तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)
Taittiriya Aranyaka Hindi
महर्षि वैशम्पायन द्वारा
स्रोत: Taittiriya Aranyaka with Sayana Bhashya and Hindi Translation (उद्गम)
८०४ तैत्तिरीये आरण्यक
त्तिष्ठ॒त्यन्त॑रा॒त्मा^{(३)}। ^{(४)}ब्र॒ह्मा दे॒वानां॑ पद॒वीः क॑वी॒ना- मृषि॒र्विप्रा॑णां महि॒षो मृ॒गाणा॑म्। श्ये॒नो गृध्रा॑णा॒ꣳ॒ स्वधि॑- ति॒र्वना॑ना॒ꣳ॒ सोम॑: प॒वित्र॒मत्ये॑ति॒ रेभन्॑^{(४)}। ^{(५)}अ॒जामेकां
परमेश्वरात्, उत्पन्नाः 'स्यन्दन्ते' प्रवहन्ति। व्रीहियवाद्याः 'विश्वाः' सर्वाः, 'ओषधयः', च, मधुराम्लादयः 'रसाश्च', 'अतः' परमेश्वरात्, प्रभवन्ति। 'एषः' अहम्प्रत्ययेन गम्यमानः, 'अन्तरात्मा' स्थूलदेहचिदात्मनोर्मध्यवर्त्ती लिङ्गदेहः, 'येन' ओषधिरसेन, 'भूतः' सम्बद्धः सन्, शरीरे 'तिष्ठति'। तादृशो रस उत्पन्न इति पूर्वत्रान्वयः॥
चतुर्थीमृचमाह। ^{(४)}“ब्रह्मा देवानां ० पवित्रमत्येति रे- भन्”^{(४)} इति। अन्तर्वर्त्तिनां प्राणसमुद्रादीनामचेतनानां सृष्टिमुक्त्वा चेतनेषु परमेश्वरस्योत्कृष्टरूपेणावस्थानमुच्यते। 'दे- वानां' अग्नीन्द्रादीनां मध्ये, 'ब्रह्मा' चतुर्मुखो भूत्वा परमेश्वरो नियामकत्वेनावतिष्ठते। तथा 'कवीनां' काव्यनाटकादिकर्त्तॄणां पुरुषाणां मध्ये, 'पदवीः', भूत्वावतिष्ठते। व्याकरणे निष्पन्नः सुशब्दविशेषः पदं तद्वेति गच्छतीति 'पदवीः' शब्दसामर्थ्या- भिज्ञो व्यासवाल्मीक्यादिरूप इत्यर्थः। 'विप्राणां' वैदिकमार्ग- वर्त्तिनां ब्राह्मणानां मध्ये, 'ऋषिः' तत्तत्स्तोत्रप्रवर्त्तको वसिष्ठा- दिरूपः, बभूव। 'मृगाणां' चतुष्पदां मध्ये, शक्त्याधिक्येन युक्तः 'महिषः', बभूव। 'गृध्रोपलक्षितानां' सर्वेषां पक्षिणां मध्ये प्रबलः 'श्येनः', बभूव। 'वनानां' वृक्षसमूहरूपाणां मध्ये, छेदनार्थः
१० प्रपाठके १० अनुवाकः। ८०५
लोहि॑तशुक्लकृष्णां ब॒ह्वीं प्र॒जां ज॒नय॑न्तीꣳ सरू॑पाम् ।
अ॒जो ह्येको॑ जु॒षमा॑णोऽनु॒शेते॑ जहात्येनां भु॒क्तभो॑गा-
म॒जोऽन्यः॑^(५) ॥ १ ॥
‘स्वधितिः’ परशुः, बभूव । यागहेतुभूतद्रव्यात्मकः ‘सोमः’, भूत्वा ‘रेभन्’ मन्त्रशब्दयुक्तः सन्, ‘पवित्रं’ शुद्धिकारणं गङ्गाजलकुशदर्भादिद्रव्यजातं सर्वं, ‘अत्येति’ ॥
पञ्चमीमृचमाह । ^(५)“अजामेकां लोहितशुक्लकृष्णां ॰ भुक्तभोगामजोऽन्यः”^(५) इति । व्यवहारदशायां परमेश्वरस्य चतुर्मुखब्रह्मादिशरीरेषु विशेषेणावस्थानमभिधाय यथोक्तजगत्सृष्टेर्मूलकारणभूतां मायाशक्तिमुपजीव्य बद्धमुक्तपुरुषव्यवस्था प्रदर्श्यते । न जायत इति ‘अजा’ मूलप्रकृतिरूपा माया । न ह्यनादेस्तस्या जन्म सम्भवति । सा च माया ‘एका’ इतरस्य सर्वस्य जगतस्तत्कार्यत्वात् । यदासौ तेजोऽबन्नानि त्रीणि भूतानि उत्पाद्य* तद्रूपाऽवतिष्ठते । तदानीं ‘लोहितशुक्लकृष्णा’वर्णैरुपैता भवति । तथा छान्दोगा आमनन्ति । “यदग्ने रोहितꣳ रूपं तेजसस्तद्रूपं यच्छुक्लं तदपां यत् कृष्णं तदन्नस्य” इति । अन्नशब्देनच पृथिवी उपलक्ष्यते । रजःसत्त्वतमोगुणा वा लोहितादिशब्दैरुपलक्ष्यन्ते । गुणत्रयात्मिका मायेत्युक्तं भवति । सा च देवतिर्यङ्मनुष्यादिरूपां गुणत्रयात्मकत्वेन ‘सरूपां’, बहुविधां, ‘प्रजां’, ‘जनयति’ । न जायत इति ‘अजः’ जीवः, तस्यापि माया-
* त्रीणि रूपाण्युत्पाद्य इति F चिह्नितपुस्तकपाठः
८०६ तैत्तिरीये आरण्यके
(६)ह॒ꣳ॒सः शु॑चि॒षदसुरन्तरिक्ष॒सद्धोता॑ वेदि॒षदति॑-
थिर्दु॑रोण॒सत्। नृ॒षद्व॑रस॒ह॒तस॒द्व्यो॑मसद॒ब्जा गो॒जा
वदनादित्वाद्युत्पत्तिर्नास्ति। तादृशो जीवो द्विविधः। आसक्तो विरक्तश्चेति। तयोर्मध्ये ‘एकः’ आसक्तो यो जीवः, पूर्वोक्तामजां मायां ‘जुषमाणः’ प्रीतिपूर्वकं सेवमानः, ‘अनुशेते’ तदनुसारेणैव वर्त्तते। विषयानेव भुञ्जानो विवेकरहितो जन्ममरणं प्रवाह- रूपेण सञ्चरतीत्यर्थः। ‘अन्यो अजः’ विरक्तो जीवः, ‘भुक्त- भोगां’, ‘एनां’ मायां, ‘जहाति’ परित्यजति। विरक्तेः प्रागेव भोगान् भुक्त्वा नतूपरिष्टाद्भोग्यन्ते। तादृशैर्भोगैर्युक्ता माया भुक्तभोगा, तां मायां तत्त्वविवेकेन बाधत इत्यर्थः॥
