तन्त्रालोक (प्रथम भाग - जयरथ विवृति सहित)
Tantraloka Vol 1 by Acharya Abhinavagupta with Jayaratha Commentary
आचार्य अभिनवगुप्त / राजानक जयरथ द्वारा
स्रोत: काश्मीर संस्कृत ग्रन्थावली · काश्मीर संस्कृत ग्रन्थावली · 1950 (उद्गम)
अथ श्रीतन्त्रालोकस्य श्रीमन्महामाहेश्वराचार्याभिनवगुप्तपादविरचितस्य श्रीमदाचार्यजयरथकृतप्रकाशाख्यव्याख्योपेतस्य द्वितीयमाह्निकम् जयतान्नतजनजयकृत्सञ्जयो रुद्रो विनाभ्युपायं यः । पूरयति कं न कामं कामं कामेश्वरत्वेन ॥१॥ इदानीं 'यो हि यस्माद् गुणोत्कृष्टः स तस्मादूर्ध्व उच्यते।' इति-स्थित्या आणवादीनां यथायथमुत्कर्षादिह पूर्व- पूर्वमेवाभिधानमिष्यते इत्युपैयैकरूपत्वेन शांभवा- पं० २ क० ख० पु० कः पूरयति किं न कामं कामं वागीश्वरत्वेनेति पाठः । पं० ६ क० पु० अभिधानं करिष्यते इति इत्युपायैकेति च पाठः ।
२ श्रीतन्त्रालोकः । दप्यनुपायस्योत्कृष्टत्वम्, इति - प्रथमं तत्स्वरूपमे- वाभिधातुमाह्निकान्तरारम्भं द्वितीयार्धेन प्रतिजानीते यत्तत्राद्यं पदमविरतानुत्तरज्ञप्तिरूपं तन्निर्णेतुं प्रकरणमिदमारभेऽहं द्वितीयम् ॥१॥ तन्निर्णयमेवाह अनुपायं हि यद्रूपं कोऽर्थो देशनयात्र वै । सकृत्स्याद्देशना पश्चा- दनुपायत्वमुच्यते ॥२॥ वै-शब्दोऽवधारणे, तेन नैव कश्चिदर्थः इत्यर्थः । अत्रैव समाधत्ते 'सकृत्स्यात्' इत्यादिना, देशना इत्युपलक्षणं - तेन सिद्धदर्शनाद्यपि ग्राह्यं, यदुक्तम् 'सिद्धानां योगिनीनां च दर्शनं चरुभोजनम् । कथनं संक्रमः शास्त्रे साधनं गुरुसेवनम् ॥ इत्याद्यो निरुपायस्य संक्षेपोऽयं वरानने ।' इति । सकृदिति - न पुनरुपायानुभवः पौनःपुन्ये- नेत्यर्थः । अत एवाह 'पश्चादनुपायत्वमुच्यते' इति, पं० ३ क० पु० यत्र त्वाद्यं परमशिवतानुत्तरेति, ख० पु० यत्तत्राद्यमिति पाठः । पं० ४ क० ख० पु० मिदं त्वारभेयं द्वितीयमिति पाठः ।
श्लोक ३ ] द्वितीयमाह्निकम् । ३ आणवादौ असकृद्भाव्यमानो हि देशनादि उपेय- प्राप्तिं विदधाति इति तत्र तथात्वमुक्तम्, इह तु न तथा इत्यनुपायत्वं, पर्युदासस्य 'अनुदरा कन्या' इति वदल्पार्थत्वेऽपि भावात् अल्पोपायत्वमित्यर्थः- प्राप्तव्ये हि प्राप्ते किं नाम निरर्थकैरायासकारि- भिर्भावनादिभिरिति भावः, यदुक्तम् 'उपायैर्न शिवो भाति भान्ति ते तत्प्रसादतः । स एवाहं स्वप्रकाशो भासे विश्वस्वरूपकः ॥ इत्याकर्ण्य गुरोर्वाक्यं सकृत्केचन निश्चिताः । विना भूयोऽनुसंधानं भान्ति संविन्मयाः स्थिताः ॥' इति ॥ २ ॥ नन्वत्र प्रसज्यप्रतिषेधपक्षावलम्बनेनाविद्यमानो- पायत्वमेव, इति मुख्योऽर्थः कस्मान्न व्याख्यातः ? इत्याशंक्याह अनुपायमिदं तत्त्व- मित्युपायं विना कुतः । स्वयं तु तेषां तत्तादृक् किं ब्रूमः किल तान्प्रति ॥३॥ पं० १२ क० पु० नेन विद्यमानोपायमेवेति पाठः ।
