भारतकोश
संग्रह पर लौटें

तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)

Taittiriya Aranyaka Hindi

महर्षि वैशम्पायन द्वारा

स्रोत: Taittiriya Aranyaka with Sayana Bhashya and Hindi Translation (उद्गम)

DevanagariHindipublished940 पृष्ठ

८१४ तैत्तिरीये आरण्यके

अ॒स्य । त्रि॒धा ब॒द्धो वृ॑ष॒भो रो॑रवीति म॒हो दे॒वो मर्त्या॑ꣳ आवि॒वेश॑⁽१७⁾ ॥ २ ॥

⁽१८⁾त्रि॒धा हि॒तं प॒णिभि॑र्गु॒ह्यमा॑नं॒ गवि॑ दे॒वासो॑ घृ॒तमन्व॑विन्दन् । इन्द्र॒ एकं॒ सूर्य॑ एकं॑ जजान वे॒नादेकं॑ꣳ


'त्रिधा बद्धः' अकारोकारमकारेषु विश्वतैजसप्राज्ञैर्विराड्ढिरण्य- गर्भाव्याकृतैश्च त्रिःप्रकारेण सम्बद्धः, 'वृषभः' प्रणवः, 'महः' तेजोरूपं ब्रह्मतत्त्वं, 'रौरवीति' अतिशयेन प्रतिपादयति । तदेव प्रतिपाद्यं स्पष्टीक्रियते । 'देवः' परमेश्वरः, 'मर्त्यान्' मनुष्यदेहान्, 'आविवेश' सर्वतः प्रविष्टः । "स एष इह प्रविष्ट आनखाग्रेभ्यः" इति श्रुत्यन्तरात् ॥

अष्टादशीमृचमाह । ⁽१८⁾"त्रिधा हितं ० निष्टतक्षुः"⁽१८⁾ इति । 'त्रिधा हितं' शरीरे विश्वतैजसप्राज्ञाख्येन त्रिप्रकारेण ब्रह्माण्डे विराड्ढिरण्यगर्भाव्याकृताख्येन च त्रिःप्रकारेणावस्थितं । 'घृतं' दीप्तं स्वप्रकाशं ब्रह्मतत्त्वं, 'देवासः' देववत् सात्विका अन्तर्मुखाः पुरुषाः, 'गवि'वाचि, तत्त्वमस्यादिवेदरूपायां, 'अन्वविन्दन्' अनुक्रमेण लब्धवन्तः । कीदृशं घृतं, 'पणिभिर्गुह्यमानं' पणव्यवहारे स्तुतौ चेति धातुः । पणिभिः स्तोतृभिः उपदेष्टृभिराचार्यैः परमरहस्यत्वेन गोप्यमानं । त्रिधा हितं इत्येतदेव विविच्यते । 'इन्द्रः' परमैश्वर्य- युक्तो विराट् पुरुषः, 'एकं' जागरणरूपं, 'जजान' उत्पादितवान् । 'सूर्य'शब्दस्तेजसमखिलेन हिरण्यगर्भमुपलक्षयति । स च हिरण्य- गर्भः 'एकं' स्वप्नरूपं, 'जजान' । वेनेति धातुः कान्तिकर्मा । 'वेनात्'

१० प्रपाठके १० अनुवाकः। ८१५

स्व॒धया॒ निष्ट॑तक्षुः॥^{(१८)}\। ^{(१९)}यो दे॒वानां॑ प्रथ॒मं पु॒रस्ता॒द्विश्वा॑- धिको॑* रु॒द्रो म॒हर्षिः॑। हि॒र॒ण्य॒गर्भं॑ प॑श्यत॒ जाय॑मान॒ꣳ स नो॑ दे॒वः शु॒भया॒ स्मृत्या॒ संयु॑नक्तु^{(१९)}। ^{(२०)}यस्मा॒त् परं॑


सर्वदुःखरहित्येन कमनीयादव्याकृतात् एकं सुषुप्तरूपं निष्पन्न- मिति शेषः। स्वस्मिन्नेव धीयतेऽवस्थाप्यत इत्याश्रयान्तररहिता ब्रह्मरूपा चित् स्वधाशब्देनोच्यते। "स भगवः कस्मिन् प्रति- ष्ठित इति स्वे महिम्नि" इति श्रुत्यन्तरात्। तया 'स्वधया' ब्रह्म- रूपया चिता, पूर्वोक्ता इन्द्रसूर्य्येन्दवः 'निष्टतक्षुः' जागरणादिकं निष्पादितवन्तः। एताभ्यां द्वाभ्यां ऋग्भ्यां प्रणवतत्प्रतिपाद्यार्थौ प्रपञ्चितौ॥

एकोनविंशोमृचमाह। ^{(१९)}"यो देवानां ० स्मृत्या संयु- नक्तु"^{(१९)} इति। 'यः' देवः, 'हिरण्यगर्भं', 'पश्यत' साक्षात्क- रोति। कीदृशं हिरण्यगर्भं, 'देवानां प्रथमं' अग्नीन्द्रादीनां मध्ये आदिभूतं, 'पुरस्तात् जायमानं' अग्नीन्द्राद्युत्पत्तेः पूर्वमेवोत्पद्य- मानं। अनेन प्राथम्यं स्पष्टीकृतं। कीदृशो देवः, 'विश्वाधिकः' विश्वस्य जगतः कारणत्वेन तस्मादधिकः, 'रुद्रः' रुत्, वैदिकः शब्दः, तं द्रवति प्राप्नोति, वेदप्रतिपाद्य इत्यर्थः। 'महर्षिः' ऋषीणां अतीन्द्रियद्रष्टृणां मध्ये महान्, "यः सर्वज्ञः सर्ववित्" इत्यादिश्रुतिप्रतिपाद्य इत्यर्थः। 'स देवः' तादृशः परमेश्वरः, 'नः' अस्मान्, 'शुभया स्मृत्या' सर्वसंसारनिवर्त्तकत्वेन शोभनया


* विश्वाधिय इति B, J, N, O चिह्नितपुस्तकपाठः।
5 u

८१६ तैत्तिरीये आरण्यके

नाप॑रम॒स्ति किञ्चि॒द्यस्मा॒न्नाणी॑यो॒ न ज्यायो॑ऽस्ति॒ क- श्चि॑त् । वृ॒क्ष इ॑व स्तब्धो दि॒वि ति॑ष्ठ॒त्येक॒स्तेने॒दं पूर्णं॑ पुरु॑षेण॒ सर्व॑म् ॥(२०)। (२१)न कर्म॑णा॒ न प्र॒जया॒ धने॑न॒ त्यागे॑नैके