षष्ठीमृचमाह। (६)“हꣳसः शुचिषत् ० ऋतं बृहत्”(६) इति। यः पुमान् विवेकेन मायां परित्यजति तस्य सर्वमपि जगद् ब्रह्मारूपेणावभासत इत्येवमादिऽर्थोऽत्र प्रदृश्यते। तदर्थ- मादौ जगदनूद्यते। हन्ति सर्वदा गच्छतीति ‘हंसः’ आदित्यः, स च शुचौ शुद्धे मण्डले ज्योतिर्मये सीदतीति ‘शुचिषत्’, सूत्रात्मरूपेण जगन्निवासहेतुत्वात्। ‘वसुः’ वायुः, तद्रूपः सन्, अन्तरिक्षे सीदतीति ‘अन्तरिक्षसत्’। होमनिष्पादक आहव- नीयाद्यग्निः ‘होता’ तद्रूपेण सोमयागाद्यङ्गभूतायां वेद्यां सीद- तीति ‘वेदिषत्’। अमावास्यादितिथिविशेषमनपेक्ष्य भोजन- याञ्चार्थं तत्र तत्र गच्छन् पुरुषो वैदेशिकः ‘अतिथिः’। तद्रूपेण दुरोणेषु गृहेषु परकीयेषु सीदतीति ‘दुरोणसत्’। नृषु
१० प्रपाठके १० अनुवाकः। ८०७
ऋ॒त॒जा अ॑द्रि॒जा ऋ॒तं बृ॒हत्^(१)। [*^(७)यस्माज्जाता॒ न परा॑ नैव किञ्च॒नास॒ य आ॒विवेश॒ भुव॑नानि॒ विश्वा॑ ।
मनुष्येषु कर्माधिकारिजीवरूपेण सीदतीति 'नृषत्' । वरे श्रेष्ठे क्षेत्रे काशीद्वारावत्यादौ पूजनीयदेवरूपेण सीदतीति 'वरसत्' । ऋते सत्ये वैदिके कर्मणि फलरूपेण सीदतीति 'ऋतसत्' । व्योम्नि आकाशे नक्षत्रादिरूपेण सीदतीति 'व्योमसत्' । अद्भ्यो नदीसमुद्रादिगताभ्यः शङ्खमकरादिरूपेण जायत इति 'अब्जाः' । गोभ्यः क्षीरादिरूपेण जायत इति 'गोजाः' । ऋतं सत्यवचनं तस्मात् कीर्त्तिरूपेण जायत इति 'ऋतजाः' । अद्रिभ्यः पर्वतेभ्यो वृक्षादिरूपेण जायत इति 'अद्रिजाः' । हंस इत्यारभ्य अद्रिजा इत्यन्तेनोक्तं यज्जगदस्ति तज्जगत् 'ऋतं' सत्यं, 'बृहत्' ब्रह्म, अज्ञानिदृष्ट्या जगद्रूपेण भासमानं सर्वं ज्ञानिदृष्ट्या ब्रह्मैवेत्यर्थः ॥
सप्तमीमृचमाह । ^(७)“यस्माज्जाता ० स षोडशी”^(७) इति । हंसादेः सर्वस्य जगतो ब्रह्मरूपत्वं यदुक्तं तदत्र प्रतिपाद्यते । ब्रह्मव्यतिरिक्तं वस्तु किञ्चिदस्तीति वदन्वादी प्रष्टव्यः । किमचेतनं जगद् ब्रह्मव्यतिरिक्तं ? आहोस्वित् चेतनो जीवः । अचेतनत्वपक्षेऽपि किं सृष्टेरूर्द्धभावि वस्तु ब्रह्मव्यतिरिक्तं उत पूर्वभावि । न तावदूर्द्धभाविनो व्यतिरिक्तत्वमित्युच्यते। 'जाता' सृष्टेरूर्द्धमुत्पन्ना
* [ ] एतच्चिह्नक्रोडीकृताः सप्तमन्त्रा अस्मत्सम्बन्धेषु B, J, N, O चिह्नितेषु मूलपुस्तकेषु न पठिताः। एतेषामत्र निवेशे दशतिसङ्ख्या वृद्धिर्जायते । परन्तु E, M, Q चिह्नितभाष्यपुस्तकत्रयेषु एषां व्याख्यानात् अत्र परिगृहीताः ।
5 F
८०८ तैत्तिरीये आरण्यके
प्र॒जाप॑तिः प्र॒जया॑ सं॑विदान॒स्त्रीणि॒ ज्योतीँ॑षि सच- ते॒ स षो॒डशी॑^(७)। ^(८)वि॒धर्त्ता॑र॒ꣳ हवा॑महे॒ वसोः॑ कु॒विद्-
प्रजा, ‘यस्मात्’ परमेश्वरात्, ‘परा’ व्यतिरिक्ता, ‘न’, भवति । नापि पूर्वभाविनो व्यतिरिक्तत्वमुच्यते, सृष्टेः पूर्वं ‘किञ्चन’ कि- मपि ब्रह्मव्यतिरिक्तं वस्तु, ‘नैवाम्’, “एकमेवाद्वितीयम्” इति श्रुत्यन्तरात् । नापि चेतनस्य जीवस्य ब्रह्मव्यतिरिक्तत्वमित्युच्यते । यः, परमेश्वरः, ‘विश्वा भुवनानि’ सर्वलोकवर्त्तीनि शरीराणि, ‘आविवेश’ जीवरूपेण प्रविवेश । “अनेन जीवेन आत्मानु- प्रविश्य” इति श्रुत्यन्तरात् । सः ‘प्रजापतिः’ प्रजापालकः पर- मेश्वरः, ‘प्रजया’ स्वस्मादुत्पन्नया देवतिर्य्यगादिरूपया, ‘संविदानः’ संसर्गं तादात्म्यं लभमानो वर्त्तते । ‘सः’ परमेश्वरः, ‘त्रीणि ज्यो- तीँषि’ अग्न्यादित्यचन्द्ररूपाणि, ‘सचते’ समवैति, तादात्म्यसम्बन्धं प्राप्नोति । कीदृशः परमेश्वरः, ‘षोडशी’ प्रश्नोपनिषत्प्रोक्तषोडश- कलोपेतः । तत्र हि प्राणश्रद्धादिकं कृत्स्नमपि जगत् षोडशा- वयवरूपं । “परमात्मा ससर्ज वै” इति श्रुत्यन्तरात् । तथा सति मृद्धटन्यायेन कार्यकारणयोरव्यतिरेकात् षोडशकलारूपेण जगता सह तादात्म्यसम्बन्धादयं षोडशी इत्युच्यते ॥