४ श्रीतन्त्रालोकः । 'इदमनुपायं तत्त्वम्' इत्याद्युपदेशादिना केनचि- दुपायेनावश्यं भाव्यम्, अन्यथा लक्षणमुपायमन्तरेण कथं सिद्ध्येत्, इत्युक्तम् 'इत्युपायं विना कुतः' तेन सकृदुपदेशादिना केनचिदुपायेनावश्यं भाव्यम्, अन्यथा ह्यनुपायपरतत्त्वज्ञप्तिरेव न स्यात् । ननु स्वविमर्शबलात्स्वयमेव प्राप्तप्राप्तव्या अपि केचिद् दृश्यन्ते, इति-किं सकृदुपदेशाद्यात्मना स्वल्पे- नाव्युत्पन्नेन ? इत्याशंक्याह 'स्वयमित्यादिना' तदि- त्यनुपायं परप्रकाशात्मकं रूपं, किं ब्रूम इति-नहि तदधिकारेण शास्त्रस्यैव प्रवृत्तिर्भवेदिति भावः, तदुक्तम् 'तत्त्वज्ञस्य तृणं शास्त्रं.........।' इति । यदभिप्रायेणैव 'संसाराम्बुनिधिं यः स्यात्तितीर्षुः कश्चिदुत्तमः' नात्यन्ततज्ज्ञो नो मूर्खः सोऽस्मिञ्छास्त्रेऽधिकारवान्' । इत्यादावत्यन्ततज्ज्ञस्य शास्त्रे नाधिकार उक्तः, तेन वयमर्वाग्दर्शिनोऽप्यदृष्टेऽर्थे शास्त्रैकदिव्यचक्षुष आरु- पं० २ ग० पु० उपायान्तरेण कथमिति पाठः । पं० ८ ग० पु० अव्युत्पन्नत्वेन इति पाठः । पं० १४ संसारेति पदद्वयं ग० पुस्तकात्पूरितमस्ति ।
श्लोक ४ ] द्वितीयमाह्निकम् । ५ रुज्जूनायातशक्तिपातान्प्रत्येव किंचन ब्रूमः—तेषां ह्येवमुपायमन्तरेण न कदाचिदप्युपेयप्राप्तिर्भवेत् इत्ये- वमुक्तम्, यद्वक्ष्यति 'नानिर्मलचितः पुंसोऽनुग्रहस्त्वनुपायकः ।' इति ॥ ३ ॥ ननु यद्येवं तर्हि अल्प एव कश्चिदुपायोंशः समुप- दिश्यतां येनोपदेश्यजनस्य सुखमेव उपेयप्राप्तिः स्यात्, किं बह्वायासदायिभिरन्यैरुपायैः? इत्याशंक्याह यच्चतुर्धोदितं रूपं विज्ञानस्य विभोरसौ । स्वभाव एव मन्तव्यः स हि नित्योदितो विभुः ॥४॥ यच्चतुर्धा-अनुपायादिभेदेन विज्ञानस्य रूपमुक्तं तद्विभोः परमेश्वरस्यैव स्वातन्त्र्यं ज्ञेयम्, स एव हि स्वस्वातन्त्र्यादतिनिर्हासतारतम्यादियोगाद्विचित्रेणो- पदेश्यजनात्मना प्रस्फुरन् तदनुसारमेव तत्तदुपाय- पं० ६ क० ख० पु० समुद्दिश्यतामिति पाठः । पं० १२ ग० पु० स हि संविन्मयः प्रभुरिति पाठः । पं० १५ क० पु० स्वातन्त्र्यात्तारतम्येति पाठः ।
