तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)
Taittiriya Aranyaka Hindi
महर्षि वैशम्पायन द्वारा
स्रोत: Taittiriya Aranyaka with Sayana Bhashya and Hindi Translation (उद्गम)
६ प्रपाठके १० अनुवाकः। ७५१
ज्योतिः,(८) । अन्नं॑ ब॒हु कु॑र्वीत, पृ॒थि॒व्यामा॑का॒शः, एका॑दशैकादश(६) । न क॒ञ्चनैकषष्टिः, दश॑* ॥ १० ॥ सह ना॑ववतु। स॒ह नौ॑ भुनक्तु। स॒ह वी॒र्यं॑ करवावहै। ते॒ज॒स्वि ना॒वधी॑तमस्तु॒ मा वि॑द्विषा॒वहै॑ ॥ ॐ शा॒न्तिः शा॒न्तिः शा॒न्तिः॑ ॥ भृगुरित्युपनिषत् । शन्नो॑ मि॒त्रः ॥ .आविदक्तारं ॥ ॐ शा॒न्तिः ॥
इति तैत्तिरीयोपनिषत्सम्पूर्णा ॥
समाप्तो नवमः प्रपाठकः ॥ ० ॥
* न कञ्चनैकषष्टिरेकान्नविंशतिरेकान्नविंशतिः। इति B चिह्नितस्य मुद्रितस्य च पुस्तकस्य पाठः।
† भृगुरित्युपनिषदित्यादिपाठः B, J चिह्नितपुस्तकद्वये नास्ति। मुद्रितपुस्तके तु वर्त्तते।
4 y
श्रीगणेशाय नमः ।
तैत्तिरीये आरण्यके
दशमप्रपाठके प्रथमोऽनुवाकः ।
ॐ स॒ह ना॑ववतु । स॒ह नौ॑ भुनक्तु । स॒ह वी॒र्यं॑ करवावहै । ते॒ज॒स्वि ना॒वधी॑तमस्तु॒ मा वि॑द्विषा॒वहै॑ । ॐँ शान्तिः॒ शान्तिः॒ शान्तिः॑ ॥ हरिः ॐ ।
(१) अम्भ॑स्य पा॒रे भुवन॑स्य॒ मध्ये॒ नाक॑स्य पृ॒ष्ठे म॑-
तैत्तिरीये आरण्यकभाष्ये
दशमप्रपाठके प्रथमोऽनुवाकः ।
वागीशाद्याः सुमनसः सर्वार्थानामुपक्रमे ।
यं नत्वा कृतकृत्याः स्युस्तं नमामि गजाननम् ॥
यस्य निःश्वसितं वेदा यो वेदेभ्योऽखिलं जगत् ।
निर्ममे तमहं वन्दे विद्यातीर्थमहेश्वरम् ॥
वारुण्युपनिषद्युक्ता ब्रह्मविद्या समाधना ।
याज्ञिक्यां खिलरूपायां सर्वशेषोऽभिधीयते ॥
यथा बृहदारण्यके सप्तमाष्टमाध्यायौ खिलकाण्डेनार्यै-
१० प्रपाठके १ अनुवाकः । ७५३
हृ॒तो म॒हीया॑न्। शुक्रेण॒ ज्योती॑ꣳषि॒ समनु॒प्रवि॑ष्टः
रुदाहृतौ, तथेयं नारायणीया व्याख्या याज्ञिक्युपनिषदपि खिलकाण्डरूपा तल्लक्षणोपेतत्वात् । कर्मोपासनब्रह्मकाण्डेषु त्रिष्वपि यद्यद्वक्तव्यमवशिष्टं तस्य सर्वस्याभिधानेन प्रकीर्णकरूपं खिलत्वं । बृहदारण्यके सप्तमाध्याये पूर्णमदः पूर्णमित्यादिना ब्रह्मतत्त्वमभिहितं । ॐ खं ब्रह्मेत्यादिभिरष्टमाध्यायगतैश्च यो ह वै ज्येष्ठञ्च श्रेष्ठञ्च वेदेत्यादिभिर्वाक्यैर्नानाविधान्युपासनान्यभिहितानि । स यः कामयेत महान् प्राप्नुयामित्यादिना मन्थाख्यं कर्माऽभिहितं । तथा पुत्रविशेषादिकामनायुक्तानां तत्कर्माण्यभिहितानि । एवमत्राप्यम्भस्य पार इत्यादिना ब्रह्मतत्त्वमभिहितं । आदित्यो वा एष एतन्मण्डलमित्यादिनोपासनमभिहितं । भूरन्नमग्नये पृथिव्यै स्वाहेत्यादिना कर्माण्यभिहितानि । तत्र कर्मणां बाहुल्याद्याज्ञिकीत्युच्यते । उपक्रमे ब्रह्मतत्त्वाभिधानादुपसंहारे च ब्रह्मज्ञानसाधनानां सत्यादीनां सन्यासान्तानामभिधानादुपनिषदित्युच्यते । तदीयपाठसम्प्रदायस्तु देशविशेषेषु बहुविध उपलभ्यते । तत्र यद्यपि शाखाभेदः कारणं, तथापि तैत्तिरीयशाखाध्यापकैस्तत्तद्देशनिवासिभिः शिष्टैरादृतत्वात् सर्वोऽपि पाठ उपादेय एव । तत्र द्रविडानां चतुःषष्ट्यनुवाकपाठः । आन्ध्राणामशीत्यनुवाकपाठः । कर्णाटकेषु केषाञ्चिचतुःसप्ततिपाठः । अपरेषां नवाशीतिपाठः । तत्र वयं पाठान्तराणि यथासम्भवं सूचयन्तोऽशीतिपाठं प्राधान्येन व्याख्यास्यामः । तत्र प्रथमानुवाकस्यादौ काञ्चिदृचो ब्रह्मत्वं प्रतिपाद-
4 y 2
७५४ तैत्तिरीये आरण्यके
प्र॒जाप॑तिश्चरति॒ गर्भे॑ अ॒न्तः॑ ।<sup>(१)</sup> । <sup>(२)</sup>यस्मि॑न्नि॒दꣳ सम् च॒ वि चैति॒ सर्वं॒ यस्मि॑न् दे॒वा अधि॒ विश्वे॑ निषे॒दुः । तदे॒व