अष्टमीमृचमाह । ^(८)“वि॒धर्त्ता॑र॒ꣳ हवा॑महे ॰ स॒वि॒तारं॑ नृ- चक्ष॑सं”^(८) इति । यथोक्तब्रह्मात्मतत्त्वज्ञानलाभाय परमेश्वरप्रार्थना- रूपाः केचिन्मन्त्रा इत आरभ्योच्यन्ते । ‘वसोः’ धनस्य ब्रह्मज्ञान- रूपस्य, ‘विधर्त्तारं’ विशेषेण सम्पादयितारं, परमेश्वरं, ‘हवामहे’
१० प्रपाठके १० अनुवाकः। ८०६
नाति॑ न॑ः। स॒वि॒तारं॑ नृ॒चक्ष॑सं^{(८)}। ^{(९)}अ॒द्या नो॑ दे॒व सवि॒तः प्र॒जाव॑त्सावी॒ः सौभ॑गं। परा॑ दु॒ष्ष्वप्रियँ॒ सुव॑^{(९)}। ^{(१०)}विश्वानि॑ दे॒व सवितु॒र्दुरि॒तानि॒ परा॑सुव॒। यद्भ॒द्रं तन्म॒ आसु॑व^{(१०)}। ^{(११)}मधु॒ वाता॑ ऋता-
अस्मदनुग्रहार्थं आङयामः । ‘नः’ अस्माकं तादृशानां, ‘कुवित्’ प्रभूतं तत्त्वज्ञानरूपं धनं, ‘वनाति’ सम्भजते, स परमेश्वरो ददातीत्यर्थः । कीदृशं विधातारं, ‘सवितारं’ अस्मद्बुद्धेः प्रेरकं। ‘नृचक्षसं’ नृणां मनुष्याणां अधिकारिणां आचार्यरूपेण तत्त्वविद्याप्रवक्तारं ॥
नवमीमृचमाह । ^{(९)}“अद्या नो देवसवितः ० दुष्ष्वप्रियँ सुव”^{(९)} इति । हे ‘सवितः’ प्रेरकदेव, ‘अद्य’ अस्मिन् दिने, ‘नः’ अस्माकं विद्यार्थिनां, ‘प्रजावत्’ शिष्यप्रशिष्यादिप्रजोपेतं, ‘सौभगं’ आचार्य्यरूपं भाग्यं, ‘सावीः’ प्रेरय, प्रयच्छेत्यर्थः । ‘दुष्ष्वप्रियं’ दुःस्वप्नसदृशं द्वैतप्रतिभासं, ‘परासुव’ निराकुरु ॥
दशमीमृचमाह । ^{(१०)}“विश्वानि देव ० तन्म आसुव”^{(१०)} इति । हे ‘सवितः’ प्रेरकदेव, ‘दुरितानि’ ज्ञानप्रतिबन्धकानि पापानि, ‘विश्वानि’ सर्वाणि, ‘परासुव’ पराकुरु । ‘भद्रं’ कल्याणं, असम्भावनाविपरीतभावनारहितं तत्त्वज्ञानं, ‘यत्’, अस्ति ‘तत्’, ‘मे’ मह्यं उपासकाय, ‘आसुव’ साकल्येन प्रयच्छ ॥
एकादशीमृचमाह । ^{(११)}“मधुवाता ऋतायते ० सन्त्वोषधी”^{(११)} इति । ‘ऋतायते’ ऋतं परं ब्रह्म तदिच्छति मह्यं,
5 F 2
८० | तैत्तिरीये आरण्यके
यत्॒ मधु॑ क्ष॒रन्ति॒ सिन्ध॑वः । माध्वी॒र्नः सन्त्वोष॑धीः (११) । (१२)मधु॒ नक्त॑मु॒तोषसि॒ मधु॑मत्पार्थि॑वग्ं॒ रजः॑ । मधु॒ द्यौ-
'वाताः' वायवः, 'मधु' माधुर्योपलक्षितं सुखं यथा भवति तथा, वान्तु इति शेषः । प्रबले तु वायौ रोगोत्पत्त्या तच्चज्ञानविघ्नः सम्पद्यते । अतः स माभूदिति वायोरानुकूल्यं प्रार्थ्यते । एवमुत्तरत्रापि तत्तदानुकूल्यं द्रष्टव्यं । 'सिन्धवः' नद्यः, 'मधु क्षरन्ति' इति मधुरं आरोग्यकरमुदकं सम्पादयन्त्वित्यर्थः । 'ओषधीः' व्रीहियवादयः, अपि 'नः' अस्माकं, 'माध्वीः' मधुराः पथ्यरूपाः, 'सन्तु' ॥
द्वादशीमृचमाह । (१२) 'मधु नक्तमुतोषसि ० रस्तु नः पिता”(१२) इति । 'नक्तं' रात्रौ, 'उत' अपि च, 'उषसि' प्रभाते, दिवसेऽपि, विद्यार्थिनः 'मधु' मधुरं अनुकूलं सुखं, 'अस्तु' कालकृतोऽपि विघ्नो माभूदित्यर्थः । 'पार्थिवं रजः' पृथिव्यामवस्थितं शयनादिस्थानगतं रजोऽपि, 'मधुमत्' माधुर्योपेतं, कण्टकपाषाणादिरहित्येनानुकूलं 'अस्तु' । 'नः' अस्माकं, 'पिता' पितृसदृशो, 'द्यौः', अपि 'मध्वस्तु' अतिवृष्ट्यादिप्रातिकूल्यरहितास्तु । “द्यौः पिता पृथिवी माता” इति मन्त्रान्तराद्द्दिवः पितृत्वं ॥
त्रयोदशीमृचमाह । (१३) “मधुमान्नो ० भवन्तु नः”(१३) इति। 'वनस्पतिः' चूतपनसादिः, 'नः' अस्मान् प्रति, 'मधुमान्' मधुरफलोपेतो जीवनहेतुः, 'अस्तु' । 'सूर्यः', अपि प्रभूतं सन्तापमकृत्वा, 'मधुमान्' माधुर्येण अनुकूलप्रकाशनेन युक्तः, 'अस्तु' । 'गावः',
१० प्रपाठके १० अनुवाकः । ८१९
रस्तु॑ नः पि॒ता^(१२) । ^(१३)मधु॑मान्नो॒ वन॒स्पति॒र्मधु॑माँ२ अस्तु॒ सूर्य्यः॑ । माध्वी॒र्गावो॑ भवन्तु नः^(१३) * ॥ ^(१४)घृ॒तं मि॑मिक्षिरे घृ॒तम॑स्य॒ योनि॑र्घृ॒ते श्रि॒तो घृ॒तमु॑वस्य॒ धाम॑ । अनु॑ष्व॒धमाव॑ह मा॒दय॑स्व॒ स्वाहा॑कृतं वृषभ वक्षि ह॒व्यं^(१४) । ^(१५)स॒मु॒द्रादू॒र्मिर्मधु॑माँ२ उदा॑रदु॒पाँ२शुना॑
अपि 'नः' 'अस्मान् प्रति, 'माध्वीः' जीवनहेतुमधुरक्षीरोपेताः, 'भवन्तु' ॥