ब्रह्मतत्त्वानुस्मृत्या, 'संयुनक्तु' संयुक्तान् करोतु । सोऽयं मन्त्रो ब्रह्मविद्यालब्धये जपितव्यमिति मन्त्रलिङ्गादवगम्यते ॥

विंशीमृचमाह । (२०)“यस्मात् परं ० पुरुषेण सर्वं”(२०) इति । यदुक्तं शुभया स्मृत्या संयुनक्तु इति तत्र स्मरणीयं तत्त्व- मत्र निर्दिश्यते । 'यस्मात्' ब्रह्मतत्त्वात्, 'परं' उत्कृष्टं, 'अपरं' निकृष्टं वा वस्तु, 'किञ्चित्', अपि 'नास्ति' । 'यस्माद्' ब्रह्मतत्त्वात्, 'अणीयः' अत्यल्पं वस्तु, 'नास्ति' । तथा 'ज्यायः' अधिकमपि, 'कश्चित्' किञ्चिदपि वस्तु, 'नास्ति' । परापरशब्दाभ्यां गुणो- त्कर्षनिकर्षौ विवक्षितौ । ज्यायोणीयःशब्दाभ्यां परिमाणोत्कर्षा- पकर्षौ । सर्वप्रकारोत्कर्षापकर्षनिषेधेनाद्वितीयत्वं सिध्यति । यथा लोके 'वृक्षः' गमनागमनरहितः, एकत्रैव स्तब्धः, अवतिष्ठते, तद्व- दयमद्वितीयः 'एकः' परमेश्वरः, 'स्तब्धः' निर्विकारः, 'दिवि' द्योतनात्मके स्वप्रकाशस्वरूपे, 'तिष्ठति' । 'तेन पुरुषेण' पूर्णेन* चिदेकरसेन परमात्मना, 'सर्वमिदं' जगत्, 'पूर्णं', जगदाकारो नास्ति ब्रह्मतत्त्वमेवावस्थितमित्यर्थः ॥

एकविंशोमृचमाह । (२१)न कर्मणा ० यतयो विशन्ति”(२१) इति । यथोक्तब्रह्मतत्त्वानुस्मरणस्यान्तरङ्गं सर्वत्यागरूपं साधन-


* पुरुषेणेति F चिह्नितपुस्तकपाठः ।

१० प्रपाठके १० अनुवाकः। ८१७

अ॒मृ॒त॒त्वमा॑न॒शुः। परे॑ण॒ नाकं॒ निहि॑तं॒ गुहा॑यां वि॒भ्राज॑ते॒ यद्यत॑यो॒ विश॑न्ति॑(२१)। ⁽२२⁾वेदान्त॑वि॒ज्ञानसुनि॑-

मत्रोच्यते। अग्निहोत्रादिकं सहस्रसंवत्सरसत्रान्तं यत् कर्म तेन 'कर्मणा', तत् 'अमृतत्वं', 'न', लभ्यते। "प्रजया पितृभ्यः" इति श्रुतेः, पितृविषयात् ऋणात् विमोचनहेतुर्या पुत्रादिरूपा प्रजा, तयापि 'अमृतत्वं' 'न', लभ्यते। "दाने सर्वं प्रतिष्ठितं तस्मात् दानं परमं वदन्ति" इति श्रुतेः। धनदानस्य बहुविधफलसाधन- त्वावगमाच्च † दानस्य निष्पादकं यद्धनमस्ति तेन 'धनेन', अपि 'अमृतत्वं', 'न', लभ्यते। किंन्तर्हि कर्मप्रजाधनादीनां सर्वेषां लौकिकवैदिकव्यापाराणां 'त्यागेन', 'एके' केचिदेवान्तर्मुखाः 'अमृतत्वं', 'आनशुः' प्राप्नुवन्ति । 'यत्' अमृतत्वं, 'यतयः' इन्द्रिय- नियमनशीलाः, 'विशन्ति' प्राप्नुवन्ति । तत् अमृतत्वं, 'नाकं' 'परेण' स्वर्गादप्युत्कृष्टं सत्, 'गुहायां' स्वकीयबुद्धावविकाशायां, 'निहितं' अवस्थितं सत्, 'विभ्राजते' विशेषेण दीप्यते, अन्तर्मुखै- रनुभूयत इत्यर्थः॥

द्वाविंशीमृचमाह । (२२)“वेदान्तविज्ञानसुनिश्चितार्थाः ' परिमुच्यन्ति सर्वे”(२२) इति। पूर्वस्यामृचि त्यागस्य मोक्षसाधन- त्वमुक्तं। अन्यत्र “तरति शोकमात्मवित्”। “ज्ञानादेव तु कैवल्यं प्राप्यते। येन मुच्यते” इत्यादि श्रुतिस्मृतिषु ज्ञानस्यैव मोक्षहेतु-


* विभ्राजदेतद्यतय इति B, J, N चिह्नितपुस्तकपाठः।
† साधनत्वावगम्यत्वेनेति F चिह्नितपुस्तकपाठः।
5 G 2

८१८ तैत्तिरीये आरण्यके

श्चितार्थाः संन्यासयोगाद्यतयः शुद्धसत्त्वाः । ते ब्रह्म- लोके तु परान्तकाले परामृतात् परिमुच्यन्ति सर्वे^(२२) ।

लमुच्यते । अतोऽस्यामृचि विरोधपरिहाराय ज्ञानसन्न्यासयो- र्मोक्षे पृथगुपयोग उच्यते । वेदान्ताः, उपनिषद्वाक्यानि, तै- रुत्पन्नं सर्वसंसारनिवर्त्तकत्वेन विशिष्टं ज्ञानं यदस्ति तेन नि- श्चितः, जीवब्रह्मैक्यलक्षणोऽर्थः, यैः पुरुषैः ते 'वेदान्तविज्ञान- सुनिश्चितार्थाः' । 'सन्न्यासयोगात्' सन्न्यासः, पूर्वोक्तः प्रजादि- त्यागः, तत्पूर्वको योगः, प्रमाणविपर्ययविकल्पनिद्रास्मृतिरूपाणां पञ्चानां चित्तवृत्तीनां निरोधो योगः, "योगश्चित्तवृत्तिनि- रोधः" इति पतञ्जलिना सूचितत्वात् तस्माद् योगात् । 'शुद्ध- सत्त्वाः' विषयभोगव्यावृत्तचित्ताः । अतएव 'यतयः' नियमनशी- लाः । तेन ज्ञानं तत्त्वप्रकाशनेन अविद्यानिवर्त्तकं । त्यागस्तु विषयभोगनिवृत्तिद्वारा चित्तशुद्धिहेतुरिति पृथगुपयोग उक्तो भवति । ब्रह्मणः, लोकः, दर्शनं साक्षात्कारः, तस्मिन्, उत्पन्ने सति संसारिविलक्षणाः, 'ते' पुरुषाः । वैलक्षण्यद्योतनार्थः 'तु'शब्दः । तादृशाः पुरुषाः 'सर्वे', 'परिमुच्यन्ति' । ज्ञानिषु देवमनुष्य- त्वादिकृत उत्तमानुत्तमभावोऽप्रयोजक* इति विवक्षया सर्व इत्युक्तं । कदा मुचन्त इत्याशङ्क्य परान्तकाल इत्युक्तं । सत्य- ज्ञाने यो देहपातावसरः सोऽयं अपरान्तकालः । पुनर्देहस्य विद्यमानत्वात् । नष्टे त्वज्ञाने यो देहपातावसरः सोऽयं परा-