र्यान्ति । तासु प्रथमामृचमाह । <sup>(१)</sup>“अम्भस्य पारे ० चरति गर्भे अन्तः”<sup>(१)</sup> इति । ‘अम्भस्य’ बहुविधसमुद्रमध्यवर्त्तिजलस्य, ‘पारे’ परतीरे, यः ‘महान्’ प्रौढः, लोकालोकपर्वतादिः, ततः अपि ‘महीयान्’ महत्तरः, अयं परमेश्वरः, ‘भुवनस्य’ पृथिव्यादिलो- कस्य, ‘मध्ये’, यः ‘महान्’ मेर्वादिः, ततोऽपि महत्तरः, ‘नाकस्य पृष्ठे’ स्वर्गस्योपरि, यः ‘महान्’ ब्रह्मलोकादिः, ततोऽपि महत्तरः । तथा छन्दोगा आमनन्ति । ‘ज्यायान् पृथिव्या ज्यायानन्तरिक्षाज्ज्या- यान् दिवो ज्यायानेभ्यो लोकेभ्यः’ इति ; ‘स एवाधस्तात् स उपरिष्टात् स पश्चात् स पुरस्तात् स दक्षिणतः स उत्तरतः स एवेदꣳ सर्वं’ इति च । स परमेश्वरः । ‘शुक्रेण’ भासकेन जीव- चैतन्यरूपेण, ‘ज्योतींषि’ निर्मलत्वेन भासकानि अन्तःकरणानि सम्यक् ‘अनुप्रविष्टः’ । तत् सृष्ट्वा तदेवानुप्राविशदिति श्रुतेः । ‘गर्भे’ ब्रह्माण्ड- रूपे, ‘अन्तः’ मध्ये, ‘प्रजापतिः’ विराड्रूपो भूत्वा, ‘चरति’ वर्त्तते । विराड्रूपमाथर्वणिका आमनन्ति । ‘अग्निर्मूर्द्धा चक्षुषी चन्द्रसूर्यौ दिशः श्रोत्रे वाग्विवृताश्च वेदा वायुः प्राणो हृदयं विश्वमस्य पद्भ्यां पृथिवी’ इत्यादि । अग्निः, प्रकाशयुक्तो द्युलोकः, सर्व्वव्यापी परमेश्वरः । वस्तुतः तथाविध एव सन् मायावशाद् देहेषु जीव- रूपेण ब्रह्माण्डे च विराड्रूपेणावस्थित इत्यर्थः ॥
द्वितीयामृचमाह । <sup>(२)</sup>“यस्मिन्निदꣳ ० परमे व्योमन्”<sup>(२)</sup>
१० प्रपाठके १ अनुवाकः। ७५५
भूतं तदु॒ भव्य॑मा॒ इदं तद॒क्षरे॑ पर॒मे व्यो॑मन्^{(२)} । ^{(३)}ये- नावृ॑तं॒ खञ्च॒ दिवं॑ म॒हीञ्च॒ येना॑दि॒त्यस्तप॑ति॒ तेज॑सा॒
इति । 'इदं' सर्वं जगद्, 'यस्मिन्' अव्याकृते मूलकारणे, 'समेति च व्येति च' सृष्टिकाले समुत्पन्नं सत् सङ्गतमपि भवति । शं चेति पाठे सुखमपि प्राप्नोतीति व्याख्येयं । व्यत्ययेन वा गतमिति द्रष्टव्यं । संहारकाले विलीनं सत् विगतमपि भवति । 'अधि' अधिका हि- रण्यगर्भविराडादयोऽग्नीन्द्रादयश्च 'विश्वे' सर्वे 'देवाः', 'यस्मिन्' अव्यक्ते, मूलकारणे 'निषेदुः' नितरामाश्रित्यावस्थिताः । 'तदेव' सृष्टिसंहारयोर्देवानाञ्च आधारभूतं अव्याकृतमेव । 'भूतं' अतीतं जगत्, 'भव्यं' भविष्यज्जगत्, 'इदं' वर्त्तमानमपि जगत्, 'तदु' तदेवाव्याकृतं । 'आ' इत्याश्चर्ये, आसीदिति प्रसिद्धिर्वा । तस्या- न्तर्गतं तादृशमव्याकृतं, 'अक्षरे' विनाशरहिते, 'परमे' उत्कृष्टे, 'व्योमन्' आकाशवदमूर्ते परमात्मनि, वर्त्तते इति शेषः ॥
तृतीयामृचमाह । ^{(३)}"येनावृतं ० परमे प्रजाः"^{(३)} इति । वाजसनेयिनो गार्ग्यब्राह्मणे परमात्मन्याश्रिते यदव्याकृतमभिधी- यते, एतस्मिन्नेव खल्वक्षरे गार्ग्य आकाश ओतश्च प्रोतश्चेति तत्पूर्व- स्यामृच्यभिहितं, अस्यां तु तेनाव्याकृतेनोपहितं, तेन कारणेन व्याप्ता अत एवोक्ताः, सर्वेऽपि सद्भूतया भासन्ते । 'येन' परमेश्व- रेण, अनुगृहीतः, 'आदित्यः', 'तेजसा' स्वकीयं मण्डलतया भास्वद्रू- पेण* 'भ्राजसा च' प्रसारितरश्मिरूपया दीप्त्या च, 'तपति' सर्वमिदं
* भाखररूपेण इति P चिह्नितपुस्तकपाठः ।
७५६ | तैत्तिरीये आरण्यके
भ्राज॑सा च॒। यम॒न्तः स॑मु॒द्रे क॒वय॑ वय॑न्ति॒ तद॒क्षरे॑*
प॒र॒मे प्र॒जाः⁽३⁾। ⁽४⁾यतः॑ प्रसू॒ता जग॑तः प्रसू॒तो तो-
येन॒ जीवा॒न् व्य॑ च॑ सर्ज॒ भूम्या॑म्। यदोष॑धीभिः पुरु॑षान्
जगदभितप्तं प्रकाशितञ्च करोति। 'कवयः' तत्त्वविदः, 'यं' परमा-
त्मानं, 'समुद्रे अन्तः' समुद्रोपलक्षितस्य कृत्स्नस्य जगतो मध्ये, तन्तूनीव
'वयन्ति'। यथा पटस्वरूपे तन्तवोऽनुगताः तथा जगति ब्रह्मतत्त्वम-
नुगतं पश्यन्ति। तच्च ब्रह्मतत्त्वं 'अक्षरे' विनाशरहिते, 'परमे' उत्कृष्टे
निजस्वरूपे अवस्थाय 'प्रजाः', उत्पादयन्तीति शेषः। स्वरूपे-
ऽवस्थानं छन्दोगाः प्रश्नोत्तराभ्यामामनन्ति। "स भगवः कस्मिन्