चतुर्दशीमृचमाह । ^(१४)"घृतं मिमिक्षिरे ॰ वक्षि हव्यं"^(१४) इति । भोग्यजातस्य ज्ञानयोग्यदेहानुकूल्यं प्रार्थ्य ज्ञानसाधन- यागादिकर्महेतोरग्नेरानुकूल्यं प्रार्थ्यते । पूर्वे यजमाना अग्ना- वाहवनीयादिरूपे 'घृतं', 'मिमिक्षिरे' सिक्तवन्तः । मिह सेचने इति धातुः । तद् 'घृतं', 'अस्य' अग्नेः, 'योनिः' उत्पत्तिकारणं । घृतेन ज्वालाभिवृद्धिदर्शनात् । अतोऽयमग्निः 'घृते श्रितः' घृतं आश्रित्य अवस्थितः । 'घृतं', एव 'अस्य', अग्नेः 'धाम' स्थानं, तेजोहेतुर्वा । हे अग्ने 'अनुष्वधं' स्वधामनु अस्मदीयं हविः- स्वरूपमनुसृत्य 'आवह' देवान् अत्रानय, आनीय च 'मादयस्व' हृष्टान् कुरु । हे 'वृषभ' श्रेष्ठ, 'स्वाहाकृतं' स्वाहाकारेण अस्मा- भिर्दत्तं 'हव्यं', 'वक्षि' वह, देवान् प्रापय ॥
पञ्चदशीमृचमाह । ^(१५)"समुद्रादूर्मिः ॰ अमृतस्य नाभिः"^(१५) इति । 'समुद्र'वदतिप्रभूतात् परमात्मनः 'ऊर्मि'शद्दृशो जड-
८१२ तैत्तिरीये आरण्यके
सम॑ममृत॒त्वमा॑नट् । घृ॒तस्य॒ नाम॒ गुह्यं॒ यदस्ति॑ जि॒ह्वा दे॒वाना॑म॒मृत॑स्य॒ नाभि॑:।(१५)। ।(१६)व॒यं नाम॒ प्रब्र॑वामा
प्रपञ्चः 'मधुमान्' भोग्यत्वेन माधुर्य्ययुक्तः, 'उदारत्' उदगच्छत्, उत्पन्न इत्यर्थः । यथा लोके समुद्रात् तरङ्गा उत्पद्यन्ते । एवं हि चिदेकरसात् परमात्मनो जडं भोग्यजातं सर्वमुत्पन्नं । घृतुरणदीप्त्योरिति धातोरुत्पन्नो घृतशब्दः। 'घृतं' दीप्तं, स्वप्रकाशं ब्रह्मेत्यर्थः। तस्य ब्रह्मणो यत् 'नाम' प्रणवरूपं, 'गुह्यं' सर्ववेदेषु गोप्यमस्ति । तथा च कठैराम्नातं । “सर्वे वेदा यत्पदमामनन्तीति प्रस्तुत्य तत्ते पदं सङ्ग्रहेण ब्रवीमि ओमित्येतत्” इति । तेन प्रणवरूपेण 'उपांशुना' ध्यानकाले शनैरुच्चार्य्यमाणेन, 'अमृतत्वं' उत्पत्तिविनाशरहितं ब्रह्मतत्त्वं, 'समानट्' सम्यगानशे, प्राप्नोतीत्यर्थः । तच्च प्रणवाख्यं नाम 'देवानां जिह्वा' देवैः ध्यानपरैः निरन्तरं उच्चार्य्यमाणत्वेन जिह्वेव सर्वदा मुखमध्ये वर्त्तते । किञ्चेदं प्रणवरूपं नाम 'अमृतस्य' विनाशरहितस्य मोक्षस्य, 'नाभिः' रथचक्रस्य नाभिरिवाश्रयभूतं । अनेन हि मुक्तिरूपं फलं प्राप्यते । अतएव कठैराम्नातं । “एतदेवाक्षरं ज्ञात्वा यो यदिच्छति तस्य तत्” इति । एतस्यामृचि प्रणवस्य मोक्षसाधनत्वमुक्तं ॥
षोडशीमृचमाह । (१६)“वयं नाम ॰ श्रवमोङ्गार एतत्”(१६) इति । 'वयं' ज्ञानार्थिनः पुरुषाः, 'अस्मिन्' ज्ञान'यज्ञे', 'घृतेन' दीप्तेन स्वप्रकाशेन ब्रह्मणा निमित्तभूतेन, प्रणवरूपं 'नाम',
१० प्रपाठके १० अनुवाकः । ८१३
घृ॒तेना॒स्मिन् य॒ज्ञे धा॑रयामा॒ नमो॑भिः । उप॑ ब्र॒ह्मा शृ॑- णवच्छ॒स्यमा॑नं॒ चतु॑ःशृङ्गोऽवमीद्गौ॒र ए॒तत्^(१६) । ^(१७)च॒- त्वारि॒ शृङ्गा॒ त्रयो॑ अस्य॒ पादा॒ द्वे शीर्षे स॒प्त हस्ता॑सो
'प्रब्रवाम' सर्वदा ध्यायन्त उच्चारयाम । ततः 'नमोभिः' नम- स्कारैर्युक्ता वयं, चित्ते ब्रह्मतत्त्वं सर्वदा 'धारयाम' । ज्ञानस्य यज्ञत्वं भगवतोक्तम् । “स्वाध्यायज्ञानयज्ञाश्च यतयः संशितव्रताः” इति । 'शस्यमानं' अस्माभिः प्रणवेन स्तूयमानं, 'उपशृण्वत्' पार्श्ववर्त्तिभिस्तत्त्ववेदिभिः स्तूयमानं, 'एतत्' ब्रह्मतत्त्वं, 'चतुः- शृङ्गः' अकारोकारमकारनादरूपशृङ्गचतुष्टयोपेतः, 'गौरः' श्वेतः प्रणवाख्य ऋषभः, 'अवमीत्' वान्तवान्, ब्रह्मतत्त्वं प्रत्यपादयदित्यर्थः। अकारादीनां प्रणवमात्राणां शृङ्गत्वमुत्तरतापनीये श्रुतं । “शृङ्गे- ष्वष्टशृङ्गं संयोज्य” इति । निष्कामैरनुष्ठेयत्वेन निर्मलत्वात् प्रणवस्य गौरत्वं वृषभरूपत्वञ्च संहितोपनिषद्याम्नातं । “यश्छन्दसामृ- षभो विश्वरूपः” इत्येवमनेन प्रतिपादनमुपलक्ष्यते ॥
सप्तदशीमृचमाह । ^(१७)“चत्वारि शृङ्गाः ० मर्त्याँ आ- विवेश”^(१७) इति । 'शृङ्गाः' प्रणवस्य यान्यकारादीनि शृङ्गाणि, तानि 'चत्वारि' । 'अस्य' प्रणवप्रतिपाद्यत्वेन प्रणवरूपस्य ब्रह्मणः, 'त्रयः पादाः' पद्यते गम्यते ब्रह्मतत्त्वमेभिरिति पादाः, अध्यात्मं विश्वतैजसप्राज्ञाः। अधिदैवं विराड्ढिरण्यगर्भाव्याकृतानि । 'द्वे शीर्षे' उत्तमाङ्गस्थानीये चिदचिद्रूपे द्वे शक्ती । तथैव 'अस्य' ब्रह्मणः, भूर्वादयः 'सप्त' लोकाः, 'हस्तासः' हस्तस्थानीयाः ।