* उत्तमाधमभावोऽप्रयोजन इति F चिह्नितपुस्तकपाठः ।

१० प्रपाठके १० अनुवाकः । ८१६

(२९)द॒हरं॑* वि॒पा॒प्मं॒ वर॑वेश्मभूतं॑† यत्पु॑ण्डरी॒कं पु॑रम॑ध्य- सꣳस्थ॑म् । त॒त्रापि॑ द॒ह्रे‡ ग॒गनं॑ विशो॒कस्तस्मि॑न् यद॒न्त-


न्तकालः, पुनर्देहग्रहणरहितत्वात् । तस्मिन् ‘परान्तकाले’, सं- सारबन्धान्मुच्यन्ते । नन्वज्ञानिनोऽपि प्रलयकाले स्थूलसूक्ष्म- शरीरद्वयलक्षणाद्§ बन्धान्मुच्यन्त एवेत्याशङ्क्य परामृतादित्युक्तं । जगत्कारणत्वेनोत्कृष्टं परं । तत्त्वज्ञानमन्तरेण विनाशरहितत्वाद- मृतत्वं । तादृशात् ‘परामृतात्’ अव्याकृतात्, अज्ञानिनः प्रलय- कालेऽपि न मुच्यन्ते । ज्ञानिनस्तु देहपातावसर एव तादृ- शादव्याकृतादपि मुच्यन्त इति विशेषः ॥

त्रयोविंशीमृचमाह । (२९)‘‘दहरं विपापं ० यदन्तस्तदुपा- सितव्यं’’(२९) । तत्त्वं ज्ञातुमसमर्थस्यात्रोपासनमुच्यते । ‘यत्’, एतत् ‘पुण्डरीकं’ अष्टदलं हृदयकमलं, अस्ति । कीदृशं, ‘दहरं’ अल्पं, अङ्गुष्ठमात्रपरिमितत्वात् । ‘विपाप्मं’ चित्तैकाग्र्यस्थानत्वेन पापरहितं, ‘वरवेश्मभूतं’ वरस्य श्रेष्ठस्य परमात्मनः उपलब्धि- स्थानत्वेनोपासिस्थानत्वेन च गृहरूपं । ‘पुरमध्यक्षसंस्थं’ हस्तपा-


* दक्ष्रं इति J, N चिह्नितपुस्तकपाठः ।
† परमेश्म इति B, J, N चिह्नितपुस्तकपाठः । परवेश्म इति O, चिह्नितपुस्तकपाठः ।
‡ दक्ष्रे इति B, J, N चिह्नितपुस्तकधृतपुस्तकपाठः । दहरं इति O चिह्नितपुस्तकपाठः । दहरे इति F चिह्नितपुस्तकधृतपाठान्तर-टीकासम्मतः पाठः ।
§ स्थूलसूक्ष्मद्वयशरीरलक्षणादिति F चिह्नितपुस्तकपाठः ।

८२० तैत्तिरीये आरण्यके

स्तदु॒पासि॑त॒व्यं(२२) । ^{(२४)}यो वे॒दादा॑ स्व॒रः प्रो॒क्तो वे॒दान्ते॑ च॒ प्रति॑ष्ठितः । तस्य॑ प्र॒कृति॑लीन॒स्य॒ यः प॑रः॒ स म॒हे- श्व॑रः^{(२४)} ॥ ३ ॥


दादिभिः सर्वैरवयवैः पूर्यत इति पुरं, तस्य मध्ये कुक्ष्युरसो- रन्तरावलितं, 'तत्रापि' तस्मिन्नपि पुण्डरीके, 'दभ्रे' अल्पप्रदेशे, 'गगनं' आकाशवदमूर्त्तं ब्रह्मरूपं, अस्ति*, ब्रह्मणः सर्वगतत्वेऽपि घटाकाशवत् पुण्डरीकस्थानापेक्षयाल्पत्वमुपचर्यते । तथा च श्रुत्यन्तरं । “अथ यदिदमस्मिन् ब्रह्मपुरे दभ्रं पुण्डरीकं वेश्म दहरोऽस्मिन्नन्तराकाशः” इति । दहराकाशस्य च ब्रह्मत्वं दह- राधिकरणे निर्णीतं । अतएव 'विशोकं' शोकरहितं गगन- शब्दवाच्यं ब्रह्म । एवं सति 'तस्मिन्' पुण्डरीके, 'अन्तः' मध्ये, 'यद्' ब्रह्मतत्त्वं, अस्ति, 'तत्', 'उपासितव्यं' विजातीयप्रत्यय- रहितेन सजातीयप्रत्ययप्रवाहेण चिन्तनीयं ॥

चतुर्विंशीमृचमाह । ^{(२४)}“यो वेदादौ ॰ स महेश्वरः”^{(२४)} इति । 'वेदानां अग्निमीले पुरोहितं, इषे त्वोर्जे त्वेत्यादीनां आदिः, उपक्रमः, तस्मिन्नुपक्रमे 'यः' 'स्वरः' यो वर्णः, प्रणव- रूपोऽस्ति स च स्वरः, प्रणवः, 'वेदान्ते च' उपनिषदि,


* 'शुद्धं', शरीरदोषैरपरामृष्टत्वात् । 'परस्यात्मनः, 'वेश्मभूतं' गृहभूतं, सर्वदा तत्रोपलभ्यमानत्वात् । 'पुरस्य शरीरस्य, मध्ये संस्थितं, राज्ञ इव पुरमध्ये प्रासादः । 'तत्रापि', 'दह्रं' पुण्डरीके, 'दहरं' सूक्ष्मं, 'गगनं' आकाशवदमूर्त्तं ब्रह्मरूपं, अस्ति । इति F चिह्नितपु- स्तकधृतपाठान्तरम् ।