प्रतिष्ठितः" इति "स्वे महिम्नीति" आधारान्तरराहित्यमेव,
स्वस्मिन्नेव अवस्थानं। "यदक्षर" इति पाठेऽपि तच्छब्दोऽर्थत्वेन
व्याख्येयः॥
चतुर्थीमृचमाह। ⁽४⁾"यतः प्रसूता जगतः ० भूतानि चरा-
चराणि"⁽४⁾ इति। पूर्वमन्त्रे जगत्कारणमव्याकृतोपहितं यच्चैतन्य-
मुक्तं तस्यात्र जगदुत्पादनञ्च प्रपञ्चते। "आत्मन आकाशः सम्भूतः"
इत्यारभ्य "अन्नात् पुरुषः" इत्यन्तेन ग्रन्थेन पूर्वमभिहिता 'जगतः
प्रसूतिः'। 'प्रसूतिः' सृतिः उत्पत्तिः, यस्मादव्याकृतोपहिताच्चैतन्यात्,
'प्रसूता' प्रवृत्ता, तच्चैतन्यं कारणभूतं 'तोयेन' जलोपलक्षितेन
भूतपञ्चकेन, 'जीवान्' मनुष्यगवादीन् जीवदेहान्, 'व्यससर्ज' 'भूम्यां'
* यदक्षरे इति J, M, N, O चिह्नितपुस्तकचतुष्टयपाठः
१० प्रपाठके १ अनुवाकः । ७५७
प॒शूꣳश्च॒ वि॒वेश॑ भू॒तानि॑ चराच॒राणि॑⁽४⁾ । ⁽५⁾अत॑: प॒रं ना॒न्यदणी॑यसꣳ हि परा॑त्प॒रं यन्म॑ह॒तो म॒हान्त॑म् । य- देक॑म॒व्यक्त॑मन॒न्तरू॑पं वि॒श्वं पु॑रा॒णं तम॑सः प॒रस्ता॑त्⁽५⁾॥ ॥ १ ॥ ⁽६⁾तदे॒वर्त्तं तदु॑ स॒त्यमा॑हु॒स्तदे॒व ब्रह्म॑ पर॒मं क॑वी॒नाम् ।
जगत्त्यां विशेषेणासृजत् । व्यचसृजेति पाठेऽपि तथैव व्याख्येयं । तथा यच्चैतन्यरूपं मायाविशिष्टं कारणं 'ओषधीभिः' व्रीहियवादिभि- रुपलक्षितमन्नं भूत्वा, मनुष्यान्, 'पशूंश्च', तदुपलक्षितस्थावर- जङ्गमशरीराणि सर्वाण्यपि प्र'विवेश' वृक्षादिषु स्थावरेषु वृष्टि- जलरूपेण प्रवेशः । तेन चैतन्येन सर्वं जगत् परिदलितमिति शेषः ॥
पञ्चमीमृचमाह । ⁽५⁾"अतः परं ० तमः परस्तात्"⁽५⁾इति । पूर्ववाक्योक्तेन जगत्कारणत्वाकारणोपलक्षितं शुद्धं वस्तु अत्र नि- रूप्यते । यत् वस्तु, 'परात्' उत्कृष्टात् हिरण्यगर्भादेरपि, 'परं' अत्यन्तमुत्कृष्टं, 'यत्', च 'महत्' आकाशादेः, 'महान्तं', 'यत्', अपि 'एकं' सजातीयविजातीयरहितं, 'अव्यक्तं' इन्द्रियागम्यं, 'अनन्तरूपं' देशकालवस्तुपरिच्छेदरूपं, 'विश्वं' जगदात्मकं, 'पुराणं' अनादिसिद्धं, 'तमसः परस्तात्' अज्ञानात् पृथग् वर्त्तते । 'अतः' वस्तुनः, 'अन्यत्' वस्तु, 'अणीयसं' अत्यन्तदुर्लक्ष्यं, 'परं' उत्कृष्टं 'न', अस्ति ॥
७५८ तैत्तिरीये आरण्यके
इ॒ष्टापू॒र्त्तं ब॑हु॒धा जा॒तं जाय॑मानं॒ विश्वं॑ बिभर्त्ति॒ भुव॑नस्य॒ नाभिः॑।(६)।(७)तदे॒वाग्निस्तद्वा॒युस्तत्सूर्य॒स्तदु॑ च॒न्द्रमाः॑। तदे॒व शु॒क्रम॒मृतं॒ तद् ब्रह्म॒ तदापः॒ स प्र॒जाप॑तिः(७) ।
विश्वविशेषेण यत्सर्वं जगदात्मकत्वमुक्तं तदेतत् षष्ठीसप्तमीभ्यां ऋग्भ्यां प्रपञ्चयति । (६)“तदेवर्तं ० भुवनस्य नाभिः(६) । (७)तदेवाग्निरुद्वाद्युः ० स प्रजापतिः”(७) इति । मनसा यथा वस्तुचिन्तनमृते वा तदुच्चारणं ‘सत्यं’, एतदुभयमपि ‘तदेव’ अधिष्ठानरूपं ब्रह्मैव, ‘कवीनां’ वेदशास्त्रपारङ्गतानां, परमुत्कृष्टं प्रमाणत्वेनादरणीयं यद् ‘ब्रह्म’ वेदरूपं वस्तु, तदपि स्वाधिष्ठानभूतपरब्रह्मात्मकमेव । ‘इष्टं’ दर्शपूर्णमासादि श्रौतं कर्म । ‘पूर्त्तं’ वापीकूपादिस्मार्त्तं कर्म, तदुभयमपि ‘तदेव ब्रह्म’ । तथा ‘बहुधा जातं’ पूर्वकल्पतत्पूर्वकल्पादिरूपेण बहुप्रकारमुत्पन्नं, इदानीमपि तथा ‘जायमानं’, ‘विश्वं’ सर्वं जगत्, ‘भुवनस्य नाभिः’ चक्रनाभिवत् सर्वस्य लोकस्याधारभूतः परमात्मा, ‘बिभर्त्ति’ । अत आधेयं सर्वमधिष्ठानस्वरूपमेव । अग्निवायुसूर्यचन्द्रमसोऽपि ‘तदेव’ । तथा ‘शुक्रं’ दीप्यमानं नक्षत्रादिकं, ‘अमृतं’ देवैः सेव्यं पीयूषं, एतदुभयमपि ‘तदेव’ अधिष्ठानरूपमेव, यद् ‘ब्रह्म’ हिरण्यगर्भरूपं, ‘तत्’, अपि तदधिष्ठानात्मकमेव, याः ‘आपः’ जलोपलक्षितानि पञ्चभूतानि, यश्च प्रजापतिर्विराड्रूपः, तदुभयमधिष्ठानरूपमेव । यद्यत् जगत् अविद्यादृष्ट्या नानाविधं प्रतीयते, तत्सर्वं विद्यादृष्ट्या अखण्डैकरसं