८१४ तैत्तिरीये आरण्यके
अ॒स्य । त्रि॒धा ब॒द्धो वृ॑ष॒भो रो॑रवीति म॒हो दे॒वो मर्त्या॑ꣳ आवि॒वेश॑⁽१७⁾ ॥ २ ॥
⁽१८⁾त्रि॒धा हि॒तं प॒णिभि॑र्गु॒ह्यमा॑नं॒ गवि॑ दे॒वासो॑ घृ॒तमन्व॑विन्दन् । इन्द्र॒ एकं॒ सूर्य॑ एकं॑ जजान वे॒नादेकं॑ꣳ
'त्रिधा बद्धः' अकारोकारमकारेषु विश्वतैजसप्राज्ञैर्विराड्ढिरण्य- गर्भाव्याकृतैश्च त्रिःप्रकारेण सम्बद्धः, 'वृषभः' प्रणवः, 'महः' तेजोरूपं ब्रह्मतत्त्वं, 'रौरवीति' अतिशयेन प्रतिपादयति । तदेव प्रतिपाद्यं स्पष्टीक्रियते । 'देवः' परमेश्वरः, 'मर्त्यान्' मनुष्यदेहान्, 'आविवेश' सर्वतः प्रविष्टः । "स एष इह प्रविष्ट आनखाग्रेभ्यः" इति श्रुत्यन्तरात् ॥
अष्टादशीमृचमाह । ⁽१८⁾"त्रिधा हितं ० निष्टतक्षुः"⁽१८⁾ इति । 'त्रिधा हितं' शरीरे विश्वतैजसप्राज्ञाख्येन त्रिप्रकारेण ब्रह्माण्डे विराड्ढिरण्यगर्भाव्याकृताख्येन च त्रिःप्रकारेणावस्थितं । 'घृतं' दीप्तं स्वप्रकाशं ब्रह्मतत्त्वं, 'देवासः' देववत् सात्विका अन्तर्मुखाः पुरुषाः, 'गवि'वाचि, तत्त्वमस्यादिवेदरूपायां, 'अन्वविन्दन्' अनुक्रमेण लब्धवन्तः । कीदृशं घृतं, 'पणिभिर्गुह्यमानं' पणव्यवहारे स्तुतौ चेति धातुः । पणिभिः स्तोतृभिः उपदेष्टृभिराचार्यैः परमरहस्यत्वेन गोप्यमानं । त्रिधा हितं इत्येतदेव विविच्यते । 'इन्द्रः' परमैश्वर्य- युक्तो विराट् पुरुषः, 'एकं' जागरणरूपं, 'जजान' उत्पादितवान् । 'सूर्य'शब्दस्तेजसमखिलेन हिरण्यगर्भमुपलक्षयति । स च हिरण्य- गर्भः 'एकं' स्वप्नरूपं, 'जजान' । वेनेति धातुः कान्तिकर्मा । 'वेनात्'
१० प्रपाठके १० अनुवाकः। ८१५
स्व॒धया॒ निष्ट॑तक्षुः॥^{(१८)}\। ^{(१९)}यो दे॒वानां॑ प्रथ॒मं पु॒रस्ता॒द्विश्वा॑- धिको॑* रु॒द्रो म॒हर्षिः॑। हि॒र॒ण्य॒गर्भं॑ प॑श्यत॒ जाय॑मान॒ꣳ स नो॑ दे॒वः शु॒भया॒ स्मृत्या॒ संयु॑नक्तु^{(१९)}। ^{(२०)}यस्मा॒त् परं॑
सर्वदुःखरहित्येन कमनीयादव्याकृतात् एकं सुषुप्तरूपं निष्पन्न- मिति शेषः। स्वस्मिन्नेव धीयतेऽवस्थाप्यत इत्याश्रयान्तररहिता ब्रह्मरूपा चित् स्वधाशब्देनोच्यते। "स भगवः कस्मिन् प्रति- ष्ठित इति स्वे महिम्नि" इति श्रुत्यन्तरात्। तया 'स्वधया' ब्रह्म- रूपया चिता, पूर्वोक्ता इन्द्रसूर्य्येन्दवः 'निष्टतक्षुः' जागरणादिकं निष्पादितवन्तः। एताभ्यां द्वाभ्यां ऋग्भ्यां प्रणवतत्प्रतिपाद्यार्थौ प्रपञ्चितौ॥
एकोनविंशोमृचमाह। ^{(१९)}"यो देवानां ० स्मृत्या संयु- नक्तु"^{(१९)} इति। 'यः' देवः, 'हिरण्यगर्भं', 'पश्यत' साक्षात्क- रोति। कीदृशं हिरण्यगर्भं, 'देवानां प्रथमं' अग्नीन्द्रादीनां मध्ये आदिभूतं, 'पुरस्तात् जायमानं' अग्नीन्द्राद्युत्पत्तेः पूर्वमेवोत्पद्य- मानं। अनेन प्राथम्यं स्पष्टीकृतं। कीदृशो देवः, 'विश्वाधिकः' विश्वस्य जगतः कारणत्वेन तस्मादधिकः, 'रुद्रः' रुत्, वैदिकः शब्दः, तं द्रवति प्राप्नोति, वेदप्रतिपाद्य इत्यर्थः। 'महर्षिः' ऋषीणां अतीन्द्रियद्रष्टृणां मध्ये महान्, "यः सर्वज्ञः सर्ववित्" इत्यादिश्रुतिप्रतिपाद्य इत्यर्थः। 'स देवः' तादृशः परमेश्वरः, 'नः' अस्मान्, 'शुभया स्मृत्या' सर्वसंसारनिवर्त्तकत्वेन शोभनया
* विश्वाधिय इति B, J, N, O चिह्नितपुस्तकपाठः।
5 u
८१६ तैत्तिरीये आरण्यके
नाप॑रम॒स्ति किञ्चि॒द्यस्मा॒न्नाणी॑यो॒ न ज्यायो॑ऽस्ति॒ क- श्चि॑त् । वृ॒क्ष इ॑व स्तब्धो दि॒वि ति॑ष्ठ॒त्येक॒स्तेने॒दं पूर्णं॑ पुरु॑षेण॒ सर्व॑म् ॥(२०)। (२१)न कर्म॑णा॒ न प्र॒जया॒ धने॑न॒ त्यागे॑नैके
ब्रह्मतत्त्वानुस्मृत्या, 'संयुनक्तु' संयुक्तान् करोतु । सोऽयं मन्त्रो ब्रह्मविद्यालब्धये जपितव्यमिति मन्त्रलिङ्गादवगम्यते ॥
