पञ्च॒ यथा॒ षड॒ यथा॒ पञ्च॑द॒शर्ष॑यः । यमं॒ यो वि॒द्यात्स ब्रू॑याद्यथै॒क ऋषिवि॑जान॒ते^{(१०)}} ॥ २ ॥
प्रदेशाः येषां ते ‘हिरण्यकच्याः’, तान्, शोभनं धुरं रथवहनस्थान येषां ते ‘सुधुराः’, तान्, शृङ्गारार्थं हिरण्यनिर्मिते अक्षिणी येषां ते ‘हिरण्याक्षाः’, तान्, पाषाणयुक्तमार्गेषु रक्षार्थं निर्मितैः अयोमयैः वलयैः युक्ताः शफाः येषां ते ‘अयःशफाः’, तान्, ‘अनशतः’, इति पाठे नाशरहितान्, अश्वान्, इति व्याख्येयं ॥
कल्पः । यमो दाधारेत्यनुवाकशेषेण हविरुद्धरन्ति, इति । तत्र प्रथमामाह । ^{(९)}“यमो दाधार ० प्राणद्वायुरक्षितं”^{(९)} इति । ‘पृथिवीं’, सर्वां ‘यमः’, ‘दाधार’ धृतवान् । तथा ‘विश्वं’ सर्वं, ‘इदं’ ‘जगत्’, ‘यमः’, धृतवान् । ‘यत्प्राणत्’ अस्मिन् जगति श्वासयुक्तं यत् अस्ति, यदन्यत् ‘वायुना रक्षितं’, वस्तु अस्ति, ‘सर्वमित्’ सर्वमेव, ‘यमाय’ यमार्थं, ‘तस्थे’ तस्थौ, अवस्थितं ॥
अथ द्वितीयामाह । ^{(१०)}“यथा पञ्च यथा षड् ० ऋषि- र्विजानते”^{(१०)} इति । ‘पञ्च’ भूतानि, ‘यथा’, वर्त्तन्ते, ‘षट्’ ऋतवः, ‘यथा’, वर्त्तन्ते, ‘पञ्चदश’ तिथयः, ‘यथा’, वर्त्तन्ते, ‘ऋषयः’,
* अधितिष्ठति E, k, चिह्नितपुस्तकद्वयभाष्यसम्मतः, F, चिह्नितपुस्तकदृतमूलसम्मतश्चायं पाठः।
4 N 2
६८२ तैत्तिरीये आरण्यके
(११)त्रिक॑द्रुकेभिः पत॑ति॒ षडु॒र्वीरेक॑मिद्बृ॒हत् । गाय॒त्री त्रि॒ष्टुप् छन्ंदा॑ꣳसि॒ सर्वा॒ ता यम आहि॑ता(११) । (१२)अ॒हर॑हर्नय॑मानो॒ गामश्वं॒ पुरु॑षं॒ जग॑त् । वैव॑स्वतो न तृ-
च वसिष्ठादयः, यथा वर्त्तन्ते, तं प्रकारं सर्वं ‘सः’ पुमान्, ‘ब्रूयात्’ वक्तुं शक्तः । कः पुमानिति स उच्यते, ‘यो यमं’, वेद सः पुमान् ‘ब्रूयात्,’ इत्यन्वयः । यमो हि नियन्तृत्वेन मृतर्त्तुतिथ्यादिकं सर्वं जगत् यथायथं प्रवर्त्तयति । अतो यमस्य माहात्म्यं विद्वान् इदमित्थमिति सर्वं वक्तुं शक्नोति । ‘यथा’, ‘एकः ऋषिः’ एक एव सर्वज्ञः परमेश्वरः, ‘विजानते’ विशेषेण जगत् जानाति, तमपि प्रकारान्तरं यममाहात्म्याभिज्ञ एव वक्तुमुत्सहते ॥
अथ तृतीयामाह । (११)“त्रिकद्रुकेभिः पतति ० यम आहिता”(११) इति । त्रिकद्रुकेभिर्ज्योतिर्गौरायुरीति त्रिकद्रुका इति सूत्रकारेणोक्तत्वात् ते त्रयो यागाः ‘त्रिकद्रुकाः’, तैर्यागैः ‘षट्’, ‘ऊर्वीः’ भूमीः, ‘पतति’ प्राप्नोति । ताश्च ऊर्व्यः शाखान्तरमन्त्रे समाम्नाताः, षएमोर्वीरꣳहंसस्यानु द्यौश्च, पृथिवी च 'आपश्च, ओषधयश्च, ऊर्कू सूनृता च इति । ‘बृहत्’ परं ब्रह्म, ‘एकमित्’ एकमेव । ‘गायत्र्यादीनितु ‘छन्दांसि’ छन्दोरूपेण व्यवस्थितानि । एवं नानाविधं यज्जगदस्ति ‘सर्वा ता’ तत् सर्वं जगत्, ‘यम आहिता’ यमे प्रतिष्ठितं, नियामकत्वादेव जगद्व्यवस्थाहेतुत्वं यमस्य युक्तमित्यर्थः ॥