१० प्रपाठके १ अनुवाकः । ७५६
$^{(८)}$सर्वे॑ निमे॒षा ज॑ज्ञिरे वि॒द्युतः॒ पुरु॑षा॒दधि॑ । क॒ला मु॑हू॒र्त्ताः काष्ठा॑श्चाहोरा॒त्राश्च॑ सर्व॒शः$^{(८)}$। $^{(९)}$अर्द्ध॒मासा॒ मासा॑
ब्रह्मैव। अतएव दृष्टिद्वयमभिप्रेत्य वाजसनेयिन आमनन्ति । ‘यत्र हि द्वैतमिव भवति तदितर इतरं पश्यति इत्यविद्यादृष्टिः, यत्र त्वस्य सर्वमात्मैवाभूत् तत् केन कं पश्येत्’ इति विद्यादृष्टिः । ननु ‘प्रकृतिः पुरुषश्चैव नित्यौ कालश्च सत्तमः’ इति विष्णुपुराणे कालस्य नित्यत्वाभिधानात्, विद्यादृष्ट्यापि ब्रह्मरूपत्वं नास्तीत्याशङ्क्याह । पुराणस्याविद्यादृष्टिविषयत्वमभिप्रेत्य विद्यादृष्ट्याकालस्य ब्रह्मत्वविवक्षया ब्रह्मणः सकाशादुत्पत्तिः ॥
अष्टमीनवमीभ्यां दर्शयति । $^{(८)}$“सर्वे निमेषाः ० अहोरात्राश्च सर्वशः”$^{(८)}$ । $^{(९)}$“अर्द्धमासा मासाः ० अन्तरिक्षमथो सुवः”$^{(९)}$ इति । निमिर्नाम जनकस्य पूर्वज आद्यो मिथिलेश्वर आसीदिति उपनिषदि वर्त्तते, देववरप्रसादात् येषु अक्षिपक्ष्मपातेषु ते निमिषाः, त एव ‘निमेषाः’, इत्युच्यन्ते, पक्ष्मपातपरिमिताः सूक्ष्मकालविशेषा इत्यर्थः । ते ‘सर्वे’, अपि ‘विद्युतः’ स्वयम्प्रकाशमानात्, ‘पुरुषात्’ परिपूर्णात् परमेश्वरात्, ‘अधिजज्ञिरे’ आधिक्येनोत्पन्नाः। निमेषेभ्योऽपि अधिकाः कालविशेषाः ‘काष्ठाः’ । ताभ्योऽप्यधिकाः ‘कलाः’ । ताभ्योऽधिकाः ‘मुहूर्त्ताः’ । तेभ्योऽप्यधिकाः ‘अहोरात्राः’ । तथाच पूर्वग्रन्थकारैरुक्तं ।
‘अष्टादश निमेषास्तु काष्ठास्त्रिंशत्तु ताः कलाः ।
4 z
| ७६० | तैत्तिरीये आरण्यके |
|---|
ऋ॒तव॑: सं॑वत्स॒रश्च॑ कल्पन्तां*। स आप॑: प्रदुघे उ॒भे इ॒मे अ॒न्तरि॑क्षमथो॒ सुव॑:।$^{(९)}$। $^{(१०)}$नैन॑मू॒र्ध्वं न ति॒र्यञ्चं॑ न
तास्तु त्रिंशत् क्षणस्ते तु मुहूर्त्तो द्वादशास्त्रियां ॥
ते तु त्रिंशदहोरात्रः पक्षस्ते दश पञ्च च' ।
'च'कारावनुक्तसमुच्चयार्थौ । तदेव 'सर्वशः', इत्यनेन स्पष्टीक्रियते । लवत्रुट्यादिकाः सर्वे कालविशेषाः समुत्पन्ना इत्यर्थः । लवत्रुट्योः स्वरूपं पूर्वाचार्यैरुक्तं ।
'नलिनोपचसंहत्यां सूक्ष्मसूच्याऽभिभेदने ।
दले दले तु यः कालः स कालो लववाचकः ॥
लवैस्त्रुटिः स्यात् त्रिंशद्भिः' इति ।
'अर्द्धमासाः' शुक्लकृष्णपक्षरूपाः । 'मासाः', चैत्रवैशाखाद्याः । 'ऋतवः' वसन्तग्रीष्माद्याः । ते सर्वेऽपि परमेश्वरात् 'अधिजज्ञिरे' । तथा 'संवत्सरश्च', प्रभवति, भवादिरूपः । 'कल्पतां' परमेश्वरादुत्पन्नः । अत एव स्वप्रयोजनसमर्थो भवति । कल्पन्तामितिबहुवचनपाठे सर्वेऽपि कालविशेषाः स्वस्वप्रयोजनसमर्था इति योज्यं । 'सः' परमेश्वरः, स्वनिर्मितेन कालविशेषेणोपहितः सन्, तत्तत्कालोचित्येन 'आपः प्रदुघे' जलोपलक्षितां पृथिवीं दुग्धवान्, प्राणिनामपेक्षितं भोग्यजातं पृथिव्यां सम्पादितवानित्यर्थः । तथैव 'अन्तरिक्षं', एकं स्थानं, 'अथो' अपि च, 'सुवः' स्वर्गः अपरं स्थानं,
* षट्सु द्वादशपुस्तकेषु "कल्पन्तां" इति पाठो दृश्यते; केवलं P चिह्निंतपुस्तके "कल्पतां" इति पाठो वर्त्तते ।
१० प्रपाठके १ अनुवाकः। ७६१
मध्ये॒ परि॑जग्रभत् । न तस्येशे॒ कश्चन तस्य॑ नाम म॒ह- द्यशः॑^{(१०)} ॥ २ ॥ ^{(११)}न स॒न्दृशे॑ तिष्ठति॒ रूप॑मस्य॒ न चक्षु॑षा पश्यति॒ क-
'इमे उभे' स्थाने, 'प्रदुधे', तयोरपि स्थानयोर्भोग्यवस्तूनि सम्पादितवानित्यर्थः ॥