६ श्रीतन्त्रालोकः । वैचित्र्यमप्याभासयेत्। नन्वेक एव विचित्रेण रूपेण च स्फुरति, इति किमेतत् ? इत्याशंक्याह ‘स हीत्यादि’ नित्योदित इति – अप्रच्युतप्राच्यस्वरूपः, अत एव ‘विभुः’ व्यापकः – तत्तद्वैचित्र्यग्रहणकालेऽप्यनुगत एवेत्यर्थः ॥ ४ ॥ अत एवाह एतावद्भिरसंख्यातैः स्वभावैर्यत्प्रकाशते । कोऽप्यंशांशिकया तेन विशन्त्यन्ये निरंशतः ॥ ५ ॥ एतावद्भिरिति – चतुर्भिः, असंख्यातैरिति – तत्त- दवान्तरभेदात्, तेनेति – अनेकेन स्वभावेन प्रकाश- नात् ॥५॥ न केवलमत्रेयदेव वैचित्र्यं यावदन्यदप्यस्तीत्याह तत्रापि चाभ्युपायादि- सापेक्षान्यत्वयोगतः । उपायस्यापि नो वार्या तदन्यत्वाद्विचित्रता ॥ ६ ॥ पं० १४ क० पु० सापेक्षत्वान्ययोगत इति पाठः ।
श्लोक ८ ] द्वितीयमाह्निकम् । ७ उपायस्यापीति अपिशब्दो भिन्नक्रमः, तेन नो वार्या तदन्यत्वादपि, इति व्याख्येयम्, एतच्च प्रथमाह्निक एव वितत्य निर्णीतम्, इति — नेह पुनरायस्तम् ॥६॥ एवमेतत् प्रसंगादभिधाय प्रकृतमेवाह तत्र ये निर्मलात्मानो भैरवीयां स्वसंविदम् । निरुपायामुपासीना- स्तद्विधिः प्रणिगद्यते ॥७॥ ये केचन तीव्रतीव्रशक्तिपातानुविद्धा विकल्पक- लंकान्मुक्ताः, भैरवीयां पूर्णाम्, अत एवानुपायम् — अनपेक्षाम्, आत्मसंविदमाविष्टाः, तेषां विधिः — पूर्णसंविदावेशक्रमात्मा प्रकारः, प्रकर्षेण निगद्यते — युक्तियुक्तत्वेन भण्यते इत्यर्थः ॥ ७ ॥ तदेवाह तत्र तावत्क्रियायोगो नाभ्युपायत्वमर्हति । पं० ९ क० पु० शक्तिपातविकल्पान्मुक्ता इति पाठः । पं० १२ क० पु० आवेशात्मप्रकार इति पाठः ।
प्रकाशत्वं स्वप्रकाशे
८ श्रीतन्त्रालोकः । उपायः खलु करणे प्रसृते, अतश्च पूर्णेन भाव्य- मेव, इति सर्वेषामविवादः, न चात्रैवं - क्रियादयो हि संवेद्यमानत्वात्संविन्निष्ठा एव, इति संविच्छक्तिं विना अप्रसिद्धत्वात् कथं तत्रोपायतामासादयेयुः, अतः प्रत्युत क्रियादीनां बहिराभासने संविदुपायः, इति युक्तम् ॥ अत एवाह स हि तस्मात्समुद्भूतः प्रत्युत प्रविभाव्यते ॥८॥ तस्मादित्यनुपायात्संवित्तत्त्वात् ॥८॥ अथ यद्यस्य क्रियादि न कारकम् अपि तु ज्ञापकम् इति उच्यते, तदपि न युज्यते, इत्याह । ज्ञप्तावुपाय एव स्या- दिति चेज्ज्ञप्तिरुच्यते । प्रकाशत्वं स्वप्रकाशे तच्च तत्रान्यतः कथम् ॥६॥ इह जडस्तावत् स्वयमप्रकाशात्मा स्वात्मनो न पं० ३ क० पु० एवेति संविदः प्रसिद्धत्वात्कथमिति पाठः ।
प्रकाशते, अपि तु परस्य, इति - पर एवास्य प्रकाशः,
श्लोक १० ] द्वितीयमाह्निकम् । ६ प्रकाशते, अपि तु परस्य, इति - पर एवास्य प्रकाशः, अजडस्तु स्वयं प्रकाशात्मा स्वात्मन एव प्रकाशते, न परस्य, इति - न परोऽस्य प्रकाशोऽपितु स्व एव अस्य प्रकाशः, तस्यापि परप्रकाशत्वे ह्यप्रकाशात्म- त्वात् जाड्यं स्यात्, अत एवाह 'स्वप्रकाशे तच्च तत्रान्यतः कथम्' इति प्रकाशत्वम्, एवं चान्योऽपि स्वप्रकाशो वा स्यात् अन्यथा वा, स्वप्रकाशत्वे प्रथमस्यैव तथाभाव उच्यताम्, अनेनापि कोऽर्थः, अन्यथात्वे तस्यापि जाड्यापत्तिः, इति प्रकाशत्वात्त- त्प्रकाशनाय प्रमात्रन्तरापेक्षायामनवस्थापत्तिः, इति सर्वेषामेव अप्रकाशात्मत्वान्न किंचिदपि प्रकाशेत, इति - सर्वमिदमन्धं स्यात् ॥