अथ चतुर्थीमाह । (१२)“अहरहर्नयमानः ० मानवैर्यमः”(१)
६ प्रपाठक ५ अनुवाकः । ६८३
प्यति॒ पञ्च॑भि॒र्मान॑वै॒र्यमः॑।(१२)। (१३)वै॒व॒स्व॒ते विवि॑च्यन्ते य॒मे राज॑नि ते॒ जनाः॑। ये चे॒ह स॒त्येनेच्छ॑न्ते॒ य उ॑ चानृ॑तवा॒दिनः॑।(१३)। (१४)ते राज॑न्नि॒ह विवि॑च्यन्तेऽथा॒ यन्ति॒ त्वामुप॑। दे॒वाꣳ॑श्च॒ ये नम॑स्यन्ति ब्राह्म॒णाꣳश्चाप॑चित्यति(१४)।
इति । अयं 'वैवस्वतः' सूर्यस्य पुत्रः, 'यमः', 'पञ्चभिर्मानवैः' पञ्चसङ्ख्याकैः मुख्यैः दूतविशेषैः सहितः सन्, 'अहरहः' प्रतिदिनं, गवादीन् 'नयमानः' यमलोके प्रापयन्, 'न तृप्यति' अलमेतावता इत्येवं तृप्तिं न प्राप्नोति, प्राणिनो नेतुं आलस्यरहितः इत्यर्थः ॥
अथ पञ्चमीमाह । (१३)"वैवस्वते विविच्यन्ते ॰ य उ चानृतवादिनः"(१३) इति । 'इह' लोके, 'ये च' पुरुषाः, 'सत्येन', वर्त्तितुं 'इच्छन्ति', 'ये' अपि 'च', अन्ये पुरुषाः, 'अनृतवादिनः', 'ते' द्विविधा अपि, 'जनाः', 'वैवस्वते' सूर्यस्य पुत्रे, 'यमे', 'राजनि', स्थिते सति, तद्दूतैः 'विविच्यन्ते' । तत्र सत्यवादिनः स्वर्गन्नयन्ति, अनृतवादिनो नरकन्नयन्ति, इत्येवं तद्विवेकः ॥
अथ षष्ठीमाह । (१४)"ते राजन्निह विविच्यन्ते ॰ ब्राह्मणाꣳश्चापचित्यति"(१४) इति । 'ये' च पुरुषाः, इह लोके 'देवान्', 'नमस्यन्ति' उपासते, येऽपि 'च', अन्ये 'ब्राह्मणान्', 'अपचित्यति' सुवर्णदानान्नदानादिना पूजयन्ति, 'ते' द्विविधा अपि, हे 'राजन्', 'इह' त्वदीये लोके, 'विविच्यन्ते', तत्र उपासका ब्रह्मलोके नी-
६८४ तैत्तिरीये आरण्यके
(१५)यस्मि॑न् वृ॒क्षे सु॑प॒ला॒शे दे॒वैः सम्पि॑बते य॒मः । अत्रा॑ नो वि॒श्पतिः॑ पि॒ता पु॑रा॒णा अनु॑वेनति^(१५)॥ ३॥
प॒थि॒कृद्भ्यः॑, वि॒जान॒ते, अनु॑वेनति ॥ अनु० ५ ॥
यन्ते दानादिकर्मनिष्ठास्तु स्वर्गलोके नीयन्ते इति तद्विवेकः। 'अथ' यस्मादेवं तस्मात्, सर्वेऽपि हे यम 'त्वामुपयन्ति'॥
अथ सप्तमीमाह। ^(१५)“यस्मिन् वृक्ष ० अनुवेनति”^(१५) इति। 'यमः', राजा, 'देवैः', अन्यैः सह, 'सुपलाशे' शोभन-पर्णोपेते, 'यस्मिन् वृक्षे' सोमसवननामके, तदश्वत्थः सोमसवन इति श्रुत्यन्तरात्। 'सम्पिबते' सम्भूय सोमपानं करोति। 'अत्र' अस्मिन् वृक्षे, 'विशपतिः' प्रजानां स्वामी, 'नः' अस्माकं, 'पिता', 'पुराणाः' पुरातनान् देवान्, 'अनुवेनति' अनुगच्छति। त एते श्चापि मन्त्रा यममाहात्म्यप्रतिपादकाः॥
इति सायनाचार्यविरचिते माधवीये वेदार्थप्रकाशे यजुरा-रण्यके षष्ठप्रपाठके पञ्चमोऽनुवाकः॥ ५॥
६ प्रपाठके ६ अनुवाकः। ६८५
अथ षष्ठोऽनुवाकः ।
(१)वै॒श्वा॒न॒रे ह॒विरि॒दं जु॑होमि सा॒ह॒स्रमु॒त्सꣳ शत॑धार- मे॒तं । तस्मि॑न्ने॒ष पि॒तरं॑ पि॒ताम॒हं प्रपि॑तामहं बिभृत्यि- न्व॑माने(१) । (२)द्र॒प्सश्च॑स्कन्द पृथि॒वीमनु॒ द्यामि॒मञ्च॒ यो-