ननु काललोकादिसर्वकारणस्य सर्वत्रानुगतत्वात् कुतः प्राणिभिरसौ न गृह्यत इत्याशङ्क्य तस्य परमात्मन ऊर्द्धत्वाद्याकारविशेषाभावात् रूपाद्यभावाच्च, इति मन्त्रद्वयेन दर्शयति । ^{(१०)}“नैनमूर्द्धं ० नाम महद्यशः”^{(१०)}। ^{(११)}“न सन्दृशे तिष्ठति ० अमृतास्ते भवन्ति”^{(११)} इति । कश्चिदपि पुरुषः, 'एनं' परमात्मानं, स्तम्भवदूर्द्ध्वाकारं, उपरिस्थितशालोवंशवत्तिर्यगाकारं वा, गृहान्तर्वर्त्तिदेवदत्तवत् क्वचित् 'मध्ये', अवस्थितं वा । 'न परिजग्रभत्' नैव परिगृह्णाति । ऊर्द्ध्वाद्याकाराणां तस्मिन्नभावात् । किञ्च 'तस्य' परमात्मनः, 'कश्चन' कोऽपि पुरुषः, 'नेश्रे' नेष्टे, मम ग्रहणसौकर्यार्थमीदृग्रूपो भवेति नियन्तुं न समर्थः । अत एव 'तस्य' परमात्मनः, 'महद्यशः', इति 'नाम', सम्पन्नं, अत्यन्तस्वतन्त्रत्वेन तदीययशसोऽभ्यधिकत्वात् । किञ्च 'अस्य' परमात्मनः, 'रूपं' नीलपीतादिकं, 'न सन्दृशे' प्राणिनां दृष्टिविषये, न सं 'तिष्ठति' । अशब्दमस्पर्शमरूपमित्यादिश्रुतेः । अतः 'कश्चन' कुशलोऽपि पुमान्, अत्यन्तपटुना 'चक्षुषा', तं 'न पश्यति' । कथं तर्हि गुरुशास्त्रोपदेशयुक्तो गृह्णातीति चेत् उच्यते, 'हृदा' हृदयपुण्डरीक-
४ २ २
७६२ तैत्तिरीये आरण्यके
श्चनैनं॑ । हृ॒दा म॑नी॒षा मन॑साऽभिकॢप्तो॒ य ए॑नं वि॒दु- रमृ॑तास्ते भ॑वन्ति॥११॥ । ॥१२॥अ॒ङ्ग्याः सम्भृ॑ता हिर॑ण्यगर्भ॒
मध्यवर्त्तिना, 'मनीषा' भौतिक*वस्तुगोचराणि मनसा ईष्टे इति मनोट् तथाविधेन, 'मनसा' अन्तःकरणेन, 'अभिकॢप्तः' सर्वतो निश्चितो भवति । योगयुक्तं हि मनः लौकिकर्मनोवृत्तीर्नियमयति, तेन च अन्तर्मुखेनैकाग्रेण मनसा परमात्मा अनुभवितुं शक्यते । दृश्यते त्वग्रिया बुद्ध्या सूक्ष्मया सूक्ष्मदर्शिभिरिति श्रुतेः । 'ये' पुरुषाः, 'एनं' परमात्मानं, एकाग्रेण मनसा 'विदुः' साक्षात् कुर्वन्ति, 'ते' पुरुषाः, 'अमृताः' मरणरहिताः, 'भवन्ति' । देहात् प्राणानामुत्क्रान्तिः, मरणं, तच्च तत्त्वविदां नास्ति । न तस्य प्राणा उत्क्रामन्त्यत्रैव समवलीयन्त इति श्रुतेः ॥
उक्तार्थदार्थ्याय प्रदेशान्तरपठितत्वात् मन्त्रानुदाहरति । “अङ्ग्याः सम्भूतो हिरण्यगर्भ इत्यष्टौ” इति । (१२ मन्त्रः) । अङ्ग्यः सम्भूतः पृथिव्यैरमाच्चेत्ययमनुवाकश्चातुर्होत्रीयचयनमन्त्रप्रकरणे समाम्नातः । तस्यानुवाकस्य प्रदर्शनार्थमङ्ग्यः सम्भूत इति प्रतीकमिदं पठितं । तस्मिन्ननुवाके तमेवं विद्वानमृत इह भवतीति परमात्मतत्त्वविदो मरणराहित्यमुक्तं । हिरण्यगर्भः समवर्त्तताग्रे इत्याद्यष्टावृचः संहितायाश्चतुर्थकाण्डे प्रथमप्रपाठके समाम्नाताः । ता अपि वेदितव्यस्य परमात्मन उपलक्षकत्वेन हिरण्यगर्भाद्यभिधानादत्रोपयुक्ताः ॥
* लौकिकेति P चिह्नितपुस्तकपाठः ।
१० प्रपाठके १ अनुवाकः । ७६३
इत्यष्टौ^{(१२)}। ^{(१३)}ए॒ष हि दे॒वः प्र॒दिशोऽनु॒ सर्वाः॒ पूर्वो॑ हि जा॒तः स उ॒ गर्भे॑ अ॒न्तः । स वि॒जाय॑मानः स जनि॒- ष्यमा॑णः प्र॒त्यङ्मु॑खास्तिष्ठति वि॒श्वतो॑मुखः^{(१३)}। ^{(१४)}वि॒- श्वत॑श्चक्षुरु॒त वि॒श्वतो॑मुखो वि॒श्वतो॑हस्त उ॒त वि॒श्वत॑स्-
यथा हिरण्यगर्भादयः परमात्मोपलक्षकाः, तथा परमात्मना सृष्टं दिगादिकं जगद्धिरण्मूर्त्तिञ्च परमात्मानमुपलक्षयतीति मन्त्र- द्वयेन दर्शयति । ^{(१३)}“एष हि देवः ० तिष्ठति विश्वतोमुखः”^{(१३)}। ^{(१४)}“विश्वतश्चक्षुरुत ० देव एकः”^{(१४)} इति । विद्वद्भिरनुभूयमानः ‘देवः’ स्वप्रकाशः परमात्मा, ‘प्रदिशः’ प्रकृष्टाः प्राच्याद्याः, आग्ने- य्याद्याश्च विदिशः ‘सर्वाः’, ‘अनु’, प्रविश्यावस्थितः । प्रवेशस्य श्रुत्य- न्तरप्रसिद्धार्थः ‘हि’शब्दः । तथा ‘पूर्वो जातः’ हिरण्यगर्भस्वरूपत्वे- नायमेव प्रथममुत्पन्नः, ‘हि’शब्देन हिरण्यगर्भः समवर्त्ततेति मन्त्र- प्रसिद्धिः सूच्यते । ‘स उ’ स एव परमेश्वरः, ‘गर्भे अन्तः’ ब्रह्माण्ड- रूपस्य गर्भस्य मध्ये, वर्त्तते । ‘सः’, एव ‘विजायमानः’ देवतिर्य- गादिरूपेण इदानीं जायते, इतः परमपि ‘जनिष्यमाणः’, ‘सः’, एव । स च ‘प्रत्यङ्’ अन्नमयादिकोशेभ्यः आन्तरः, ‘मुखाः’ देहेन्द्रियाध्यक्षत्वेन मुख्यः, ‘विश्वतः’, सर्वतः, मुखानि, रूपाद्युपलब्धि- द्वाराणि चक्षुरादीनि, यस्यासौ ‘विश्वतोमुखः’, तादृशोयं जगद- धिष्ठानत्वेन ‘तिष्ठति’ । स च ब्रह्माण्डरूपं देहं धृत्वा सर्वप्राणिदेह- स्वरूपत्वात् तदीयैः सर्वैश्चक्षुरादिभिर्युक्त इति ‘विश्वतश्चक्षुः’, इत्यादि-