६॥ तदाह संवित्तत्त्वं स्वप्रकाश- मित्यस्मिन्किं नु युक्तिभिः । पं० २ ख० पु० अजडस्तद्द्वयं प्रकाशेति पाठः । पं० ७ क० पु० स्वप्रकाशकः स्यादिति पाठः । पं० ८ क० पु० तथा उत्पद्यतामिति ख० पु० भाव उच्यतामिति पाठः । २
प्रकाशेत इति ॥१०॥
१० श्रीतन्त्रालोकः । तदभावे भवेद्विश्वं जडत्वादप्रकाशकम् ॥१०॥ किं नु युक्तिभिरिति-बह्वीभिर्युक्तिभिर्न किंचित्प्र- योजनमित्याह, एकैव हि युक्तिरियं सर्वातिशायिनी- यत्संविदः स्वप्रकाशत्वं यदि न स्यात्, न किंचिदपि प्रकाशेत इति ॥१०॥ ननु यदि नाम अत्र न बाह्यः क्रियादिः प्रग- ल्भते तदा गुरुज्ञानादि उपायतां भजताम् ? इत्या- शंक्याह यावानुपायो बाह्यः स्या- दान्तरो वापि कश्चन । स सर्वस्तन्मुखप्रेक्षी तत्रोपायत्वभाक्कथम् ॥११॥ यावानिति-नानाशास्त्रोपदिष्टः, सर्व इति-बाह्य आन्तरो वा, तन्मुखप्रेक्षीति-संविदधीनसिद्धिरि- त्यर्थः, यदपेक्ष्य हि यस्य सिद्धिरेवं भवति स कथं तस्य उपायतां यायादिति भावः ॥११॥ पं० १६ क० घ० पु० यदपेक्षा हि यस्य सिद्धिरेव भवेत्स कथमिति पाठः।
श्लोक १३ ] द्वितीयमाह्निकम् । ११ अत एवाह त्यजावधानानि ननु क्व नाम धत्सेऽवधानं विचिनु स्वयं तत् । पूर्णोऽवधानं न हि नाम युक्तं नापूर्णामभ्येति च सत्यभावम् ॥१२॥ इह उपदिश्यमानेन स्वयमेव तावदवधातव्यम् इति परामर्शनीयम्, किं पूर्णे रूपे उतापूर्णे ? तत्र तावत्पूर्णे रूपेऽवधानं न युक्तम्, अवधानं खलु- प्रतिनियतावधेयविषयनिष्ठम् एकाग्र्यम्, अतश्च भेदप्रधानं न किंचित्फलमादातुं समर्थम् ॥१२॥ तस्मादसामर्थ्यवैयर्थ्योपहतत्वादवधानस्यापि यत्र नास्ति उपायभावस्तत्र का वार्ता तदनुप्राणि- तस्य भावनादेः ? इत्याह तेनावधानप्राणस्य भावनादेः परे पथि । भैरवीये कथंकारं भवेत्साक्षादुपायता ॥१३॥ पं० ३ ख० पु० धर्मेऽवधानमिति पाठः । पं० ८ क० पु० अवधानं खलु अप्रतिनियतेति पाठः ।
१२ श्रीतन्त्रालोकः । भैरवीये इति-पूर्णे ॥१३॥ ये पुनरनेनापि उपायेनानुपायं परं तत्त्वमनुसरन्ति तान्प्रति किमुच्यते ? इत्याह येऽपि साक्षादुपायेन तद्रूपं प्राविविक्षते । नूनं ते सूर्यसंवित्त्यै खद्योताधित्सवो जडाः ॥१४॥ तदुक्तम् ‘अपरोक्षे भवत्तत्त्वे सर्वतः प्रकटे स्थिते । यैरूपायाः प्रतन्यन्ते नूनं त्वां न विदन्ति ते ॥’ इति ॥ १४ ॥ अत्रैव निमित्तान्तरमप्याह किं च यावदिदं बाह्य- मान्तरोपायसंमतम् । तत्प्रकाशात्मतामात्रं शिवस्यैव निजं वपुः ॥१५॥ पं० २ क० पु० तत्त्वमनुविशन्तीति पाठः । पं० ७ क० पु० खद्योतं लिप्सव इति पाठः । पं० ६ क० पु० प्रकटोदिते इति पाठः । पं० १६ क० पु० परं वपुः इति पाठः ।