अथ षष्ठोऽनुवाकः ।
पूर्वानुवाके पितृमेधगतयमविशेषमन्त्रप्रसङ्गात् बुद्धिस्थो यम- यज्ञोऽभिहितः । स च स्वतन्त्रपुरुषार्थो नतु पितृमेधाङ्गभूतः । अथ प्रासङ्गिकम्परिसमाप्य प्रकृतः पितृमेधशेष एवोच्यते । च- यनान्तमग्निश्चित इति सूत्रादभिहितत्वात् अग्निचिद्विषयं लोष्टचयन- मुच्यते । कल्पः । अग्निमुपसमाधाय जघनेन अग्निं तिस्रः पालाश्यो मेथ्यो निहत्य तासामन्तरेण अस्थिकुम्भं निधाय तदुपरिष्टात् कटं तृणामध्युद्यम्य दध्ना मधुमिश्रेण पूरयति, वैश्वानरे हविरिदं जु- होमीति । पाठस्तु । (१)“वैश्वान॒रे हविरिदं ० बिभरत्यिन्वमाने”(१) इति । ‘वैश्वानरे’ अग्निसदृशे कुम्भे, ‘इदं’ वाजिनमिश्रदधिरूपं, ‘हविः’, ‘जुहोमि’ । कीदृशं हविः, ‘साहस्रं’ सहस्रसङ्ख्योपेतं, ‘उत्सं’ प्रवाहरूपं, ‘शतधारं’ शतच्छिद्रेषु पतन्तीभिर्धाराभिर्युक्तं, ‘एषः’ वैश्वानरो देवः, ‘पिन्वमाने, वर्धमाने, पूर्यमाणे कुम्भे, ‘एतं’ अस्मदीयं, ‘पितरं’, ‘पितामहं’, ‘प्रपितामहं’, च ‘बिभरत्’ बिभर्तु ॥
कल्पः । विचत्तन्तं अभिमन्त्रयते, द्रप्सश्चस्कन्दे, इमं समुद्रमिति द्वाभ्यामिति । तत्र प्रथमामाह । (२)“द्रप्सश्चस्कन्द ० सप्तहोत्राः”(२)
३८६ तैत्तिरीये आरण्यके
निमन् यश्च॒ पूर्व॑: । तृतीयं॒ योनि॒मनु॑सञ्चरन्तं द्र॒प्सं जु॑- हो॒म्यनु॑स॒प्तहोत्रा॑:⁽२⁾ । ⁽३⁾इ॒मꣳ स॑मु॒द्रꣳ श॒तधा॑र॒मुत्सं॒ व्यच्य॑मानं॒ भुव॑नस्य॒ मध्ये॑ । घृ॒तन्दुहा॑ना॒मदि॑तिं॒ जना॑-
इति । 'द्रप्सः' बिन्दुः, सः 'पृथिवीमनु चस्कन्द', पृथिव्यां पतित इत्यर्थः । स च द्रप्सो हुतः सन् स्थानत्रयेऽनुसञ्चरति, द्युलोके, अ- न्तरिक्षलोके, भूलोके च । तदेतदभिप्रेत्य स्मर्यते, अग्नौ प्रास्ताहुतिः सम्यगादित्यमुपतिष्ठते । आदित्याज्जायते वृष्टिर्वृष्टेरन्नं ततः प्रजा इति । सोऽयमर्थो द्वामित्यादिनाऽभिधीयते । 'द्यामिमद्य योनिमनु' अन्तरिक्षरूपमिदं स्थानमनुसञ्चरति, 'यश्च पूर्वं' योपि पूर्वः* पृथि- वीमनुचस्कन्देतिपूर्वोक्तस्थानविशेषः, तमप्यनुसञ्चरति । 'तृतीयं योनिं' द्युलोकरूपमादित्यस्थानं, 'अनु', सञ्चरति । तमिमं त्रिषु स्थानेषु 'अनुसञ्चरन्तं', 'द्रप्सं', 'जुहोमि' मनसा हुतमिव भावयामि । कुत्र होम इति तदुच्यते, 'अनुसप्तहोत्राः', इति । यस्यान्दिशि द्रप्सः पतितः तद्वतिरिक्ता होमयोग्याः, सप्त दिशो याः सन्ति, तास्वनु- क्रमेण जुहोमि । यथा अयं द्रप्सः हुतः आदित्यादिस्थानत्रयेषु सञ्चरन् उपकरोति तथा भावयामीत्यर्थः ॥
अथ द्वितीयामाह । ⁽३⁾"इमꣳ समुद्रꣳ ० परमे व्योमन्"⁽३⁾ इति । हे 'अग्ने', 'इमं' कुम्भं, 'जनाय' प्रेतपुरुषार्थं, 'मा हिꣳसीः'
* योऽपि पय इति E चिह्नितपुस्तकपाठः ।