६४ तैत्तिरीये आरण्यके
स्यात् । सं बा॒हुभ्यां॒ नम॑ति॒ सं पत॑त्रै॒र्द्यावा॑पृथि॒वी ज॒न- य॑न् दे॒व एकः॑।(१४)। (१५)वेन॒स्तत् पश्य॒न् विश्वा॒ भुव॑- नानि वि॒द्वान् यत्र॒ विश्वं॒ भव॒त्येक॑नीडम् । यस्मि॑न्नि॒दꣳ सञ्च॒ विचैतꣳ॒ स ओतः॒ प्रोत॑श्च विभुः प्र॒जासु॑।(१५)। (१६)प्र
पदैरभिधीयते । तत्तल्लोकनिवासिनां प्राणिनां चक्षूंषि तत्र तत्र स्थितानि एव एतदीयानि भवन्ति । अतोऽस्य सर्वत्र चाक्षुष्यत्वं। एवं विश्वतोमुखत्वादिकमपि द्रष्टव्यं । स च परमेश्वरः, ‘बाहुभ्यां ‘सन्नमति’ बाहुसदृशाभ्यां धर्माधर्माभ्यां निमित्तकारणाभ्यां सर्वं जगद्वशीकरोति । तथा ‘पतत्त्रैः’ पतनशीलैः पञ्चीकृतपञ्चमहा- भूतैः, ‘सन्नमति’ सर्वं जगदुत्पादयति । एवमयं ‘देवः’, द्यावा- पृथिव्यादिकं कृत्स्नं जगत् उत्पादयन् ‘एकः’, एव अवतिष्ठते ॥
उक्तार्थे श्रद्धातिशयमुत्पादयितुं मन्त्रद्वयेन गन्धर्ववृत्तान्तं दर्शयति । (१५)“वेनस्तत्पश्यन् ० विभुः प्रजासु(१५)। (१६)प्र त- द्वोचे ० षवितुः पिता सत्”(१६) इति । ‘वेनो नाम गन्धर्वः’, सर्वप्राणिनां ‘गुहासु’ बुद्धिषु, ‘निहितं’, ‘अमृतं’ विनाश- रहितं, ‘तत्’ वस्तु, स्वानुभवेन ‘विद्वान्’, ‘प्रवोचे नु’ शिष्येभ्यः प्रोवाच खलु । कीदृशो वेनः, ‘यत्र’ यस्मिन् परमात्मवस्तुनि, ‘विश्वं’ सर्वं जगत्, ‘एकनीडं भवति’ एकत्वेन विश्वमवस्थितं सत् तादात्म्यं प्राप्नोति । ‘तत्’ वस्तु, गुरुशास्त्रप्रसादेन ‘पश्यन्’ साक्षात् कुर्वन्, ‘विश्वा भुवनानि’ सर्वानपि लोकान्, ‘विद्वान्’ जानन्
१० प्रपाठके १ अनुवाकः । ७६५
तद्वा॑चे अ॒मृतं॒ नु वि॒द्वान् ग॑न्ध॒र्वो नाम॒ निहि॑तं॒ गुहा॑-
सु ॥ ३ ॥
त्रीणि॑ प॒दा निहि॑ता॒ गुहा॑सु॒ यस्तद्वेद॑ सवि॒तुः पि॒ता
सत्^(१६) । ^(१७)स नो॑ ब॒न्धुर्जनि॑ता॒ स वि॑धा॒ता धामा॑नि॒
वर्त्तते । आत्मसाक्षात्कारे हि सर्वं जगत् तदात्मकमित्यवगति-
र्भवति । किञ्च तेन दृष्टे ‘यस्मिन्’ वस्तुनि परमात्मनि, ‘इदं’ जगत्,
‘सञ्च वि च’ समुत्पद्यते विलीनञ्च भवति । ‘एकं’ अद्वितीयतत्त्वरूपः,
‘सः’ परमात्मा, ‘विभुः’ व्यापी सन्, ‘प्रजासु’, सर्वासु, दीर्घतन्तुवत्
‘ओतः’, तिर्यक्तन्तुवत् ‘प्रोतश्च’, अवतिष्ठते । ‘गुहासु’ प्राणिनां
बुद्धिषु, ‘त्रीणि पदा’ जाग्रत्स्वप्नसुषुप्तिरूपाणि त्रीणि स्थानानि,
‘निहिता’ अवस्थितानि । ‘यः’ अयं गन्धर्वः, ‘तत्’ जाग्रदाद्यधि-
ष्ठानं, ‘वेद’ । स गन्धर्वः ‘सवितुः’ उत्पादकस्य, स्वकीयजनकस्यापि,
‘पिता सत्’ जनको भवति । लोकप्रसिद्धः पिता पुत्रस्य देहमात्रं
जनयति । ब्रह्मतत्त्वाभिज्ञस्तु परमात्मरूपेण सर्वजगदुत्पादकत्वा-
ल्लोकप्रसिद्धस्य स्वजनकस्यापि समुत्पादको भवति । यस्ता विजा-
नात् सवितुः पिता सदिति श्रुत्यन्तरात् ॥
तस्य परमेश्वरस्य व्यवहारकाले सर्वप्राण्युपकारकत्वं परमार्थ-
दर्शिनो मुक्तिप्रदत्वञ्च मन्त्रद्वयेन दर्शयति । ^(१७)“स नो बन्धुः ०
धामान्यभ्यैरयन्त^(१७) । ^(१८)परि द्यावापृथिवी ० भवत् प्रजा-
सु”^(१८) इति । ‘सः’ परमेश्वरः, ‘नः’ अस्माकं सर्वेषां, ‘बन्धुः’,
७६६ तैत्तिरीये आरण्यके ·