विंशीमृचमाह । (२०)“यस्मात् परं ० पुरुषेण सर्वं”(२०) इति । यदुक्तं शुभया स्मृत्या संयुनक्तु इति तत्र स्मरणीयं तत्त्व- मत्र निर्दिश्यते । 'यस्मात्' ब्रह्मतत्त्वात्, 'परं' उत्कृष्टं, 'अपरं' निकृष्टं वा वस्तु, 'किञ्चित्', अपि 'नास्ति' । 'यस्माद्' ब्रह्मतत्त्वात्, 'अणीयः' अत्यल्पं वस्तु, 'नास्ति' । तथा 'ज्यायः' अधिकमपि, 'कश्चित्' किञ्चिदपि वस्तु, 'नास्ति' । परापरशब्दाभ्यां गुणो- त्कर्षनिकर्षौ विवक्षितौ । ज्यायोणीयःशब्दाभ्यां परिमाणोत्कर्षा- पकर्षौ । सर्वप्रकारोत्कर्षापकर्षनिषेधेनाद्वितीयत्वं सिध्यति । यथा लोके 'वृक्षः' गमनागमनरहितः, एकत्रैव स्तब्धः, अवतिष्ठते, तद्व- दयमद्वितीयः 'एकः' परमेश्वरः, 'स्तब्धः' निर्विकारः, 'दिवि' द्योतनात्मके स्वप्रकाशस्वरूपे, 'तिष्ठति' । 'तेन पुरुषेण' पूर्णेन* चिदेकरसेन परमात्मना, 'सर्वमिदं' जगत्, 'पूर्णं', जगदाकारो नास्ति ब्रह्मतत्त्वमेवावस्थितमित्यर्थः ॥
एकविंशोमृचमाह । (२१)न कर्मणा ० यतयो विशन्ति”(२१) इति । यथोक्तब्रह्मतत्त्वानुस्मरणस्यान्तरङ्गं सर्वत्यागरूपं साधन-
* पुरुषेणेति F चिह्नितपुस्तकपाठः ।
१० प्रपाठके १० अनुवाकः। ८१७
अ॒मृ॒त॒त्वमा॑न॒शुः। परे॑ण॒ नाकं॒ निहि॑तं॒ गुहा॑यां वि॒भ्राज॑ते॒ यद्यत॑यो॒ विश॑न्ति॑(२१)। ⁽२२⁾वेदान्त॑वि॒ज्ञानसुनि॑-
मत्रोच्यते। अग्निहोत्रादिकं सहस्रसंवत्सरसत्रान्तं यत् कर्म तेन 'कर्मणा', तत् 'अमृतत्वं', 'न', लभ्यते। "प्रजया पितृभ्यः" इति श्रुतेः, पितृविषयात् ऋणात् विमोचनहेतुर्या पुत्रादिरूपा प्रजा, तयापि 'अमृतत्वं' 'न', लभ्यते। "दाने सर्वं प्रतिष्ठितं तस्मात् दानं परमं वदन्ति" इति श्रुतेः। धनदानस्य बहुविधफलसाधन- त्वावगमाच्च † दानस्य निष्पादकं यद्धनमस्ति तेन 'धनेन', अपि 'अमृतत्वं', 'न', लभ्यते। किंन्तर्हि कर्मप्रजाधनादीनां सर्वेषां लौकिकवैदिकव्यापाराणां 'त्यागेन', 'एके' केचिदेवान्तर्मुखाः 'अमृतत्वं', 'आनशुः' प्राप्नुवन्ति । 'यत्' अमृतत्वं, 'यतयः' इन्द्रिय- नियमनशीलाः, 'विशन्ति' प्राप्नुवन्ति । तत् अमृतत्वं, 'नाकं' 'परेण' स्वर्गादप्युत्कृष्टं सत्, 'गुहायां' स्वकीयबुद्धावविकाशायां, 'निहितं' अवस्थितं सत्, 'विभ्राजते' विशेषेण दीप्यते, अन्तर्मुखै- रनुभूयत इत्यर्थः॥
द्वाविंशीमृचमाह । (२२)“वेदान्तविज्ञानसुनिश्चितार्थाः ' परिमुच्यन्ति सर्वे”(२२) इति। पूर्वस्यामृचि त्यागस्य मोक्षसाधन- त्वमुक्तं। अन्यत्र “तरति शोकमात्मवित्”। “ज्ञानादेव तु कैवल्यं प्राप्यते। येन मुच्यते” इत्यादि श्रुतिस्मृतिषु ज्ञानस्यैव मोक्षहेतु-
* विभ्राजदेतद्यतय इति B, J, N चिह्नितपुस्तकपाठः।
† साधनत्वावगम्यत्वेनेति F चिह्नितपुस्तकपाठः।
5 G 2
८१८ तैत्तिरीये आरण्यके
श्चितार्थाः संन्यासयोगाद्यतयः शुद्धसत्त्वाः । ते ब्रह्म- लोके तु परान्तकाले परामृतात् परिमुच्यन्ति सर्वे^(२२) ।
लमुच्यते । अतोऽस्यामृचि विरोधपरिहाराय ज्ञानसन्न्यासयो- र्मोक्षे पृथगुपयोग उच्यते । वेदान्ताः, उपनिषद्वाक्यानि, तै- रुत्पन्नं सर्वसंसारनिवर्त्तकत्वेन विशिष्टं ज्ञानं यदस्ति तेन नि- श्चितः, जीवब्रह्मैक्यलक्षणोऽर्थः, यैः पुरुषैः ते 'वेदान्तविज्ञान- सुनिश्चितार्थाः' । 'सन्न्यासयोगात्' सन्न्यासः, पूर्वोक्तः प्रजादि- त्यागः, तत्पूर्वको योगः, प्रमाणविपर्ययविकल्पनिद्रास्मृतिरूपाणां पञ्चानां चित्तवृत्तीनां निरोधो योगः, "योगश्चित्तवृत्तिनि- रोधः" इति पतञ्जलिना सूचितत्वात् तस्माद् योगात् । 'शुद्ध- सत्त्वाः' विषयभोगव्यावृत्तचित्ताः । अतएव 'यतयः' नियमनशी- लाः । तेन ज्ञानं तत्त्वप्रकाशनेन अविद्यानिवर्त्तकं । त्यागस्तु विषयभोगनिवृत्तिद्वारा चित्तशुद्धिहेतुरिति पृथगुपयोग उक्तो भवति । ब्रह्मणः, लोकः, दर्शनं साक्षात्कारः, तस्मिन्, उत्पन्ने सति संसारिविलक्षणाः, 'ते' पुरुषाः । वैलक्षण्यद्योतनार्थः 'तु'शब्दः । तादृशाः पुरुषाः 'सर्वे', 'परिमुच्यन्ति' । ज्ञानिषु देवमनुष्य- त्वादिकृत उत्तमानुत्तमभावोऽप्रयोजक* इति विवक्षया सर्व इत्युक्तं । कदा मुचन्त इत्याशङ्क्य परान्तकाल इत्युक्तं । सत्य- ज्ञाने यो देहपातावसरः सोऽयं अपरान्तकालः । पुनर्देहस्य विद्यमानत्वात् । नष्टे त्वज्ञाने यो देहपातावसरः सोऽयं परा-