१० प्रपाठके ११ अनुवाकः। ८२१

अ॒जोऽन्यः(१) आवि॑वेश॒(२) सर्वै॑, च॒त्वारि (३) च ॥ अनु० १० ॥


अथ एकादशोऽनुवाकः ।

$^{(१)}$सह॑स्रशीर्षं* दे॒वं वि॒श्वाक्षं॑ वि॒श्वश॑म्भुवम् । विश्वं॑ ना-

ओमित्येतदक्षरमिदं सर्वमित्यादिकायां, 'प्रतिष्ठितः' प्रतिपादितः, स च स्वरः प्रणवः ध्यानकाले प्रकृतावव्याकृते जगत्कारणे लीनो भवति । अकारोकारमकारेषु विराड्ढिरण्यगर्भाव्याकृतानि ध्यात्वा विराड्रूपमकारमुकारे प्रविलाप्य तं चोकारं हिरण्यगर्भरूपं मूलप्रकृतिरूपे मकारे प्रविलापयेत् । 'तस्य', च 'प्रकृतौ 'लीनस्य प्रणवस्य 'यः परः' चतुर्थमात्रारूपेण नादे ध्यातव्य उत्कृष्टः, अस्ति । 'सः', अयं 'महेश्वरः', विज्ञेयः । अनेन मन्त्रेण पूर्वोक्तगगनशब्दवाच्यवस्तु प्रपञ्चितं ॥

इति सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे यजुरारण्यके दशमप्रपाठके नारायणीयापरनामधेययुक्तायां याज्ञिक्यामुपनिषदि दशमोऽनुवाकः ॥


अथ एकादशोऽनुवाकः ।

पूर्वानुवाकान्ते हृदयपुण्डरीके उपास्यं यन्महेश्वरस्वरूपं नि-


* सहस्रशोऋषमिति J चिह्नितपुस्तकपाठः ।

८२२ तैत्तिरीये आरण्यके

रायणं देव॒मक्ष॑रं पर॒मं प्रभु॑म्*(१) । ^{(२)}विश्वतः॑ पर॒मन्नि॒त्यं^{\dagger}

र्दिष्टं तस्मिन्नुपास्यगुणविशेषा अस्मिन्ननुवाके विशेषेण^{\ddagger} प्रदर्श्यन्ते । तत्र प्रथमामृचमाह । ^{(१)}“सहस्रशीर्षं ० परमं प्रभुं”^{(१)} इति । ‘देवं’ पूर्वोक्तं महेश्वरं, ध्यायेदिति शेषः । कीदृशं देवं, ‘सहस्रशीर्षं’ सहस्रशब्देनापरिमितमुपलक्ष्यते । अनन्तशिरस्कं, इत्यर्थः । सर्वजगदात्मकं विराड्रूपं महेश्वरस्य देहः । तथा सति अस्मदादिशिरांसि सर्वाण्यपि तदीयान्येवेत्यनन्तशिरस्त्वं । अनेनैव न्यायेन विश्वानि सर्वाण्यस्मदीयानि अक्षाणि इन्द्रियाणि तदीयान्येवेति ‘विश्वाक्षं’ । विश्वस्य सर्वस्य जगतः शं, सुखं, अस्माद्भवतीति ‘विश्वशम्भुः’, तादृशं। उक्ते सहस्रशीर्षे विराड्रूपे देहे अवस्थितस्य महेश्वरस्य निजस्वरूपं द्वितीयार्धेनोच्यते । ‘विश्वं’ जगदात्मकं, अतोऽपि तस्य जगतोऽधिष्ठानव्यतिरेकेण वास्तवरूपाभावात् नारायणशब्दस्य निर्वचनं । “आपो नारा इति प्रोक्ता आपो वै नरसूनवः। अयनं तस्य ताः प्रोक्तास्तेन नारायणः स्मृतः” इति । जगत्कारणेषु पञ्चभूतेषु अवस्थितमित्यर्थः । यद्वा, प्रकृतेः परः । तस्माज्जातानि यानि तानि नारशब्देनोच्यन्ते । तान्येतान्येव अयनं स्थानं यस्य स ‘नारायणः’। स एवेन्द्रमित्रादिरूपेणावस्थितत्वात् ‘देवः’, इत्युच्यते । तथा च


* परमं पदमिति B, J, N, O चिह्नितपुस्तकपाठः ।
\dagger परमाग्नित्यमिति B, J, N, O चिह्नितपुस्तकपाठः । परन्तु भाष्यासम्मतः ।
\ddagger विस्तरेण इति F चिह्नितपुस्तकपाठः ।

१० प्रपाठके ११ अनुवाकः । ८२५

वि॒श्वं ना॒राय॒णꣳ ह॑रिं । वि॒श्वमे॒वेदं पुरु॑ष॒स्तद्विश्व॒मुप॑जीवति^(२) । ^(३)पतिं॒ विश्व॑स्या॒त्मेश्व॑रꣳ शाश्व॑तꣳ शि॒वम॑च्युतं । ना॒राय॒णं म॑हाज्ञे॒यं॒ वि॒श्वात्मा॑नं प॒राय॑णं^(३) ।

शाखान्तरे मन्त्र आम्नातः । “इन्द्रं॑ मि॒त्रं वरु॑णम॒ग्निमा॑हुः” इति । “न चरत्यचरं श्रुतः” इति वा, तस्याचरत्वं । कारणत्वेनोत्कर्षात् परत्वं । नियन्तुं समर्थत्वात् प्रभुत्वं ॥

द्वितीयामृचमाह । ^(२)“विश्वतः परं ० तद्विश्वमुपजीवति”^(२) । ‘विश्वतः’ जगतः जडवर्गात्, ‘परं’ उत्कृष्टं, ऋग्भेदेन पुनरुक्तिपरिहारो द्रष्टव्यः । स्तुतिरूपत्वादेनेन रूपेण ध्यातव्यत्वाच्च नास्ति पुनरुक्तिदोषः । विनाशरहितत्वान्नित्यत्वं । सर्वात्मकत्वादिश्वत्वं । नारायणत्वं पूर्वमेवोक्तं । पापस्य अज्ञानस्य च हरणाद्धरित्वं । यत् ‘इदं विश्वं’, इदानीं अज्ञानदृष्ट्या प्रदृश्यते तत् सर्वं वस्तु तत्त्वदृष्ट्या ‘पुरुषः’ परमात्मा ‘एव’ । स च परमात्मा ‘तद्विश्वं’, ‘उपजीवति’ स्वस्य व्यवहारार्थं आश्रयति ॥