वेद॒ भुव॑नानि॒ विश्वा॑ । यत्र॑ दे॒वा अ॒मृत॑मानशा॒नास्तृ॒तीये॒ धामा॑न्य॒भ्यैर॑यन्त^{(१७)} । ^{(१८)}परि॒ द्यावा॑पृथि॒वी य॑न्ति स॒द्यः परि॑ लो॒कान् परि॒ दिशः॒ परि॒ सुवः॑ । ऋ॒तस्य॒ तन्तुं॒ वित॑तं वि॒वृत्य॒ तद॑पश्य॒त्तद॑भवत् प्र॒जासु॑^{(१८)} ।
अस्मदनुष्ठितसुकृतानुसारेण हितकारित्वात् । 'जनिता' उत्पादकः, सर्वस्रष्टृत्वात् । 'सः', च 'विधाता' जगतो निर्माता सन्, 'विश्वा भुवनानि' सर्वानुत्तमाधमलोकान्, 'धामानि' तेषु लोकेषु देवादीनां योग्यानि स्थानानि च, 'वेद' जानाति । 'यत्र तृतीये' लोके स्वर्गाख्ये, 'देवाः' इन्द्रादयः, 'अमृतमानशानाः' सुधां पिवन्तः, 'धामानि' स्वकीयस्थानानि, 'अभ्यैरयन्त' सर्वतः प्राप्नुवन्तः, ततः सर्वं विदित्वा तत्तदनुष्ठितकाम्यकर्मानुसारेण फलं प्रयच्छतीत्यर्थः ।
ये तु मुमुक्षवः ते सर्वे विदिततत्त्वाः सन्तः 'द्यावापृथिवी' लोकद्वयं, 'सद्यः परियन्ति' बोधक्षण एव सर्वतो व्याप्नुवन्ति, तथा 'लोकान्' अवशिष्टानन्तरिक्षादीन्, 'परियन्ति' । 'दिशः' प्राच्याद्याः, 'परियन्ति' । 'सुवः' स्वर्गलोकभोगं परियन्ति । सर्वात्मकत्वेन सर्वव्याप्तिरुक्ता । 'ऋतस्य' तस्य परब्रह्मणः, 'तन्तुं' अवच्छेदेनावस्थानं, 'विततं' विस्तीर्णं यथा भवति तथा, 'विवृत्य' गुरुशास्त्रमुखात् निश्चित्य, 'तत्' ब्रह्मतत्त्वं, 'अपश्यत्' यः साक्षात्कृतवान्, स एव 'प्रजासु', मध्ये 'तत्' ब्रह्मतत्त्वं, 'अभवत्' । तथाच श्रुत्यन्तरं, 'ब्रह्मविद् ब्रह्मैव भवति' इति ॥
१० प्रपाठके १ अनुवाकः । ७५७
(१९)परी॒त्य लो॒कान् परी॒त्य भू॒तानि॑ परी॒त्य सर्वाः॒ प्रदिशो॒ दिश॑श्च । प्र॒जाप॑तिः प्रथम॒जा ऋ॒तस्या॒त्म- ना॒त्मान॑म॒भिसम्ब॑भूव^(१९) । ^(२०)सद॑स॒स्पति॒मद्भु॑तं प्र॒िय-
अम्भस्य पार इत्यादिना तदभवत् प्रजाखित्यन्तेन ग्रन्थेन प्रतिपादितां ब्रह्मविद्यामुपसंहरति, ^(१९)“परीत्य लोकान् आत्मानमभिसम्बभूव”^(१९) इति । ‘ऋतस्य’ सत्यस्य ब्रह्मणः, ‘प्रथमजाः’ प्रथमकार्यभूतः, ‘प्रजापतिः’ हिरण्यगर्भः, ‘लोकान्’ भूरादीन्, ‘भूतानि’ देवमनुष्यादिप्राणिदेहान्, ‘प्रदिशः’ आग्नेय्याद्याः, ‘दिशश्च’ प्राच्याद्याः, ‘परीत्य’ सर्व्वतो व्याप्य, सृष्टिकाले सृष्ट्वा पुनरपि ‘परीत्य’ स्थितिकाले रक्षित्वा, ‘आत्मना’ स्वस्वरूपेण, तद्विषयकतत्त्वज्ञानेन इत्यर्थः । ‘आत्मानं’ सत्यज्ञानादिलक्षणं, ‘अभिसम्बभूव’ सर्व्वतः सम्यक् प्राप्तवान् ॥
तदेवं ब्रह्मविद्या प्रतिपादिता, अथ तत्प्राप्तिसाधनभूताः सोपाधिकब्रह्मध्यानजपस्नानादिकर्माङ्गभूताः मन्त्राः कर्मकाण्डे पूर्व्वमनुक्ता अस्मिन् खिलकाण्डे ऽभिधीयन्ते ते । तत्र एकेन मन्त्रेण ब्रह्मप्राप्त्यर्थमन्तर्यामिणं प्रार्थयते । ^(२०)“सदसस्पतिमद्भुतं ० सनिं मेधामयासिषम्”^(२०) इति । सीदत्यस्मिन् अव्याकृते कारणे सर्वं जगत् इति, ‘सदः’, तस्य, ‘पतिं’ पालक-मन्तर्यामिणं, ‘अयासिषं’ अहं प्राप्तवान् अस्मि, शीघ्रं प्राप्तवान्, इत्यनया विवक्षया भूतार्थनिर्देशः । कीदृशं सदसस्पतिं, ‘अद्भुतं’ आश्चर्य्यरूपं, मनसाप्यचिन्त्यरचनारूपस्य जगतोऽनायासेन निर्मा-
5 A
०६८ तैत्तिरीये आरण्यके
मिन्द्र॑स्य॒ काम्य॑म् । सनिं॑ मे॒धामया॑सिषं^(२०) । (२१)उद्दी॑प्यस्व जातवेदो॒ऽपघ्नन्निर्ऋ॑तिं॒ मम॑ ॥ ४ ॥ प॒शूꣳश्च॒ मह्य॒माव॑ह॒ जीव॑नं च॒ दिशो॑ दिश^(२१) । (२२)मा नो॑ हिꣳसीज्जातवेदो॒ गामश्वं॒ पुरु॑षं॒ जग॑त् ।
हत्वं, ‘इन्द्रस्य’ देवराजस्य, अपि ‘प्रियं’, मोषन्तर्यामिणं कदा प्राप्स्यामीत्येवमाशास्ते । अत एव सर्वैरन्यैः ‘काम्यं’ अपेक्षणीयं, ‘सनिं’ कर्म्मफलस्य दातारं, ‘मेधां’ श्रुताधीतग्रन्थधारणशक्तिं, प्रयच्छन्तमिति शेषः ॥