प्रकाशमानं चेत् प्रकाशात्मा शिव एवावस्थितः,
श्लोक १७ ] द्वितीयमाह्निकम् । १३ इह खलु यत्किंचन उपायत्वेनाभीष्टं तदप्रकाश- मानं प्रकाशमानं वा ? अप्रकाशमानं चेत् तस्य न किंचिदपि रूपं स्यात्, इति किं नाम उपायतां भजतां, प्रकाशमानं चेत् प्रकाशात्मा शिव एवावस्थितः, नहि तदतिरिक्तमन्यत्किंचिदुपपद्यते, इति - कस्यो- पायभावः, उपायेन हि उपेयाद्व्यतिरिक्तेन भाव्यं, तच्चात्र न युक्तम्, इति को नाम उपायोपेय- भावार्थः ॥ १५ ॥ न केवलं भावनाद्येव उपायत्वेनाभीष्टमेवम्, यावदन्यदपीत्याह नीलं पीतं सुखमिति प्रकाशः केवलः शिवः । अमुष्मिन्परमाद्वैते प्रकाशात्मनि कोऽपरः ॥१६॥ उपायोपेयभावः स्या- त्प्रकाशः केवलं हि सः ॥१७॥ भावनादेः सुप्रसिद्धेऽपि उपायत्वे निरस्ते अन्यस्य पं० १७ क० पु० उपायत्वेन निरस्ते अन्यत्र इति पाठः ।
प्रकाशवपुरेवायं
१४ श्रीतन्त्रालोकः । कस्यचित्संभावनामात्रमपि माभूत्, इत्येवमुक्तं 'कोऽ पर' इति, यत्र उपायत्वसंभावनापि स्यात् ॥१७॥ ननु यद्येवं तर्हि सर्वत्र प्रसिद्धोऽयं द्वैतव्य- वहारः कथमपहूयते ? इत्याशङ्क्याह इदं द्वैतमऽयं भेद इदमद्वैतमित्यपि । प्रकाशवपुरेवायं भासते परमेश्वरः ॥१८ ॥ द्वैतव्यवहारोऽपि प्रकाशमानत्वात्प्रकाशात्मैवेत्य- भिप्रायः, एतच्च बहूनां वादिनां मतम् - इति द्योतयि- तुम् 'अयं भेद' इति पुनरुपादानम्, यथा चाद्वैतप्रति- भासे प्रकाशात्मा परमेश्वर एक एव प्रतिभासते तथा द्वैतप्रतिभासेऽपि, इत्यर्थमौपम्यं कटाक्षयितुम् 'इदम- द्वैतमित्यपि' इत्युपात्तम् ॥१८॥ ननु बाह्योऽर्थः प्रकाशमानत्वात्प्रकाशात्मैव इत्या- स्ताम्, अन्योन्यं पुनरस्य भेदे किमायातम, इत्याप- तितमेव द्वैतम् ? इत्याशङ्क्याह पं० १३ क० पु० इत्युक्तमौपम्यमिति पाठः । पं० १६ क० पु० किमिदमापतितमिति पाठः ।
श्लोक १६ ] द्वितीयमाह्निकम् । १५ अस्यां भूमौ सुखं दुःखं बन्धो मोक्षश्चितिर्जडः । घटकुम्भवदेकार्थाः शब्दास्तेऽप्येकमेव च ॥१६॥ अस्यां भूमाविति - परमाद्वयदशायामित्यर्थः, 'एकार्था' इति - एकः प्रकाश एवार्थोऽभिधेयो येषां ते तथा, सुखदुःखादीनां हि प्रकाशातिरेकेण प्राति- स्विकं नियतं किंचन रूपं यदि स्यात् तदैवं संभाव- नापि भवेदिति भावः, अत एव 'घटो मदात्मना वेत्ति वेद्म्यहं च घटात्मना।' इत्यादिरन्यैरुक्तम् । ननु यद्येवं तर्हि तदभिधाय- कत्वशब्दाभिप्रायेणापि द्वैतं स्यात् ? इत्याह 'शब्दा- स्तेऽप्येकमेव च' इत, एकमिति - संवेद्यमानत्वात्सं- वेदनमेवेत्यर्थः ॥