तृतीयामृचमाह । ^(३)“पतिं विश्वस्य ० विश्वात्मानं परायणं”^(३) इति । ‘विश्वस्य’ जगतः, पालकत्वात् ‘पतिं’ । ‘आत्मनां’ जीवानां, नियामकत्वात् ‘ईश्वरं’ नियन्तारं । निरन्तरं वर्त्तमानत्वात् ‘शाश्वतं’ । परममङ्गलत्वात् ‘शिवं’ । न च्यवत इति ‘अच्युतं’ । नारायणत्वं पूर्वमुक्तं । ज्ञेयेषु तत्त्वेषु मध्ये प्रौढत्वात् ‘महाज्ञेयं’ । जगदुपादानत्वेन तदभेदात् ‘विश्वात्मत्वं’ । उत्कृष्टाधारत्वात्* ‘परायणत्वं’ । सर्वमप्यारोपितं जगदधिष्ठाने वर्त्तते ॥


* उत्कृष्टाधारकत्वमिति l' चिह्नितपुस्तकपाठः ।
5 II

८२४तैत्तिरीये आरण्यके

^(४)ना॒राय॒णः प॑रो॒ ज्योति॑रा॒त्मा ना॑राय॒णः प॑रः। ना॒राय॒णः परं॑ ब्रह्म तत्त्वं ना॑राय॒णः प॑रः^(४)। ना॒राय॒णप॑रो ध्या॒ता॒ ध्या॒नं ना॑राय॒णः प॑रः। ^(५)यच्च॑ कि॒ञ्चिज्ज॑गत्स॒र्वं* दृ॒श्यते॑ श्रूय॒तेऽपि॑ वा ॥ १ ॥
अ॒न्तर्ब॒हिश्च॑ तत्स॒र्वं व्या॒प्य ना॑राय॒णः स्थि॑तः^(५)। ^(६)अ-


चतुर्थीमृचमाह। ^(४)“नारायणं परं ० नारायणः परः^(४) इति। पुराणेषु नारायणशब्देन व्यवह्रियमाणो यः परमेश्वरः स एव ‘परं’ उत्कृष्टं, सत्यज्ञानानन्दादिवाक्यैः† प्रतिपाद्यस्य ‘ब्रह्मणः ‘तत्त्वं’। अतः ‘नारायणः परः’, एवात्मा नलपरो मूर्त्तिविशेषः। तथा ‘परो ज्योतिः’ यत् एतत् उत्कृष्टं ज्योतिः छन्दोगैः “परं ज्योतिरुपसम्पद्य” इत्याम्नातं, तदपि, ‘नारायणः’, एव तस्मात् ‘नारायणः’, परमात्मा’ ॥

पञ्चमीमृचमाह। ^(५)“यच्च किञ्चित् ० व्याप्य नारायणः स्थितः”^(५) इति। ‘अस्मिन्’ वर्त्तमाने जगति, ‘यत्किञ्चित्’ समीपवर्त्ति वस्तुजातं, ‘दृश्यते’। ‘अपि वा’ दूरस्थं, ‘श्रूयते’। ‘तत् सर्वं’ वस्तुजातं, अयं ‘नारायणः’, ‘अन्तर्बहिश्च व्याप्य’, ‘अवस्थितः’। यथा कटकमुकुटाद्याभरणस्योपादानकारणं सुवर्णं अन्तर्बहिर्व्याप्यावतिष्ठते तद्वत् ॥


* जगत्सर्वस्मिन्निति F चिह्नितपुस्तकपाठः।
† सत्यज्ञानादिवाक्यैरिति F चिह्नितपुस्तकपाठः।

षष्ठीमृचमाह । ^(६)"अनन्तमव्ययं ० चाप्यधोमुखं"^(६) इति ।

१० प्रपाठके ११ अनुवाकः। ८९५

न॑न्त॒मव्य॑यं क॒विꣳ स॑मु॒द्रेऽन्तं॑ वि॒श्वश॑म्भुवं । प॒द्म॒को॒श- प्र॑तीका॒श॒ꣳ हृद॑यं चाप्य॒धोमु॑खं^(६) । ^(७)अ॒धो नि॒ष्ट्या॑ वि॑तस्त्या॑ तु ना॒भ्यामु॒परि॑ तिष्ठति । ज्वा॒ल॒मा॒लाकु॑लं

षष्ठीमृचमाह । ^(६)"अनन्तमव्ययं ० चाप्यधोमुखं"^(६) इति । अत्र पूर्वार्द्धेन नारायणस्य वास्तवस्वरूपं सङ्क्षेप्योपन्यस्यते । 'अन- न्तं' देशपरिच्छेदरहितं, 'अव्ययं' विनाशरहितं, 'कविं' चिद्रूपेण सर्वज्ञं, 'समुद्रे' अतिबहुलत्वेन समुद्रसदृशे संसारे, 'अन्तं' अवसान- रूपं । यदा नारायणस्य स्वरूपं जानाति तदा संसारः क्षीयते* इत्यर्थः । 'विश्वशम्भुवं' सर्वस्य संसारसुखस्य उत्पत्तिकारणरूपं, "एतस्यैवानन्दस्यान्यानि भूतानि मात्रामुपजीवन्ति" इति श्रुत्यन्त- रात् । ईदृशं नारायणस्वरूपं उपासीतेति शेषः । उत्तरार्द्धेनो- पासनस्थानमुच्यते । 'पद्मकोशप्रतीकाशं' यथा लोके अष्टदलकमलस्य कोशो मध्यच्छिद्रं तत्सदृशं, तच्च 'हृदय'शब्दवाच्यं, लौकिकं पद्मं ऊर्द्धाभिमुखं, हृदयपद्मं तु, 'अधोमुखं', इति विशेषः ॥

सप्तमीमृचमाह । ^(७)"अधो निष्ट्या ० आयतनं महत्"^(७) इति । 'निष्टिः' ग्रीवाबन्धः, तस्याः, 'अधस्ताद्वर्त्तते तत्रापि 'नाभ्या- मुपरि' नाभिदेशस्योर्ध्वदेशभागे, 'वितस्त्यां' द्वादशाङ्गुलिपरिमिला वितस्तिः, तस्यां अतीतायां, उपरि 'तिष्ठति' । तदेतन्निष्टिनाभ्यो- र्मध्यदेशवर्त्तिकमलं 'हृदयं', इति 'विजानीयात्', 'तत्' च हृदयं,