अथ वह्न्युपाधिकं परमेश्वरं प्रति इष्टप्राप्तिं प्रार्थयते । (२१)“उद्दीप्यस्व जातवेदोऽपघ्नं ० जीवनं च दिशो दिश”(२१) इति । जाते प्राणिशरीरे जाठराग्निरूपेण विद्यते अवतिष्ठते इति जातवेदाः । अथवा जातानुत्पन्नान् यजमानान् तत्तत्- फलदानाय वेत्ति स्वचित्ते निश्चिनोतीति जातवेदाः । हे ‘जात- वेदः’, मदनुग्रहार्थम उत्कर्षेण ‘दीप्यस्व’ । किं कुर्व्वन्, ‘मम’, अनिष्टकारिणीं ‘निर्ऋतिं’ पापदेवतां, ‘अपघ्नन्’ विनाशयन् । तां विनाश्य ततो मह्यं ‘पशून्’ गवाद्यादीन्, ‘जीवनं’ दीर्घायुष्यं, ‘च’काराभ्यामन्यदपि सर्व्वं भोग्यजातं ‘आवह’ सम्पादय । ततः सुखनिवासार्थं ‘दिशः’ प्राच्याद्याः, निवासयोग्यानि तत्तद्दिगन्त- स्थानानि, ‘दिश’ देहि ॥
सम्पादितानां गवाश्वादीनामविनाशं प्रार्थयते । (२२)“मा नो हिꣳसीज्जातवेदः ० श्रिया मा परिपातय”(२२) इति । हे ‘जात-
१० प्रपाठके १ अनुवाकः । ७६८
अबि॑भ्र॒दम् आग॑हि श्रि॒या मा॒ परि॑पातय^(२२) । ^(२३)पुरु॑षस्य विद्म स॒हस्रा॒क्षस्य॑ महादे॒वस्य॑ धीमहि* । तन्नो॑ रुद्रः प्रचो॒दया॑त्^(२९) । ^(२४)तत्पुरु॑षाय वि॒द्महै॑
देवः', तत्प्रसादात् मदीयं गवादिकं निर्ऋतिः 'मा हिंसीत्' मा विनाशयतु । 'जगच्छब्देन गवादिव्यतिरिक्तं गृहक्षेत्रादिकं विवक्षितं । हे 'अग्ने', त्वं 'अबिभ्रत्' अधारयन्, अस्मदपराधं मनस्यधारयित्वा 'आगहि' अस्मदनुग्रहार्थमागच्छ, ततो मां 'श्रिया' धनधान्यादिसम्पदा, 'परिपातय' सर्व्वतः प्रापय ॥
इत ऊर्द्धं तेषु तेषु देशेषु श्रुतिपाठा अत्यन्तविलक्षणाः, तत्र विज्ञानात्मप्रभृतिभिः पूर्व्वैर्निबन्धनकारैर्द्वाविड़पाठस्यादृतत्वात् वयमपि तमेवादृत्य व्याख्यास्यामः । तत्र षड्भिर्गायत्रीभिरात्मप्राप्तिद्वारभूता देवताविशेषाः प्रार्थ्यन्ते । तत्र आदौ विश्वरूपधरं प्रार्थयते । ^(२३)"पुरुषस्य विद्म ० तन्नो रुद्रः प्रचोदयात्"^(२९) इति । विश्वतश्चक्षुरित्यादिमन्त्रोक्तो विराट् पुरुषः 'सहस्राक्षः', तस्य, 'पुरुषस्य', स्वरूपं 'विद्म' जानीमहि, लभेमहि वा । तदर्थं तस्य विराड्रूपस्य 'महादेवस्य', स्वरूपं 'धीमहि' ध्यायेमः । तत्र ध्याने 'नः' अस्मान्, 'रुद्रः' विराड्रूपः महादेवः, 'प्रचोदयात्' प्रचोदयतु प्रेरयतु ॥
अथ बिभ्रद्दोर्भिः कुठारं मृगमभयवरौ सुप्रसन्नो महेश-
* तत्पुरुषाय विद्महे सहस्राक्षस्य धीमहीतिपाठे गायत्रीछन्दः प्रतितिष्ठति, परन्तु आदर्शपुस्तकेषु सर्व्वत्र मूलधृतपाठो दृश्यते ।
| ७७० | तैत्तिरीये आरण्यके |
|---|
महादे॒वाय॑ धीमहि । तन्नो॑ रु॒द्रः प्र॒चोद॑यात्⁽२४⁾ ।
⁽२५⁾तत्पु॑रुषाय वि॒द्महे॑ वक्रतु॒ण्डाय॑ धीमहि । तन्नो॑ दन्तिः प्र॒चोद॑यात्⁽२५⁾ । ⁽२६⁾तत्पु॑रुषाय वि॒द्महे॑ चक्रतु॒ण्डाय॑ धीमहि ॥ ५ ॥
तन्नो॑ नन्दिः प्र॒चोद॑यात्⁽२६⁾* । ⁽२७⁾तत्पु॑रुषाय वि॒द्महे॑ म॒हासे॒नाय॑ धीमहि । तन्नः॑ षण्मुखः प्र॒चोद॑यात्⁽२७⁾ ।
⁽२८⁾तत्पु॑रुषाय वि॒द्महे॑ सुवर्णप॒क्षाय॑ धीमहि । तन्नो॑ गरुडः प्र॒चोद॑यात्⁽२८⁾ । ⁽२९⁾वे॒दा॒त्म॒नाय॑ वि॒द्महे॑ हिरण्यग॒र्भाय॑ धीमहि । तन्नो॑ ब्रह्म प्र॒चोद॑यात्⁽२९⁾ । ⁽३०⁾ना॒रा॒-
त्याद्यागमप्रसिद्धमूर्त्तिधरं रुद्रं प्रार्थयते । ⁽२४⁾“तत्पुरुषाय विद्महे ० रुद्रः प्रचोदयात्”⁽२४⁾ इति । ‘तं’ आगमप्रसिद्धं पुरुषाकारं महादेवं, जानीमो ध्यायेमञ्च । तस्मिन् ध्याने अस्मान् ‘रुद्रः’, प्रेरयतु ॥
बीजापूरगदेक्षुकार्मुकेत्यागमप्रसिद्धमूर्त्तिधरं विनायकं प्रार्थयते । ⁽२५⁾“तत्पुरुषाय विद्महे ० दन्तिः प्रचोदयात्”⁽२५⁾ इति । गजसमानवक्रत्वेन दीर्घस्य तुण्डस्य रत्नकलशादिधारणार्थं वक्रत्वं । ‘दन्तिः’ महादन्तः ॥
पुराणादिषु प्रसिद्धपक्षिराजमूर्त्तिधरं देवं प्रार्थयते । ⁽२८⁾“तत्पुरुषाय विद्महे ० तन्नो गरुडः प्रचोदयात्”⁽२८⁾ इति । शोभनपतनसाधनपक्षोपेतः ‘सुवर्णपक्षः’ ॥
* २६, २७, २९ मन्त्रत्रयं भाष्ये न धृतं ।