१६॥ ननु यदि नीलसुखादि प्रकाशमानत्वात्प्रकाश एव तर्हि तत्केन रूपेण प्रकाशते ? इत्याशंक्याह पं० ६ क० पु० प्रकाशरूपोऽर्थोभिधेय इति पाठः । पं० ७ क० पु० प्रकाशव्यतिरेकेणेति पाठः । पं० १५ क० पु० नीलप्रकाशादि इति पाठः ।
प्रकाशे ह्यप्रकाशांशः
१६ श्रीमत्तन्त्रालोकः । प्रकाशे ह्यप्रकाशांशः कथं नाम प्रकाशताम् । प्रकाशमाने तस्मिन्वा तद्द्वैतास्तस्य लोपिताः ॥२०॥ अप्रकाशेऽथ तस्मिन्वा वस्तुता कथमुच्यते ॥ न प्रकाशविशेषत्व- मत एवोपपद्यते ॥२१॥ अप्रकाशांश इति-सुखादिजडोऽर्थः, कथं नामेति- केन रूपेणेत्यर्थः, तत्र यदि प्रकाशात्मनैव प्रका- शते तत्तस्य नीलसुखादेः स्वभावस्य दोषः स्यात्- नियतेन नीलत्वादिना बाह्येन रूपेण न भायात्प्रकाश एव शिष्येत इति यावत्, अथ अप्रकाशात्मना नियते- नैव रूपेण प्रकाशते तत्तस्य सत्तानिश्चय एव न भवेत्, नहि प्रकाशमन्तरेण नीलादीनां कदाचिदपि स्वरूपं दृष्टम्, 'अप्रकाशात्मना रूपेण प्रकाशते' इति वाचो- युक्तिश्च रिक्ता स्यात्, तदाह 'अप्रकाश' इत्यादि पं० ४ ख० पु० तत्र लोपत इति पाठः । पं० १६ ग० पु० अप्रथात्मरूपेणेति पाठः ।
प्रकाशः पुनर्नीलादिपरिहारेणानीलादावपि प्रकाशते,
श्लोक २१ ] द्वितीयमाह्निकम् । १७ प्रकाशः पुनर्नीलादिपरिहारेणानीलादावपि प्रकाशते, नीलादिर्हि उपाधिः, स च स्वस्वातन्त्र्यविजृम्भामा- त्ररूपत्वान्न वास्तवः, इत्यखण्ड एक एव प्रकाश उज्जृ- म्भते, यन्महिम्नैव इदं तत्तन्नीलाद्याभासात्म विश्वं स्फुरेत्, अत एवाह 'न प्रकाशविशेषत्वमुपपद्यते' इति, अत इति - एकस्यैव अखण्डस्य प्रकाशस्य तत्तदा- भासात्मना स्फुरणात् । ननु 'नीलप्रकाशोऽन्यः, पीत- प्रकाशश्चान्य' इत्यादिरस्त्येव एषां भेदः, इति किमुक्तं 'न प्रकाशविशेषत्वमुपपद्यते' इति? नैतत् - औपाधिको ह्ययं भेदः, स च न वास्तवः - इत्युपपादितं बहुशः, नीलादयो हि प्रकाशत्वात्प्रकाशात्मका एव इति किं केन भेद्यम्, नहि स्वात्मनैव स्वात्मा भिद्यते इत्येत- दुक्तम् 'न च प्रकाशैकरूपायां संविदि संविद्न्तरमस्ति' एवं हि स्वरूपभेदकृते भेदव्यवहारे क्रियमाणे एकभेद- पं० ४ क० पु० महिम्ना तत्तन्नीलानीलाभास इति पाठः । पं० १० क० पु० स एव वास्तव इति पाठः । पं० १२ क० पु० भेद्यते इत्येतद्युक्तमिति पाठः । पं० १३ क० पु० अस्ति ते एवमिति पाठः । पं० १४ क० पु० भेदवृते इति पाठः । ३