* जीयते इति F चिङ्कितपुस्तकपाठः ।

८२६ तैत्तिरीये आरण्यके

भा॒ती* विश्वस्या॑य॒तनं॑ म॒हत्^(७) । ^(८)सन्त॑त॒ग्ँ शि॒राभि॑- स्तु॒ लम्ब॑त्याकोश॒सन्नि॑भम् । तस्यान्ते॑ सुषिर॒ग्ँ सूक्ष्मं त- स्मि॑न्स॒र्वं प्रति॑ष्ठितं^(८) । ^(९)तस्य॒ मध्ये॑ म॒हान॒ग्नि॒र्विश्वा॑-

‘विश्वस्य’ सर्वस्य जगतः, ‘महदायतनं’। मनस्तावद्धृदयपुण्डरीके वर्त्तते। “चन्द्रमा मनो भूत्वा हृदयं प्राविशत्” इति श्रुत्य- न्तरात्। तेन च मनसा स्वप्नवत् सर्व्वमिदं जगत् कल्पितं। “मनोमूलमिदं द्वैतं यत्किञ्चित् सचराचरं” इति सम्प्रदायविद्- भिरुक्तत्वात्॥

अष्टमीमृचमाह। ^(८)“सन्ततग्ँ ० सर्वं प्रतिष्ठितं”^(८) इति। ‘आकोशः’ पद्मस्य मुकुलं, तत् ‘सन्निभं’ तत्सदृशं, हृदयकमलं ‘लम्बति’ शरीरमध्येऽधोमुखत्वेनावलम्बते। तच्च ‘शिराभिः’ ना- डीभिः, ‘सन्ततं’ परितः सम्यग् व्याप्तं। “शतं चैका च हृदयस्य नाड्यः” इति श्रुत्यन्तरात्। ‘तस्य’ हृदयस्य, ‘अन्ते’ समीपे, ‘सूक्ष्मं’, ‘सुषिरं’ छिद्रं, सुषुम्णानाडीनालं, तिष्ठति ‘तस्मिन्’ सुषिरे, ‘सर्वं’ इदं जगत्, ‘प्रतिष्ठितं’ आश्रितं। तत्र मनसि प्रविष्टे सति सर्व- जगदाधारस्य ब्रह्मणोऽभिव्यज्यमानत्वात्॥

नवमीमृचमाह। ^(९)“तस्य मध्ये ० अजरः कविः”^(९) इति। ‘तस्य’ सुषुम्णानालस्य, ‘मध्ये’, ‘महान्’ प्रौढः, ‘अग्निः’, वर्त्तते। स च ‘विश्वार्चिः’ बहुज्वालोपेतः, अतएव ज्वालाविशेषैः परि- तोऽवस्थितासु सर्वासु नाडीसु संसरणात् ‘विश्वतोमुखः’ बहुविधे-


हृदयं तद्विजानीयादिति F चिह्नितपुस्तकपाठः।

१० प्रपाठके ११ अनुवाकः। ८२७

र्चिर्विश्वतो॑मु॒खः । सोऽग्र॑भुग्विभ॒जन् तिष्ठ॒न्नाहा॑रम॒जरः॒ क॒विः(९) । ति॒र्य॒गूर्ध्वम॑धःशा॒यी र॒श्मय॑स्तस्य॒ सन्ता॑- ता ॥ $^{(१०)}$सन्ता॒पय॑ति स्वं दे॒हमापा॑दत॒लमस्त॑कं । तस्य॑ म॒ध्ये व॒ह्निशि॑खा अ॒णीयो॑र्ध्वा व्य॒वस्थि॑ता(१०) । $^{(११)}$नील-

स्वरूपः, 'सः' अग्निः, 'अग्रभुक्' स्वस्य पुरतः प्राप्तमन्नं भुङ्क्ते इति 'अग्रभुक्'। स च भुक्तं 'आहारं', शरीरे सर्वावयवेषु 'विभजन्' प्रसारयन्, 'तिष्ठन्' अवस्थित इत्यर्थः । तथा च भगवतोक्तं । "अहं वैश्वानरो भूत्वा प्राणिनां देहमाश्रितः । प्राणापानसमायुक्तः पचाम्यन्नं चतुर्विधं" इति ॥ तस्माद् भुक्त- मन्नमसौ जरयति न तु स्वयं जीर्यत इति 'अजरः' । अतएव 'कविः' अभिज्ञः, कुशल इत्यर्थः ॥

दशमोमृचमाह । (१०)"सन्तापयति ॰ अणीयोर्ध्वा व्यवस्थि- ता"(१०) इति । पादतलमारभ्य मस्तकपर्यन्तं कृत्स्नमपि स्वकीयं 'देहं', सर्वदा 'सन्तापयति' । सोऽयं शरीरगतः सन्तापः अग्निस- द्भावे लिङ्गं । 'तस्य' ज्वालाविशेषैः कृत्स्नदेहव्यापिनोऽग्नेः, 'मध्ये', 'वह्निशिखा' काचित् ज्वाला, 'अणीया' अत्यन्तसूक्ष्मा, 'ऊर्ध्वा' सुषुम्णानाडीनालेनोर्ध्वब्रह्मरन्ध्रपर्यन्तं प्रसृत्य, 'व्यवस्थिता' विशे- षेणावस्थिता ॥

एकादशोमृचमाह । (११)"नीलतोयदमध्यस्थात् ॰ भास्व- त्यणूपमा"(११) इति । तोयं उदकं ददातीति 'तोयदः' मेघः, स च वर्षितुं जलपूर्णत्वान्नीलवर्णः । तादृशस्य मेघस्य मध्ये स्थिता

८१८ | तैत्तिरीये आरण्यके

तो॒यद॑मध्य॒स्था वि॒द्युल्ले॑खेव॒ भास्व॑रा । नी॒वार॒शूक॑वत्त॒न्वी पी॒ता भा॑स्वत्य॒णूप॑मा^{(११)} । ^{(१२)}तस्या॑: शिखा॒यार्मध्ये॑ प॒रमा॑त्मा व्य॒वस्थि॑तः । स ब्र॒ह्मा॒ स शि॒वः॒ स हरि॒: सेन्द्रः॒ सोऽक्ष॑रः पर॒मः स्व॒राट्^{(१२)} ॥ २ ॥

‘विद्युल्लेखेव’, सेयं पूर्वोक्ताग्निशिखा ‘भास्वरा’ प्रभावती, ‘नीवारबीजस्य ‘शूकं’ दीर्घं पुच्छं, यथा तनु भवति, तद्वदियं शिखा ‘तन्वी’ । बाह्यवह्निज्वालेव ‘पीता भास्वती’ पीतवर्णा दीप्तियुक्ता, भवेत् । सा च ‘अणूपमा’ लौकिकीनां तनूनां सूक्ष्मवस्तूनां उपमा भवितुं योग्या ॥