* उत्तमाधमभावोऽप्रयोजन इति F चिह्नितपुस्तकपाठः ।
१० प्रपाठके १० अनुवाकः । ८१६
(२९)द॒हरं॑* वि॒पा॒प्मं॒ वर॑वेश्मभूतं॑† यत्पु॑ण्डरी॒कं पु॑रम॑ध्य- सꣳस्थ॑म् । त॒त्रापि॑ द॒ह्रे‡ ग॒गनं॑ विशो॒कस्तस्मि॑न् यद॒न्त-
न्तकालः, पुनर्देहग्रहणरहितत्वात् । तस्मिन् ‘परान्तकाले’, सं- सारबन्धान्मुच्यन्ते । नन्वज्ञानिनोऽपि प्रलयकाले स्थूलसूक्ष्म- शरीरद्वयलक्षणाद्§ बन्धान्मुच्यन्त एवेत्याशङ्क्य परामृतादित्युक्तं । जगत्कारणत्वेनोत्कृष्टं परं । तत्त्वज्ञानमन्तरेण विनाशरहितत्वाद- मृतत्वं । तादृशात् ‘परामृतात्’ अव्याकृतात्, अज्ञानिनः प्रलय- कालेऽपि न मुच्यन्ते । ज्ञानिनस्तु देहपातावसर एव तादृ- शादव्याकृतादपि मुच्यन्त इति विशेषः ॥
त्रयोविंशीमृचमाह । (२९)‘‘दहरं विपापं ० यदन्तस्तदुपा- सितव्यं’’(२९) । तत्त्वं ज्ञातुमसमर्थस्यात्रोपासनमुच्यते । ‘यत्’, एतत् ‘पुण्डरीकं’ अष्टदलं हृदयकमलं, अस्ति । कीदृशं, ‘दहरं’ अल्पं, अङ्गुष्ठमात्रपरिमितत्वात् । ‘विपाप्मं’ चित्तैकाग्र्यस्थानत्वेन पापरहितं, ‘वरवेश्मभूतं’ वरस्य श्रेष्ठस्य परमात्मनः उपलब्धि- स्थानत्वेनोपासिस्थानत्वेन च गृहरूपं । ‘पुरमध्यक्षसंस्थं’ हस्तपा-
* दक्ष्रं इति J, N चिह्नितपुस्तकपाठः ।
† परमेश्म इति B, J, N चिह्नितपुस्तकपाठः । परवेश्म इति O, चिह्नितपुस्तकपाठः ।
‡ दक्ष्रे इति B, J, N चिह्नितपुस्तकधृतपुस्तकपाठः । दहरं इति O चिह्नितपुस्तकपाठः । दहरे इति F चिह्नितपुस्तकधृतपाठान्तर-टीकासम्मतः पाठः ।
§ स्थूलसूक्ष्मद्वयशरीरलक्षणादिति F चिह्नितपुस्तकपाठः ।
८२० तैत्तिरीये आरण्यके
स्तदु॒पासि॑त॒व्यं(२२) । ^{(२४)}यो वे॒दादा॑ स्व॒रः प्रो॒क्तो वे॒दान्ते॑ च॒ प्रति॑ष्ठितः । तस्य॑ प्र॒कृति॑लीन॒स्य॒ यः प॑रः॒ स म॒हे- श्व॑रः^{(२४)} ॥ ३ ॥
दादिभिः सर्वैरवयवैः पूर्यत इति पुरं, तस्य मध्ये कुक्ष्युरसो- रन्तरावलितं, 'तत्रापि' तस्मिन्नपि पुण्डरीके, 'दभ्रे' अल्पप्रदेशे, 'गगनं' आकाशवदमूर्त्तं ब्रह्मरूपं, अस्ति*, ब्रह्मणः सर्वगतत्वेऽपि घटाकाशवत् पुण्डरीकस्थानापेक्षयाल्पत्वमुपचर्यते । तथा च श्रुत्यन्तरं । “अथ यदिदमस्मिन् ब्रह्मपुरे दभ्रं पुण्डरीकं वेश्म दहरोऽस्मिन्नन्तराकाशः” इति । दहराकाशस्य च ब्रह्मत्वं दह- राधिकरणे निर्णीतं । अतएव 'विशोकं' शोकरहितं गगन- शब्दवाच्यं ब्रह्म । एवं सति 'तस्मिन्' पुण्डरीके, 'अन्तः' मध्ये, 'यद्' ब्रह्मतत्त्वं, अस्ति, 'तत्', 'उपासितव्यं' विजातीयप्रत्यय- रहितेन सजातीयप्रत्ययप्रवाहेण चिन्तनीयं ॥
चतुर्विंशीमृचमाह । ^{(२४)}“यो वेदादौ ॰ स महेश्वरः”^{(२४)} इति । 'वेदानां अग्निमीले पुरोहितं, इषे त्वोर्जे त्वेत्यादीनां आदिः, उपक्रमः, तस्मिन्नुपक्रमे 'यः' 'स्वरः' यो वर्णः, प्रणव- रूपोऽस्ति स च स्वरः, प्रणवः, 'वेदान्ते च' उपनिषदि,
* 'शुद्धं', शरीरदोषैरपरामृष्टत्वात् । 'परस्यात्मनः, 'वेश्मभूतं' गृहभूतं, सर्वदा तत्रोपलभ्यमानत्वात् । 'पुरस्य शरीरस्य, मध्ये संस्थितं, राज्ञ इव पुरमध्ये प्रासादः । 'तत्रापि', 'दह्रं' पुण्डरीके, 'दहरं' सूक्ष्मं, 'गगनं' आकाशवदमूर्त्तं ब्रह्मरूपं, अस्ति । इति F चिह्नितपु- स्तकधृतपाठान्तरम् ।
१० प्रपाठके ११ अनुवाकः। ८२१
अ॒जोऽन्यः(१) आवि॑वेश॒(२) सर्वै॑, च॒त्वारि (३) च ॥ अनु० १० ॥
अथ एकादशोऽनुवाकः ।
$^{(१)}$सह॑स्रशीर्षं* दे॒वं वि॒श्वाक्षं॑ वि॒श्वश॑म्भुवम् । विश्वं॑ ना-
ओमित्येतदक्षरमिदं सर्वमित्यादिकायां, 'प्रतिष्ठितः' प्रतिपादितः, स च स्वरः प्रणवः ध्यानकाले प्रकृतावव्याकृते जगत्कारणे लीनो भवति । अकारोकारमकारेषु विराड्ढिरण्यगर्भाव्याकृतानि ध्यात्वा विराड्रूपमकारमुकारे प्रविलाप्य तं चोकारं हिरण्यगर्भरूपं मूलप्रकृतिरूपे मकारे प्रविलापयेत् । 'तस्य', च 'प्रकृतौ 'लीनस्य प्रणवस्य 'यः परः' चतुर्थमात्रारूपेण नादे ध्यातव्य उत्कृष्टः, अस्ति । 'सः', अयं 'महेश्वरः', विज्ञेयः । अनेन मन्त्रेण पूर्वोक्तगगनशब्दवाच्यवस्तु प्रपञ्चितं ॥