प्रकाशरूपत्वमेवोक्तं भवेत् इति गजस्नानतुल्यत्वं
१८ : श्रीतन्त्रालोकः । प्रकाशरूपत्वमेवोक्तं भवेत् इति गजस्नानतुल्यत्वं स्यात्, ततश्च पुनरपि 'एकैवाखण्डवित्' इत्येव पर्यव- स्येत्, एवं च देशकालावपि प्रकाशदशामेवाधिशयानौ प्रकाश्यत्वात्प्रकाशैकात्म्यमेवावगाहमानौ कथंकारं प्रकाशस्य भेदाधायकौ स्याताम्, प्रकाशातिरेकाभ्यु- पगमे वा अनयोरत्र नित्यत्वव्यापकत्वाभ्या भेदाधाने- ऽसामर्थ्यम्, इत्येक एवाखण्डः प्रकाशः, इति - मता- न्तरसिद्धिमभिवाञ्छन्तः परे परं निरस्ताः ॥२१॥ तदाह अत एकप्रकाशोऽय- मिति वादेऽत्र सुस्थिते । दूरादावारिताः सत्यं विभिन्नज्ञानवादिनः ॥२२॥ ननु यदि ज्ञानानि विभिन्नानि न संभवन्ति, तत् एकशब्दः किमपोहनायात्र प्रयुक्तः ? इत्याशंक्याह
पं० ६ क० पु० नित्यव्यापकाभ्यां भेदादावसामर्थ्यमिति पाठः । पं० ७ क० पु० इति सत्यानन्तरसिद्धिमिच्छन्तः परमिति पाठः ।
प्रकाशमात्रमुदित-
श्लोक २४ ] द्वितीयमाह्निकम् । १६ प्रकाशमात्रमुदित- मप्रकाशनिषेधनात् । एकशब्दस्य न त्वर्थः संख्या चिद्व्यक्तिभेदभाक् ॥२३॥ अप्रकाशः – प्रकाश्यो नीलादिर्बाह्योऽर्थस्तावन्नि- षिद्धः, अतः 'प्रकाशः केवलोऽस्ति' इत्येकशब्दस्या- त्रासहायाद्वृत्तिः, तदुक्तं 'एकशब्दस्यार्थः प्रकाशमा- त्रमुदितम्' इति, न पुनः प्रकाशभेदभाक् इत्येकद्वि- त्र्यादिलक्षणः संख्यार्थो, येन – मतान्तराण्यप्यपो- ह्यतया संभावनीयानि स्युः ॥२३॥ अत एवात्र भेदागूरकं व्यवहारमात्रमपि न ज्ञायते, इत्याह नैष शक्तिर्महादेवी न परत्राश्रितो यतः । पं० ३ क० पु० नन्वर्थ इति पाठः । पं० ६ क० पु० एकशब्दस्यासहाया वृत्तिरिति पाठः । पं० ७ ख० पु० शब्दस्यार्थः प्रकाशमानं तदितरदितरदिति न पुनरिति पाठः । पं० ८ क० पु० एकद्वित्वादिलक्षणसत्तानन्तराख्यान्यापोहतयेति पाठः ।
२० श्रीतन्त्रालोकः । न चैष शक्तिमान्देवो न कस्याप्याश्रयो यतः ॥२४॥ नैष ध्येयो ध्यात्रभावा- न्न ध्याता ध्येयवर्जनात् । न पूज्यः पूजकाभावा- त्पूज्याभावान्न पूजकः ॥२५॥ न मन्त्रो न च मन्त्र्योऽसौ न च मन्त्रयिता प्रभुः । न दीक्षा दीक्षको वापि न दीक्षावान्महेश्वरः ॥२६॥ एष इति - व्याख्यातस्वरूपः परः प्रकाशः, शक्ति- शक्तिमदादयो हि शब्दाः संबन्धिशब्दत्वान्नित्यसा- पेक्षाः इत्यन्यागूरणमन्तरेण स्वार्थ एव विश्रान्तिं लभन्ते, इति तैः क्रियमाणो व्यवहारो भेदनिष्ठ एव स्यात्, न चात्र परप्रमात्रेकात्मनि प्रकाशे भेदः कश्चिदस्ति, इत्येवं - व्यवहारमात्रतां कदाचिदपि स पं० ५ क० पु० न पूजा पूजकेति पाठः ।