द्वादशीमृचमाह । ^{(१२)}“तस्याः शिखाया ० परमः स्वराट्”^{(१२)} इति । ‘तस्याः’ पूर्वोक्ताया वह्निशिखायाः, ‘मध्ये,’ जगत्कारणभूतः ‘परमात्मा’, । विशेषेण ‘अवस्थितः’ । तस्योपासनार्थमल्पस्थानत्वेऽपि न स्वयमल्पः, किन्तु सर्वदेवात्मकः ‘ब्रह्मा’ चतुर्मुखः, ‘शिवः’ गौरीपतिः, ‘इन्द्रः’ स्वर्गाधिपतिः, ‘अक्षरः’ जगद्धेतुर्मायाविशिष्टोऽन्तर्यामी ईश्वरः । “क्षरः सर्वाणि भूतानि कूटस्थोऽक्षर उच्यते” इति भगवतोक्तत्वात् । ‘परमः’ मायारहितः शुद्धः चिद्रूपः । अत एव पारतन्त्र्याभावात् ‘स्वराट्’ स्वयमेव राजा । सहस्रशीर्षमित्यादिवाक्यप्रतिपाद्यं* तत्त्वं पद्मकोशप्रतीकाशमित्यादिवाक्योक्तप्रकारेण ध्यायेदिति तात्पर्यार्थः ॥


* प्रतिपादितमिति ५ चिह्नितपुस्तकपाठः ।

१० प्रपाठके १२ अनुवाकः । ८२६

अपि॑ वा, सन्त॑ता, षट् च ॥ अनु० ११ ॥


अथ द्वादशोऽनुवाकः ।

*(१)ऋतग्ँ॑ स॒त्यं परं॒ ब्रह्म॒ पुरु॑षं कृष्णपि॒ङ्ग॑लम् । ऊ॒र्ध्वरे॑तं वि॑रू॒पाक्षं॑ वि॒श्वरू॑पाय॒ वै नमो॒ नमः॑(१) ॥ अनु० १२ ॥


इति सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे यजु- रारण्यके दशमप्रपाठके नारायणीयापरनामधेययुक्तायां याज्ञि- क्यामुपनिषदि एकादशोऽनुवाकः ॥


अथ द्वादशोऽनुवाकः ।

पूर्वोक्तप्रकारेणोपासीनस्य पुरुषस्योपास्यदेवतानमस्कारार्थं ए- कामृचमाह । (१)“ऋतग्ँ सत्यं ॰ वै नमो नमः”(१) इति । यदेतत् ‘परं ब्रह्म’, तत् ‘सत्यं’ अबाध्यं । सत्यञ्च द्विविधं, व्यावहारिकं पारमार्थिकञ्च । हिरण्यगर्भादिकं रूपं व्यावहारिकं सत्यं । तन्निवारणेन पारमार्थिकसत्यं प्रदर्शयितुं ऋतं सत्यं इति विशिष्यते । अत्यन्तसत्यमित्यर्थः । तादृशं ब्रह्म स्वभक्तानुग्र- हाय उमामहेश्वरात्मकं पुरुषरूपं भवति । तत्र दक्षिणे महेश्वर- भागे ‘कृष्ण’वर्णः । उमाभागे वामे ‘पिङ्गल’वर्णः । स च योगेन


* उक्तमन्त्रोऽस्मल्लब्धेषु B, J, N, O चिह्नितपुस्तकेषु नास्ति । परन्तु भाष्ये धृतत्वान् मूले निवेशितः ।

८१० तैत्तिरीये आरण्यके

अथ त्रयोदशोऽनुवाकः ।

(१)आदित्यो॒ वा ए॒ष ए॒तन्म॒ण्डलं॒ तर्प॑ति॒ तत्र॒ ता ऋच॒स्तदृ॒चा म॑ण्ड॒लꣳ स ऋ॒चां लो॒कोऽथ॒ य ए॒ष ए॒त-


स्वकीयं रेतः ब्रह्मरन्ध्रे धृत्वा ‘ऊर्ध्वरेताः,’ भवति । त्रिनेत्रत्वात् ‘विरूपाक्षः’ तादृशं, परमेश्वरं अनुस्मृत्येति शेषः । ‘विश्वरूपाय’ जगत्कारणत्वेन सर्वजगदात्मकाय विरूपाक्षाय पुरुषायैव, ‘नमस्कारः अस्तु ॥

इति सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे यजुरारण्यके दशमप्रपाठके नारायणीयापरनामधेययुक्तायां याज्ञिक्यामपनिषदि द्वादशोऽनुवाकः ॥


अथ त्रयोदशोऽनुवाकः ।

इदानीमादित्यमण्डले परब्रह्मोपासनमाह । ⁽¹⁾“आदित्यो वा हिरण्मयः पुरुषः”(१) इति । नारायणशब्दवाच्यः यः परमेश्वरः पूर्वानुवाकेऽभिहितः, स ‘एषः’, ‘आदित्यो वै’ सोपाधिकः सन् आदित्यरूपेणैव वर्त्तते । तस्य चादित्यस्य ‘एतत्’ अस्माभिः दृश्यमानं, ‘मण्डलं’ वर्त्तुलाकारमुष्णं तेजः, ‘तपति’ सन्तापं करोति। ‘तत्र’ तस्मिन् मण्डले, ‘ताः’ अध्यापकप्रसिद्धा “अग्निमीले” इत्यादिकाः, ‘ऋचः’, वर्त्तन्ते । ‘तत्’ तस्मात् कारणात्, ‘मण्डलं’, ‘ऋचा’,

१० प्रपाठके १३ अनुवाकः। ८३१

स्मि॑न्मण्डले॒ऽर्चिर्दीप्य॑ते॒ तानि॒ सामानि॒ स साम्नां लो॒-
कोऽथ॒ य ए॒ष ए॒तस्मि॑न्मण्डले॒ऽर्चिषि॒ पुरु॑ष॒स्तानि॒ य-
जूं॑षि॒ स यजु॑षा मण्डलं॒ स यजु॑षां लो॒कः सैषा त्रय्ये॑व
वि॒द्या त॑पति॒ य ए॒षोऽन्त॑रादि॒त्ये हिर॒ण्मयः॒ पुरु॑षः(१)॥
अनु० १३॥