इति सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे यजुरारण्यके दशमप्रपाठके नारायणीयापरनामधेययुक्तायां याज्ञिक्यामुपनिषदि दशमोऽनुवाकः ॥
अथ एकादशोऽनुवाकः ।
पूर्वानुवाकान्ते हृदयपुण्डरीके उपास्यं यन्महेश्वरस्वरूपं नि-
* सहस्रशोऋषमिति J चिह्नितपुस्तकपाठः ।
८२२ तैत्तिरीये आरण्यके
रायणं देव॒मक्ष॑रं पर॒मं प्रभु॑म्*(१) । ^{(२)}विश्वतः॑ पर॒मन्नि॒त्यं^{\dagger}
र्दिष्टं तस्मिन्नुपास्यगुणविशेषा अस्मिन्ननुवाके विशेषेण^{\ddagger} प्रदर्श्यन्ते । तत्र प्रथमामृचमाह । ^{(१)}“सहस्रशीर्षं ० परमं प्रभुं”^{(१)} इति । ‘देवं’ पूर्वोक्तं महेश्वरं, ध्यायेदिति शेषः । कीदृशं देवं, ‘सहस्रशीर्षं’ सहस्रशब्देनापरिमितमुपलक्ष्यते । अनन्तशिरस्कं, इत्यर्थः । सर्वजगदात्मकं विराड्रूपं महेश्वरस्य देहः । तथा सति अस्मदादिशिरांसि सर्वाण्यपि तदीयान्येवेत्यनन्तशिरस्त्वं । अनेनैव न्यायेन विश्वानि सर्वाण्यस्मदीयानि अक्षाणि इन्द्रियाणि तदीयान्येवेति ‘विश्वाक्षं’ । विश्वस्य सर्वस्य जगतः शं, सुखं, अस्माद्भवतीति ‘विश्वशम्भुः’, तादृशं। उक्ते सहस्रशीर्षे विराड्रूपे देहे अवस्थितस्य महेश्वरस्य निजस्वरूपं द्वितीयार्धेनोच्यते । ‘विश्वं’ जगदात्मकं, अतोऽपि तस्य जगतोऽधिष्ठानव्यतिरेकेण वास्तवरूपाभावात् नारायणशब्दस्य निर्वचनं । “आपो नारा इति प्रोक्ता आपो वै नरसूनवः। अयनं तस्य ताः प्रोक्तास्तेन नारायणः स्मृतः” इति । जगत्कारणेषु पञ्चभूतेषु अवस्थितमित्यर्थः । यद्वा, प्रकृतेः परः । तस्माज्जातानि यानि तानि नारशब्देनोच्यन्ते । तान्येतान्येव अयनं स्थानं यस्य स ‘नारायणः’। स एवेन्द्रमित्रादिरूपेणावस्थितत्वात् ‘देवः’, इत्युच्यते । तथा च
* परमं पदमिति B, J, N, O चिह्नितपुस्तकपाठः ।
\dagger परमाग्नित्यमिति B, J, N, O चिह्नितपुस्तकपाठः । परन्तु भाष्यासम्मतः ।
\ddagger विस्तरेण इति F चिह्नितपुस्तकपाठः ।
१० प्रपाठके ११ अनुवाकः । ८२५
वि॒श्वं ना॒राय॒णꣳ ह॑रिं । वि॒श्वमे॒वेदं पुरु॑ष॒स्तद्विश्व॒मुप॑जीवति^(२) । ^(३)पतिं॒ विश्व॑स्या॒त्मेश्व॑रꣳ शाश्व॑तꣳ शि॒वम॑च्युतं । ना॒राय॒णं म॑हाज्ञे॒यं॒ वि॒श्वात्मा॑नं प॒राय॑णं^(३) ।
शाखान्तरे मन्त्र आम्नातः । “इन्द्रं॑ मि॒त्रं वरु॑णम॒ग्निमा॑हुः” इति । “न चरत्यचरं श्रुतः” इति वा, तस्याचरत्वं । कारणत्वेनोत्कर्षात् परत्वं । नियन्तुं समर्थत्वात् प्रभुत्वं ॥
द्वितीयामृचमाह । ^(२)“विश्वतः परं ० तद्विश्वमुपजीवति”^(२) । ‘विश्वतः’ जगतः जडवर्गात्, ‘परं’ उत्कृष्टं, ऋग्भेदेन पुनरुक्तिपरिहारो द्रष्टव्यः । स्तुतिरूपत्वादेनेन रूपेण ध्यातव्यत्वाच्च नास्ति पुनरुक्तिदोषः । विनाशरहितत्वान्नित्यत्वं । सर्वात्मकत्वादिश्वत्वं । नारायणत्वं पूर्वमेवोक्तं । पापस्य अज्ञानस्य च हरणाद्धरित्वं । यत् ‘इदं विश्वं’, इदानीं अज्ञानदृष्ट्या प्रदृश्यते तत् सर्वं वस्तु तत्त्वदृष्ट्या ‘पुरुषः’ परमात्मा ‘एव’ । स च परमात्मा ‘तद्विश्वं’, ‘उपजीवति’ स्वस्य व्यवहारार्थं आश्रयति ॥
तृतीयामृचमाह । ^(३)“पतिं विश्वस्य ० विश्वात्मानं परायणं”^(३) इति । ‘विश्वस्य’ जगतः, पालकत्वात् ‘पतिं’ । ‘आत्मनां’ जीवानां, नियामकत्वात् ‘ईश्वरं’ नियन्तारं । निरन्तरं वर्त्तमानत्वात् ‘शाश्वतं’ । परममङ्गलत्वात् ‘शिवं’ । न च्यवत इति ‘अच्युतं’ । नारायणत्वं पूर्वमुक्तं । ज्ञेयेषु तत्त्वेषु मध्ये प्रौढत्वात् ‘महाज्ञेयं’ । जगदुपादानत्वेन तदभेदात् ‘विश्वात्मत्वं’ । उत्कृष्टाधारत्वात्* ‘परायणत्वं’ । सर्वमप्यारोपितं जगदधिष्ठाने वर्त्तते ॥
* उत्कृष्टाधारकत्वमिति l' चिह्नितपुस्तकपाठः ।
5 II