निष्पादितमिति शेषः। मण्डलभाग ऋग्भिर्निष्पादितः। 'ऋचां' ऋगभिमानिदेवतानां, 'लोकः' निवासस्थानं। एवं ऋगात्मकत्वं मण्डलस्य ध्यात्वा 'अथ' अनन्तरं, सामात्मकत्वं तत्र ध्यातव्यं कथमिति तदुच्यते। 'एतस्मिन्मण्डले', 'य एषः' यदेतत्, 'अर्चिर्दीप्यते' भास्वरं तेजः प्रकाशते। 'तानि' अर्चिःस्वरूपाणि, बृहद्रथन्तरादि'सामानि', इति ध्यायेत्। 'सः' अर्चिर्भागः, 'साम्नां' सामाभिमानिदेवतानां, 'लोकः' निवासस्थानं। 'अथ' साम्नोध्यानानन्तरं, यजुरात्मकं ध्यातव्यं कथमिति तदुच्यते। 'य एषः' शास्त्रप्रसिद्धः 'एतस्मिन्' दृश्यमाने, 'मण्डले', तदीये 'अर्चिषि', 'पुरुषः' देवतात्मा, वर्त्तते। 'तानि' देवतास्वरूपाणि, 'यजूंषि' इषे त्वोर्जे त्वा इत्यादीनि, ध्यायेत्। 'सः' यजुरात्मकः पुरुषः, 'यजुषा', निष्पादितं 'मण्डलं', इति ध्यायेत्। 'सः' यजुर्भागः, 'यजुषां' यजुरभिमानिदेवतानां, 'लोकः' निवासस्थानं। 'सैषा' मण्डलतदर्चिस्तत्स्थपुरुषरूपा, 'त्रयी एव' ऋग्यजुःसामात्मिकैव, 'विद्या', 'तपति' प्रकाशते। 'यः' पुरुषोऽत्राभिहितः, 'एषः', 'अन्तरादित्ये' आदित्यमण्डलमध्ये, 'हिरण्मयः', वर्त्तते।

५१

८३२ तैत्तिरीये आरण्यके

अथ चतुर्द्दशोऽनुवाकः ।

$^{(१)}$आ॒दि॒त्यो वै तेज॒ ओजो॒ बलं॒ यश॒श्चक्षुः॒श्रोत्र॑- मा॒त्मा मनो॑ म॒न्युर्मनु॑र्मृ॒त्युः स॒त्यो मि॒त्रो वा॒युरा॑का॒शः


हिरण्मयत्वञ्च श्रुत्यन्तरे* प्रपञ्चितं। “अथ य एषोऽन्तरादित्ये हिरण्मयः पुरुषो दृश्यते। हिरण्यश्मश्रुर्हिरण्यकेश आप्रनखात् सर्व- एव सुवर्णः” इति ॥

इति सायणाचार्य्यविरचिते माधवीये वेदार्थप्रकाशे यजुरार- ण्यके दशमप्रपाठके नारायणीयापरनामधेययुक्तायां याज्ञिक्या- मुपनिषदि त्रयोदशोऽनुवाकः ॥


अथ चतुर्दशोऽनुवाकः।

पूर्वोक्तस्यैवादित्यपुरुषस्य सर्वात्मकत्वलक्षणमवशिष्टमुपास्यगुणं दर्शयति। $^{(१)}$“आदित्यो वै ॰ भूतानामधिपतिः”$^{(१)}$ इति। योऽयं ‘आदित्यः’, उपास्यत्वेनोक्तः, स एव तेजआद्यधिपत्यन्तसर्व- जगदात्मकं, ‘तेजः’ दीप्तिः। ‘ओजः’ बलकारणं। ‘बलं’ शरीर- शक्तिः। ‘यशः’ कीर्त्तिः। ‘चक्षुःश्रोत्रे’ बाह्येन्द्रिये। ‘आत्मा’ देहः। ‘मनः’ अन्तःकरणं। ‘मन्युः’ तद्धर्मः कोपः। ‘मनुः’ स्वायम्भुवादिः।


* शाखान्तरे इति F चिह्नितपुस्तकपाठः।

१० प्रपाठके १४ अनुवाकः । ८१३

प्रा॒णो लो॑क॒पालः॑ कः किं कं तत्स॒त्यमन्न॑मायु॒रमृ॒तौ* जी॒वो विश्वः॑ कत॒मः स्व॑य॒म्भु ब्रह्मैतदमृतं† ए॒ष पुरु॑ष ए॒ष भू॒ताना॒मधि॑पतिः$^{(१)}$ $^{(२)}$ब्रह्म॑णः सायु॒ज्यँ॑ सलो॒क-


'मृत्युः' यमः । 'सत्यादयः सत्यवचनाद्यभिमानिनो देवताविशेषाः । 'कः' प्रजापतिः । 'किं' इत्यनेन वाचा विशेषनिर्देशानर्हं वस्तु- जातं विवक्षितं । 'कं' सुखं । 'तत्' शब्देन परोक्षं वस्तु विवक्षितं । 'सत्यं' अनृतवर्जनं । 'अन्नं' व्रीहियवादिकं । 'आयुः' शतसंवत्सरा- दिकं । 'अमृतः' मरणरहितः । 'जीवः' चिदात्मा । स च 'विश्वः' शरीरभेदेनानेकविधः । 'कतमः' अतिशयेन सुखस्वरूपः । 'स्वयम्भु' कारणान्तरादनुत्पन्नः प्रजापतिः । 'प्रजापतिः' प्रजापालको राजा- दिः । 'इति' शब्दः प्रदर्शनार्थः । इत्यादिकं सर्वमुदाहरणीयमि- त्यर्थः । तत्र संवत्सररूपस्य कालस्यादित्येन निष्पादितत्वात् 'संव- त्सरः', 'आदित्यस्वरूपः । 'य एषः' सर्वात्मकः, 'पुरुषः', सः 'एषः', 'भूतानां' प्राणिनां, 'अधिपतिः' स्वामी ॥

उपास्यगुणानभिधाय फलं दर्शयति । $^{(२)}$"ब्रह्मणः सायुज्यँ ० य एवं वेद"$^{(२)}$ इति । 'यः' पुमान्, 'एवम्' उक्तप्रकारेण, 'वेद' उपास्ते, सः पुमान् 'सायुज्यादिफलमाप्नोति । द्विविधमुपासनं,


* मन्नममृत इति B, J, N, O चिह्नितपुस्तकचतुष्टयपाठः ।
† ब्रह्मैतदमृत इति मूलपुस्तकधृतपाठस्य परिवर्त्ते भाष्यपुस्तकत्रय- गृहीतमूलपाठे 'प्रजापतिः संवत्सर इति संवत्सरोऽसावादित्यो यः' इति पाठो वर्त्तते ।

5 1 2